श्रीदेव्युवाच ॥
सर्वेषां ये तु देवनां बाह्यावरणके स्थिताः ॥
दिगीशास्तन्मनून्ब्रूहि फलं चापि महेश्वर ॥ १ ॥
श्रीमहेश्वर उवाच ॥
शृणु देवि प्रवक्ष्यामि दिक्पतीनाम्मनून्क्रमात् ॥
इमिन्द्राय नमश्चेति शक्रमन्त्रःषडक्षरः ॥ २ ॥
पङ्क्तिश्छन्दोमुनिर्ब्रह्मा देव इन्द्रः प्रकीर्त्तितः ॥
इन्द्राय शक्तिरिम्बीजं बीजेनैव षडङ्गकम् ॥ ३ ॥
पीतवर्णं सहस्राक्षं वज्रपद्मकरं विभुम् ॥
सर्वालङ्कारसंयुक्तं नौमीन्द्रन्दिक्पतीश्वरम् ॥ ४ ॥
षडस्रमध्ये देवेन्द्रं पत्रेष्वङ्गानि पूजयेत् ॥
तद्बाह्येष्टदले प्रोक्तमन्त्रैरेतैः क्रमाद्यजेत् ॥ ५ ॥
कं कार्त्तिकेयं रं चाग्निमीं यमं हं च निरृतिम् ॥
वं वरुणं यं च वायुं सं सोमं चेशमं त्विति ॥ ६ ॥
ङेन्ता नमोन्ता मन्त्राः स्युर्वज्राद्यैः स्यात्तृतीयकम् ॥
प्रजपेल्लक्षमेकन्तु बिल्वाज्यं जुहुयात्ततः ॥ ७ ॥
एवं सिद्धमनुर्मन्त्री प्रयोगं कर्त्तुमर्हति ॥
मण्डलन्तु चतुष्कोणं कृत्वा तन्मध्यगंलिखेत् ॥ ८ ॥
पद्ममष्टदलं तस्मिन्नववस्त्रेण वेष्टितम् ॥
अव्रणं स्थापयेत्कुम्भं सुवर्णोदकपूरितम् 1 ॥ ९ ॥
पूज्य 2 सपरिवारेन्द्रं सहस्रेणाभिमन्त्रयेत् ॥
तज्जलं स्थापयेत्तेन राज्यभ्रष्टो नृपो लभेत् ॥ १० ॥
स्वराज्यमन्योपि नरः स्नातो लक्ष्मीपतिर्भवेत् ॥
नस्नापयेद्धर्महीनम्भक्तिश्रद्धादिविच्युतम् ॥११॥
अथातः सम्प्रवक्ष्यामि तत्त्वार्णं वह्निमन्त्रकम् ॥
भूर्भुवःस्वरग्ने च जातवेद इहावह ॥ १२ ॥
सर्वकर्माणि सम्भाष्य साधयाग्निप्रियान्तकः ॥
ऋषिर्भृगुर्भवेच्छन्दो गायत्रं देवतानलः ॥ १३ ॥
पञ्चषड्वेदपञ्चत्रिकरवर्णैः षडङ्गकम् ॥
ध्यायेदग्निं कण्ठगतस्वर्णमालाविराजितम् ॥ १४ ॥
रक्तचन्दनलिप्ताङ्गमरुणस्रक्सुशोभितम् ॥
ज्वालापुञ्जकृतातापं श्वेतवस्त्रं च बिभ्रतम् ॥ १५ ॥
शक्तिं च स्वस्तिकं दर्भमुष्टिं च जपमालिकाम् ॥
स्रुक्स्रुवौ च वराभीती रक्ताभं दहनम्भजेत् ॥ १६ ॥
गुरोर्लब्धमनुर्मन्त्री चतुर्दश्यामुपोषितः ॥
जपेद्भानुसहस्राणि शुद्धाचारो जितेन्द्रियः ॥ १७ ॥
अमावास्यादिने विप्रान्भोजयेन्मधुरोत्तरैः ॥
भक्ष्यैर्भोज्यैर्यथाशक्ति दद्यात्तेभ्यश्च दक्षिणाः ॥ १८ ॥
भुक्त्वा स्वयं समानीय होमद्रव्याणि शोधयेत् ॥
अपरं दिनमारभ्य होमं कुर्यादतन्द्रितः ॥ १९ ॥
क्रमाद्वटसमिद्व्रीहितिलराजहिविर्घृतैः ॥
नित्यमष्टोत्तरशतं जुहुयाद्दिनशः सुधीः ॥ २० ॥
दशाहमेवं निर्वर्त्य विधानेन विधानवित् ॥
ततः पूर्णाहुतिं सम्यगेकादश्यां द्विजोत्तमान् ॥
सम्पूज्य तर्पयेद्विप्रैर्यथाविभवमादरात् ॥ २१ ॥
गुरवे दक्षिणां दद्याद्धेनुं साङ्गां पयस्विनीम् ॥
वासासि धनधान्यादि नत्वा सम्प्रीणयेद्गुरुम् ॥ २२ ॥
स्वमण्डलान्तं प्रयजेत्पीठं सनवशक्तिकम् ॥
पीता श्वेतारुणा कृष्णा धूम्रा तीक्ष्णा स्फुलिङ्गिनी ॥
रुचिरा ज्वलिनी प्रोक्ताः क्रमशो नव शक्तयः ॥ २३ ॥
स्वबीजेनासनन्दद्यान्मूर्त्तिं मूलेन कल्पयेत् ॥
अत्र सम्पूजयेद्वह्निं विधिना प्रोक्तलक्षणम् ॥ २४ ॥
अङ्गपूजा पुरा प्रोक्ता मूर्तयोऽष्टौ दलेष्विमाः ॥
जातवेदाः सप्तजिह्वो हव्यवाहनसञ्ज्ञकः ॥ २५ ॥
अश्वोदरजसञ्ज्ञोन्यः पुनर्विश्ववराह्वयः ॥
कौमारतेजाः स्याद्वि"वमुखो देवमुखः परः ॥ २६ ॥
अर्च्यः स्वस्तिकशक्तिभ्यां विराजितकराम्बुजः ॥
लोकेशानर्चयेद्बाह्ये वज्राद्यायुधसंयुतान् ॥ २७ ॥
इति सम्पूजयेन्नित्यं जपेत्साग्रं सहस्रकम् ॥
जायते वत्सरादर्वाग्धनधान्यसमृद्धिमान् ॥ २८ ॥
षण्मासं कपिलाज्येन जुहुयाद्वत्सरान्तरे ॥
तस्य सञ्जायते लक्ष्मीः कीर्तिस्त्रैलोक्यवन्दिता ॥ २९ ॥
साज्यमन्नं प्रजुहुयाद्वत्सराल्लभते श्रियम् ॥
कुसुमैर्ब्रह्मवृक्षस्य दधिक्षौद्रघृतप्लुतैः ॥
करवीरप्रसूनैर्वा मण्डलात्स्यात्समृद्धिमान् ॥ ३० ॥
शालिभिर्जुहुयान्नित्यं विधिनाष्टोत्तरं शतम् ॥
व्रीहिगोमहिषान्नाद्यैर्भवनन्तस्य पूर्यते ॥
तिलहोमेन महतीं श्रियमाप्नोति मानवः ॥ ३१ ॥
पलाशबिल्वखदिरशमीदुग्धमहीरुहाम् ॥
विकङ्कतारग्वधयोः समिद्भिः करवीरजैः ॥ ३२ ॥
प्रसूनैः कुमुदैः पद्मैः कह्लारैररुणोत्पलैः ॥
