२३ ब्राह्माद्यष्टमातृकामन्त्रप्रकाशस्

मुनय ऊचुः ॥

देवदेव महादेव भक्तानुग्रहकारक ॥
ब्राह्म्याद्यष्टौ भास्करस्य तटे तिष्ठन्ति शक्तयः ॥ १ ॥

रणे मृतानां योगेन मृतानां सहगामिनाम् ॥
स्वर्णं याश्च प्रयच्छन्ति तन्मनून्ब्रूहि शङ्कर ॥ २ ॥

श्रीशिव उवाच ॥

ब्रह्मशक्तिस्तु शक्तीनां नायिका परिकीर्त्तिता ॥
योगिनां मुक्तिदात्री सा भोगिनां भोगदा मता ॥ ३ ॥

ब्रामित्येकाक्षरं बीजं मुनिर्वाचस्पतिर्मतः ॥
गायत्री छन्द उद्दिष्टं वः शक्तिः कीलकं चरः ॥ ४ ॥

ध्यायेद्ब्राह्मीं पद्मसंस्थां हंसारूढां चतुर्मुखाम् ॥
अक्षमालावराभीतिकमण्डलुकरारुणाम् ॥ ५ ॥

बीजे 1 नैव षडङ्गानि मध्ये देवीं प्रपूजयेत् ॥

षट्कोणेषु षडङ्गानि शक्तयोर्च्याः कलादले ॥ ६ ॥

चिन्तामणिज्ञाननीलघटकिन्यन्तरिक्षतः 2
महत्पूर्वाश्चसप्तैतास्सरस्वत्यः प्रकीर्त्तिताः ॥ ७ ॥

लोकेश्वरीं शिवान्ते च त्रिपुराद्वितयं भवेत् ॥
वागीश्वरीरुद्रविष्णुमुखान्ते चाक्षया मता ॥ ८ ॥

पद्मावत्येव रूढा च षोडशी कीर्त्तिनायिका ॥
तत्तन्मन्त्रैः पूजनीया बाह्ये दिक्पाःसहेतयः ॥ ९ ॥

लक्षमेकं जपेन्मन्त्रं पलाशकुसुमैर्हुनेत् ॥
तत्पुष्पयुक्तसलिलैस्तर्प्पयेन्मार्ज्जयेत्कुशैः ॥ १० ॥

ऐश्वर्य्यार्थं तु सिध्यर्थं गायत्री प्रथमाङ्घ्रियुक् ॥
संरक्षणार्थं पुष्ठ्यर्थं द्वितीयचरणान्वितम् ॥
मारणोच्चाटनाद्यर्थं तृतीयेन समन्वितम् ॥
लक्षमात्रं जपेन्मन्त्रं कार्य्यसिद्धिः प्रजायते ॥ ११ ॥

अथादौ सम्प्रवक्ष्यामि चिन्तामणिसरस्वतीम् ॥
तारं 3 मायां च हसरानैकाराढ्यान्सबिन्दुकान् ॥ १२ ॥

पुनर्मायां च तारं च वदेन्ङेन्तां सरस्वतीम् ॥ १३ ॥

हृदयान्तो भवार्णोयं मन्त्रस्तु परिकीर्त्तितः ॥
त्रिष्टुप्छन्दो मुनिः कण्ठश्चिन्तामणि सरस्वती ॥ १४ ॥

देवताद्यं च बीजं स्याध्रीं शक्तिस्त्वङ्गकल्पनम् ॥
स्वरसम्पुटितैः 4 कादिवर्गैः स्यादङ्गकल्पनम् ॥ १५ ॥

पुनश्च तारहृल्लेखा पुटितं दीर्घषट्कियुक् ॥
स्वकूठं तेन चाङ्गानि मन्त्रार्णान्विन्यसेत्तनौ ॥

मूर्द्धभ्रूमध्यकर्णाक्षिनासिकास्यगुदाङ्घ्रिषु 5 ॥ १६ ॥

हंसारूढां मौक्तिकाभां मन्दहासेन्दुशेखराम् ॥
वीणामृतघटाक्षस्रग्दीप्तहस्ताम्बुजस्थिताम् ॥ १७ ॥

ध्यात्वैवं मनसापूज्य कुर्य्याद्बाह्यार्चनं ततः ॥
वाग्देव्यौ पार्श्वयोः पूज्ये संस्कृतप्राकृताह्वये ॥ १८ ॥

ततः षडङ्गावरणं 6 ततश्चाष्टदलेर्चयेत् ॥
प्रज्ञां मेधां श्रुतिं चैव स्मृतिं शक्तिं ततोर्चयेत् ॥ १९ ॥

वागीश्वरीं वसुमतीं स्वस्तिब्राह्म्यादिका अपि ॥

दिक्पालैश्च चतुर्थं स्याज्जपेद्द्वादशलक्षकम् ॥ २० ॥

घृताक्तैरविसाहस्रं हुनेद्व्रीह्याढ्यचम्पकैः ॥
एवं सिद्धमनुर्मन्त्री काम्यकर्माणि साधयेत् ॥ २१ ॥

सूर्य्यमण्डलगां देवीं ध्यायेत्प्रतिदिनं यजेत् ॥
सहस्रत्रितयं यस्तु त्रिमासात्स्यान्महाकविः ॥ २२ ॥

अथातः सम्प्रवक्ष्यामि ज्ञान पूर्वां सरस्वतीम् ॥
ऐकारयुक्ता हसरा बिन्द्वन्ताः पूर्वबीजकम् ॥ २३ ॥

हसक्षलर इत्येवं पञ्च ईकारसंयुताः ॥
विसर्गान्तास्तृतीयं स्याद्बीजं ज्ञानप्रदो मनुः ॥ २४ ॥

ऋषिस्तु दक्षिणामूर्त्तिर्देवी ज्ञानसरस्वती ॥
अन्तबीजं भवेच्छक्तिराद्यबीजन्तु कीलकम् ॥ २५ ॥

आद्यबीजेन चाङ्गानि कृत्वा बीजानि विन्यसेत् ।
दक्षिणे च करे वामे द्वये बीजत्रयं पुनः ॥ २६ ॥

पादादिनाभिपर्य्यन्तं नाभ्यादि हृदयान्तकम् ॥
हृदयादि च शीर्षान्तं क्रमाद्बीजत्रयं न्यसेत् ॥ २७ ॥

ततो ध्यायेत्सूर्य्यनिभां त्र्यक्षां चन्द्रकलाधराम् ॥
करैर्धर्त्रीं जपवटीं पुस्तकं वरदाभये ॥
पीनोत्तुङ्गस्तनीं पूर्णचन्द्रास्यामरुणाम्बराम् ॥ २८ ॥

एवं ध्यात्वा गिरं देवीं ततो बाह्ये समर्चयेत् ॥
नवयोनित्रिकोणेषु वामा ज्येष्ठादिका यजेत् ॥ २९ ॥

प्राङ्मध्ययोन्योरन्तस्तु यजेच्छक्तिचतुष्टयम् ॥
आद्या बह्वी विषघ्नी स्यात्ततो दूरतरा मता ॥ ३० ॥

सर्वादौ तेन ता बाह्ये पञ्चकोणं समाचरेत् ॥
आग्नेयेशाननैर्-ऋत्यवायव्ये पश्चिमे क्रमात् ॥ ३१ ॥

यजेत्कोणे पञ्चबाणाञ्छोषणं मोहनन्तथा ॥
सन्दीप्तसम्मोहनकौ तथा चोन्मादनोन्तिमः ॥ ३२ ॥

ततोङ्गावरणं पूज्यं पूर्वाशाद्यष्टयोनिषु ॥
क्रमेण शक्तयः पूज्याः शुभगा च तथा भगा ॥ ३३ ॥

भगपूर्वा सर्पिणी च ततश्च भगमालिनी ॥
अनङ्गानङ्गकुसुमा ततश्चानङ्गमेखला ॥
अनङ्गमदना चेति ध्यानमासां 7 निरूप्यते ॥ ३४ ॥

अक्षस्रक्पुस्तककरा रक्ताभाः सर्वशक्तयः ॥
दिव्याम्बराः सर्वभूषाः सर्वाभीष्टप्रदायिकाः ॥ ३५ ॥

ब्राह्म्याद्याश्च ततोभ्यर्च्यास्तदग्रे पूजयेत्पुनः ॥
भैरवानसिताङ्गाद्याञ्छक्रादीनायुधान्यपि ॥ ३६ ॥

यजेद्द्वादशलक्षं स्याज्जपस्त्रिमधुरान्वितैः ॥
हुनेत्पलाशपुष्पैश्च दशांशं वा शतांशकम् ॥ ३७ ॥

एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेदथ ॥

पलाशपुष्पैरयुतं सौभाग्याय च होमयेत् ॥ ३८ ॥

लक्ष्म्यै तथैव जुहुयान्महासारस्वताय च ॥
मधुरत्रितयोपेतबिल्वैश्चैवायुतं हुनेत् ॥
भवन्ति सकला लोका वश्या नास्त्यत्र संशयः ॥ ३९ ॥

एवं कुर्य्यात्समृद्ध्यर्थं बीजैकैकस्य कथ्यते ॥
पृथक्प्रयोगो ध्यानं च पञ्चाशद्वर्णशोभिताम् ॥ ४० ॥

नवकुन्दनिभां देवीं मुक्ताजालैश्च भूषिताम् ॥
मुद्राकपालविद्याक्षमालाराजन्महाभुजाम् ॥ ४१ ॥

एवं ध्यात्वा जपेल्लक्षं पूजनाद्यं च पूर्ववत् ॥
कविता तस्य जायते नानावृत्तार्थशोभिता ॥ ४२ ॥

रक्तां सुरतरोर्मूले विलसन्मणिपीठगाम् ॥
सृणिपाशकपालेषुमातुलुङ्गधनुष्कराम् ॥ ४३ ॥

रत्नैरलङ्कृतां काममदघूर्णितलोचनाम् ॥
हेलाविलाससम्भिन्नां नवयौवनसुन्दरीम् ॥ ४४ ॥

देवीं ध्यात्वा जपेल्लक्षं यो बीजं मध्यमं वशी ॥
त्रैलोक्यं क्षोभयेदाशु पूर्ववत्सिद्धिभागसौ ॥ ४५ ॥

अक्षमालासुधाकुम्भमुद्रापुस्तकधारिणीम् ॥
नवकुन्देन्दुसङ्काशां राजन्मौक्तिकभूषणाम् ॥ ४६ ॥

शक्तिं संविन्मयीं ध्यात्वा बीजं सारस्वतं वशी ॥
यो जपेत्प्राय एतस्य कविता भुवि सम्मता ॥ ४७ ॥

अथातो वाममार्गस्थां वक्ष्ये नीलसरस्वतीम् ॥
तातो 8 लक्ष्मीश्च हृल्लेखा हसाव्ॐङ्कारसंयुतौ ॥ ४८ ॥

हुम्फट् नीलसरस्वत्यै स्वाहान्तो मनुवर्णकः ॥
ऋष्याद्या ब्रह्मगायत्र्यौ तथा नीलसरस्वती ॥ ४९ ॥

नेत्रचन्द्रेन्दुनेत्राङ्गनेत्रार्णैरङ्गकल्पनम् 9
मन्त्रोत्थितैरथो ध्यायेद्देवीं सर्वेष्टसिद्धिदाम् ॥ ५० ॥

घण्टां शिरः शूलमसिं कराब्जैर्दधतीं भजे ॥
पोथयन्तीं पादतले पशुं चन्द्रकलाधराम् ॥ ५१ ॥

जपपूजादिकं सर्वमस्यास्तारावदाचरेत् ॥
विशेषाज्जयदा वादे विद्येयं साधिता नृभिः ॥ ५२ ॥

अथान्यत्सम्प्रवक्ष्यामि तारं 10 च भुवनेश्वरीम् ॥
श्रीमदेकजटे नीलसरस्वति पदं वदेत् ॥ ५३ ॥

महोग्रतारे देवीति खेखः सर्वपदं वदेत् ॥
भूतपिशाचराक्षसान्ग्रस युग्मं ममेति च ॥ ५४ ॥

जाड्यं छेदय युग्मं च श्रींह्रीम्फट् वह्निगेहिनी ॥

द्विपञ्चाशल्लिपिश्चायं ध्यानपूजादिपूर्ववत् ॥ ५५ ॥

अथातः सम्प्रवक्ष्यामि त्रिवर्णं मन्त्रनायकम् ॥
ह्रींश्रींहुमिति मुन्याद्यं यथा त्रिपुरभैरवी 11 ॥ ५६ ॥

अथान्यं सम्प्रवक्ष्यामि ब्लूं 12 वं वदयुगं तथा ॥
त्रींहुम्फट् च नवार्णोयं ध्यानपूजादि पूर्ववत् ॥ ५७ ॥

अथातः सम्प्रवक्ष्यामि वामां घटसरस्वतीम् ॥
हसखफरवर्णाश्च 13 ऐङ्कारेण समन्विताः ॥ ५८ ॥

तस्याः स्यादादिमं कूटं हसरा औंसमन्विताः ॥
विसर्गान्ता द्वितीयं स्याद्धसौ फो रफ एव च ॥ ५९ ॥

ईकारेण च संयुक्तास्तृतीयं कूटमुच्यते ॥
वाचं मायां रमां द्रां ह्रीं कामं ब्लूं संस्तथैव च ॥ ६० ॥

घ्रीं बीजं च समुच्चार्य्य ततो घटसरस्वति ॥
घटे वदद्वयम्पश्चात्त्वरयुग्मं वदेत्ततः ॥ ६१ ॥

रुद्राज्ञया ममाभीतिलाषं कुरुयुगं तथा ॥
स्वाहान्तोग्निकृतार्णोयं प्राग्वत्पूजादिकं भवेत् ॥ ६२ ॥

अथातः सम्प्रवक्ष्यामि विद्यां किनिसरस्वतीम् ॥
वामाचारेण फलदां वाग्बीजं हैं समुच्चरेत् ॥ ६३ ॥

ह्रीमुच्चार्य्य किनिद्वन्द्वं विद्ये मन्त्रो नवाक्षरः ॥
चामुण्डामन्त्रवत्सर्वं जपन्यासादिकं भवेत् ॥ ६४ ॥

अथातः सम्प्रवक्ष्यामि ह्यन्तरिक्षसरस्वतीम् ॥
वाचं मायामन्तरिक्षसरस्वत्यग्निगेहिनी ॥ ६५ ॥

द्वादशार्णो मनुर्जप्तो वर्णलक्षमितो यदा ॥
शृणुयादीप्सितां वार्तां दूरस्थामपि साधकः ॥ ६६ ॥

महासरस्वतीं वक्ष्ये सर्वकामफलप्रदाम् ॥
ऐं ह्रीं श्रीं क्लीं समुच्चार्य सौङ्क्लींह्रीम् ऐं पुनर्वदेत् ॥ ६७ ॥

ब्लूं तु स्त्रीं नीलतारे च सरस्वतिपदं ततः ॥
द्रांह्रीङ्क्लीम्ब्लूं स उच्चार्य्य ऐंह्रींश्रीङ्क्लीं पुनर्वदेत् ॥ ६८ ॥

सौः सौः ह्रीं वह्निजायान्तो मन्त्रो द्वात्रिंशदर्णकः ॥
ब्रह्मानुष्टुप्सरस्वत्यो मुन्याद्याः परिकीर्त्तिताः ॥ ६९ ॥

पञ्चपञ्चाष्टपञ्चेषुयुगार्णैरङ्गकल्पनम् ॥
नवासनां सर्प्पभूषां कर्त्रीं चापि कपालकम् ॥ ७० ॥

चषकं च त्रिशूलं च दधतीं च चतुष्करैः ॥
मुण्डमालाधरां त्र्यक्षां भजे नीलसरस्वतीम् ॥ ७१ ॥

चतुर्लक्षं जपेद्विद्यां किंशुकैर्मधुरान्वितैः ॥
दशांशं जुहुयात्पूजां पीठे कुर्य्याच्च सोच्यते ॥ ७२ ॥

आदौ त्रिकोणं षट्कोणमष्टषोडशपत्रकम् ॥
द्वात्रिंशत्पत्रमन्ते स्याच्चतुःषष्टिदलं तथा ॥ ७३ ॥

त्रिरेखाढ्यं धरागेहं चतुरस्रमतः परम् ॥
एवं यन्त्रं समालिख्य बाह्यतः पूजनं चरेत् ॥ ७४ ॥

चतुरस्रस्याग्निकोणे विघ्नेशं परिपूजयेत् ॥
वायुकोणे क्षेत्रपालमैशाने भैरवं तथा ॥ ७५ ॥

नैर्-ऋते योगिनीस्सर्वा वामभागे गुरुं यजेत् ॥
भूगृहस्याद्यरेखायामणिमा लघिमा तथा ॥ ७६ ॥

महिमा चेशिता पूज्या वशिता कामरूपिणी ॥
गरिमा प्राप्तिरित्येताः पूज्याः पूर्वादिदिक्क्रमात् ॥ ७७ ॥

धरागृहस्य रेखायां द्वितीयायां तु भैरवाः 14
भूमिगेहे तृतीयाया रेखायां मातरः 15 पुनः ॥ ७८ ॥

इत्थमाद्यावृतिं चेष्ट्वा योनिमुद्रां प्रदर्शयेत् ॥
चतुःषष्टिदले पद्मे शक्तीरर्च्चेच्च तावतीः ॥ ७९ ॥

कुलेशी कुलनन्दा च वागीशा भैरवी तथा ॥
उमाश्रीशान्तयश्चण्डा धूम्रा काली करालिनी ॥ ८० ॥

महालक्ष्मीश्च कङ्काली रुद्रकाली सरस्वस्वती ॥
वाग्वादिनी च नकुली भद्रकाली शशिप्रभा ॥ ८१ ॥

