श्रीदेव्युवाच ॥
देवदेव महादेव तेजोमात्रन्तु सूर्यजम् ॥
तथा दीपस्य मे मन्त्रं फलञ्च कृपया वद ॥ १ ॥
ईश्वर उवाच ॥
शृणुदेवि प्रवक्ष्यामि दीपस्य विधिमद्भुतम् ॥
आदौ गणेशदीपस्तु कार्याकार्यविनिर्णये ॥ २ ॥
कर्तव्यस्तत्प्रवक्ष्यामि कार्यमष्टविधं स्मृतम् ॥
शान्तिकम्पौष्टिकं वश्यं मारणं स्तम्भनन्तथा ॥
मोहोच्चाटौ द्वेषणञ्च तेषु दीपञ्चरेत्क्रमात् ॥ ३ ॥
गोधूमयवमाषाणां मृत्तिका स्वर्णभाण्डजम् ॥
ताम्रायसं क्रमात्पात्रं वर्तयः श्वेतपीतकैः ॥
कृष्णनीलारुणारक्तहरित्कपिशसूत्रकैः ॥ ४ ॥
पूर्वाशाद्यष्टकाष्ठानां क्रमात्सम्मुखमाचरेत् ॥
उदक्प्राग्दक्षतोयेशाग्निरक्षोवायुशूलिदिक् ॥
सम्मुखन्तु मुखं कुर्यात्साधकः स्वस्वकर्मणि ॥ ५ ॥
गव्याज्यन्तिलतैलं च राजिकोत्थं च सार्षपम् ॥
महिष्याज्यमुमातैलं वसातैलं कुसुम्भजम् ॥ ६ ॥
लिखेत्सूर्यदलं पद्मं लिप्तगोमयमण्डले ॥
दीपस्य दिशमारभ्य गणेशं तत्र पूजयेत् ॥ ७ ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ॥
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥ ८ ॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ॥
द्वादशैतानि नामानि यः पठेच्छ्रुणुयादपि ॥ ९ ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ॥
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥
एतानत्र यजेद्विद्वान्पश्चाद्दीपं प्रदापयेत् ॥ १० ॥
ऊर्ध्वाधः कम्पते दीपस्तदा कार्यं प्रसिद्ध्यति ॥
तिर्यक्कम्पेन कार्यं स्यात्सम्यग्ज्योतिषि सत्वरम् ॥ ११ ॥
तेजोमान्द्ये विलम्बेन चात्र कौतुकमुच्यते ॥
जातां देवगणे कन्यां कुमारं वा समानयेत् ॥ १२ ॥
स्त्रियं वा शुद्धवेषाञ्च सम्यगानीय पूजयेत् ॥
अधस्तात्स्थापेयत्पूतं विस्तीर्णं कास्यभाजनम् ॥ १३ ॥
जलपूर्णं च तन्मध्ये सा पश्येत्स्थिरदृक्ततः ॥
चिन्तयित्वा स्वीय कार्यन्तदुपर्यक्षतान्क्षिपेत् ॥
कार्यानुसारं सा पश्येत्पुत्तलीनां च कौतुकम् ॥ १४ ॥
अथातः सम्प्रवक्ष्यामि बगलादीपमुत्तमम् ॥
कृतेन येन विघ्नौघो विलयं याति मन्त्रिणः ॥ १५ ॥
शुद्धानि खलु बीजानि पक्षतुर्मुद्गरेण वा ॥
एकीकृत्य विधतव्यो दीपः सुस्निग्धशोभनः ॥ १६ ॥
षट्त्रिंशत्तन्तुभिः कार्या दृढा वर्तिः सुरञ्जिता ॥
गव्यमाज्यञ्च कौसुम्भं तैलं वा दीपकर्मणि ॥ १७ ॥
एतान्यानीय पूर्वन्तु ततो दीपम्प्रदापयेत् ॥
हरिद्रया रक्तवस्त्रं परिधाय शुचिः क्षमी ॥ १८ ॥
पीतासनोपविष्टश्च पीतमाल्यानुलेपनः ॥
उत्तरासम्मुखो भूत्वा हरिद्रालिप्तभूतले ॥ १९ ॥
त्रिकोणं कारयित्वा तु दीपं संस्थाप्य यत्नतः ॥
घृतमापूर्य वर्तिं च दीपं प्रज्वालयेत्सुधीः ॥ २० ॥
मूलमन्त्रं समुच्चार्य चेति दीपन्ततो वदेत् ॥
सङ्कल्पन्यासपूर्वं तु जपेदष्टोत्तरं शतम् ॥ २१ ॥
एवं रात्रोपकुर्वाणो मासेनैकेन साधकः ॥
असाध्यान्साधयेत्कामान्वशयेदात्मनो रिपून् ॥
क्षोभयेत्स्तम्भयेच्चापि द्वेषयेत्प्रक्षिपेदपि ॥ २२ ॥
अथातः सम्प्रवक्ष्यामि सर्वमन्त्रेषु गोपितम् ॥
दीपं बटुकनाथस्य सर्वकामफलप्रदम् ॥
तारं मायां रमां कामम्मायां लक्ष्मीं च वाग्भवम् ॥ २३ ॥
सर्वज्ञाय प्रचण्डेति वदेत्परा क्रमाय च ॥
बटुकेति इमं दीपं गृहाण पदमुच्चरेत् ॥ २४ ॥
सर्वकार्याणीति पदं साधयेति वदेत्तथा ॥
दुष्टान्नाशय युग्मञ्च त्रासयद्वितयञ्जपेत् ॥ २५ ॥
सर्वतो ममरक्षां च कुरु युग्मं च वर्त्म फट् ॥
स्वाहा फट् षष्ठिवर्णोयं दीपमन्त्र उदाहृतः ॥ २६ ॥
भवेद्भैरवमन्त्रस्य साधको य उपासकः ॥
तेन वर्तिः प्रकर्तव्या मन्त्रार्णमितसूत्रकैः ॥ २७ ॥
आदौ तु लघुदीपेन ज्ञात्वा कार्यस्य साध्यताम् ॥
पश्चात्कुर्यात्तु साध्ये तु कार्यप्रोक्तन्तु दीपकम् ॥ २८ ॥
साध्ये कार्यद्विगुणितं कष्टे तु त्रिगुणं मतम् ॥
असाध्येनैव कर्तव्यो दीपस्त्रासप्रदो भवेत् ॥ २९ ॥
यस्य कार्यस्य पात्रादि यदुक्तं लघुकर्मणि ॥
तदेव सर्वं विज्ञेयं द्विपलं पात्र मुच्यते ॥ ३० ॥
अष्टसूत्रा भवेद्वर्तिः स्नेहः पलमितः स्मृतः ॥
कार्यन्तु द्विविधं प्रोक्तं शुभं चासुभमेव च ॥ ३१ ॥
यस्मिन्नान्यस्य कष्टं स्याच्छुभं तच्छान्तिपौष्टिकम् ॥
तत्रोच्यते भैरवस्य ध्यानं श्वेतं चतुर्भुजम् ॥ ३२ ॥
श्वेतवर्णं दक्षहस्ते वामे शृङ्गन्तु राजतम् ॥
ध्यात्वा मुकुटमौलिं च श्वेतकौपीनवाससम् ॥ ३३ ॥
त्रिनेत्रं श्वेततिलकं मुक्ताभरणभूषितम् ॥
वैरिणां दुःखजनकमशुभं मारणादिके ॥ ३४ ॥
नीलवर्णं मुक्तकेशं शिरोमालाविभूषितम् ॥
किङ्किणीमालया युक्तं त्रिनेत्रं च भयानकम् ॥ ३५ ॥
नागपाशं च घण्टां च वामयोर्दक्षयोः पुनः ॥
वरं कपालं दधतं ध्यायेत्तं क्रूरविग्रहम् ॥ ३६ ॥
सर्वस्मिञ्छुभकार्ये तु तैलं स्यात्पुष्पवासितम् ॥
गोधूमपिष्टजं पात्रमथवा तण्डुलोद्भवम् ॥
कर्तव्यं कुडवग्राहि शोधयेच्छ्वेतपर्वतम् ॥ ३७ ॥
जलपूतन्तु तद्धान्यं सोमे कृत्वा विशोषयेत् ॥
कुमार्या हस्तकेनैव भौमे वेष्ट्यं समाचरेत् ॥
दीपपात्रं साधकस्तु भैरवं कवचं पठेत् ॥ ३८ ॥
स्वष्टेमन्त्रस्य ये वर्णाः साध्यनामसमन्विताः ॥
कामप्रयोगे कर्तव्या वैदिकैस्तत्र तन्तुभिः ॥
तिस्रः पञ्च तथा सप्त वर्तयः कार्यगौरवात् ॥ ३९ ॥
देवानामालये दीपः शुभकर्मणि शस्यते ॥
उत्तराभिमुखः शान्तौ प्राङ्मुखः पौष्टिके मतः ॥ ४० ॥
दीपमन्त्रमथो वक्ष्ये कुर्याद्वृत्तत्रयं शुभम् ॥
महत्त्रिकोणकस्योर्ध्वङ्कोणेष्वस्य च संलिखेत् ॥ ४१ ॥
षट्कोणं षोडशदलयुक्तं तस्य च बाह्यतः ॥
लिखेदष्टदलं पद्मं दीपयन्त्रमुदाहृतम् ॥ ४२ ॥
परीक्षार्थं नित्यदीपे काम्यकर्मकमुच्यते ॥
पुष्पं वासिततैलं वा सर्वकामफलप्रदम् ॥ ४३ ॥
माषगोधुममुद्राश्च तिलतण्डुलकाः शुभाः ॥
तैर्निर्मितन्दीपपात्रं सर्वकामफलप्रदम् ॥ ४४ ॥
एकविंशतिसूत्रैश्च श्वेतैः स्यात्सर्वकामदः ॥
निकटे भैरवस्यापि शालग्रामस्य सन्निधौ ॥ ४५ ॥
तथा स्फटिकलिङ्गस्य निकटे सर्वकामदः ॥
अश्वत्थतरुमूले च सर्वकमसमृद्धये ॥ ४६ ॥
शतान्यष्टौ तथा चाष्तगुरुकार्ये पलानि तु ॥
मध्यमेष्टांशरहितैः साध्येष्टाविंशसम्मितैः ॥ ४७ ॥
सहस्रसूत्रजा वर्तिर्महाकार्येथ मध्यमे ॥
शतत्रयेण कर्तव्या लघुकार्ये शतेन तु ॥ ४८ ॥
श्रीकामस्तिलतैलेन पात्रं कस्तूरिकाभवम् ॥
यद्वा लवङ्गकर्पूरत्वगेलानां समुद्भवम् ॥
दीपं कुर्यान्नृपद्वारे वर्षात्स्यान्महती रमा ॥ ४९ ॥
दरिद्रस्ताम्रपात्रे वा कस्तूर्यादिकलेपिते ॥
पथिकागमनार्थन्तु तिलतैलेन दीपकम् ॥ ५० ॥
गोधूमतण्डुलसमं चूर्णपात्रम्प्रशस्यते ॥
राजद्वारे चरेद्दीपमेकविंशतिसूत्रकम् ॥
वर्णतश्चैव धवलं विघ्नमार्गादिकं जयेत् ॥ ५१ ॥
वश्यार्थमतसीतैलं पात्रं तण्डुलपिष्टकम् ॥
राजद्वारे चरेद्दीपं वर्तिः कौशुम्भरक्तिका ॥ ५२ ॥
सार्षपं राजनाशाय तैलं पात्रन्तु मुद्रजम् ॥
हनुमत्सन्निधौ दीपो वर्तिः कौसुम्भरक्तिका ॥ ५३ ॥
मारणे राजिकातैलं यद्वा बैभीतकोद्भवम् ॥
दीपं दद्यान्मारणार्थं राजद्वारे पितुर्गृहे ॥ ५४ ॥
दक्षिणाभिमुखं दीपं लोहपात्रे प्रकल्पयेत् ॥
शत्रोर्मृत्युकरे कार्ये वर्तिः स्यात्कृष्णतन्तुभिः ॥ ५५ ॥
करञ्जतैलमुच्चाटे पात्रं कृष्णतिलोद्भवम् ॥
वर्तिश्च कृष्णसूत्रस्य राजद्वारे चरेदिमम् ॥ ५६ ॥
मधुकतैलं विद्वेषे पात्रञ्चात्र कुलत्थजम् ॥
चतुष्पथे दीपदानं वर्तिः स्यादत्र कर्बुरा ॥ ५७ ॥
मोहने चाढकीपात्रं माञ्जिष्ठं सूत्रमुच्यते ॥
प्रदीपे तिलतैलं स्यान्नृपद्वारे चरेदिमम् ॥ ५८ ॥
सङ्ग्रामविजयार्थं तु पात्रं स्यान्माषपिष्टजम् ॥
दुर्गायाः सन्निधौ देया रक्तसूत्रैश्च वर्तिका ॥ ५९ ॥
सन्धौ त्रिपिष्टजं पात्रं वा नदीकूलमृद्भवम् ॥
दीपञ्च सङ्गमे दद्याद्वर्तित्रिगुणरूपिकाम् ॥ ६० ॥
एकविंशतिसङ्ख्याकास्तन्तवोऽध्यध्यतिस्मृताः ॥
पात्रं च मृण्मयं कुर्याद्दीपदाने चतुष्पथे ॥ ६१ ॥
बालग्रहे च भूतादौ खेटेषु विषमेषु च ॥
शैलकूले देवतायाः सन्निधौ दीपमाचरेत् ॥ ६२ ॥
मारणादिकषट्कर्म साधने वा चतुष्पथे ॥
माहिषेण घृतेनैव पात्रं नरकपालजम् ॥ ६३ ॥
विद्याकामो गणेशस्य सन्निधौ दन्तपात्रके ॥
श्वेतां वर्तिं गोघृतेन चतुर्थ्यां तु समाचरेत् ॥ ६४ ॥
राजद्वारे बन्धमुक्तौ कारागेहेथ वा चरेत् ॥
पात्रे तु ताम्रजे दीपं धूम्रवर्णां तु वर्तिकाम् ॥ ६५ ॥
अथातः सम्प्रवक्ष्यामि दीपयोर्लघुकाम्ययोः ॥
शुभाशुभादिचिह्नानि यैः कार्याकार्यनिर्णयः ॥ ६६ ॥
विप्रादिदर्शने दीपारम्भे सिद्धिः क्रमेण च ॥
पूर्णा पादोनितार्धा च पादतुल्याथ वर्तिका ॥ ६७ ॥
म्लेच्छादिदर्शने प्रोक्तं मार्जारादिकदर्शनम् ॥
मध्यमं नीलकण्ठादेः श्रीकीर्तिविजयप्रदम् ॥ ६८ ॥
दीपज्वाला समा श्लक्ष्णा जायते च प्रदक्षिणा ॥
अष्टभिर्दिवसैस्तस्य कार्यसिद्धिर्न संशयः ॥ ६९ ॥
खरकण्टप्रभ ज्वाला 1 मरणं बान्धवैः सह ॥
कृष्णा ज्वाला तदा शत्रोः कार्यं नैव प्रजायते ॥ ७० ॥
दीपे नादः सुपूर्णे च कार्यसिद्धिर्विलम्बतः ॥
यदा चरचरेद्दीपः कार्यं नष्टं तदा भवेत् ॥ ७१ ॥
दीपस्य वपने चौर्यं गोनाशः पात्रसंश्रवे ॥
दीपवर्येषु तद्दीपनयनान्मन्दनेत्रता ॥ ७२ ॥
कृत्वा न्यासादिकं सर्वं प्राङ्मुखो दीपमाचरेत् ॥
एतद्दीपविधानं तु बटुकस्य प्रकीर्तितम् ॥ ७३ ॥
अथातः सम्प्रवक्ष्यामि शक्तीनां तुष्टिकारकम् ॥
पात्रे त्रिकोणे शक्त्यर्थं दीपदानं प्रकल्पयेत् ॥ ७४ ॥
दक्षिणाम्नायशक्तीनां त्रिलोहान्यतमं भवेत् ॥
ऊर्ध्वाम्नाये पिष्टपात्रं काचपाषाणसम्भवम् ॥ ७५ ॥
पश्चिमाम्नायदेवीनां प्राच्यानां मार्तिकं मतम् ॥
नृकपालं वामगानां क्रमाद्वै गोघृतं तथा ॥ ७६ ॥
तैलं च सार्षपं प्रोक्तं वसा चेति यथाक्रमम् ॥
श्वेतरक्तहरित्पीतकृष्णसूत्रास्तु वर्तिकाः ॥ ७७ ॥
देवाम्नायमुखा दीपाः कर्तव्या देवताप्तये ॥
देवागारे सरित्तीरे राजगेहे चतुष्पथे ॥ ७८ ॥
श्मशाने च कृता दीपास्तत्तद्दैवततुष्टिदाः ॥
गणेशवत्परीक्षात्र कार्याकार्यविनिर्णये ॥ ७९ ॥
अथातः सम्प्रवक्ष्यामि शिवदं शिवदीपकम् ॥
सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ॥ ८० ॥
शून्ये तु वह्निसूत्राणां दीपवर्तिं प्रकल्पयेत् ॥
बिल्वपत्रोद्भवं पात्रं दद्यद्दीपं शिवालये ॥ ८१ ॥
एवं द्वादशवर्षाणि प्रज्वलेद्दिनरात्रकम् ॥
तस्य वंशे न दारिद्र्यं नाकालमरणं भवेत् ॥ ८२ ॥
पूर्वद्वारे श्रिये दीपः स्वर्गमोक्षाय दक्षिणे ॥
पश्चिमे वृष्टये देयः शेषकार्येषु चोत्तरे ॥ ८३ ॥
गोघृतेन कृतो दीपः शिव स्यातिप्रियङ्करः ॥
तिलतैलेनाभिचारे तारतम्यं विचारयेत् ॥ ८४ ॥
अथातः सम्प्रवक्ष्यामि रोगघ्नं भानुदीपकम् ॥
कुर्यात्स्वर्णमये पात्रे तदभावेपि ताम्रके ॥ ८५ ॥
कुसुम्भवर्त्या कृतया सूत्रैर्द्वादशभी रवौ ॥
द्वादशाङ्गुलदीर्घा सा कुडवन्तु घृतं स्मृतम् ॥ ८६ ॥
ज्वलयित्वा सकृद्दीपं न स्पृशेत्तं यदाखिलम् ॥
घृतं प्रज्वाल्य शान्तश्चेद्रोगनाशस्तदा ध्रुवम् ॥ ८७ ॥
पलमारभ्य खार्यन्तं दृष्ट्वा रोगबलाबलम् ॥
कल्पयेद्दीपद्रव्यस्य मानं लोकानुसारतः ॥ ८८ ॥
अथातः सम्प्रवक्ष्यामि विष्णोर्दीपं महाद्भुतम् ॥
सर्वकामो गोघृतेन मारणं माहिषेण च ॥ ८९ ॥
विद्वेषादिषु बर्कर्यास्त्रिषु पात्रं क्रमाद्भवेत् ॥
ताम्रजं लोहजं काचं क्रमात्त्रिषु च कर्मसु ॥ ९० ॥
विष्णोस्तु प्रीतये कुर्यादामलोत्थरजोभवे ॥
दुःस्वप्नोत्पातभूतानि नश्यन्त्यच्युतदीपतः ॥ ९१ ॥
अथातः सम्प्रवक्ष्यामि सर्वतन्त्रेषु गोपितम् ॥
गोपनीयं प्रयत्नेन न वाच्यं यस्य कस्यचित् ॥ ९२ ॥
शक्त्याद्यहर्गणार्केषु भक्तो वर्णात्प्रजायते ॥
मन्त्रवर्णस्य दिवसे क्रमाद्दीपम्प्रकल्पयेत् ॥ ९३ ॥
सायन्तु कुडवाज्यस्य वर्तयः पञ्च तन्तुभिः ॥
यावज्ज्वलति दीपोसौ तावत्तस्य मनुं जपेत् ॥ ९४ ॥
मन्त्रार्णसङ्ख्यदीपेषु ज्वलितेषु च तद्दिने ॥
पुनर्दीपे कृते या तु दीपं सम्पश्यति स्फुटा ॥ ९५ ॥
इष्टं स्वकीयं कथयेद्यावद्यन्मानसेप्सितम् ॥
तदादिदेवता तुष्टा गुप्तमेतत्प्रकाशितम् ॥ ९६ ॥
कार्तवीर्यसमोन्यो न भवेद्दीपप्रियः सुरः ॥
तन्त्रेषु तद्दीपविधिर्बहुधा सम्प्रकीर्तितः ॥ ९७ ॥
इति ते भास्करस्योक्तो विधिर्दीपसमन्वितः ॥
अतः परं यदिष्टं त्वं पृच्छ तत्तच्च मां प्रति ॥ ९८ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे श्रीशिवप्रणीते दीपविधिप्रकाशः पञ्चविंशः ॥ २५ ॥
-
बोधयतीतिशेषः ↩︎