जातीप्रसूनैर्दूर्वाभिर्नित्यमष्टोत्तरं शतम् ॥ ३३ ॥
एकेन जुहुयान्मन्त्री प्रतिपत्स्वथ वा सुधीः ॥
साधयेदखिलान्कामान्षण्मासान्नात्र संशयः ॥ ३४ ॥
अथ मन्त्रान्तरं वक्ष्ये वह्नेः सेव्यं त्रिवर्णकैः ॥
उत्तिष्ठ पुरुष ब्रूयाद्धरिपिङ्गलतत्परम् ॥ ३५ ॥
लोहिताक्षपदन्देहि मे प्रदापय ठद्वयम् 3 ॥
चतुर्विंशत्यक्षरात्मा समृद्धिमनुरीरितः ॥ ३६ ॥
ऋष्यादयः पुरा प्रोक्ता मन्त्रार्णैरङ्गकल्पनम् 4 ॥
षट्शराब्धित्रिवेदद्विमितैर्ध्यायेद्धुताशनम् ॥ ३७ ॥
सिन्दूरपूरप्रतिमं स्वर्णाश्वत्थाद्विनिर्गतम् ॥
रोमवल्लीलसज्ज्वालं कान्ताजनविमोहनम् ॥ ३८ ॥
अनर्घ्यरत्नसंयुक्तभूषणैश्च विभूषितम् ॥
लक्षं मनुं जपेदेनं पयोन्नेन ससर्पिषा ॥
दशांशं जुहुयाद्वह्नौ तुरगाग्निमनुं स्मरेत् ॥ ३९ ॥
पीठे प्रागीरितेभ्यर्च्य तदङ्गैर्मूर्तिभिः सह ॥
आशापालैस्तदीयास्त्रैरभ्यर्च्य हव्यवाहनम् ॥ ४० ॥
प्रातःस्नानरतो मन्त्री सहस्रम्प्रजपेन्मनुम् ॥
जित्वा रोगान्स जीवेत श्रिया वर्षशतं नरः ॥ ४१ ॥
हृत्प्रमाणजले स्थित्वा भानुमालोक्य सम्प्लुतः ॥
चतुःसहस्रं प्रजपेन्नित्यं संवत्सरावधि ॥ ४२ ॥
अपमृत्युभवान्रोगकृत्यादारिद्र्यसम्भवान् ॥
क्लेशान्निर्जित्य तेजस्वी जीवेद्वर्षशतं सुधीः ॥ ४३ ॥
कृत्तिकायाम्प्रतिपदि शालिहोमो धनप्रदः ॥
दध्ना च समिद्भिर्वा प्रतिपत्सु भवेद्धनम् ॥ ४४ ॥
इष्टावाप्तिर्भवेदाज्यैः पद्मैर्ग्राममवाप्नुयात् ॥
तिलैर्ज्योतिष्मतीभूतै रिपुराष्ट्रञ्जयेन्नृपः ॥ ४५ ॥
अश्वत्थसमिधो मेषीघृताक्ता जुहुयान्नरः ॥
कन्यामिष्टामवाप्नोति सापि तं प्राप्नुयाद्वरम् ॥ ४६ ॥
शुद्धाज्येन कृतो होमो ज्वरनाशकरः परः ॥
सप्ताहं जुहुयान्मन्त्री बन्धूककुसुमैः शुभैः ॥
सान्नैः सहस्रमचिरान्महतीं श्रियमाप्नुयात् ॥ ४७ ॥
मासं क्षीरेण गव्येन क्षीराहारो जितेन्द्रियः ॥
सहस्रं जुहुयान्मन्त्री सम्पदामधिपो भवेत् ॥
आज्याक्तदूर्वाहोमेन जीवेद्वर्षशतं नरः ॥ ४८ ॥
अष्टोत्तरशतं नित्यं हविषा मृगमुद्रया ॥
जुह्वता लभ्यते लक्ष्मीर्धनधान्यसमृद्धिदा ॥ ४९ ॥
प्रतिमासं प्रतिदिनं जुहुयादयुतं घृतैः ॥
श्रीर्भवेन्महती तस्य षण्मासादनपायिनी ॥ ५० ॥
अरुणैरुत्पलैः फुल्लैर्मधुरत्रयसंयुतैः ॥
जुहुयाद्वत्सरादर्वाक् स भवेदिन्दिरापतिः ॥ ५१ ॥
अरुणाब्जैस्त्रिमध्वक्तैर्जुहुयादन्वहं सुधीः ॥
सहस्रं वत्सरार्धेन भवेद्भूमिपुरन्दरः ॥
वत्सरं जुह्वतस्तैः स्याल्लक्ष्मीरिन्द्रेण वाञ्छिता ॥ ५२ ॥
जुहुयादमृताखण्डैः पयोक्तैः सप्त वासरान् ॥
त्रिसहस्रं प्रतिदिनम्मन्त्रसिद्ध्यै जितेन्द्रियः ॥ ५३ ॥
कृत्यादाहज्वरोन्मादरोगाञ्जित्वा निरन्तरम् ॥
जीवेद्वर्षशतं भूत्वा तेजसा भास्करप्रभः ॥ ५४ ॥
करवीरजपाबिल्वपलाशनृपभूरुहाम् ॥
प्रसूनैः कुसुमैः फुल्लैः कुटजैर्जातिसम्भवैः ॥ ५५ ॥
पुष्पैर्हुत्वा त्रिमध्वक्तैर्मन्त्री प्रतिपदम्प्रति ॥
आप्नुयान्महतीं लक्ष्मीं वत्सराद्वाञ्छिताधिकाम् ॥ ५६ ॥
आदाय तण्डुलप्रस्थं निर्मलं साधुशोधितम् ॥
गोदुग्धेन हविः कृत्वा कवलन्तेन कल्पयेत् ॥ ५७ ॥
आज्याक्तं तत्समादाय पूजिते हव्यवाहने ॥
गन्धमाल्यादिभिः सम्यग्जपित्वाष्टोत्तरं शतम् ॥ ५८ ॥
जुहुयात्प्रतिपत्स्वग्निं ध्यात्वा तुरगविग्रहम् ॥
जायते वत्सरादेव लक्ष्मीस्त्रैलोक्यमोहिनी ॥ ५९ ॥
मन्त्रेणानेन जपितां वचां खादेद्दिनागमे ॥
भारती निवसेत्तस्य मुखाम्भोजेतिनिश्चला ॥ ६० ॥
अष्टोत्तरशतं प्रातर्जपित्वा कं 5 पिबेन्नरः ॥
जाठराग्निर्भवेत्तस्य घृतेनैव हुताशनः ॥ ६१ ॥
कृत्वा नवपदात्मानं मण्डलम्प्रागुदीरितम् ॥
कलशान्नवकल्याणान्स्थापयेत्प्रोक्तवर्त्मना ॥
क्षीरवृक्षसमुद्भूतैः क्वाथैस्तान्पूरयेत्क्रमात् ॥ ६२ ॥
वस्त्रादिभिरलङ्कृत्य नवरत्नानि निःक्षिपेत् ॥
मध्ये सम्पूजयेदग्निमूर्तीरष्टौ दिशां क्रमात् ॥
कुम्भेषु धूपदीपाद्यैः पुष्पधूपैर्मनोहरैः ॥ ६३ ॥
स्पृष्ट्वा जपेत्ततः कुम्भं मन्त्रमष्टोत्तरं शतम् ॥
अभिषिञ्चेत्ततः साध्यं विनीतं दत्तदक्षिणम् ॥ ६४ ॥
ज्वरग्रहमहारोगदारिद्र्यादीन्विजित्य सः ॥
जीवेद्वर्षशतं सम्यगभिषिक्तः श्रिया सह ॥