प्रत्यङ्गिरा सिद्धलक्ष्मीर्ह्यमृतेशी च चण्डिका ॥
खेचरी भूचरी सिद्धा कामाक्षी हिङ्गुलाबला ॥ ८२ ॥

जया च विजया चाप्यजिता नित्याऽपराजिता ॥
विलासिनी तथा घोरा चित्रा मुग्धा धनेश्वरी ॥ ८३ ॥

सोमेश्वरी महाचण्डा विद्या हंसी विनायिका ॥
वेदगर्भा तथा भीमा उग्रा वैद्या च सद्गतिः ॥ ८४ ॥

उग्रेश्वरी चन्द्रगर्भा ज्योत्स्ना सत्या यशोवती ॥
कुलिका मालिनी 16 काम्या ज्ञानवत्यथ डाकिनी ॥ ८५ ॥

राकिनी लाकिनी चाथ काकिनी शाकिनी ह्यपि ॥
हाकिनी च चतुःषष्टिशक्तयः सिद्धिदायिकाः ॥ ८६ ॥

दर्शयेत्खेचरीं मुद्रां द्वितीयावराणेर्चिते ॥
द्वात्रिंशत्पत्रमध्ये तु पूज्या एतास्तु शक्तयः ॥ ८७ ॥

किराता योगिनी वीरा वेताला यक्षिणी हरा ॥
ऊर्ध्वकेशी च मातङ्गी मोहिनी वंशवर्द्धिनी ॥ ८८ ॥

मालिनी ललिता दूती मनोज्ञा पद्मिनी धरा ॥
शर्वरी छत्रहस्ता च रक्तनेत्रा विचर्चिका ॥ ८९ ॥

मातृका दूरदर्शा च क्षेत्रेशी रङ्गिणी नटी ॥

शान्तिर्वित्या वज्रहस्ता धूम्रा श्वेता सुमङ्गला ॥ ९० ॥

इष्ट्वा तृतीयावरणं बीजमुद्रां 17 प्रदर्शयेत् ॥
ततः शोडशपत्रेषु पूज्याः षोडशशक्तयः ॥ ९१ ॥

मुग्धा श्रीः कुरुकुल्ला च त्रिपुरा तु तलक्रिया ॥
रतिः प्रीतिस्तथा बाला सुमुखी श्यामलाविला ॥ ९२ ॥

पिशाची च विदारी च शीतला वज्रयोगिनी ॥
सर्वेश्वरीति सम्पूज्य सृणिमुद्रां 18 प्रदर्शयेत् ॥ ९३ ॥

अष्टपत्रे स्वस्वमन्त्रैर्यजेदष्टसरस्वतीः ॥
नमः 19 पद्मासने पद्मरूपे वाग्भुवनेश्वरी ॥ ९४ ॥

कामो वदद्वयं वाग्वादिनि स्वाहा ध्रुवादिकः 20
वागीश्वर्य्या मनुः प्रोक्तश्चतुर्विंशतिवर्णकः ॥
महाकविर्वर्णलक्षजपात्प्राच्यां च पूजनम् ॥ ९५ ॥

हसकलहरायुक्तो 21 ईङ्कारेण वदद्वयम् ॥
चित्रेश्वरीति वाग्बीजं स्वाहान्तो द्वादशाक्षरः ॥ ९६ ॥

चित्रेश्वर्य्या मनुलर्क्षजपाच्चित्रकलाप्रदः ॥
स्त्रीवश्यकृत्तथानेन वह्नि कोणे प्रपूजयेत् ॥ ९७ ॥

वाग्बीजं 22 कुलजे वाक्च सरस्वत्यनलाङ्गना ॥
एकादशार्णमन्त्रेण कुलजां दक्षिणेर्चयेत् ॥ ९८ ॥

वाङ्मायाश्रीं 23 वदद्वन्द्वं कीर्त्तीश्वर्य्यनलप्रिया ॥
त्रयोदशार्णेन यजेन्नैर्-ऋत्ये कीर्त्तिनायिकाम् ॥ ९९ ॥

पश्चाद्यजेच्च पूर्वोक्तामन्तरिक्षसरस्वतीम् 24
वायव्यकोणे पूर्वोक्तां 25 यजेद्धटसरस्वतीम् ॥ १०० ॥

उदङ्गीलसरस्वत्या नवार्णेन च तां यजेत् ॥
ईशाने पूजयेत्पूर्वप्रोक्तां 26 किनिसरस्वतीम् ॥
पञ्चम्यावृत्तिमाराध्य 27 क्षोभमुदां प्रदर्शयेत् ॥ १०१ ॥

तस्य बाह्ये तु षट्कोणे डाकिनी राकिनी तथा ॥
लाकिनी काकिनी चैव शाकिनी हाकिनी तथा ॥
दर्शयेद्द्राविणीं मुद्रां षष्ठावरणपूजने ॥ १०२ ॥

त्रिकोणे तद्बहिः पूज्याः परा बाला च भैरवी ॥
दर्शयेत्कर्षिणीं मुद्रां पूजा चेत्थं प्रकीर्तिता ॥ १०३ ॥

गणेशाय क्षेत्रपाय योगिन्यै भैरवाय च ॥
तारायै चापि वितरेद्बलिं नित्यं चतुष्पथे ॥ १०४ ॥

परमान्नं च शाकाज्यपायसापूपकादिकान् ॥
बलिद्रव्यं समाख्यातं येनेष्टं सा प्रयच्छति ॥ १०५ ॥

अस्या ध्यानं त्रिधा वच्मि सत्त्वादिगुणभेदतः ॥
श्वेताम्बराढ्यां हंसस्थां मुक्ताभरणभूषिताम् ॥
चतुर्वक्त्रामष्टभुजैर्दधानां मुद्रिकां भजे ॥ १०६ ॥

वराभये पाशशक्ती ह्यक्षस्रक्पुष्पमालिके ॥
शब्दपाथोनिधौ ध्यायेत्सृष्टिध्यानमुदीरितम् ॥ १०७ ॥

अथ चान्यत्प्रवक्ष्यामि ध्यानं दतवधारय ॥
रक्ताम्बरां रत्नसिंहासनस्थां हेमभूषिताम् ॥ १०८ ॥

एकवक्त्रां वेदसङ्ख्यैर्भुजैः सम्बिभ्रतीं क्रमात् ॥
अक्षमालाम्पानपात्रमभयं वरमुत्तमम् ॥
श्वेवद्वीपस्थितां ध्यायेत्स्थितिध्यानमितीरितम् ॥ १०९ ॥

कृष्णाम्बराढ्यां नौसंस्थामस्थ्याभरणभूषिताम् ॥
नववक्त्राम्भुजैरष्टादशभिर्दधतीं वरम् ॥ ११० ॥

अभयम्परशुं दर्वीं खड्गं पाशुपतं हलम् ॥
भिन्दिपालञ्च मुशलं कर्त्रीं शक्तिं त्रिशीर्शकम् ॥ १११ ॥

संहारास्त्रं वज्रपाशौ खट्वाङ्गं गदया सह ॥
रक्ताम्भोधौ स्थितान्ध्यायेत्संहारध्यानमीरितम् ॥ ११२ ॥

कर्म्मसु क्रूरसौम्येषु ध्यायेन्मन्त्री तथातथा ॥
एवं सिद्धे मनौ मन्त्री गिरा वाचस्पतिर्भवेत् ॥ ११३ ॥

दूर्वोत्थया तु लेखन्या रोचनारसयुक्तया ॥
बालस्याच्छिन्ननालस्य जिह्वायां विलिखेन्मनुम् ॥
सम्प्राप्ते सोष्टमे वर्षे सर्वशास्त्रज्ञतामियात् ॥ ११४ ॥

अयुतमन्त्रसञ्जप्तां वचां बालस्य कण्ठतः ॥
बध्नीयात्पूर्वसम्प्रोक्तं बलिं दत्त्वा विधानतः ॥
द्वादशे वत्सरे प्राप्ते भक्षिता सा कवित्वकृत् ॥ ११५ ॥

ज्योतिष्मतीभवन्तैलं कर्षमात्रं सुमन्त्रितम् ॥
उपरागे जलस्थो योऽश्नीयाद्वाचस्पतिर्भवेत् ॥ ११६ ॥

चतुष्पथे श्मशाने वा हित्वा लज्जाम्भयन्तथा ॥
जपेच्छवं समारुह्य विद्यान्तत्परमानसः ॥ ११७ ॥

शृणोत्यसावमुं शब्दं निशीथे जपतत्परः ॥
पारगो भव विद्यानां सर्वसिद्धिमवाप्नुहि ॥ ११८ ॥

विद्वत्कुलसमुद्भूतमष्टवर्षं शिशुद्वयम् ॥
उपविश्य तयोर्मुर्ध्नि करौ दत्त्वा जपेन्मनुम् ॥ ११९ ॥

वेदान्तन्यायसंयुक्त्या विवदेते उभावपि ॥

यः कौतुकी स आश्चर्य्यं विद्यायाः पश्यतु ध्रुवम् ॥ १२० ॥

विधाय वेदिकां रम्यां विजने कदलीवने ॥
तत्रासीनो जपेद्विद्यामर्कलक्षं विधानतः ॥ १२१ ॥

दासीचालितदोलायामारूढा सुस्मिताननाम् ॥
पुन्नागचम्पकाशोकरम्भाविपिनसंस्थिताम् ॥ १२२ ॥

एवं ध्यात्वा भगवतीं बलिं दद्याज्जपान्ततः ॥
एवं कुर्वन्नरः सर्वमभीष्टं लभते ध्रुवम् ॥ १२३ ॥

निर्वासा विशिखः प्रेतभूमिस्थो यो जपेन्मनुम् ॥
अयुतं कृष्णभूताहे स वाक्सिद्धिमवाप्नुयात् ॥ १२४ ॥

विद्यां सौख्यं धनम्पुष्टिमायुः कीर्त्तिं बलं श्रियम् ॥
रूपं कामयमानेन सेव्येयन्तु सरस्वती ॥ १२५ ॥

अथ लोकेश्वरीं वक्ष्ये त्रिकूटाख्यां सरस्वतीम् ॥
श्रींह्रीङ्क्लीमिति मन्त्रोस्यास्त्रिबीजः परिकीर्त्तितः ॥ १२६ ॥

मुनयस्त्वस्य सम्प्रोक्ता भृगुसम्मोहनादयः ॥
छन्दो निवृच्च गायत्री देवी लोकेश्वरी मता ॥ १२७ ॥

ह्रीम्बीजं क्लीं च शक्तिः स्याद्द्विमन्त्रार्णैः 28 षडङ्गकम् ॥
ध्यानमस्याः प्रवक्ष्यामि नानारत्नचये स्थितः ॥ १२८ ॥

सुवर्णजः कल्पतरुर्मणिकुट्टिमभूमिगः ॥
तस्याधस्ताद्रत्नमये स्थितां सिंहासनोपरि ॥ १२९ ॥

श्वेतपद्मे समासीनाम्मणिकुण्डलभूषिताम् ॥
केयूरहारमुकुटरसनानूपुरान्विताम् ॥ १३० ॥

पद्मद्वयं पाशवरौ चाङ्कुशेक्षुशरासने ॥
अभीतिं पुष्पबाणांश्च दधानां करपल्लवैः ॥ १३१ ॥

हेमाभां सप्तदूती भिस्तरुणीभिः समावृताम् ॥
चामरादर्शकरकताम्बूलकरचारुभिः ॥ १३२ ॥

प्रसन्नदृष्ट्या पश्यन्ती साधकं त्विति चिन्तयेत् ॥
सूर्य्यलक्षं जपेन्मन्त्रं हुनेत्त्रिमधुरान्वितैः ॥ १३३ ॥

राजवृक्षसमिद्भिश्च तद्दशांशं प्रहोमयेत् ॥
षट्कोणमध्ये देवेशीं कोणेष्वङ्गानि पूजयेत् ॥ १३४ ॥

लक्ष्मीं हरिं पार्वतीं च शङ्करं च रतिं स्मरम् ॥
पार्श्वद्वये शङ्खपद्मनिधी पूज्यौतदनन्तरम् ॥ १३५ ॥

ब्रह्मादिभिस्तृतीयं स्यात्स्त्रीरूपैर्लोकपालकैः ॥
चतुर्थं पञ्चमन्तेषामायुधैरिति पूजनम् ॥ १३६ ॥

ततः काम्यानि कुर्वीत जपेत्सूर्य्यसहस्रकम् ॥
तावद्धुनेद्बिल्वफलैः सम्पत्तिः परमा भवेत् ॥ १३७ ॥

राजवृक्षसमिद्धोमात्काङ्क्षिताकर्षणम्भवेत् ॥

जपाकुसुमहोमस्तु समस्तजनवश्यकृत् ॥ १३८ ॥

पलाशपुष्पहोमेनात्युत्कृष्टकविता भवेत् ॥
अथातः सम्प्रवक्ष्यामि त्रिपुरां शिवसञ्ज्ञिताम् ॥ १३९ ॥

सबिन्दवो 29 द्वादशैव स्वराः प्रथमबीजकम् ॥
द्वितीयं कामबीजं स्यात्तृतीयं सौरिति स्मृतम् ॥
तुल्यं ज्ञानसरस्वत्या ध्यानन्यासार्चनादिकम् ॥ १४० ॥

अथातः सम्प्रवक्ष्यामि रुद्रविश्वेश्वरीमनुम् ॥
ॐ वांश्रींह्रीं 30 समुच्चार्य्य स्फ्रेंसौं स्वाहान्तको मनुः ॥ १४१ ॥

अष्टाक्षरो मुनिश्चास्य त्रिविक्रम उदाहृतः ॥
रुद्रवागीश्वरी देवी गायत्री छन्द ईरितम् ॥ १४२ ॥

स्वाहा शक्तिश्च वां बीजं षड्भिर्मन्त्रार्णकैः क्रमात् ॥
सांसींसूं 31 चापि सैंसौंसः पूर्वकैरङ्गकल्पनम् ॥ १४३ ॥

सर्वज्ञामृततेजोज्वालामालिनि 32 तदुत्तरम् ॥
तृप्तेत्युक्त्वा वदवद अनादिबोधवज्रिणे ॥ १४४ ॥

वज्रधराय स्वतन्त्रनित्यमलुप्तशक्ति च ॥
सहजातिरूपिणे चानन्तशक्तिबलिं वदेत् ॥ १४५ ॥

पशुं हुम्फट् पाशुपतास्त्रायेति पदमुच्चरेत् ॥
सहस्राक्षायेति मन्त्रः प्रोक्तः सप्ततिवर्णकः ॥
सर्वकामप्रदश्चैवं ध्यानमस्या निरूप्यते ॥ १४६ ॥

शुभ्राभां त्रीक्षणां दोर्भिर्बिभ्रतीं फलपुस्तके ॥
वराभये सर्पभूषां रुद्रवागीश्वरीं भजे ॥
जपपूजाप्रयोगादि ज्ञेयं वाग्वादिनीसमम् ॥ १४७ ॥

अथातः सम्प्रवक्ष्यामि विष्णुवागीश्वरीमनुम् ॥
ॐ श्रींस्फुं श्रीं नमश्चेति षडर्णो मन्त्र उच्यते ॥ १४८ ॥

कश्यपोस्य मुनिः प्रोक्तो गायत्री छन्द ईरितम् ॥
विष्णुवागीश्वरी देवी श्रीं शक्तिः स्फुं च बीजकम् ॥
श्रीम्बीजेन षडङ्गानि ध्यानमस्या निरूप्यते ॥ १४९ ॥

हेमाभां बिभ्रतीं दोर्भिः फलपुस्तककुम्भकान् ॥
अभयं सर्प्पभूषाढ्यां विष्णुवागीष्वरीं भजे ॥
अस्या पूजादिकं षष्ठवर्णवाग्वादिनीसमम् ॥ १५० ॥

अथातः सम्प्रवक्ष्यामि मुख्यवागीश्वरीमनुम् ॥

ह्रीं वाचस्पते अमृतप्लूः प्लूंह्रींसौं च संवदेत् ॥ १५१ ॥

द्वादशार्णो मन्त्र उक्तो मुनिः कण्ठः प्रकीर्त्तितः ॥
विष्णुवागीश्वरी देवी विराट् छन्दः प्रकीर्त्तितम् ॥ १५२ ॥

प्लुः शक्तिर्वाक्च बीजं स्याद्धृत्तु वाचस्पते इति ॥
अमृतेति शिरः प्रोक्तं प्लूः शिखा प्लूं च वर्म्मकम् ॥
वाचस्पते अमृतेति नेत्रं प्लूः प्लूं तथास्त्रकम् ॥ १५३ ॥

ध्यानपूजादिकं प्राग्वत्प्रयोगः कथ्यतेधुना ॥
संवत्सरं हविष्याशी सहस्रम्प्रत्यहञ्जपेत् ॥ १५४ ॥

जपान्ते दशवारञ्च जप्त्वा तेनोदकं पिबेत् ॥
तेन लोकोत्तरा मेधा जायते नात्र संशयः ॥ १५५ ॥

जपेद्गोमूत्रपक्वाशी तिथिलक्षं मनुं त्विमम् ॥
साज्यकोलसमिद्भिस्तु हुनेदष्टसहस्रकम् ॥
भूतम्भव्यं वर्त्तमानं सर्वं जानाति साधकः ॥ १५६ ॥

कपिलाज्ययुतं ब्राह्मीरसम्प्रातस्तु यः पिबेत् ॥
चुलुकैकम्मन्त्रितन्तु दशवारम्मलत्रयम् ॥ १५७ ॥

धारयेद्वेदशास्त्रादि प्रोक्तञ्च त्वेकवारकम् ॥
सकृच्छ्रुतन्तु यत्तेन न च विस्मर्य्यते क्वचित् ॥ १५८ ॥

अथातः सम्प्रवक्ष्यामि पद्मावत्या मनुं शुभम् ॥
ह्रीं च पद्मावति स्वाहा सप्तार्णः परिकीर्त्तितः ॥ १५९ ॥

ऋषिर्ब्रह्मा च च गायत्री छन्दः पद्मावती सुरी ॥
स्वाहा शक्तिश्च ह्रीं बीजं षड्दीर्घस्वरयुक्तया ॥
प्रकुर्य्यान्माययाङ्गानि 33 ध्यानमस्या निरूप्यते ॥ १६० ॥

रकोत्पलकरद्वन्द्वां पद्मस्थां कमलाननाम् ॥
बन्धूकाभां त्रिनयनां नानाकल्पोज्ज्वलां स्मरेत् ॥ १६१ ॥

शक्तिपीठे यजेद्देवीं पुरोङ्गानि च मातृकाः ॥
लोकपालांस्तदस्त्राणि पद्मावत्यर्चनं स्मृतम् ॥ १६२ ॥

लक्षमेकम्पुरश्चर्य्या दशांशं जुहुयाद्धृतैः ॥
एवम्मनुं यो भजते सुभगः सर्वयोषिताम् ॥
पद्मावतीसमान्या तु नास्ति सौभाग्यदा भुवि ॥ १६३ ॥

अथातः सम्प्रवक्ष्यामि ह्यश्वारूढामहामनुम् ॥
तारमुक्त्वा 34 तथा चैहि परमेश्वर्य्यग्निगेहिनीम् ॥ १६४ ॥

दशार्णोयं मुनिर्ब्रह्मा विराट् छन्दश्च देवता ॥
अश्वारूढा षडङ्ङ्गानि ताराद्यैस्त्रिपदैर्द्विधा ॥ १६५ ॥

अश्वारूढां चन्द्रभालां त्र्यक्षां पाशेन साध्यकम् ॥
बध्वानयन्तीं वामेन दक्षे कनकवेत्रिकाम् ॥ १६६ ॥

शक्तिपीठे यजेद्देवीं पुर्ॐगानि प्रपूजयेत् ॥

मातॄरिन्द्रादिदिग्बाह्ये तदस्त्राणि ततो बहिः ॥ १६७ ॥

जपेदयुतसङ्ख्याकं दशांशं जुहुयाद्घृतः ॥
तर्प्पणादि ततः कुर्य्यात्पूर्वोक्तविधिना सुधीः ॥
इत्थं ध्यात्वैव सकलं विश्वं वशयतेऽचिरात् ॥ १६८ ॥

आज्यान्नं जुहुयान्मन्त्री लभते वाञ्छितं फलम् ॥
त्रिमध्वक्तैस्तथा लोनैर्वश्या भूपा हुनेत्तु यः ॥ १६९ ॥

पूर्वोक्तेन विधानेन वश्याः स्युर्वनिता अपि ॥
अनया विद्यया सर्प्पिर्होमः काञ्चनदो मतः ॥ १७० ॥

त्रिस्वादुभिः सहस्रं च हुनेत्स्त्रीवशसिद्धये ॥
पूर्वोक्तेनैव होमेन नारीमाकर्षयेद्ध्रुवम् ॥ १७१ ॥

तारादिरथ 35 माया दिरयमेकादशार्णकः ॥
षड्दीर्घमाययैवास्य षडङ्गविधिरीरितः ॥ १७२ ॥

ॐ ॐ ह्रीं क्र्ॐ पूर्वकोयं प्रोक्तो विश्वमितार्णकः ॥
द्विभूभूत्रीषुयुग्मैश्च षडङ्गविधिरीरितः ॥ १७३ ॥

पञ्चलक्षं पुरश्चर्य्या पूजाद्यं पूर्ववन्मतम् ॥
पूर्वे चावरणे प्रोक्ताः साक्षयाः कीर्त्तिनायिकाः ॥
इन्द्रादिबाह्यावरणे प्रोक्तो ब्राह्म्या विधिस्त्वयम् ॥ १७४ ॥

अथातः सम्प्रवक्ष्यामि सम्यङ्माहेश्वरीविधिम् ॥
ॐ ह्रीन्नमो भगवति माहेश्वर्य्येहि संवदेत् ॥ १७५ ॥

परमे पदमुच्चार्य्ये श्वरि स्वाहान्तको मनुः ॥
तारादिरेकविंशार्णोऽश्वारूढावत्परं मतम् ॥ १७६ ॥

वृषारूढां भालचन्द्रां त्रिनेत्रां शशिसन्निभाम् ॥
दधतीं शूलडमरुं महाहिवलयां भजे ॥ १७७ ॥

वर्णलक्षं जपेन्मन्त्रं बिल्वपत्रैर्घृतप्लुतैः ॥
जुहुयात्तद्दशांशेन परमैश्वर्य्यवान्भवेत् ॥ १७८ ॥

आदावङ्गानि सम्पूज्य राशिपत्रे ततो यजेत् ॥
आदौ बालां तथा शक्तिं नित्यक्लिन्नाग्निवासिनीम् ॥ १७९ ॥

अन्नपूर्णां तथा गौरीं वज्रप्रस्तारिणीमपि ॥
वज्रेश्वरीं च त्वरितां शिवदूतीं त्रिकण्टिकाम् ॥ १८० ॥

वश्ये त्रिकण्टिकीं चापि स्वस्वमन्त्रैः समर्चयेत् ॥
ततो दिक्पांस्तदस्त्राणि चेत्थं माहेश्वरी मता ॥ १८१ ॥

अथातः सम्प्रवक्ष्यामि बालामन्त्रान्सुसिद्धिदान् ॥
वाक्कामसौस्त्रिबीजानि सौः क्लीम् ऐं च पुनः पठेत् ॥ १८२ ॥

षडर्णोयं मनुः प्रोक्तो दक्षिणामूर्तिको मुनिः ॥
गायत्री छन्द उद्दिष्टं देवी त्रिपुरबालिका ॥ १८३ ॥

पाशाङ्कुशौ पुस्तकाक्षसूत्रे च दधती करैः ॥
रक्ता त्र्यक्षा चन्द्रभाला ध्येया बाला सुरार्चिता ॥ १८४ ॥

न्यासानत्र प्रकुर्वीत षडङ्गान्मातृकासमान् ॥
जपेल्लक्षं दशांशेन होमः पुष्पैर्हयारिजैः ॥ १८५ ॥

पूजा पूर्वोदिते पीठेनङ्गै रत्यादिसायकैः ॥
प्रभादिभिर्दिगीशास्त्रैः प्रयोगः पूर्ववन्मतः ॥ १८६ ॥

श्रीं क्लीं ह्रीम् ऐं कामसौश्च 36 ह्रीं क्लीं श्रीं च नवाक्षरः ॥
ध्यानपूजादिकं सर्वं पूर्वप्रोक्तषडर्णवत् ॥ १८७ ॥

अथान्यत्सम्प्रवक्ष्यामि वाक्कामौसौस्समुच्चरेत् 37
बालत्रिपुरे स्वाहेति दशार्णोऽन्यच्च पूर्ववत् ॥ १८८ ॥

अथान्यत्सम्प्रवक्ष्यामि क्लीं ह्रीम् ऐं च समुच्चरेत् ॥
ततश्च बाले त्रिपुरे सिद्धिं देहि नमस्त्विति ॥ १८९ ॥

चतुर्दशाक्षरो मन्त्रो मुन्याद्यं च षडर्णवत् ॥
प्रयोगाश्चात्र सिध्यन्ति त्रिवर्णोक्तास्तथाखिलाः ॥ १९० ॥

अथान्यो वक्ष्यते ह्रींश्रीक्लीम्मुक्त्वा त्रिपुरेति च ॥
भारति कवित्वं देहि स्वाहान्तोऽन्यच्च पूर्ववत् ॥ १९१ ॥

ह्रीं ह्रीं ह्रीं प्रौढत्रिपुरे ह्यारोग्यमैश्वर्य्यं देहि ॥
स्वाहान्तोष्टादशार्णोयं न्यासाद्यं स्यात्षडर्णवत् ॥ १९२ ॥

ह्रींश्रीङ्क्लीं बालत्रिपुरे मदायत्तां वदेत्ततः ॥
विद्यां कुरु नमः स्वाहा विंशत्यर्णश्च पूर्ववत् ॥ १९३ ॥

अथान्यत्सम्प्रवक्ष्यामि मायां श्रीं क्लीं परात्परे ॥
त्रिपुरे सर्वमित्युक्त्वा ईप्सितं साधयेति च ॥ १९४ ॥

स्वाहा विंशतिवर्णोयं मुन्याद्यन्तु षडर्णवत् ॥
सिद्धे मन्त्रे लक्षजपादभीष्टं सिध्यति ध्रुवम् ॥ १९५ ॥

अथान्यं सम्प्रवक्ष्मामि क्लीं क्लीं श्रीं च ह्रीन्द्वयम् ॥
त्रिपुरे ललिते प्रोच्य मदीप्सितां च योषितम् ॥ १९६ ॥

देहि वाञ्छितमित्युक्त्वा कुरु ज्वलनकामिनीम् ॥
अष्टाविंशतिवर्णोयं श्रीदः सर्वन्तु पूर्ववत् ॥ १९७ ॥

अथान्यं सम्प्रवक्ष्यामि शक्तेरष्टाक्षरं मनुम् ॥
आं श्रीं ह्रीं क्लीङ्क्लीं च ह्री च श्रीममष्टाक्षरो मनुः ॥ १९८ ॥

अजो मुनिश्च गायत्री छन्दः शक्तिश्च देवता ॥
स्त्रीवश्या कर्षणादौ च विनियोग उदाहृतः ॥ १९९ ॥

षड्दीर्घमाययाङ्गानि सर्वैरष्टाङ्गमीरितम् ॥
हृच्छिरश्च शिखा वर्म्म नेत्रास्त्रोदरपृष्ठकम् ॥
अष्टाङ्गं विन्यसेन्मन्त्रं मूलेन व्यापकं चरेत् ॥ २०० ॥

आनन्दरूपिणीं देवीं पाशाङ्कुशधनुःशरान् ॥
बिभ्रतीं दोर्भिररुणां कुचाढ्यां हृदि भावयेत् ॥ २०१ ॥

शाक्ते पीठे यजेद्देवीं हृल्लेखादिभिरङ्गकैः ॥
मातृभिर्लोकपालैश्च वज्राद्यैः पञ्चमावृतिः ॥ २०२ ॥

अष्टलक्षं जपेत्साज्यैर्दशांशं जुहुयात्तिलैः ॥
नित्यक्लिन्नामथो वच्मि नित्यक्लिन्ने मदद्रवे ॥ २०३ ॥

नमश्चेति दशार्णोयं मुनिरत्रिः प्रकीर्त्तितः ॥
नित्यक्लिन्ना देवता च त्रिष्टुप् छन्द उदाहृतम् ॥ २०४ ॥

नित्याद्यैर्हृदयं स्वाहासाम्नायैः शिर ईरितम् ॥
क्लिन्ने स्वाहा शिखा नित्यक्लिन्ने च कवचं मतम् ॥ २०५ ॥

नित्यक्लिन्ने नमश्चास्त्रं ध्यानं पूर्ववदाचरेत् ॥
पूजादिकमथो मन्त्री पूर्ववत्परिकल्पयेत् ॥ २०६ ॥

एकलक्षं जपेन्मत्रन्तद्दशांशं हुनेत्तिलैः ॥
तर्प्पणादि ततः कुर्य्यात्पूर्वोक्तविधिना सुधीः ॥
प्राग्वत्प्रयोगाः सेव्येयं दारिद्रे सुखकारिणी ॥ २०७ ॥

अथातो वह्निवासिन्या नवार्णो मनुरुच्यते ॥
ॐ ह्रीं च वह्निवासिन्यै नमश्चेति मुनिर्मतः ॥ २०८ ॥

वशिष्ठश्च तथा छन्दो गायत्री देवता त्वियम् ॥
शक्तिबीजन्तु शक्तिस्स्यात्कीलकं मध्यमेरितम् ॥ २०९ ॥

विद्याद्द्वितीयबीजेन 38 दीर्घस्वरयुता सुधीः ॥
मायान्तेन षडङ्गानि कुर्य्यान्मन्त्री कराङ्गयोः ॥ २१० ॥

नेत्रयोः कर्णयोर्नासाकपोलास्यध्वजे गुदे ॥
मन्त्राक्षराणि विन्यस्य सर्वेण व्यापकं चरेत् ॥ २११ ॥

तप्तकाञ्चनसङ्काशां नवयौवनसुन्दरीम् ॥
चारुस्मेरमुखाम्भोजां विलसन्नयनत्रयाम् ॥ २१२ ॥

अष्टभिर्बाहुभिर्युक्तां माणिक्याभरणोज्ज्वलाम् ॥
वामहस्तेषु रत्नाब्जं शङ्खं पुण्ड्रेक्षुजं धनुः ॥ २१३ ॥

ग्लौमण्डलं दक्षिणेषु कह्लारं हेमशृङ्गकम् ॥
पुष्पेष्टं मातुलुङ्गं च स्वसमानसखीवृताम् ॥ २१४ ॥

नवकोणे कर्णिकायामादावङ्गानि चार्चयेत् ॥
अष्टयोनिषु सम्पूज्यास्तदग्रास्तु प्रदक्षिणम् ॥ २१५ ॥

ज्वालिनी विश्वलिङ्ग्यन्या मङ्गला च मनोहरा ॥
कमला कितवा विश्वा विविधा चेति शक्तयः ॥ २१६ ॥

तद्बहिर्द्वादशदले सम्पूज्या राशिशक्तयः ॥
मेषा वृषा च मिथुना कर्कटाद्याश्च ता मताः ॥ २१७ ॥

दशदिक्षु तथा चाग्रे दशशक्तीः प्रपूजयेत् ॥
घस्मरां सर्वभक्षां च विश्वाख्या विविधोद्भवाम् ॥ २१८ ॥

चित्ररूपां निस्सपत्नां निरातङ्कां च पावनीम् ॥

अचिन्त्यां वै भवस्तुतां तदग्रे लोकपालकान् ॥ २१९ ॥

तदस्त्राणीति पूजोक्ता देव्याः सर्वसमृद्धिदा ॥
एकलक्षं जपेन्मन्त्रं दशांशं जुहुयाद्घृतैः ॥ २२० ॥

तर्प्पणं मार्ज्जनं कृत्वा ब्राह्मणाराधनं तथा ॥
सिद्धमन्त्रः प्रकुर्वीत प्रयोगान्निजवाञ्छितान् ॥ २२१ ॥

काम्यहोमविधिं वक्ष्ये सम्यग्वाञ्छितदायकम् ॥
शालितण्डुलमादाय प्रस्थं भाण्डे नवे क्षिपेत् ॥ २२२ ॥

तत्फूत्कृत्य सुसंस्कृत्य विद्ययाष्टोत्तरं शतम् ॥
जप्त्वा होमो विधातव्यो महालक्ष्मीकरो भवेत् ॥ २२३ ॥

नित्यमष्टोत्तरशतं पञ्चम्यां प्रतिपद्यपि ॥
शुक्ले सहस्राण्यष्टौ च वर्षमेवं समाचरेत् ॥ २२४ ॥

तदा नृपसमानः स्याद्धनधान्यादिभिर्महान् ॥
घृतहोमादवाप्नोति सकलं वाञ्छितं फलम् ॥ २२५ ॥

पञ्चमीषु विशेषेण पूजां कुर्य्याद्व्रती भवेत् ॥
अथातः सम्प्रवक्ष्यामि ह्यन्नपूर्णेश्वरीमनुम् ॥ २२६ ॥

ॐ श्रीं ह्रीं क्लीं नमः श्चोक्त्वा भगवतिपदं वदेत् ॥
माहेश्वरि चान्नपूर्णे स्वाहा विंशतिवर्णकः ॥ २२७ ॥

छन्दस्त्रिष्टुम्मुनिर्ब्रह्मा ह्यन्नपूर्णा च देवता ॥
ह्रीम्बीजं चापि शक्तिः श्रीं कीलकं क्लीं प्रकीर्तितम् ॥ २२८ ॥

षड्दीर्घयुक्तहृल्लेखा षडङ्गेषु प्रकीर्तिता ॥
ब्रह्मरन्ध्रे च सीमन्ते भाले भ्रूमध्ययोर्नसि ॥ २२९ ॥

वक्त्रे कण्ठे च हृदये कुक्षिनाभ्योश्च लिङ्गके ॥
आधारे स्फिग्द्वये बाहुद्वये जानुद्वये तथा ॥ २३० ॥

पादयोश्च नवद्वारे पदन्यास उदाहृतः ॥
पुनर्मूर्धनि भाले च भ्रूमध्ये च मुखे गले ॥ २३१ ॥

हृन्नाभिलिङ्गे पदयोः पदानि क्रमतो न्यसेत् ॥
व्युत्क्रमेण पुनःपायुलिङ्गनाभ्यादिषु न्यसेत् ॥ २३२ ॥

ब्रह्मरन्ध्रास्यहृदयं मूलाधारेषु विन्यसेत् ॥
चतुर्बीजानि शेषांस्तु मातृकोक्तस्वरस्थले ॥
व्यापकं च ततः कुर्य्यात्सर्वमन्त्रेण साधकः ॥ २३३ ॥

तप्तकाञ्चनसङ्काशां बालेन्दुकृतशेखराम् ॥
नवरत्नप्रभादीप्तमुकुटां कुङ्कुमारुणाम् ॥ २३४ ॥

चित्रवस्त्रपरीधानां मीनाक्षीं कमलस्तनीम् ॥
नृत्यन्तीमीशमनिशं दृष्ट्वानन्दमयीं पराम् ॥ २३५ ॥

सानन्दमुखलोलाक्षीं मेखलाढ्यनितम्बिनीम् ॥
अन्नदानरतां नित्यां भूमिश्रीभ्यां नमस्कृताम् ॥ २३६ ॥

दुग्धान्नभरितं पात्रं सरत्नं वामहस्तके ॥
दक्षिणे तु करे देव्या दर्वीं ध्यायेत्सुवर्णजाम् ॥ २३७ ॥

त्रिकोणं च चतुष्पत्रवसुपत्रं ततःपरम् ॥
कलापत्रं च भूबिम्बं चतुरस्रत्रयावृतम् ॥ २३८ ॥

आदावङ्गानि सम्पूज्य त्रिकोणाग्रे शिवं यजेत् ॥
ॐ ह्रां शिवायेति पूजामन्त्रोयं वै नगाक्षरः ॥ २३९ ॥

अनेन पूजयेद्देवं ध्यानं तस्य निरूप्यते ॥
गोक्षीरधामधवलं पञ्चवक्त्रं त्रिलोचनम् ॥ २४० ॥

प्रसन्नवदनं शान्तं नीलकण्ठविराजितम् ॥
कपर्द्दिनं स्फुरत्सर्पभूषणं मल्लसन्निभम् ॥
नृत्यन्तमीश्वरं देवं त्रिकोणाग्रे सुरेश्वरम् ॥ २४१ ॥

वामभागे त्रिकोणस्य वराहं परिपूजयेत् ॥
तारो नमो भगवते वराहपदमुच्चरेत् ॥ २४२ ॥

रूपाय भूर्भुव इति स्वःपतये च कीर्त्तयेत् ॥
भूपतित्वं मे देहीति प्रदापय शिखिप्रियाम् ॥
वराहपूजने प्रोक्तो मन्त्रो रामाग्निवर्णकः ॥ २४३ ॥

नारायणं दक्षकोणे नमो नारायणाय च ॥
ताराद्येनाष्टवर्णेन मन्त्रेण परिपूजयेत् ॥
वामदक्षिणयोः पूज्ये भूश्रियौ स्वस्वमन्त्रतः ॥ २४४ ॥

अन्नं 39 मह्यमन्नमिति देहीत्युक्त्वा पुनर्वदेत् ॥
अन्नाधिपतये चेति ममान्नं च प्रदापय ॥ २४५ ॥

स्वाहान्त आकृत्यर्णोयं ग्लौम्पुटो 40 भूमिपूजने ॥
श्रीपूजने शीपुटः स्याच्चतुष्पत्रे ततोर्चयेत् ॥ २४६ ॥

पश्चिमादिक्रमेणैव परविद्यां ध्रुवेण 41 च ॥
भुवनेशी स्वबीजेन 42 रमया 43 कमला तथा ॥ २४७ ॥

शुभगां कामबीजेन ब्राह्म्याद्यास्त्वष्टपत्रके ॥
चन्द्रमण्डलरूपिण्यः पश्चिमादिक्रमेण च ॥ २४८ ॥

कलाः षोडश सम्पूज्या ह्यन्नपूर्णायै संवदेत् ॥
तन्नामान्ते नमश्चोक्त्वा इति मन्त्रेण पूजयेत् ॥ २४९ ॥

अमृता मानदा तुष्टिः पुष्टिः प्रीती रतिश्च ह्रीः ॥
श्रीश्च स्वाहा स्वधा ज्योत्स्ना ततो हैमवती भवेत् ॥ २५० ॥

छाया च पूर्णिमा नित्या अमावस्येति षोडश ॥
भूपुरे लोकपालाश्च तदस्त्राणि तदग्रतः ॥ २५१ ॥

लक्षं जपेत्सनियमो दशांशेन च होमयेत् ॥
रम्यपायससर्पिर्भ्यां सिद्धिदा भवति ध्रुवम् ॥ २५२ ॥

तर्प्पणादि ततः कुर्य्यात्पूर्वोक्तविधिना सुधीः ॥
अन्नपूर्णेश्वरी देवी पूजितान्नसुवर्णदा ॥ २५३ ॥

बीजहीनेयमेव स्यात्षोडशार्णा तथा परा ॥
मायाद्या चाथ ताराद्या मता सप्तदशाक्षरा ॥

मायातारादिका चान्या गदिताष्टादशाक्षरा ॥ २५४ ॥

मुन्याद्याः पूर्वमुदिता माययाङ्गक्रिया मता ॥
अष्टनागेन्द्रवज्राद्यैः साधयेत्पूर्ववच्च ताः ॥ २५५ ॥

अन्नप्रदाख्यमन्त्रस्य पूर्वोक्तस्योच्यते विधिः ॥
ऋषिर्ब्रह्माकृतिश्छन्दो देवते भूश्रियौ मते ॥ २५६ ॥

पञ्चाङ्गानि मनोर्वर्णैर्वेदेष्वृत्वङ्गवायुभिः ॥
क्षीराब्धौ स्वर्णरजतद्रवद्वीपे सुरान्विते ॥ २५७ ॥

शुभकल्पद्रुमावृत्तिशोभिते मणिकुट्टिमे ॥
वित्तपस्याग्रतस्तत्र स्वासीने वसुधाश्रियौ ॥ २५८ ॥

धनौधान्संसृजन्त्यौ च भक्तार्थं प्रतिचिन्तयेत् ॥
आवाह्य वैष्णवे पीठे देव्या गन्धादिभिर्यजेत् ॥ २५९ ॥

पूर्वमङ्गानि सम्पूज्य पूजयेच्च दलाष्टके ॥
दिग्दलेषु क्रमात्खं च वायुमग्निं तथा जलम् ॥ २६० ॥

विदिग्दले निवृत्तिं च प्रतिष्ठामीशकोणतः ॥
विद्यां शान्तिं ततो बाह्येष्टदले चाष्ट शक्तयः ॥ २६१ ॥

एकाक्षरं श्रियः प्रोच्य बलाकाद्याः समर्चयेत् ॥
इन्द्रादयस्तदस्त्राणि पूजा चैवं समीरिता ॥ २६२ ॥

लक्षं जपेदाज्यपक्वेनान्नेन जुहुयात्तथा ॥
तर्प्पणादि ततः कृत्वा विप्रान्सम्भोजयेत्ततः ॥
गुरुं सन्तोष्य यत्नेन मन्त्रसिद्धिमवाप्नुयात् ॥ २६३ ॥

दिनादौ प्रजपेन्मन्त्रमष्टोत्तरशतं बुधः ॥
छत्रधान्यान्नरत्नौघसमृद्धो भवति ध्रुवम् ॥ २६४ ॥

अथान्यं सम्प्रवक्ष्यामि तारो ह्रीं श्रीं मनोभवः ॥
नभो भगवतीत्युक्त्वा माहेश्वरि ममेति च ॥ २६५ ॥

अभीप्सितं तथान्नं च देहियुग्ममनन्तरम् ॥
अन्नपूर्णे वह्निजाया चैकत्रिंशार्णको मनुः ॥ २६६ ॥

युगाङ्गवेदसप्ताब्धिषडर्णैरङ्गकल्पनम् ॥
ध्यानपूजाप्रयोगादि प्राग्वत्सर्वं समीरितम् ॥ २६७ ॥

अथान्यं सम्प्रवक्ष्यामि पञ्चविंशतिवर्णकम् ॥
तारो रमा च हृल्लेखा नमो भगवतीति च ॥ २६८ ॥

माहेश्वरि प्रसन्नेति वरदे पदमुच्चरेत् ॥
अन्नपूर्णेग्निजायान्तो मन्वर्णैरङ्गकल्पनम् ॥ २६९ ॥

त्रिषड्वेदर्त्तुवेदाक्षिवर्णैर्ध्यानजपादिकम् ॥
सर्वं प्राग्वत्परिज्ञेयं विशिष्टं जपतः फलम् ॥ २७० ॥

अथातः सम्प्रवक्ष्यामि गौरीमन्त्रान्महाफलान् ॥
ह्रीं गौरिरुद्रदयिते योगेश्वरिपदं वदेत् ॥ २७१ ॥

हुम्फट् स्वाहा षोडशार्णो गौरीमन्त्र उदाहृतः ॥
अजोस्य मुनिराख्यातोनुष्टुप्छन्दोस्ति देवता ॥ २७२ ॥

गौरी सद्भाग्यशब्दस्य सर्वसम्पत्प्रदायिका ॥
षड्दीर्घमायया कुर्य्यात्षडङ्गानि मनोरथ ॥ २७३ ॥

हेमाभां बिभ्रतीं दोर्भिर्दर्प्पणाञ्जनसाधने ॥
पाशाङ्कुशौ सर्वभूषां तां गौरीं सर्वदा स्मरेत् ॥ २७४ ॥

शाक्ते पीठे यजेद्देवीं चन्दनाद्यैर्मनोहरैः ॥
अङ्गानि पूर्वमभ्यर्च्य सुभगाद्यास्ततो यजेत् ॥ २७५ ॥

सुभगा ललिता चान्या कामिनी काममालिनी ॥
पाशाङ्कुशा दर्प्पणाख्या चाञ्जना च शलाकिका ॥ २७६ ॥

शक्तयो दिक्षु सम्पूज्या आयुधाख्या विदिक्षु च ॥
शक्रादयस्तदस्त्राणि गौरीपूजा समीरिता ॥ २७७ ॥

एकलक्षं जपेन्मन्त्रं दशांशं जुहुयाद्घृतैः ॥
तर्प्पणादि ततः कुर्य्याद्गुरुं सन्तोष्य यत्नतः ॥ २७८ ॥

सिद्धे मन्त्रे प्रकुर्वीत मन्त्री काम्यानि नान्यथा ॥
वामाक्षीणामक्षिमष्या वामोरौ सुलिखेन्मनुम् ॥ २७९ ॥

आच्छादयन्वामदोष्णा तन्मनाः प्रजपेन्मनुम् ॥
शतं सहस्रं लोलाक्षीमानयेत्काममोहिताम् ॥ २८० ॥

एतन्मन्त्रेण जपितं गन्धपुष्पफलादिकम् ॥
दत्तं संसेवितं सर्वजनतावश्यकारकम् ॥ २८१ ॥

अथान्यं सम्प्रवक्ष्यामि सर्वस्त्रीवश्यकारकम् ॥
काङ्क्षितस्त्रीवशङ्करि सुभगे च पृथग्द्वयम् ॥ २८२ ॥

स्त्रीस्वाहेत्यूनविंशार्णो न्यासः प्राग्वत्समीरितः ॥
गौं गौरीमूर्त्तये हृच्च पीठमन्त्र उदाहृतः ॥ २८३ ॥

सुभगायै विद्महे काममालिन्यै धीमहि ॥
तन्नो गौरी प्रचोदयात् ॥ २८४ ॥

गायत्र्या त्वनया सर्वानुपचारान्प्रकल्पयेत् ॥
अङ्गानि पूर्वमभ्यर्च्य सुभगाद्यास्ततो यजेत् ॥ २८५ ॥

तदग्रेष्टदले पूज्या मध्यान्तं स्वाग्रतः क्रमात् ॥
दीर्घाष्टकोपेतमेवं प्रथमं योजितं च वै ॥
सबिन्दुङेन्तं तन्नाम नमोन्तं तन्मनुर्मतः ॥ २८६ ॥

प्रभा ज्ञाना च वाग्वागीश्वरी स्याज्ज्वालिनी ततः ॥
वामा ज्येष्ठा च रौद्री च गुह्यशक्तिः क्रमादिमाः ॥ २८७ ॥

लोकपालास्तदस्त्राणि होमाद्यं पूर्ववन्मतम् ॥
अस्याद्यवर्णतस्त्वर्वाक् साध्याय च प्रयोजयेत् ॥
जपेन्मन्त्रं शतं चापि स वश्यो भवति ध्रुवम् ॥ २८८ ॥

ब्रह्मश्रीनामिकां गौरीमथ वक्ष्ये समासतः ॥
माया नमश्च ब्रह्मश्रीराजिते राजपूजिते ॥ २८९ ॥

जये च विजये गौरी गान्धारी त्रिभुवेति च ॥
न वशङ्करि चेत्युक्त्वा सर्वलोकवशङ्करि ॥ २९० ॥

सर्वस्त्रीपुरुषेत्युक्त्वा सर्वलोकवशं करि ॥
पदं वदेत्सुदु द्वे द्वेहीं स्वाहा भूरसार्णवान् ॥
ऋषिर्ब्रह्मा निवृच्छन्दो गौरी देवी प्रकीर्त्तिता ॥ २९१ ॥

स्वाहाशक्तिश्च बीजं ह्रीं मन्त्रार्णैः स्यात् षडङ्गकम् ॥
इन्द्रदिग्वसुहस्ताशारुद्रार्णैर्ध्यानमुच्यते ॥ २९२ ॥

पूर्णचन्द्रलसन्मौलिं बन्धुजीवारुणाङ्गिकाम् ॥
पाशाङ्कुशधरां त्र्यक्षां शुकपुष्पविराजिताम् ॥
शोणलेपां जगद्वन्द्यां कुसुम्भारुणवस्त्रिकाम् ॥ २९३ ॥

आदावङ्गानि सम्पूज्य मातृकावेष्टनं ततः ॥
लोकपालांस्तदस्त्राणि पूजाक्रम उदाहृतः ॥ २९४ ॥

अयुतं च जपः कार्य्यः पायसैर्जुहुयात्ततः ॥
मधुरत्रयसंयुक्तैर्होमः स्यात्तिलतण्डुलैः ॥ २९५ ॥

रक्तोत्पलैर्वा लवणैरथ वा मधुरैः फलैः ॥
दिनत्रयं सहस्रं तु शीघ्रं वश्यकरः स्मृतः ॥ २९६ ॥

प्रातःकाले तु सूर्य्यस्य मण्डलस्थां च देवताम् ॥
ध्यात्वा चाष्टोत्तरशतं जपेत्सर्वजगद्वशम् ॥ २९७ ॥

अथ राजमुखीं गौंरीं वक्ष्ये सप्ताब्धिवर्णिकाम् ॥
ॐ राजमुखि राजाधिमुखि वश्यमुखीति च ॥ २९८ ॥

शक्तिश्रीकामबीजानि देविदेवि समुच्चरेत् ॥
महादेवीति देवाधिदेवि सर्वजनस्य च ॥ २९९ ॥

मुखं मम वशं चेति कुरुयुग्माग्निगेहिनी ॥
मत्रवणस्तु हृदयं त्रिंशद्भिः शिर ईरितम् ॥ ३०० ॥

मन्त्रारम्भात्पुनः सप्तदशभिस्तु शिखा स्मृता ॥
वर्म्माष्टभिः शरैर्नेत्रं मेघैरस्त्रं प्रकीर्त्तितम् ॥ ३०१ ॥

ऋष्यादि ध्यानपूजादि प्राग्वद्वक्ष्ये प्रयोगकम् ॥
सर्वजनपदस्थाने साध्यनाम नियोजयेत् ॥ ३०२ ॥

जपहोमतर्प्पणादिकरणे परमं वशम् ॥
मधुरत्रयसंयुक्तमष्टोत्तरशतं हुनेत् ॥ ३०३ ॥

सपुष्पासहदेव्यास्तु समिधः सप्तरात्रकम् ॥
तद्भस्मना प्रयोगस्तु समस्तजनवश्यकृत् ॥ ३०४ ॥

अथास्य भेदं वक्ष्यामि हसरा वाग्भवान्विताः ॥
आद्यकूटं द्वितीयं स्याद्राजमुख्यादि पूर्ववत् ॥
अष्टचत्वारिंशदर्णो मन्त्रस्तद्वत्समीरितः ॥ ३०५ ॥

यो विशेषस्तं तु वक्ष्ये भवर्ध्यब्ध्यब्धिसायकैः ॥
मेघैश्चापि मनोर्वर्णैः षडङ्गविधिरीरितः ॥ ३०६ ॥

जपहोमादिकं प्राग्वत्प्रयोग इह तूच्यते ॥
सुसम्पन्नं घृतं हुत्वा सहस्रं सप्तवारकम् ॥
सम्पाताज्यन्तु साध्यस्य प्राणिनां वशकारकम् ॥ ३०७ ॥

साध्यनक्षत्र वृक्षेण कुर्य्यात्साध्याकृतिं शुभाम् ॥
तस्या मनुं प्रतिष्ठाप्य प्राङ्गणे निखनेच्च ताम् ॥ ३०८ ॥

तत्रानलं समाधाय रक्तचन्दनसंयुतैः ॥
जपापुष्पैर्निशीथिन्यां जुहुयात्सप्त वासरान् ॥ ३०९ ॥

सहस्रं प्रत्यहं पश्चात्तां निष्कास्य सरित्तटे ॥

निखनेत्साधकस्तस्य साध्यो दासो भवेद् ध्रुवम् ॥ ३१० ॥

अथातः सम्प्रवक्ष्यामि वज्रप्रस्तारिणीमनुम् ॥
वाग्बीजं चापि हृल्लेखा नित्यक्लिन्ने मदद्रवे ॥ ३११ ॥

स्वाहान्तो द्वादशार्णोयमङ्गिरास्तु मुनिर्मतः ॥
त्रिष्टुप्छन्दो देवता च वज्रप्रस्तारिणी मता ॥ ३१२ ॥

बीजेनाद्येन चाङ्गानि षट् च दीर्घान्वितेन च ॥
अस्या पूजादिकं सर्वं नित्यक्लिन्नावदाचरेत् ॥ ३१३ ॥

अथातः सम्प्रवक्ष्यामि वज्रेश्वर्य्या महामनुम् ॥
ह्रीं क्लीं क्लिन्ने तथा क्र्ॐ च पश्चान्नित्यमदद्रवे ॥ ३१४ ॥

ह्रीं चेति द्वादशार्णोयं बीजं शक्तिश्च ह्रीं मता ॥
ऋषिर्ब्रह्मा च गायत्री छन्दो वज्रेश्वरी सुरी ॥ ३१५ ॥

आद्यो माया भवेद्बीजं चान्तिमा शक्तिरुच्यते ॥
वाग्भवं कीलकं ज्ञेयं ह्रीं क्लीं ह्रीं च हृन्मनुः ॥ ३१६ ॥

ह्रीं 44 क्लीं शिरः शिखा ह्रीं क्र्ॐ ह्रीमथ कवचं भवेत् ॥
ह्रीं नित्यक्लिन्ने ह्रीं नेत्रं ह्रीं मदे ह्रीमितीरितम् ॥ ३१७ ॥

ह्रीं द्रवे ह्रीमिदं चास्त्रं वर्णन्यासक्रमं ब्रुवे ॥
इत्येवं शक्तिपुटितान्मन्त्रार्णान्दश विन्यसेत् ॥ ३१८ ॥

श्रोत्रनासाकपोलाक्षिनाभिगुह्येषु च क्रमात् ॥
ततः सञ्चिन्तयेद्देवीं सर्वसौख्यप्रदायिनीम् ॥ ३१९ ॥

रक्तां रक्ताम्बरां रक्तगन्धमाल्यविभूषिताम् ॥
चतुर्भुजां त्रिनयनां माणिक्यमुकुटोज्ज्वलाम् ॥ ३२० ॥

पाशाङ्कुशाविक्षुचापदाडिमीपुष्पसायकान् ॥
दधानां बाहुभिर्नेत्रैर्दर्प्पणामोदशीतलैः ॥ ३२१ ॥

पश्यन्तीं साधकं त्र्यस्रे षट्कोणाढ्यमहीपुरे ॥
चक्रमध्ये सुखासीनां स्मेरवक्त्रसरोरुहाम् ॥ ३२२ ॥

शक्तिभिः स्वस्वरूपाभिरावृतां पोतमध्यगाम् ॥
सिंहासनेऽभितः प्रेङ्खत्पोतस्थाभिश्च शक्तिभिः ॥ ३२३ ॥

वृतान्ताभिर्विनोदाप्तां यातायातादिभिस्तथा ॥
शोणाब्धौ हेमपोते च सिंहासनमनन्तरम् ॥
तत्र चक्रं तत्र देवीं सम्यगावाह्य पूजयेत् ॥ ३२४ ॥

त्रिकोणस्याग्रमारभ्य चेच्छां ज्ञानां क्रियाभिधाम् ॥
शक्तिं सम्पूज्य देव्यास्तु वामकोणादितोर्चयेत् ॥ ३२५ ॥

शक्तिषट्कं च षट्कोणे डाकिनीं राकिनीं तथा ॥
लाकिनीं काकिनीं चैव शाकिनीं हाकिनीं तथा ॥ ३२६ ॥

बहिर्द्वादशपत्रे च देव्यग्रात्सव्यतो यजेत् ॥
हृल्लेखां क्लेदिनीं क्लिन्नां क्षोभिणीं मदनातुराम् ॥ ३२७ ॥

निरञ्जनीं रागवतीं तथैव मदनावतीम् ॥
मेखला द्राविणीं वेगवतीं द्वादक्षशक्तिकाः ॥ ३२८ ॥

तद्वहिः षोडशदले कमलां कामिनीं यजेत् ॥
कृत्यां कान्तां च कलितां कौताख्यां च किरातिकाम् ॥ ३२९ ॥

कलां च कलनां चैव कौशिकीं कम्बुवादिनीम् ॥
कातरां ककटां कीर्त्तिं कुमारीं कुङ्कुमामपि ॥ ३३० ॥

चतुरस्रे तु देव्यग्रे द्वारदक्षिणपार्श्वतः ॥
क्रमाद्यजेद्द्वारयोर्द्धेकोणेकोणे तथैकिकाम् ॥ ३३१ ॥

भगिनीं वेगिनीं नागां चपलां पेशलां सतीम् ॥
रतिं श्रद्धां भोगलोलां मन्दां मत्तां मनस्विनीम् ॥
यजेदाशाधिपान्बाह्ये तदणास्त्रि ततो बहिः ॥ ३३२ ॥

एवं सम्पूजयन्मर्त्यो दारिद्र्यान्मुच्यतेऽचिरात् ॥
रोगापमृत्युदौर्भाग्यजराशोकादिविच्युतः ॥ ३३३ ॥

मन्त्री लक्षत्रयं जप्त्वा तद्दशांशं हुनेद्घृतैः ॥
आरग्वधप्रसूनैर्वा प्रसूनैर्बकुलोद्भवेः ॥ ३३४ ॥

तर्प्पयेद्विधिना तद्वत्सलिलैर्भक्तिमान्सुधीः ॥
आत्मानमभिषिच्याथ तर्प्पयेद्ब्राह्मणानपि ॥ ३३५ ॥

एवं संसिद्धन्मत्रस्तु नित्यार्चानिरतः सदा ॥
गुरुभक्तः प्रकुर्वीत प्रयोगान्निजवाञ्छितान् ॥ ३३६ ॥

सहस्रजापी स्थितधीर्मन्त्रवीर्य्यविदात्मवान् ॥
यः सोपि काम्यान्कुर्वीत प्रयोगान्निजवाञ्छितान् ॥ ३३७ ॥

यदज्ञानेन मोहेन चापलेनाथ वा चरेत् ॥
अनर्थक्लेशरोगादि पीडाः प्राप्नोति निश्चितम् ॥ ३३८ ॥

अरुणैः पङ्कजैर्होमं कुर्य्यात्त्रिमधुरप्लुतैः ॥
षण्मासाल्लभते लक्ष्मीं महतीं श्लाघ्यविग्रहाम् ॥ ३३९ ॥

कह्लारैः क्षाद्रसंयुक्तैः पूर्णाब्दं तद्दिनावधि ॥
जुहुयान्नित्यशो भक्त्या सहस्रं विकचैः शुभैः ॥ ३४० ॥

तद्दिनेषु च पूर्वोक्तान्भोजयेदुक्तरूपतः ॥
तावज्जपेच्च होमान्ते यावत्सङ्ख्यं हुतं कृतम् ॥ ३४१ ॥

चम्पकैः क्षौद्रसंसिक्तैः सहस्रहवनाद् ध्रुवम् ॥
लभते स्वर्णनिष्काणां शतं मासेन पूववत् ॥ ३४२ ॥

पाटलैर्घृतसंयुक्तैर्जुहुयात्त्रिसहस्रकम् ॥
दर्शादिमासाल्लभते चित्राणि वसनानि च ॥ ३४३ ॥

कर्पूरचन्दनादीनि सुगन्धीनि च मासतः ॥
वस्तूनि लभते हृद्यैर्वस्तुभिर्भागयोगिभिः ॥ ३४४ ॥

शालिभिः क्षीरसंसिक्तैर्मन्त्रविच्च शतं हुनेत् ॥
तेन शालिसमृद्धिः स्यान्मासैः षड्भिरसंशयम् ॥ ३४५ ॥

तिलैर्हुतैस्तु दिवसैर्वर्षादारोग्यमाप्नुयात् ॥

स्वजन्मसूचिषु तथा दूर्वाभिर्जुहुयात्सुधीः ॥

निरातङ्को महाभागो शतं वर्षाणि जीवति ॥ ३४६ ॥

गुडूचीतिलदूर्वाभिः स्वजन्मसु सदा हुनेत् ॥
चिरायुः श्रीयशोभाग्यपुण्यदृष्ट्यादिभाग्भवेत् ॥ ३४७ ॥

घृतपायसदुग्धैश्च हुनेत्तेषु त्रिषु क्रमात् ॥
आयुरारोग्यविभवैर्जनमान्यो भवेत्तदा ॥ ३४८ ॥

सप्तम्यां कदलीहोमात्सौभाग्यं लभते ध्रुवम् ॥
दूर्वात्रिकैस्तु प्रादेशमात्रैस्त्रिस्वादुसंयुतैः ॥
षण्मासादब्दतो वापि रोगमुक्तः सुखी भवेत् ॥ ३४९ ॥

तद्दिनेषु जपेद्विद्यां नित्यशः सलिलं स्पृशन् ॥
सहस्रवारं तैस्तोयैः स्नानं पानं समाचरेत् ॥
पाकाद्यमपि तेनैव कुर्य्याद्रोगविमुक्तये ॥ ३५० ॥

साध्यर्क्षवृक्षसञ्चूर्णं त्र्यूषर्णं 45 सर्षपास्तिलाः ॥
पिष्टं च साध्यपादोत्थरजसा च समन्वितम् ॥
कृत्वा पुत्तलिकान्तैस्तु हृदयेन च संयुताम् ॥ ३५१ ॥

प्राग्वच्छित्त्वायसैः शस्त्रैस्तीक्ष्णैः पुत्तलिकां हुनेत् ॥
त्रिसहस्रं त्रियामायां सर्षपैस्तद्रसप्लुतैः ॥
शतयोजनदूरादप्यानयेद्वनिता बलात् ॥ ३५२ ॥

तान्तु पुत्तलिकां मद्यमधूच्छिष्टसमन्विताम् ॥
कृतप्राणप्रतिष्ठां च श्मशाने निखनेन्निशि ॥
क्लेशैस्तैः स विनिर्मुक्तः सुखी जीवति भूतले ॥ ३५३ ॥

साध्यवृक्षेण कृत्वा तां सर्षपाढ्येन चेप्सिताम् ॥
तोयमध्ये निधायैतां क्वाथयेद्युतवासरे ॥
वैरी घोरज्वरेणार्त्तः कृते प्राग्वत्सुखी भवेत् ॥ ३५४ ॥

तथैव चण्डिकागेहे यथाविधियुतो यजेत् ॥
साध्यो वशः स्यान्नृपतिर्भास्करायतने तथा ॥
तद्विधानेन सहितेशत्रुरुन्मादवान्भवेत् ॥ ३५५ ॥

अथातः सम्प्रवक्ष्यामि त्वरितामन्त्रमुत्तमम् ॥
ॐ ह्रीं ह्रूं खें चें क्षैं क्षः श्रीं ह्रूं क्षें ह्रीं फट् मनुर्भवेत् ॥ ३५६ ॥

त्वरिताया द्वादशार्णो मुनिरर्जुन ईरितः ॥
विराट् छन्दश्च ॐ बीजंह्रीं शक्तिस्त्वरिता सुरी ॥ ३५७ ॥

ॐ ह्रीं ह्रूं हृदयं प्रोक्तं शिरः खेञ्चें समीरितम् ॥
क्षैं क्षः शिखा च वर्म्म श्रीं ह्रूं क्षें नेत्रम्प्रकीर्त्तितम् ॥ ३५८ ॥

ह्रीम्फडस्त्रं षडङ्गानि कृत्वा वर्णांस्ततो न्यसेत् ॥
कपालकण्ठहृन्नाभिगुह्योरुषु सजानुषु ॥
जङ्घयोः पादयोर्मन्त्री सर्वेण व्यापकञ्चरेत् ॥ ३५९ ॥

लसच्छ्यामतनुं रक्तपङ्कजोद्यत्पदाम्बुजाम् ॥
ताटङ्कातङ्कविद्योतिरशनानूपुरात्मकैः ॥ ३६० ॥

विप्रक्षत्रियविट्शूद्रजातिभिर्भीमविग्रहैः ॥

द्विद्विक्रमादष्टनागैः कल्पितोद्यत्सुभूषणाम् ॥ ३६१ ॥

पल्लवाङ्कुशसंवीतशिखिपुच्छकृतैः शुभैः ॥
वलयैर्भूषितभुजाम्माणिक्यमुकुटोज्ज्वलाम् ॥ ३६२ ॥

बर्हिबर्हकृतापीडां छत्रान्तान्तत्पताकिनीम् ॥
गुञ्जाफललसद्धारविलसत्कुचमण्डलाम् ॥ ३६३ ॥

त्रिनेत्रां चारुवदनां मन्दस्मितमुखाम्बुजाम् ॥
वराभयकरां गण्डद्वयाम्मुकुटशोभिताम् ॥ ३६४ ॥

फणासहस्रसंयुक्तावथ तक्षकवासुकी ॥
शङ्खपालः स्वर्णवर्णः फणाष्टकशतावृतः ॥
आसने हेमरचिते त्वष्टसिंहवृतेऽभितः ॥ ३६५ ॥

आदौ तु पीठमन्त्रेण देवीपीठम्प्रपूजयेत् ॥
क्षंह्रुंहंवज्रदेहेति 46 क्षिं चोक्त्वाथ कुरुद्वयम् ॥ ३६६ ॥

गर्ज्जद्वयन्तथा हुं हुं छां च पञ्चाननाय च ॥
नमः षड्विंशदर्णोयं कुर्य्यादष्टदलन्ततः ॥ ३६७ ॥

कर्णिकायाञ्च पूर्वादिकेशरेष्वष्टसुक्रमात् ॥
षडङ्गानि प्रणीतां च तद्गायत्रीक्रमाद्यजेत् ॥ ३६८ ॥

ह्रुङ्कालीं खेचरीं चण्डां छेदिनीं क्षेपिणींस्त्रियम् ॥
हूङ्कारीं वा शचीं क्षेमकरीं पूर्वादिपत्रके ॥ ३६९ ॥

तद्बहिर्भूपुरद्वन्द्वं पश्चिमद्वारसंयुतम् ॥
फट्कारीं पूजयेद्द्वारमध्ये देव्यास्तु किङ्करीम् ॥ ३७० ॥

कृष्णां कर्बुरकेशीं च हस्त तालवतीं जयेत् ॥
जयां च विजयां द्वारपार्श्वयोर्वेत्रधारिणीम् ॥ ३७१ ॥

तयोरग्रे किङ्करं च गदाहस्तम्प्रपूजयेत् ॥
किङ्कराय रक्षरक्ष त्वरिताज्ञास्थिरो भव ॥ ३७२ ॥

हुम्फडष्टादशाणार्येम्मन्त्रः किङ्करपूजने ॥
तदग्रे लोकपालांश्च तदस्त्राणि ततो यजेत् ॥
गायत्र्यृचा च सम्पूज्य देवसान्निध्यकारिणीम् ॥ ३७३ ॥

त्वरितादेवि विद्महे तुणिविद्यायै धीमहि ॥
तन्नो देवी प्रचोदयाम् ॥ ३७४ ॥

प्रणवेन विना मन्त्रो भवार्णः परिकीर्त्तितः ॥
मोहनः सर्वलोकानान्तेन मोहननामकः ॥ ४७५ ॥

प्रणवानान्तु नवकमादौ च स्यान्नखार्णवान् ॥
सर्वसिद्धिप्रदातृत्वात्सर्वसिद्धीश्वरो मतः ॥ ३७६ ॥

आरक्तैर्वनसम्भूतैर्मनोज्ञैश्च सुगन्धिभिः ॥
धूपदीपादिभिर्नृत्यगीतैः सम्पूजयेञ्छिवाम् ॥ ३७७ ॥

एवम्पूजां विधायाग्रे यजेद्विद्यां सहस्रकम् ॥
शतं वा कृतहोमस्तु प्राग्वत्पूजां समापयेत् ॥ ३७८ ॥

एवं संस्मृत्य लक्षैकम्प्रजपेन्मनुमुत्तमम् ॥
मध्वक्तबिल्वसमिधो जुहुयात्तद्दशांशतः ॥ ३७९ ॥

सुगन्धिसलिलैश्चैव तर्प्पयेत्त्वरिताम्पराम् ॥
आत्मानमभिषिच्याथ ब्राह्मणानपि भोजयेत् ॥ ३८० ॥

एवंसिद्धे मनौ तस्मै नरनारीनराधिपाः ॥
नमस्क्रियाम्प्रकुर्वन्ति नात्र कार्य्या विचारणा ॥ ३८१ ॥

देवदानवगन्धर्वयक्षचारणयोषितः ॥
सिद्धविद्याधारणां च योषितोप्सरसस्तथा ॥ ३८२ ॥

विस्पष्टजघनोरस्काः पृष्ठदोर्मूलमञ्जुलाः ॥
प्रस्खलत्पदविन्यासाः संस्फुरद्दशनांशुकाः ॥ ३८३ ॥

प्रलोभयन्ति चागत्य मन्त्रिणं ताभिरन्तिके ॥
प्रलोभ्यमानो मन्त्रज्ञो यदा विक्रियते न सः ॥
तदैव वाञ्छितन्तस्मै ददाति त्वरिताखिलम् ॥ ३८४ ॥

सञ्जप्य कर्णयोर्विद्यां पद्भ्यां च जपसिद्धये ॥
सन्ताड्य शीर्षे सहसा मृतमुत्थापयेदसौ ॥ ३८५ ॥

काम्यहोमविधिं वक्ष्ये यथाविधि विधानवित् ॥
कृत्वा योनिं कुण्डमध्ये समाधायाग्निमत्र वै ॥ ३८६ ॥

सम्पूज्य पूर्वविधिना देवतां विधिवत्सुधीः ॥
तिलसर्षपगोधूमशालिधान्ययवैर्हुनेत् ॥ ३८७ ॥

त्रिमध्वक्तैरेकशो वा समेतैर्वा समृद्धये ॥
बकुलैश्चम्पकै रक्तैः कह्लारैररुणोत्पलैः ॥ ३८८ ॥

कैरवैर्मल्लिकाकुन्दमधुकैरिन्दिराप्तये ॥
अशोकैः पाटलैर्बिल्वैस्तत्तदाप्नोति निश्चितम् ॥ ३८९ ॥

दूर्वां गुडूचीमश्वत्थं वटमारग्वधं तथा ॥
सिताज्यलक्षकं हुत्वा रोगान्मुक्तो नरोऽचिरात् 47 ॥ ३९० ॥

इक्षुजम्बूनारिकेरमोचागुडसिता हुनेत् ॥
अचलां लभते लक्ष्मीं भोक्ता च भवति ध्रुवम् ॥ ३९१ ॥

एतैरुदीरितैराज्यमधुक्षीरप्लुतैर्हुनेत् ॥
एकैकैर्वनिता वश्या यावज्जीवं धनादिभिः ॥ ३९२ ॥

एतैराज्यप्लुतैर्भूयो वश्यास्स्युर्हवनात्तथा ॥
क्षीराक्तैस्तैर्हुनेन्मर्त्यो वशे तिष्ठन्त्यशेषतः ॥ ३९३ ॥

सर्षपाज्यैर्हुनेन्मृत्युकाष्ठाग्नौ वैरिमृत्यवे ॥
तदुक्तवैरिणो नित्यम्माषैरपि च तत्कृते ॥ ३९४ ॥

यक्षेन्धनाग्नौ यो नित्यं क्षतजोत्पादितं चरुम् ॥
कारस्करघृतोपेतं फणिशीर्षस्रुचा हुनेत् ॥ ३९५ ॥

कृष्णांशुकशिरोवेश्टः खड्गपाणिश्च रोषवान् ॥
निशायां जुहुयात्सद्यो निहन्तुं वैरिणं हठात् ॥ ३९६ ॥

मृत्युकाष्ठानले तस्य फलैः पत्रैश्च होमतः ॥
सप्तरात्रादरातेस्तु गजाश्वा रोगमाप्नुयुः ॥ ३९७ ॥

चतुरङ्गुलजे होमे चतुरङ्गबलैर्नृपः ॥
सप्ताहाद्रोगमाप्नोति दुःखार्त्तो नैव संशयः ॥ ३९८ ॥

मन्त्रजप्तोदकैः सेकाद्रोगशान्तिर्भविष्यति ॥
तज्जप्तमष्टधा तावद्यज्जलं चुलुकोदकात् ॥ ३९९ ॥

होमसङ्ख्या यावती स्याज्जपसङ्ख्या च तावती ॥
तत्कर्णरन्ध्रजापाच्च नश्येयुश्च विषग्रहाः ॥ ४०० ॥

तद्यन्त्रस्थापनं चैव विषभूतारिनाशनम् ॥
अथातः सम्प्रवक्ष्यामि शिवदूतीमनुम्परम् ॥ ४०१ ॥

माया च शिवदूत्यै हृत्सप्तार्णोयम्मनुर्मतः ॥
ऋषी रुद्रोस्य गायत्री छन्दः स्याद्देवता शिवा ॥ ४०२ ॥

ह्रीं बीजं च नमः शक्तिः शिवदूत्यै च कीलकम् ॥
षड्दीर्घयुक्तमनुना षडङ्गविधिरीरितः ॥ ४०३ ॥

तेनैव पुटितैरङ्गे मन्त्रार्णैर्विन्यसेत्तनौ ॥
श्रोत्रनासाकपोलाक्षिनाभिषु क्रमतः सुधीः ॥
पृष्ठे मनसि विन्यस्य व्यापकं विद्यया चरेत् ॥ ४०४ ॥

निदाघकालमध्याह्नदिवाकरसमप्रभाम् ॥
नवरत्नकिरीटां च त्रीक्षणामरुणाम्बराम् ॥ ४०५ ॥

नानाभरणसम्भिन्नदेहकान्तिविराजिताम् ॥
शुचिस्मितामष्टभुजां स्तूयमानाम्महर्षिभिः ॥ ४०६ ॥

पाशं खटङ्गदां रत्नचषकं वामबाहुभिः ॥
दक्षिणैरङ्कुशं खड्गकुठारं कमलन्तथा ॥ ४०७ ॥

दधानां साधकाभीष्टदानोद्यमसमन्विताम् ॥
ध्यात्वैवम्पूजयेद्देवीं दूतीं दुरितनाशिनीम् ॥ ४०८ ॥

वृत्तद्वयं बहिष्कुर्य्यादन्तरालेङ्गषट्ककम् ॥
त्रिकोणस्याग्रकोणादिप्रादक्षिण्येन तद्बहिः ॥
इच्छाज्ञानक्रियाशक्तीस्त्रिषु कोणेषु पूजयेत् ॥ ४०९ ॥

तद्बाह्ये कोणषट्के तु स्वाग्रतः पूजयेदिमाः ॥
सिद्धा वाणी पूर्णसिद्धाग्रे विग्रहवती तथा ॥ ४१० ॥

नादा मनोन्मनी चेति तद्बहिश्चापि षड्ढले ॥
डाकिन्याद्यास्तदग्रे तु यजेदष्टदलाम्बुजे ॥ ४११ ॥

शिवदूतीसमाकारवर्णायुधसमन्विताः ॥
सुमुखीं सुन्दरीं सारां सुमनां च सरस्वतीम् ॥ ४१२ ॥

समयां सर्वगां सिद्धां तद्बाह्येष्टदले यजेत् ॥
वागीशां वरदां विश्वां विनदां विघ्नकारिणीम् ॥ ४१३ ॥

वीरां विघ्नहरां विद्यां तदग्रे भूपुरे यजेत् ॥
द्वारस्य दक्षिणम्भागं समारभ्य प्रदक्षिणम् ॥ ४१४ ॥

विह्वलां कर्षिणीं लोलां नित्यां मदनमालिनीम् ॥
प्रमोदां कौतुकां पुण्यां लोकेशास्त्राणि तद्बहिः ॥ ४१५ ॥

लक्षञ्जपेत्प्रयत्नेन घृताक्तेन च होमयेत् ॥

तर्प्पयेद्गन्धसलिलैरात्मानमभिषेचयेत् ॥ ४१६ ॥

ब्राह्मणान्भोजयेच्चापि गुरुं यत्नेन तोषयेत् ॥
वशयेद्वनिता होमात्कौशिकैर्मधुमिश्रितैः 48
नारिकेलफलोपेतैर्गुडैर्लक्ष्मीमवाप्नुयात् ॥ ४१७ ॥

तथाज्यसिक्तैः कह्लारैः क्षीराक्तैररुणोत्पलैः ॥
त्रिमध्वक्तैश्चम्पकैश्च प्रसूनैर्बकुलोद्भवैः ॥ ४१८ ॥

मधूकजैः प्रसूनैश्च होमात्कन्यामवाप्नुयात् ॥
पुन्नागजैर्हुतैर्वस्त्राण्याज्यैरिष्टमवाप्नुयात् ॥ ४१९ ॥

महिषीर्माहिषैराज्यैरजागव्यैश्च गास्तथा ॥
अवाप्नोति हुतैराज्यैरम्लै रत्नादि साधकः ॥ ४२० ॥

शालिपिष्टमयीं कृत्वा पुत्तलीं च सितायुताम् ॥
हृद्देशेन्यस्य साध्याख्याम्पचेत्तैलाज्ययोर्निशि ॥ ४२१ ॥

रात्रिन्दिवं तु ताम्मन्त्री विद्याजप्तान्तु भक्षयेत् ॥
सप्तरात्रप्रयोगेण नरो नारी नृपोथ वा ॥
दासवच्च समायाति प्रियं प्राणादि चार्पयेत् ॥ ४२२ ॥

हयारिपुष्पैररुणैस्सितैर्वा जुहुयात्ततः ॥
त्रिसप्तरात्रान्महतीमवाप्नोति श्रियं नरः ॥ ४२३ ॥

छागमांसैस्त्रिमघ्वक्तैर्होमात्स्वर्णमवाप्नुयात् ॥
क्षीराक्तैः सस्यसम्पन्नाम्भुवमाप्नोति मण्डलात् ॥
पद्माक्षैर्जुहुयाल्लक्ष्मीमवाप्नोति त्रिभिर्दिनैः ॥ ४२४ ॥

समस्तापत्तारणीयम्मोहिनी विश्वमोहिनी ॥
श्रीकरा शिवरूपाह्वा प्रोक्ता सर्वसमृद्धिदा ॥ ४२५ ॥

अथातः सम्प्रवक्ष्यामि त्रिवर्णान्तु त्रिकण्टिकाम् ॥
हुङ्खेङ्क्षः फट् चेति मन्त्र ऋष्यादि त्वरितासमम् ॥ ४२६ ॥

षडङ्गन्तु द्विरुक्तार्णैर्ध्यानमस्या निरूप्यते ॥
पादादिनाभिपर्य्यन्तमरुणां नाभितो गलम् ॥ ४२७ ॥

नीलां गलाद्ब्रह्मरन्ध्रं श्वेतां च चतुराननाम् ॥
हस्तेषु शङ्खचक्रे च दीपौ चन्द्रार्धशेखराम् ॥ ४२८ ॥

अर्चयेत्त्वरितापीठे प्रयागोद्यन्तथैव च ॥
वर्णलक्षं जपेदन्ते दशांशेन घृतैर्हुनेत् ॥ ४२९ ॥

आत्मानन्देवतारूपं ध्यात्वा कृत्वा करद्वये ॥
शूलमुद्रां ग्रहग्रस्तान्दृष्ट्वेमम्प्रजपेन्मनुम् ॥ २३० ॥

आशुग्रहात्प्रमुच्येत नरो मन्त्रप्रभावतः ॥
नातः परतरा विद्या ग्रहनिर्वापणक्षमा ॥ ४३१ ॥

अथातः सम्प्रवक्ष्यामि विद्यां वश्यत्रिकण्टिकाम् ॥
खेंस्त्रीङ्क्षें त्र्यर्णमन्त्रोयं निखिलं त्वारतासमम् ॥ ४३२ ॥

अथातः सम्प्रवक्ष्यामि कौमार्य्या विधिमुत्तमम् ॥
कौं कौमार्य्यै नम इति षडर्णो मन्त्र ईरितः ॥ ४३३ ॥

मुनिर्ब्रह्मा च गायत्री छन्दः कौमारिका भवेत् ॥

देवता कौमिदं बीजं कौमार्य्ये शक्तिरुच्यते ॥ ४३४ ॥

मन्त्रवर्णैः षडङ्गानि हृदि ध्यायेच्च देवताम् ॥
शक्त्यक्षस्रग्वराभीतिकरां बन्धूकसन्निभाम् ॥ ४३५ ॥

मयूरध्वजिनीं चैव रक्तामौदुम्बरस्थिताम् ॥
हरित्कञ्चुकिकां रम्यां नानालङ्कारभूषिताम् ॥ ४३६ ॥

आदावङ्गानि चाभ्यर्च्य पञ्चकोणे यजेत्पुनः ॥
अहल्यान्द्रौपदीं सीतान्तारा मन्दोदरीमपि ॥ ४३७ ॥

ब्राह्म्यादिका अष्टदले दिक्पतीनायुधानि तु ॥
मुख्या पूजा भवेदस्याः कुमार्य्या एव नान्यतः ॥ ४३८ ॥

कुमार्यभावेन्यदेशे पूजेयं तु समीरिता ॥
लक्षषट्कञ्जपः प्रोक्तः पञ्चखाद्यैस्तथा हुनेत् ॥ ४३९ ॥

मधुरत्रयसंयुक्तैः सिद्धमन्त्रस्ततो भवेत् ॥
तर्पणम्मार्जनं कृत्वा कुमारीरपि भोजयेत् ॥ ४४० ॥

अथ मोटनकं वक्ष्ये देवाविर्भावकारणम् ॥
पाकक्रिया प्रकर्त्तव्या चतुर्भक्ष्यसमन्विता ॥
भार्यया साधकेन्द्रस्य पातिव्रत्यादियुक्तया ॥ ४४१ ॥

अप्रसूताः स्त्रियः पञ्च आहूय सुकुमारिकाः ॥
अलङ्कृताः पवित्रास्ता एकपङ्क्त्योपवेशयेत् ॥ ४४२ ॥

तदादौ विघ्नपस्थानमन्त्रे तु बटुकस्य च ॥
ताः सम्पूज्य महत्पात्रं पवित्रं च तथा चरेत् ॥ ४४३ ॥

स्वस्वद्विगुणमानेन मध्वाज्यसमितं दधि ॥
दुग्धं च निक्षिपेत्तत्र नैवेद्यन्तत्र निक्षिपेत् ॥ ४४४ ॥

कुमारिकाया हस्तेन मन्थयेयुः स्त्रियश्च तत् ॥
तन्मन्थनान्महेशानि देवावेशः प्रजायते ॥ ४४५ ॥

देवावेशे जायमाने सुगन्धो वाति मारुतः ॥
सर्वं मनोगतं वक्ति देवता सुप्रसीदति ॥ ४४६ ॥

सिद्ध्यन्ति सर्वकार्य्याणि मोटकानां शतेन च ॥
नखैर्भवेद्विवाहस्तु पञ्चाशद्भिः सुतास्तथा ॥ ४४७ ॥

अशीत्या गतराज्याप्तिर्विंशत्या लभते धनम् ॥
अष्टोत्तरशतेनापि साधकेन तु मेलयेत् ॥ ४४८ ॥

कौमारिका चेष्टदेवं कुमार्य्या ईरितो विधिः ॥
अथातः सम्प्रवक्ष्यामि वैष्णवीमन्त्रमद्भुतम् ॥
अकचटतपयशैर्वैष्णव्या मन्त्र ईरितः ॥ ४४९ ॥

अष्टाक्षरो मुनिश्चास्य नारदोनुष्टुबुच्यते ॥
छन्दस्तु वैष्णवी देवी न्यासः प्रणवपूर्वकः ॥ ४५० ॥

मूलमन्त्राक्षरैः कुर्य्यात्त्रिभिस्त्रिभिरनुक्रमात् ॥
विन्यसेदक्षराण्यष्टावोङ्कारं च तथा स्मरेत् ॥ ४५१ ॥

शोणपद्मप्रतीकाशां मुक्तामूर्द्धजम्बिनीम् ॥
लसत्काञ्चनसम्भूतकुण्डलोज्ज्वलशालिनीम् ॥ ४५२ ॥

स्वर्णरत्नसमुन्नद्धकिरीटसूत्रधारिणीम् ॥
कृष्णशुक्लारुणैर्नेत्रैस्त्रिभिश्चापि विभूषिताम् ॥ ४५३ ॥

बन्धूकदन्तरसनाशिरीषसुमनासिकाम् ॥
कम्बुग्रीवां विशालाक्षीं सूर्य्यकोटिसमप्रभाम् ॥ ४५४ ॥

चतुर्भुजां विवसनां पीनोन्नतपयोधराम् ॥
दक्षिणाभ्यां कराभ्या तु खड्गं च जपमालिकाम् ॥ ४५५ ॥

बिभ्रतीं वामहस्ताभ्यां त्वभयं च वरं तथा ॥
अनल्पनागनासोरुं गुप्तगुल्फां सुपल्लिकाम् ॥
गात्रेण रत्नस्तम्भं च सम्यगालम्ब्य संस्थिताम् ॥ ४५६ ॥

किमिच्छसीति वचनं व्याहरन्तीं मुहुर्मुहुः ॥
पञ्चाननं पुरः संस्थं निरीक्षन्तीं स्ववाहनम् ॥ ४५७ ॥

ईदृशीं चण्डिकां ध्यात्वा नमः फडिति मस्तके ॥
स्वबीजे सुमनो दद्यात्साहमेवं विचिन्तयेत् ॥ ४५८ ॥

पञ्चाननं मण्डलस्थं मध्ये वश्यं प्रपूजयेत् ॥
आवाहनं ततः कुर्य्याद्गायत्र्या शिरसा सह ॥ ४५९ ॥

महामायायै विद्महे चण्डिकांयै धीमहि ॥
तन्नो देवी प्रचोदयात् ॥ ४६० ॥

ततस्तु मूलमन्त्रेण गन्धं पुष्पं सदीपकम् ॥
नैवेद्यं च ततो दद्यान्मोदकं पायसं तथा ॥ ४६१ ॥

पुष्पाञ्जलित्रयं दद्यान्मूलमन्त्रेण शोभनम् ॥
एवं सम्पूज्य मध्ये तु मन्त्रेणाङ्गानि पूजयेत् ॥ ४६२ ॥

शैलपुत्रीं चन्द्रघण्टां स्कन्दमातरमेव च ॥
कालरात्रिं च दिक्पत्रेष्वर्चयेच्चन्दनादिभिः ॥ ४६३ ॥

चण्डिकामथ कूष्माण्डां तथा कात्यायनीं शुभाम् ॥
महागौरीं चाग्निकोणनैर्-ऋत्यादिषु पूजयेत् ॥ ४६४ ॥

ततः सम्पूज्य लोकेशीं तदस्त्राणि च मन्त्रवित् ॥
महामायां नमामीति मूलमन्त्रेण चाष्टधा ॥ ४६५ ॥

पूजयेत्पद्ममध्ये तु सुमनाञ्जलिभिस्तथा ॥
अष्टभिश्च महामायां नमामीति च मन्त्रतः ॥ ४६६ ॥

देव्यै समर्प्य धूपादि सर्वं प्राग्वत्समापयेत् ॥
लक्षद्वयं भवेदस्य पुरश्चरणकर्म्म तु ॥ ४६७ ॥

दशांशो होम आज्येन कर्त्तव्यं तर्प्पणादिकम् ॥
अशुचिर्न महामायां पूजयेत्तु कदाचन ॥ ४६८ ॥

अवश्यं तु स्मरेन्मन्त्रं योतिभक्तियुतो भवेत् ॥
दन्तरक्ते समुत्पन्ने स्मरणं न चविद्यते ॥ ४६९ ॥

दुःखान्नेत्रजले जाते क्रोधादिक्षुद्रकर्म्मणि ॥
धूमोद्वारे मैथुने च सूतके मृतके च वै ॥ ४७० ॥

जलौकादर्शने सर्प्पकृमिभूनागदर्शने ॥
कामाज्जातेङ्गनास्पर्शे मृते पितरि वत्सरम् ॥ ४७१ ॥

आसेव्ये गुरुविप्राणां क्षीणे वीर्य्येच्युते तथा ॥
आकर्षे मातृमरणे षण्मासं च गुरौ मृते ॥ ४७२ ॥

भार्य्यामृतौ त्रिमासं च मासमेकं तु राजनि ॥
न स्मरेच्च महामायां शुचितापत्यसिद्धिदाम् ॥ ४७३ ॥

ॐ नमोन्ते महामायायै मनुर्वसुवर्णकः ॥
प्राग्वन्मुन्यादिकं प्रोक्तं पूजाजपमुखं तथा ॥ ४७४ ॥

ॐ नमोन्ते च वैष्णव्यै मन्त्रः प्रोक्तः षडक्षरः ॥
मन्त्रार्णैरत्र चाङ्गानि शेषं पूर्ववदाचरेत् ॥ ४७५ ॥

अथातः सम्प्रवक्ष्यामि सर्वसिद्धिप्रदं मनुम् ॥
नमस्ते चास्तु ह्यभये त्वनघे पूजिते वदेत् ॥
अमिते पदमुच्चार्य्य तदग्रे चापराजिते ॥ ४७६ ॥

ततश्च सिद्धकथिते साधकपदमुच्चरेत् ॥
सिद्धस्मृते महाविद्ये अनेकांसे उमे ध्रुवे ॥ ४७७ ॥

अरुन्धती च सावित्रि गायत्रि जातवेदसि ॥
मानस्तोके सरस्वति रमणी रामणीति च ॥ ४७८ ॥

धरणी धारणी चेति सौदामिनि तथादिति ॥
दितीति विनते चेति गौरि गन्धारि संवदेत् ॥ ४७९ ॥

मातङ्गि कृष्णयशोदे सत्यवादिनि संवदेत् ॥
ब्रह्मवादिनि कालीति कपालिनि करालि च ॥ ४८० ॥

नेत्रसद्यो मातरिति ततः स्थलगतं वदेत् ॥
अन्तरिक्षगतं चेति जलगतं वदेत्पुनः ॥ ४८१ ॥

वामपादान्ते रक्षयुग्मं सर्वभूतपदं वदेत् ॥
सर्वोपद्रवेषु स्वाहा ताराद्यन्तो मनुर्मतः ॥ ४८२ ॥

मुनिर्नारद आख्यातो गाथा छन्दः प्रकीर्तितम् ॥
अघोरवैष्णवी देवी चायुतं जप ईरितः ॥ ४८३ ॥

प्राग्वत्पूजादिकं सर्वं फलमस्य निरूप्यते ॥
यस्याः प्रणश्येत्पुष्पं हि गर्भश्चापि पतेद्यदि ॥ ४८४ ॥

म्रियते बालको यस्याः काकवन्ध्या च या भवेत् ॥
भूर्ज्जपत्रे त्विमा विद्यां लिखित्वा धारयेद्यदि ॥ ४८५ ॥

एतैर्दोषैर्न लिम्पेत सुभगा पुत्रिणी भवेत् ॥
पुमांश्च धारयेद्यश्च सोभीष्टं फलमाप्नुयात् ॥ ४८६ ॥

रणे राजकुले द्यूते सङ्ग्रामे शत्रुसङ्कटे ॥
अग्निचौरभये घोरे नित्यं तस्य जयो भवेत् ॥ ४८७ ॥

नित्यं निवारयेत्तस्य समरे काण्डधारिणी ॥
गुल्मशूलाक्षिरोगाणां क्षिप्रं नाशयति व्यथाम् ॥
शिरोरोगज्वराणां च नाशनं सर्वदेहिनाम् ॥ ४८८ ॥

अथातः सम्प्रवक्ष्यामि त्रैलोक्यविजयाभिधाम् 49

वैष्णवीं चन्द्रवेदाग्निवर्णां साधकसिद्धिदाम् ॥ ४८९ ॥

एकाहिकद्व्याहिकत्र्याहिकचातुर्थिकेति 50 च ॥
मासिकद्विमासिकेति वातिकपैत्तिकेषु च ॥ ४९० ॥

श्लैष्मिके सान्निपातिके सततज्वरसम्म्भवे ॥
विषज्वरग्रहर्क्षादिसर्वदोषान्तकारिणि ॥ ४९१ ॥

कालि सरयुगं गौरी धमयुग्मं वदेत्तथा ॥
विद्याशाले तालमाले रुद्ररूपे पच द्वयम् ॥ ४९२ ॥

विघ्नं नाशय पापं च हर दुस्स्वप्नमित्यपि ॥
विनाशिनि पदं ब्रूयात्ततश्च कमलासने ॥
रजनी सन्ध्ये दुन्दुभिनादे मानस इत्यपि ॥ ४९३ ॥

वेगे शङ्खिनि चक्रिणि वज्रिणी गदिनीति च ॥
ततश्च शूलिनि वदेदपमृत्युविनाशिनि ॥
विश्वेश्वरी द्राविडीति वदेद् द्रविडिकेशि च ॥ ४९४ ॥

दयितेऽतः पशुपतेर्मे दुःखेति पदं वदेत् ॥
विमर्द्दिनि पदं पश्चाद्वदेत्साधकसत्तमः ॥ ४९५ ॥

मोदयुक्ता शर्वरीति किरातिनि पदं वदेत् ॥
मातङ्गी प्रणवं ह्रां ह्रीं ह्रूं क्षौं कुरुयुगं तथा ॥ ४९६ ॥

ये मां द्विषन्ति प्रत्यक्षं परोक्षं वेति तान्वदेत् ॥
सर्वान्हनयुगं चोक्त्वा दमयुग्मं पचद्वयम् ॥ ४९७ ॥

मर्दयद्वितयं चापि तापयद्वयमेव च ॥
द्विःशोषयोत्सादय द्विर्ब्रह्माषडिति च संवदेत् ॥ ४९८ ॥

माहेश्वरीति वाराहि वैनायकि परैन्द्रि च ॥
आग्नेयीति च चामुण्डे वारुणी वायवी तथा ॥ ४९९ ॥

रक्षयुग्मं च चण्डेति इन्द्रोपेन्द्रभगिन्यपि ॥
जये च विजये शान्ति स्वस्तिपुष्टि धृतीति च ॥ ५०० ॥

विवर्तिनी कामुकी च कामदुघे परं वदेत् ॥
सर्वकाम फलेत्युक्त्वा प्रदे सर्वपदं वदेत् ॥ ५०१ ॥

भूतेषु मां प्रियं चेति कुरुद्वन्द्वाग्निवल्लभे ॥

ध्यानपूजादिकं प्राग्वत्पुरश्चर्य्यायुतद्वयम् ॥
प्राग्वद्धोमफलं चास्य साधकः सात्त्विको भवेत् ॥ ५०२ ॥

मानयन्ति च भूपास्तं स शापानुग्रहक्षमः ॥
सन्तत्या चापि सम्पत्त्या भवेत्कीर्त्त्या समन्वितः ॥
दर्शनादेव नश्यन्ति भूताद्या भैरवा अपि ॥ ५०३ ॥

अथातः सम्प्रवक्ष्यामि वैष्णवीमपराजिताम् ॥
तारमाकर्षिणिपदम् आवेशिनि पदं वदेत् ॥ ५०४ ॥

ज्वालामालिनि रमणी रामणी धरणीति च ॥
धारिणी तपनीत्युक्त्वा तापिनि मदोन्मादिनि ॥ ५०५ ॥

शोषिणीतिपदं चोक्त्वा ततः सम्मोहिनीति च ॥
तथा नीलपताकेति महानीले महाप्रिये ॥ ५०६ ॥

महाग्नेयि महाचण्डे महारौद्रि महेति च ॥
वज्रिणीति तथादित्याद्ये च जाह्नवि संवदेत् ॥ ५०७ ॥

यमघण्टे किलिकिलि चिन्तामणिपदं वदेत् ॥
सुरभि सुरोत्पन्ने च सरस्वति पदं ततः ॥ ५०८ ॥

सवकामदुघे प्रोच्य यथा मम मनीषितम् ॥
कार्य्यं तन्मम सिद्ध्यत्विति स्वाहान्तोयं मनुर्मतः ॥ ५०९ ॥

षड्द्वाद’सार्णो मुन्यादिप्राग्वत्सौख्यप्रदो मनुः ॥
जपेद्वर्णशतं होमादिकं पूर्ववदाचरेत् ॥ ५१० ॥

असिद्धसाधिनीं देवीं प्रवक्ष्याम्यथ वैष्णवीम् ॥
ताराद्या वह्निजायान्ता पृथक् च षड्युगं वदेत् ॥ ५११ ॥

तिस्रो व्याहृतयः श्लोकः स्वधास्वाहावसानकः ॥
यत एवागतं पापं तत्रैव प्रतिगच्छतु ॥ ५१२ ॥

ॐ बले अबले महाबले असिद्धसाधिनि ॥
स्वाहान्तः षड्बाणवर्णो लक्षमेकं जपः स्मृतः ॥ ५१३ ॥

तृतीया व्याहृतिश्चात्र स्वरित्येषा 51 प्रकीर्तिता ॥
होमपूजादिकं प्राग्वद्येन सिद्ध्यति देवता ॥ ५१४ ॥

स्वाहान्तैर्मन्त्रखण्डैस्तु हुनेदष्टसहस्रकम् ॥
वसुदेवसहस्राणि चावदानानि तत्र तु ॥ ५१४ ॥

देवकल्पोदितैर्द्रव्यैस्तदा सा देवता वशा ॥
प्राक्कर्म्मप्रतिबद्धापि वैष्णवीत्रासतस्तु सा ॥ ५१६ ॥

साधकस्य मनोभीष्टं कामं यच्छति सत्वरम् ॥
इयं देवी मया पूर्वं ललिता वश्यकामदा ॥

उपासिता तदा जप्ता ललिता ललिता 52 च सा ॥ ५१७ ॥

त्रयास्त्रशत्कोटिदेवनायिका ललिता तु या ॥
बलात्कारेण कामस्य वशीकृत्य यया पुनः ॥ ५१८ ॥

चेटीवन्मदधीना तु स्थापिता त्वं वरानने ॥
यस्य कस्यापि देवस्य होमद्रव्यं विलोक्य च ॥
मन्त्रेणानेन जुहुयात्तत्तत्कर्म्म प्रसिद्ध्यति ॥ ५१९ ॥

इयं होमप्रिया देवी भुक्तिमुक्तिप्रदायिका ॥
मारणोच्चाटने चापि न प्रयोज्या कदाचन ॥ ५२० ॥

अथ वार्तालिकां वक्ष्ये वाराहीं शत्रुघातिनीम् ॥
ऐंलौण्ठण्ठण्ठमिति हुंस्वाहान्तोष्टाक्षरो मनुः ॥ ५२१ ॥

छन्दोनुष्टप् च कपिलो मुनिर्वार्त्तालिकासुंरी ॥
वाराह्यत्र षडङ्गानि क्रमाद्विद्वीन्दुभू?कभिः ॥ ५२२ ॥

द्वाभ्यां ध्यायेत्ततो देवीं विद्युद्भासां कराम्बुजैः ॥
दधानामङ्कुशं पाशं मुद्गरं शक्तिमेव च ॥ ५२३ ॥

विद्युद्भासां त्रिनेत्रां च नाशयन्तीं तथा रिपून् ॥
अङ्गषट्कदिशाधीशायुधानीत्यावृतित्रयम् ॥ ५२४ ॥

वसुलक्षं जपित्वान्ते बिल्वपत्रैर्हयारिजैः ॥
धात्रीफलैर्भृङ्गराजैः कशैश्चापि दशाशतः ॥ ५२५ ॥

होमः कार्य्यस्तर्प्पणादि कुर्य्याद्ब्राह्मणभोजनम् ॥
एवं सिद्धमनुर्मन्त्री प्रयोगान्कर्त्तुमर्हति ॥ ५२६ ॥

अङ्कुशेनारिमानीय बद्ध्वा पाशेन तं दृढम् ॥
मुद्गरेण घ्नतीं मूर्ध्नि तां स्मरन्नयुतं जपेत् ॥ ५२७ ॥

वन्योपलैः प्रजुहुयादयुतं भस्म तत्क्षिपेत् ॥
वापीकपतडागादौ तत्पानीयस्य पानतः ॥ ५२८ ॥

म्रियन्ते रिपवस्तस्य वा हिंसन्ति परस्परम् ॥
स्थानं त्यक्त्वा च गच्छन्ति नात्र कार्य्या विचारणा ॥ ५२९ ॥

अथास्याः सम्प्रवक्ष्यामि मालामन्त्रं सुसिद्धिदम् ॥
ॐ ऐं ग्लौम् ऐं नमश्चोक्त्वा ततो भगवतीति च ॥ ५३० ॥

वाराहिवाराहि युगं वराहमुखि वाग्भवम् ॥
ग्लौम् ऐम् अन्धे अन्धिनीति नमो रुन्धे च रुन्धिनि ॥ ५३१ ॥

नमो जृम्भे जृम्भिणीति नमो मोहे च मोहिनि ॥
नमः स्तम्भे स्तम्भिनीति नम ऐङ्ग्लौं च वाग्भवम् ॥ ५३२ ॥

सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाग्वदेत् ॥
चित्तचक्षुर्मुखगलजिह्वास्तम्भं कुरुद्वयम् ॥ ५३३ ॥

शीघ्रं वश्यं कुरुकुरु ऐङ्ग्लौं मैण्ठचतुष्टयम् ॥
हुम्फट्स्वाहेति मन्त्रोयं वेदरुद्राक्षरः स्मृतः ॥ ५३४ ॥

मुनिः शिवोस्य जगती छन्दो वार्तालिकासुरी ॥
वाराह्यस्य षडङ्गानि वार्त्ताली हृदयं स्मृतम् ॥ ५३५ ॥

वाराहीति शिरः प्रोक्तं शिखावाराहमुख्यपि ॥
अन्धे अन्धिनि वर्म्मोक्तं रुन्धे रुन्धिनि नेत्रकम् ॥ ५३६ ॥

जृम्भे जम्भिणि चास्त्रं स्यात्ततो ध्यायेच्च देवताम् ॥
रक्ताब्जकर्णिकायान्तु शवासनसमास्थिताम् ॥ ५३७ ॥

मुण्डमालालसत्कण्ठां नीलाभान्दधतीङ्करैः ॥
अभयं मुसलञ्चापि फलञ्चापि वरन्तथा ॥ ५३८ ॥

वराहास्यान्तुङ्गकुचां त्रिनेत्रामरुणाम्बराम् ॥
जपेन्मन्त्रं सहस्राणि बन्धूककुसुमैस्तिलैः ॥ ५३९ ॥

हुनेत्समधुरैः पूजा जयादिनवशक्तिके ॥
पीठे स्वर्णमये रौप्ये ताम्रे भूर्ज्जेथ वारुणे ॥ ५४० ॥

लिखेद्गोरोचनारात्रिचन्दनागुरुकुङ्कुमैः ॥
योनिपञ्चास्रषट्कोणाष्टपत्रशतपत्रकम् ॥ ५४१ ॥

सहस्रदलभूबिम्बं संवीतं द्वारशोभितम् ॥
कैलासाचलमध्यस्थं पीठमेतद्विचिन्तयेत् ॥ ५४२ ॥

तत्राबाह्य यजेद्देवीमुपचारैर्मनोहरैः ॥
त्रिकोणमध्ये देवेशीं षडङ्गान्यपि तत्र तु ॥ ५४३ ॥

वार्त्ताल्यर्च्या च वाराही त्र्यस्रे वाराहमुख्यपि ॥
जृम्भिणी मोहिनी चैव स्तम्भिनी पञ्चकोणके ॥ ५४४ ॥

पूजयित्वा तथा चेमाः षट्कोणेषु ततो यजेत् ॥
डाकिन्याद्याः पार्श्वयोश्च स्तम्भिनीं क्रोधिनीमपि ॥ ५४५ ॥

षट्कोणाग्रे यजेच्चण्डं छत्रन्तस्याः सुतोत्तमम् ॥
शूलं मुण्डञ्च डमरुं कपालं दधतं करैः ॥ ५४६ ॥

इन्द्रनीलनिभं नग्नं जटाभारविराजितम् ॥
अष्टपत्रे तु वार्तालीमुखं देव्यष्टकं यजेत् ॥ ५४७ ॥

शतपत्रे तु सम्पूज्या रुद्रार्कवसवोश्विनौ ॥
शतकोणाग्रतः सिंहः पूज्यो महिषसंयुतः ॥ ५४८ ॥

सहस्रपत्रे वाराहीम्पूजयेच्च सहस्रशः ॥
क्र्ॐ वाराह्यै नम इति पूजामन्त्रः षडक्षरः ॥ ५४९ ॥

भूपुरद्वारदेशे तु बटुकं क्षेत्रपालकम् ॥
योगिनीं गणनाथञ्च तत्तन्मन्त्रैः प्रपूजयेत् ॥ ५५० ॥

बं बटुकाय हृदयं सप्तार्णो बटुकार्चने ॥
क्षें क्षेत्रपालाय नमोष्टार्णः क्षेत्रपपूजने ॥ ५५१ ॥

य्ॐयोगिनीभ्यो हृदयं सप्तार्णोयन्तदर्चने ॥
गं गणपतये नमोष्टवर्णोयं गणेशितुः ॥ ५५२ ॥

दिक्पालानायुधैर्युक्तान् दिक्षु सम्पूजयेत्ततः ॥
पूजान्ते बटुकादिभ्यो बलिमन्त्रैबलिं हरेत् ॥ ५५३ ॥

एह्येहि 53 देवीपुत्रेति बटुकेति च नाथ च ॥

कपिलजटाभारेति भासुरेति वदेत्ततः ॥ ५५४ ॥

त्रिनेत्र ज्वालामुखेति सर्वविघ्नांस्ततो वदेत् ॥
नाशयद्वितयं सर्वोपचारसहितं बलिम् ॥ ५५५ ॥

गृह्णयुग्मन्ततः स्वाहा पञ्चपञ्चाक्षरो मनुः ॥
बटुकस्य बलिं दद्यादनेन श्रद्धयान्वितः ॥ ५५६ ॥

हूं स्थानक्षेत्रपालेश सर्वकामं च 54 पूरय ॥
स्वाहान्तः षड्दीर्घयुक्तः क्षाद्यस्त्रिद्विमितार्णकः ॥ ५५७ ॥

क्षेत्रपालबलेर्मन्त्रो गणेशस्याथ कथ्यते ॥
गाङ्गीङ्गूङ्गमिति 55 प्रोच्य ङेन्तं गणपतिं तथा ॥ ५५८ ॥

वरवरद सर्वेति जनं मे वशमानय ॥
सर्वोपचारसहितं बलिं गृह्णयुगं पुनः ॥ ५५९ ॥

स्वाहान्तः खाब्धिवर्णोयं बलिमन्त्र उदाहृतः ॥
एवं तेभ्यो बलिं दत्त्वा स्वस्वमुद्राः प्रदर्शयेत् ॥ ५६० ॥

अङ्गुष्ठानामिके मध्यानामे क्षेत्रबलौ मते ॥
किञ्चिद्वक्रीकृता मध्या गणनाथबलौ स्मृता ॥ ५६१ ॥

अनामामध्यमाङ्गुष्ठा योगिनीनां बलौ पुनः ॥
योगिनीनां बलेर्मन्त्रं साधनान्ते पठेदिमम् ॥ ५६२ ॥

य्ॐ योगिनीभ्यः स्वाहेति सप्तार्णः स्रग्धरा त्वियम् ॥ ५६३ ॥

ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा पाताले वा नलेवा सलिलपवनयोर्यत्र कुत्र स्थिता वा ॥
क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन प्रीता देव्यस्सदा नः शुभयुतविधिना यान्तु वीरेन्द्रवन्द्याः ॥ ५६४ ॥

एवं सम्पूज्य संस्तूय नत्वात्मन्युपसंहरेत् ॥
सिद्धमन्त्रः प्रकर्वीत प्रयोगाञ्छिवभाषितान् ॥ ५६५ ॥

हरिद्रया चन्दनेन लाक्षया गुरुणापि च ॥
पूरेण विविधैर्मांसैर्जुहुयादिष्टसिद्धये ॥ ५६६ ॥

हरिद्रामालया कर्य्याज्जपं स्तम्भनकर्म्मणि ॥
स्फाटिकैः पद्मबीजैश्च रुद्राक्षैः शुभकर्म्मणि ॥ ५६७ ॥

स्वर्णादिपात्रे सुरया बन्धूककुसुमैस्तिलैः ॥
वाराहीं तर्प्पयेत्सर्वकामं सम्पूरयेन्नरः ॥ ५६८ ॥

चतुश्शतन्तु तापिच्छैर्जुहुयात्स्तम्भनेच्छया ॥
लाजचूर्णतिलैः कुर्य्याद्वरमेषासृगन्वितैः ॥ ५६९ ॥

पिण्डं मनोहरं तं तु पूरयेत्तर्प्पयेदपि ॥
सम्पन्नमदनं साङ्गमेतस्यै विनिवेदयेत् ॥ ५७० ॥

कुण्डे पिण्डं विधायामुं जुहुयात्तत्र वायुतम् ॥

एकविंशतिरात्रीषु लाजै रक्तसमन्वितैः ॥ ५७१ ॥

एवं कृते वैरिवृन्दं भक्ष्यते योगिनीगणैः ॥
एवं वार्त्तालिकायास्तु साधनं वाममार्गतः ॥ ५७२ ॥

अथातः सम्प्रवक्ष्यामि वाराहीं स्वप्नसञ्ज्ञिताम् ॥
56 ह्रीं नमश्च वाराहि घोरे स्वप्नं विसर्गयुक् ॥ ५७३ ॥

ठद्वयं वह्निजायान्तो मन्त्रः पञ्चदशाक्षरः ॥
ईश्वरोस्य मुनिः प्रोक्तो जगती छन्द ईरितम् ॥ ५७४ ॥

देवता स्वप्नवाराही बीजं तारः प्रकीर्तितः ॥
हृल्लेखाशक्तिरुद्दिष्टाठद्वयं कीलकं मतम् ॥ ५७५ ॥

द्विपञ्चनेत्रदस्राक्षियुग्मार्णैश्चाङ्गकं 57 मनोः ॥
पादयोर्व्यञ्जने कट्योः कण्ठे गण्डद्वये तथा ॥ ५७६ ॥

नेत्रयोः कर्णयोर्नासाद्वयमन्त्रार्णकान्न्यसेत् ॥
ततो ध्यायेद्घनश्यामां त्रिनेत्रामुन्नतस्तनीम् ॥ ५७७ ॥

कोलास्यां 58 चन्द्रभालाञ्ज दंष्ट्रोद्धृतवसुन्धराम् ॥
खङ्गाङ्कुशौ दक्षिणयोर्वामयोश्चर्म्मपाशकौ ॥
अश्वारूढां च कोलास्यां नानालङ्कारभूषिताम् ॥ ५७८ ॥

त्रिकोणे तां समाराध्य षट्कोणेष्वङ्गदेवताः ॥
षोडशारे यजेच्छक्तीर्वक्ष्यमाणाश्च षोडश ॥ ५७९ ॥

उच्चाटनी तदीशी 59 च शोषिणी शोषिणीश्वरी ॥
मारणी मारिणीशी च भीषणी भीषणीश्वरी ॥ ५८० ॥

त्रासिनी त्रासिनीशी च कम्पिनी कम्पिनीश्वरी ॥
आशाविवर्तिनी पश्चादाशाविवर्त्तिनीश्वरी ॥ ५८१ ॥

वस्तुजातेश्वरी पश्चात्सर्वसम्पादिनीश्वरी ॥
एताःपूज्याश्चतुर्थ्यन्ताः प्रणवाद्या नमोन्तकाः ॥ ५८२ ॥

यजेदष्टदले पद्मे मातॄर्भैरवसंयुताः ॥
लोकपालान्दशदले द्वितये हेतिसंयुतान् ॥ ५८३ ॥

लक्षं जपेद्दशांशे न नीलपद्मैस्तिलैर्हुनेत् ॥
एवं सिद्धमनुर्मन्त्री काम्यकर्म्माणि साधयेत् ॥ ५८४ ॥

तर्प्पयेन्नारिकेरोत्थैर्जलैस्तीर्थोद्भवैरपि ॥
आनयेत्तरुणीं वर्षात्सर्वकामसमृद्धये ॥ ५८५ ॥

कृष्णपक्षे विश्वघस्रे भूताहे वा कृतव्रतः ॥
चतुष्पथान्नदीकूलद्वयात्कुलालवेश्मनः ॥ ५८६ ॥

मृदमानीय धत्तूररसैः संयुक्तयानया ॥
रचयेत्पुत्तलीं रम्यां साध्यासुस्थापनान्विताम् ॥ ५८७ ॥

ततः प्रेताम्बरे यन्त्रं नृमार्ज्जारासजा लिखेत् ॥
पीताङ्गारयुजा योनिं षट्कोणं भूपुरान्वितम् ॥ ५८८ ॥

तदन्तर्मन्त्रमालिख्य वेष्टयेन्मनुनामुना ॥
साध्यमुच्चाटययुगं शोषयद्वितयं ततः ॥
सहस्रं चाष्टकं भूयः पूजयेत्तां समाहितः ॥ ५८९ ॥

एवं कृते नरा नार्य्यो राजानो राजवल्लभाः ॥
सिंहा गजा मृगाः क्रूरा भवेयुर्वशगा ध्रुवम् ॥ ५९० ॥

चित्ते ध्यात्वा निजं कार्य्यं शयीत विजने वृती ॥
यथा भावि तथा देवी स्वप्ने वदति मन्त्रिणे ॥ ५९१ ॥

अथातः सम्प्रवक्ष्यामि इन्द्राणीमिष्टराज्यदाम् ॥
इम् इन्द्राण्यै नम इति मन्त्रः प्रोक्तः षडक्षरः ॥ ५९२ ॥

गुरुर्मुनिश्च गायत्री छन्दो देवीन्द्रवल्लभा ॥
इम्बीजं शक्तिरिन्द्राणी नमः कीलकमुच्यते ॥ ५९३ ॥

वज्रपाशवराभीतिहस्तां श्यामाम्बरां वराम् ॥
चतुर्दन्तगजानल्पच्छायासंस्थां हिरण्यभाम् ॥ ५९४ ॥

कोणषट्केष्वङ्गपूजा तद्बाह्येष्टदले यजेत् ॥
बगलां छिन्नमस्तां च तारां दक्षिणकालिकाम् ॥ ५९५ ॥

धूमावतीं भद्रकालीं महाकालीं प्रतिक्रियाम् ॥
तत्तन्मन्त्रैस्तु तद्बाह्ये लोकेशानायुधान्यपि ॥ ५९६ ॥

लक्षषट्कं जपेन्मन्त्रं मालतीकुसुमैर्हुनेत् ॥
त्रिमध्वक्तैस्तावदेव राज्यार्थं राजवृक्षजैः ॥ ५९७ ॥

अथातः सम्प्रवक्ष्यामि स्तम्भिनीं बगलामुखीम् ॥
तारं मायां समुच्चार्य्य वदेच्च बगलामुखि ॥ ५९८ ॥

तदग्रे सर्वदुष्टानां ततो वाचं मुखं पदम् ॥
स्तम्भयेतिपदं 60 जिह्वां कीलयेति ततः परम् ॥ ५९९ ॥

बुद्धिं विनाशय ह्रीं ॐ स्वाहा वेदाग्निवर्णकः ॥
नारायणो मुनिस्त्रिष्टुप्छन्दश्च बगलामुखी ॥ ६०० ॥
?61

देवीबीजन्तु हृल्लेखा स्वाहा शक्तिः समीरिता ॥
विनियोगोस्य विख्यातः पुरुषार्थचतुष्टये ॥ ६०१ ॥

हृल्लेखा हृदयम्प्रोक्तं शिरश्च बगलामुखि ॥
शिखातु सर्वदुष्टानां ततो वाचम्मुखम्पदम् ॥ ६०२ ॥

स्तम्भयेति च वर्म्मोक्तं जिह्वां कीलय नेत्रकम् ॥
बुद्धिं विनाशयास्त्रं स्यात्षडङ्गन्यास ईरितः ॥ ६०३ ॥

मूर्ध्नि भाले भ्रुवोर्मध्ह्ये नेत्रयोः श्रोत्रयोर्नसोः ॥
गण्डद्वये तथा चोष्ठेऽधरास्यचिबुकेषु च ॥ ६०४ ॥

गले च दक्षदोमूले तन्मध्ये मणिबन्धके ॥
अङ्गुलीनान्तथा मूले हस्ताग्रे चैवमेव हि ॥ ६०५ ॥

न्यसेद्वामभुजादौ च दक्षोरुमूलके ततः ॥
दक्षजानुनि गुल्फे चाङ्गुलिमूले पदाग्रतः ॥ ६०६ ॥

गम्भीराञ्च मदोन्मत्तान्तप्तकाञ्चनसन्निभाम् ॥
चतुर्भुजां त्रिनयनां कमलासनसंस्थिताम् ॥ ६०७ ॥

मुद्गरन्दक्षिणे पाशं वामे जिह्वां च वज्रकम् ॥
पीताम्बरधरां सान्द्रवृत्तपीनपयोधराम् ॥ ६०८ ॥

हेमकुण्डलभूषां च पीतचन्द्रार्धशेखराम् ॥
पीतभूषणभूषाञ्च स्वर्णसिंहासनस्थिताम् ॥ ६०९ ॥

एवं ध्यात्वा च देवेशीं शत्रुस्तम्भनकारिणीम् ॥
भूप्रदेशे मनोरम्ये पुष्पामोदसुधूपिते ॥ ६१० ॥

गोमयेनाथ संलिप्ते मण्डले त्वासनं चरेत् ॥
सौवर्णे वाथ रौप्ये वा पैत्तले वापि भूर्ज्जके ॥ ६११ ॥

कर्पूरागरुकस्तूरीश्रीखण्डकुङ्कुमैरपि ॥
लिखेद्यन्त्रं प्रयत्नेन लेखन्या हेमतारयोः ॥ ६१२ ॥

मध्ये योनिं समालिख्य तद्बाह्ये तु षडस्रकम् ॥
तद्बाह्येष्टदलम्पद्मन्तद्बाह्ये षोडशच्छदम् ॥
चतुरस्रत्रयं बाह्ये चतुर्द्वारोपशोभितम् ॥ ६१३ ॥

यत्रनोक्तन्देवतायाः पीठं वा पीठशक्तयः ॥
तत्र मायोदितं पीठं ज्ञेयास्ता एव शक्तयः ॥ ६१४ ॥

तद्बीजेन यजेत्पीठं यद्वा मायाणुनाथ वा ॥
तत्रावाह्य येजेद्देवीं सुपीतैरुपचारकैः ॥ ६१५ ॥

यजेदङ्गानि षट्कोणे पूर्वद्वारादिषु क्रमात् ॥
गणेशं बटुकं चापि योगिनीः क्षेत्रपालकम् ॥ ६१६ ॥

ईशानादिनिर्-ऋत्यन्तं गुरुपङ्क्तिं समर्चयेत् ॥
बगलां पूर्वपत्रे तु स्तम्भिनीं च ततः परम् ॥ ६१७ ॥

जृम्भिनीं मोहिनीं चव प्रगल्भामचलां जयाम् ॥
दुर्धर्षाकल्मपाधीराकल्याण्याकालकर्षिणीः ॥
भ्रामिकां मन्दगमनां भोग्याख्यां चैव योगिकाम् ॥ ६१८ ॥

एताः षोडशपत्रेषु गन्धपुष्पाक्षतैर्यजेत् ॥
षोडशस्वरसंयुक्ताः सम्प्रदायात्कुलागमे ॥ ६१९ ॥

यजेत्तु पत्रमध्येषु कल्पिते चाष्टपत्रके ॥
पूर्वाद्ब्राह्म्यादिका अष्टौ वाहनायुधसंयुताः ॥ ६२० ॥

लोकेशांश्च तदस्त्राणि पूजयेद्बाह्यतस्तथा ॥
योनिमध्ये मूलदेवीं त्रिरञ्जलिभिरर्च्चयेत् ॥ ६२१ ॥

धूपदीपसुनैवेद्यैर्गन्धताम्बूलदीपकैः ॥
नीराज्य विधिवत्पश्चाद्यथासङ्ख्यं निवेदयेत् ॥ ६२२ ॥

पवित्रारोपणं कार्य्यं दमनेन तु पूजयेत् ॥
देयं चापि सितान्नेन प्रत्यहं बलिपञ्चकम् ॥ ६२३ ॥

हरिद्राग्रन्थिजा 47 माला पीताम्बरधरः स्वयम् ॥
पीतासनः स्मरेत्पीतं चायुतं जपमाचरेत् ॥ ६२४ ॥

दशांशेन कृते होमे पीतद्रव्यैः प्रतर्प्पयेत् ॥
सर्वपीतोपचारेण मन्त्रः सिद्ध्यति मन्त्रिणः ॥ ६२५ ॥

साध्यसञ्ज्ञां समुच्चार्य्यस्तम्भयेति ततः परम् ॥
गतिस्तम्भकरी विद्या अरिस्तम्भनकारिणी ॥ ६२६ ॥

मेधां प्रज्ञां च शास्त्रादीन्देवदानवपन्नगान् ॥
स्तम्भयेच्च महाविद्या सत्यं सत्यं न संशयः ॥
एकान्ते परमे रम्ये शुचौ देशेथ वा गृहे ॥ ६२७ ॥

कुण्डं सलक्षणं कृत्वा मेखलात्रयशोभितम् ॥
योनिर्वितस्तिमात्रा तु षट्कर्म्माण्यत्र साधयेत् ॥
तथाकर्षणकामस्तु लोणं त्रिमधुरान्वितम् ॥ ६२८ ॥

निम्बपत्रन्तैलयुक्तं विद्वेषणकरं परम् ॥
हरितालं हरिद्रां च लवणेन च संयुताम् ॥
स्तम्भने होमयेद्देवीं प्रज्ञायाश्च गतेर्मतेः ॥ ६२९ ॥

आसुर्य्याश्चापि तैलेन महिषी रुधिरेण च ॥
रिपूणां मारणार्थन्तु श्मशानाग्नौ हुनेन्निशि ॥
गृध्राणामपि काकानां गृहधूमयुतेन वै ॥ ६३० ॥

पक्षेण जुहुयाद्देवि शत्रोरुच्चाटनाय वै ॥
पूर्वा कुलालमृत्तावत्येरण्डश्चतुरङ्गुलः ॥ ६३१ ॥

लाजास्त्रिमधुयुक्ताश्च सर्वरोगोपशान्तये ॥
लक्षमेकं जपेद्देवि ब्रह्मचारी दृढव्रतः ॥ ६३२ ॥

पर्वताग्रे महारण्ये सिद्धे शैवालये गृहे ॥
सङ्गमे च महानद्योर्निशायामपि साधयेत् ॥ ६३३ ॥

श्वेतब्रह्मतरोर्मूले पादुकाञ्चैव कारयेत् ॥
अलक्तस्य च रागेण रञ्जिताञ्च हरिद्रया ॥ ६३४ ॥

अनया विद्यया चापि लक्षैकेन च मन्त्रिताम् ॥
शतयोजनमात्रन्तु स गच्छेच्चिन्तिते पथि ॥ ६३५ ॥

रसं मनःशिला तालं माक्षिकेण समन्वितम् ॥
पिष्ट्वाभिमन्त्र्य लक्षैकं सर्वाङ्गे लेपने कृते ॥ ६३६ ॥

अदृश्यकारकं तत्स्याल्लोके च महदद्भुसम् ॥
सुरभेरेकवर्णाया धारोत्थं क्षीरमाहरेत् ॥ ६३७ ॥

शर्करामधुसंयुक्तन्त्रिशतैर्मन्त्रितं प्रिये ॥
पाययित्वा तु हरते विषं स्थावरजङ्गमम् ॥ ६३८ ