श्रीदेव्युवाच ॥
भगवञ्छ्रोतुमिच्छामि कल्पे कस्मिन्भवन्ति वै ॥
दशावताराः श्रीविष्णोस्तान्समस्तान्वद प्रभो ॥ १ ॥
श्रीशङ्कर उवाच ॥
एकत्र भाव उत्पन्नो मत्स्यो वै कल्प आदिमे ॥
तस्य मन्त्रम्प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकम् ॥ २ ॥
तारो 1 नमो भगवते मं मत्स्याय रमां वदेत् ॥
द्वादशाक्षरमन्त्रोयं मुनिर्ब्रह्मा समीरितः ॥ ३ ॥
गायत्रं छन्द उद्दिष्टं देवता मीनविग्रहः ॥
भगवान्स रमानाथो बीजं श्रीं मं च कीलकम् ॥ ४ ॥
नात्यघोरो हि न सम आकण्ठं वा नराकृतिः ॥
घनश्यामश्चतुर्बाहुः शङ्खचक्रगदाधरः ॥ ५ ॥
शृङ्गिमत्स्यनिभो मूर्धा लक्ष्मीर्वक्षसिसि राजते ॥
पद्मचिह्नितसर्वाङ्गः सुन्दरश्चारुलोचनः ॥ ६ ॥
जपेद् द्वादशसाहस्रं त्रिमध्वक्तैस्तिलैर्हुनेत् ॥
प्रत्यहं तद्दशांशेन वैशाखे कार्तिके तथा ॥ ७ ॥
माघे च मार्गशीर्षे च हविष्याशी जितेन्द्रियः ॥
आरभ्य भाद्रबहुलामष्टमीं षोडशाहकम् ॥ ८ ॥
लक्ष्मीमनुं जपेन्नित्यं त्विमं वापि कलाशतम् ॥
तथैव होमः कर्तव्यस्तथान्यदिवसेषु तु ॥ ९ ॥
तर्पयेद् द्वादशशतं तिलतण्डुलचन्दनैः ॥
आद्यन्तयोः शतान्यष्टौ तर्पयेच्च तथा श्रियम् ॥ १० ॥
रक्तोत्पलैर्वा पद्मैर्वा मालत्यादिसुगन्धिभिः ॥
एवं कृते चैकवर्षान्मन्त्रसिद्धिः प्रजायते ॥ ११ ॥
नित्यं द्वादशविप्रांश्च श्रीरूपां च सुवासिनीम् ॥
भोजयेत्पूजनं चास्य चरेत्तोयाशये सदा ॥ १२ ॥
षट्पत्रकर्णिकायान्तु श्रीयुतं देवमर्चयेत् ॥
षट्पत्रेषु षडङ्गानि यजेद्बाह्यचतुर्दले ॥ १३ ॥
मण्डूकं मकरं कूर्मं शिशुमारं च पूर्वतः ॥
तद्बाह्यगदले पूज्याः क्षीराद्याः सप्तसिन्धवः ॥ १४ ॥
तद्बाह्येष्टदले पूज्या वासुक्याद्याः फणीश्वराः ॥
तस्य बाह्ये शक्रदले रत्नानि तु चतुर्दश ॥ १५ ॥
समुद्रजानि पूज्यानि लक्ष्मीकौस्तुभकानि च ॥
गङ्गाद्याः षोडश ततो पूजयेच्च महापगाः ॥ १६ ॥
ततश्चाष्टदले वेदानुपवेदसमन्वितान् ॥
दिगीशांश्च तदस्त्राणि नवावरणपूजनम् ॥ १७ ॥
एवं सिद्धमनुर्मन्त्री जायते सिद्धिभाजनम् ॥
एतं सुसंस्कृतं मन्त्रञ्जपेदष्टोत्तरं शतम् ॥ १८ ॥
तद्देवतादिने सिद्धः पुस्तकादेव जायते ॥
अकुण्ठितः प्रयोगेण न पुनस्तस्य संस्कृतिः ॥ १९ ॥
एतत्पल्लविता मन्त्रामम सिध्यन्ति पार्वति ॥
एतत्सम्पुटिताः सर्वे वैदिकाः सिद्धिदाः कलौ ॥ २० ॥
अनेन ग्रथिता जप्ताः कौलेषु द्रुतसिद्धिदाः ॥
गाणेशा वैष्णवाः सौराः सिद्धिं दद्युर्विदर्भिताः ॥ २१ ॥
यद्बलात्सर्वमन्त्राणां स्वयं सिद्धिः प्रजायते ॥
तस्मात्प्रोक्तो नान्यतन्त्रे मेरुतन्त्रे प्रकाशितः ॥ २२ ॥
अथातः सम्प्रवक्ष्यामि कुर्ममन्त्रम्महाद्भुतम् ॥
एकः कूर्मावतारोभून्मथ्यमाने महोदधौ ॥ २३ ॥
तारो 2 नमो भगवते कुं कूर्माय धराधर ॥
धुरन्धराय नत्यन्तः सिद्धवर्णो मनुः स्मृतः ॥ २४ ॥
प्रकृतिश्छन्द उद्दिष्टं कश्यपोस्य मुनिर्मतः ॥
देवता भगवान्विष्णुर्जातः कच्छपरूपधृक् ॥ २५ ॥
धराधरेत्यादिशक्तिः कुं बीजं स्वेष्टसिद्धये ॥
नियोगो देवताध्यानं शङ्खचक्रगदाधरम् ॥ २६ ॥
पीताम्बरं कूर्मपृष्ठं लसल्लाङ्गूलशोभितम् ॥
दीर्घग्रीवं महाग्राहं गिरन्तं रक्तलोचनम् ॥ २७ ॥
मन्त्रवर्णैः षडङ्गानि जपो लक्षचतुष्टयम् ॥
आज्यहोमस्तर्पणन्तु चन्दनोत्पलवारिभिः ॥ २८ ॥
कर्णिकायां यजेत्कूर्मं दिग्गजांश्च दिगष्टके ॥
तद्बाह्ये तु चतुर्दिक्षु मदनं बभ्रुकं 3 हरिम् ॥ २९ ॥
महेश्वरं च तद्बाह्ये यजेदष्टदले पुनः ॥
धरां शेषं क्षीरनिधिं मण्डूकं देवताद्रुमम् ॥ ३० ॥
चिन्तामणिं कामधेनुं सुमेरुं च दिगीश्वरान् ॥
भूपुरे तस्य बाह्ये तु हेतयो वा समीरिताः ॥ ३१ ॥
एवं सिद्धमनुर्मन्त्री प्रयोगान्कर्तुमर्हति ॥
श्मशाने कूर्मचक्रस्य शत्रुनामादिवर्गतः ॥ ३२ ॥
अष्टम्यां च चतुर्दश्यां भौमे क्रूरोग्रमे तथा ॥
राजिकाप्रतिमां कुर्याच्छत्रुपांशुसमन्विताम् ॥ ३३ ॥
अष्टोत्तरशताङ्गानि तत्तैलाक्तानि होमयेत् ॥
आदौ वामं ततो दक्षं स्त्रिया चैतद्विपर्ययात् ॥ ३४ ॥
पादाङ्गुलीनां दशकं प्रपदौ पादमध्यके ॥
पार्ष्णिगुल्फकजङ्घोरुयुगं सक्थियुगं तथा ॥ ३५ ॥
आदौ लिङ्गगुदौ स्फिक्के बस्तिर्नाभिस्तथोदरम् ॥
कटित्रिकं च हृदयं हुनेत्पार्श्वद्वयं ततः ॥ ३६ ॥
दशाङ्गुल्यश्च करभगोत्रद्रव्यायुषा तथा ॥
रेखास्थानानि चोच्चार्य मणिबन्धप्रकोष्ठकौ ॥ ३७ ॥
कूर्परौ तु भुजौ कक्षौ स्तनौ वक्षःस्थलं गलम् ॥
हनुद्वयं तथा चोष्ठौ चोर्ध्वाधःस्थं रदद्वयम् ॥ ३८ ॥
अश्रुकूर्चं तथा नासां कपोलौ गण्डशङ्खकौ ॥
नेत्रे भ्रूमध्यकं भालं ब्रह्मरन्ध्रमिति क्रमात् ॥ ३९ ॥
एवं कृते त्रिसप्ताहाद्याति शत्रुर्यमालयम् ॥
न ब्राह्मणे प्रयोक्तव्या यतोसौ विष्णुदैवतम् ॥ ४० ॥
अङ्कोलफलपिष्टेन कृत्येयं मोहकारिणी ॥
हरिद्रया कृतं चेदं स्तम्भयेदखिलं जगत् ॥ ४१ ॥
विद्वेषे रक्तसंयुक्तपादधूपादितो भवेत् ॥
श्मशानस्य मृदोच्चाटे गोधूमैर्वश्यता भवेत् ॥ ४२ ॥
सहस्रमयुतं वापि लक्षं कार्यानुसारतः ॥
सत्कार्ये प्रजपेन्मन्त्रं सिद्धिः स्यान्नात्र संशयः ॥ ४३ ॥
अथातः सम्प्रवक्ष्यामि वराहस्य मनूञ्च्छुभान् ॥
कल्पजाताश्चतुर्वर्णा अवतारा रमापतेः ॥ ४४ ॥
तारो नमो भगवते वराहेति च संवदेत् ॥
रूपाय भूर्भुवः सुवः पतये भूपतीति च ॥ ४५ ॥
त्वं मे देहि दापयेति स्वाहान्तः सुरवर्णकः ॥
ऋष्याद्या भार्गवानुष्टुब्वराहाः परिकीर्तिताः ॥ ४६ ॥
पञ्चाङ्गान्येकशृङ्गाय नमश्चोक्त्वा हृदि न्यसेत् ॥
मांव्योल्काय नमःशीर्षे तेजोधिपतये नमः ॥ ४७ ॥
शिखाया कवचं तस्य विश्वरूपाय वै नमः ॥
महादंष्ट्राय च नमोस्त्रमेतत्पल्लवान्वितम् ॥ ४८ ॥
सप्तषट्सप्तपञ्चाष्टमूलार्णैश्च पुनश्चरेत् ॥
न्यासः केशवमात्राख्यो न्यासो नित्यस्तु वैष्णवे ॥ ४९ ॥
पादाग्राज्जानुपर्यन्तं स्वर्णाभं च ततः स्मरेत् ॥
आनाभिकर्पूरनिभं नाभितस्तु गलावधि ॥ ५० ॥
अग्निवर्णं मस्तके च पूर्णचन्द्रसमद्युतिम् ॥
शङ्खारिखड्गांश्च गदां वरशक्ती तथैव च ॥ ५१ ॥
अभयं दंष्ट्रया क्षोणीं दधतं श्वसनेऽनिलम् ॥
वागीशां हुङ्कृतौ बाह्वोश्चन्द्रसूर्यौ शिवं मुखे ॥ ५२ ॥
पद्ममष्टदलं कृत्वा मध्ये देवं समर्चयेत् ॥
दंष्ट्रायां तस्य वसुधां दिक्पत्रेषु यजेत्क्रमात् ॥ ५३ ॥
ईशानपूर्वयोर्मध्ये पञ्चाङ्गानि विदिक्षु च ॥
पुनः कोणेषु पूज्यानि रक्षःप्राच्यन्तरान्तिमम् ॥ ५४ ॥
दलाग्रेषु क्रमाच्चक्रं शङ्खं खड्गं च खेटकम् ॥
गदा शक्तिं वरं चैव चापं बाह्येषु दिक्पितीन् ॥ ५५ ॥
भूपुरेथ तदस्त्राणि पूजाक्रम इतीरितः ॥
लक्षं जपेच्च पद्मानि स्वाद्वक्तानि च होमयेत् ॥ ५६ ॥
तर्पणादि ततः कुर्यान्मन्त्रसिद्धिः प्रजायते ॥
अथास्यान्यप्रकारेण पुरश्चरणमुच्यते ॥ ५७ ॥
बिल्ववृक्षस्य सान्निध्ये जपेन्माससहस्रकम् ॥
दशांशं जुहुयादग्नौ पुरश्चरणवान्भवेत् ॥ ५८ ॥
अर्थो ध्यानाज्जपाद्भूमिर्जपपूजाहुतिव्रतैः ॥
धनधान्यधरालक्ष्म्यो भवन्त्यत्र न संशयः ॥ ५९ ॥
भूमण्डले सदा ध्यातः प्रयच्छति कुले शुभम् ॥
वारुणे मृत्युतः शान्तिराग्नेये ज्वरवश्यता ॥ ६० ॥
वायुमण्डल उच्चाटे खे भूतग्रहरक्षणम् ॥
अथातः सम्प्रवक्ष्यामि मण्डलध्यानमद्भूतम् ॥ ६१ ॥
चतुष्कोणं पीतवर्णं मध्ये लम्बीजसंयुतम् ॥
नन्द्यावर्तांश्च कोणेषु चिन्तयेद्भुमिमण्डलम् ॥ ६२ ॥
कुक्कुटाण्डसमाकारमर्धचन्द्रनिभन्तथा ॥
वारुणं मण्डलं श्वेतं मध्ये वम्बीजलाञ्छितम् ॥ ६३ ॥
रक्तवर्णं त्रिकोणं च मध्ये रम्बीजमत्रहि ॥
तैजसं मण्डलं प्रोक्तं ध्येयं भावुकसत्तमैः ॥ ६४ ॥
यम्बीजसंयुतं मध्ये वृत्तं षड्बिन्दुलाञ्छितम् ॥
समीरमण्डलं धूम्रवर्णं ध्येयं सदा जनैः ॥ ६५ ॥
आकाशमण्डलं वृत्तं मध्ये हम्बीजसंयुतम् ॥
नीलवर्णं महाशून्यमनाहतरवं स्मरेत् ॥ ६६ ॥
सिंहगे शुक्लपक्षे हि रवौ श्वेतशिलां शुभाम् ॥
पञ्चगव्यपरिक्षिप्तां जपितामयुतेन च ॥ ६७ ॥
उदङ्मुखो जपेन्मन्त्रं क्षेत्रे तां निखनेत्पुनः ॥
शत्रूणां सन्निरोधो हि क्षेत्रं चास्य विनश्यति ॥ ६८ ॥
अर्कोदयेङ्गारवारे जपेन्मन्त्रं समाहितः ॥
वैरिरुद्धादपि क्षेत्रान्मृदमानीय यत्नतः ॥ ६९ ॥
तां च त्रिधा विभज्यात्र चुल्लमेकं विलिप्य च ॥
पाकपान्त्रं द्वितीयं च पयस्यन्ने तथापरम् ॥ ७० ॥
संस्कृते हव्यवाहे च तण्डुलैश्च पचेच्चरुम् ॥
तत्र देवं यथावच्च धूपदीपादिभिर्यजेत् ॥ ७१ ॥
साज्येन तेन हविषा हुनेदष्टाधिकं शतम् ॥
एवं भौमाष्टवारेषु कुर्यान्नियतधीः क्रमात् ॥ ७२ ॥
ततः शत्रुगृहीतं तत्क्षेत्रं सम्प्राप्यतेचिरात् ॥
अह्नो मुखे भौमवारे मृदं सङ्गृह्य पूर्ववत् ॥ ७३ ॥
पूर्ववच्च चरुं कृत्वा जुहुयात्प्रोक्तवर्त्मना ॥
बलिं च दद्यात्क्षेत्रस्य विरोधो नश्यति क्षणात् ॥ ७४ ॥
देवस्य हुतशेषेण बलिदानमिहोदितम् ॥
सप्तभिर्दिवसैश्चात्र डाकिनीविकृतिं हरेत् ॥ ७५ ॥
तामेव मृत्तिकां दुग्धे विलोड्याज्येन संहुनेत् ॥
अष्टाधिकशतं मन्त्री शालिभिर्द्विनिशं सुधीः ॥ ७६ ॥
तत्तु संवत्सरात्पूर्णं शालिभिश्च गृहं भवेत् ॥
अनेन जुहुयादाज्यं सहस्रं प्रत्यहं नरः ॥ ७७ ॥
तेन सर्वसमृद्धिः स्यादञ्जूल्याश्च 4 प्रसूनकैः ॥
सहस्रं स्वादुसंयुक्तैर्वाससां सिद्धिरुच्यते ॥ ७८ ॥
लाजहोमाच्च कन्याप्तिर्बिल्वजैः श्रीर्भवत्यलम् ॥
जिनादिक्षेत्रमासाद्य वादिनः प्रजयेत्सदा ॥ ७९ ॥
तत्रासीनो जपेन्मन्त्रं चाष्टोत्तरसहस्रकम् ॥
एवं कृते ततस्तस्य भूमिवादो विनश्यति ॥ ८० ॥
स्वात्मानं मेरुसदृशं कोलरूपं विचिन्तयेत् ॥
अङ्गारवारे प्रजपेत्क्षेत्रं कुर्यात्प्रदक्षिणम् ॥ ८१ ॥
ततो मृदं प्रगृह्णीयात्स्वस्य क्षेत्रं क्षिपेच्च ताम् ॥
नित्यं भूमिं स्पृशन्मन्त्री जपेदष्टसहस्रकम् ॥
विन्दते महतीं लक्ष्मीं शमयेत्सर्वकण्टकान् ॥ ८२ ॥
प्रतिष्ठाभूमिकामस्तु भृगौ भौमेधिकं जपेत् ॥
नित्यमष्टसहस्रं च यो जपेद्धरिमर्चयन् ॥
महतीं श्रियमाप्नोति महाराजो भवत्यलम् ॥ ८३ ॥
लक्षं होमो जपान्ते स्याद्द्रव्यैश्चैव सपायसैः ॥
सप्तद्वीपानवाप्नोति नात्र कार्या विचारणा ॥ ८४ ॥
दधिमध्वाज्यसिक्ताश्च चतुरङ्गुलसम्मिताः ॥
गुडूचीरष्टसाहस्रं हुनेद् व्याधिर्विनश्यति ॥
आम्रपर्णैर्हुतेनित्यं ज्वरशान्तिः प्रजायते ॥ ८५ ॥
गृहीत्वा हस्तयोर्नीरं जपेदक्षरसङ्ख्यया ॥
मुखप्रक्षालनं कृत्वा मुखश्रीस्तस्य वर्द्धते ॥
एवम्प्रोक्तो वराहस्य मनुः सर्वार्थसिद्धिदः ॥ ८६ ॥
अथातः सम्प्रवक्ष्यामि वराहाष्टाक्षरम्परम् ॥
ॐ भूर्वराहाय नमो मुनिर्ब्रह्मा समीरितः ॥ ८७ ॥
जगती छन्द उद्दिष्टं वराहो देवता स्मृतः ॥
पदैः समस्तमन्त्रेण पञ्चाङ्गानि प्रकल्पयेत् ॥ ८८ ॥
कृष्णाङ्गं नीलवस्त्रं च मलिनम्पद्मसंस्थितम् ॥
पृथ्वीशक्तियुतं ध्यायेच्छङ्खचक्राम्बुजं 5 गदाम् ॥ ८९ ॥
भूलक्ष्मीकान्तिभिश्चैव समस्तैः परिवारितम् ॥
चर्मासिमद्भिश्च कलौ द्रुतसिद्धिप्रदायकम् ॥ ९० ॥
जपपूजादिकं सर्वमस्य पूर्ववदाचरेत् ॥
एवम्मनुं यः प्रभजेत्स भवेच्च धरापतिः ॥ ९१ ॥
इमित्येकाक्षरो मन्त्रो वराहस्यप्रकीर्तितः ॥
हयग्रीवो मुनिः प्रोक्तश्छन्दोनुष्टुप् च देवता ॥ ९२ ॥
वराहो दीर्घयुक्तेन बीजेनैवाङ्गकल्पनम् ॥
प्राग्वद्ध्यायेद्रक्तवर्णं पूजाद्यं पूर्ववद्भवेत् ॥ ९३ ॥
भूरित्येकाक्षरं बीजं सर्वं प्राग्वत्समीरितम् ॥
पीतवर्णं सदाध्यायेद्द्वापरे द्रुतसिद्धिदम् ॥ ९४ ॥
एषाञ्चतुर्णां शक्तिस्तु पृथिवी परिकीर्तिता ॥
क्रमाद्वक्ष्ये हि तन्मन्त्रान्वराहस्य प्रियानति ॥ ९५ ॥
ॐ नमो भगवत्यै च धरण्यै धरणीधरा ॥
धृषे स्वाहेति मन्त्रोयमूनविंशतिवर्णकः ॥ ९६ ॥
धराहृदयमन्त्रोयं भूपतित्वप्रदायकः ॥
मुनिर्वराहोस्य निवृच्छन्दो देवी धरा मता ॥
त्र्यब्धित्रीषुद्विद्विवर्णैः षडङ्गविधिरीरितः ॥ ९७ ॥
इन्दीवरयुतां शालिमञ्जरीं दधतीं शुकम् ॥
धराम्पद्मासनां ध्यायेन्नानाभूषणभूषिताम् ॥ ९८ ॥
पूजा तु वैष्णवे पीठे पूर्वमङ्गानि पूजयेत् ॥
ततो यजेदष्टदले पूर्वतः कुं च भूकलाः ॥ ९९ ॥
वह्निं वह्निकलाश्चैव तोयं सूर्यं च तत्कलाः ॥
इन्द्रादींश्चापि वज्रादीनिति पूजाविधिः स्मृतः ॥ १०० ॥
लक्षञ्जपेत्प्रजुहुयाद् घृतसिक्तौदनेन च ॥
तर्पणं मार्जनं कुर्याद्विप्राणां तर्पणन्तथा ॥
विधिना तेन संसिद्धे मनौ काम्यानि कारयेत् ॥ १०१ ॥
रक्तोत्पलानि जुहुयात्स्वाद्वक्तानि सहस्रकम् ॥
इष्टां भुवमवाप्नोति तद्वन्नीलोत्पलैर्हुनेत् ॥ १०२ ॥
प्रियङ्गुपुष्पहोमेन मधुराक्तेन मन्त्रवित् ॥
बहुधान्यधराश्रीणां सत्यम्भवति भाजनम् ॥ १०३ ॥
मधुरार्द्रतरां हुत्वा नूतनां शालिमञ्जरीम् ॥
धरापतिर्भवेन्मन्त्री मण्डलेन न संशयः ॥ १०४ ॥
प्रातर्भृगुदिने मन्त्री साध्यक्षेत्रान्मृदं हरेत् ॥
शुद्धतोये समालोड्य तां च तत्र पचेच्चरुम् ॥ १०५ ॥
अग्नौ दुग्धघृतात्यक्तं जुहुयात्तं यथाविधि ॥
मासषट्कं भृगोर्वारे ह्येवं कृत्वा लभेद्धराम् ॥ १०६ ॥
अथातः सम्प्रवक्ष्यामि धरामन्त्रं महाद्भुतम् ॥
ॐ-महीं 6 ग्लौं नमः प्रोच्य भगवत्यै पदं वदेत् ॥ १०७ ॥
धरायै धरणीं प्रोच्य धरेयुग्माग्निगेहिनीम् ॥
ग्लौं ह्रीं तारं समुच्चार्य चतुर्विंशाक्षरो मनुः ॥ १०८ ॥
चतुर्वर्णैः षडङ्गानि ध्यानादि पूर्ववन्मतम् ॥
एष उक्तस्तु वाराहो मन्त्रः सिद्धोखिलेष्टदः ॥ १०९ ॥
ग्लौमित्येकाक्षरो मन्त्रः प्राग्वत्पूजादिकम्भवेत् ॥
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ॥ ११० ॥
लमित्येकाक्षरं बीजं सर्वाभीष्टप्रदायकम् ॥
सर्वं प्राग्वत्षडङ्गानि दीर्घषट्कान्वितेन च ॥ १११ ॥
अथातः सम्प्रवक्ष्यामि नृसिंहस्य मनून्द्रुतम् ॥
प्रतिमन्वन्तरं वायमवतारो हरेर्भवेत् ॥ ११२ ॥
द्वीपान्तरे नृसिंहस्तु चतुर्दशसु मूर्तिषु ॥
आकल्पं विद्यते तत्र भक्तानुग्रहकारकः ॥ ११३ ॥
आदिमन्वन्तरे जातो नृसिंहो वक्ष्यतेधुना ॥
द्वात्रिंशदर्णको गोप्यो भुक्तिमुक्तिप्रदो मतः ॥ ११४ ॥
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ॥
नृसिंहं भीषणं रुद्रम्? मृत्युमृत्युं नमाम्यहम् ॥ ११५ ॥
ब्रह्मा मुनिरनुष्टुप् चच्छन्दोस्ति नृहरिः सुरः ॥
मन्त्रस्य तु पदैश्चैव प्रणवेनाङ्गपञ्चकम् ॥
प्रथमो न्यास उद्दिष्टः सर्वाभीष्टप्रदायकः ॥ ११६ ॥
वेदवेदार्णषट्षट्कवेदार्णैः स्यात्षडङ्गकम् ॥
षडङ्गाख्यो द्वितीयोयमङ्गन्यास उदाहृतः ॥ ११७ ॥
शीर्षे भाले दक्षनेत्रे वामनेत्रे मुखे क्रमात् ॥
दक्षिणे बाहुमूले च तन्मध्ये मणिबन्धके ॥ ११८ ॥
दक्षाङ्गुलीनां मूले च तदग्रे वामगे भुजे ॥
तन्मध्ये मणिबन्धे चाङ्गुलीमूले तदन्तके ॥ ११९ ॥
दक्षोरुजानुगुल्फेषु चाङ्गुलीमूलकेग्रके ॥
कण्ठे हृदि तथा नाभौ दक्षपार्श्वे च वामके ॥ १२० ॥
पृष्ठे ककुदि मन्त्रस्य न्यसेद्वर्णान्भयापहान् ॥
तृतीयो न्यास उदितः साक्षाद्देवमयो भवेत् ॥ १२१ ॥
दक्षाङ्गुष्ठं समारभ्य कनिष्ठान्तन्त्रिपर्वसु ॥
वामां कनिष्ठामारभ्य वामाङ्गुष्ठावधि न्यसेत् ॥ १२२ ॥
एवं दक्षकरतले वामेपि करजं हरेत् ॥
पातकं तुर्य उदितो न्यास्ॐगुल्यादिकः परः ॥ १२३ ॥
ब्रह्मरन्ध्रे च शिरसि भाले भ्रमध्यके ततः ॥
नयने नयनाधश्च कपोले कर्णमूलके ॥ १२४ ॥
दन्तपङ्क्तौ च चिबुके उत्तरोष्ठेऽधरोष्ठके ॥
कण्ठे नाभौ भुजे दक्षे वामे च हृदये स्तने ॥ १२५ ॥
एवं दक्षकरतले वामे वापि कटौ ततः ॥
लिङ्गे चोरौ तथा जानौ जङ्घायां चापि गुह्यके ॥ १२६ ॥
पादाङ्गुलीषु सर्वासु तथा हस्ताङ्गुलीषु च ॥
सर्वाङ्गे रोमकूपेषु रक्तहृत्पललास्थिषु ॥ १२७ ॥
मज्जाशुक्रे क्रमाद्वर्णान्मन्त्रस्यैकैकशो न्यसेत् ॥
अयन्तु पञ्चमो न्यासः सर्वारिष्टनिवारकः ॥ १२८ ॥
पादयोर्गुल्फयोश्चैव जङ्घयोर्जानुनोस्तथा ॥
ऊर्वोः कटिद्वये नाभौ हृहि बाह्वोस्तथा गले ॥ १२९ ॥
चिबुके दन्तपङ्क्त्योश्चौष्ठाग्रयोश्च कपोलयोः ॥
कर्णयोर्वदने नासाद्वयेक्ष्नोश्चापि मूर्द्धनि ॥
पादादिवर्णन्यासोयं पञ्चमः परिकीर्त्तितः ॥१३० ॥
मनोभवबलाकर्षी नृहरेरतिवल्लभः ॥
मुखे मूर्द्धनि नासायां नेत्रे श्रोत्रे तथा मुखे ॥
हृदि नाभौ कटौ जान्वोः पादयोः क्रमतो न्यसेत् ॥ १३१ ॥
षष्ठोयन्तु पदन्यासो भुक्तिमुक्तिप्रदायकः ॥
अस्मिन्न्यासे कृते देहे रोगैः स्थातुं न शक्यते ॥ १३२ ॥
नासाग्रे नयनद्वन्द्वे नाभौ हृदि च मूर्द्धनि ॥
बाह्वोश्चरणयोर्न्यस्येन्मन्त्रार्णानाचतुष्ककम् ॥ १३३ ॥
सप्तमोयं न्यास उक्तश्चतुर्वर्णात्मको हरेः ॥
धर्मार्थकाममोक्षाणां दायको नात्र संशयः ॥ १३४ ॥
मूर्ध्नि वक्षसि नाभौ च सर्वाङ्गे वा प्रवेशयेत् ॥
पादन्यासोष्टमश्चायं सिंहव्याघ्रभयापहः ॥ १३५ ॥
पादतो हृदयाच्चापि न्यसेदर्धद्वयं मनोः ॥
अर्द्धन्यासोयमुदितो नवमोघसमूहहृत् ॥ १३६ ॥
उग्रादिपदमाभाष्य द्वितीयान्ते नमाम्यहम् ॥
अन्ते ब्रूयान्नवस्थाने न्यसेदास्ये च मस्तके ॥ १३७ ॥
नासायां नेत्रयोः श्रोत्रे ब्रह्मरन्ध्रे तथा हृदि ॥
नाभौ कट्यादिपादान्तं न्यासोयं दशमः स्मृतः ॥ १३८ ॥
नृसिंहपूर्वाण्याभाष्य चोग्रादीनि पदानि च ॥
नमाम्यहं ततः प्रोच्य नवस्वङ्गेषु विन्यसेत् ॥ १३९ ॥
पूर्वोक्तेष्वेव डाकिन्यादिकभीतिहरो भवेत् ॥
अयमेकादशो न्यासो नृहरेरतिपावनः ॥ १४० ॥
उग्रादिकपदैरेवं पूर्वदत्तैर्भवेत्पुनः ॥
न्यासश्चाष्टविधोप्येवमूनविंशप्रकारकः ॥ १४१ ॥
आनाभिमूलाधाराच्च न्यसेद्वर्ण त्रयं बुधः ॥
नाभेर्हृदयपर्यन्तं न्यसेद्वर्णचतुष्टयम् ॥ १४२ ॥
हृदो भ्रूमध्यपर्यन्तं वर्णषट्कं प्रविन्यसेत् ॥
मूर्द्धादिपादपर्यन्तं चिन्तयेन्नृहरिं विभुम् ॥ १४३ ॥
एवं विंशतिरुद्दिष्टा न्यासानां पातकापहा ॥ १४४ ॥
यस्मान्नृसिंहो भगवान्पापं कृत्वास्य सेवके ॥
तत्कालं कुरुते कोपं विक्षिप्तं कुरुते जगत् ॥ १४५ ॥
तस्मादपरिहार्यैनमज्ञातानां तु पाप्मनाम् ॥
न्यासैर्भवति नाशोऽतः सर्वन्यासान्समाचरेत् ॥ १४६ ॥
वामेऽरिशङ्खा दक्षे तु जानुविन्यस्तबाहुकम् ॥
ग्रसन्तं दैत्यराजानं कृशानूपमतेजसा ॥ १४७ ॥
दंष्ट्राप्रदीप्तवदनं ललज्जिह्वं त्रिलोचनम् ॥
सुरैश्च मुनिभिर्लक्ष्म्या कृताञ्जलिकया शुभम् ॥ १४८ ॥
मूर्तिं मूलेन सङ्कल्प्य देवमावाह्य पूजयेत् ॥
वामाङ्गे नृहरेः पूज्या लक्ष्मीर्भूषणभूषिता ॥ १४९ ॥
वामे पद्मधरा दक्षबाहुना नृहरिं विभुम् ॥
आश्लिष्यन्ती शान्तिमूर्तिस्ततोङ्गानि प्रपूजयेत् ॥ १५० ॥
यजेदाशासु गरुडं शिवानन्तौ विधिं क्रमात् ॥
श्रियं ह्रियं धृतिं पुष्टिं तथा वह्निदिगादिषु ॥
तृतीयेष्टदले पूज्यं नृसिंहानान्तथाष्टकम् ॥ १५१ ॥
शङ्खिनञ्चक्रिणं स्वर्णं श्यामं वा शुभवाससम् ॥
नृसिंहस्तम्भनाख्यं तु श्वेतम्प्राच्यां समर्चयेत् ॥ १५२ ॥
सिन्दूरारुणमाग्नेये यजेद्वश्यनृसिंहकम् ॥
बाणचापधरं लक्ष्म्या सेवितम्मकरध्वजम् ॥ १५३ ॥
दक्षे यजेदब्जमालाशङ्खार्यसिगदाधरम् ॥
भिन्नदैत्यहृदं कृष्णं त्रिनेत्रं मारणक्षमम् ॥
विद्वेषोच्चाटनकरं नीलोत्पलसमप्रभम् ॥ १५४ ॥
वायवीये तथा कोणे शङ्खचक्रगदाधरम् ॥
विप्राणां पुष्टिदं नेत्रत्रितयालङ्कृताननम् ॥ १५५ ॥
उदग्दले नृसिंहं तं पाञ्चजन्यं सुदर्शनम् ॥
गदां निधिं च बिभ्राणं लक्ष्म्या युक्तं निधिप्रदम् ॥ १५६ ॥
विद्याभूतिमुदक्पूर्वे क्षीराभम्पीतवससम् ॥
पाशाङ्कुशस्फुरद्बाहुं शङ्खचक्रधरम्प्रभुम् ॥ १५७ ॥
हृत्सरोरुहमध्यस्थं चन्द्रपुञ्जसुनिर्मलम् ॥
लक्ष्म्या युक्तं नारसिंहं पूजयेत्साधकः सदा ॥ १५८ ॥
चक्रं शङ्खं महापद्मं मुसलं देवदक्षिणे ॥
शङ्खं खेटं गदां शार्ङ्गं पूजयेद्देववामतः ॥ १५९ ॥
चतुर्थावरणञ्चैतल्लक्ष्म्यादिभिरनन्तरम् ॥
लक्ष्मीदक्षिणतस्तुष्टिं वामे तत्रैव कौस्तुभम् ॥ १६० ॥
श्रीवत्सं दक्षिणे मध्ये वनमालां च पूजयेत् ॥
पीताम्बरं ब्रह्मसूत्रं नाभिपद्मं किरीटकम् ॥ १६१ ॥
भूषणानि च सर्वाणि पुरोभागे प्रपूजयेत् ॥
षष्ठीश्रद्धादिभिः श्रद्धा मेधा तुष्टिश्च कार्मुका ॥ १६२ ॥
भीमाक्षी चैव सभया चक्राक्षी दीप्तिलक्षणा ॥
एवं सम्पूज्य विधिवत्साधकोभीष्टमाप्नुयात् ॥ १६३ ॥
अष्टलक्षं जपेन्मन्त्रं दीक्षितो विजितेन्द्रियः ॥
तत्सहस्रं प्रजुहुयाद्घृताक्तहविषानले ॥ १६४ ॥
तर्पणम्मार्जनं कृत्वा ब्राह्मणाराधनन्ततः ॥
कुर्यात्संसिद्धमन्त्रस्तु प्रयोगानाचरेत्ततः ॥ १६५ ॥
काम्यप्रयोगसिद्ध्यर्थं ध्यानभेदान्वदाम्यहम् ॥
उद्यत्सहस्रार्कभासं त्रिनेत्रम्भीषणाकृतिम् ॥ १६६ ॥
वज्रतुल्येक्षणं वह्निकान्तिं नानाभुजैर्वृतम् ॥
नखैर्दारितदैत्येशं रक्तधाराक्तकायकम् ॥ १६७ ॥
क्रूरकर्मादिविषये स्मरेदेवम्भयानकम् ॥
विश्वरूपमयं ध्यानं नृहरेः प्रोच्यतेधुना ॥ १६८ ॥
नृसिंहन्तम्महाभीमं कालानलसमप्रभम् ॥
अन्त्रमालाधरं रौद्रं कण्ठे हारेण शोभितम् ॥ १६९ ॥
नागयज्ञोपवीतं च पञ्चाननसुशोभितम् ॥
चन्द्रमौलिं नीलकण्ठं प्रतिवक्त्रे त्रिलोचनम् ॥ १७० ॥
भुजैः परिघसङ्काशैर्दशभिश्चोपशोभितम् ॥
अक्षसूत्रं गदां पद्मं शङ्खं गोक्षीरसन्निभम् ॥ १७१ ॥
धनुश्च मुसलं चैव बिभ्राणं चक्रमुत्तमम् ॥
खड्गं शूलं च बाणं च नृहरिं रुद्रगोपनम् ॥ १७२ ॥
इन्द्रनीलकनीलाभञ्चन्द्राभं वर्णसन्निभम् ॥
पूर्वोदयोत्तरज्वालादूर्ध्वास्यं सर्ववर्णकम् ॥
एवमुग्रहरिं ध्यायेत्सर्वव्याधिनिवृत्तये ॥ १७३ ॥
ध्येयो यदा महत्कर्म तदा षोडशहस्तवान् ॥
नृसिंहः सर्वलोकेशः सर्वाभरणभूषितः ॥ १७४ ॥
द्वौ विदारणकर्माणौ द्वौ जनोद्धरणक्षमौ ॥
शङ्खचक्रधरौ रम्यावन्यौ बाणधनुर्धरौ ॥ १७५ ॥
खड्गखेटधरावन्यौ द्वौ गदापद्मधारिणौ ॥
पाशाङ्कुशधरावन्यौ द्वौ रिपोर्मुकुटार्पितौ ॥ १७६ ॥
इति षोडशदोर्दण्डमण्डितं नृहरिं विभुम् ॥
ध्यायेदम्बुजनीलाभमुग्रकर्मण्यनन्यधीः ॥ १७७ ॥
ध्येयो महत्तमे कार्ये तदा षड्विंशहस्तवान् ॥
नृसिंहः सर्वभूषाढ्यः सर्वसिद्धिकरः प्रभुः ॥ १७८ ॥
दक्षिणे खड्गचक्रे च परशुं पाशमेव च ॥
हलं च मुसलं सम्यगभयं चाङ्कुशन्तथा ॥ १७९ ॥
पट्टिशं भिन्दिपालं च खेटतोमरमुद्गरान् ॥
वामभागकरैः शङ्खं खड्गं पाशं च शूलकम् ॥ १८० ॥
हुताशनवरं शक्तिं सम्यङ्मृण्मयकुण्डिकाम् ॥
कार्मुकन्तर्जनीमुद्रां गदां डमरुमर्थिकान् ॥
करद्वन्द्वैः क्रमाच्छत्रोर्जानुमस्तकपत्तलम् ॥ १८१ ॥
ऊर्ध्वीकृताभ्यां हस्ताभ्यां चान्त्रमालाधरं हरिम् ॥
अधःस्थिताभ्यां हस्ताभ्यां हिरण्यकविदारणम् ॥ १८२ ॥
प्रियङ्करञ्च भक्तानां दैत्यानां च भयङ्करम् ॥
नृसिंहं संस्मरेन्नित्यं महामृत्युभयापहम् ॥ १८३ ॥
यथोच्यते ध्यानमन्यन्मुखारोगभयङ्करम् ॥
विषरोगभियां मृत्योर्हरं शत्रुभयापहम् ॥ १८४ ॥
स्वर्णौघतुल्यगरुडे स्थितं पूर्णेन्दुचन्द्रकम् ॥
सुमुखं विद्युदाभासं नेत्रत्रयविराजितम् ॥ १८५ ॥
सुभूषं पीतवसनं शङ्खचक्राभयावरान् ॥
धारयन्तं चतुर्भिश्च करैः क्षेत्रादिनाशकम् ॥
अपमृत्युमहाकृत्यानाशकं नृहरिं स्मरेत् ॥ १८६ ॥
लक्ष्मीफलैस्त्रिमधुरैः सुगन्धैः कुसुमैर्हुनेत् ॥
अयुतं मधुराद्यैश्च दरिद्रो न भवेत्कलौ ॥ १८७ ॥
उदुम्बरसमिद्धोमाद्धान्यसिद्धिर्भवेद्ध्रुवम् ॥
अपूपलक्षहोमेन धनदेन समो भवेत् ॥ १८८ ॥
क्रुद्धस्य सन्निधौ राज्ञो जपेदष्टोत्तरं शतम् ॥
सद्यो नैर्मल्यमाप्नोति प्रसादं चाधिगच्छति ॥ १८९ ॥
कुन्दप्रसूनहोमेन स सौन्दर्यमवाप्स्यति ॥
मधूकपुष्पहोमेन चेष्टसिद्धिः प्रजायते ॥ १९० ॥
तुलसीपत्रहोमेन कीर्तिर्भवति नान्यथा ॥
शतहोमेन कालीनां वशीकरणमुत्तमम् ॥ १९१ ॥
हरिद्राखण्डहोमेन स्तम्भनम्भवति ध्रुवम् ॥
बदरीफलहोमेन सर्वविघ्नः प्रणश्यति ॥ १९२ ॥
रोगे मध्वाज्यसिक्ताश्च गुडूचीश्चतुरङ्गुलाः ॥
जुहुयादयुतं योसौ चिरञ्जीवति वत्सरान् ॥ १९३ ॥
शनैश्चरदिनेश्वत्थं स्पृष्ट्वा चाष्टोत्तरं शतम् ॥
जपेज्जित्वा स मृत्युं वै शतवर्षाणि जीवति ॥ १९४ ॥
श्रीप्रसूनैः प्रजुहुयात्तत्काष्ठैर्ज्वलितेनले ॥
सहस्रमात्रेण ततो लक्ष्मीमाप्नोति निश्चितम् ॥
दूर्वाहोमादरोगी स्याल्लक्ष्मीवाञ्छ्रीफलैर्भवेत् ॥ १९५ ॥
अनेन मनुना जप्तान्वहं भूतिः शिवस्य च ॥
वशिता प्रातरुत्थाय वाक्सिद्धिं सा प्रयच्छति ॥ १९६ ॥
जले नृसिम्ह सम्पूज्य चन्दनेन सुपुष्पकैः ॥
अष्टोत्तरशतं नित्यं दूर्वाभिर्जुहुयात्सुधीः ॥ १९७ ॥
क्षुद्रभूतज्वरास्तस्य विनश्यन्त्युपसर्गजाः ॥
रात्रौ दृष्टे तु दुःस्वप्ने मन्त्री स्नात्वा मनुं जपेत् ॥
रक्षां करोति दुष्टेभ्यो दुस्तरेभ्योपि मन्त्रिणः ॥ १९८ ॥
मनुमेतं जपेद्यस्तु तस्य नाशयति क्षणात् ॥
प्रेतग्रहमहारोगान्घोरं चैवाभिचारकम् ॥
गदानन्यान्भयोत्पातदुःखानि हरते ध्रुवम् ॥ १९९ ॥
मनुं प्रजपतो दुःखं नाशमेति सुमन्त्रिणः ॥
क्रूरं नृसिंहं सञ्चिन्त्य शत्रुञ्च मृगशावकम् ॥ २०० ॥
कन्धरायां गृहीत्वार्तं क्षिपन्तं दिक्षु चिन्तयेत् ॥
सबान्धवस्य झटिति तस्योच्चाटः प्रजायते ॥ २०१ ॥
कृत्वावाग्दिशमुत्तानं युगपद्धरिणा स्वयम् ॥
नखरैर्दीर्यमाणं तं संस्मरेन्निशितैर्द्रुतम् ॥ २०२ ॥
अष्टाधिकशतं चामुं जपेन्मनुमनन्यधीः ॥
भवेन्मण्डलमध्येयं दिवाकरसुतातिथिः ॥ २०३ ॥
करवीरभवैः काष्ठैः सम्यक्सन्दीपितेनले ॥
रिपुसङ्घक्षयकरं नृसिंहं चन्दनादिभिः ॥ २०४ ॥
सम्यगभ्यर्च्य जुहुयाच्छरान्साग्रान्सशूलकान् ॥
सहस्रमेकं च मनुं भक्षयेच्छत्रुमुत्कटम् ॥ २०५ ॥
एवं शरान्विनिःक्षिप्य शत्रुसेनां विदारयेत् ॥
जुहुयात्सप्तदिवसांस्ततो राज्ञश्चमूं सुधीः ॥ २०६ ॥
सुदिने च शुभे लग्ने शत्रुसैन्यजिगीषया ॥
प्रस्थापयेत्तां सुदृढां रक्षितां बलिभिर्नरैः ॥ २०७ ॥
तदग्रे चिन्तयेद्देवं नृसिंहं शत्रुसञ्चयम् ॥
भक्षयन्तं यजेन्मन्त्री कुर्यादायाति सा चमूः ॥ २०८ ॥
यावत्तावद्रिपुं जित्वा सर्वान्राजश्रिया सह ॥
आगच्छेद्भूपतिः शूरः पश्चान्मन्त्रिणमादरात् ॥ २०९ ॥
तोषयेत्क्षेत्रवसुभिर्वस्त्रालङ्करणैः शुभैः ॥
मन्त्रिणो यदि सन्तोषो न भवेद्भपतेस्तदा ॥ २१० ॥
अनर्थः सुमहानेव जायते दुःसहो भृशम् ॥
अथातः सम्प्रवक्ष्यामि द्वितीयं नृहरिं विभुम् ॥ २११ ॥
क्ष्रौमित्येकाक्षरो मन्त्रो मुनिरत्रिः प्रकीर्तितः ॥
गायत्री छन्द उद्दिष्टं देवता नृहरिः स्मृतः ॥ २१२ ॥
षड्दीर्घयुक्तबीजेन षडङ्गानि समाचरेत् ॥
एकलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ॥ २१३ ॥
जुहुयात्तद्दशांशं तु घृताक्तैः पायसैः शुभैः ॥
तर्पयेत्क्षुद्रसलिलैः कृत्वा चात्माभिषेचनम् ॥ २१४ ॥
ब्राह्मणान्सम्यगाराध्य सिद्धमन्त्रः समाचरेत् ॥
मन्त्रराजोदितान्सर्वान्प्रयोगानत्र साधकः ॥ २१५ ॥
अष्टाधिक्सहस्रेण जपितैः कलशोदकैः ॥
विपार्तमभिषिञ्चेत मुच्यते हि विषेण सः ॥ २१६ ॥
मुच्यतेन्यैस्तथा तैस्तु लूतामूषकजैरपि ॥
बहुपद्बृश्चिकोत्थैश्च विषैर्मुक्तो भवेद्ध्रुवम् ॥ २१७ ॥
जपितं मनुनानेन भस्म चाष्टोत्तरं शतम् ॥
शिरोक्षिकर्णहृत्कुक्षिकण्ठरोगान्विनाशयेत् ॥ २१८ ॥
विसर्पञ्च वमिं हिक्कां ज्वरांश्चैव विनाशयेत् ॥
मन्त्रौषधादिसम्भूतानभिचारान्विकारकान् ॥
शमयेद्भस्मसंलिप्तं नात्र कार्या विचारणा ॥ २१९ ॥
मृत्यु स्थाने लिखेन्मन्त्री संसाध्यं च दहन्निव ॥
क्रूरेण चक्षुषा पश्यञ्जपेदष्टदिनावधि ॥
अष्टाधिकसहस्रञ्च म्रियते रिपुरस्य हि ॥ २२० ॥
वश्यमाकर्षविद्वेषौ महाचण्डादिकर्म च ॥
कुर्यादयुतजापेन तत्तदर्हणकर्मणा ॥
अयमेकाक्षरो मन्त्रः प्रोक्तस्सर्वसमृद्धिदः ॥ २२१ ॥
अथातः सम्प्रवक्ष्यामि तृतीयं नृहरेर्मनुम् ॥
आं ह्रीं ज्र्ॐ क्र्ॐ ह्रां फडिति षडर्णो मन्त्र ईरितः ॥ २२२ ॥
पङ्क्तिश्छन्दो मुनिर्ब्रह्मा श्रीनृसिंहस्तु देवता ॥
मन्त्रवर्णैरङ्गषट्कं कृत्वा ध्यायेन्नृसिंहकम् ॥ २२३ ॥
भीषणास्यः क्रोधदीप्तो रक्तवर्णेदुशेखरः ॥
सोमसूर्याग्निनेत्रश्च नानामणिविभूषितः ॥ २२४ ॥
दक्षाद्यूर्ध्वक्रमेणैव चक्रशङ्खौ गुणाङ्कुशौ ॥
वज्रं गदां दारयन्तं द्वाभ्यां दैत्येश्वरोदरम् ॥ २२५ ॥
पूर्वोदिते यजेत्पीठे मूर्तिं मूलेन कल्पयेत् ॥
तस्यां सम्पूज्य नृहरिं कुर्यादावरणार्चनम् ॥ २२६ ॥
तद्बाह्ये षड्दलेऽङ्ङ्गानि तदस्त्राण्यष्टपत्रके ॥ २२७ ॥
अरि शङ्खं गुणं चैव सृणिं च कुलिशं गदाम् ॥
खड्गं खेटं च तद्बाह्ये भूपुरं तु दिगीश्वरान् ॥ २२८ ॥
तदायुधानि तद्बाह्ये नृहरेरिति पूजनम् ॥
लक्षषट्कं जपेन्मन्त्रं केवलेन घृतेन च ॥ २२९ ॥
जुहुयात्षट्सहस्राणि तर्पणादि ततश्चरेत् ॥
एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत्ततः ॥ २३० ॥
अपामार्गसमिद्भिश्च पूताभिः पञ्चगव्यकैः ॥
जुहुयाच्च सहस्रैकं सप्ताहं भूतशान्तये ॥ २३१ ॥
गुडूचीसमिधो दुग्धलोडिताश्च सहस्रकम् ॥
चतुर्दिनं प्रजुहुयाज्ज्वरशान्तिः प्रजायते ॥ २३२ ॥
रक्तोत्पलैः प्रत्यहं यो मधुरत्रयलोडितैः ॥
सहस्रसङ्ख्यं जुहुयात्पायसेनेष्टमाप्नुयात् ॥
मन्त्रजापी वत्सरेण धनधान्यसमृद्धियुक् ॥ २३३ ॥
प्रफल्लैस्तरुणाम्भोजैर्मधुरत्रयलोडितैः ॥
सहस्रद्वादशमितं हुत्वा सर्वजनप्रियः ॥ २३४ ॥
प्रातस्त्रिमधुरोपेतलाजैर्हि पक्षमात्रकम् ॥
सहस्रं जुहुयात्कन्यां कन्यार्थी लभते ध्रुवम् ॥
वरार्थिनी लभेताशु वरं सर्वमनोहरम् ॥ २३५ ॥
तिलराजैरपामार्गैः पायसान्नैर्हुनेद् ध्रुवम् ॥
स दीर्घायुरवाप्नोति विमुक्तः सकलैर्गदैः ॥
कलत्रमित्रपुत्राद्यैर्धनधान्यसमन्वितः ॥ २३६ ॥
अथातः सम्प्रवक्ष्यामि तुल्यमन्वन्तरोद्भवम् ॥
ज्वालामालं नृसिंहं तु शत्रुभूतादिनाशकम् ॥ २३७ ॥
ॐ 7 क्षौं नमो भगवते नारसिंहाय संवदेत् ॥
ज्वालेति मालिने दीप्तदंष्तायाग्निपदं वदेत् ॥ २३८ ॥
नेत्राय सर्वरक्षोघ्नाय सर्वपदमुच्चरेत् ॥
भूतविनाशनो ङेन्तः सर्वघोरविनाशनः ॥ २३९ ॥
ङेन्त एव द्विर्दहेति पच रक्षयुगं तथा ॥
हुम्फट्स्वाहेति मन्त्रोयं षष्टिषट्काक्षरो मतः ॥ २४० ॥
ऋषिः प्रजापतिश्छन्दो गायत्री नृहरिः सुरः ॥
विश्वदिग्भवधृत्याशावेदार्णैः स्यात्षडङ्गकम् ॥ २४१ ॥
उद्यत्कालानलनिभं प्रलयाब्दसमस्वनम् ॥
शङ्खं चक्रमसिं खेटं दधानं दैवतैस्तुतम् ॥ २४२ ॥
षडक्षरोक्तविधिना पूजाद्यं चास्य कीर्तितम् ॥
लक्षं जपेद्दशांशं तु कपिलासर्पिषा हुनेत् ॥ २४३ ॥
तर्पणादि ततः कुर्यात्प्रयोगो मन्त्रराजवत् ॥
विशेषतोयं भूतादिज्वरहा परिकीर्तितः ॥ २४४ ॥
अथातः सम्प्रवक्ष्यामि यो जातश्चरमे विभुः ॥
मन्वन्तरे सलक्ष्मीकः सेव्यते यो गृहस्थितैः ॥ २४५ ॥
ॐ 8 श्रीं ह्रीं श्रीं जय लक्ष्मीप्रियाय नित्यशब्दतः ॥
प्रमुदितपदं प्रोच्य चेतसे च ततो वदेत् ॥ २४६ ॥
लक्ष्मीश्रितार्धदेहाय श्रीं ह्रीं श्रीं च ततो नमः ॥
देववर्णो मनुः प्रोक्तो जपतां सर्वकामदः ॥ २४७ ॥
लक्ष्मीनृसिंहो देवोस्य छन्दोनुष्टुप्प्रकीर्तितम् ॥
मुनिः प्रजापतिः प्रोक्तः श्रीम्बीजेन षडङ्गकम् ॥ २४८ ॥
पुरस्तात्केशवः पातु शङ्खचक्रगदाधरः 9 ॥
पश्चान्नारायणः शश्वन्नीलजीमूतसन्निभः ॥ २४९ ॥
इन्दीवरदलश्याम ऊर्ध्वं मे माधवो गदी ॥
गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् ॥ २५० ॥
उत्तरे हलधृग्विष्णुः पद्मकिञ्जल्कसन्निभः ॥
आग्नेय्यामरविन्दाक्षो मुसली मधुसदनः ॥ २५१ ॥
त्रिविक्रमः खड्गपाणिर्नैरृत्यां ज्वलनप्रभुः ॥
वायव्यां वामनो वज्री तरुणादित्यदीप्तिमान् ॥ २५२ ॥
ऐशान्यां पुण्डरीकाक्षः श्रीधरः पट्टिशायुधः ॥
विद्युत्प्रभो हृषीकेशो वायव्यां दिशि मूर्धनि ॥ २५३ ॥
हृत्पद्मं पद्मनाभो मे सहस्रार्कसमप्रभः ॥
सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतोमुखः ॥ २५४ ॥
इन्द्रगोपकसङ्काशः पाशहस्तोपराजितः ॥
सबाह्याभ्यन्तरं देहं व्याप्य दामोदरः स्थितः ॥ २५५ ॥
एवं सर्वत्र निश्छिद्रं नामद्वादशपञ्जरम् ॥
प्रविष्टोहं न मे किञ्चिद्भयमस्ति कदाचन ॥ २५६ ॥
इति न्यासं विधायादौ लक्ष्मीनरहरिं स्मरेत् ॥
सर्पेन्द्रभागेशयनः सर्पेन्द्राभोगछत्रवान् ॥ २५७ ॥
आलिङ्गितश्च रमया दीप्तभासेन्दुसन्निभः ॥
पद्मचक्रवराभीति धरस्त्र्यक्षेन्दुशेखरः ॥ २५८ ॥
एवं ध्यात्वा यजेत्पीठे पूर्वोक्ते तु गृहाश्रमी ॥
अङ्गानि षड्दलेभ्यर्च्य शक्तीश्चाष्टदले यजेत् ॥ २५९ ॥
भास्वरी भास्करी चित्रा द्युतिरुन्मीलिनी तथा ॥
रमा कान्तिर्धृतिश्चेति भूपुरे तु दिगीश्वरान् ॥ २६० ॥
तदायुधानीति भवेच्चतुरावृतिपूजनम् ॥
यष्ट्युत्तरं त्रिलक्षं च प्रजपेत्तत्सहस्रकम् ॥ २६१ ॥
मध्वक्तमल्लिकापुष्पैर्जुहुयान्मन्त्रवित्तमः ॥
अभ्यर्च्य सलिले देवं तर्पयेन्मन्त्रनामतः ॥ २६२ ॥
अभिषिञ्चेच्च मूर्द्धानं ब्राह्मणान्भोजयेत्ततः ॥
ततः प्रयोगान्कुर्वीत साधको निजवाञ्छितान् ॥ २६३ ॥
मल्लिकाकुसुमैर्होमः सर्वकामकरः शुभः ॥
अनुष्टुबुक्तांस्तत्रापि सर्वान्कुर्याद्गृहाश्रमी ॥ २६४ ॥
अथातः सम्प्रवक्ष्यामि षष्ठे मन्वन्तरेभवत् ॥
लक्ष्म्या सह नृसिंहो यस्तन्मन्त्रं सर्वकामदम् ॥ २६५ ॥
ॐ श्रीं लक्ष्मीनृसिंहाय मनुरष्टाक्षरो मतः ॥
मुनिः प्रजापतिश्छन्दो लक्ष्मीर्वा नृहरिः सुरः ॥ २६६ ॥
षड्दीर्घयुक्तक्ष्रौम्बीजैः षडङ्गविधिरीरितः ॥
ध्यानपूजादिकं सर्वं षडक्षरवदीरितम् ॥ २६७ ॥
वर्णलक्षं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः ॥
पायसैर्जुहुयात्तत्र मन्त्रतर्पणमाचरेत् ॥ २६८ ॥
अथातः सम्प्रवक्ष्यामि यो जातः सप्तमे हरिः ॥
जय जयश्रीनृसिम्ह मनुरष्टाक्षरो मतः ॥ २६९ ॥
ऋष्याद्यष्टार्णवत्पोकं पूजा चास्य षडर्णवत् ॥
एकार्णवत्प्रयोगांश्च गृहस्थः साधयेच्छुचिः ॥ २७० ॥
अथातः सम्प्रवक्ष्यामि त्वष्टमे यस्त्वजायत ॥
दशावतारो नृहरिर्दक्षसावर्णिकोत्र चेत् ॥ २७१ ॥
ॐ क्ष्रौं नमो भगवते नरसिंहाय संवदेत् ॥
ॐ क्षौं च मत्स्यरूपाय ॐ क्षौं कुंर्मोपि ङेन्तकः ॥ २७२ ॥
ॐक्ष्रौं वराहरूपाय ॐ क्ष्रौं चैव पुनवदेत् ॥
तशा नृसिंहरूपाय ॐक्ष्रौं वामनतस्तथा ॥ २७३ ॥
रूपाय ॐ-ॐ-ॐ-क्ष्रौं-क्ष्रौं-क्ष्रौं रामायेति कीर्तयेत् ॥ २७४ ॥
ॐ-क्ष्रौं कृष्णाय ॐ-क्ष्रौं च कल्किने संवदेत्ततः ॥
नयशब्दद्वयान्ते तु शालग्रामनिवासिने ॥ २७५ ॥
दिव्यसिंहायेति चोक्त्वा वदेत्पश्चात्स्वयम्भुवे ॥
पुरुषाय नम ॐ-क्ष्रौम् एकोनशतवर्णकः ॥ २७६ ॥
छन्दोतिजगती प्रोक्तम् ऋषिरत्रिः प्रकीर्तितः ॥
दशावतारनृहरिर्देवता सर्वकामदः ॥ २७७ ॥
षड्दीर्घयुक्तबीजेन षडङ्गानि प्रकल्पयेत् ॥
मन्त्रराजवदेतस्य ध्यानपूजादिकं भवेत् ॥ २७८ ॥
यजेत्षडङ्गपूजान्ते मत्स्यादीनवतारकान् ॥
अयुतं प्रजपेन्मन्त्रं साधयेद्धविषा ततः ॥ २७९ ॥
जुहुयात्तद्दशांशेन तर्पणादि ततश्चरेत् ॥
काम्यकर्माणि सर्वाणि मन्त्रराजवदेव हि ॥ २८० ॥
अस्य संसेवनाद्विप्रा ब्रह्मचर्यादिविच्युताः ॥
नृसिंहरूपतां प्राप्य जाताः स्थाने नृसिंहकाः ॥ २८१ ॥
प्रविशन्ति च ते नेह सम्यक्कुर्वन्ति पूजिताः ॥
अत्र बीजाक्षरत्यागान्नानाबीजादियोजनात् ॥
जायन्ते कोटिशो मन्त्राः शूद्रसिद्धिविधायकाः ॥ २८२ ॥
लोभाधिक्यात्कलियुगे न गुरुर्न च देवता ॥
एकं श्रेयस्करं प्रोक्तं नृहरेर्नामगर्जनम् ॥ २८३ ॥
अथातः सम्प्रवक्ष्यामि जायते नवमे तु यः ॥
नरसिंहो वीरनामा शृणु तत्साधनं प्रिये ॥ २८४ ॥
बाले च तरुणे वृद्धे प्रयोगार्थं मनुत्रयम् ॥
तारो नमो भगवते वीरान्ते नृपदं वदेत् ॥ २८५ ॥
तद्युक्तं च वदेत्पश्चान्ङेन्तं सिंहपदं ततः ॥
पीनोर्ध्वाङ्गाय चेत्युक्त्वा चाग्निनेत्राय संवदेत् ॥ २८६ ॥
सर्वभूतविनाशेति नायेत्युक्त्वा द्विधा दह ॥
रक्षयुग्मं च ह्रींयुग्मं रक्षरक्षाग्निगेहिनी ॥ २८७ ॥
एवं हि प्रथमो मन्त्रो नृसिंहस्य समुद्धृतः ॥
वर्णांस्त्रयोदश 10 प्रोच्य नीलदीप्तपदं वदेत् ॥ २८८ ॥
दंष्ट्राय चाग्निनेत्राय सर्वरक्षो वदेत्ततः ॥
घ्नायोक्त्वा सर्वभूतेति वदेद् ङेन्तं विनाशनम् ॥ २८९ ॥
सर्वघोरविनाशाय हनद्वन्द्वं दहद्वयम् ॥
पचयुग्मं वधयुग्मं फट्स्वाहान्तो द्वितीयकः ॥ २९० ॥
तृतीयमथ वक्ष्यामि पूर्वोक्ताश्च 11 त्रयोदश ॥
सर्वभूतेति सम्प्रोच्य ङेन्तं चैव विनाशनम् ॥ २९१ ॥
सर्वघोरेति पूर्वोक्तं तथा सर्वपदं वदेत् ॥
रक्षोघ्नाय पदं चोक्त्वा हनद्वन्द्वं दहद्वयम् ॥ २९२ ॥
पचद्वयं वधद्वन्द्वं रक्षयुग्मं च मां तथा ॥
हुं-फट्-स्वाहा तृतीयोयं मन्त्रश्चात्र समुद्धृतः ॥ २९३ ॥
मन्त्रराजोक्तवच्चैषां पूजाद्यं सम्प्रकीर्तितम् ॥
मालामन्त्रा इमे ख्याता द्वैतसिद्धिविधायकाः ॥ २९४ ॥
अथातः सम्प्रवक्ष्यामि दशमे जायते तु यः ॥
ॐ-क्ष्रौं महानृसिंहाय नमोन्तो दशवर्णकः ॥ २९५ ॥
वामदेवो मुनिश्छन्दो विराड्देवो नृसिंहकः ॥
षड्दीर्घयुक्स्वबीजेन षडङ्गन्यासमाचरेत् ॥ २९६ ॥
ध्यानपूजापुरश्चर्या होमो लक्ष्मीनृसिंहवत् ॥
वर्णलक्षं जपेन्मन्त्रं प्रयोगोष्टाक्षरोदितः ॥ २९७ ॥
अथातः सम्प्रवक्ष्यामि मन्त्रमेकादशस्य तु ॥
ॐ-क्ष्रौं नमो भगवते नरसिंहाय मन्त्रकः ॥
त्रयोदशार्ण उद्दिष्टो भुक्तिमुक्तिप्रदायकः ॥ २९८ ॥
वामदेवो मुनिः प्रोक्तो जगती छन्द ईरितम् ॥
देवता नरसिंहोत्र स्वबीजेनाङ्गकल्पनम् ॥
ध्यानपूजाप्रयोगादि षडक्षरवदीरितम् ॥ २९९ ॥
अथातः सम्प्रवक्ष्यामि द्वादशे योभिजायते ॥
काश्यां स नित्यं वसते दुष्टबुद्धिप्रचारकः ॥ ३०० ॥
तारं सहस्रारज्वालावर्तिने क्ष्रा हनद्वयम् ॥
हुम्फट्स्वाहा चोनविंशवर्णो मन्त्र उदीरितः ॥ ३०१ ॥
मुनिर्जयन्त आख्यातश्छन्दो गायत्रमीरितम् ॥
सुदर्शननृसिंहोस्य देवता परिकीर्तितः ॥ ३०२ ॥
चक्रराजाय हृत्प्रोक्तं ज्वाला चक्राय वै शिरः ॥
जगच्चक्राय च शिखा कवचं त्वस्य सम्मतम् ॥ ३०३ ॥
असुरान्त कचक्राय ह्यस्त्राय फडितीरितम् ॥
सुदर्शनायेति मनुः पञ्चाङ्गं समुदीरितम् ॥ ३०४ ॥
चक्राणां तु सभामध्ये कालाग्निसदृशप्रभम् ॥
चतुर्भुजं विवृत्ता स्यं चतुश्चक्रधरं हरिम् ॥
तप्तकाञ्चनसङ्काशं त्रिनेत्रं चाद्यविग्रहम् ॥ ३०५ ॥
ध्यायेत्समस्तदुःखघ्नं तादृग्लक्ष्म्या समन्वितम् ॥
पूर्वोक्ते वैष्णवे पीठे पूजयेदुक्तवर्त्मना ॥
विदिक्ष्वग्रे च पञ्चाङ्गं क्रमाद्दिक्षु प्रपूजयेत् ॥ ३०६ ॥
जयाच विजयां पश्चादजितां चापराजिताम् ॥
विदिक्षु पूजयेत्पश्चान्मुदितां मोदिनीं तथा ॥
सहस्रां सिद्धिसञ्ज्ञां च लोकेशानायुधानि च ॥ ३०७ ॥
रविलक्षं जपेन्मन्त्रं दशांशैस्तु तिलैः शुभैः ॥
हुनेत्पुष्पैस्ततश्चापि चत्वारिंशत्सहस्रकैः ॥ ३०८ ॥
पुनराज्येन जुहुयात्सहस्रेण नमस्क्रियाम् ॥
तर्पणादि ततः कृत्वा प्रयोगानाचरेत्पुनः ॥ ३०९ ॥
विप्रो जपितु मीक्षेत कुशानास्तीर्य भूतले ॥
तस्मिन्देशे समाराध्य सुदर्शननृसिंहकम् … ३१० ॥
मन्त्रं सहस्रावृत्त्या तु जुहुयाद्दे वसन्निधौ ॥
सहस्रं मूलमन्त्रेण ह्यपामार्गसमिद्वरैः ॥ ३११ ॥
तद्भस्म तिलकं कृत्वा निर्गच्छेच्छत्रुसन्निधौ ॥
दासवत्कुरुते शत्रून्सर्वान्नास्त्यत्र संशयः ॥ ३१२ ॥
अथ शत्रुमनुं स्मृत्वा तर्पणं चापि कारयेत् ॥
अयुतं जयमाप्नोति नात्र कार्या विचारणा ॥ ३१३ ॥
अथौदुम्बरपीठे च देवदेवं निवेशयेत् ॥
तस्याग्रे वर्तुले कुण्डे होतव्याज्यादिभिः शमीम् ॥ ३१४ ॥
अयुतं यो घृताक्तां तु मध्वक्तां वा जितेन्द्रियः ॥
जयमाप्नोति सङ्ग्रामे नित्यम्परशुरामवत् ॥ ३१५ ॥
मन्त्रेणानेन जपितं तारहेमादिकञ्च यत् ॥
तेनाङ्गुलीयकं कृत्वा जपहोमादिसाधितम् ॥ ३१६ ॥
धारयेद्दक्षिणे हस्ते मृत्युरोगाञ्जयेदरीन् ॥
राज्ञः सकाशात्पूजां च लभते धारयेत्सदा ॥ ३१७ ॥
जलं त्रिसप्तजपितं सर्वोदरगदान्तकृत् ॥
पुनर्नवाशिफानिष्कत्रयं लवणसंयुतम् ॥ ३१८ ॥
स्पृष्ट्वा जप्तन्तच्च हरेद्गुल्मशूलादि मासतः ॥
मासमेकं प्रतिदिनं दुर्वाहोमसहस्रकम् ॥
कृत्वा सम्पूजयेद्देवं राजयक्ष्मा प्रणश्यति ॥ ३१९ ॥
तैलैर्वा मधुना वापि तादृग्घोमः प्रमेहहृत् ॥
नेत्ररोगः सहस्रेण पद्महोमेन नश्यति ॥ ३२० ॥
द्विसप्तजप्ततोयेन क्षालनं नेत्ररोगहृत् ॥
दशधा जपतोयेन करकेणैव सेचयेत् ॥ ३२१ ॥
तावत्सम्मन्त्रितेनापि नवनीतेन लेपनात् ॥
सप्ताहमध्यात्सद्यो हि नाशयेत्तु विसर्पकान् ॥ ३२२ ॥
अपामार्गेण जुहुयान्नित्यमष्टोत्तरंशतम् ॥
यस्तु तावन्नमस्कारान्कुर्यान्न्यासमतन्द्रितः ॥
अपस्मारादिकान्सर्वान्ग्रहानन्यान्विनाशयेत् ॥ ३२३ ॥
शुद्धाद्भिः पूरिते कुम्भे चन्द्रमण्डलमध्यगम् ॥
सुदर्शननृसिंहन्तु सुधाविग्रहधारिणम् ॥
यथावच्चिन्तयेत्तत्र पूजयेदुपचारकैः ॥ ३२४ ॥
जप्त्वा शत सहस्रञ्च दष्टं तेनैव सेचयेत् ॥
तथा स्पृशेद्वामहस्तं ह्यङ्गस्पर्शाद्विषं हरेत् ॥ ३२५ ॥
अथातः सम्प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकम् ॥
जातं त्रयोदशे देवं नृसिंहं क्ष्रौं तु सम्पुटम् ॥ ३२६ ॥
मायया भोगदाता स्यात्प्रणवेन च मोक्षदः ॥
अस्य पूजाप्रयोगाद्यमेकाक्षरसमं भवेत् ॥ ३२७ ॥
अथातः सम्प्रवक्ष्यामि जातं मन्वन्तरे विभुम् ॥
अभयाक्षो नृसिंहोयं समस्तभयनाशनः ॥ ३२८ ॥
तारो नमो भगवते नरसिंहाय हृद्भवेत् ॥
तेजस्तेजस इत्युक्त्वा आविराविर्भवेति च ॥ ३२९ ॥
वज्रनख वज्रदंष्ट्र कर्माशयान् ॥
द्वीरन्धय ॥
तमोद्विर्ग्रसवह्निस्त्रीं वदेदभयमात्मनि ॥ ३३० ॥
भूयिष्ठा ॐक्ष्रौमिति च द्विषष्ट्यर्णो मनुमतः ॥
मुनिः शुकोतिजगती छन्दः प्राग्वद्दिवाखिलम् ॥ ३३१ ॥
चतुर्दशनृसिंहानां साधनं वेदबोधितम् ॥
तदत्र कथितं देवि भुक्तिमुक्तिप्रदायकम् ॥ ३३२ ॥
अथातः सम्प्रवक्ष्यामि वामनस्य शुभान् ॥
मनून् ॥
मन्वन्तरन्तु प्रत्येकं सुरेशादपहृत्य वै ॥ ३३३ ॥
पुनर्ददाति हरये त्रैलोक्यं स बलिर्नृपः ॥
एकमन्वन्तरे शक्रः स्वयमेवाभवद्बलिः ॥ ३३४ ॥
एवं षड्वामनाः कल्पे तेषां मन्त्रान्वदाम्यहम् ॥
ॐ 12 नमो विष्णवे ब्रूयात्सुरान्ते पतये महा ॥ ३३५ ॥
बलाय वह्निगृहिणीं धृतिवर्णोमनुर्मतः ॥
मुनिरिन्दुर्विराट् छन्दो देवता चैव वामनः ॥ ३३६ ॥
एकद्वित्र्याशुगशरनेत्रार्णैरङ्गकल्पनम् ॥
भ्रूमध्यकण्ठहृदयनाभ्यङ्घ्र्याधारकेषु च ॥ ३३७ ॥
न्यसेन्मनोः षट् पदानि पदन्यासोयमीरितः ॥
मूर्ध्नि नेत्रद्वये कर्णद्वये नसि मुखे तथा ॥ ३३८ ॥
कण्ठे हृदि तथा बाह्वोर्नाभौ पृष्ठे च गुह्यके ॥
जान्वोश्च पादयोरग्निकाष्ठाङ्गन्यास ईरितः ॥ ३३९ ॥
मूर्ध्नि भाले दृशोः श्रोत्रे नस्यास्ये तालुकण्ठयोः ॥
बाहुहृज्जठरे नाभौ गुह्योर्वोर्जानुजङ्घयोः ॥
पादे पृष्ठे न्यसेद्वर्णान्वर्णन्यासोयमीरितः ॥ ३४० ॥
ज्वलन्मयूखकनकच्छत्राधः पुण्डरीकगम् ॥
पूर्णचन्द्रनिभं ध्यायेच्छ्रीभूम्याश्लिष्टपार्श्वकम् ॥ ३४१ ॥
द्वीष्वङ्गुल्युच्छ्रयायामो मयूखस्फटिकप्रभः ॥
दघ्यन्नं वामहस्तेन स्वर्णस्य चषकं दधत् ॥
पीयषपूणस्वर्णस्य कलशं दक्षिणे दधत् ॥
वैष्णवे पूजयत्पाठ तत्र सूर्याग्निमण्डले ॥ ३४२ ॥
सोमस्य मण्डलं पृष्ठं योगपीठस्वरूपकम् ॥
विष्णवे सह सोमाय त्त्रैलोक्याप्यायनाय च ॥
मन्त्रो ह्योङ्कारहृत्पूर्वः स्वाहान्तो नववर्णकः ॥ ३४३ ॥
अनेन योगपीठस्य पूजनं समुदीरितम् ॥
ततः षड्दलमध्ये तु पूजयेद्वामनं विभुम् ॥ ३४४ ॥
षड्दलेषु षडङ्गानि बाह्ये षोडशपञ्चके ॥
पूषा सुमनसा प्रीतिः पुष्टिस्तुष्टिस्तथैव च ॥ ३४५ ॥
ऋद्धिर्धृतिश्च सौम्या च मरीचिर्मुण्डमालिनी ॥
शशिनी सुभगा चैव लक्ष्मीरिच्छा तथैव च ॥ ३४६ ॥
सम्पूर्णमनुका चैवममृता षोडशी मता ॥
ततश्चाष्टदले पूजेत् पूजाद्यैर्वासुदेवकम् ॥ ३४७ ॥
तदर्धं वा तदर्धं वा जपेन्मन्त्रमनन्यधीः ॥
दशाशं पायसं हुत्वा तर्पणादि समाचरेत् ॥ ३४८ ॥
स्वगृहे मण्डलं कृत्वा तन्मध्ये वामनं यजेत् ॥
दघ्योदनं निशापक्वं नैवेद्यं स्याद्विभूतिकृत् ॥ ३४९ ॥
अन्नकामो हुनेन्नित्यमष्टाविंशतिसङ्ख्यया ॥
सितान्नं घृतसम्मिश्रं प्राप्नुयादन्नमक्षयम् ॥ ३५० ॥
अपूपं षड्रसोपेतं हुनेदष्टसहस्रकम् ॥
अलक्ष्मीर्नाशमायाति 13 महतीं श्रियमाप्नुयात् ॥ ३५१ ॥
अयुतं मन्त्रविद्धुत्वा दघ्यन्नं शर्करान्वितम् ॥
अन्नपर्वतमाप्नोति यत्रयत्र स गच्छति ॥ ३५२ ॥
हुनेद्विल्वसमीपस्थः पद्माक्षैरयुतं नरः ॥
वसुधारां महालक्ष्मीं वर्षाद्वर्षति तत्र च ॥ ३५३ ॥
विद्यार्थी प्रजपेल्लक्षं ध्यायन्देवं जनार्दनम् ॥
जुहुयात्पायसं मन्त्री साक्षाद्वागीश्वरो भवेत् ॥ ३५४ ॥
पुत्रकामो जपेल्लक्षं पुत्रजीवदलैर्हुनेत् ॥
तत्काष्ठदीपिते वह्नौ स सत्पुत्रमवाप्नुयात् ॥ ३५५ ॥
ध्यात्वा त्रिविक्रमं देवं रक्ताभं करवीरकैः ॥
हुनेदयुतसङ्ख्यैश्च सर्वत्र विजयी भवेत् ॥ ३५६ ॥
रक्षाकामोपि पद्मानामयुतं जुहुयात्ततः ॥
ध्यात्वा चैन्द्रपदं राज्यं लभेताशु ह्यकण्टकम् ॥ ३५७ ॥
अपामार्गदलैर्हुत्वा लवेङ्गैर्वा मधुप्लुतैः ॥
अयुतं साध्यनामाद्यं स वश्यो भवति ध्रुवम् ॥ ३५८ ॥
आरोग्यकामो जुहुयादपामार्गशतंशतम् ॥
सप्ताहान्मुच्यते रोगैस्तावदेवं जपेत्सुधीः ॥ ३५९ ॥
आयुष्कामस्त्रिमध्वक्तैस्तिलदूर्वाङ्कुशोक्षितैः ॥
अयुतं जुहुयात्तावज्जपेदायुर्लभेत् वै ॥ ३६० ॥
स्मृत्वा त्रिविक्रमं रूपं चाष्टोत्तरसहस्रकम् ॥
जपान्निर्मुक्तबन्धः स्याद्वामनस्य प्रसादतः ॥ ३६१ ॥
दधि वामनसेवातो नासाध्यं भुवनत्रये ॥
अथातः सम्प्रवक्ष्यामि सर्वज्ञेश्वरवामनम् ॥ ३६२ ॥
ॐक्लींश्रींवं समायोज्य पूर्वमन्त्रो मनुर्मतः ॥
च्यवनो मुनिराख्यातो गायत्रं छन्द ईरितम् ॥ ३६३ ॥
देवता चास्य सम्प्रोक्तः सर्वज्ञेश्वरवामनः ॥
द्वाविंशत्यर्णकोङ्गानि षड्दीर्घान्वितकामतः ॥ ३६४ ॥
कर्पूरधवलं देवं निविष्टं सरसीरुहे ॥
प्रसन्नञ्च सुनेत्रञ्च चारुस्मितमनोहरम् ॥ ३६५ ॥
दण्डं चामृतकुम्भञ्च शरच्चन्द्रसमप्रभम् ॥
दधिभक्तं सोपदंशं वसुपात्रं पवित्रकम् ॥
चिन्तयेज्जगतां नाथं सर्वस्यार्तिहरं हरिम् ॥ ३६६ ॥
अस्य पूजादिकं सर्वं पूर्वोक्तेनैव वर्त्मना ॥
कुर्यात्ततो मन्त्रसिद्धः काम्यान्स्वाभीष्टदायकान् ॥ ३६७ ॥
सहस्रं हविषा होमो लक्ष्मीदो धान्यलाभकृत् ॥ ३६८ ॥
धान्यहोमोन्नबीजैश्च शतपत्रसमुद्भवैः ॥
सहस्रहोमाद्भीतीनां नाशो भवति निश्चितम् ॥ ३६९ ॥
दध्यक्ताज्येन जुहुयाद्दुर्गत्या मुच्यते नरः ॥
त्रैविक्रमं वामनस्य रूपं ध्यायेन्मनुं स्मरेत् ॥ ३७० ॥
घोरोत्पातैर्मुच्यतेसौ देवेशञ्च पटे लिखेत् ॥
भित्तौ वालिख्य गन्धाढ्यैः पूजयेद्यज्ञवामनम् ॥
महतीं श्रियमाप्नोति यद्यदन्यदभीप्सितम् ॥ ३७१ ॥
अथातः सम्प्रवक्ष्यामि तृतीयं भोगवामनम् ॥
तारो नमो भगवते विष्णवे च दशाक्षरः ॥ ३७२ ॥
संयुक्तः पूर्वमन्त्रश्चेद्भवेद्द्वाविंशदर्णकः ॥
ऋषिः कपिल आख्यातो गायत्रं छन्द ईरितम् ॥ ३७३ ॥
उदीरितः सर्ववन्द्यो देवता भोगवामनः ॥
त्रिवेदत्रिषुबाणद्विमन्त्रार्णैरङ्गकल्पनम् ॥ ३७४ ॥
नीलवर्णश्चतुर्बाहुः शङ्खचक्रगदाब्जभृत् ॥
सर्वान्भोगन्ददात्येष भक्तानां भोगवामनः ॥ ३७५ ॥
अस्य पूजादिकं सर्वं मन्त्री पूर्ववदाचरेत् ॥
एतादृशस्तु नास्त्यन्यो जन्मन्यस्मिन्फलप्रदः ॥ ३७६ ॥
अथातः सम्प्रवक्ष्यामि तुर्यं बालकवामनम् ॥
तारो हृदयमाये च बालकान्ते विधे पदम् ॥ ३७७ ॥
पूर्वमन्त्राग्रिमाद्वर्णाद्द्वाविंशत्यक्षरो मनुः ॥
त्र्यङ्कषट्पञ्चपञ्चद्विमन्त्रार्णैरङ्गकल्पनम् ॥ ३७८ ॥
पीताम्बरोत्तरीयोसौ मौञ्जीकौपीनधृग्घरिः ॥
कमण्डलुं च दघ्यन्नं दण्डं छत्रं करैर्दधत् ॥
यज्ञोपवीती नीलाभो ध्यातव्यश्छद्मवामनः ॥ ३७९ ॥
पूजादिकं पूर्ववच्च कुर्यान्मन्त्री यथाविधि ॥
अन्नविद्याभूमिदोयं भक्तानामभयप्रदः ॥ ३८० ॥
नाश्नीयात्तण्डुलीशाकं तथा चौदुम्बरं फलम् ॥
श्राद्धान्नं कर्कटीं चैव भक्षयेन्न कदाचन ॥ ३८१ ॥
पद्मपत्रे न भुञ्जीत तथा चार्कदलेष्वपि ।
तुषकार्पासबीजानि न स्पृशेच्च कदाचनम् ॥ ३८२ ॥
वल्मीकं गोमयं विप्रच्छायामपि न लङ्घयेत् ॥
देवाग्निगूरुपूजां च कुर्याद्भक्तिसमन्वितः ॥
एवं यो नियमैर्युक्तस्तस्य मन्त्रः प्रसिध्यति ॥ ३८३ ॥
अथातः सम्प्रवक्ष्यामि विश्वरूपं तु वामनम् ॥
तारो नमो भगवते मायाबालेति विष्णवे ॥
तदग्रिमे पूर्वमन्त्रः षड्विंशत्यक्षरो मनुः ॥ ३८४ ॥
ब्रह्मा मुनिश्च गायत्री छन्दो बीजं ध्रुवः स्मृतः ॥
स्वाहा शक्तिर्देवता श्रीमायाबालकवामनः ॥ ३८५ ॥
त्रिवेदनागपञ्चेषुद्विवर्णैरङ्गकल्पनम् ॥
ध्यानपूजाप्रयोगादि सर्वं पूर्ववदाचरेत् ॥
अन्नविद्याभूमिदोयं भक्तानामभयङ्करः ॥ ३८६ ॥
अथातः सम्प्रवक्ष्यामि षष्ठन्तु बलिवामनम् ॥
तारो नमो भगवते वदेच्च बलिवामनम् ॥ ३८७ ॥
सर्वापत्तिपदं प्रोच्य ङेन्तं विनाशनं वदेत् ॥
ततः श्रीबीजमाभाष्य त्रयोविंशतिवर्णकः ॥ ३८८ ॥
वाङ्मुनिर्जगती छन्दो देवता बलिवामनः ॥
पदैः षड्भिः षडङ्गानि शेषं पूर्ववदीरितम् ॥ ३८९ ॥
अथातः सम्प्रवक्ष्यामि राममन्त्रं समाहृतम् ॥
आकल्पमेक एवायं जामदग्न्यो महाबलः ॥
दुष्टक्षत्रतमोध्वंसी रेणुकोद्भूतभास्करः ॥ ३९० ॥
ब्रह्मक्षत्राय विद्महे क्षत्रियान्ताय धीमहि ॥
तन्नो रामः प्रचोदयात् ॥ ३९१ ॥
भरद्वाजो मुनिः प्रोक्तो गायत्रं छन्द ईरितम् ॥
श्रीमान्परशुरामोस्य देवता भक्तवत्सलः ॥
अष्टेषुत्र्यक्षिवेदार्णैर्मनोः प्रोक्तं षडङ्गकम् ॥ ३९२ ॥
नेत्रयोः कर्णयोर्नासाद्वये चाधरयुग्मके ॥
स्तनयोर्भुजयोः पार्श्वद्वयेऽङ्घ्र्योर्विन्यसेत्पदम् ॥ ३९३ ॥
आधारे हृदये मूर्ध्नि क्रमात्पादान्प्रविन्यसेत् ॥
के दृशि श्रोत्रनासायां कपोले हनुवक्त्रयोः ॥ ३९४ ॥
कण्ठां सबाहुहस्तेषु पार्श्वहृत्पृष्ठकोदरे ॥
नाभिकट्योर्गुदे लिङ्गे ऊर्वोर्वा जानुजङ्घयोः ॥ ३९५ ॥
पादे च विन्यसेद्वर्णांस्ततो ध्यायेत्त्रिधा तनुम् ॥
सात्त्विके श्वेतवर्णं च भस्मोद्धुलितविग्रहम् ॥ ३९६ ॥
किरीटिनं कुण्डलिनं वरं स्वक्षवराभयान् ॥
करैर्दधानं तरलं विप्रं क्षत्रवधोद्यतम् ॥
पीताम्बरधरं कामरूपं बालानिरीक्षितम् ॥ ३९७ ॥
ध्यायेच्च तामसं क्षत्ररुधिराक्तपरश्वधम् ॥
आरक्तनेत्रकर्णस्थब्रह्मसूत्रं यमप्रभम् ॥ ३९८ ॥
धनुष्टङ्कारनिर्घोषसन्त्रस्तभुवनत्रयम् ॥
चतुर्बाहुं मुसलिनं राजसं कुद्धमेव च ॥ ३९९ ॥
वैष्णवे तु यजेत्पीठे देवाग्राच्च चतुर्दले ॥
जमदग्निं च कालं च रेणुकां काममर्चयेत् ॥ ४०० ॥
तद्दलेषु षडङ्गानि तद्बाह्येष्टदले यजेत् ॥
दिक्षु वेदान्विदिक्पत्रेषूपवेदांस्ततो यजेत् ॥ ४०१ ॥
ततश्चाष्टदले पूज्या विद्बुद्धाश्चावतारकाः ॥
ब्रह्मास्त्रं वैष्णवास्त्रं च रौद्रं वायव्यमेव च ॥ ४०२ ॥
आग्नेयं चैव नागास्त्रं मोहनं स्तम्भनं तथा ॥
ऐन्द्रपालिकमस्त्रं च महापाशुपतं तथा ॥ ४०३ ॥
पूजयेद्दशपत्रेषु द्वादशारे ततोर्चयेत् ॥
कश्यपं च भरद्वाजं विश्वामित्रं च गौतमम् ॥ ४०४ ॥
वशिष्ठं नारदं चात्रिं पुलस्त्यं पुलहं क्रतुम् ॥
याज्ञवल्क्यं भार्गवं च षोडशारे ततो यजेत् ॥ ४०५ ॥
संहिताश्च पुराणानि मीमांसां न्यायमेव च ॥
साङ्ख्यं पातञ्जलं शिल्पं वेदाङ्गानि च षट् क्रमात् ॥ ४०६ ॥
सर्वाण्यूपपुराणानि चेतिहासपुराणकम् ॥
स्मृतीस्तु भूपुराग्रे च दिगीशानायुधानि च ॥ ४०७ ॥
वर्णलक्षं जपेन्मन्त्रं सिताढ्यघृतपायसैः ॥
हुनेद्ब्राह्मणभोज्यान्तं कृत्वा सिद्धो भवेन्मनुः ॥ ४०८ ॥
ब्रह्मकर्मरतो नित्यं गायत्रीजपतत्परः ॥
स एव जायते सिद्धो नान्यविप्रः कदाचन ॥ ४०९ ॥
गायत्रीप्रथमं पादं पूर्वं कृत्वा जपेन्मनुम् ॥
लक्षं प्राग्वद्धुनेद्रामं सात्त्विकं तत्र चिन्तयेत् ॥ ४१० ॥
सन्तानार्थं विवाहार्थं कृष्यर्थं वर्षणाय च ॥
विषयार्थं धनार्थं च वाक्सिद्ध्यर्थमुदाहृतम् ॥ ४११ ॥
सहस्रमयुतं लक्षं प्रयुतं कोटिमेव च ॥
साध्यकृच्छ्रेतिकृच्छ्रे च दैवसाध्ये त्वसाध्यके ॥ ४१२ ॥
कार्या जपस्य सङ्ख्येयं क्रमाज्ज्ञेया दशांशतः ॥
होमः सर्वत्र विज्ञेयः प्रत्यवायनिराकृतौ ॥ ४१३ ॥
तावदेव जपेद्विद्वान्गायत्रीजपतत्परः ॥
मनागपि न कर्तव्यो ब्रह्मद्वेषः कदाचन ॥ ४१४ ॥
गायत्रीमध्यचरणयुक्तं मन्त्रं जपेद्धुनेत् ॥
तिलौदनाज्यं रामं तु राजसं तत्र भावयेत् ॥ ४१५ ॥
देशग्रामपुरादीनां बालानां च गवामपि ॥
रक्षणं स्यान्महामारीशीतलाशान्तये तथा ॥ ४१६ ॥
गायत्र्यन्तिमपादेन युक्तं मन्त्रं जपेद्ध्रुवम् ॥
होमः सर्षपतैलाक्तैस्तामसं चिन्तयेद्विभुम् ॥ ४१७ ॥
सर्वशत्रुविनाशः स्याद्रोगादीनां तथा क्षयः ॥
एवं कुर्याद्यमुद्दिश्य तस्य नाशो भवेद्ध्रुवम् ॥ ४१८ ॥
वैशाखशुक्लपक्षे च तृतीयायां तु वार्षिकी ॥
भवेदस्य महापूजा तां भक्तः प्रयतश्चरेत् ॥ ४१९ ॥
रामभक्तं द्विजं नत्वा सङ्ग्रामे याति चेन्नृपः ॥
अवश्यं स रिपूञ्जित्वा कुशली स्वगृहं व्रजेत् ॥ ४२० ॥
रामभक्तेन यो दत्तः पुस्तके लिखितो मनुः ॥
स तु सिद्धिप्रदो ज्ञेयो नास्ति तस्य पुरस्क्रिया ॥ ४२१ ॥
यत्किञ्चित्पुस्तकारूढं रामभक्तमुखोद्गतम् ॥
यन्त्रं मन्त्रोथ वा विद्या तत्सिद्धं नास्ति संशयः ॥ ४२२ ॥
ज्ञात्वा षोडशसंस्कारैः संस्कृतं चार्यवंशजम् ॥
कुलद्वयविशुद्धं तु राममन्त्राधिकारिणम् ॥ ४२३ ॥
फिरङ्गा यवनाश्चीनाः खुरासानाश्च म्लेच्छजाः ॥
रामभक्तं प्रदृष्ट्वैव त्रस्यन्ति प्रणमन्ति च ॥ ४२४ ॥
कृत्वा तु वालुकामूर्तिं श्रीरामस्यार्चयेद्वने ॥
शान्तं शत्रुमदं कुर्यात्कुसुमानि च वै हुनेत् ॥ ४२५ ॥
राज्ञोमुकस्य कटकं जुहोमीति तथा वदेत् ॥
सप्ताहार्वाक्तस्य सैन्यं नष्टं तावन्मितं भवेत् ॥ ४२६ ॥
महेन्द्राग्रे च काश्यां च यो जपेन्निर्जने वने ॥
वर्षादर्वाक् तस्य रामः प्रत्यक्षो जायते द्ध्रुवम् ॥ ४२७ ॥
सोमवारे काशिकायां गयायां पितृपक्षके ॥
सूर्पारके पौर्णमास्यां प्रयागे तु मृगे रवौ ॥ ४२८ ॥
गोदावर्य्यां सिंहगेर्के गङ्गाद्वारे घटस्थिते ॥
सूर्य्यग्रहे कुरुक्षेत्रे रामो गच्छति सर्वदा ॥ ४२९ ॥
आद्यो रामो जामदग्न्यः क्षत्रियाणां कुलान्तकः ॥
परश्वधधरो दाता मातृहा मातृजीवकः ॥ ४३० ॥
समुद्रतीरनिलयो महेशपठिताखिलः ॥
गोत्राणकृद्गोप्रदाता विप्रक्षत्रियकर्मकृत् ॥ ४३१ ॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ॥
नापमृत्युर्न दारिद्र्यं नच वंशक्षयो भवेत् ॥ ४३२ ॥
श्रीमत्परशुरामस्य गायत्र्येषा महाद्भुता ॥
राज्यकृत्कलिभूपानां सर्वतन्त्रेषु गोपिता ॥ ४३३ ॥
अथातः सम्प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकान् ॥
राममन्त्रान्स भगवन्प्रतिमन्वन्तरे ह्यभूत ॥ ४३४ ॥
युगानां परिवर्तेन कल्पे रामावतारकः ॥
ततो ह्यस्य प्रवक्ष्यामि मन्त्रराजं षडक्षरम् ॥ ४३५ ॥
रामाय नम इत्येष रां-क्लीं-ह्रीं-ऐं-प्रपूर्वकः ॥
श्रीन्ताराद्यश्च षड्वर्णो मन्त्रोयं षड्विधो मतः ॥ ४३६ ॥
ब्रह्मा सम्मोहनः शक्तिर्दक्षिणामूर्तिरेव च ॥
अगस्त्यः श्रीशिवः प्रोक्ता मुनयोनुक्रमादिमे ॥ ४३७ ॥
छन्दो गायत्रसञ्ज्ञञ्च श्रीरामो देवता मतः ॥
पञ्चाशन्मातृकामन्त्रवर्णप्रत्येकपूर्वकः ॥ ४३८ ॥
लक्ष्म्यादिर्वाग्भवादिश्च मन्मथादिर्ध्रुवादिकः ॥
रामचन्द्रमनोर्भेदाः शतद्वयमिता अमी॥ ४३९ ॥
रामभद्रेतिशब्देन चैवं भेदाः शतद्वयम् ॥
रमाबीजादिकानां तु विश्वामित्रो मुनिर्मतः ॥ ४४० ॥
वाग्बीजपूर्वकाणां तु दक्षिणामूर्तिरुच्यते ॥
कामबीजादिपूर्वाणां मुनिः सम्मोहनो मतः ॥ ४४१ ॥
तारादिपूर्वकाणां तु श्रीशिवः प्रोच्यते मुनिः ॥
श्रीमायामन्मथैकैकबीजाद्यन्तर्गतो यदा ॥
रामभद्रो रामचन्दः षोढा षड्वर्ण उच्यते ॥ ४४२ ॥
षोढा नमोन्तः प्राक्प्रोक्तः फट्कारान्तः स एव हि ॥
षोढा स्याद्वह्निजायान्तः स एवं षड्विधो मतः ॥ ४४३ ॥
चतुर्विंशतिसङ्ख्याका भेदास्तेन निरूपिताः ॥ ४४४ ॥
ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्योर्गुह्यपादयोः ॥
बीजैः षड्दीर्घसंयुक्तैः षडङ्गविधिरीरितः ॥ ४४५ ॥
वीरासनसमारूढं व्याख्यामुद्रोपशोभितम् ॥
वामोरुन्यस्ततद्धस्तं सीतालक्ष्मणसंयुतम् ॥ ४४६ ॥
वर्णलक्षं जपेन्मन्त्रं दशांशं मधुरप्लुतैः ॥
बिल्वपत्रैः फलैः पुष्पैस्तिलैर्वा पङ्कजैर्हुनेत् ॥ ४४७ ॥
पूजयेद्वैष्णवे पीठे मूर्तिं मूलेन कल्पयेत् ॥
श्रीं सीतायै द्विठान्तेन वामपार्श्वगतां यजेत् ॥ ४४८ ॥
ततस्त्रिकोणकोशाग्रे पृष्ठतो लक्ष्मणं यजेत् ॥ ४४९ ॥
वामपार्श्वत्रिकोणस्थं शार्ङ्गं दक्षिणतः शरान् ॥
ततः षड्दलमध्ये तु षडङ्गानि प्रपूजयेत् ॥ ४५० ॥
तद्बाह्येष्टदलं प्रोक्तं पूजयेदिष्टदिक्षु च ॥ ४५१ ॥
आत्मानं च निवृत्तिं च ह्यन्तरात्मानमेव च ॥
प्रतिष्ठां परमात्मानं ततो विद्यां प्रपूजयेत् ॥ ४५२ ॥
नानात्मानं तथा शान्तिं केशरेषु प्रपूजयेत् ॥ ४५३ ॥
दलमध्ये वासुदेवं श्रियं सङ्कर्षणं तथा ॥
शान्तिं प्रद्युम्नमग्रेनिरुद्धं च रतिमर्चयेत् ॥ ४५४ ॥
हनूमन्तं च सुग्रीवं भरतं च बिभीषणम् ॥ ४५५ ॥
निषादाङ्गदशत्रुघ्नाञ्जाम्बवन्तं दलाग्रतः ॥
आञ्जनेयं तदग्रे च वाचयन्तं कृताञ्जलिम् ॥ ४५६ ॥
धृतिं जयन्तं विजयं सुराष्ट्रं राष्ट्रवर्द्धनम् ॥
अकोपं धर्मपालाख्यं मन्त्रिणश्च क्रमाद्यजेत् ॥ ४५७ ॥
वशिष्ठं वामदेवं च जाबालिं गौतमं तथा ॥
भरद्वाजं काश्यपं च वाल्मीकिं कौशिकं तथा ॥ ४५८ ॥
नारदं सनकं चैव सनातनमतः परम् ॥
सनत्कुमारं च यजेत्तद्बाह्ये द्वादशारके ॥ ४५९ ॥
नीलं नलं सुषेणं च मैन्दं च शरभं ततः ॥
द्विविदं च गवाक्षं च सकिरीटं सकुण्डलम् ॥ ४६० ॥
श्रीवत्सं कौस्तुभं शङ्खं गदाचक्रे च पद्मकम् ॥
अर्चयेत्षोडशदले पूर्वतस्तु कृताञ्जलीन् ॥ ४६१ ॥
ध्रुवो धरश्च सोमश्च आपश्चैवानिलोनलः ॥
प्रत्यूषश्च प्रभातश्च वसवोष्टौ प्रकीर्त्तिताः ॥ ४६२ ॥
वीरभद्रश्च शण्डश्च गिरीशश्च महायशाः ॥
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥ ४६३ ॥
भुवनाधीश्वरश्चैव कपाली च दिशाम्पतिः ॥
स्थाणुर्भगश्च भगवान्रुद्रा एकादश स्मृताः ॥ ४६४ ॥
विवस्वान् सूर्यवेदाङ्गौ भानुरिन्द्रो रविस्तथा ॥
गभस्तिस्तु यमः सर्वसाक्षी चापि दिवाकरः ॥ ४६५ ॥
चित्रो विष्णुरिति प्रोक्ता आदित्या द्वादश क्रमात् ॥ ४६६ ॥
धातारमन्ते प्रयजेद्द्वात्रिंशत्पत्रके ष्विमान् ॥ ४६७ ॥
इन्द्रादीन्भूगृहे बाह्ये तदस्त्राणि च संयजेत् ॥ ४६८ ॥
एवं सिद्धमनुर्मन्त्री प्रयोगान्कर्त्तुमर्हति ॥ ४६९ ॥
धनाय कमलैर्जातीपुष्पैश्चन्दनलोलितैः ॥
भवेद्धनाधिपतिवन्नीलोत्पलहुतेन च ॥ ४७० ॥
वशयेद्विश्वमखिलं बिल्वपुष्पैर्घनात्यये ॥ ४७१ ॥
हुता दीर्घायुषे दूर्वा रक्ताब्जैर्धनवृद्धये ॥ ४७२ ॥
आधाय कुण्डे विधिवदग्निं पूर्वोक्तवर्त्मना ॥
ततो देवं समवाह्य पूजयेदुपचारकैः ॥ ४७३ ॥
पञ्चभिर्वा षोडशभिः पूजोपकरणैःपृथक् पलाशाश्वत्थखदिरोदुम्बराम्रवटेन्धनैः ॥
अग्निं हुत्वालये सम्यग्यज्ञियैरथवन्धनैः ॥ ४७४ ॥
तत्र सम्पूजयेत्सम्यग्राघवं प्रोक्तवर्त्मना ॥ ४७५ ॥
लक्षन्तदर्धमथ वा जापयित्वा दशांशतः ॥
तिलैर्हुत्वा यद्यदिष्टं तत्तदेवाप्नुयान्नरः ॥ ४७६ ॥
बिल्वप्रसूनैरैश्वर्य्यमर्चितेग्नौ हुते भवेत् ॥ ४७७ ॥
पलाशकुसुमैर्हुत्वा मन्त्री वै वेदविद्भवेत् ॥ ४७८ ॥
दूर्वाभिश्च गुडूचीभिः प्रत्येकमपि वा हुतैः ॥
निरामयश्च दीर्घायुर्भवत्येव न संशयः ॥ ४७९ ॥
ध्यात्वाथ मन्मथं रामं सीतामपि रतिं स्मरेत् ॥
कवचस्य प्रयोगे यो जपहोमादिकर्मसु ॥ ४८० ॥
रामं च बोधदातारं स्मरन्नाराध्य भक्तितः ॥
उपैति सदृशीं कन्यां लाजहोमेन साधकः ॥ ४८१ ॥
रामं विधिवदाराध्य ज्वलितेग्नौ प्रयोगवित् ॥
मधुरत्रययुक्तैर्हि पायसैर्जुहुयात्सुधीः ॥
सर्वाधिपत्यं वै द्रव्यं भवेदेव न संशयः ॥ ४८२ ॥
तिलैश्च तण्डुलैराज्यैर्हुत्वा लोकाभिपूजितम् ॥
आरात्संवत्सरं यावत्षट्सहस्रं दिनेदिने ॥ ४८३ ॥
जपेच्च जुहुयादग्नौ तद्दशांशं घृतान्धसा ॥
अयमेवान्नदो लोके सर्वेषामपि जायते ॥ ४८४ ॥
बिल्वप्रसूनैः कुमुदैस्तथा बिल्वदलैरपि ॥
हुत्वा तु लभते लक्ष्मीमचिरादत्र साधकः ॥ ४८५ ॥
आराध्य रामं साङ्गं च विधिवद्वत्सरात्सुधीः ॥
उदयाद्यावदस्तं स्याज्जपेन्मन्त्रमनन्यधीः ॥
फलम्भवति तस्याशु देवानामपि दुर्लभम् ॥
वैराज्येनाधिपत्येन मर्त्यानामुत्तमो भवेत् ॥ ४८६ ॥
पूर्णिमायां निशीथिन्यामुदयास्तमनं विधोः ॥
संवत्सरं प्रकुर्वीत जपहोमादिकं बुधः ॥ ४८७ ॥
रात्रौ यजेद्दिवा होमं कुर्यादेवं परेहनि ॥
ब्राह्मणान्भोजयित्वा तु व्रतमेतत्समापयेत् ॥ ४८८ ॥
सोमसूर्य्यादिकं यस्तु व्रतं कुर्वीत मानवः ॥
भुक्तिम्मुक्तिं च लभते त्विहलोके परत्र च ॥ ४८९ ॥
रक्तपद्मैश्च बन्धूकैस्तथा रक्तोत्पलैरपि ॥
अभीष्टलोकवश्यार्थं जुहुयादर्चितेनले ॥ ४९० ॥
बाह्यै श्वर्य्याय भोगार्थं जपेल्लक्षमनन्यधीः ॥
पत्रैर्बिल्वप्रसूनैर्वा दशांशं जुहुयात्सुधीः ॥ ४९१ ॥
समुद्रतीरे गोष्ठे वा लक्षजापी पयोव्रतः ॥
पायसेनाज्ययुक्तेन हुत्वा विद्यानिधिर्भवेत् ॥ ४९२ ॥
मन्त्रवित्स्वाधिपत्यार्थं शाकाहारो जलान्तरे ॥
जपेल्लक्षं च जुहुयाद्बिल्वपत्रैर्दशांशतः ॥
तदेव पुनरायाति स्वाधिपत्यं न संशयः ॥ ४९३ ॥
उपोष्य गङ्गामध्यस्थो राममभ्यर्च्य सञ्जपेत् ॥
लक्षञ्जपित्वा जुहुयात्कमलान्यथवा तिलान् ॥
जातीपुष्पाणि मधुरत्रितयाक्तानि संहुनेत् ॥ ४९४ ॥
मन्दभाग्यः स्थिरम्भाग्यमथ रामार्चनाल्लभेत् ॥
जपित्वा जुहुयादिन्दुं राज्यश्रियमवाप्नुयात् ॥
वैशाखे राघवं कुर्य्यात्पश्यन्ननिमिषे क्षणः ॥ ४९५ ॥
निराहारो जपेल्लक्षं मौनी पञ्चाग्निमध्यगः ॥
दशांशं कमलैर्हुत्वा स चारोगी भवेद् ध्रुवम् ॥ ४९६ ॥
माघमासे जले स्थित्त्वा कन्दमूलफलाशनः ॥
जपेल्लक्षं च जुहुयात्पायसेनार्चितेनले ॥ ४९७ ॥
दशांशं पुत्रपौत्राद्यैरुपेतः प्राप्नुयाच्छ्रियम् ॥
श्रीरामसदृशः पुत्रपौत्राढ्योपि प्रजायते ॥ ४९८ ॥
बलिष्ठैः शत्रुभिर्मन्त्री परिभूतार्थमानसः ॥
तदा हनहनेत्युक्त्वा तन्नामान्तरितं जपेत् ॥ ४९९ ॥
ध्यात्वा रघुपतिं क्रुद्धं कालानलमिवापरम् ॥
आकर्णसशराकृष्टकोदण्डभुजमण्डितम् ॥ ५०० ॥
नाशयन्तं रिपून्सर्वांस्तीव्रमार्गणवृष्टिभिः ॥
रक्तनेत्रम्महावीरवर्य्यमैन्द्रे रथे स्थितम् ॥ ५०१ ॥
लक्ष्मणादिमहावीरैर्वृतं हनुमदादिभिः ॥
कोटिकोटिमहावीरैः करोद्धृततरूत्तमैः ॥ ५०२ ॥
वज्राङ्गैरपि हुङ्कारभीकारसुमहारवैः ॥
नदद्भिरभिधावद्भिः समरेरिगणं प्रति ॥ ५०३ ॥
एवं ध्यात्वा निराहारो मारणाय रिपोः पुनः ॥
जुहुयाच्छाल्मलीपुष्पैर्दशांशं मन्त्रसाधकः ॥
अत्यन्तसुसमृद्धोपि न शत्रुरवशिष्यते ॥ ५०४ ॥
वैरिणं रावणं ध्यात्वा तथात्मानं रघूद्वहम् ॥
विधाय पूर्ववत्सर्वमनायासेन मारयेत् ॥ ५०५ ॥
सीताहरणशोकाच्च क्रुद्धीभूतमचेतसम् ॥
जपेद्रघुपतिं ध्यायन्निराहारो जले वसन् ॥
दशांशं च तिलैर्हुत्वा स्तम्भयेच्छत्रुसंहतिम् ॥ ५०६ ॥
निधाय वायुबीजेन यन्नम त्रासयेति च ॥
जपेन्मन्त्रं निराहारो जुहुयाच्च तिलैरपि ॥ ५०७ ॥
रामं ध्यात्वा विषण्णन्तं सीतान्वेषणकातरम् ॥
रामभद्रं चिरं साक्षाद्रावणं चापि वैरिणम् ॥ ५०८ ॥
समुद्रतीरे लङ्कायां हेमप्राकारसन्निधौ ॥
सुग्रीवादिभिरन्यैश्च दैवतैर्नारदादिभिः ॥ ५०९ ॥
उपास्यमानं सदसि ध्यात्वा देवं सलक्ष्मणम् ॥
बिभीषणायागताय ददतं शरणार्थिने ॥ ५१० ॥
वरदानं जपेल्लक्षं जुहुयात्पङ्कजैरपि ॥
स्वस्थानमानयेच्छीघ्रं राजानमथवा प्रभुम् ॥ ५११ ॥
निमील्य चक्षुः स्नेहात्तु चोपलभ्य पुनःपुनः ॥
प्रमोदयन्तं सहसा त्वचिरादानयेत्प्रियम् ॥ ५१२ ॥
रामं ध्यात्वा जपेल्लक्षं हुत्वा रक्ताम्बुजैरपि ॥
सम्मोहयति वेगेन राजानमपि वा प्रभुम् ॥ ५१३ ॥
तारादिर्मुक्तये मन्त्रो रमादिर्भुक्तये भवेत् ॥
वाक्सिद्धये च वागादिः सर्ववश्याय मन्मथः ॥
ताराद्यैः पुटितान्मन्त्रान्सर्वार्थान्विनियोजयेत् ॥ ५१४ ॥
अथातः सम्प्रवक्ष्यामि स्वारोचिषसमुद्भवम् ॥
रामस्यैकाक्षरं मन्त्रं कीर्त्यते स तु रामिति ॥ ५१५ ॥
ब्रह्मा मुनिः स्याद्गायत्रं छन्दो रामोस्य देवता ॥
मूर्त्तिपञ्जरनामानं तत्त्वन्यासं च कारयेत् ॥ ५१६ ॥
षड्दीर्घसुसमायुक्तबीजेनैव षडङ्गकम् ॥
ध्यानपूजादिकं प्राग्वद्रामलक्षं जपेन्मनुम् ॥ ५१७ ॥
अथातः सम्प्रवक्ष्यामि तृतीयं तु मनोर्विधिम् ॥
राम इत्येष कथितो द्व्यक्षरो भुक्तिमुक्तिदः ॥ ५१८ ॥
एकाक्षरोक्तमृष्यादि स्यादाद्यन्तं षडङ्गकम् ॥
ध्यानपूजाप्रयोगादि सर्वं ज्ञेयं षडर्णवत् ॥ ५१९ ॥
श्रीवेदशतविंशानामयुतस्य लिखेत्क्रमात् ॥
एकोपचयकोष्ठेषु मन्त्रमेनं प्रपूजयेत् ॥
उपचारैः षोडशभी रामं ध्यात्वा यथाविधि ॥ ५२० ॥
कृष्णपक्षतिमारभ्य पौर्णमास्यां समापयेत् ॥
जायन्ते तेन कार्य्याणि ह्यनुश्लोकदलैः प्रिये ॥ ५२१ ॥
गजाश्व वृषबालानां क्षुद्ररोगो विनश्यति ॥
षड्कर्माणि विनश्यन्ति कृत्याश्चारिप्रणोदिताः ॥ ५२२ ॥
बन्धमोक्षो रोगनाशः सन्तानोद्यमलब्धयः ॥
गतराज्यधनादीनां प्राप्तिः ख्यातिर्धनागमः ॥
विधानं वा महासिद्धिर्भवेद्वा चक्रवर्त्तिता ॥ ५२३ ॥
अथातः सम्प्रवक्ष्यामि चतुर्थन्तु मनोर्विधिम् ॥
तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः ॥
द्व्यक्षरो मन्त्रराजस्तु त्र्यक्षरः परिजायते ॥ ५२४ ॥
न्यासपूजाप्रयोगादि सर्वं पूर्ववदाचरेत् ॥ ५२५ ॥
अथातः सम्प्रवक्ष्यामि षष्ठमन्वन्तरोद्भवम् ॥
रामाय नम इत्येष मन्त्रः पञ्चाक्षरो मतः ॥ ५२६ ॥
विश्वामित्रो मुनिः प्रोक्तः पङ्क्तिश्छन्दोस्य देवता ॥
रामभद्रो बीजशक्ती प्रथमार्णस्ततोन्तिमः ॥ ५२७ ॥
भ्रूमध्ये हृदि नाभ्यङ्घ्र्योः पादयोर्विन्यसेन्मनुम् ॥
षडङ्गं पूर्ववत्कार्य्यं मन्त्रार्णैर्मनुनास्त्रकम् ॥ ५२८ ॥
मध्ये वने कल्पतरोर्मूले वै पुष्पकासने ॥
लक्ष्मणेन प्रगुणितं चाक्ष्णः कोणेन सायकम् ॥
अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम् ॥ ५२९ ॥
जटाभारलसच्छीर्षं श्यामं मुनिगणावृतम् ॥
लक्ष्मणेन धृतच्छत्रमथ वा पुष्पकोपरि ॥ ५३० ॥
दशास्यमथनं शान्तं ससुग्रीव बिभीषणम् ॥
विजयार्थी विशेषेण वर्णलक्षं जपेन्मनुम् ॥
प्राग्वद्धोमस्तर्पणादि प्रय्ॐगाद्यं च साधयेत् ॥ ५३१ ॥
अथातः सम्प्रवक्ष्यामि सप्तमे जातमन्त्रकम् ॥
रामचन्द्रो रामभद्रो ङेन्तो नतियुतो द्विधा ॥ ५३२ ॥
सप्ताक्षरो निगदितो मन्त्रः सप्तर्षिसेवितः ॥
ध्यानपूजाप्रयोगादि निखिलन्तु षडर्णवत् ॥ ५३३ ॥
अथातः सम्प्रवक्ष्यामि मन्त्रं सावर्णिकोद्भवम् ॥
तारादिषड्भिः संयुक्तो द्विधा सप्ताक्षरो मतः ॥ ५३४ ॥
अष्टाक्षरो द्वादशधा कीर्त्तितो वाञ्छितार्थदः ॥
सर्वं षडर्णवज्ज्ञेयं ध्यानपूजाजपादिकम् ॥ ५३५ ॥
अथातः सम्प्रवक्ष्यामि मन्त्रान्नवमसम्भवान् ॥
तारो रामश्चतुर्थ्यन्तः क्रोधान्तो वह्निवल्लभः ॥ ५३६ ॥
अष्टार्णोयं परो मन्त्रो मुन्यादिः स्यात्षडर्णवत् ॥
नाशनः सर्वदोषाणां सङ्ग्रामे विजयप्रदः ॥ ५३७ ॥
अथातः सम्प्रवक्ष्यामि मन्त्रान्दशमसम्भवान् ॥
क्रूंह्रीं नमश्च रामाय ह्रीमित्यष्टाक्षरः परः ॥ ५३८ ॥
ऋषिः सदाशिवः प्रोक्तो गायत्रं छन्द उच्यते ॥
रामचन्द्रोस्य मन्त्रस्य देवता परिकीर्त्तितः ॥ ५३९ ॥
नमो रामाय ह्रींहृच्च नमो रामाय ह्रीं शिरः ॥
दीर्घया माययाङ्गानि तारपञ्चार्णयुक्तया ॥ ५४० ॥
रामं त्रिनेत्रं सोमार्धधारिणं शूलिनं वरम् ॥
भस्मोद्धूलितसर्वाङ्गं कपर्दिनमुपास्महे ॥ ५४१ ॥
रामाभिरामां सौन्दर्य्यसीमां सोमावतंसिनीम् ॥
पाशाङ्कुशधनुर्बाणधरां ध्यायेत्त्रिलोचनाम् ॥
रामशक्तिन्तु सीताख्यां वर्णलक्षं जपेन्मनुम् ॥ ५४२ ॥
होमपूजादिकं सर्वं षडक्षरवदीरितम् ॥
विशेषतो भोगदोसौ सङ्ग्रामे विजयप्रदः ॥ ५४३ ॥
अथैकादश सम्भूतान्राममन्त्रान्वदाम्यहम् ॥
सप्तार्णो यो मनुः प्रोक्तः षड्भिस्तारादिकैः पृथक् ॥ ५४४ ॥
सम्पुटिता द्वादशधा नवार्णा मनवः स्मृताः ॥
ध्यानपूजादिकं सर्वं तेषां सप्तार्णवच्चरेत् ॥ ५४५ ॥
अथातः सम्प्रवक्ष्यामि द्वादशान्तरसम्भवम् ॥
जानकीवल्लभो ङेन्तः स्वाहान्तश्च हुमादिकः ॥ ५४६ ॥
दशाक्षरोयं मन्त्रः स्याद्वशिष्ठोस्य मुनिः स्वराट् ॥
छन्दश्च देवता रामः सीतापाणिपरिग्रहः ॥ ५४७ ॥
आदिबीजन्द्विषः शक्तिरङ्गं षड्दीर्घके मतम् ॥
शिरोललाटभ्रूमध्यनेत्रकण्ठस्तनेष्वपि ॥ ५४८ ॥
नाभ्यूरुजानुपादेषु दशार्णान्विन्यसेन्मनोः ॥
अयोध्यानगरे चैव विचित्रे स्वर्णमण्डपे ॥ ५४९ ॥
मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते ॥
सिंहासने समारूढं पुष्पकोपरि राघवम् ॥ ५५० ॥
रक्षोभिर्हरिभिर्देवैर्दिव्ययानगतैः शुभैः ॥
संस्तूयमानं मुनिभिः प्रहृष्टैरुपसेवितम् ॥ ५५१ ॥
सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपशोभितम् ॥
श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् ॥ ५५२ ॥
ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमनन्यधीः ॥
जपपूजाप्रयोगादि सर्वमस्य षडर्णवत् ॥ ५५३ ॥
अथ त्रयोदशे जातं राममन्त्रं वदाम्यहम् ॥
रामो ङेन्तो धनुष्पाणिस्तथा स्याद्वह्निसुन्दरी ॥ ५५४ ॥
दशाक्षरो मुनिर्ब्रह्मा विराट् छन्दोस्य देवता ॥
राक्षसान्तकरो रामो रां बीजं परिकीर्त्तितम् ॥ ५५५ ॥
स्वाहा शक्तिः स्वबीजेन षडङ्गानि समाचरेत् ॥
वर्णन्यासं तथा ध्यानं पुरश्चर्य्याविधिं तथा ॥ ५५६ ॥
दशाक्षरोक्तवत्कुर्य्याच्चापबाणधरं स्मरेत् ॥
विशेषाज्जयदश्चायं सर्ववाञ्छितदायकः ॥ ५५७ ॥
अथातः सम्प्रवक्ष्यामि चान्यमन्वन्तरोद्भवम् ॥
ॐ हृद्भगवते रामचन्द्रायेति मनुर्मतः ॥ ५५८ ॥
अर्कार्णो द्विविधोप्यस्य मुनिर्ध्यानजपादिकम् ॥
दशाक्षरवदेव स्यादयं कल्याणकारकः ॥ ५५९ ॥
अथ वक्ष्ये वायुजातोपासितं मन्त्रनायकम् ॥
श्रीराम जयरामेति जयराम जयेति च ॥ ५६० ॥
त्रयोदशाक्षरो मन्त्रः सर्वमस्य दशार्णवत् ॥
पदत्रयैर्द्विरावृत्त्या चाङ्गन्यासं समाचरेत् ॥ ५६१ ॥
अथातः सम्प्रवक्ष्यामि भरतोपासितं मनुम् ॥
सतारं हृद्भगवते रामो ङेन्तो महा ततः ॥
पुरुषाय पदं पश्चाद्विठान्तोष्टादशाक्षरः ॥ ५६२ ॥
विश्वामित्रो मुनिश्छन्दो गायत्रं देवता मता ॥
दशास्यदर्प्पदलनो रामभद्रः प्रकीर्त्तितः ॥ ५६३ ॥
तारो बीजं नमः शक्ती रामचन्द्रः षडङ्गकम् ॥
मूलमन्त्रैः कोशलेन्द्रः सत्यसन्धस्ततः परम् ॥ ५६४ ॥
रावणान्तकनामा च सर्वलोकहितस्तथा ॥
शश्वत्प्रसन्नवदनश्चतुर्थीं नमसावदेत् ॥ ५६५ ॥
नन्दिग्रामस्योपवने भरतायतनेर्चिते ॥
रम्ये सुगन्धपुष्पाद्यैर्वृक्षवृन्दैश्च मण्डिते ॥ ५६६ ॥
निष्कोणभेरीपटहशङ्खतूर्य्यादिनिःस्वने ॥
पवित्ररूपे परितो जयमङ्गलभाषिते ॥ ५६७ ॥
पाटीरघुसृणोशीरकर्पूरागुरुगन्धिते ॥
नानाकुसुमसौरभ्यवाहिगन्धवहान्विते ॥
देवगन्धर्वनारीभिर्गायत्र्यादिविभूषिते ॥ ५६८ ॥
सिंहासनसमारूढं पुष्पकोपरि राघवम् ॥
सौमित्रिसीतासहितं जटामुकुटशोभितम् ॥ ५६९ ॥
चापबाणधरं श्यामं ससुग्रीवबिभीषणम् ॥
हत्वा रावणमायान्तं कृतत्रैलोक्यरक्षणम् ॥ ५७० ॥
रामभद्रं हृदि ध्यायन्दशलक्षं जपेन्मनुम् ॥
होमपूजाप्रयोगादि सर्वं ज्ञेयं षडर्णवत् ॥ ५७१ ॥
अथ वक्ष्ये बिभीषणोपासितं मोक्षदायकम् ॥
राज्यश्रियाः प्रदातारं भक्तानामभयप्रदम् ॥ ५७२ ॥
रामभद्र महेश्वास रघुवीर नृपोत्तम ॥
दशास्यान्तक रां रक्ष देहि दापय मे श्रियम् ॥ ५७३ ॥
द्वात्रिंशदक्षरो मन्त्रो विश्वामित्रो मुनिर्मतः ॥
छन्दोऽनुष्टुब्देवता तु रामभद्रः प्रकीर्त्तितः ॥ ५७४ ॥
चतुःसागरवेदाब्धिवस्विभैरङ्गकल्पनम् ॥
मस्तके च ललाटे च नेत्रयोः कर्णयोस्तथा ॥ ५७५ ॥
गण्डयोश्च नसोरास्ये ततश्च भुजमूलयोः ॥
कूर्परद्वितये वापि मणिबन्धद्वये तथा ॥ ५७६ ॥
कण्ठे च स्तनयोर्हृत्के नाभौ च जठरे कटौ ॥
मेढ्रे पायावूरुमूलद्वये जान्वोश्च गुल्फयोः ॥ ५७७ ॥
मन्त्रवर्णान्न्यसेत्तेन जपादावधिकारवान् ॥
पूर्वोक्तध्यानमत्रापि लक्षं च प्रयतो जपेत् ॥
पीतं वा चिन्तयेद्रामं धनार्थं यो मनुं जपेत् ॥ ५७८ ॥
अथातः सम्प्रवक्ष्यामि लक्ष्मणोपासितं मनुम् ॥
तारो नमो भगवते डेन्तः स्याद्रघुनन्दनः ॥ ५७९ ॥
रक्षोघ्नविशदायेति मधुरेति पदं ततः ॥
प्रसन्नवदनायेति ततश्चामिततेजसे ॥ ५८० ॥
बलायेति च रामाय विष्णवे नम इत्ययम् ॥
सप्तचत्वारिंशदर्णो मालामन्त्र उदीरितः ॥ ५८१ ॥
मुनिः पितामहश्छन्दः स्यादनुष्टुप् च देवता ॥
राज्याभिषिक्तो रामश्च्ॐ बीजं शक्तिर्नमस्त्विति ॥ ५८२ ॥
सप्तषट्सप्तदशषट्रुद्रसङ्ख्यैः षडङ्गकम् ॥
शिरोमुखभ्रूमध्येषु नेत्रयोः कर्णयोर्नसोः ॥ ५८३ ॥
गण्डयोरोष्ठयो र्दन्तपङ्क्त्योरास्ये च कक्षयोः ॥
तथा कूर्परयोरस्य तथैव मणिबन्धयोः ॥ ५८४ ॥
अङ्गुलीमूलयोश्चैवाथाङ्गुलीनां तथाग्रयोः ॥
कण्ठे हृदि स्तनद्वन्द्वे पार्श्वयोः पृष्ठके करे ॥ ५८५ ॥
जठरे च तथा नाभौ स्वाधिष्ठाने ध्वजे गुदे ॥
ऊर्वोर्जान्वोस्तथाङ्घ्र्योश्च सर्वाङ्गेपि न्यसेत्क्रमात् ॥ ५८६ ॥
ध्यानं दशाक्षरप्रोक्तं लक्षमेकं जपेन्मनुम् ॥
बिल्वप्रसूनैः पत्रैर्वा तिलैस्त्रिमधुना युतैः ॥ ५८७ ॥
मधुरत्रययुक्तेन पायसेनाथ वाम्बुजैः ॥
होमं दशांशतः कुर्यात्तथा सर्वत्र तर्पणम् ॥
मार्जनं भोजयेद्विप्रान्प्रयोगादि च पूर्ववत् ॥ ५८८ ॥
अथातः सम्प्रवक्ष्यामि शत्रुघ्नोपासितां पराम् ॥
जयदां रामगायत्रीं जपितां सूर्यवंशजैः ॥ ५८९ ॥
दाशरथाय विद्मेह तथा सीतेति वल्लभा ॥
य धीमहीति तन्नो रा तदग्रे मः प्रचोदयात् ॥ ५९० ॥
एषा स्याद्रामगायत्री भक्तानां भुक्तिमुक्तिदा ॥
जन्मप्रभृति यत्पापं दशभिर्याति सङ्क्षयम् ॥ ५९१ ॥
पुरा कृतं शतेनैव सहस्रेण जपेन वा ॥
चतुर्लक्षं जपेद्यस्तु मोक्षभाक् स न संशयः ॥ ५९२ ॥
यच्च यावच्च पूजादि सर्वं पूर्ववदाचरेत् ॥
तारादिरेषा गायत्री मुक्तिमेव प्रयच्छति ॥ ५९३ ॥
मायादिरपि वै द्रव्यं रमादिश्च श्रियं पराम् ॥
मन्मथेनापि संयुक्ता सम्मोहयति मेदिनीम् ॥ ५९४ ॥
अथातः सम्प्रवक्ष्यामि श्रीसीतोपासितं मनुम् ॥
श्रीरामाय हुम्फट् च स्वाहान्तोयं नवाक्षरः ॥ ५९५ ॥
अगस्त्योस्य मुनिः प्रोक्तः पङ्क्तिश्छन्द उदाहृतम् ॥
श्रीमद्दाशरथी रामो देवता परिकीर्त्तितः ॥ ५९६ ॥
स्वाहा शक्तिश्च रां बीजं बीजेनैव षडङ्गकम् ॥
सबिन्दुभिर्यकाराद्यैः पञ्चाङ्गन्यास ईरितः ॥ ५९७ ॥
नीलोत्पलदलश्यामं जटामुकुटमण्डितम् ॥
पीताम्बरधरं देवं चापबाणविभूषितम् ॥ ५९८ ॥
दक्षिणे लक्ष्मणं ध्यायेत्कनकाभं किरीटिनम् ॥
वामभागे जगद्योनिं प्रकृतिं परमेश्वरीम् ॥ ५९९ ॥
सीतां चम्पकगौराङ्गी श्वेतवस्त्रविभूषिताम् ॥
सर्वाभरणसंयुक्तां द्विभुजां रत्नकुण्डलाम् ॥
धनुर्बाणकरं देवं सीतां पद्मकरां स्मरेत् ॥ ६०० ॥
यद्वा रामं चतुर्बाहुं शङ्खचक्रासिशार्ङ्गिणम् ॥
सीतालक्ष्मणसंयुक्तं ध्यायेत्कल्पतरोरधः ॥ ६०१ ॥
ध्यात्वैवं हृदये राममन्तरा वा बहिर्यजेत् ॥
षट्कोणमध्ये रामं च कोणेष्वङ्गानि चार्चयेत् ॥ ६०२ ॥
तद्बाह्येष्टदले पूर्वदिगादौ भरतं यजेत् ॥
हनूमन्तं लक्ष्मणं च जाम्बवन्तं क्रमेण च ॥ ६०३ ॥
सुग्रीवमर्चयेत्पश्चात्पूजयेच्च विभीषणम् ॥
सीतां च सुग्रीवाग्रे तु दिक्पालान्हेतिभिः सह ॥ ६०४ ॥
जपेद्द्वादशलक्षाणि होमश्चाशोकपुष्पकैः ॥
तर्पणादि ततः कृत्वा प्रयोगार्हो भवेन्मनुः ॥ ६०५ ॥
रक्तापामार्गपत्रैश्च मधुरत्रयसंयुतैः ॥
वा कञ्जपत्रैर्जुहुयाद्धोमोयं लोकवश्यकृत् ॥ ६०६ ॥
जप पुष्पहुतं भस्म तिलकं लोकवश्यकृत् ॥
मल्लिकाभिर्जगद्वश्यं भवत्येव न संशयः ॥६०७ ॥
लक्षत्रयं जपेन्मन्त्री सर्वज्ञानमवाप्नुयात् ॥
अश्रुतान्यपि शास्त्राणि षड्भिर्लक्षैस्तु विन्दति ॥
नवभिर्देवकन्याभिर्देववत्स प्रमोदते ॥ ६०८ ॥
चन्द्र सूर्योपरागे तु मोक्षौषद्ध्यभिमन्त्रितम् ॥
कपिलाज्यं पिबेद्यस्तु दूर्वारसविमिश्रितम् ॥ ६०९ ॥
अद्याज्ज्योतिष्मतीतैलमङ्कोलरसमिश्रितम् ॥
शुद्धब्राह्मीरसं वापि स सर्वज्ञो भवेद्द्रुतम् ॥ ६१० ॥
सन्ध्यात्रये प्रतिदिनं सहस्रत्रितयं जपेत् ॥
मासेन महदैश्वर्यं जायते नात्र संशयः ॥ ६११ ॥
श्रीकामो जुहुयात्पद्मैरयुतं त्रिमधुप्लुतैः ॥
धनवाञ्जायते मन्त्री द्वितीय इव यक्षराट् ॥ ६१२ ॥
बिल्वपत्रैश्च जुहुयादथवा तद्दलैर्हुनेत् ॥
लक्षमेकं विधिस्थाने निधिलाभो भवेद्ध्रुवम् ॥ ६१३ ॥
अथातः सम्प्रवक्ष्यामि मयैवोपासितं सुराः ॥
ज्ञानप्रदं महामन्त्रं सनकाद्यैरुपासितम् ॥ ६१४ ॥
ॐ नमो ब्रह्मदेवाय रामायाकुण्ठमेधसे ॥
उत्तमश्लोकवर्य्याय न्यस्तदण्डार्चिताङ्घ्रये ॥ ६१५ ॥
शुकदेवो मुनिश्चास्य छन्दोनुष्टुबुदाहृतम् ॥
श्रीरामो देवता बीजं रां वर्य्यः शक्तिरुच्यते ॥ ६१६ ॥
चतुष्पादैः समस्तेन पञ्चाङ्गविधिरीरितः ॥
वाग्वद्ध्यानादिकं लक्षं पुरश्चर्या प्रकीर्त्तिता ॥ ६१७ ॥
आज्यपायसहोमं च ब्राह्मणार्चां समाचरेत् ॥
प्रयोगाः पूर्वमन्त्रोक्ता मोक्षार्थी साधयेदमुम् ॥ ६१८ ॥
अथातः सम्प्रवक्ष्यामि शक्रेणोपासितं मनुम् ॥
येन कारागृहान्मुक्तो रावणस्य सुरेश्वरः ॥ ६१९ ॥
तारो नमो भगवते रामभद्राय संवदेत् ॥
बन्दीविमुक्तशृङ्खले स्वाहा द्वाविंशदक्षरः ॥ ६२० ॥
विभीषणो मुनिः प्रोक्तो जगती छन्द ईरितम् ॥
स्वाहा शक्तिर्ध्रुवो बीजं रामभद्रोस्य देवता ॥
पदैरस्य षडङ्गानि जपेल्लक्षमितं सदा ॥ ६२१ ॥
प्राग्वद्धोमादिकं सर्वं यदर्थं जप्यतेयुतम् 14 ॥
सप्ताहाज्जायते मोक्षो 15 नात्र कार्य्या विचारणा ॥ ६२२ ॥
अथातः सम्प्रवक्ष्यामि सीतामन्त्रं महाद्भुतम् ॥
श्रीसीतायै नमः स्वाहा सीतामन्त्रः षडक्षरः ॥ ६२३ ॥
जनकोस्य मुनिश्छन्दो गायत्रं देवता मता ॥
सीता भगवती प्रोक्ता श्रीं बीजं शक्तिरन्यकौ ॥
दीर्घस्वरयुताद्येन षडङ्गानि प्रकल्पयेत् ॥ ६२४ ॥
पूजयेद्वैष्णवे पीठे ध्यायेद्राघव संयुताम् ॥
स्वर्णाभामम्बुजकरां रामालोकनतत्पराम् ॥ ६२५ ॥
वर्णलक्षं जपेन्मन्त्रमिष्टार्थं साधयेत्ततः ॥
आरोग्याय घृतं धान्यन्ताम्बूलं वश्यसिद्धये ॥
श्रीफलानि तिलान्मुक्त्यै भुक्त्यै च जुहुयात्सदा ॥ ६२६ ॥
अथातः सम्प्रवक्ष्यामि कृष्णमन्त्रान्महाद्भुतान् ॥
कृष्णः स एव भगवान्कलिद्वापरसन्धिगः ॥ ६२७ ॥
वृद्धये कलिधर्म्माणाम्भक्तानान्तारणाय च ॥
एकसप्ततिरूपोसौ प्रतिमन्वन्तरेभवत् ॥ ६२८ ॥
तदुक्ताचरणान्मोक्षस्तत्कृत्याचरणाच्च्युतिः ॥
इति तत्त्वं समाख्यातं विष्णोः सन्धिभवस्य च ॥ ६२९ ॥
जातश्चाद्ये कलियुगे नानागोपीरते रतः ॥
सत्कर्म कुर्वतां पातस्तदुक्तिर्मोक्षसाधनम् ॥ ६३० ॥
स्वधर्मनिरतानान्तु कलौ जन्म न जायते ॥
तस्य मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रसाधनम् ॥ ६३१ ॥
गोपीजनवल्लभाय स्वाहा मन्त्रो दशाक्षरः ॥
नारदोस्य मुनिः प्रोक्तो विराट् छन्द उदाहृतम् ॥ ६३२ ॥
देवता नन्दपुत्रः क्लीं बीजं शक्तिः शिखिप्रिया ॥
अचक्राय हृदाख्यातं विचक्राय शिरोपि च ॥ ६३३ ॥
सुचक्राय शिखा पश्चात्त्रैलोक्यरक्षणन्ततः ॥
चक्राय कवचं प्रोक्तमसुरान्तकशब्दतः ॥ ६३४ ॥
चक्रायास्त्रमिदं कुर्य्यादङ्गानां पञ्चकं मनोः ॥
सर्वाङ्गेषु मनुं न्यस्य मन्त्रन्यासं समाचरेत् ॥ ६३५ ॥
जातियुक्तं च पञ्चाङ्गन्तथा पञ्चाङ्गुलीषु च ॥
हृदये शीर्षके चैव शिखायां कवचे तथा ॥ ६३६ ॥
अस्त्रे पार्श्वद्वये कण्ठे पृष्ठे मूर्द्धनि च क्रमात् ॥
ततः करतले पृष्टे व्यापकत्वेन विन्यसेत् ॥ ६३७ ॥
प्रणवाद्यं नमोन्तं च सकलं च मनुं बुधः ॥
वामाङ्गुष्ठं समारभ्य दक्षाङ्गुष्ठान्तकं न्यसेत् ॥ ६३८ ॥
तारसम्पुटितैर्वर्णैर्दशभिश्च नमोयुतैः ॥
एष संहारनामा तु न्यासः प्रथम ईरितः ॥ ६३९ ॥
दक्षाङ्गुष्ठादिवामान्तं सृष्टिन्यास उदाहृतः ॥
अङ्गुष्ठाभ्यां समारभ्य कनिष्ठान्तं स्थितिर्भवेत् ॥ ६४० ॥
एवं न्यासत्रयञ्चेति पञ्चन्यासाः प्रकीर्त्तिताः ॥ ६४१ ॥
पूर्व्वमुक्तं तु पञ्चाङ्गं वामदक्षिणहस्तयोः ॥
न्यसेद्दशाङ्गुलीष्वेवं षष्ठो न्यासः प्रकीर्त्तितः ॥ ६४२ ॥
आदौ मूलं समुच्चार्य्य मातृकाञ्च सबिन्दुकाम् ॥
विपरीतं पुनर्मूलं सप्तमः परिकीर्तितः ॥ ६४३ ॥
पादयोः पाणियुग्मे हृन्मुखयोर्मस्तके तथा ॥
पुनर्हृदि च सर्वाङ्गे सर्वाङ्गसकलाङ्गके ॥ ६४४ ॥
दश तत्त्वानि भूस्तोयं तेजो वायुर्नभस्तथा ॥
अहङ्कारो महत्तत्त्वं प्रकृतिः पुरुषः परः ॥
तत्त्वन्यासोष्टमोयं हि मया तुभ्यं प्रकीर्त्तितः ॥ ६४५ ॥
सर्वाङ्गादि तु पादान्तं न्यासमेनं प्रविन्यसेत् ॥
विलोमतत्त्वन्यासोयं नवमः परिकीर्त्तितः ॥ ६४६ ॥
मस्तकादि तु पादान्तं कराभ्यां व्यापकं न्यसेत् ॥
तारसम्पुटितम्मन्त्रं त्रिवारं दशमस्त्वयम् ॥ ६४७ ॥
पादयोर्जानुनोर्लिङ्गे जठरे हृदये मुखे ॥
नासयोः कर्णयोरक्ष्णोः शिरसि क्रमतो न्यसेत् ॥
सबिन्दुकान्मन्त्र वर्णान्संहारोयं शिरोन्वितः ॥ ६४८ ॥
मस्तके नेत्रयोः कर्णे नासयोश्च मुखे हृदि ॥
जठरे व्यञ्जने जान्वोः पादयोश्च क्रमान्न्यसेत् ॥
मन्त्रवर्णान्द्वादशोयं सृष्टिन्यासः प्रकीर्त्तितः ॥ ६४९ ॥
हृदये जठरे लिङ्गे जानुनोः पादयोश्च के ॥
अक्ष्णोः श्रुत्योर्नसि मुखे मन्त्रवर्णान्क्रमान्न्यसेत् ॥
स्थितिन्यासः समाख्यातो मूलस्यायं त्रयोदशः ॥ ६५० ॥
मूलाधारे ध्वजे नाभौ हृदये च गले मुखे ॥
अंसयोरूरुयुग्मे च न्यासोयं स्याच्चतुर्दशः ॥ ६५१ ॥
स्कन्धे नाभौ कुक्षिहृदोः कटौ पार्श्वद्वये तथा ॥
पृष्ठेग्रे च न्यसेन्मन्त्रवर्णान्पञ्चदशस्त्वयम् ॥ ६५२ ॥
मूर्ध्नि भ्रूमध्यके चाक्ष्णोः कर्णयोर्नासिकाद्वये ॥
गण्डयोश्च न्यसेद्वर्णान्न्यासोयं षोडशः स्मृतः ॥ ६५३ ॥
दक्षिणे भुजमूले च तन्मध्ये मणिबन्धके ॥
मूलाङ्गुलीनामग्रे च तथाङ्गुष्ठादिपञ्चसु ॥ ६५४ ॥
क्रमेण विन्यसेद्वर्णान्न्यासः सप्तदशः स्मृतः ॥
इत्थं वामकरे न्यस्य न्यासस्त्वष्टादशो भवेत् ॥ ६५५ ॥
दक्षोरुमूलजानौ च गुल्फे चाङ्गुलिमूलके ॥
अङ्गुल्यग्रे तथाङ्गुष्ठादौ न्यासस्तूनविंशकः ॥ ६५६ ॥
एवं न्यसेद्वामपादे न्यासो विंशमितः स्मृतः ॥
मस्तके तत्सर्वभागादौ सम्पूर्णे शिरस्यथ ॥
बाहुयुग्ये सन्धियुग्मे न्यासोयञ्चैकविंशकः ॥ ६५७ ॥
शीर्षा क्षिमुखकण्ठोरोजठरे मूलधारके ॥
लिङ्गे जानुनि पादे च द्वाविंशोयं प्रकीर्त्तितः ॥ ६५८ ॥
कर्णयोर्गण्डयोर्न्यस्येदंसयोः स्तनयोस्तथा ॥
पार्श्वयोर्भुजयोश्चोर्वोर्जानुनोर्जङ्घयोः पदोः ॥
युग्मन्यासोयमाख्यातस्त्रयोविंशतिसङ्ख्यकः ॥ ६५९ ॥
चतुर्दशं समारभ्य दशन्यासास्तु ये स्मृताः ॥
विभूतिपञ्जरो नाम चैष एव प्रकीर्त्तितः ॥ ६६० ॥
अशेषसुखकमार्थकीर्त्तिकान्त्यादिकारकः ॥
नरनारीनरेन्द्राणां वश्यकर्मणि शस्यते ॥
भुक्तिमुक्तिप्रदो भक्तिप्रदो विष्णोः पदाम्बुजे ॥ ६६१ ॥
कुर्य्यान्मन्त्री ततो न्यासं नारसिंहं तु पञ्चमम् ॥
मूर्त्तिपञ्जरनामाख्यं प्रोक्तं पापप्रणाशनम् ॥ ६६२ ॥
पुनः सृष्टिस्थितिन्यासौ दशाङ्गन्यासमाचरेत् ॥
प्रोक्तमाद्यप्रकारेण न्यासानामुपकल्पने ॥ ६६३ ॥
वैष्णवीर्दर्शयेन्मुद्राः पूर्वोक्ताः सकला अपि ॥
एवं कृत्वा विधानेन मन्त्री मन्त्रकलेवरम् ॥ ६६४ ॥
त्रय्यन्ते बोधितं नित्यं कृष्णं ध्यायेज्जगत्पतिम् ॥
पूर्वं वृन्दावनं रम्यं स्मरेत्पुष्पविराजितम् ॥ ६६५ ॥
नवीनपल्लवोद्रेकफलसम्पत्तिसंयुतम् ॥
मधुपैः कृतराङ्कारैः कीराद्यैश्च निनादितम् ॥ ६६६ ॥
आदित्यतनयापार्श्वलहरीकणशीतलम् ॥
तस्मिन्वने कल्पतरुं नवपल्लवशोभितम् ॥ ६६७ ॥
सर्वशाखाग्रसंयुक्तं नवरत्नफलान्वितम् ॥
दिव्यामृतौघवर्षेण सिञ्चन्तं विश्वमुच्छ्रितम् ॥ ६६८ ॥
ज्वलद्रत्नसमाबद्धां पुष्परेणुविभूषिताम् ॥
षडूर्मिरहितां ध्यायेत्तस्याधस्ताद्वसुन्धराम् ॥ ६६९ ॥
माणिक्यकुट्टिमं तत्र योगपीठं विचिन्तयेत् ॥
पद्ममष्टदलं तत्र यथोक्तं रत्नपर्णकम् ॥ ६७० ॥
तस्य मध्ये सुखासीनं कृष्णं ध्यायेदनन्यधीः ॥
उद्यदादित्यसङ्काशं प्रसन्नवदनं विभुम् ॥ ६७१ ॥
इन्द्रनीलमणिप्रख्यं स्निग्धदीर्घशिरोरुहम् ॥
मायूरेण सुपिच्छेन राजमानशुभाङ्गकम् ॥ ६७२ ॥
कुटिलालकविभ्राजदास्यं कर्णकृतोत्पलम् ॥ ६७३ ॥
गोरोचनाक्ततिलकं पूर्णचन्द्रनिभं स्मरेत् ॥
पद्मनेत्रं दीप्तमणिं मकराकृतिकुण्डलम् ॥ ६७४ ॥
कपोलस्थललावण्यविजितस्वच्छदर्पणम् ॥
अत्यद्भुतोन्नासिकं च पक्वबिम्बफलाधरम् ॥ ६७५ ॥
दाडिमीबीजरदनं कम्बुसुन्दरकण्ठकम् ॥
आरण्यैः पल्लवैः पुष्पैः कृतग्रैवेयसम्पदम् ॥ ६७६ ॥
कौस्तुभप्रभया दीप्तविशालोन्नतवक्षसम् ॥
श्रीवत्साङ्काङ्कितोरस्कं वृषस्कन्धं च हारिणम् ॥ ६७७ ॥
आजानुलम्बदोर्दण्डं वलित्रययुतोदरम् ॥
क्षुद्रघण्टिकया बद्धकटिं ग्रैवेयराजितम् ॥ ६७८ ॥
चक्रशङ्खलसत्पद्मामृतकुण्डाम्बरादिभिः ॥
कुलिशप्रमुखैश्चिह्नैरङ्कितस्वच्छपत्तलम् ॥ ६७९ ॥
मुखाम्बुजसमायुक्तवंशच्छिद्रार्पिताङ्गुलिम् ॥
तन्मृदुध्वनिसन्तानविवशीकृतमानसम् ॥ ६८० ॥
अपाङ्गैः प्राणिजातन्तु मोहयन्तमनारतम् ॥
परमानन्दसन्दोहसम्पूर्णीकृतमानसम् ॥
मुखपद्मसमासक्तस्वान्तनेत्राभिराजितम् ॥ ६८१ ॥
गोभिरूधोमहाभारमन्दयानाभिरेव च ॥
कवलीकृतसन्त्यक्तन्यासलेशाभिरप्यलम् ॥ ६८२ ॥
प्रस्नुतस्तनपापेन सम्भृतानननिःस्वनैः ॥
डिण्डीरवाभिसंयुक्तद्रवैर्दृष्टिमनोहरैः ॥ ६८३ ॥
वंशवादनप्रोन्नीतगीताकर्णनलालसैः ॥
उत्तम्भनीकृतश्रोत्रपुटयुग्मैश्च तर्णकैः ॥ ६८४ ॥
किञ्चिद्विषतरूद्धूतिजातकण्डूतिमस्तकैः ॥
परस्परविमर्दार्थखुरस्पृष्टमहीतलैः ॥ ६८५ ॥
स्निग्धैर्गुरुभिरत्यन्तसुशोभिगलकम्बलैः ॥
वत्सीवत्ससमूहैश्च संवतं तदनन्तरम् ॥ ६८६ ॥
कृतसम्भ्रमसन्दोहं लघुदीर्घकलेवरैः ॥
उच्चकर्णपुटैः पीतवंशशब्दसुधारसैः ॥ ६८७ ॥
स्ववयस्यैश्च गायद्भिर्धृत्यद्भिः सविभाषणैः ॥
नानावेषधरैर्बालैः संस्तुवद्भिः समावृतम् ॥
मधुराकृतिभिः सर्वैः पीयूषाद्भुतभाषणैः ॥ ६८८ ॥
शार्दूलनखसङ्कॢप्तगलाकल्पैस्तथावृतम् ॥
ततो गोपपुरन्ध्रीणां स्मरेद्वन्दं समाहितः ॥ ६८१ ॥
तद्धावभावकल्लोलसञ्जीवितमनोभवम् ॥
वल्लवीवल्लवगवां देववृन्दं बहिः स्मरेत् ॥ ६९० ॥
सम्मुखे देवदेवस्य काङ्क्षन्तं धनसञ्चयम् ॥
ऋषिसङ्घं तथा दक्षे वेदाध्ययनतत्परम् ॥ ६९१ ॥
धर्मार्थिनं स्मरेत्पश्चान्मेनकाप्रमुखास्तथा ॥
वामभागे च योगीन्द्रान्यक्षगन्धर्वकिन्नरान् ॥ ६९२ ॥
सिद्धविद्याधरांश्चापि चारणाप्सरसां गणम् ॥
अनेकश्रुतिसम्पूर्णवीणावादनतत्परम् ॥ ६९३ ॥
आकाशे नारदं ध्यायेन्मुनिवर्य्यं गत स्मयम् ॥
एवं ध्यात्वा यजेत्पीठे देहे मानसिकार्चनम् ॥ ६९४ ॥
बाह्यपूजां ततः कुर्य्यान्मूर्तिं मूलेन कल्पयेत् ॥
न्यासोक्तं क्रमतः पश्चाद्गन्धाद्यैर्देवमर्चयेत् ॥ ६९५ ॥
एवं ध्यात्वा यजेत्पीठे वैष्णवे नवशक्तिके ॥
आदौ स्वीये पीठमये देहे मानसिकार्चनम् ॥ ६९६ ॥
सृष्ट्या स्थित्या च सम्पूज्य पञ्चाङ्गं च दशाङ्गकम् ॥
वंशं च वनमालां च श्रीवत्सं कौस्तुभं तथा ॥ ६९७ ॥
पूजयेत्कृष्णवर्णस्थं ततश्चावरणार्चनम् ॥
कर्णिकायां चतुर्दिक्षु देवस्य परितोर्चयेत् ॥ ६९८ ॥
दामं सुदामं श्रीदामं वसुदामं तथापरम् ॥
तेजोरूपधरांश्चैतान्केसरेष्वङ्गपूजनम् ॥ ६९९ ॥
रुक्मिणीप्रमुखाश्चाष्टपत्रेषु महिषीर्यजेत् ॥
रुक्मिणीं सत्यभामां च नग्नजित्तनयार्कजे ॥ ७०० ॥
मित्रविन्दां लक्ष्मणां च जाम्बवत्या सुशीलिकाम् ॥
कमलं चार्घपात्रं च बिभ्रतीर्दक्षिणान्ययोः ॥ ७०१ ॥
सुन्दरीर्दिव्यरक्ताभा वस्तुलेपादिभिर्युताः ॥
स्तनभारनता नानारत्नजालविभूषणाः ॥ ७०२ ॥
पत्राग्रेषु ततः पूज्या वसुदेवश्च देवकी ॥
नन्दगोपो यशोदा च बलभद्रः सुभद्रिका ॥ ७०३ ॥
गोपाला गोपिकाः कृष्णशुश्रूषासक्तमानसाः ॥
स्वर्णाभो वसुदेवस्तु रक्तो नन्दः प्रकीर्त्तितः ॥ ७०४ ॥
रक्तश्यामनिभेप्रोक्ते मातरौ दक्षिणे करे ॥
वरं वामे वहन्त्यौ तु पात्रं गोपयसा भृतम् ॥
मुक्ताहारधरे रत्नकुण्डलादिविभूषिते ॥ ७०५ ॥
बलभद्रस्तु कुन्दाभो मुशली हलसंयुतः ॥
नीलाम्बरो मदोन्मत्तश्चञ्चलश्चैककुण्डलः ॥
नानोपायनहस्ताब्जगोपापत्यैः सुपूजितः ॥ ७०६ ॥
मध्ये बहिश्च पूर्वादौ मन्दारं पारिजातकम् ॥
सन्तानं कल्पवृक्षं च चन्दनं च प्रपूजयेत् ॥ ७०७ ॥
दीर्घनम्रबृहच्छाखान्भूपुरे तु दिगीश्वरान् ॥
तदायुधानि विधिना क्रमतः सम्यगर्चयेत् ॥ ७०८ ॥
शर्करादधिसंयुक्तं सघृतं गोपयो हविः ॥
नालिकेरं गुडं पूरीर्नवनीतं सितोपलम् ॥ ७०९ ॥
क्षौद्रं सङ्कल्प्य नैवेद्यं गोमुद्रां सम्प्रदर्शयेत् ॥
ॐ नमः परमेत्युक्त्वात्मने निरुपमं वदेत् ॥ ७१० ॥
नैवेद्यं कल्पयामीति विंशत्यर्णो मतो मनुः ॥
समये च निवेद्यं हि कुर्यादन्यत्पुरोक्तवत् ॥ ७११ ॥
ततश्चन्दनपङ्केन स्वीये देहे विभूषयेत् ॥
मूलमन्त्रेण मन्त्रज्ञो मूर्तिं निर्माय मन्त्रकैः ॥ ७१२ ॥
कुर्य्यात्पुष्पाञ्जलिं पञ्च तुलसीपत्रतो बुधः ॥
मूलमन्त्रं समुच्चार्य्य पादपद्मद्वयं विभोः ॥ ७१३ ॥
करवीरद्वयेनाथ मध्यदेहे प्रकल्पयेत् ॥
अम्भोजयुग्मतः पश्चादुत्तमाङ्गे निवेदयेत् ॥ ७१४ ॥
एभिः सर्वैः कृते गात्रे तावतः कुसुमाञ्जलीन् ॥
देवस्य दक्षिणे दद्याच्छेतपुष्पाणि मन्त्रवित् ॥ ७१५ ॥
सप्तावरणसंयुक्तमित्थं कृष्णस्य पूजनम् ॥
सर्वसम्पत्करं पुंसां भोगमोक्षफलप्रदम् ॥ ७१६ ॥
अङ्गैश्चेन्द्रादिभिर्वज्रप्रमुखैरावृतित्रयम् ॥
सङ्क्षेपपूजनं तेन कृत्वा कृष्णाष्टकं यजेत् ॥ ७१७ ॥
कृष्णाय वासुदेवाय देवकीनन्दनाय च ॥
दामोदराय गोविन्द हृषीकेश कुभारहृत् ॥ ७१८ ॥
धर्मसम्पत्करश्चेति ङेनमोन्तो ध्रुवादिकः ॥
एतैरेव विधातव्या कृष्णार्चा ह्यथवा बुधैः ॥ ७१९ ॥
समर्पयेदर्घ्यजलैर्गन्धपुष्पाक्षतान्वितैः ॥
सम्पूज्य स्वे हृदम्भोजे समुद्वास्य नमेत्ततः ॥ ७२० ॥
ततः पूर्वोक्तविधिना दीक्षितः प्रजपेन्मनुम् ॥
मन्त्रार्थं चिन्तयन्मन्त्री नियमस्थो जितेन्द्रियः ॥ ७२१ ॥
चत्वारिंशत्सहस्राणि श्वेतपद्माक्षमालया ॥
पश्चान्मन्त्रस्य शुद्ध्यर्थं दशलक्षं जपेत्सुधीः ॥ ७२२ ॥
लक्षंहुनेद्रक्तपद्मैः सितासर्पिर्मधुप्लुतैः ॥
शर्कराघृतसंयुक्तैरब्जैर्वा जुहुयाद्वरैः ॥ ७२३ ॥
तर्पयेत्सलिलैः शुद्धैश्चन्द्रचन्दनसंयुतैः ॥
आत्माभिषेकं कृत्वाथ भूदेवान्पूजयेत्ततः ॥ ७२४ ॥
नानाविधैर्भक्ष्यभोज्यैस्ताम्बूलैश्च सदक्षिणैः ॥
ततो निजगुरुं सम्यक्प्रणिपत्य यथाविधि ॥ ७२५ ॥
धनधान्याम्बराद्यैश्च वित्तशाठ्यविवर्ज्जितः ॥
तोषयेत्परया भक्त्या निजकार्यस्य सिद्धये ॥ ७२६ ॥
ततः सिद्धमनुर्मन्त्री प्रयोगान्निजवाञ्छितान् ॥
कुर्याद्भक्तियुतः सम्यङ्-नित्यनैमित्तिके रतः ॥ ७२७ ॥
तत्काले देवकीजातं शङ्खचक्रगदाम्बुजान् ॥
दधतं पीतवसनं सुन्दरं गगनप्रभम् ॥ ७२८ ॥
निशायामे चतुर्थे तु ध्यात्वा लक्षं जपेन्मनुम् ॥
त्रिमध्वक्तैस्तद्दशांशैः किंशुकप्रसवैर्हुनेत् ॥
वीर्यं प्रज्ञां स्मृतिं प्राप्य कविनामग्रणीर्भवेत् ॥ ७२९ ॥
मातुरङ्कगतं दिव्यं चलत्पादकरं शिशुम् ॥
ध्यात्वा क्षीरधियां तोयैस्तर्पयेल्लभते सुतम् ॥ ७३० ॥
पिबन्तं पूतनास्तन्य यस्तु तस्याः शिरः स्मरेत् ॥
शतं साग्रं जपेन्मन्त्रं रुदतीं पूतनां तथा ॥
छिन्नमर्मप्रणादाढ्यां तदा नश्यन्ति राक्षसाः ॥ ७३१ ॥
अपामार्गस्य समिधः पञ्चगव्यान्विता हुनेत् ॥
ध्यायेत्ततस्ताः कृष्णस्य हुतशेषांस्तु प्राशयेत् ॥ ७३२ ॥
सहस्रमन्त्रितैस्तोयैरभिषिक्ताय रोगिणे ॥
ग्रहपीडादिमुक्तिः स्याद्बालानां रुग्विनाशनम् ॥ ७३३ ॥
स्वकीयवरसङ्क्षिप्तं सकलं भावयेन्मनुम् ॥
अयुतं प्रजपेन्मन्त्रं विघ्नसङ्घाः शमं ययुः ॥ ७३४ ॥
नीलगात्रं स्वहस्ताभ्यां नवनीतं नवं दधि ॥
दधानं किङ्किणीसङ्घं लसत्स्वच्छविभूषणम् ॥ ७३५ ॥
दूर्वात्रयैश्च दुग्धाद्यैर्हुत्वैवं प्रजपेन्मनुम् ॥
सन्तोष्य गुरुविप्राश्च व्याध्यादिरहितो भवेत् ॥ ७३६ ॥
कर्मबन्धं पातयन्तं कृष्णं ध्यात्वा जपेन्मनुम् ॥
तेनापि मन्त्रितं तोयं क्षिप्त्वा पीडां व्यपोहति ॥ ७३७ ॥
गोगणं साधु रक्षन्तं चारयन्तमितस्ततः ॥
वेणुं धमन्तं गोविन्दं ध्यायेत्पूर्वोदितं फलम् ॥ ७३८ ॥
कालीयस्य फणामध्ये नृत्यन्तं कृष्णमञ्जसा ॥
सुधादृष्ट्या वीक्षमाणं तद्रात्रौ प्रजपेन्मनुम् ॥ ७३९ ॥
वामहस्तस्य तर्जन्या तर्जयेन्मतिसत्तमः ॥
सुखीकरोति धिषणं कालदष्टमपि क्षणात् ॥ ७४० ॥
कालीयदमनं कृष्णं ध्यात्वा कुशचये जपेत् ॥
अष्टोत्तरशतं स्नायाद्विषार्तो निर्विषो भवेत् ॥ ७४१ ॥
गोवर्धनगिरिं वामबाहुदण्डेन बिभ्रतम् ॥
दक्षिणेन व्रजप्राणिप्राणसन्त्राणसूचकम् ॥ ७४२ ॥
कृष्णं सञ्चिन्तयेन्मन्त्रं गच्छञ्च्छत्रुं मृधे जयेत् ॥
भीतिदास्तं न बाधन्ते विषवर्षणवायुवत् ॥ ७४३ ॥
व्यर्थमेघोद्यमाद्यान्तं वासवं चिन्तयेद्धुनेत् ॥
अयुतं लवणैः शुद्धैंरनावृष्टिर्भवेद्ध्रुवम् ॥ ७४४ ॥
यमुनायां तु गोपीभिर्जलक्रीडाकरं हरिम् ॥
मुहुर्मुहुः सिच्यमानं क्षीराक्तैरयुतं हुनेत् ॥
भूयसीं वृष्टिमिष्टां हि कुर्यादसमयेपि सः ॥ ७४५ ॥
एवमेव स्मरन्कृष्णं पीडितस्य तु मस्तके ॥
मोहनार्त्तिगरस्फोटभूतराक्षसपन्नगैः ॥
मन्त्रं जपेत्तदानीं तु सुखी भवति नान्यथा ॥ ६४६ ॥
वैनतेयगतं कृष्णं सप्रद्युम्नं बलान्वितम् ॥
आत्मभूतपराभूतैर्जनैः सर्वैः स्तुतं तथा ॥ ७४७ ॥
एवं ध्यात्वा ग्रहाक्रान्तमस्तके सञ्जपेन्मनुम् ॥
महाघोरग्रहो दुष्टस्तदानीं नाशमाप्नुयात् ॥ ७४८ ॥
एवं ध्यात्वानले कृष्णं साङ्गमभ्यर्च्य चायुतम् ॥
क्षीराच्छिनाखण्डहोमात्सर्वं क्रूरज्वरं हरेत् ॥ ७४९ ॥
क्षीरार्णवप्रविष्टाङ्गं ग्रीष्मपीडाहरं हरिम् ॥
ध्यात्वा स्पृशेज्जपन्नार्तं पाणिभ्यां स सुखी भवेत् ॥ ७५० ॥
अर्चितेग्नौ हुनेत्कृष्णं सान्दीपिनिसुतप्रदम् ॥
ध्यात्वा दुग्धगुडूचीभिरपमृत्युर्विनश्यति ॥ ७५१ ॥
कृष्णं पुत्रान्प्रयच्छन्तं विप्राय मृतसूनवे ॥
ध्यात्वा पार्थयुतं मन्त्रं जपेत्पुत्रसमृद्धये ॥ ७५२ ॥
पुत्रजीवककाष्ठाग्नौ सक्षौद्रैस्तु फलैर्हुनेत् ॥
अयुतं लभते पुत्रान्नीरोगांश्चिरजीविनः ॥ ७५३ ॥
दुग्धवृक्षत्वचां क्वाथैः कृष्णमावाह्य रात्रिषु ॥
पूजयित्वायुतं जप्त्वा शतयोषापतिर्व्रजेत् ॥ ७५४ ॥
अभिषिञ्चेद्घृतेनैव पाययेदर्कवासरे ॥
एवं कतिपयैर्मासैर्वन्ध्यापि लभते सुतम् ॥ ७५५ ॥
बोधिपत्रगतं तोयं जप्तमष्टोत्तरं शतम् ॥
मौनं कृत्वा पिबेन्नारी प्राग्वर्षाल्लभते सुतम् ॥ ७५६ ॥
कृत्यां क्रूरां महाभीमां काशिराजेन योजिताम् ॥
पराजित्यात्मचक्रेण काशीं तद्भववह्निना ॥ ७५७ ॥
शेषेण भस्मीकुर्वन्तं कृष्णं सम्यग्विचिन्तयेत् ॥
जुहुयान्निशि सिद्धार्थैः स्वीयतैलविलोलितैः ॥ ७५८ ॥
एवङ्कृते तु सप्ताहं वैरिणा केनचित्कृता ॥
कृत्या भूयस्तमेवाशु क्षपयेन्नात्र संशयः ॥ ७५९ ॥
संस्थितं त्वालये दिव्ये बदरीवृक्षभूषिते ॥
घण्टाकर्णं च हस्ताभ्यां स्पृशन्तं संस्मरेद्धरिम् ॥ ७६० ॥
मधुराक्तैस्तिलैर्लक्षं जुहुयादेधितेऽनले ॥
अशेषपापनाशार्थं पुष्ट्यर्थं च जपेत्तथा ॥ ७६१ ॥
खगेश्वरसमारुढं कुर्वन्तं बाणवर्षणम् ॥
धावमानं 16 रिपुगणमनुधावन्तमाशुगम् ॥ ७६२ ॥
जपेत्सप्तसहस्राणि कृष्णं ध्यात्वा मनुं बुधः ॥
सप्ताहाद्वैरिणां भूयो ह्युच्चाटो देशतो भवेत् ॥ ७६३ ॥
कपित्थफलसम्पातमेवमेवाब्दके क्षिपन् ॥
कृष्णं ध्यात्वायुतं जप्तो मनुरुच्चाटकृद्रिपोः ॥ ७६४ ॥
वैरिसङ्कटरूपं च कर्षणं प्राणवर्जितम् ॥
अयुतं प्रजपेन्मन्त्रं हुनेद्वा तत्समं बुधः ॥ ७६५ ॥
समिद्भिर्जन्मनक्षत्रे मारणस्य प्रयोगवित् ॥
शत्रुर्निधनमाप्नोति सुधाभक्षोपि नान्यथा ॥ ७६६ ॥
कलिद्रुमसमिद्वर्यैर्निम्बतैलप्लुतैहुनेत् ॥ ७६७ ॥
यामिन्यामयुतं स्वस्थो रिपुर्यमपुरं व्रजेत् ॥ ७६८ ॥
कार्पासबीजरजनीनिम्बपत्रं कटुत्रयम् ॥
एवं तैलन्तु जुहुयाच्छ्मशाने निशि मारणे ॥ ७६९ ॥
मारणं नैव कुर्वीत बलात्कृत्यायुतं जपेत् ॥
हुनेच्च तावद्धविषा तत्पातकनिवृत्तये ॥ ७७० ॥
पुरन्दरमुखाञ्जित्वा हरन्तं सुरपादपम् ॥
कृष्णं ध्यायञ्जपल्लṁक्षं सर्वतो जयमाप्नुयात् ॥ ७७१ ॥
अर्जुनाय च गीतार्थं कथयन्तं जपेन्मनुम् ॥
ध्यात्वा धर्मस्य वृद्धिः स्याद्योगसिद्धिश्च जायते ॥ ७७२ ॥
त्रिस्वादुयुक्तैर्लक्षं यः कण्डकप्रसवैर्हुनेत् ॥ ७७३ ॥
महाकविः स वागीशो वेदवेदाङ्गपारगः ॥ ७७४ ॥
विश्वरूपं हरिं ध्यायेत्सहस्रं साष्टकं जपेत् ॥
देहगेहपुरग्रामवास्तुरक्षा भवेद्ध्रुवम् ॥ ७७५ ॥
आरण्यकारुणैः पुष्पैर्मध्याह्ने विधिनार्चयेत् ॥ ७७६ ॥
हरिं गृहे जपेत्साष्टसहस्रं द्विजवश्यकृत् ॥ ७७७ ॥
मालती * * * श्रेष्ठैर्गोपवेषं यथा पुरा ॥
कृष्णमभ्यर्च्य नृपतीन्वशन्नयति दासवत् ॥ ७७८ ॥
रक्ताश्वमारैर्वैश्यांश्च शूद्रान्नीलोत्पलैस्तथा ॥
अत्र ध्यायेच्च गायन्तं श्रीकृष्णं जनमोहनम् ॥ ७७९ ॥
तण्डुलैर्घृतपुष्पैश्च घृताक्तैर्यः सहस्रकम् ॥
अन्वहं सप्तशतकं हुत्वा तद्भस्म धारयेत् ॥ ७८० ॥
तद्भस्मधारणान्नारी स्वपुमांसं वशं नयेत् ॥ ७८१ ॥
पुरुषश्च तथा नारीं दासीं कुर्यान्न संशयः ॥ ७८२ ॥
पुष्पताम्बूलवासांसि कज्जलालयनादिकम् ॥
सहस्रमभिमन्त्र्याथ येभ्यो दद्याच्च ते वशाः ॥ ७८३ ॥
आपणव्यवहारादौ विवादे राजवेश्मसु ॥
जपित्वाऽष्टोत्तरशतं बरीभर्त्ति च सद्वचः ॥ ७८४ ॥
उपविष्टं कदम्बाधो बल्लवीभिः स्मरेद्धरिम् ॥
त्रिमध्वपामार्गसमिद्धोमाल्लोकत्रयं वशम् ॥
रासक्रीडारतं ध्यात्वा जपेन्नित्यं सहस्रकम् ॥ ७८५ ॥
इष्टां कन्यामवाप्नोति मासमात्रेण साधकः ॥
कुसुमाभ्युच्चयारूढं ध्यात्वा सायं सहस्रकम् ॥
जपेत्कन्यामण्डलेन लभते वाञ्छितं वरम् ॥ ७८६ ॥
कृतमालप्रसूनैश्च करण्टकुसुमैरपि ॥
हुत्वा वशीकरोत्येव भूपालान्सपरिच्छदान् ॥ ७८७ ॥
बकुलोद्भवसत्पुष्पैः पालाशोत्थैश्च तैरपि ॥
इक्षुजैर्वैश्यशूद्रौ च स्वायत्तौ कुरुते क्षणात् ॥
रक्तोत्पलैर्वा कुसुमैश्चम्पकैः पाटलोद्भवैः ॥ ७८८ ॥
हुत्वायुतं च मध्वक्तैर्वशयेद्वणयोषितः ॥
अश्वमारप्रसूनैर्यो मध्वक्तः प्रत्यहं हुनेत् ॥ ७८९ ॥
रात्रौ सहस्रसङ्ख्याकैः सप्तरात्रमतन्द्रितः ॥
सोङ्गनानां सहस्रञ्च नवयौवनगर्वितम् ॥
पञ्चबाणप्रविद्धाङ्गं दासीकुर्य्यान्न संशयः ॥ ७९० ॥
सिद्धार्थलवणोपेतैर्मध्वक्तैस्त्रिसहस्रकम् ॥
होमं कुवात रात्रौ च वह्नौ विप्रान्वशं नयेत् ॥ ७९१ ॥
त्रिस्वाद्वक्तैर्बिल्वफलैर्वा पत्रैर्वा प्रसूनकैः ॥
पद्मैः सतण्डुलैर्होमात्तर्प्पणाच्छ्रीः स्थिरा भवेत् ॥ ७९२ ॥
वासांसि बल्लवस्त्रीणां मनोभिः सह केशवम् ॥
समादाय कदम्बन्तु समारूढं विचिन्तयेत् ॥ ७९३ ॥
जपेत्सहस्रमानं यो रात्रौ स दशभिर्दिनैः ॥
शचीमप्यानयेन्मन्त्री किमन्यां नरयोषितम् ॥ ७९४ ॥
अथातः सम्प्रवक्ष्यामि द्वितीये यस्तु जायते ॥ ७९५ ॥
तारसम्पुटितश्चायं मन्त्रः स्याद्द्वादशाक्षरः ॥ ७९६ ॥
पुरश्चर्याजपन्यासपूजाद्यं पूर्ववद्भवेत् ॥ ७९७ ॥
प्रयोगाश्च विशेषेण प्रयोगोत्र निरूप्यते ॥ ७९८ ॥
चन्द्रकुन्दसुगौराङ्गं रक्तपद्मदलेक्षणम् ॥
अरिकम्बुगदापद्मं बाहुदण्डैश्च बिभ्रतम् ॥ ७९९ ॥
दिव्यैश्च चन्दनालेपैः पद्मनाम्ना विभूषितम् ॥
पीताम्बरलसद्गात्रं तरुणं मुनिसेवितम् ॥ ८०० ॥
विकसत्पद्ममध्यस्थं ध्यात्वा नन्दात्मजं प्रभुम् ॥
स्वहृत्पद्मगतं देवं पुराणं पुरुषं नवम् ॥ ८०१ ॥
नीलमेघनिभं वापि द्रुतहेमनिभं तु वा ॥
लक्षद्वादशकं जप्त्वा तत्सहस्त्रं समिद्वरैः ॥ ८०२ ॥
दुग्धाप्लुर्तैहुनेन्मन्त्री पयोद्रुमसमुद्भवैः ॥
मध्वादिलोलितेनापि हविषा वा जितेन्द्रियः ॥ ८०३ ॥
पश्चाद्विश्वाधिपं नित्यं चिदानन्दकलेवरम् ॥
भवान्धकारद्युमणिं स्वीये हृत्सरसीरुहे ॥ ८०४ ॥
आत्माभेदेन सञ्चिन्त्य प्रत्यहं परमेश्वरम् ॥
त्रिसहस्रं जपेन्मन्त्री जपेत्सन्ध्योक्तवर्त्मना ॥ ८०५ ॥
मनुमेतं जपेद्यस्तु श्रद्धाभक्तिसमन्वितः ॥
संसाराब्धिं समुल्लङ्घ्य जीवन्मुक्तः स जायते ॥ ८०६ ॥
अथातः सम्प्रवक्ष्यामि तृतीयेयं जगत्पतिः ॥
अयोनिजशरीरेण प्रकटो जायते भुवि ॥ ८०७ ॥
दशाक्षरोयं यामादिस्तस्य मन्त्रो भवाक्षरः ॥ ८०८ ॥
कामदेवो मुनिः प्राग्वदन्यत्सर्वं समीरितम् ॥ ८०९ ॥
अथातः सम्प्रवक्ष्यामि चतुर्थेप्ययमेव हि ॥
हरशिष्य इति ख्यातो वाममार्गप्रवर्त्तकः ॥ ८१० ॥
दशाक्षरोयं लज्जादिस्तस्य मन्त्रो भवाक्षरः ॥ ८११ ॥
प्राग्वत्सर्वं विना शक्तिं नायं मन्त्रोस्य सिध्यति ॥ ८१२ ॥
अथातः सम्प्रवक्ष्यामि पञ्चमोयं जगत्पतिः ॥
सुदामदारिद्र्यहरो मन्त्रोयं तदुपासितः ॥ ८१३ ॥
दशाक्षरोयं लक्ष्म्याद्यो भवेदेकादशाक्षरः ॥ ८१४ ॥
न्यासपूजाप्रयोगादि पूर्ववत्परिकीर्त्तितम् ॥ ८१५ ॥
अथातः सम्प्रवक्ष्यामि कलौ षष्ठे जगत्पतिः ॥
संसारानन्दसन्दोहदर्शकोस्य मनुस्त्वयम् ॥ ८१६ ॥
श्रीकृष्णाय वदेत्पश्चाद्गोविन्दाय दशाक्षरः ॥
एवमष्टादशार्णोयं मन्त्रः प्रोक्तोखिलेष्टदः ॥ ८१७ ॥
कृष्णो देवस्तु गायत्री छन्दः स्यान्नारदो मुनिः ॥ ८१८ ॥
स्वाहा शक्तिश्च क्लीं बीजं वेदाब्ध्यब्धिविलोचनैः ॥ ८१९ ॥
मन्त्रार्णैः स्याच्च पञ्चाङ्गं त्वङ्गुलीषु करद्वये ॥
मूलमन्त्रेण सर्वाङ्गे त्रिवारं व्यापकं चरेत् ॥ ८२० ॥
एतान्यङ्गानि विन्यस्य प्रणवेन ततः पुनः ॥ ८२१ ॥
के ललाटे भ्रुवोर्मध्ये कर्णयोर्नेत्रयोर्नसि ॥ ८२२ ॥
मुखे कण्ठे हृदि नाभौ कट्यां लिङ्गे ततः परम् ॥
जानुयुग्मे पदद्वन्द्वे न्यसेदेकैकमक्षरम् ॥ ८२३ ॥
पादादिमस्तकान्तं च न्यसेच्चैव पदानि तु ॥
शिरोवदनहृद्गुह्यपादेषु मनुवित्तमः ॥ ८२४ ॥
पञ्चाङ्गानि पुनर्न्यस्य मुन्यादिन्यासमाचरेत् ॥
न्यासान्तरादिकं सर्वं दशवर्णोक्तवद्भवेत् ॥ ८२५ ॥
ध्यानं चोक्तप्रकारेण पूजनं च तथा भवेत् ॥
अयुतद्वयसङ्ख्यातमधिकारार्थमादरात् ॥ ८२६ ॥
पञ्चलक्षं जपेत्पश्चाद्दशांशं पूर्ववद्धुनेत् ॥
तर्प्पणादि ततः सर्वं पूर्वोक्तविधिना चरेत् ॥ ८२७ ॥
अथ साधितमन्त्रस्य साधकस्य कलाप्तये ॥
त्रिकालार्चाविधिं वक्ष्ये गोविन्दस्य जगत्पतेः ॥ ८२८ ॥
उक्तवृन्दावने रम्ये स्वर्णभूमौ सुमण्डपम् ॥
रम्यं रत्नमयं दिव्यं स्मरेत्कल्पतरोरधः ॥ ८२९ ॥
नानारत्नस्थलीमध्ये रत्नसिंहासने शुभे ॥
यथोक्तपद्ममध्यस्थं वासुदेवं विचिन्तयेत् ॥ ८३० ॥
इन्द्रनीलनिभं कान्तं शिशुं सुमधुराकृतिम् ॥
स्निग्धवस्त्रं ललाटान्तलुठन्मूद्धजसञ्चयम् ॥ ८३१ ॥
भृङ्गसङ्गसमासक्तपद्मसुन्दरसम्मुखम् ॥
इन्दीवरदलाकारशोभिनेत्रद्वयान्वितम् ॥ ८३२ ॥
चलत्कुण्डलसंशोभिपृथुगण्डसुमण्डितम् ॥
रक्ताधरं सुनासं च हसन्तं हृतमानसम् ॥ ८३३ ॥
नानारत्नगणाकीर्णकण्ठाभरणभूषितम् ॥
गोधूलिधमरोरस्कं शार्दूलनखधारिणम् ॥ ८३४ ॥
विशिष्टमुष्टसन्देहं स्वर्णनेपथ्यदीपितम् ॥
कटिदेशलसज्जङ्घाद्वये बद्धमनोहरम् ॥ ८३५ ॥
रत्नकाञ्चनसञ्छन्नकिङ्किणीजालमालिनम् ॥
तिरस्करन्तं वनजबन्धूकप्रसवश्रियम् ॥ ८३६ ॥
अत्यन्तारुणसच्छाखहस्तपादाब्जशोभितम् ॥
पयसोद्भतपिण्डं च नवनीतमयं शुभम् ॥
दक्षिणोत्तरयोः पार्ष्ण्योर्वहन्तं साधु सुस्पृहम् ॥ ८३७ ॥
पथिव्यघकराणां च दैत्यानां दुष्टचेतसाम् ॥
पूतनाशकटादीनां विनाशाय कृतोद्यमम् ॥ ८३८ ॥
गोपीगोपालधेनूनां समूहेनावृतं सदा ॥
आखण्डलमुर्खैर्देवैः ॥
सेवितं कामतत्परैः ॥ ८३९ ॥
प्रातरेवंविधं कृष्णं ध्यात्वा सुस्थिरमानसः ॥
प्रागुक्त एव पीठेमुं हरिं सम्पूजयेत्प्रभुम् ॥ ८४० ॥
स्वाङ्गावरणमाद्यं स्याद्द्वितीयं लोकपालकैः ॥ ८४१ ॥
वज्रादिभिस्तृतीयं च पूजयित्वा प्रसन्नधीः ॥
पक्वरम्भाफलं खण्डं नवनीतं हविर्दधि ॥
मेलयित्वा सुनैवेद्यं निवेद्य प्रीणयेद्विभुम् ॥ ८४२ ॥
उषस्येवं विधानेन श्रद्धा भक्तिसमन्वितः ॥
श्रीकृष्णं पूजयेद्यत्र पूजोपकरणैः शुभैः ॥ ८४३ ॥
ऐहिकीं सर्वसम्पत्तिं प्रागेव प्राप्नुयात्ततः ॥
देहान्ते विष्णुसायुज्यं प्रयाति नियतं कृती ॥ ८४४ ॥
प्रातः प्रत्यहमेवं हि पूजयित्वा नरो हरिम् ॥
गव्यं दधि निवेद्यास्मै गुडयुक्तमथापि वा ॥ ८४५ ॥
तद्बुद्ध्या शुद्धनीरेण तर्प्पयेत्सुमुखं हरिम् ॥
अष्टोत्तरसहस्रं तु मूलमन्त्रं जपेत्ततः ॥ ८४६ ॥
दिनमध्ये भजेच्चापि सुन्दराकृतिमद्भुतम् ॥
इन्द्रादिदेवसिद्धैश्च सेवितं खचरैस्तथा ॥ ८४७ ॥
गवां गोपालगोपीनां समूहैः परितो वृतम् ॥
नीलाम्बुवाहसत्कान्तिविशिष्टाङ्गश्रियं विभुम् ॥ ८४८ ॥
नीलकण्ठस्य सत्पिच्छैः केशभारसुमण्डितम् ॥
उद्भ्रमद्भ्रूलतं देवं पद्मपत्रायतेक्षणम् ॥ ८४९ ॥
पूर्णचन्द्रलसद्वक्त्रं रत्नकुण्डलमण्डितम् ॥
गण्डमण्डलसंशोभं सुघोषं सस्मिताननम् ॥
पीतवस्त्रधरं चारुमुक्ताहारविभूषितम् ॥ ८५० ॥
काञ्चीकटककेयूरमुद्रिकानूपुरादिभिः ॥
अलङ्कृतशरीरं तं पिशङ्गाम्बरसंवृतम् ॥ ८५१ ॥
मुक्तामाणिक्यसञ्छन्नवनमालाद्भुतांशुकम् ॥
कामबाणप्रविद्धाङ्गं वेणुवादनतत्परम् ॥ ८५२ ॥
ह्रस्वं विचित्रितं वेषं वामे शङ्खं सुवेत्रकम् ॥
अभिरामतरं दक्षं रत्नश्रेष्ठमभीष्टकम् ॥ ८५३ ॥
ध्यात्वैवं विधिना देवं पूजयेदिष्टसिद्धये ॥
दामाद्यैरङ्गकैश्चापि महिषीभिश्च तत्परम् ॥ ८५४ ॥
वसुदेवादिभिः पश्चात्कल्पवृक्षैरनन्तरम् ॥
इन्द्राद्यैश्च तदस्त्रैश्च सप्तावरणसंयुतम् ॥ ८५५ ॥
अर्चयित्वा तु गोविन्दं विधिवत्साधकोत्तमः ॥
नैवेद्यं काञ्चने पात्रे पूर्वोक्तं च निवेदयेत् ॥ ८५६ ॥
अष्टाधिकशतं पश्चाद्धनेत्साधु पयोन्धसा ॥
शर्कराघृतयक्तेन बलिं पश्चात्प्रकल्पयेत् ॥ ८५७ ॥
देवर्षियोगिदेवेभ्य उपदेवेभ्य आदरात् ॥
देवाग्रभागमारभ्य सव्यमार्गाद्बलिर्मतः ॥ ८५८ ॥
स्वस्वदिक्क्रमतो विद्वान्भक्तियुक्तः प्रसन्नधीः ॥
नवनीतहविर्बुद्ध्या तोयैः सन्तर्प्प्येन्मुखे ॥
सहस्रं शतमानं वा साष्टकं पूजयेज्जपन् ॥ ८५९ ॥
मध्याह्ने कृष्णमेवं यः पूजयेद्भक्तितत्परः ॥
गीर्वाणवृन्दवन्द्योसौ सम्मतः सर्वजन्तुषु ॥ ८६० ॥
आयुर्बुद्ध्यादिश्रीकान्तिसुभगत्वादिसंयुतः ॥
सत्सन्ततिसुहृद्वर्गपशुक्षेत्रधनादिभिः ॥
सर्वैश्वर्य्यसमेतोत्र सुखं भुक्त्वा हरिं व्रजेत् ॥ ८६१ ॥
अपराह्णार्चनं सन्ध्यापर्यन्तं मनुनामुना ॥
दशाक्षरेण मनुना रात्रौ पूजनमाचरेत् ॥ ८६२ ॥
सन्ध्यायां द्वारकामध्ये रम्ये रामाश्रये शुभे ॥
गृहैः षोडशसाहस्रैः सर्वतः परिवेष्टिते ॥ ८६३ ॥
पद्मेन्दीवरकल्हारसंसृतैः सुजलाशयैः ॥
हंसादिपक्षिभिर्व्याप्तैः संवृताद्भुतमन्दिरे ॥ ८६४ ॥
उद्यदादित्यसङ्काशे चित्रिताद्भुतमण्डपे ॥
कोमलास्तरणे दिव्यस्वर्णपङ्कजमण्डिते ॥ ८६५ ॥
सूपविष्टं परात्मानं कृष्णं ध्यायेत्समाहितः ॥
नारदादिमुनिश्रेष्ठैः संवृतं मोक्षकाङ्क्षिभिः ॥ ८६६ ॥
अद्वैतार्थविचारेण मुनिवर्य्येभ्य एव च ॥
अग्निरूपं परं तेजो दिशन्तं मन्त्रगौरवात् ॥ ८६७ ॥
नीलेन्दीवरसङ्काशं शान्तमूर्तिं गुणालयम् ॥
सरोजदलसङ्काशनेत्रं मकरकुण्डलम् ॥ ८६८ ॥
स्निग्धालकाग्रसम्बद्धमुकुटाद्भुतमस्तकम् ॥
अत्यन्तमधुराकारं प्रसन्नमुखपङ्कजम् ॥ ८६९ ॥
श्रीवत्सवक्षसं दिव्यवनमालाविभूषितम् ॥
दूरीकृतधराभारं प्रसन्नहृदयं विभुम् ॥ ८७० ॥
शङ्खचक्रगदापद्मधारिणं तु चतुर्भुजम् ॥
इत्थं सञ्चिन्त्य देवेशं गोविन्दं सम्यगर्चयेत् ॥ ८७१ ॥
अष्टप्रियाभिरङ्गैश्च तृतीये गरुडं पुरः ॥
पर्वतं विष्णुनिशठं वृद्धवृन्दारकं तथा ॥ ८७२ ॥
विष्वक्सेनं च शैनेयं 17 प्रादक्षिण्येन पूजयेत् ॥
लोकपालांस्तदस्त्राणि पञ्चमावरणार्चनम् ॥ ८७३ ॥
नैवेद्यं पायसं दत्वा सम्यक् पूजावसानकम् ॥
खण्डाक्तक्षीरसद्बुद्ध्या नीरैः कृष्णं तु तर्प्पयेत् ॥ ८७४ ॥
अष्टोत्तरशतं पश्चाज्जपेत्तावद्विचिन्तयन् ॥
सर्वार्चासु हुनेन्मन्त्री मध्याह्ने तु यथाविधि ॥ ८७५ ॥
अवसानार्घ्यविध्यन्तं विधाय स्तुतिमाचरेत् ॥
नत्वा निवेद्य चात्मानं विष्णुं तु स्वहृदि स्वयम् ॥
न्यस्येद्देवमयो भूत्वा स्वात्मानं पूजयेत्ततः ॥ ८७६ ॥
सन्ध्याकाले हरिं त्वेवं प्रत्यहं योर्चयेन्नरः ॥
इह भोगान्बहून्भुक्त्वा व्रजेच्चान्ते स सद्गतिम् ॥ ८७७ ॥
नन्दात्मजं यजेद्रात्रौ कामाकुलितचेतसम् ॥
रासक्रीडासमाक्रान्तं बल्लवीचक्रवेष्टितम् ॥ ८७८ ॥
स्थलपङ्कजपुष्पाणां दिव्यरेणुयुतेन च ॥
रिङ्गत्तरङ्गबिन्दूनां सम्पृक्ताग्र्येण वायना ॥
कालिन्दीसैकते शुभ्रे शीतले तापहारिणि ॥ ८७९ ॥
कामबाणप्रविद्धाङ्गदिव्यस्त्रीकोटिकादिभिः ॥
सेविते चन्द्रकिरणसमुद्द्योतितदिङ्मुखे ॥
चलद्भृङ्गाङ्गनाशब्दवाचालितदिगन्तरे ॥ ८८० ॥
सिद्धगन्धर्वदेवौघयक्षकिन्नरपन्नगैः ॥
विद्याधरैः सपत्नीकैर्विमानेषु कृतासनैः ॥
आकाशे सञ्चरद्भिस्तैः पुष्पवृष्टिकृताद्भुते ॥ ८८१ ॥
रासक्रीडाविधौ रत्नशङ्कुगं परमेश्वरम् ॥
एतद्देहसमाकॢप्तदिव्यानेककलेवरम् ॥
नारीणां युग्मयोर्देवं प्रत्येकं चान्तरागतम् ॥ ८८२ ॥
तत्तत्कण्ठसमालम्बिबाहुद्वयविराजितम् ॥
आत्मसम्बन्धसञ्जातकामानलसुदीपितम् ॥
रोमोद्गमसमाक्रान्तनागवल्लीतरुं मुहुः ॥ ८८३ ॥
नानामुनिगणैर्मिश्रं मधुरस्वरसंयुतम् ॥
सुवर्णरचितैर्दिव्यैर्महामणिपरिष्कृतैः ॥
कृतचारुस्वनैः सर्वालङ्कारैर्हृदयङ्गमम् ॥ ८८४ ॥
इत्थं पृथक्छरीरं तं संयुतं मणिभिर्यथा ॥
हिरण्यरचितं सम्यक्सरो मरकतावृतम् ॥
मणिशङ्खौ सुविस्तीर्णे रक्तपद्मगतं प्रभुम् ॥ ८८५ ॥
अतसीपुष्पसङ्काशं यौवनश्रीसमन्वितम् ॥
तदानीं रक्तफुल्लारविन्दच्छदविलोचनम् ॥ ८८६ ॥
भूषणैर्विविधैश्चारुपल्लवानेकगुच्छकैः ॥
शितिकण्ठशिखण्डैश्च बद्धमूर्द्धजसञ्चयम् ॥ ८८७ ॥
पूर्णिमाचन्द्रसङ्काशसुन्दराननपङ्कजम् ॥
रत्नकुण्डलसंशोभिगण्डमण्डलमण्डितम् ॥ ८८८ ॥
पक्वबिम्बफलाकाररक्ताधरविराजितम् ॥
नानारत्नसमाकॢप्तसम्भूषणसुभूषितम् ॥ ८८९ ॥
स्वर्णवर्णलसद्वस्त्रं विद्रुमश्रीगृहं परम् ॥
नवप्रवालरुचिरहस्तपादतलं विभुम् ॥ ८९० ॥
भ्रमरालीलसत्पुष्पमालिकावृतपद्द्वयम् ॥
अङ्गनाकुचसंश्लेषलग्नकुङ्कुमवक्षसम् ॥ ८९१ ॥
महोक्षांसनिभस्कन्धं वंशवादनतत्परम् ॥
अनङ्गबाणसंविद्धं सर्वलोकैकसद्गतिम् ॥
इत्थं ध्यात्वा यजेत्पीठे चाङ्गावरणसंयुतम् ॥ ८९२ ॥
श्रीङ्क्लीम्पूर्वाः केशवाद्याः सबिन्दुस्वरसंयुताः ॥
मातृकास्तु न्यसेत्पूर्वं ततः पूजनमाचरेत् ॥
इन्द्राद्या भूपुरे पूज्या वज्रादीन्यायुधान्यपि ॥ ८९३ ॥
ततः सुक्वथितं दुग्धं सितोपलसमन्वितम् ॥
राजते भाजने सम्यक्संस्कृत्य विनिवेदयेत् ॥ ८९४ ॥
कांस्यपात्रेषु नैवेद्यं स्वरसङ्ख्येषु कल्पयेत् ॥
प्रत्येकं मिथुनेभ्यश्चान्यत्सर्वं पूर्ववन्मतम् ॥ ८९५ ॥
रात्रावेवं भोजयेद्वै सर्वकामवशङ्करः ॥
इन्दिरामन्दिरो भूत्वा सर्वाराध्यः सुभुक्तिमान् ॥ ८९६ ॥
रात्रौ सन्ध्यासु यश्चैवं प्रत्यहं तु प्रपूजयेत् ॥
तुल्यं फलं स चाप्नोति भवाब्धेः पारगो भवेत् ॥ ८९७ ॥
अर्चान्तरे देवकस्य तर्प्पणानां विधिम्ब्रुवे ॥
पुरोक्तानां च काम्यानां साधकेषु फलप्रदम् ॥ ८९८ ॥
पूजनव्यतिरेकेपि तत्फलं लभ्यते बुधैः ॥
पीठाद्भिस्तर्प्पणादौ तु कृत्वा मूलेन चैकशः ॥ ८९९ ॥
तत्रावाह्य यजेद्देवं जलेचैवोपचारकैः ॥
धेनुमुद्रां प्रदर्श्यात्र स्मृत्वा तर्प्पणसाधकम् ॥ ९०० ॥
तद्धिया जलमादाय स्वर्णपात्रे कृतेन तु ॥
सम्यगञ्जलिना देवं तर्पयेन्मूलमुच्चरेत् ॥ ९०१ ॥
त्रिकालं तर्पयेन्नित्यमष्टाविंशतिसङ्ख्यया ॥
तत्तत्कालोचितान्पश्चात्तर्पयेत्परिवारकान् ॥ ९०२ ॥
एकैकवारं मन्त्रज्ञो मूलेनापि प्रतर्पयेत् ॥
गुडयुक्तं दधि प्रातर्नवनीतयुतं हरेः ॥ ९०३ ॥
अह्नो मध्ये समाख्यातं सन्ध्यायां दुग्धमुत्तमम् ॥
सितोपलविमिश्रं तु तर्पणद्रव्यमीरितम् ॥ ९०४ ॥
बाह्येत्र पूर्ववद्विद्यादन्यत्सर्वं यथा भवेत् ॥
तत्प्रसादजलैः सिञ्चेदात्मानमिह मन्त्रवित् ॥ ९०५ ॥
मूलमन्त्राभि जपितं जलं मन्त्री पिबेत्ततः ॥
हरिमुद्वास्य मन्त्रज्ञो जपेन्मन्त्रन्तु तन्मयः ॥ ९०६ ॥
काम्यतपणवस्तूनि ततो वक्ष्यामि यानि तु ॥
भजेदुक्तप्रकारेषु समालभ्यैकमेव तु ॥ ९०७ ॥
सकृज्जलेन सन्तर्प्य दुग्धैर्वारचतुष्टयम् ॥
पश्चात्षोडशभिर्द्रव्यैः प्रत्येकं च चतुष्टयम् ॥ ९०८ ॥
पायसं दधि भक्तं च तिलास्तण्डुलकास्तथा ॥
गुडो भक्तं च दुग्धं च दध्यथो नवनीतकम् ॥ ९०९ ॥
घृतं च कदलं मोचामलकं मधुवल्लभा ॥
मृद्वी मोदकपूर्यश्च पृथुकाश्चैव लाजकाः ॥ ९१० ॥
द्रव्याणि षोडशैतानि मूलमन्त्रेण तर्प्पयेत् ॥
प्रातरेवं तर्प्पयेद्यः सायं वा सप्तसङ्ख्यया ॥ ९११ ॥
कृष्णं प्रतिदिनं विद्वाञ्छुद्धबुद्धिश्च तत्परः ॥
तस्य मण्डलमात्रेण वाञ्छितं भवति ध्रुवम् ॥ ९१२ ॥
अथान्यत्तत्फलं वक्ष्ये पूर्ववत्तत्फलप्रदम् ॥
धारोष्णं क्वथितं दुग्धं दधि दध्युदकं पुनः ॥ ९१३ ॥
सर्पिस्तथा पायसं च तक्रं त्रिक्षौद्रमेव च ॥
पञ्चामृतं नवैतानि प्रत्येकं शतमष्ट च ॥ ९१४ ॥
तर्पयेल्लोकमान्योसौ यशस्वी च प्रजायते ॥
खण्डमिश्रितधारोष्ण दुग्धबुद्ध्या जलैः शुभैः ॥ ९१५ ॥
कृष्णं सन्तर्प्य गच्छेद्यो ग्रामं वा नगरं तथा ॥
स तु नानारसोपेतं भक्ष्यं भोज्यं च विन्दति ॥ ९१६ ॥
तर्पणं यावदाख्यातं जपस्तावानिह स्मृतः ॥
इह सन्तर्पणादेव फलमाप्नोति वाञ्छितम् ॥ ९१७ ॥
भिक्षुको ब्राह्मणो नित्यं स्वयं गोविन्दरूपधृक् ॥
भत्वा नानाविधैर्भावैरभिरामैर्मुहुर्मुहुः ॥ ९१८ ॥
मनोभिः सह गोपीनां दधिदुग्धघृतादिकम् ॥
बलाद् गृह्णन्ददद्भिक्षामायाति महतीं तुलाम् ॥ ९१९ ॥
गोपीहस्तसरोजानि धृत्वा नृत्यन्तमञ्जसा ॥
कृष्णं सञ्चिन्त्य मन्त्रज्ञो जपेदष्टादशाक्षरम् ॥ ९२० ॥
लाजैर्मधुप्लुतैर्वापि चूर्णैर्लाजसमुद्भवैः ॥
हुत्वायुतं जपेत्तावत्कन्यामिष्टां लभेत सः ॥ ९२१ ॥
अष्टादशाणमन्त्रेण पलाशसमिधोयुतम् ॥
मधुप्लुतकुशैर्वापि हुनेद्वा तिलतण्डुलैः ॥ ९२२ ॥
वशीभवन्ति भपाला दत्त्वा सर्वस्वमादरात् ॥
एवमष्टादशार्णस्य प्रयोगः कथितो मया ॥ ९२३ ॥
अथातः सम्प्रवक्ष्यामि सप्तमेयं जनार्दनः ॥
प्रत्यक्षो जायते मन्त्रः क्लीं कृष्णाय नमस्त्विति ॥ ९२४ ॥
मुनिः कामोस्य गायत्रं छन्दः कृष्णोस्य देवता ॥
षड्दीर्घान्वितबीजेन 18 षडङ्गानि च पूजनम् ॥ ९२५ ॥
प्राग्वज्जपेद्वर्णलक्षं तर्पणं चात्र पूर्ववत् ॥
सम्पत्प्रदो विशेषेण मन्त्रोयं परिकीर्त्तितः ॥ ९२६ ॥
अथातः सम्प्रवक्ष्यामि जातो यश्चाष्टमे कलौ ॥
एकावतारे सम्पूर्णे सूक्ष्मरूपी जनार्दनः ॥ ९२७ ॥
हिमाचले वरे तीर्थे समाधिं स समाश्रयेत् ॥
पुनश्च कलिधर्माणा वृत्त्यर्थं च जनार्दनः ॥ ९२८ ॥
कञ्चिद्वेषं समापद्य प्रकटो जायते भुवि ॥
भक्तेभ्यश्चाभयं दत्त्वा मोहयित्वा च दुष्कृतान् ॥ ९२९ ॥
पाखण्डमार्गं प्रकटं किञ्चित्सिद्धिसमन्वितम् ॥
दर्शयित्वा च मर्त्यानां पुनस्तत्रैव यात्यसौ ॥ ९३० ॥
एकादशाक्षरो मन्त्रो मायाश्रीबीजपूर्वकः ॥
स्याद्योष्टमे कलियुगे सर्वसिद्धिविधायकः ॥ ९३१ ॥
मुन्यादिकं जपो न्यासो ध्यानं होमश्च तर्पणम् ॥
वक्ष्यमाणस्य कृष्ण द्वादशार्णमनोः समम् ॥ ९३२ ॥
अथातः सम्प्रवक्ष्यामि यो जातो नवमे विभुः ॥
क्लीं कृष्णाय गोविन्दाय मन्त्रोस्याष्टाक्षरो मतः ॥ ९३३ ॥
प्राग्वन्मुन्यादिकं ध्यानं चानुलोमविलोमकैः ॥
पादैः कराङ्गन्यासस्तु प्रयोगाद्यं च पूर्ववत् ॥ ९३४ ॥
अथातः सम्प्रवक्ष्यामि दशमे देवकीसुतः ॥
जातः कृष्णस्तस्य मनुर्ॐ नमो ङेन्तकृष्णकः ॥ ९३५ ॥
देवकीपुत्राय हुम्फट्स्वाहा 19 षोडशवर्णकः ॥
नारदोस्य मुनिश्छन्दोनुष्टुप् कृष्णस्तु देवता ॥ ९३६ ॥
ताराद्यैः 20 षट्पदैश्चास्य षडङ्गविधिरुच्यते ॥
वर्णलक्षं जपेन्मन्त्रमन्यत्प्रोक्तं दशार्णवत् ॥ ९३७ ॥
अथातः सम्प्रवक्ष्यामि जातमेकादशे कलौ ॥
स्वयमेव मुनिर्जातः स्वगायत्र्युपदेशतः ॥ ९३८ ॥
उद्धृता बहवो लोकाः सगर्वा भ्रंशिता द्विजाः ॥
शूद्रोपि राज्यं सम्प्राप्य गायत्रीं सम्यगभ्यसेत् ॥ ९३९ ॥
स शूद्रः क्षत्त्रियो ज्ञेयः सङ्ग्रामे जायते जयः ॥
तस्य वंशे स्थिरं राज्यं मृतो विष्णुपदं व्रजेत् ॥ ९४० ॥
दामोदराय विद्महे वासुदेवाय धीमहि ॥
तन्नः कृष्णः प्रचोदयात् ॥ ९४१ ॥
गायत्रं छन्द उद्दिष्टं श्रीकृष्णो देवता स्मृतः ॥
पञ्चत्रिपञ्चरामाब्धिवेदवर्णैः षडङ्गकम् ॥ ९४२ ॥
गायत्रीवत्पुरश्चर्या न्यासमुद्रादिदर्शनम् ॥
ध्यानपूजादिकं सर्वं ज्ञेयं कृष्णदशार्णवत् ॥
प्रयोगांश्चात्र गायत्र्यास्तथा कुर्य्यान्न संशयः ॥ ९४३ ॥
अथातः सम्प्रवक्ष्यामि यो जातो द्वादशे कलौ ॥
नन्दगोपकुमाराख्यः प्रकटोभूज्जर्नादनः ॥ ९४४ ॥
ग्लौङ्क्लीं नमो भगवते नन्दपुत्राय बालक ॥
रूपाय च बलायेति गोपीजनपदं वदेत् ॥ ९४५ ॥
वल्लभायाग्निजायान्तो मन्त्रोयं रदवर्णकः ॥
षड्दीर्घाढ्याद्यबीजेन षडङ्गविधिरीरितः ॥ ९४६ ॥
ध्यानपूजादिकं सर्वं दशार्णवदुदीरितम् ॥
अष्टादशार्णमन्त्रस्य प्रयोगानाचरेत्तथा ॥ ९४७ ॥
अथातः सम्प्रवक्ष्यामि तं यो जातस्त्रयोदशे ॥
गोपानां मध्यतो गोपश्चमत्कारप्रदर्शकः ॥ ९४८ ॥
योगीश्वरास्तु जानन्तः प्रशंसन्ति महर्षयः ॥
गोपीभिश्च तदा गोपैः स पृष्टश्च जनार्दनः ॥
केनेदृशी तु भवता सिद्धिर्लब्धा तु तद्वद ॥ ९४९ ॥
यदा गोपाङ्गना भूत्वा ब्रह्मज्ञा मुनयोपि च ॥
त्वामेव प्रणमन्तिस्म क्रीडन्नारीशतैस्तदा ॥ ९५० ॥
सर्वास्स्खलन्ति तास्त्वन्तु वीर्यं नैव प्रमुञ्चसि ॥
कामार्त्तः कथ्यते नातः सर्वज्ञस्त्वं कथं पुनः ॥ ९५१ ॥
वयं निष्कपटा भक्ताः सत्यमेतत्तदा वद ॥
एवमुक्तो हरिस्तत्र स्वप्नलब्धं मनुं जगौ ॥ ९५२ ॥
तेसुकीदेवदेवीततवेदेवरतोरतः ॥
तरतो रूढतो ख्यातो न ख्यातो देवकीसुतः ॥ ९५३ ॥
जप्तव्यः सिद्धमन्त्रोयमेकान्ते निर्जने वने ॥
वर्णलक्षजपेन प्राग्जन्मपापं विनश्यति ॥ ९५४ ॥
ततो लक्षत्रयजपाद्भूतप्रेतपिशाचकाः ॥
सर्वे प्रत्यक्षतां यान्ति साधकानां तु मन्त्रिणाम् ॥ ९५५ ॥
लक्षद्वादशजापेन दृश्यन्ते यमकिङ्कराः ॥
लोकानां वशमायान्ति तत्स्मृतं कथयन्ति च ॥ ९५६ ॥
जप्त्वा षोडशलक्षाणि शक्राद्याः प्रकटाः सुराः ॥
योगिनो योगिनीसङ्घो ब्रह्मविष्ण्वादिदर्शनम् ॥ ९५७ ॥
द्वात्रिंशत्प्रमिते जप्ते मत्समो नात्र संशयः ॥
प्राप्यते चन्द्रदेवेन श्रीकृष्णस्य सरूपताम् ॥ ९५८ ॥
अथातः सम्प्रवक्ष्यामि यो जातस्तु चतुर्दशे ॥
सिद्धा यज्जपमात्रेण पुरानेके महर्षयः ॥ ९५९ ॥
क्षीरगोपपगोरक्षी रक्षमाक्षक्षमाक्षर ॥
गोमानो गगनो मा गो यक्षगत्यत्यगक्षय ॥ ९६० ॥
अथातः सम्प्रवक्ष्यामि कलौ पञ्चदशे तु यः ॥
निवसन्कुन्दकुञ्जेषु मुकुन्दो यः प्रकीर्तितः ॥ ९६१ ॥
श्रीमन्मुकुन्दचरणौ सदा शरणमित्यपि ॥
अहं प्रपद्ये मन्त्रोयं प्रोक्तश्चाष्टादशाक्षरः ॥ ९६२ ॥
नारदोस्य मुनिश्छन्दो गायत्रं देवता भवेत् ॥
मुकुन्द आचक्रायेत्यादिकैः पञ्चाङ्गमीरितम् ॥
दशार्णवत्पूजनं स्यादङ्गेन्द्रादि तदायुधैः ॥ ९६३ ॥
चतुर्लक्षं जपेन्मन्त्रं तद्दशांशं च होमयेत् ॥
पलाशपुष्पैस्तच्चूर्णैस्तर्प्पणादि ततश्चरेत् ॥ ९६४ ॥
मन्त्रेणानेन जपितमष्टोत्तरशतं जलम् ॥
दिनादावन्वहं पीत्वा मासमात्रं प्रसन्नधीः ॥
सद्यः श्रुतिधरो मन्त्री जायते वेदपारगः ॥ ९६५ ॥
अथातः सम्प्रवक्ष्यामि षोडशे बालकृष्णकम् ॥
ध्रुवो नमो भगवते बालकृष्णाय हुं तथा ॥
फडन्तोयं महामन्त्रः षोडशाक्षर उच्यते ॥ ९६६ ॥
अस्य षोडशवर्णस्य मुनिः स्यान्नलकूबरः ॥
छन्दो गायत्रमुद्दिष्टं बालकृष्णस्तु देवता ॥ ९६७ ॥
पञ्चाङ्गानि तु युक्तानि ध्यानं पूर्वोदितं भवेत् ॥
पूजा चाङ्गस्ववर्गाद्यैः पुरश्चर्यादि पूर्ववत् ॥ ९६८ ॥
अथ सप्तदशे जातं कृष्णं वच्म्यन्नदायकम् ॥
अन्नरूप रसरूप तुष्टिरूप नमोनमः ॥ ९६९ ॥
अन्नाधिपतयेऽन्नं च तथा मह्यं समुच्चरेत् ॥
प्रयच्छाग्निवधूर्मन्त्रस्त्रिंशद्वर्णोन्नदायकः ॥ ९७० ॥
नारदो मुनिरस्य स्याच्छन्दोनुष्टुबुदाहृतम् ॥
अन्नाधिपतिकृष्णोस्य देवतापरिकीर्त्तितः ॥ ९७१ ॥
पञ्चाङ्गन्यासपूजादि सर्वं ज्ञेयं दशार्णवत् ॥
अन्नदो जायते मन्त्री मन्त्रमेतं सदा जपेत् ॥ ९७२ ॥
अथ चाष्टादशे जातवासुदेवमनुं ब्रुवे ॥
तारो नमो भगवते वासुदेवाय हुं च फट् ॥ ९७३ ॥
स्वाहा षोडशवर्णोयं गायत्रं छन्द ईरितम् ॥
मुनिर्ब्रह्मा ग्रहघ्नाख्यो देवता देवकीसुतः ॥ ९७४ ॥
दशार्णवच्च पञ्चाङ्गं वर्णलक्षं जपेन्मनुम् ॥
अर्चनाङ्गैर्लोकपालैर्ग्रहाद्यैश्च समीरिता ॥ ९७५ ॥
सर्वग्रहभये घोरे भूतप्रेतादिसङ्कुले ॥
राजद्वारे रणे द्यूते जप्तव्योयं मनूत्तमः ॥
अथातः सम्प्रक्ष्यामि ऊनविंशे मनुं परम् ॥ ९७६ ॥
तारो नमो भगवते वासुदेवाय संवदेत् ॥
पुरुषोत्तम आयुर्मे देहीत्युक्त्वा च विष्णवे ॥ ९७७ ॥
प्रभविष्णव इत्युक्त्वा नमोन्तस्त्रिंशदर्णकः ॥ ९७८ ॥
मुन्याद्या नारदोनुष्टुप् श्रीकृष्णः परिकीर्तितः ॥
पञ्चाङ्गं द्वादशान्ते हि हृदानन्दात्मने तु हृत् ॥ ९७९ ॥
पुरुषोत्तमप्रीत्यात्मने हृदन्तं तु शिरः स्मृतम् ॥
द्वादशार्णान्त आयुर्मे देहि स्याज्ज्योतिरात्मने ॥ ९८० ॥
शिखाथ द्वादशार्णान्ते विष्णवे प्रभविष्णवे ॥
मायात्मने च कवचं द्वादशार्णं ततो वदेत् ॥
नमश्चिदात्मने नेत्रं पञ्चाङ्गविधिरीरितः ॥ ९८१ ॥
अङ्गलोकेशवज्राद्यैरर्चयित्वा जपेन्मनुम् ॥
लक्षमेकं दशांशेन जुहुयात्पायसैः शुभैः ॥ ९८२ ॥
दुग्धादिसम्प्लुतैर्दूर्वात्रितयैरेधितेनले ॥
जुहुयाद्दीर्घशालित्वं लभते नात्र संशयः ॥
प्राग्वद्दशार्णमन्त्रोक्ताङ्गन्यासं तु समाचरेत् ॥ ९८३ ॥
अथातः सम्प्रवक्ष्यामि विंशेकलियुगे मनुम् ॥
बालवपुषे स्वाहेति सप्तार्णोयं मनुर्मतः ॥ ९८४ ॥
अस्यैकर्णेन पञ्चाङ्गं षष्ठं द्व्यर्णेन कीर्त्तितम् ॥
मुन्याद्यं ध्यानपूजादि सर्वं स्याद्बालकृष्णवत् ॥ ९८५ ॥
सप्तलक्षं जपेन्मन्त्रं जुहुयान्नवनीतकम् ॥
बालानां भयनाशार्थं रक्षार्थं च ततो जपेत् ॥ ९८६ ॥
अथातः सम्प्रवक्ष्यामि त्वेकविंशकलौ मनुम् ॥
गोपालकपदं ब्रूयात्ततो वेदधराय च ॥ ९८७ ॥
वासुदेवाय हुं फट् च स्वाहान्तोष्टादशाक्षरः ॥
नारदोस्य मुनिश्छन्दो गायत्रं कृष्णदेवता ॥ ९८८ ॥
आचक्रादिभिरङ्गानि पूजा पूर्वोक्तवर्त्मना ॥
ग्रहगोपालरक्षादौ प्रशस्तः शान्तिकेपि च ॥ ९८९ ॥
अथातः सम्प्रवक्ष्यामि द्वार्विशे तु कलौ मनुम् ॥
यः कालियफणामध्ये दिव्यं नृत्यं करोति तम् ॥ ९९० ॥
नमामि देवकीपुत्रं नृत्यराजानमद्भुतम् 21 ॥
मुनिर्नारद आख्यातश्छन्दोनुष्टुबुदीरितम् ॥
कालीयमर्दनः कृष्णो देवता परिकीर्तितः ॥ ९९१ ॥
चतुष्पादैश्च सर्वेण पञ्चाङ्गविधिरीरितः ॥
अङ्गैरिन्द्रादिभिः पश्चाद्वज्राद्यैरर्चयेच्च तम् ॥ ९९२ ॥
एकलक्षं जपित्वाग्नौ जुहुयादयुतं घृतैः ॥
विषनाशकरा योगाः कर्तव्या मनुनामुना ॥ ९९३ ॥
एतन्मन्त्रप्रयोगेण त्रस्यन्त्यथ महोरगाः ॥
एतन्मन्त्रसमो लोके विषघ्नो नैव विद्यते ॥ ९९४ ॥
शुष्कवृक्षस्य पञ्चाङ्गैर्गोमूत्रेण सुवेष्टितैः ॥
निर्मिता गुटिका सम्यङ्मन्त्रेणानेन मन्त्रिता ॥
नेत्रे चाञ्जनमात्रेण सैषा विषविनाशिनी ॥ ९९५ ॥
अथातः सम्प्रवक्ष्यामि त्रयोविंशकलौ मनुम् ॥
श्रीमायाकामबीजानि 22 ङेन्तं कृष्णमुदीरयेत् ॥ ९९६ ॥
ङेयुतं चापि गोविन्दं स्वाहान्तो द्वादशाक्षरः ॥
मुनिर्ब्रह्मा च गायत्रं छन्दः कृष्णोस्य देवता ॥
भूभूभूरामवेदाक्षिमन्त्रार्णैरङ्गकल्पनम् ॥ ९९७ ॥
कोटिभास्करसङ्काशे द्वारकायां गृहोत्तमे ॥
बहुभिः कल्पतरुभिर्वेष्टिते रत्नमण्डपे ॥ ९९८ ॥
विलसन्मणिवर्यौघचित्रितस्वर्णभित्तिके ॥
विकसत्पुष्पमालाभिः सहितेऽनङ्गमौक्तिकैः ॥
पुष्परागधराशोभिरत्नविद्योतितान्तरे ॥ ९९९ ॥
निरन्तरतरद्रत्नसुधाधाराभिवर्षिणः ॥
अधो वै कल्पवृक्षस्य शाखाव्याप्तस्य पत्रिणः ॥ १००० ॥
फलरत्नप्रदीपालीसमुद्योतितदिङ्मुखे ॥
तद्योगे रविबिम्बाभरत्नसिंहासनाम्बुजे ॥ १००१ ॥
सूपविष्टं रमाकान्तं द्रुतस्वर्णनिभं स्मरेत् ॥
समेघरविचन्द्रोद्यद्विद्युत्कोटिनिभच्छविम् ॥ १००२ ॥
हृद्यङ्गं सर्वतः सौम्यं नानालङ्कारमण्डितम् ॥
अरिशङ्खगदापद्मधारिणं पीतवाससम् ॥ १००३ ॥
स्पृशन्तं कलशं द्योतन्मणिधारमहर्निशम् ॥
रुक्मिणीसत्यभामे द्वे दक्षे वामे स्थिते प्रभोः ॥ १००४ ॥
कालिन्दी मित्रविन्दा च सत्या जाम्बवती तथा ॥
सुशीला लक्ष्मणा चेति समावृत्य स्त्रियः स्थिताः ॥ १००५ ॥
ततः षोडशसाहस्रमिता नार्यः समन्ततः ॥
स्मर्तव्याः स्वर्णरत्नादिधरा दुग्धलसत्कराः ॥ १००६ ॥
यजेदष्टनिधींस्तासां धनान्यावर्षतो बहिः ॥
ततोग्रे दिक्पतीन्देवान्पूजयेदपि पूर्ववत् ॥ १००७ ॥
पूर्वं सञ्चिन्त्य देवेशं ततः पूजां समाचरेत् ॥
पूर्वोदितप्रकारेण पीठन्यासावसानकम् ॥ १००८ ॥
कर्म निर्वर्त्य मन्त्रज्ञो मूलमन्त्रेण मन्त्रवित् ॥
प्राणायामत्रयं कृत्वा ऋष्यादिन्यासमाचरेत् ॥ १००९ ॥
कराङ्गुलीषु करयोः षडङ्गन्यासमाचरेत् ॥
व्यापकं मूलमन्त्रेण विन्यस्य च करात्पुनः ॥ १०१० ॥
पुनः षडङ्गं विन्यस्य देहे देशिकसत्तमः ॥
पुटितं मूलमन्त्रेण मातृकावत्प्रविन्यसेत् ॥ १०११ ॥
मूलेन व्यापकं कृत्वा मन्त्रवर्णं ततो न्यसेत् ॥
मूर्तिपञ्जरकस्थाने मूर्तिपञ्जरमाचरेत् ॥ १०१२ ॥
देवस्य बाह्यपूजार्थं चोच्यते यन्त्रमुत्तमम् ॥
गोमयेनोपलिप्तायां भूमौ पीठं प्रविन्यसेत् ॥ १०१३ ॥
अष्टगन्धादिकेनैव षट्कोणं यन्त्रमुद्धरेत् ॥
कामबीजं कर्णिकायां ससाध्यं सुलिखेत्ततः ॥ १०१४ ॥
क्लींह्रीमष्टादशार्णेन तत्त्वं सम्यक्च वेष्टयेत् 23 ॥
शक्रराक्षसवायूनां कोणे श्रीबीजमालिखेत् ॥ १०१५ ॥
अन्त्येष्वग्न्यादिकोणेषु मायाबीजं प्रकल्पयेत् ॥
कोणसन्धिषु षड्वर्णमन्त्रस्यैकैकमक्षरम् ॥ १०१६ ॥
बहिरष्टदलं पद्मं केशरेषु त्रिशस्त्रिशः ॥ १०१७ ॥
सुलिखेत्कामतः पश्चाद्वर्णानथ दलेषु च ॥ १०१८ ॥
क्रमोत्क्रमाभ्यां मन्त्रस्य कामदेवस्य वर्णितान् ॥
लिखेद्वर्णान्धृतिदले बहिर्वृत्तद्वयं लिखेत् ॥ १०१९ ॥
तद्वीथ्यां मातृकावर्णैर्बिन्दुयुक्तैश्च वेष्टयेत् ॥
धरापुरे चतुर्दिक्षु रमां मायां च कोणगाम् ॥ १०२० ॥
संलिख्यैवं महावश्यं पत्रे स्वर्णादिजे बुधः ॥
सम्यक्सम्पूज्य प्रजपेद्धृतं च मनुजोत्तमैः ॥ १०२१ ॥
करोमि लोकपूज्यं तं राजवश्यं च सर्वदा ॥ १०२२ ॥
अस्मिन्यन्त्रे पीठपूजां कृत्वा पूर्वोक्तवर्त्मना ॥
तत्र मूर्त्ति प्रकल्प्यास्यां कृष्णमावाह्य पूजयेत् ॥ १०२३ ॥
आसनप्रमुखैर्मन्त्री भोज्यान्तैरुपचारकैः ॥
चतुर्थेऽङ्गाच्च मूलान्तं भूषणादि प्रपूजयेत् ॥ १०२४ ॥
किरीटाय नमः शीर्षं कुण्डलाभ्यां च कर्णयोः ॥
दक्षोर्ध्वहस्ते चक्राय वामोर्ध्वे कम्बवे नमः ॥ १०२५ ॥
गदां वामाधःकरतले दक्षे पद्माय वै नमः ॥
स्कन्धादिपादपर्यन्तं नाभ्यन्तोपरि मालिकाम् ॥ १०२६ ॥
वक्षःस्थले श्रीवत्साय कौस्तुभाय गले नमः ॥
षट्सु पूर्वादिकोणेषु षडङ्गानि समर्चयेत् ॥ १०२७ ॥
वासुदेवादिका मूर्त्तीः कोणकेशरगा यजेत् ॥
शान्तिं श्रियं भारतीं च रतिं दिग्दलकेशरे ॥ १०२८ ॥
ततः पूर्वादिपत्रेषु रुक्मिणीप्रमुखा यजेत् ॥
दक्षवामक्रमात्पश्चाद्देवदेवं समर्चयेत् ॥ १०२९ ॥
षोडशस्त्रीसहस्राणि देवदेवस्य शार्ङ्गिणः ॥
दलाग्रस्थास्ततः पूज्याः पूजनीयाः 24 क्रमादमी ॥ १०३० ॥
इन्द्रनीलौ च कुमुदो मकरोऽनङ्गकच्छपौ ॥
शङ्खपद्मौ च तद्बाह्ये लोकेशानायुधान्यपि ॥ १०३१ ॥
इत्थं सम्पूज्य गोविन्दं नैवेद्यं हविरर्प्पयेत् ॥
हरेः पायसखण्डादिदधिभिः परिकीर्त्तितम् ॥ १०३२ ॥
करोद्वर्त्तनताम्बूलवस्त्रादीनि निवेदयेत् ॥
तथा प्रणम्य चोद्वास्य हरिं सावरणं हृदि ॥
पुनः सञ्चिन्त्य सम्पूज्य प्रजपेच्छक्तितो मनुम् ॥ १०३३ ॥
परमभ्यर्च्य देवेशं वेदलक्षं जपेन्मनुम् ॥
सर्पिषा जुहुयात्पश्चाद्दशांशं तर्पयेत्ततः ॥ १०३४ ॥
स्वाभिषेकं विधायाथ ब्राह्मणान्भोजयेत्ततः ॥
इत्थं साधितमन्त्रस्तु प्रयोगान्विदधीत वै ॥ १०३५ ॥
पूजयित्वानले कृष्णं श्वेतैस्तत्पुष्पतण्डुलैः ॥
अयुतं घृतसंयुक्तैर्हुत्वा तद्भस्म धारयेत् ॥ १०३६ ॥
समस्तधनधान्यादिस्त्रीवश्यं च भवेद्ध्रुवम् ॥
मन्त्रार्णैर्लक्षसङ्ख्यं यो हुनेन्मधुरसान्वितैः ॥ १०३७ ॥
गोघृतैर्वापि जुहुयात्तस्य लक्ष्मीः स्थिरा भवेत् ॥
रक्तादिवसनाकाङ्क्षी हुनेत्पुष्पैश्च तादृशैः ॥ १०३८ ॥
मधुराक्तैर्घृताक्तैर्वाप्यष्टोत्तरसहस्रकम् ॥
मधुना संयुतैश्चैव सुगन्धाष्टकसंयुतैः ॥ १०३९ ॥
सहस्रं जुहुयान्नित्यं मासमात्रेण साधकः ॥
राज्ञः पुरोहितो भूत्वा भुक्तिभाङ्नात्र संशयः ॥ १०४० ॥
प्रयोगजपहोमादि दशाक्षरसमं मतम् ॥
मन्त्रेणानेन कुर्वीत ताभ्यां मन्त्रोत्तमाद्वरात् ॥ १०४१ ॥
न्यासध्यानजपार्चाभिर्होमतो यो भजेन्मनुम् ॥
रत्नकाञ्चनधान्यादिसमृद्धं तस्य मन्दिरम् ॥
जायते हस्तगा तस्य सकला वसुधा चिरम् ॥ १०४२ ॥
पुत्रपौत्रकलत्राद्यैर्भुक्त्वा भोगान्बहूनिह ॥
अन्ते याति परं धाम वैष्णवं मुनिदुर्लभम् ॥ १०४३ ॥
अथातः सम्प्रवक्ष्यामि चतुर्विंशकलौ मनुम् ॥
लक्ष्मीशक्तिमनोजातबीजान्ते दशवर्णकम् ॥ १०४४ ॥
कामाद्यश्च हृदन्तोयं षोडशार्णो मनुर्मतः ॥
ऋष्यादिकं दशार्णोक्तं पञ्चाङ्गमपि तादृशम् ॥ १०४५ ॥
वराभयकराभ्यां तमालिङ्गन्तं प्रियाङ्गकम् ॥
अब्जोत्पललसद्धस्तपद्मयालिङ्गितं मुदा ॥ १०४६ ॥
धारयन्तं रथाङ्गं च शङ्खं स्रव्यकरे परे ॥
एवं ध्यात्वा जपेन्मन्त्रं दशलक्षं समाहितः ॥ १०४७ ॥
तावत्सङ्ख्यसहस्राणि हुनेदाज्यमनुत्तमम् ॥
तर्पणाद्यैर्भवेन्मन्त्रः सिद्धोशेषफलप्रदः ॥ १०४८ ॥
पूजा चात्र विधातव्या पूर्वोक्तद्वादशार्णवत् ॥
दशार्णवज्जपश्चापि विधेयो नात्र संशयः ॥ १०४९ ॥
अथातः सम्प्रवक्ष्यामि पञ्चविंशे कलौ मनुम् ॥
मायाश्रीसहितो मन्त्रो दशार्णो द्वादशाक्षरः ॥ १०५० ॥
विधानमस्य विज्ञेयं षोडशार्णोक्तवर्त्मना ॥ १०५१ ॥
यस्मिन्मन्त्रे यस्य मनो रमते दिष्टकर्मतः ॥
देवः प्रागुक्तवत्तत्र मन्त्रसिद्धिर्द्रुतं भवेत् ॥ १०५२ ॥
अथातः सम्प्रवक्ष्यामि क्रमाज्जाता युगत्रये ॥
ये मन्त्रा दशवर्णस्य भेदाः सिद्धिविधायकाः ॥ १०५३ ॥
काममायोन्दिरापूर्वो मायाश्रीकामपूर्वकः ॥
लक्ष्मीमायास्मराद्यश्च मन्त्रराजो दशाक्षरः ॥ १०५४ ॥
त्रयोदशाक्षरा मन्त्रास्त एवैते युगत्रये ॥
मुन्याद्यन्तु विधिस्तेषां पङ्क्त्यामुक्तविधानतः ॥ १०५५ ॥
ध्यानन्तृतीयमन्त्रे तु दशार्णे समुदाहृतम् ॥
विंशार्णोक्तं द्वितीये तु प्रथमेथ निगद्यते ॥ १०५६ ॥
दरारिवाद्यशब्देन रञ्जिताशामुखाम्बुजम् ॥
वंशमादाय हस्ताभ्यां वादयन्तं मुदान्वितम् ॥ १०५७ ॥
रविमण्डलगं कृष्णं ध्यायेदिष्टफलाप्तये ॥
अङ्गेन्द्रादिकवज्राद्यैरर्चना सर्वसिद्धिदा ॥ १०५८ ॥
बाणलक्षं जपित्वाग्रे दशांशं हविषा हुनेत् ॥
तर्पणादि ततः कृत्वा सिद्धमन्त्रः समाचरेत् ॥ १०५९ ॥
कान्तिपुष्टिघृताद्यन्नकामो मन्त्रैः प्रयोगकान् ॥
दशाष्टादशवर्णोक्तानष्टाविंशे कलाविति ॥ १०६० ॥
अथातः सम्प्रवक्ष्यामि चोनत्रिंशमिते कलौ ॥
अष्टादशाक्षरो मन्त्रः कामान्तोत्र प्रकीर्त्तितः ॥ १०६१ ॥
नारदोस्य मुनिश्छन्दो गायत्रं कृष्णदेवता ॥
षड्दीर्घान्वितकामेन षडङ्गविधिरीरितः ॥ १०६२ ॥
बिभ्राणं दक्षिणे हस्ते ससितं दुग्धमोदकम् ॥
वामे नवीनमाज्यस्य पिण्डं सुन्दरमद्भुतम् ॥ १०६३ ॥
वैयाघ्रनखसंशोभिगलं सान्द्रघनच्छविम् ॥
एवं ध्यात्वा जपेन्मन्त्रमेकलक्षमनन्यधीः ॥
शर्क्कराघृतयुक्तेन दशांशं हविषा हुनेत् ॥
तर्प्पणादि ततः कुर्य्यात्प्राग्वद्ब्राह्मणभोजनम् ॥ १०६४ ॥
अङ्गलोकेशवज्राद्यैरर्चनास्य समीरितता ॥ १०६५ ॥
सरोजमध्यगं कृष्णं पूजयित्वा विधानतः ॥
तस्यैव स्त्रीमुखाम्भोजमर्चयेन्मन्त्रमुच्चरन् ॥ १०६६ ॥
गोदुग्धेन सुपक्वेन सुपक्वैः कदलीफलैः ॥
दध्ना च नवनीतेन पुत्रमाप्नोति वत्सरात् ॥
यद्यदिच्छति तत्सर्वं तर्प्पणेनैव सिध्यति ॥ १०६७ ॥
दध्ना श्रीर्मधुना तेजो घृतेनायुर्विवर्धते ॥
अथातः सम्प्रवक्ष्यामि मन्त्रं त्रिंशत्तमेकलौ ॥
ऐङ्क्लीं कृष्णाय चेत्युक्त्वा गोविन्दाय रमां वदेत् ॥ १०६८ ॥
गोपीजनवल्लभाय स्वाहान्तो विंशवर्णकः ॥
सर्वैश्वर्यप्रदो नित्यं साधकानामभीष्टदः ॥
अष्टादशलिपिः प्रोक्तं मुन्याद्यं चाङ्गकल्पनम् ॥ १०६९ ॥
विंशाक्षरोक्तवज्ज्ञेया सपर्य्या ध्यानमुच्यते ॥
दक्षोर्ध्वेस्फाटिकीं मालां वामेन धृतपुस्तकम् ॥
अधःकराभ्यां मुरलीं वादयन्तं मनोहरम् ॥ १०७० ॥
पीताम्बरं मेघकान्तिं गायन्तमतिकोमलम् ॥
मयूरपक्षसम्बद्धकेशजालश्रियान्वितम् ॥ १०७१ ॥
सर्वज्ञं मुनिवृन्देन सेवितं सर्वदैवतम् ॥
युवतीवेषलावण्यरमणीयतरं स्मरेत् ॥
पञ्चपञ्चेषुवेदत्रिवर्णै(ं)ः पञ्चाङ्गकल्पनम् ॥ १०७२ ॥
वेदलक्षं मनुं जप्त्वा किंशुकैर्मधुनाप्लुतैः दशांशं जुहुयादग्नौ साधको मन्त्रसिद्धये ॥
तर्पणादि ततः कुर्यान्मन्त्री पूर्वोक्तवर्त्मना ॥ १०७३ ॥
मनुमेनं जपेद्यस्तु देवं सम्पूज्य यत्नतः ॥
देवस्यानुग्रहात्तस्य सुखं पद्माक्षिकोद्भवम् ॥ १०७४ ॥
गङ्गातरङ्गकल्लोलवाग्विलासमनोहरा ॥
गद्यपद्यात्मिका तस्य ब्रुवतो भारती सदा ॥ १०७५ ॥
अशेषवेदवेदार्थसर्वशास्त्रविशारदः ॥
राज्यैश्वर्यं परं प्राप्य भुङ्क्ते भोगाननेकशः ॥
ध्यानं पूर्वोक्तमप्यन्ते देहं त्यक्त्वा हरि व्रजेत् ॥ १०७६ ॥
अथातः सम्प्रवक्ष्यामि चैकत्रिंशोन्मिते कलौ ॥
तारो नमो भगवते नन्दपुत्राय नन्द च ॥ १०७७ ॥
व्रजगोपीजनेत्युक्त्वा तदन्ते ङेन्तवल्लभम् ॥
स्वाहाष्टाविंशदर्णोयं मुनिरस्य तु नारदः ॥ २०७८ ॥
उष्णिक् छन्दो देवता च नन्दपुत्रोखिलेष्टदः ॥
आचक्रादिपदैः प्राग्वत्पञ्चाङ्गं परिकीर्तितम् ॥ १०७९ ॥
रत्नपात्रं करे दक्षे हेमजातं च वामतः ॥
बहन्तं मध्यगं कृष्णं स्त्रीभ्यामालिङ्गितं सदा ॥ १०८० ॥
अङ्गलोकेशवज्राद्यैः पूजनं परिकीर्तितम् ॥
लक्षं जपेत्प्रजुहुयाद्धविषा सर्वसिद्धये ॥ १०८१ ॥
अथातः सम्प्रवक्ष्यामि द्वात्रिंशत्प्रमिते कलौ ॥
नन्दपुत्रस्य 25 शब्दान्ते श्यामलाङ्गाय कीर्तयेत् ॥ १०८२ ॥
ततश्च बालवपुषे कृष्णाय पदमुच्चरेत् ॥
गोविन्दाय दशार्णं च द्वात्रिंशद्वर्ण ईरितः ॥ १०८३ ॥
मुन्याद्या नारदोनुष्टुप्कृष्णः पूजादिकाप्तये ॥
अष्टादशार्णकप्रोक्तप्रयोगा इह वर्णिताः ॥ १०८४ ॥
अथातः सम्प्रवक्ष्यामि त्रयस्त्रिंशमिते कलौ ॥
ॐ श्रीं ह्रीं हृद्भगवते नन्दपुत्राय बालव ॥ १०८५ ॥
पुषे च श्यामलाङ्गाय ततश्चाष्टादशाक्षरः ॥
द्विचत्वारिंशदर्णोयं छन्दोनुष्टुब्विधिर्मुनिः ॥ १०८६ ॥
कृष्णो देवोस्य पूजाद्यं प्राग्वत्सर्वं प्रकल्पयेत् ॥
रामैकादशपञ्चेषुधृत्यर्णैरङ्गकल्पनम् ॥ १०८७ ॥
अन्यत्सर्वं प्रयोगाद्यमष्टाविंशतिवर्णवत् ॥
मन्त्रोयं सकलैश्वर्यकाङ्क्षितार्थैकसाधनः ॥ १०८८ ॥
अथातः सम्प्रवक्ष्यामि चतुस्त्रिंशात्मके कलौ ॥
तारो नमो भगवते रुक्मिणीवल्लभाय च ॥ १०८९ ॥
स्वाहान्तः षोडशार्णोयं मन्त्रराण्नारदो मुनिः ॥
छन्दोनुष्टुब्देवतास्य रुक्मिणीवल्लभः स्मृतः ॥ १०९० ॥
भूद्व्यब्धिसप्तनेत्रार्णैः पञ्चाङ्गं परिकीर्तितम् ॥
कलया श्यामलं कृष्णं नानालङ्कारमण्डितम् ॥ १०९१ ॥
पीतकौशेयसद्वस्त्रं स्वर्णवेत्रविभूषितम् ॥ १०९२ ॥
करपद्मेन दक्षेण लिम्पन्तं वामपाणिना ॥
वराभीष्टवतीं देवीं मञ्चगां काञ्चनप्रभाम् ॥
वामहस्तधृताम्भोजां तां समालिङ्गितां प्रियाम् ॥ १०९३ ॥
अङ्गैर्नारदमुख्यैश्च लोकपालैस्तदायुधैः ॥
पूजनं धर्मकर्मार्थं निःश्रेयसफलप्रदम् ॥ १०९४ ॥
सप्तलक्षं जपेन्मन्त्रं हुनेन्मधुरलोलितैः ॥
दशांशं कमलैः पश्चात्तर्पणादि समाचरेत् ॥ १०९५ ॥
महदैश्वर्य्यमोक्षादिकाङ्क्षिभिः सेवितो मनुः ॥
अभीष्टकृत्प्रयोगाद्यं विज्ञेयन्तु दशार्णवत् ॥ १०९६ ॥
अथातः सम्प्रवक्ष्यामि पञ्चत्रिंशन्मिते कलौ ॥
लीलादण्डं सुशिक्षन्तं गोपीजनपदं व्रजेत् ॥ १०९७ ॥
दोर्दण्डं बालरूपेति मेघश्यामपदं तथा ॥
भगवन्प्रभविष्णो स्यादेवन्तु त्रिंशदक्षरः ॥ १०९८ ॥
नारदोस्य मुनिश्छन्दो गायत्री देवता मता ॥
लीलादण्डधरः कृष्णो देवस्तु परिकीर्तितः ॥ १०९९ ॥
वामहस्ताम्बुजस्थेन लीलादण्डेन गोपिकाः ॥
पुराङ्गनाश्च साकूतं मोहयन्तं महाप्रभुम् ॥ ११०० ॥
आत्मनः प्रियमित्रस्य स्कन्धन्यस्तान्यहस्तकम् ॥
हतकंसं स्मरेत्कृष्णमप्रमेयपराक्रमम् ॥ ११०१ ॥
अङ्गैरिन्द्रादिवज्राद्यैरर्चनं च समीरितम् ॥
लक्षमेकं जपेन्मन्त्रं दशांशं तिलतण्डुलैः ॥
त्रिमध्वक्तैर्हुनेत्पश्चान्मार्जनादि समाचरेत् ॥ ११०२ ॥
शुभगः स जगद्वन्द्यो रमाया भवनं भवेत् ॥ ११०३ ॥
अथातः सम्प्रवक्ष्यामि षट्त्रिंशे यः कलौ भवेत् ॥
गोवल्लभाय स्वाहेति मन्त्रः सप्ताक्षरो मतः ॥ ११०४ ॥
नारदो मुनिरस्य स्यादुष्णिक् छन्दस्तु देवता ॥
गोवल्लभो हरिः प्रोक्तो गवां वृद्धिकरः परः ॥
दशार्णोक्तविधानेन पञ्चाङ्गविधिरीरितः ॥ ११०५ ॥
इन्द्रनीललसत्कान्तिं पीतवाससमच्युतम् ॥
सर्प्पारिपिच्छनिकरैः सम्यक्कॢप्तावतंसकम् ॥ ११०६ ॥
वंशं वामकरे यष्टिं दक्षे पाशं च बिभ्रतम् ॥
कपिलां वनमध्यस्थामाह्वयन्तं च गां मुदा ॥ ११०७ ॥
एवं यजेत्ततस्तस्य पीठे पूर्वोदिते शुभे ॥
आदावङ्गानि सम्पूज्य पूजयेद्यो गणाष्टकम् ॥ ११०८ ॥
पीतो रक्तश्च सिन्दूरः श्वेतो नीलो हरिद्भवेत् ॥
कालः कर्णात्मकश्चेति ततः प्रोक्तं गणाष्टकम् ॥ ११०९ ॥
पुरन्दरमुखास्तेषामायुधानि ततः परम् ॥ १११० ॥
ध्यात्वा मन्त्रं जपेत्तस्य वर्णलक्षं जितेन्द्रियः ॥
तत्सहस्रं हुनेन्मन्त्री गोदुग्धेन पुरोक्तवत् ॥ ११११ ॥
गोदुग्धैः प्रत्यहं साग्रं सहस्रं जुहुयाच्च यः ॥
मोक्षार्थं च गवां वृद्धिर्जायते तस्य भूयसी ॥ १११२ ॥
दशाक्षरोक्तवत्सर्वं विधानं चास्य कीर्त्तितम् ॥
सर्वे प्रयोगाः सिद्ध्यन्ति सम्पूर्णाः स्युर्मनोरथाः ॥ १११३ ॥
अथातः सम्प्रवक्ष्यामि सप्तत्रिंशोन्मिते कलौ ॥
तारो नमो भगवते श्रीगोविन्दाय संवदेत् ॥ १११४ ॥
द्वादशार्णो मनुः प्रोक्तो नारदोस्य मुनिर्मतः ॥
गायत्री छन्द उद्दिष्टं श्रीकृष्णो देवता मनोः ॥ १११५ ॥
चन्द्रनेत्राब्धिबाणार्णैः सम्पूर्णेनाङ्गकल्पनम् ॥
कल्पद्रुमतले रम्ये रत्नसिंहासने शुभे ॥ १११६ ॥
सर्वलक्षणसंयुक्ते निविष्टं नन्दनन्दनम् ॥
प्रस्नुतस्तनभारेण गोवृन्देन युतं भजेत् ॥ १११७ ॥
मेघश्यामं वरं दण्डं हस्ताभ्यां बिभ्रतं तथा ॥
पद्मायताक्षं शक्रस्य हस्तिकुम्भामृतस्य तु ॥ १११८ ॥
धारया सिच्यमानं च ध्यायेद्विष्णुं तमव्ययम् ॥
रुक्मिणीसत्यभामादिभागयोर्वामदक्षयोः ॥ १११९ ॥
शक्रमग्रे पृष्ठतस्तु सुरभिं च समर्च्चयेत् ॥
रुद्रादिवरुणान्तेषु केशरेषु चतुर्ष्वपि ॥ ११२० ॥
देवाग्राद्दशपत्रेषु कालिन्दी रोहिणी तथा ॥
नाग्नजिती सुनन्दा च मित्रविन्दा सुलक्षणा ॥ ११२१ ॥
जाम्बवती सुशीला च चतुष्कोणेषु भूपुरे ॥
आग्नेयादिषु सम्पूज्याः किङ्किणीदामयष्टिकाः ॥ ११२२ ॥
पद्मञ्च तत्पुरोभागे श्रीवत्सं कौस्तुभं तथा ॥
वनमालां भूपुरेथ देवाग्रादिप्रदक्षिणम् ॥ ११२३ ॥
शार्ङ्गं गदां तु चक्रं च वसुदेवं च देवकीम् ॥
नन्दं यशोदां धेनूश्च गोपालांश्चापि गोपिकाः ॥ ११२४ ॥
दशदिक्षु प्रपूज्यैवं लोकपालायुधानि च ॥
देवाग्रतस्तस्य वामे कुमुदं कुमुदाक्षकम् ॥
पुण्डरीकं वामनं च शङ्कुकर्णं ततः परम् ॥ ११२५ ॥
सर्पनेत्रञ्च सुमुखं सुप्रतिष्ठितमेव च ॥
देवस्यान्तरतो वामे विष्वक्सेनं समर्चयेत् ॥ ११२६ ॥
एवं सञ्चिन्त्य देवेशं वर्णलक्षं जपेन्मनुम् ॥
तत्सहस्राणि गोक्षीरैर्जुहुयात्तर्पयेत्ततः ॥ ११२७ ॥
आसनाराधनान्तन्तु प्राग्वत्कुर्यादतन्द्रितः ॥
दिनादावथ मध्याह्ने समयत्रितयेथवा ॥ ११२८ ॥
गोष्ठाभ्यां सततं कृष्णमर्चयेद्विधिनामुना ॥
भक्त्या परमयोपेतो गोपालाṁश्च समर्चयेत् ॥ ११२९ ॥
दीर्घायुर्निर्भयश्चैव धनधान्यधरादिभिः ॥
पुत्रपौत्रैश्च सन्मित्रै राज्यान्ते विष्णुमन्दिरम् ॥
तस्माद्भजेदमुं मन्त्रं द्रुतं सिद्धिप्रदं शिवे ॥ ११३० ॥
अथातः सम्प्रवक्ष्यामि त्वष्टाविंशन्मिते कलौ ॥
वदेद्गोकुलनाथाय नमोन्तोष्टाक्षरो मनुः ॥ ११३१ ॥
अजो मुनिश्च गायत्री छन्दो देवो हरिर्मतः ॥
वर्णद्वयेन पञ्चाङ्गं सकलेन प्रकल्पयेत् ॥ ११३२ ॥
कुण्डलाभ्यां लसन्नेत्रं नीलाङ्गाभं महाद्युतिम् ॥
प्रञ्चान्तिके च धावन्तं मदनेन पुरान्वितम् ॥ ११३३ ॥
ग्रैवेयाङ्गदहारादिभूषणैर्जयशोभितम् ॥
नानामुनिगणैर्दृष्टं सेवितं सर्वलीलया ॥ ११३४ ॥
पूर्वोदिते यजेत्पीठे चतुर्दिक्केशरेषु च ॥
चतुरङ्गानि सम्पूज्य चास्त्रं कोणेषु पूजयेत् ॥ ११३५ ॥
दिक्पत्रेषु यजेन्मूर्तीर्वासुदेवादिकास्तथा ॥
रुक्मिणी सत्यभामां च लक्ष्मणां जाम्बवतीं तथा ॥
तद्बहिर्लोकपालानां वज्रादीनां च पूजनम् ॥ ११३६ ॥
वर्णलक्षं जपेन्मन्त्रं तत्सहस्रं ततो हुनेत् ॥
पद्मैर्बिल्वसमिद्भिर्वा पायसैर्घृतसंयुतैः ॥
तर्प्पणादि ततः कृत्वा समृद्धिर्महती भवेत् ॥ ११३७ ॥
अथातः सम्प्रवक्ष्यामि कलौ गोत्रिमितं हरिम् ॥
तारं रमां ह्रियं कामं श्रीकृष्णाय ततो वदेत् ॥ ११३८ ॥
श्रीगोविन्दाय चेत्युक्त्वा श्रीगोपीजनवल्लभः ॥
ङेन्तो बीजत्रयं चाद्यं पञ्चविंशाक्षरो मनुः ॥ ११३९ ॥
नारदो मुनिराख्यातो गायत्री छन्द उच्यते ॥
श्रीकृष्णो बलदेवेन युक्तः प्रोक्तोस्य देवता ॥
वेदवेदेषु गोरामसम्पूर्णेन षडङ्गकम् ॥ ११४० ॥
सेवितौ वैनतेयेन मेदिनीमण्डलाविनौ ॥
रमन्तौ दिव्यभावेन बलकृष्णौ च संस्मरेत् ॥
पूजाजपप्रयोगादि सर्वं ज्ञेयं दशार्णवत् ॥ ११४१ ॥
अथातः सम्प्रवक्ष्यामि चत्वारिंशत्कलौ मनुम् ॥
एकच्छन्दर्षिदेवादिप्रयोगन्यासकावपि ॥ ११४२ ॥
कृमित्येकाक्षरो मन्त्रः सर्वकामसमृद्धिदः ॥
नारदोस्य मुनिर्देवो गायत्रं छन्द उच्यते ॥ ११४३ ॥
देवस्तु बालगोपालः षड्दीर्घान्वितकामतः ॥
षडङ्गानि ततो ध्यायेत्संस्थितं कमलादिके ॥ ११४४ ॥
कृष्णं पद्मासनं गुञ्जत्किङ्किणीविलसत्कटिम् ॥
हस्ताभ्यां नवनीतं च पायसं चापि बिभ्रतम् ॥ ११४५ ॥
कण्ठदेशे व्याघ्रनखं स्वर्णपट्टविराजितम् ॥
मेघश्यामं च परितो गोपगोपीजनावृतम् ॥ ११४६ ॥
यजेत्पूर्वोदिते पीठे वह्नीशासुरवायुषु ॥
हृदादिकवचान्तानि चार्चेदङ्गानि साधकः ॥ ११४७ ॥
कृष्णं तत्पुरतोभ्यर्च्य दिक्ष्वतस्तद्बहिः सुरान् ॥
आखण्डलमुखांश्चैव वज्रादीन्यायुधानि च ॥ ११४८ ॥
लक्षं जपेद्धुनेद्धेनोः पयसा हविषा तथा ॥
कृत्वा ब्राह्मणभोज्यान्तं स्वेप्सितार्थाल्लṁभेन्नरः ॥ ११४९ ॥
अथातः सम्प्रवक्ष्यामि कलावेकचतुर्मिते ॥
स एव कृष्णः प्रकटः कृष्णो द्व्यर्णो मनुर्मतः ॥
विप्रादिपादजान्तास्तु नाममन्त्राधिकारिणः ॥ ११५० ॥
अथातः सम्प्रवक्ष्यामिद्विचतुस्सम्मिते कलौ ॥
ॐकृष्ण इति मन्त्रोयं त्रिवर्णः परिकीर्त्तितः ॥ ११५१ ॥
मुन्यादिकप्रयोगान्तं सर्वं पूर्ववदस्य तु ॥
मुनिभिस्तु विशेषेण संसेव्यो भुक्तिमुक्तिदः ॥ ११५२ ॥
अथातः सम्प्रवक्ष्यामि त्रिचतुस्सम्मिते कलौ ॥
ॐ कृष्णायेति मन्त्रोयं चतुर्वर्णोखिलेष्टदः ॥
मुन्यादिकं प्रयोगान्तं सर्वं प्राग्वत्समाचरेत् ॥ ११५३ ॥
अथातः सम्प्रवक्ष्यामि वेदवेदमिते कलौ ॥
कृष्णाय हृदयं पञ्चवर्णः प्राग्वज्जपादिकम् ॥११५४ ॥
अथातः सायककृतसम्मिते कामबीजयोः ॥
मध्येकृष्णाय पञ्चार्णः सर्वं पूर्ववदेव हि ॥ ११५५ ॥
अथातः षट्कृतमिते गोपालायाग्निगेहिनी ॥
षडक्षरोयं मुन्यादिप्रयोगान्तं च पूर्ववत् ॥ ११५६ ॥
अथातो नगवेदाख्ये क्लीं कृष्णायाग्निगेहिनी ॥
षडक्षरो मन्त्रराजो जपध्यानादि पूर्ववत् ॥ ११५७ ॥
अथाष्टवेदतुल्ये तु कृष्णायेति पदं वदेत् ॥
गोविन्दायेति सप्तार्णः प्राग्वन्मुन्यादिकं मतम् ॥ ११५८ ॥
अथ गोवेदतुल्ये तु श्रीमायाकामबीजतः ॥
कृष्णाय कामबीजं च प्राग्वत्सप्ताक्षरो मनुः ॥ ११५९ ॥
अथातः सम्प्रवक्ष्यामि पञ्चाशत्प्रमिते दधि ॥
भक्षणाय द्विठान्तोयमष्टवर्णः प्रकीर्त्तितः ॥ ११६० ॥
अथैकपञ्चप्रमिते सुप्रसन्नात्मने नमः ॥
अष्टवर्णः समाख्यातो मुन्याद्यं पूर्ववन्मतम् ॥ ११६१ ॥
अथ द्विपञ्चप्रमिते कामं कृष्णाय संवदेत् ॥
गोविन्दाय पुनः कामो नवार्णः परिकीर्त्तितः ॥ ११६२ ॥
अथ त्रिपञ्चप्रमिते कृष्णो गोविन्द एव च ॥
ङेन्तश्च हृदयान्तश्च मनुः प्रोक्तो नवाक्षरः ॥ ११६३ ॥
अथ वेदेषु युक्तेषु कामं ग्लौं काममुच्चरेत् ॥
श्यामलाङ्गाय हृदयं दशार्णः परिकीर्त्तितः ॥ ११६४ ॥
अथ पञ्चेषु संयुक्ते बालान्ते वपुषे वदेत् ॥
कृष्णाय वह्निजायान्तो मन्त्रः प्रोक्तो दशाक्षरः ॥ ११६५ ॥
अथ षड्बाणयुक्ते तु क्लीं कृष्णा य परेति च ॥
नन्देति बालवपुषे स्वाहा पञ्चदशाक्षरः ॥ ११६६ ॥
अथातः सम्प्रवक्ष्यामि सप्तबाणमिते कलौ ॥
कामबीजद्वयं कृष्णपदं वेदार्ण उच्यते ॥ ११६७ ॥
मुन्यादयः षडङ्गानि चकार्णोक्तेन वर्त्मना ॥
तद्वद्ध्यानं विशेषोत्र कल्पवृक्षतले स्थितम् ॥ ११६८ ॥
अङ्गैरावरणं पूर्वं निधिभिस्तदनन्तरम् ॥
महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ॥ ११६९ ॥
मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥
लोकपालैश्च वज्राद्यैः पश्चादावरणद्वयम् ॥ ११७० ॥
एवं ध्यात्वा जपेन्मन्त्रं वेदलक्षं जितेन्द्रियः ॥
दशांशं जुहुयादग्नौ श्रीफलैर्मधुरप्लुतैः ॥ ११७१ ॥
तर्प्पणादि ततः कुर्य्यात्पूर्वोक्तं मन्त्रसिद्धये ॥
मधुरत्रयसद्बुद्ध्या शुद्धतोयैर्दिनागमे ॥ ११७२ ॥
दशपूर्णप्रयोगाश्च कर्त्तव्याः साधकेनतु ॥
भुक्तिप्रदो मुक्तिदश्च सर्वकामप्रदस्त्विति ॥ ११७३ ॥
अथातः सम्प्रवक्ष्यामि वसुबाणमिते कलौ ॥
कृष्णस्यादौ द्वयोः कामबीजयोरङ्कयोजनात् ॥ ११७४ ॥
मन्त्रान्तरो युगे वृत्तो नारदाद्यैरुपासितः ॥
षड्दीर्घभाजा बीजेन तादृशेनाङ्गकल्पनम् ॥ ११७५ ॥
ततो ध्यायेत्कल्पवृक्षमूले चान्दोलिकास्थितम् ॥
किङ्ङ्किणीसंवृतकटिं नीलकुञ्चितमूर्द्धजम् ॥ ११७६ ॥
चित्रव्यासं सरोजाक्षं तिलकाभूषणान्वितम् ॥
आरक्तवर्णं गोपीभ्यां दशायां कलितं मुहुः ॥
प्राग्वत्पूजादिकं सर्वं पुरश्चर्य्या तथेरिता ॥ ११७७ ॥
रक्तपद्मैर्हुनेन्मन्त्री रक्तपत्रैर्दशांशतः ॥
तर्प्पणादि ततः कृत्वा गुरुं यत्नेन तोषयेत् ॥ ११७८ ॥
मधुरत्रयसंसिक्तामारक्तां शालिमञ्जरीम् ॥
जुहुयान्नित्यशः सार्धं शतमेकेन मन्त्रतः ॥
मण्डलात्सर्वसस्यादि वस्तुजातं तदा भवेत् ॥ ११७९ ॥
अथातः सम्प्रवक्ष्यामि नवबाणमिते कलौ ॥
वाग्लज्जाक्लींरमाह्रीङ्ग्रीञ्ज्रीन्त्रीञ्जयजयेति 26 च ॥ ११८० ॥
कृष्णकृष्णेति चाभाष्य निरन्तरपदं वदेत् ॥
क्रीं त्रीं नित्यप्रमुदितरेतसे पदमुच्चरेत् ॥ ११८१ ॥
नित्यक्रियाय कृष्णाय क्लीं गोपीजनवल्लभा ॥
य स्वाहा ग्रीं च ह्रीं चेति द्विपञ्चाशल्लिपिर्मनुः ॥ ११८२ ॥
आनन्दनारदमुनिर्विराट् छन्दोस्य देवता ॥
सम्मोहनहरिः प्रोक्तो मन्त्रवर्णैः षडङ्गकम् ॥ ११८३ ॥
आद्यन्तैश्च त्रिभिर्बीजैः संयुक्तैश्च क्रमेण च ॥
अष्टभी रविभिर्नेत्रैर्नवभिश्च नखेन्दुभिः ॥ ११८४ ॥
न्यासादिकं ततः कृत्वा देहे पीठं प्रकल्प्य च ॥
हस्तद्वये दशार्णोक्तविधिना न्यासमाचरेत् ॥ ११८५ ॥
षडङ्गान्यस्य कामानां पञ्चपञ्च प्रविन्यसेत् ॥
त्रिवारं मूलमन्त्रेण व्यापकं च ततश्चरेत् ॥ ११८६ ॥
कामसम्पुटितान्न्यस्य मातृकार्णान्यथा पुरा ॥
दशतत्त्वादिकं न्यस्य तदन्ते मूर्तिपञ्जरम् ॥ ११८७ ॥
सृष्टिस्थितिषडङ्गानि वर्णान्न्यस्येच्च पूर्ववत् ॥
सर्वमन्यत्पुरोक्तेन विधानेन विधाय वै ॥ ११८८ ॥
साधकः सर्वलोकेशं ध्यायेत्सम्मोहनं हरिम् ॥
पुरे च मणिजे रम्ये पर्वताम्बुधिमध्यगे ॥ ११८९ ॥
नानाशोभाविचित्रेण मणिभिर्दीपितान्तरे ॥
उद्यानवापिकावाटीनानाजनमनोहरे ॥ ११९० ॥
तत्रातिरम्ये विपुले विश्वकर्म्मविनिर्मिते ॥
नानारत्नगणाकीर्णे गेहे सञ्चिन्तयेद्धरिम् ॥ ११९१ ॥
नानालङ्कारशोभाढ्यं श्रीवत्साङ्कितवक्षसम् ॥
नानासुगन्धरुचिरमङ्कन्यस्तकराम्बुजम् ॥ ११९२ ॥
विहिताम्भोजयुग्माभ्यां विस्तृताभ्यां च कामतः ॥
आलिङ्ग्य तां च बाहुभ्यां श्वेतमुक्ताविभूषितम् ॥ ११९३ ॥
स्वदक्षस्थितयाश्लिष्टं श्यामया सत्यभामया ॥
चक्रवज्जाम्बवत्या च श्लिष्टं वामस्थया तथा ॥ ११९४ ॥
कालिन्द्या च परिश्लिष्टमग्रदेशस्थया विभुम् ॥
पद्मं गदां शङ्खचक्रे चतुर्भिर्दधतं करैः ॥ ११९५ ॥
करद्वयलसद्वंशविभावितमुखाम्बुजम् ॥
चतुर्दिक्षु बहिर्देवैर्मुनिभिः सेवकैर्वृतम् ॥ ११९६ ॥
एवं ध्यात्वा तु पूर्वाक्ते पीठे देवं समर्चयेत् ॥
विंशार्णोदितयन्त्रं च सम्यगत्र सुलेखयेत् ॥ ११९७ ॥
मध्यस्थपीठपरितः पूर्वादिषु लिखेत्क्रमात् ॥
ह्रीन्त्रींह्रीन्त्रीं च बीजानि शिष्टैर्वर्णैः प्रवेष्टयेत् ॥ ११९८ ॥
दशबीजैर्विरहितैर्द्विचत्वारिंशसम्मितैः ॥
षट्कोणेथ क्रमाल्लेख्यम् ऐंह्रींश्रीमीशकोणतः ॥ ११९९ ॥
पुनस्तान्येव नैरृत्याच्छेषं प्राग्वत्समाचरेत् ॥
अर्घ्यपात्रादि संस्थाप्य मध्यबीजे हरिं यजेत् ॥ १२०० ॥
यथाध्यानं च तत्पूर्वादिष्वर्च्या रुक्मिणीमुखाः ॥
अङ्गानि षट्सु कोणेषु वामाङ्के सर्वगां यजेत् ॥ १२०१ ॥
दलमध्ये तु लक्ष्म्याद्यास्तदग्रे धनुरादिकाः ॥
यजेत्कृष्णाग्रमध्ये तु पृष्ठगं चाञ्जनं धनुः ॥ १२०२ ॥
शङ्खपद्मौ निधी पूज्यौ शुक्लवर्णौ तु पार्श्वयोः ॥
सर्वदा चापि वर्षन्तौ धाराभिर्वस्तुसञ्चयम् ॥ १२०३ ॥
हेरम्बं साम्बनामानं दुर्गां च तदनन्तरम् ॥
विष्वक्सेनं च कोणेषु वर्णगान्पक्षिणो यजेत् ॥ १२०४ ॥
रक्तमारक्तसुप्रख्यदूर्वाकनकवर्णकान् ॥
तद्बहिर्वासवादीनां वज्रादीनां च पूजनम् ॥ १२०५ ॥
दीक्षितो विधिना मन्त्रं प्राप्यामुं सद्गुरोः कृती ॥
दर्शनं भाषणं स्पर्शवचनश्रवणादिकम् ॥
वर्जयेत्प्रजपेल्लक्षं स्त्रीमात्रस्य गुरोरपि ॥ १२०६ ॥
सिताब्जमधुमिश्रैश्च दशांशं पायसैर्हुनेत् ॥
तर्प्पणं मार्ज्जनं कृत्वा ब्राह्मणान्भोजयेत्ततः ॥ १२०७ ॥
मन्त्रमेनं जपेद्यस्तु प्रत्यहं विधिनामुना ॥
समर्चयति गीर्वाणाṁल्लोकानन्दकरश्च सः ॥ १२०८ ॥
दिवादौ कृष्णचन्द्रं च दुग्धबुद्ध्या जलैः शुभैः ॥
अन्वहं तर्प्पयेद्यस्तु शतं साग्रं भवेद्ध्रुवम् ॥ १२०९ ॥
इन्दुश्रीजलबिन्न्द्वाभस्तद्विभूतिमहार्णवः ॥
चन्द्रचन्दनपङ्काक्तमालतीकुसुमैर्यवैः ॥ १२१० ॥
अयुतं मन्त्रवर्णेन यो जुहोति विभावसौ ॥
त्रैलोक्यं तद्वशे तिष्ठेत्ख्यातः कविवरो भवेत् ॥ १२११ ॥
मन्त्रिणो ध्यानमात्रेण मन्त्रस्यास्य यथाविधि ॥
वश्या भवन्ति सततं स्मरार्ताः सुरयोषितः ॥ १२१२ ॥
जपादिकर्म्मभिर्नूनमस्मात्किङ्किं न लभ्यते ॥
स्पर्द्धां स्वाभाविकीं त्यक्त्वा चित्रमेतत्सुमन्त्रिणः ॥
ग्रहेन्दिरा सदस्या स्यात्सेवने भक्तितत्परा ॥ १२१३ ॥
व्याधिदारिद्र्यपापौघक्रूरग्रहविषादिभिः ॥
विपत्तिदुःखदौर्भाग्यमृत्य्वादिरहितः सदा ॥ १२१४ ॥
पुत्रपौत्रधनारोग्यवरस्त्रीगन्धवाहिभिः ॥
सम्पन्नः सर्वसम्पत्या यशस्वी दीर्घजीवनः ॥ १२१५ ॥
अथातः सम्प्रवक्ष्यामि कलौ षष्टिमिते मनुम् ॥
यज्जपादेव पुत्रादेरुत्पत्तिर्भवति ध्रुवम् ॥ १२१६ ॥
देवकीसुत गोविन्द वासुदेव जगत्पते ॥
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १२१७ ॥
द्वात्रिंशदक्षरो मन्त्रो नारदोस्य मनोर्मुनिः ॥
छन्दोनुष्टुब्देवता च कृष्णः सन्तानदायकः ॥ १२१८ ॥
पादैश्चतुर्भिः 27 सर्वैश्च पञ्चाङ्गानि मनोर्विदुः ॥
शङ्खचक्रधरं देवं श्यामवर्णं चतुर्भुजम् ॥ १२१९ ॥
सर्वाभरणसन्दीप्तं पीतवाससमच्युतम् ॥
मयूरपिच्छसंयुक्तं विष्णुतेजोपबृंहितम् ॥
समर्प्पयन्तं विप्राय नष्टानानीय बालकान् ॥ १२२० ॥
ध्यात्वा ततोर्च्चनादीनि कुर्य्याद्भक्तिपरायणः ॥
अर्चना चेन्द्रवज्राद्यैरुदितास्य महात्मनः ॥ १२२१ ॥
लक्षं जप्त्वा तद्दशांशं जुहुयाङ्गोघृतेन च ॥
तर्प्पणादि ततः कुर्य्यान्मन्त्रः सिद्ध्यति मन्त्रिणः ॥ १२२२ ॥
दशम्यामर्धरात्रे तु शुक्लपक्षस्य मन्त्रवित् ॥
पुत्रार्थं शान्तिकं कृत्वा तत्रस्थो विष्णुमर्च्चयेत् ॥ १२२३ ॥
य एवं भजते मन्त्री साधकः पुत्रकाम्यया ॥
स वर्षाल्लभते पुत्रं विनीतं चिरजीविनम् ॥ १२२४ ॥
अथातः सम्प्रवक्ष्यामि ह्येकषष्टितमे कलौ ॥
वासुदेवाय निगडच्छेदन ङेन्तमुच्चरेत् ॥
वासुदेवाय हुम्फट् च स्वाहा विंशार्णको मनुः ॥ १२२५ ॥
नारदोस्य मुनिः प्रोक्तो गायत्री छन्द उच्यते ॥
श्रीकृष्णो देवता प्रोक्तो निगडच्छेदकारकः ॥
न्यासध्यानजपार्च्चादि दशवर्णोक्तवद्भवेत् ॥ १२२६ ॥
अथातः सम्प्रवक्ष्यामि नेत्रषष्टिमिते कलौ ॥
कमबीजात्मको मन्त्रो मुनिर्मोहननारदः ॥ १२२७ ॥
छन्दो गायत्रकं देवः कृष्णः सम्मोहनो मतः ॥
षड्दीर्घभाजा बीजेन षडङ्गानि प्रकल्पयेत् ॥ १२२८ ॥
आसनं न्यासपर्य्यन्तं चोक्तरीत्या विधाय तु ॥
अङ्गुलीषु न्यसेदङ्गं हस्तयोस्तलयोरपि ॥ १२२९ ॥
पञ्चाङ्गुलीषु बाणांश्च पूर्वोक्तान्क्रमतो न्यसेत् ॥
बीजसम्पुटितान्न्यस्य मातृकार्णाननन्तरम् ॥ १२३० ॥
षडङ्गानि पुनर्न्यस्य यथास्थाने शरान्न्यसेत् ॥ १२३१ ॥
शिरोवदनहृल्लिङ्गपादेषु क्रमतः सुधीः ॥
शेषतत्प्रमुखानेतान्पञ्चबीजप्रपूर्वकान् ॥ १२३२ ॥
जगत्सम्मोहनं कृष्णं ध्यायेत्पश्चात्समाहितः ॥
वृन्दारकद्रुमौघेन विलसत्कल्पशाखिनः ॥
मूले लसत्स्थलीराजद्रत्नसिंहासनोपरि ॥ ११३३ ॥
वामस्कन्धे पक्षिपत्रे स्थितं बन्धूकसन्निभम् ॥
अरिशङ्खसृणीन्पाशं पुष्पबाणेक्षुकार्मुकम् ॥ १२३४ ॥
पद्मं गदां च हस्ताब्जैरष्टभिर्दधतं निजैः ॥
घूर्णनेत्रं कुण्डलिनं हारिणं सुकिरीटिनम् ॥ १२३५ ॥
किङ्किणीनूपुराद्यैश्च मुद्रिकारत्नमाल्यकैः ॥
पीताम्बरै रक्तलेपैर्युक्तं वामोरुगां रमाम् ॥
आलिङ्गन्तं वामबाहुधृतपद्मावलिं विभुम् ॥ १२३६ ॥
विंशाक्षरोदिते पीठे भूषणाद्यैर्यजेद्धरिम् ॥
पश्चादङ्गानि बाणाञ्ञ्च न्यासमार्गेण पूजयेत् ॥ १२३७ ॥
किरीटं मस्तके श्रोत्रद्वये कुण्डलयुग्मकम् ॥
चक्राद्यं त्रिषु हस्तेषु श्रीवत्सं कौस्तुभं तथा ॥ १२३८ ॥
वक्षोहृदि तथा कण्ठे वनमालां नितम्बके ॥
पीताम्बरं महालक्ष्मीं वामाङ्के बीजपूर्विकाम् ॥ १२३९ ॥
अभ्यर्च्य कर्णिकामध्ये दिग्विदिक्ष्वङ्गदेवताः ॥
ततो बहिश्चरान्बाणान्दिक्षु कोणेषु पूजयेत् ॥ १२४० ॥
यजेदग्राग्रपत्रेषु लक्ष्म्याद्याः प्रोक्तलक्षणाः ॥
इन्द्रादीन्पूजयेद्बाह्ये वज्रादीन्यायुधान्यपि ॥ १२४१ ॥
प्रजपेद्दशलक्षाणि पलाशकुसुमैर्हुनेत् ॥
त्रिस्वाद्वक्तैस्तर्प्पयेच्च सहस्रद्वादशावधि ॥ १२४२ ॥
आत्माभिषेकं कृत्वाथ विप्रानभ्यर्च्य तोषयेत् ॥
अनेन मनुना तोयैर्मोहिनीपुष्पसंयुतैः ॥ १२४३ ॥
दिनादारभ्य मन्त्री तु तर्प्पयेच्च फलप्रदम् ॥
त्रैलोक्यं मोहयेद्यस्तु जपेन्मन्त्रं समाहितः ॥ १२४४ ॥
सर्वान्कामानवाप्नोति वाञ्छितानत्र वर्णितान् ॥
अयुतं सर्पिषा हुत्वा ससम्पातं हुताशने ॥ १२४५ ॥
तावज्जले जपित्वा च तद्घृतं भोजयेत्स्रियम् ॥
यस्तु तद्वशगा सा स्यात्सापि तं वशमानयेत् ॥ १२४६ ॥
अष्टादशलिपिप्रोक्ते वश्यं चानेन साधयेत् ॥
एवं यो भजते मन्त्रं भोगान्भुक्त्वा हरिं व्रजेत् ॥
अथातः सम्प्रवक्ष्यामि रामषष्टिमिते कलौ ॥ १२४७ ॥
त्रैलोक्यमोहनाय विद्महे ॥
स्मराय धीमहि ॥
तन्नो विष्णुः प्रचोदयात् ॥ १२४८ ॥
जपेदस्यैव गायत्रीं चतुर्वर्गफलप्रदाम् ॥
मुन्यादि सकलं प्राग्वद्गायत्री सपुरस्क्रिया ॥
नाशयेत्सर्वपापानि सिद्धेयं कल्पवल्लिका ॥ १२४९ ॥
यद्यदिष्टं भवेत्कार्य्यं सहस्रादयुतादपि ॥
यथायोग्यं जपेत्साध्यमसाध्यं च प्रसिद्ध्यति ॥ १२५० ॥
अथातः सम्प्रवक्ष्यामि वेदषष्टिमिते कलौ ॥
ग्लौमित्येकाक्षरो मन्त्रो जगती छन्द ईरितम् ॥ १२५१ ॥
ऋषिस्तु नारदः प्रोक्तः श्रीकृष्णो देवता मतः ॥
बीजं गकार ॐ कारः शक्तिः प्रोक्तं षडङ्गकम् ॥ १२५२ ॥
षड्दीर्घान्वितबीजेन गकारं मूर्ध्नि विन्यसेत् ॥
ग्लौं नाभौ तु तथौं गुल्फे बिन्दुं पादद्वये न्यसेत् ॥ १२५३ ॥
कदम्बमूले क्रीडन्तं वृदावननिवासिनम् ॥
पद्मोपरि स्थितं वन्दे वेणुं गायन्तमीश्वरम् ॥ १२५४ ॥
पीताम्बरधरं देवं वनमालाविभूषितम् ॥
गोपीभिर्गोपवृन्दैश्च सेवितं कृष्णमर्च्चयेत् ॥ १२५५ ॥
दशार्णवच्च पूजा स्यात्पिङ्गगोपालसम्मता ॥
लक्षायुतसहस्राणि चत्वार्य्यस्य जपो मनोः ॥१२५६ ॥
घृतहोमदशाशेन तर्प्पणादि ततश्चरेत् ॥
एवं संसिद्धमन्त्रस्तु दशार्णोक्तप्रयोगकान् ॥ १२५७ ॥
कुर्य्यादिह तु सौभाग्यमन्ते याति हरेः पुरम् ॥ १२५८ ॥
अथातः सम्प्रवक्ष्यामि पञ्चषष्टिभिते कलौ ॥
कामबीजान्तरे कृष्णमन्त्रोयं त्र्यक्षरो मतः ॥ १२५९ ॥
नारदोस्य मुनिश्छन्दो गायत्री देवता मता ॥
कृष्णः ककारो बीजं स्यादीकारः शक्तिरुच्यते ॥ १२६० ॥
षड्दीर्घस्वरयुक्तेन मूलेनापि षडङ्गकम् ॥
ध्यानपूजा प्रयोगादि पिङ्गगोपालवन्मतम् ॥ १२६१ ॥
अथातः सम्प्रवक्ष्यामि रसषष्टिमिते कलौ ॥
तारो नमश्च कृष्णाय मन्त्रो रसमितार्णकः ॥ १२६२ ॥
नारदोस्य मुनिश्छन्दो गायत्री देवता मताः ॥
श्रीकृष्णः प्रणवो बीजं माया शक्तिश्च पूर्ववत् 28 ॥
अथातः सम्प्रवक्ष्यामि वसुषष्टिमिते कलौ ॥ १२६३ ॥
उत्तिष्ठ श्रीकृष्ण स्वाहा मनुरष्टाक्षरो मतः वामदेवो मुनिः पङ्क्तिश्छन्दो विष्णुश्च देवता ॥
हुं भीषयद्वयं हृच्च हुमन्तं त्रासयद्वयम् ॥ १२६४ ॥
शिरः शिखा च वर्मोक्तं प्रमर्दययुगं मतम् ॥
वर्म प्रध्वंसययुगं वर्मान्तं रक्षयद्वयम् ॥ १२६५ ॥
हुमन्तमन्त्रं सम्प्रोच्य षडङ्गानि समाचरेत् ॥
अष्टाङ्गानि न्यसेन्मन्त्री मन्त्रवर्णैर्यथाविधि ॥ १२६६ ॥
पचाङ्गनेत्रजठरपृष्ठेषु क्रमतो न्यसेत् ॥
विदध्यात्करयोर्न्यासं मन्त्रार्णैरष्टभिः सुधीः ॥ १२६७ ॥
दक्षतर्ज्जनिकायाश्च यावत्स्याद्वामतर्जनी ॥
सृष्टिरेतद्वैपरीत्यं संहारो गदितः स्थितिः ॥ १२६८ ॥
दक्षान्यतर्जनीपूर्वां कनिष्ठायुग्मकान्तकाम् ॥
द्रावण्याद्यबीजयुतामङ्गुष्ठादिषु विन्यसेत् ॥ १२६९ ॥
सबीजपूर्वकान्कामानङ्गुष्ठादिषु विन्यसेत् ॥
तातो बाणार्णपुटितां मातृकां च प्रविन्यसेत् ॥ १२७० ॥
प्रकृतिश्च महत्तत्त्वमहङ्कारखवायवः ॥
तेज आपो धरा चेति तत्त्वाष्टकमुदीरितम् ॥ १२७१ ॥
व्यस्तमन्त्रार्णसंयुक्तं पादे लिङ्गे तथा हृदि ॥
मुखे शीर्षे हृदि पुनर्हृदये सकलाङ्गके ॥ १२७२ ॥
न्यसेत्संहार उक्तोयं सर्गस्तद्विपरीतकः ॥
तारसम्पुटमूलेन त्रिशो न्यस्येत्तनौ पुनः ॥
कट्यास्यहृन्नाभिगुल्फजानुपादेषु विन्यसेत् ॥
एषा सृष्टिश्च नाभ्याद्या हृदन्ता स्थितिरीरिता ॥ १२७३ ॥
सर्गत्यक्तमतिश्चापि संहारो मन्त्रिभिर्मतः ॥
मन्त्रार्णानामयं प्रोक्तस्त्रिधा न्यासो धनप्रदः ॥ १२७४ ॥
मूलाधारे हृदि मुखे बाहुद्वन्द्वोरुनाभिषु ॥
मन्त्रार्णान्विन्यसेन्मत्री न्यासोयं दार्ढ्यकारकः ॥ १२७५ ॥
गले च जठरे हस्ते स्तनयोः पार्श्वयोस्तथा ॥
पृष्ठे च विन्यसेद्वर्णान्न्यासोयं शुभकारकः ॥ १२७६ ॥
मूर्द्धनेत्रश्रोत्रमुखहस्ताग्रे मणिबन्धयोः ॥
कूर्परे चांसके न्यस्य मनोर्वर्णान्धनप्रदान् ॥ १२७७ ॥
पादाग्रयोर्गुल्फयोश्च जानुनोश्च नितम्बयोः ॥
मन्त्रस्य विन्यसेद्वर्णान्न्यासोयं काम्यकः स्मृतः ॥ १२७८ ॥
दक्षबाहौ तथा मूले मध्ये च मणिबन्धके ॥
अङ्गुष्ठादौ न्यसेद्वर्णान्पञ्चमो धर्मवृद्धिकृत् ॥ १२७९ ॥
एवं न्यासो वामहस्ते षष्ठः पापनिवर्तकः ॥
दक्षोरुमूले जानौ च गुल्फे पञ्चाङ्गुलीषु च ॥ १२८० ॥
अयन्तु सप्तमो न्यासो वामगस्त्वष्टमो मतः ॥
दक्षाङ्गुष्ठं समारभ्य वाममध्याच्च विन्यसेत् ॥ १२८१ ॥
क्रमेण मन्त्रवर्णांश्च न्यासोयं नवमः स्मृतः ॥
एवन्तु पादयोर्न्यस्येन्न्यासोयं दशमो भवेत् ॥ १२८२ ॥
मूर्द्धाक्षिकण्ठहृदये जठरे चोरुजानुनोः ॥
पादयोश्च न्यसेद्वर्णान्न्यास एकादशः स्मृतः ॥ १२८३ ॥
त्वगसृङ्मांसमेदोस्थिमज्जाशुक्रमरुत्सु च ॥
कर्मणा विन्यसेद्वर्णान्न्यासोयं द्वादशः स्मृतः ॥ १२८४ ॥
दक्षगण्डे च दक्षांसे तत्स्तने दक्षपार्श्वके ॥
दक्षस्फिचि च जङ्घायां पादेयन्तु त्रयोदशः ॥ १२८५ ॥
एवं प्रविन्यसेद्वामगुल्फादौ स चतुर्दशः ॥
प्रथमार्णं पादतले पदपादाग्रजानुषु ॥ १२८६ ॥
गुदगुह्ये तृतीयन्तु पार्श्वनाभौ चतुर्थकम् ॥
वक्षः पृष्ठहृदयेषु कण्ठे वक्त्रे नसोस्तले ॥ १२८७ ॥
श्रोत्रनेत्रद्वये चान्यं ललाटे चाष्टमं न्यसेत् ॥
सर्वोपद्रवहन्तायं न्यासः पञ्चदशः स्मृतः ॥ १२८८ ॥
शिरोक्षिमुखहृन्नाभिगुह्यजान्वङ्घ्रिषु न्यसेत् ॥
षोडशोयमिति प्रोक्तस्तत्त्वपञ्जरसज्ञकः ॥ १२८९ ॥
ततस्तनौ मूलमन्त्रं व्यापकत्वेन विन्यसेत् ॥
नृसिंहं पञ्चमे प्रोक्तमाचेरन्मूर्तिपञ्जरम् ॥ १२९० ॥
मुखे ब्राह्मणवर्णं च हस्तयोः क्षत्रियं न्यसेत् ॥
ऊर्वोर्वैश्यं शूद्रवर्णं पादयोरिति विन्यसेत् ॥ १२९१ ॥
न्यसेत्किरीटं शिरसि श्रुत्योर्मकरकुण्डले ॥
ग्रैवेयं कौस्तुमं कण्ठे हृदि श्रीवत्सहारकम् ॥ १२९२ ॥
अङ्गदे भुजयोर्न्यस्य केयूरान्सर्वबाहुषु ॥
कङ्कणे हस्तयोर्न्यस्य मेखलां च कटौ न्यसेत् ॥ १२९३ ॥
न्यस्याङ्गुलीषु मुद्राश्च न्यसेत्पीताम्बरद्वयम् ॥
परिधाने चोत्तरीयं पादयोर्नूपुरं तथा ॥ १२९४ ॥
न्यसेच्छङ्खं च चक्रं च वामदक्षोर्ध्वहस्तयोः ॥
अधःपाण्योर्गदापद्मे ततो ध्यानं समाचरेत् ॥ १२९५ ॥
दुग्धाम्भोधौ सितद्वीपं नानामणिगणैर्युतम् ॥
वनं सञ्चिन्तयेत्तत्र सकलर्त्तुसमन्वितम् ॥ १२९६ ॥
न्यासोक्ताभरणैः शस्त्रैरुपेतं दीप्ततेजसम् ॥
सुरासुरर्षिप्रमुखैः सेवितं चाप्सरोगणैः ॥ १२९७ ॥
प्रसन्नवदनं ध्यात्वा तत्त्वदेवं प्रपूजयेत् ॥
पूर्वोक्तपीठे मूलेन मूर्तिं सङ्कल्य चाह्वयेत् ॥ १२९८ ॥
अङ्गानि कर्णिकायाञ्च दिक्पत्रेषु चतुर्ष्वपि ॥
श्रियं पीताम्बराक्तां च धृतिं कान्तिं सितासिते ॥ १२९९ ॥
इन्द्रादींश्चापि दिक्पत्रे वज्रादींस्तद्बहिर्यजेत् ॥
अष्टलक्षं जपेन्मन्त्रं नियमस्थो जितेन्द्रियः ॥ १३०० ॥
दुग्धाक्तबिल्वसमिधां होमः प्रोक्तो दशांशतः ॥
जलैः सघृतदुग्धान्नैस्तर्प्पणादि समाचरेत् ॥ १३०१ ॥
गुरुं सन्तोष्य यत्नेन सिद्धमन्त्रो भवेद् ध्रुवम् ॥
ततः कुर्वीत मन्त्रज्ञः प्रयोगांश्च प्रसिद्धये ॥ १३०२ ॥
दुग्धपूतैः सरसिजैरयुतं जुहुयाच्छ्रिये ॥
मधुरत्रयसंयुक्तैः पलाशकुसुमैर्हुनेत् ॥ १३०३ ॥
कान्त्यर्थं केवलाज्येन जुहुयाद्दुग्धमायुषे ॥
त्रिस्वादुयुक्तं लवणं हुनेन्निशि सहस्रकम् ॥ १३०४ ॥
अष्टाधिकं च मासेन सोमरस्त्रीवृतो भवेत् ॥
का कथा सर्वयोषासु चान्यासु वशगासु च ॥
अयुतं जुहुयादाज्यं दूर्वाभक्तैश्च शोधितम् ॥ १३०५ ॥
भुञ्जीत प्रत्यहं भक्तं गुरुं सन्तोषयेद्धनैः ॥
वस्त्रालङ्करणाद्यैश्च ब्राह्मणानपि भोजयेत् ॥ १३०६ ॥
यो जपेन्मृत्युरोगादौ न्यसेच्चायुश्च विन्दति ॥
सूर्य्यबिम्बे न्यस्तदृष्टिरब्देन सततं जपेत् ॥ १३०७ ॥
उत्क्षिप्तबाहुः षण्मासाद्धनाढ्यः सुमहान् भवेत् ॥
दुग्धमध्ये प्रातरमुं रमेशं तर्प्पयेद्बुधः ॥
अष्टाधिकं सहस्रं तु स भवेद्गोरमान्वितः ॥ १३०८ ॥
सुमिष्टमन्नं लभते वने वै भृत्यवर्गयुक् ॥
षट्कर्माणि च सिद्ध्यन्ति याति विष्णोः परम्पदम् ॥ १३०९ ॥
अथो गोषट्कलौ मन्त्रस्तारादिरयमेव 29 हि ॥
यज्जपेनावतारोत्र सर्वकालफलप्रदः ॥ १३१० ॥
अथ सप्ततिके चायं लक्ष्म्यादिर्जप्यते जनैः ॥
नावतारः स एवात्र देवः प्रत्यक्षता गतः ॥ १३११ ॥
अथातः सम्प्रवक्ष्यामि चैकसप्तमिते कलौ ॥
अवतारोत्र मन्त्रस्तु श्रीकृष्णः शरणं मम ॥ १३१२ ॥
चतुष्पदैः समस्तेन पञ्चाङ्गविधिरीरितः ॥
ध्यानपूजाप्रयोगादि दशाक्षरवदीरितम् ॥ १३१३ ॥
अथातः सम्प्रवक्ष्यामि बौद्धमन्त्रं महाफलम् ॥
सभ्यत्वान्न द्विजातीनामधिकारोस्ति कर्हिचित् ॥ १३१४ ॥
वाममार्गरता विप्राः कुण्डका जातिविच्युताः ॥
हीना वैदिकसंस्कारैः प्रमादान्म्लेच्छतां गताः ॥
गोलकाश्च तथा जात्या कायस्थादय एव च ॥ १३१५ ॥
बौद्धं विष्णुं समारभ्य भुक्तिं मुक्तिं प्रयान्ति ते ॥
पतितानामयं मन्त्रः सम्प्रोक्तः शरणप्रदः ॥ १३१६ ॥
नमोभगवते बुद्धसंसारार्णवतारक ॥
कलिकालादहं भीतः शरण्यं शरणङ्गतः ॥ १३१७ ॥
आद्यैः पदैश्चतुर्भिश्च चरणद्वितयेन च ॥
षडङ्गविधिराख्यातः सर्वेण व्यापकं चरेत् ॥ १३१८ ॥
पद्मे पद्मासनस्थं च ऊर्वोर्न्यस्तकरद्वयम् ॥
गौरं मुण्डितसर्वाङ्गं ध्यानस्तिमितलोचनम् ॥ १३१९ ॥
पुस्तकासक्तहस्तैश्च नानाशिष्यैश्च शोभितम् ॥
इन्द्रादिलोकपालैश्च ताम्रवर्णाम्बरावृतम् ॥ १३२० ॥
एवं ध्यात्वा यजेत्पद्मे द्वात्रिंशद्दलसम्मिते ॥
कर्णिकायां षडङ्गानि दले शिष्यान्यजेत्क्रमात् ॥ १३२१ ॥
मीनाङ्कं ललितां वीरं योगिनीं ज्ञानदायिनीम् ॥
सर्वज्ञं सुगतं बुद्धं पार्श्वनाथं तथागतम् ॥ १३२२ ॥
चार्वाकं धर्मराजं च जिनं पद्मावतीं तथा ॥
कामिनीं च महामायां श्रीकृष्णं च विनायकम् ॥ १३२३ ॥
समन्तभद्रं वर्त्मर्षिं निधिचन्द्रं मनोहरम् ॥
षडभिज्ञं दशबलं शास्तारं श्रीघनं क्षयम् ॥ १३२४ ॥
दण्डिनं मुण्डिनं क्रान्तं श्रावकं लोकपोषणम् ॥
तद्बाह्ये भूपुरे दिक्पांस्तदस्त्राणि च पूजयेत् ॥ १३२५ ॥
वर्णलक्षं जपेन्मन्त्री होमयेच्च घृतौदनम् ॥
तुलसीमिश्रतोयैश्च भगवन्तं प्रतर्प्पयेत् ॥ १३२६ ॥
परस्य दुःखकरणं मनसापि न चाचरेत् ॥
एवं तु वर्तमानस्य वाक्सिद्ध्यादि प्रजायते ॥ १३२७ ॥
राजानो वशगास्तस्य नाशं यान्ति ह्युपद्रवाः ॥
भूतप्रेतादिपीडायां महागदभये तथा ॥ १३२८ ॥
अनेन मन्त्रितं भस्म दत्त्वा दुःखात्प्रमुच्यते ॥
अथातः सम्प्रवक्ष्यामि कल्किमन्त्रं महाफलम् ॥
कङ्कल्किने हृदन्तोयं मन्त्रः प्रोक्तः षडक्षरः ॥ १३२९ ॥
मन्त्रार्णैश्च षडङ्गानि पूर्णेन व्यापकं चरेत् ॥
मन्त्रोयमतिगोप्यस्तु स्तुत्यश्च नृपनाशकः ॥ १३३० ॥
ध्यानं नीलहयारूढं श्वेतोष्णीषविराजितम् ॥
महामुद्राढ्यहस्तं च कौस्तुभोद्दामकण्ठकम् ॥ १३३१ ॥
मर्दयन्तं म्लेच्छगणं क्रोधपूरितलोचनम् ॥
अन्तर्हितैर्देवमुनिगन्धर्वैः संस्तुतं हरिम् ॥ १३३२ ॥
वैष्णवे तु यजेत्पीठे पद्मे तं केशरेषु च ॥
षडङ्गानि च पत्रेषु पूजयेत्तस्य सेवकान् ॥ १३३३ ॥
उद्दामं काञ्चनं दीर्घं भीमं घोरं भयानकम् ॥
कालं नीलं लोकपालान्भूपुरे हेतयस्तथा 30 ॥ १३३४ ॥
षड्लक्षं च जपेन्मन्त्रं ससितैः पायसैर्हुनेत् ॥
तर्पयेत्सलिलैः शुद्धैः प्रीणयेद्भूसुरानपि ॥ १३३५ ॥
एवमाराधितो मन्त्रः सङ्ग्रामे विजयप्रदः ॥
एतत्साधकमालोक्य दूरतो दुःक्षितीश्वराः ॥ १३३६ ॥
प्रणमन्ति तथा म्लेच्छाः शत्रवो यान्ति सङ्क्षयम् ॥
दिनेदिने वर्धते श्रीर्मृतो वैकुण्ठमाप्नुयात् ॥ १३३७ ॥
एते तु मनवः प्रोक्ताः श्रीविष्णोः परमात्मनः ॥
दशावताररूपस्य किमन्यच्छ्रोतुमिच्छसि ॥ १३३८ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते दशावतारमन्त्रप्रकाशः षड्विंशः ॥ २६ ॥
-
ॐ नमो भगवते मं मत्स्याय श्रीम् इतिद्वादशाक्षरमन्त्रः ॥ ↩︎
-
ॐ नमो भगवते कुं कुर्माय धराधरधुरन्धराय नमः ॥ ↩︎
-
ब्रह्माणम् ॥ ↩︎
-
लज्जालोः ॥ ↩︎
-
दधानमिति शेषः ↩︎
-
ॐ ग्लौं नमः भगवत्यै धरायै धरणि धरेधरे स्वाहा ग्लौं ह्रीं ॐ म् ॥ ↩︎
-
ॐ क्ष्रौं नमो भगवते नारसिंहाय ज्वालामालिने दीप्तदंष्ट्राय अग्निनेत्राय सर्वरक्षोघ्नाय सर्वभूतविनाशनाय सर्वघोरविनाशनाय दह दह पच पच रक्ष रक्ष हुं फट् स्वाहा ॥ ↩︎
-
ॐ श्रीं ह्रीं श्रीं जय लक्ष्मीप्रियाय नित्यप्रमुदितचेतसे लक्ष्मीश्रितार्धदेहाय श्रीं ह्रीं श्रीं नमः ॥ ↩︎
-
क्रीडाकृदनलप्रभः इत्यपि पाठः ॥ ↩︎
-
ॐ नमो भगवते वीरनृसिंहाय नीलदीप्तदंष्ट्राय अग्नि नेत्राय सर्वरक्षोघ्नाय सर्वभूतविनाशनाय सर्वघोरविनाशाय हनहन दहदह पचपच वधवध फट् स्वाहा ॥ ↩︎
-
ॐ नमो भगवते वीरनृसिंहाय सर्वभूतविनाशय सर्वघोरविनाशनाय सर्वरक्षोघ्नाय हनहन दहदह पचपच वधवध रक्षरक्ष मां हुं फट् स्वाहा ॥ ↩︎
-
ॐ नमो विष्णवे सुरपतये महाबलाय स्वाहा ॥ ↩︎
-
तस्येत्यव्याहार्यम् ॥ ↩︎
-
मन्त्र इति शेषः ॥ ↩︎
-
तस्येति शेषः ॥ ↩︎
-
धावु गतिशुद्ध्योरित्यतः शानच् ॥ ↩︎
-
सात्यकिम् ॥ ↩︎
-
क्लीम्मितिबीजेन षडङ्गन्यासः यथा-क्लीं हृदयाय नमः क्लीं शिरसे स्वाहेत्यादि ॥ ↩︎
-
ॐ नमः कृष्णाय देवकीपुत्राय हुं फट् स्वाहा ॥ ↩︎
-
ॐ नमः हृदयाय नमः ।
ॐकृष्णाय शिरसे स्वाहा ।
ॐदेवकीपुत्राय शिखायै वषट् ।
ॐ हुं कवचाय हुम् ।
ॐ फट् नेत्रत्रयाय वौषट् ।
ॐ स्वाहा अस्त्राय फट् ॥ ↩︎ -
समासान्तविधेरनित्यत्वान्न टच् ॥ ↩︎
-
श्रीं ह्रीं क्लीं कृष्णाय गोविन्दाय स्वाहा ॥ ↩︎
-
पट्टे स्वर्णेचेति वा पा० ॥ ↩︎
-
पूजनीयाः क्रमादमीत्येतेषामुत्तरत्र सम्बन्धः ↩︎
-
नन्दपुत्राय श्यामलाङ्गाय बालवपुषे कृष्णगोविन्दायगोपीजनवल्लभायस्वाहा ॥ ↩︎
-
ॐ ऐं ह्रीं श्रीं क्लीं ह्रीं ग्रीं ज्रीं त्रीं जयजय कृष्ण कृष्ण निरन्तरं क्रीं त्रीं नित्यप्रमुदितरेतस्रे नित्यक्रियाय कृष्णाय क्लीं गोपीजनवल्लभाय स्वाहा ग्रीं ह्रीम् ॥ ↩︎
-
देवकीसुत गोविन्द हृदयाय नमः, वासुदेव जगत्पते शिरसे स्वाहा, देहि मे तनयं कृष्ण शिखायै वषट्,त्वामहं शरणं गतः कवचाय हुम् ॥
देवकीसुत गोविन्द वासुदेव जगत्पते ॥
देहि मे तनयं कृष्ण त्वामहं शरणं गतः नेत्राभ्यां वौषट् ॥
तन्त्रान्तरेषु तु पूर्वमन्त्रार्द्धेन नेत्रयोरुत्तरमन्त्रार्द्धेनास्त्रस्य न्यासः ।
किञ्चास्य मन्त्रस्य प्रथमे क्लीम्बीजयुक्तस्य जपाच्छीघ्रमेव तनयप्राप्तिर्जायते ।
तथा हीमोमाद्यस्याऽपि जपोन्यत्र ॥ ↩︎ -
उपलब्धयोः पुस्तकयोर्मध्ये सप्तषष्टिमितकल्पावतीर्णकृष्णमन्त्रवर्णनविषयकः पाठः स्खलितः ॥ ↩︎
-
ॐ उत्तिष्ठ कृष्णाय स्वाहा ॥ ↩︎
-
पूज्या इति शेषः ॥ ↩︎