अग्नेराराधनं चेत्थं भुक्तिमुक्तिप्रदायकम् ॥ ६५ ॥
अथातः सम्प्रवक्ष्यामि यममन्त्रमघापहम् ॥
ॐ-क्र्ॐ-ह्रीं-आं 6 च तद्बीजं ङेन्तं वैवस्वतं वदेत् ॥ ६६ ॥
धर्मराजाय भक्तानुग्रहकृते नमो वदेत् ॥
चतुर्विशतिवर्णोयं यममन्त्रोखिलेष्टदः ॥ ६७ ॥
त्रिद्वीष्विष्वगयुग्मार्णैः षडङ्गानि स्मरेद्यमम् ॥
मेघश्यामं प्रसन्नास्यं नानालङ्कारसंयुतम् ॥ ६८ ॥
महिषस्थं दण्डधरं संस्तुतं पितृभिर्वृतम् ॥
नानारूपधरैर्दूतैः श्वेतवस्त्रं भजेद्यमम् ॥ ६९ ॥
पूजयेत्षड्दलेङ्गानि वसुपत्रे ग्रहाष्टकम् ॥
दिगीशांश्च यमस्थाने चित्रगुप्तं प्रपूजयेत् ॥ ७० ॥
वज्रादींश्चापि तद्बाह्ये यमपूजा प्रकीर्तिता ॥
वर्णलक्षं जपेन्मन्त्रं हुनेदाज्यान्वितैस्तिलैः ॥ ७१ ॥
एवं सिद्धमनुर्मन्त्री निग्रहानुग्रहक्षमः ॥
तस्य संस्मरणादेव सकलापन्निवारणम् ॥ ७२ ॥
अथातः सम्प्रवक्ष्यामि चित्रगुप्तमनुं परम् ॥
तारो नमो विचित्राय ङेन्तः स्याद्यमलेखकः ॥
यमेत्युक्त्वा च वहिकाधिकारिणे वदेत्ततः ॥ ७३ ॥
ततः षडक्षरं कूटं यमलकरपास्तथा ॥
उकारस्वरसंयुक्तास्सचन्द्राः कूटमुच्यते ॥ ७४ ॥
जन्मसम्पत्प्रलयं च द्विधा कथय ठद्वयम् 7 ॥
अष्टत्रिंशदक्षरोयं चित्रगुप्तमनुर्मतः ॥
सप्तषण्मनुवस्वङ्गनेत्रार्णैरङ्गकल्पनम् ॥ ७५ ॥
किरीटिनं श्वेतवस्त्रं विचित्रासनसंस्थितम् ॥
लेखकं पापपुण्यानां चित्रगुप्तमहम्भजे ॥ ७६ ॥
जपेद्वर्णसहस्रं च ततः सिद्धो भवेन्मनुः ॥
राजद्वारे विवादे च सङ्ग्रामे जयदायकः ॥ ७७ ॥
भजन्ति लेखका ये तु मन्त्रमेतं नृपाङ्गणे ॥
मान्यां कीर्तिं च वंशं च संस्थाप्य स्वर्गगामिनः ॥ ७८ ॥
अथातः सम्प्रवक्ष्यामि नैरृतस्य मनुं परम् ॥
ॐ क्षं निरृतये रक्षोधिपतये पदं वदेत् ॥ ७९ ॥
धूम्रवर्णाय खड्गेति हस्ताय प्रेतवाहनम् ॥
ङेन्तस्ततश्च हृदयं त्रिंशदर्णो मनुर्मतः ॥ ८० ॥
किरीटिनञ्च पिङ्गाक्षं धूम्राभं प्रेतवाहनम् ॥
नानारक्षोगणैः सेव्यं खड्गचर्मधरं भजे ॥ ८१ ॥
ॐ 8 क्षमाद्यैर्हृदन्तैश्च पञ्चाङ्गैः पञ्चभिः पदैः ॥ ८२ ॥
आसुरीशक्तिसहितं मध्ये तु निरृतिं यजेत् ॥
पञ्चकोणेषु मञ्चाङ्गमष्टपत्रे यजेदिमाः ॥ ८३ ॥
नवस्थां पाशिनीं वाणीं त्रासिनीं गुप्तचारिणीम् ॥
राक्षसीं भीतिदां कृत्यां खेटानस्त्राणि तद्बहिः ॥ ८४ ॥
जपेत्त्रिंशत्सहस्राणि गुञ्जाज्याभ्या हुनेत्ततः ॥
एवं तु सिद्धे मन्त्रेस्मिन्नभयं जायते वने ॥ ८५ ॥
रक्षोभूतपिशाचाद्याश्चौरव्याघ्रोरगादयः ॥
मनुष्या अपि ये वन्या मृगादीनां तु का कथा ॥ ८६ ॥
स्वयमेव पलायन्ते साधकस्य रणादपि ॥ ८७ ॥
जप्त्वा हुत्वा पर्वदिनेऽयुतं वापि सहस्रकम् ॥
परेह्नि वा गुडाद्यं च कानने विचरेद्बुधः ॥ ८८ ॥
अनेन मनुना कुर्यात्तृणसूत्राभिमन्त्रणम् ॥
बध्नीया (आ)?मसीमायां वने वा मार्ग एव च ॥
न भयं जायते तत्र व्याघ्रचौरोरगादिजम् ॥ ८९ ॥
निरृतिं भजते यस्तु नीचजातौ न जायते ॥
जन्मान्तरे द्विजो भूत्वा काशीं प्राप्य विमुच्यते ॥ ९० ॥
अथातः सम्प्रवक्ष्यामि आसुर्या मनुमद्भुतम् ॥
कलौ द्रुतफलश्चैतत्सदृशो नास्ति चागमे ॥ ९१ ॥
कटुके 9 कटुकपत्रे सुभगे आसुरीति च ॥
ततो रक्ते पदं ब्रूयात्तत्पश्चाद्रक्तवाससे ॥ ९२ ॥
अथर्वणस्य दुहितरघोरे प्रवदेत्ततः ॥
अघोरकर्मके देवि अमुकस्य गतिं दह ॥ ९३ ॥
दहेति चोपविष्टस्य गुदं दहयुगं तथा ॥
सुप्तस्येति प्रोच्य मनो दहयुग्मं वदेत्ततः ॥ ९४ ॥
प्रबुद्धस्येति हृदयं दहयुग्मं हनद्वयम् ॥
पचयुग्मं तावदिति दहयुग्मं पचेति च ॥ ९५ ॥
यावन्मे वशमायाति हुम्फट् स्वाहा ध्रुवादिकः ॥
प्रोक्तोयमासुरीमन्त्रो दशोत्तरशताक्षरः ॥ ९६ ॥
अङ्गिराः स्यान्मुनिश्छन्दो विराड् देवी तथासुरी ॥
स्वाहा शक्तिस्तथौम्बीजं मन्त्रस्यास्य प्रकीर्तितम् ॥
हुम्फट्स्वाहान्तकैर्मन्त्रवर्णैह् प्रत्यङ्गकल्पनम् ॥ ९७ ॥
दक्षयोः कार्मुकं शूलं वामयोश्च शराङ्कुशौ ॥
बिभ्रतीं चन्द्रभां पद्मस्थितां सुबहुभूषणाम् ॥
अहियज्ञोपवीतां तामासुरीं संस्मराम्यहम् ॥ ९८ ॥
जप्त्वायुतं हुनेद्राजीघृताभ्यां मन्त्रसिद्धये ॥
गृहीत्वा तु सपञ्चाङ्गमासुरीं मन्त्रेयच्च ताम् ॥ ९९ ॥
तया धूपितमात्मानं यो जिघ्रेत्स वशो भवेत् ॥
मध्वाक्तामासुरीं हुत्वा सहस्रं वशयेज्जगत् ॥ १०० ॥
राजिकाप्रतिमां कृत्वा दक्षाङ्घ्रेर्मस्तकावधि ॥
अष्टोत्तरशतं खण्डाञ्जुहुयादसिना कृतान् ॥
नार्याः प्रतिकृतेर्वामपादादिहवनं चरेत् ॥ १०१ ॥
सप्ताहमेवं कुर्वीत राजीकाष्ठैश्चितानले ॥
दासवज्जायते साध्यस्त्रिलिङ्गो ह्यपि तद्वशे ॥ १०२ ॥
कटुतैलान्वितां राजीं निम्बपत्रयुतां रिपोः ॥
नामयुङ्मनुना हुत्वा ज्वरिणं कुरुते रिपुम् ॥ १०३ ॥
एवं राजीं सलवणां हुत्वा स्फोटयते रिपुम् ॥
अर्कदुग्धाक्ततद्धोमान्नेत्रनाशः 10 प्रजायते ॥ १०४ ॥
सप्ताहं तु पलाशाग्नौ हुनेद्विप्रवशीकृतौ ॥
क्षत्त्रियं तु गुडाभ्यक्तराजिकाभिर्वशं नयेत् ॥ १०५ ॥
दध्यक्तराजिकाहोमाद्वैश्यो वश्यः प्रजायते ॥
शूद्रो लवणयुग्घोमात्प्रत्यहं साष्टकं शतम् ॥ १०६ ॥
एकादिसप्तकैः सप्तसप्तकान्तं यदा हुनेत् ॥
असाध्यं साधयेत्कार्यं साधको नात्र संशयः ॥
आसुरीसमिधो हुत्वा मध्वक्ता लभते निधिम् ॥ १०७ ॥
जलपूर्णे घटे राजीपल्लवैः समलङ्कृते ॥
आवाह्य चासुरीं तत्र पूजयेदुपचारकैः ॥ १०८ ॥
अष्टोत्तरशतं मूलमन्त्रेणापि च मन्त्रयेत् ॥
तेनाभिषिक्तो भवति व्याध्याधिभ्यां विवर्जितः ॥ १०९ ॥
मनःशिला चन्दनं च तगरं नागकेशरम् ॥
आसुर्याश्चापि पुष्पाणि प्रियङ्गु च समंसमम् ॥ ११० ॥
सम्यग्विचूर्ण गुटिकाः शतवाराभिमन्त्रिताः ॥
गुञ्जानिभा यस्य11 मूर्ध्नि स्थापितैका वशस्तु सः ॥ १११ ॥
ससर्षपाश्च निम्बाग्नौ सप्ताहं राजिका हुनेत् ॥
अष्टोत्तरशतं याम्याभिमुखो मारयेदरीन् ॥ ११२ ॥
कलौ काम्यकरी नान्या सत्यं नास्त्यासुरीसमा ॥
सर्वेपि कुण्ठिता मन्त्रा नासुरी परमेश्वरी ॥ ११३ ॥
अथातः सम्प्रवक्ष्यामि मन्त्रं वरुणदैवतम् ॥
तारं वं वरुणायेति जलाधिपतये वदेत ॥ ११४ ॥
वदेच्च शुक्लवर्णाय पाशहस्ताय संवदेत् ॥
मकरेति वाहनाय चेकोनत्रिंशदर्णकः ॥
ॐ ममाद्यैर्नमोन्तैश्च पञ्चागं पञ्चभिः पदैः ॥ ११५ ॥
श्वेतांशुको दधद्धस्तैः पाशाङ्कुशाभयवरान् ॥
स्वच्छारविन्दवसतिर्भुक्ताभरणभूषितः ॥
तुन्दिलश्च प्रसन्नास्यो वरुणो निधिदोस्तु मे ॥ ११६ ॥
त्रिष्टुप्छन्दो वशिष्ठर्षिर्देवता वरुणो मतः ॥
जपेद्वर्णसहस्रं तु होमः पद्माक्षकैः स्मृतः ॥ ११७ ॥
अङ्गानि पूजयेदादौ नदीषट्कं ततोर्चयेत् ॥
मणिकर्णीन्तथा गङ्गां नर्मदां च सरस्वतीम् ॥
गोदावरीं च कालिन्दीं समुद्रास्तदनन्तरम् ॥ ११८ ॥
अनन्तो वासुकिस्तक्षः कर्कोटः पद्मकस्तथा ॥
महापद्मः शङ्खपालः कुलिकोष्टदले ततः ॥ ११९ ॥
तद्बाह्येर्कदले पूज्या विमलाद्याश्च शक्तयः ॥
दिगीशैरायुधैश्चेति षडावरणपूजनम् ॥
प्रयोगाश्चात्र सिद्ध्यन्ति देवमन्त्रोदिताः परे ॥ १२० ॥
अथातः सम्प्रवक्ष्यामि मणिकर्णीमहामनुम् ॥
यस्योपासनतो वश्यं मृत्युः काश्यां प्रजायते ॥ १२१ ॥
ओमैं 12 ह्रीं श्रीं कामबीजम्ॐ मं च मणिकर्णिके ॥
नम ॐ तिथिवर्णोयं भुक्तिमुक्तिफलप्रदः ॥ १२२ ॥
वेदव्यासो मुनिः प्रोक्तश्छन्दः स्यादतिशक्वरी ॥
मणिकर्णी देवतास्य कुद्विद्व्यक्षीषुवह्निभिः ॥
मन्त्रार्णैः स्यात्षडङ्गानि 13 ध्यायेत्तां पश्चिमामुखीम् ॥ १२३ ॥
दक्षहस्ते पद्ममालां मातुलुङ्गमदक्षिणे ॥
श्वेतपद्मोद्भवां मालां रुचिरां दधतीं गले ॥
श्वेतवस्त्रावृतां त्र्यक्षां ध्यायेद्बद्धाञ्जलिः पराम् ॥ १२४ ॥
लक्षत्रयं जपेन्मन्त्रं त्रिमध्वक्ताम्बुजैर्हुनेत् ॥
लिखेदष्टदलं पद्मं कर्णिकायां तु षड्दलम् ॥ १२५ ॥
अङ्गानि षड्दलेऽर्च्यानि पत्रमध्ये शिवं हरिम् ॥
विधिं सूर्यं पर्वतेशं मेनां चापि भगीरथम् ॥ १२६ ॥
वरुणं च दलाग्रेषु मीनं कूर्मं च दर्दुरम् ॥
मकरांश्चापि हंसांश्च तथा कारण्डवानपि ॥ १२७ ॥
चक्रवाकान्सारसांश्च तद्बहिर्भूपुरे यजेत् ॥
इन्द्रादींश्चापि वज्रादीन्मन्त्रोयं दक्षमार्गिणाम् ॥ १२८ ॥
सुखानि सन्ततिं वित्तं जीवते सम्प्रयच्छति ॥
मन्त्रोयं मृत्युकाले तु काश्यां मुक्तिप्रदो ध्रुवम् ॥ १२९ ॥
अथ मन्त्रान्तरं वक्ष्ये वामिनामपि सद्गतिः ॥
भवेद्यस्य प्रसादेन तारं मं मणिकर्णिके ॥ १३० ॥
प्रणवात्मिके हृच्चायं मन्त्रः स्याच्छक्रवर्णकः ॥
उपासनाध्यानपूजाः स्वीयाम्नायेन कल्पयेत् ॥ १३१ ॥
अद्रोहः सर्वभूतानां परमं चास्य साधनम् ॥
पुरश्चर्याप्रयोगादि पूर्वमन्त्रसमं मतम् ॥ १३२ ॥
अथातः सम्प्रवक्ष्यामि गङ्गाया मन्त्रपञ्चकम् ॥
पञ्चाम्नायैस्तत्क्रमेण चोपास्यं सिद्धिकारकम् ॥ १३३ ॥
तारो 14 नमो भगवति वाग्बीजं च हिलिद्वयम् ॥
मिलियुग्मं च गङ्गे मां पावयद्वितयं द्विठः ॥ १३४ ॥
एकोनत्रिंशद्वर्णोयं जप्तव्यो दक्षिणक्रमैः ॥
त्रिवेदाङ्गाग्निषण्नेत्रैर्मन्त्रार्णैरङ्गकल्पनम् 15 ॥ १३५ ॥
शुभ्रवस्त्रां त्रिनेत्रां च वरं पद्मं च दक्षयोः ॥
अभयं कलशं वामकरयोर्मकरस्थिताम् ॥ १३६ ॥
अर्धेन्दुमुकुटां ब्रह्मविष्णुरुद्रस्वरूपिणीम् ॥
नानालङ्कारशोभाढ्यां प्रसन्नवदनां भजे ॥ १३७ ॥
पूजाद्यं मणिकर्णीवज्जपो लक्षं प्रकीर्तितः ॥
तिलाज्याभ्यां भवेद्धोमो मन्त्रोयं भुक्तिमुक्तिदः ॥ १३८ ॥
अथायमेव 16 मत्रस्तु त्यक्तपूर्वनगाक्षरः ॥
ऊर्ध्वाम्नायेन साध्यः स्यात्षडङ्गानि शरैः कृतैः ॥ १३९ ॥
त्रित्रित्रिनेत्रमन्त्रार्णैर्ध्यानाद्यं पूर्ववन्मतम् ॥
सर्वपापक्षयकरो भुक्तिमुक्तिप्रदायकः ॥ १४० ॥
अथातः सम्प्रवक्ष्यामि पश्चिमाम्नायगं मनुम् ॥
तारो नमः शिवायै च नारायण्यै पदं वदेत् ॥ १४१ ॥
दशहरायै गङ्गायै स्वाहान्तो नखवर्णकः ॥
वेदव्यासो मुनिश्छन्दः कृतिर्गङ्गा च देवता ॥ १४२ ॥
त्रित्र्यब्धीषुत्रिनेत्रार्णैः षडङ्गान्यर्चनादिकम् ॥
निखिलं पूर्ववत्कुर्यान्निखिलाभीष्टदो मनुः ॥ १४३ ॥
अथातः सम्प्रवक्ष्यामि पूर्वाम्नायगतं मनुम् ॥
ॐ ह्रीं श्रीं हृद्भगवति गङ्गे च दयिते नमः ॥ १४४ ॥
हुम्फडष्टादशार्णोयं भजन्तामीप्सितप्रदः ॥
त्रिद्व्यब्धीषुद्विद्विवर्णैः षडङ्गविधिरीरितः ॥ १४५ ॥
ऋषिच्छन्दो देवतादि प्राग्वद्ध्यानं च पूजनम् ॥
वर्णलक्षं जपेद्धोमः प्राग्वत्सम्मत्करस्त्वयम् ॥ १४६ ॥
अथातः सम्प्रवक्ष्यामि वाममार्गे प्रसिद्धिदम् ॥
हिलिद्वन्द्वं मिलिद्वन्द्वं गङ्गे देवि नमस्तथा ॥ १४७ ॥
तारादिस्तिथिवर्णोयं छन्दो मुन्यादि पूर्ववत् ॥
त्रिद्विद्व्यक्षियुगद्व्यर्णैः षडङ्गविधिरीरितः ॥ १४८ ॥
अथातः सम्प्रवक्ष्यामि रेवामन्त्रमघापहम् ॥
नर्मदायै नम इति षडर्णः परिकीर्तितः ॥ १४९ ॥
युवतीं कच्छपारूढा वराभयघटाम्बुजैः ॥
लसद्धस्तां स्वर्णकान्तिं सालङ्कारां भजाम्यहम् ॥ १५० ॥
मुनिः शिवस्तु गायत्री छन्दो रेवा च देवता ॥
षडङ्गानि 17 च मन्त्रार्णैः प्रजपेद्वर्णसङ्ख्यया ॥ १५१ ॥
तिलाज्यहोमो मन्त्रेण सर्वपापप्रणाशनः ॥
इह सौख्यं परत्रापि शिवलोके महीयते ॥ १५२ ॥
सरस्वत्यास्तु ये मन्त्रा नद्यास्ते परिकीर्तिताः ॥
सरस्वतीतटे जप्तास्त्वरितं सिद्धिदायकाः ॥ १५३ ॥
गङ्गामन्त्रेषु सर्वेषु गौतमीयपदं वदेत् ॥
गङ्गाशब्दस्य पूर्वे ते गोदाया मनवः स्मृताः ॥ १५४ ॥
ॐ नमः सूर्यतनये यमलोकनिवासिनि ॥
श्रीकृष्णखेलद्युनदि त्राहि मां त्वं भवार्णवात् ॥ १५५ ॥
यमुनायाः श्लोकरूपो मनुर्मुनिरहं स्मृतः ॥
छन्दोनुष्टुप्षडङ्गानि पादार्धार्धक्रमेण च ॥ १५६ ॥
गङ्गावत्पूजनं वर्णसहस्रं जप ईरितः ॥
तिलाज्याभ्यां हुनेन्मन्त्री भास्करिं नैव वीक्षते ॥ १५७ ॥
अथातः सम्प्रवक्ष्यामि हिमजेपाम्पतेर्मनुम् ॥
अमुकद्वीपावरकामुकद्रव्योदधे वदेत् ॥ १५८ ॥
अमुकम्मे देहि तथा दापयेत्यग्निगेहिनी ॥
समुद्रमन्त्र उद्दिष्टः सिन्धुद्वीपो मुनिर्मतः ॥ १५९ ॥
गायत्री छन्द उद्दिष्टन्तत्तत्सिन्धुश्च देवता ॥
पदैर्मनोः षडङ्गानि तत्तद्रूपं विचिन्तयेत् ॥ १६० ॥
जपेद्वर्णसहस्राणि तत्तद्द्रव्यैस्तथा हुनेत् ॥
तत्तदन्तर्गतं वस्तु लभते साधको ध्रुवम् ॥ १६१ ॥
अथातः सम्प्रवक्ष्यामि वायुमन्त्रम्महाद्भुतम् ॥
तारं 18 यं वायवे प्राणाधिपतये पदं वदेत् ॥ १६२ ॥
कृष्णवर्णायाङ्कुशेति हस्ताय मृगवाहना ॥
य नमो गोद्विवर्णोयं वायुमन्त्र उदीरितः ॥ १६३ ॥
गणकोस्य मुनिश्छन्दो निवृद्वायुश्च देवता ॥
पञ्चाङ्गानि मनोरस्य ॐ यं बीजादिकैः पदैः ॥ १६४ ॥
कृष्णवर्णं धावमानम्मृगस्थं वेगवत्तरम् ॥
सह्याद्रिं चापि शेषाद्रिं मैनाकं मन्दरन्तथा ॥
पाशाङ्कुशकरम्प्रेतकृत्यापरिसरान्वितम् ॥ १६५ ॥
जपेद्वर्णसहस्राणि लाजाज्याभ्यां च होमयेत् ॥
सिद्धमन्त्रस्तु तत्कालम्भवेद्भूमौ बलाधिकः ॥ १६६ ॥
अथातः सम्प्रवक्ष्यामि महाकृत्यामहामनुम् ॥
यस्य विज्ञानमात्रेण नासाध्यम्भुवनत्रये ॥ १६७ ॥
माया 19 महायोगिनीति गौरीति भुवनेति च ॥
भयङ्करि तथा हुं च षोडशार्णो मतो मनुः ॥ १६८ ॥
अङ्गिराश्च मुनिर्देवी गायत्री छन्द ईरितम् ॥
सिंहवक्त्रा महाकृत्या भीतिदोक्ता च देवता ॥ १६९ ॥
षड्दीर्घयुक्तबीजेन 20 मन्त्रार्धेनास्त्रयोगिना ॥
हृदयन्तु ततोर्धेन मन्त्रार्धेन शिरः स्मृतम् ॥
शिखाकवचनेत्रास्त्रं पुनरेवं प्रकल्पयेत् ॥ १७० ॥
सिंहासनां कृष्णमुखीं लम्बमानपयोधराम् ॥
दंष्ट्राकरालवदनां त्रिनेत्रां सर्वतोज्वलाम् ॥ १७१ ॥
कृष्णकञ्चुकसंवीतां विधुमाग्निसमप्रभाम् ॥
त्रिशूलचक्रचषकखट्वाङ्गकरपङ्कजाम् ॥ १७२ ॥
लेलिहानमहाजिह्वां विद्युत्प्रेक्षणभीषणाम् ॥
वश्ये ध्यायेद्रक्तवर्णां रक्तपुष्पैश्च पूजिताम् ॥
मारणे कृष्णवर्णां च कृष्णपुष्पाम्बरावृताम् ॥ १७३ ॥
चतुर्दलन्तथाष्टास्रं भूपुराढ्यं समुद्धरेत् ॥
अचार्यन्त्रं कर्णिकायां देवीं बाह्यचतुर्दले ॥
पूर्वस्मिञ्छाङ्करीं नाम शुभ्रवर्णाम्बरावृताम् ॥ १७४ ॥
द्विभुजां सौम्यवदनां पाशाङ्कुशधरां शिवाम् ॥
दक्षिणे मारिकां नाम लम्बजिह्वामधोमुखीम् ॥ १७५ ॥
कृष्णवर्णां रक्तकेशीं रक्तमायानुलेपनाम् ॥
चतुर्भुजां सिंहनादां ज्वलच्छूलकपालिनीम् ॥ १७६ ॥
खड्गहस्तां शिरोमालां सर्वाभरणभूषिताम् ॥
पश्चिमे वारुणीं नाम स्वर्णवर्णां हसन्मुखीम् ॥ १७७ ॥
सुवर्णमालिकां शुभ्रदंष्ट्रामभयदां सदा ॥
उदीचिभीतिकां नाम चतुर्वक्त्रां भयङ्कराम् ॥ १७८ ॥
पूजयित्वा जपेन्मन्त्रं जुहुयाद्राजिका घृतैः ॥
ततः प्रयोगे कुर्वीत स्वेष्टं स च निगद्यते ॥ १७९ ॥
कालं विदित्वा प्रतिमां मारणे चाप्यधोमुखीम् ॥
वर्णलक्षं जपेन्मन्त्रं नित्यमष्टोत्तरं शतम् ॥ १८० ॥
देव्यग्रतो यजेदष्टदले कृत्यां मनोन्मनीम् ॥
सर्वकृत्यां भीषणीं च श्रीमतीं च प्रतिष्ठिताम् ॥ १८१ ॥
विद्यामुत्पादिनीं चेति दिगीशादींश्च भूपुरे ॥
तस्याधो मेखलायुक्तं त्रिकोणं वह्निकूचकम् ॥ १८२ ॥
चन्द्रगौरं विधायाग्निं परिस्तीर्य शरैस्ततः ॥
विभीतकपरिध्या च कल्पयेद्यस्य मारणम् ॥ १८३ ॥
जुहुयान्निम्बतैलाक्तैः काकोलूककपक्षकैः ॥
दारयैनं शोषयैनं मारयेत्यभिधाय च ॥ १८४ ॥
अष्टोत्तरशतं चैवमनया जुहुयाद्बुधः ॥
होमान्ते विधिवत्कृत्यामाराध्याग्नेश्च सन्निधौ ॥ १८५ ॥
यो मे कण्ठग्रहो वातिदूरस्थश्चान्तिकेपि च ॥
भुङ्क्ष्व क्रव्यमसृक् तस्य पिबेत्युक्त्वा निवेदयेत् ॥ १८६ ॥
संरक्ष्याग्निं विधानेन नवरात्रं समाचरेत् ॥
जुह्वन्तिष्ठति यावत्स तावदस्य रिपोर्मृतिः ॥ १८७ ॥
अर्कक्षीरेण मरिचं पिष्ट्वा सिद्धार्धमेव च ॥
जले संलोड्य मन्त्रेण रिपुं ध्यात्वा निरुद्धदृक् ॥ १८८ ॥
कृष्णाम्बरोत्तरीयोग्रपादेनाक्रम्य तं रिपुम् ॥
वज्रशूलमिति ध्यात्वापस्तस्योपरि निःक्षिपेत् ॥
नवरात्रोत्तरे शत्रुर्म्रियते नात्र संशयः ॥ १८९ ॥
हरसिद्धेत्यृचा वह्नौ तैलसिक्तैर्बिभीतकैः ॥
जुह्वतो म्रियते शत्रुः सत्यमौशनसं मतम् ॥ १९० ॥
रिपोः प्रतिकृतिं कृत्वा साध्यर्क्षामलके फले ॥
अर्कक्षीरेण मरिचं पिष्ट्वा तत्रैव लेपयेत् ॥
फट्कारं हृदये कृत्वा शिवनिर्माल्यके क्षिपेत् ॥ १९१ ॥
ततः कृष्णचतुर्दश्यां जपेन्मन्त्रं सहस्रशः ॥
सद्योवगाहनं कृत्वा तस्यामेव विचक्षणः ॥ १९२ ॥
मन्त्रं जपित्वा विधिना भेदयेल्लिङ्गमुद्रया ॥
षण्मासान्म्रियते शत्रुः सन्ध्ययोरुभयोरपि ॥ १९३ ॥
वायुना चोद्धृतम्पत्रं शुभ्रं बैभीतकं ततः ॥
गृहीत्वा विलिखेन्मन्त्री कृष्णसर्पास्यशोणितैः ॥
उष्ट्रास्थ्ना च शवाङ्गारैः शत्रोरुच्चाटनं भवेत् ॥ १९४ ॥
दूर्वागुडूच्या गव्यैश्च सर्पिषा तिलतण्डुलैः ॥
अन्नैः समिद्भिः पालाशैः शान्तिं कुर्याद्विचक्षणः ॥ १९५ ॥
लक्ष्म्यै बिल्वफलैः पत्रैर्नन्द्यावर्तैः श्रिये तथा ॥
रक्तपुष्पैरपामार्गैरङ्गारैश्च सुभद्रकैः ॥
मधुरत्रयसंसिक्तैरेभिः कुर्याच्च वश्यकम् ॥ १९६ ॥
शान्तिं कृत्वा विधानेन जपेत्परिमलं त्विमम् ॥
महाव्याधिप्रशमनं नित्यमष्टोत्तरं शतम् ॥ १९७ ॥
जपेदेकाग्रचित्तस्तु लोकवश्यकरं परम् ॥
मनसा चिन्तयेत्कृत्यां गजारूढामिभद्रवीम् ॥ १९८ ॥
तस्य वश्यम्भवेत्सर्वमश्वारूढां तथैव च ॥
चौरव्याघ्रमृगादीनां सलिलादेर्भयापहम् ॥ १९९ ॥
सप्ताभिमन्त्रितं तोयं पीत्वा मन्त्रञ्जपेद्बुधः ॥
मेधावी च भवेद्वाग्मी तावज्जापाभिषेकतः ॥ २०० ॥
सप्ताभिमन्त्रितं कृत्वा विषमप्यमृतं भवेत् ॥
पक्षम्मासं द्विमासं वा षण्मासं वत्सरं तु वा ॥ २०१ ॥
अथातः सम्प्रवक्ष्यामि कृत्याशान्तिविधिक्रमम् ॥
कृत्यां समर्चयेद्धस्ते यथा विधिपुरःसरम् ॥ २०२ ॥
षोडशारं लिखेत्पद्मं योनियुक्तं सबिन्दुकम् ॥
तन्मध्येष्टदलं न्यस्य यकारादीन्न्यसेत्क्रमात् ॥ २०३ ॥
तन्मध्ये रसकोणन्तु लिखेन्मूलमनुं स्मरेत् ॥
चन्द्रबिम्बं लिखेत्पद्मं तस्योर्ध्वं प्रतिमां लिखेत् ॥ २०४ ॥
तस्य मध्ये न्यसेत्कुम्भं रक्तवस्त्रविभूषितम् ॥
कुम्भमध्ये न्यसेत्कृत्यां सर्वलक्षणसंयुताम् ॥ २०५ ॥
अर्चयेच्च यथान्यायम्पायसन्तु निवेदयेत् ॥
परितोष्य च तान्न्यस्येदसिताङ्गादिभैरवान् ॥ २०६ ॥
गन्धपुष्पादिभिश्चार्च्य तद्बाह्ये क्षेत्रपालकान् ॥
लोकेशान्तं यजेद्देवि तदग्रे होममाचरेत् ॥ २०७ ॥
तस्य दक्षिणपार्श्वे तु लक्ष्मीं ध्यायेद्यथाविधि ॥
कुम्भमध्ये न्यसेद्देवीं दक्षिणे तु श्रियं स्मरेत् ॥ २०८ ॥
वामपार्श्वे यजेद्देवीं हृल्लेखां परमेश्वरीम् ॥
तस्या वै वामपार्श्वे तु पूजयेद्गणनायकम् ॥
अयुतं मूलमन्त्रन्तु जपेन्मृत्युविनाशनम् ॥ २०९ ॥
कृत्यामन्त्रः परिप्रोक्तः सर्वकामफलप्रदः ॥
महाशान्तिकरे 21 लोके दुःखदारिद्र्यनाशनः ॥ २१० ॥
अथातः सम्प्रवक्ष्यामि राजराजमनूञ्च्छुभान् ॥
यक्षाय 22 च कुबेराय वदेद्वैश्रवणाय च ॥ २११ ॥
धनधान्याधिपतये धनधान्यपदं वदेत् ॥
समृद्धिं मे देहि वदेद्दापयाग्निप्रियान्तकः ॥ २१२ ॥
पञ्चत्रिंशद्वर्णमनुर्विश्रवा मुनिरीरितः ॥
छन्दस्तु बृहती 23 त्र्यब्धीष्वष्टाष्टागैः षडङ्गकम् ॥ २१३ ॥
गारुडात्मनिभं शान्तं मुकुटादिविभूषितम् ॥
वरङ्गदाञ्च दधतन्तुन्दिलं यक्षसेवितम् ॥ २१४ ॥
लक्षमेकञ्जपेन्मन्त्रं दशांशं जुहुयात्तिलैः ॥
धर्मादिपीठे प्रयजेदङ्गलोकेशहेतिकम् ॥ २१५ ॥
शिवालये जपेन्मन्त्रमयुतं धनवृद्धये ॥
बिल्वमूलोपविष्टेन जप्तो लक्षं धनर्द्धिदः ॥ २१६ ॥
अथ मन्त्रान्तरं वक्ष्ये ॐ-क्लीं-ह्रीं-श्रीं 24 समुच्चरेत् ॥
श्रीं-ह्रीं-क्लीं-ॐ च विं वित्तेश्वराय नम इत्यपि ॥ २१७ ॥
षोडशार्णोस्य मुन्यादिप्राग्वत्त्रिद्विद्विनेत्रकैः ॥
पञ्चाक्षिभ्यां षडङ्गं स्याद्ध्यानपूजादि पूर्ववत् ॥ २१८ ॥
अथ मन्त्रान्तरं वक्ष्ये कुबेरस्य गजाक्षरम् ॥
तारो वैश्रवणायेति स्वाहा पञ्चाङ्गमन्त्र तु ॥
स्वाहान्तैः प्रणवाद्यैश्च पञ्चभिर्मन्त्रवर्णकैः ॥ २१९ ॥
धनपूर्णं स्वर्णकुम्भं तथा रत्नकरण्डकम् ॥
हस्ताभ्यां बिभ्रतं खर्वकरपादं च तुन्दिलम् ॥ २२० ॥
वटाधस्ताद्रत्नपीठोपविष्टं सस्मिताननम् ॥
वर्णलक्षञ्जपेद्धोमपूजे प्राग्वन्महाधनी ॥
सेवनादस्य भवति यक्षिण्याद्यास्तथा वशे ॥ २२१ ॥
अथातः सम्प्रवक्ष्यामि ईशानमनुमद्भुतम् ॥
प्रणवं हं समुच्चार्य चेशानाय वदेत्ततः ॥ २२२ ॥
विद्याधिपतये चेति स्फटिकेति वदेत्तत्तः ॥
वर्णोय शूलहस्ताय ङेन्तश्च वृषवाहनः ॥ २२३ ॥
नमोन्त एकत्रिंशद्भिर्वर्णैर्मन्त्र उदाहृतः ॥
ॐ हमाद्यैर्नमोन्तैश्च पञ्चाङ्गं पञ्चाभः पदैः ॥ २२४ ॥
शक्तीनां मनवो ये च ते विद्याः परिकीर्तिताः ॥
पुरुषाणान्तु ते मन्त्रा विद्यास्तु पुरुषं विना ॥
भवन्ति नैव फलदा यथा नारी नरं विना ॥ २२५ ॥
पुंसां योगो यत्र नोक्तस्तत्रेशानं प्रयोजयेत् ॥
स्त्रीमन्त्रो भोगदः प्रोक्तः पुम्मन्त्रो मोक्षदः परः ॥
उभयोपासनं देवि भुक्तिमुक्तिप्रदायकम् ॥ २२६ ॥
लक्ष्म्याश्च विष्णुना योगो गायत्र्या भास्करेण च ॥
गणेशेन सरस्वत्या यक्षिण्याद्याभिरात्मनः ॥ २२७ ॥
दक्षिणाम्नायशक्तीनां शैवमन्त्रैश्च योजनम् ॥
वामे तु भैरवैर्मन्न्त्रैः शेषाम्नायेष्वयं मनुः ॥ २२८ ॥
अथातः सप्रवक्ष्यामि ब्रह्मणो मन्त्रमद्भुतम् ॥
तारं पाशं ब्रह्मणे च लोकाधिपतये वदेत् ॥ २२९ ॥
रक्तवर्णायोर्ध्वलोकपालकाय वदेत्ततः ॥
पद्महस्ताय च पदं ङेन्तःस्याद्धंसवाहनः ॥
नमोन्तोबाणरामार्णो मन्त्रोयं परिकीर्तितः ॥ २३० ॥
तारपाशादिकैः षड्भिः पदैरङ्गं हृदन्तकैः ॥
नास्य पूजाविधिः प्रायो जपोस्य परिकीर्तितः ॥ २३१ ॥
वर्णलक्षजपादेव निग्रहानुग्रहक्षमः ॥
दशपत्रे यजेदेनं प्रागीशान्तदले सुराः ॥
न तत्र मम शापोस्ति शापः केवलपूजने ॥ २३२ ॥
अथातः सम्प्रवक्ष्यामि शेषस्य मनुमद्भुतम् ॥
तारं मायामनन्ताय नागाधिपतये वदेत् ॥
गौरवर्णायातलादिसप्तलोकेश्वराय च ॥ २३३ ॥
चक्रहस्ताय गरुडवाहनाय नमोन्तकः ॥
एकचत्वारिंशदर्णो मन्त्रोनन्तस्य कीर्तितः ॥ २३४ ॥
मन्त्रम्प्रतिचतुर्दश्याञ्चतुर्दशशतञ्जपेत् ॥
दुग्धं हुत्वाथविप्रेन्द्रान्भोजयेच्च चतुर्दश ॥ २३५ ॥
कुर्याच्चतुर्दशीं भक्त्या धनधान्ययुतो भवेत् ॥
राज्यभ्रष्ट इयाद्राज्यं विद्याकामस्तु पण्डितः ॥ २३६ ॥
भाद्रशुक्लचतुर्दश्यां विशेषात्पूजनम्मतम् ॥
ईश्वरस्य च पूजायां खपृथिव्योः प्रपूजनम् ॥
एवमुक्ता दिक्पमन्त्राः किमन्यच्छ्रोतुमिच्छसि ॥ २३७ ॥
इतिश्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते दशदिगीशमन्त्रप्रकाशश्चतुर्विंशः ॥ २४ ॥
-
सुगन्धोदकमिति वा पा ॥ ↩︎
-
ल्यबत्रार्षः ॥ ↩︎
-
स्वाहा ↩︎
-
उत्तिष्ठ पुरुष हृदयाय नमः, हरिपिङ्गल शिरसे स्वाहा इत्यादि ॥ ↩︎
-
जलम् ॥ ↩︎
-
ॐ-क्र्ॐ ह्रीम् आं वैं वैवस्वताय धर्मराजाय भक्तानुग्रहकृते नमः ॥ ↩︎
-
वदेदित्यस्यात्रापि सम्बन्धः ॥ ↩︎
-
ॐ क्षं निरृतये नमः हृदयाय नमः, ॐ क्षं रक्षोधिपतये नमः शिरसे स्वाहा, ॐ क्षं धूम्रवर्णाय नमः शिखायै वषट्, ॐ क्षं खड्गहस्ताय नमः कवचायहुम्, ॐ क्षं प्रेतवाहनाय नमः नेत्रत्रयाय वौषडित्यादि ॥ ↩︎
-
ॐ कटुके कटुपत्रे सुभगे आसुरि रक्ते रक्तवाससे अथर्वणस्य दुहितरघोरे अघोरकर्मके देवि अमुकस्य गतिं दह दह उपविष्टस्य गुदं दह दह सुप्तस्य मनो दह दह प्रबुद्धस्य हृदयं दह दह हन हन पच पच तावद् दह दह पच यावन्मे वशमायाति हुं फट् स्वाहा ॥ ↩︎
-
रिपोरिति सम्बन्धिमहिम्ना बोध्यः ॥ ↩︎
-
कार्या इतिशेषः ।
अग्रे च तासां मध्ये एकापि गुटिका यस्य शिरसि न्यस्ता स तस्य वशवर्तीत्यर्थः ॥ ↩︎ -
ॐ ऐं ह्रीं श्रीं क्लीं ॐ मं मणिकर्णिके नमः ॐ ॥ ↩︎
-
मूलोक्तसङ्ख्याक्रमेण निम्नलिखितन्यासा विधेयास्ते यथा - ॐ हृदयाय नमः, ऐं ह्रीं शिरसे स्वाहा, श्रीं क्लीं शिखायै वषट, ॐ मं कवचाय हुम्, मणिकर्णिके नेत्रत्रयाय वौषट्, नमः ॐ अस्त्राय फट् ॥ ↩︎
-
ॐ नमो भगवति ऐं हिलिहिलि मिलिमिलि गङ्गे मां पावयपावय स्वाहा स्वाहा ॥ ↩︎
-
त्रिचतुषट्त्रिषड्द्विमन्त्रवर्णैर्न्यासाः कार्याः तेग्रे दर्श्यन्ते - ॐ नमो हृदयाय नमः, भगवति शिरसे स्वाहा, ऐं हिलि हिलि मिलि मिलि शिखायै वषट्, गङ्गे मां कवचाय हुम्, पावयपावय नेत्रत्रयाय वौषट्, स्वाहा अस्त्रायफट् ॥ ↩︎
-
अस्यैवाद्यसप्ताक्षरपरित्यागेन द्वाविंशत्यक्षरात्मापरो भवति ऐं ॐ हिलि हिलि मिलि मिलि गङ्गे मां पावय पावय स्वाहा स्वाहा ॥ ↩︎
-
एकैकाक्षरैर्हृदयादिन्यासाः यथा-नहृदयाय नमः र्मशिरसे स्वाहा, दा शिखायै वषट् इत्यादि ॥ ↩︎
-
ॐ यं वायवे प्राणाधिपतये कृष्णवर्णायाङ्कुशहस्ताय मृगवाहनाय नमः ॥ ↩︎
-
ह्रीं महायोगिनि गौरि भुवनभयङ्करि हुम् ॥ ↩︎
-
ह्रीं महायोगिनि गौरि फट् हृदयाय नमः, भुवनभयङ्करि शिरसे स्वाहा, हुं महायोगिनि गौरि फट् शिखायै वषट् इत्यादि ॥ ↩︎
-
यस्मात् इति शेषः ॥ ↩︎
-
यक्षाय कुबेराय वैश्रवणाय धनधान्याधिपतये धनधान्यसमृद्धिं मे देहि दापय स्वाहा ॥ ↩︎
-
यक्षाय हृदयाय नमः कुबेराय शिरसे स्वाहा, वैश्रवणाय शिखायै वषट्, धनधान्याधिपतये कवचाय हुम्, धनधान्यसमृद्धिं मे नेत्रत्रयाय वौषट्, देहि दापय स्वाहा अस्त्रायफट् ॥ ↩︎
-
ॐ क्लीं ह्रीं श्रीं श्रीं ह्रीं क्लीं ॐ विं वित्तेश्वराय नमः ॥ ↩︎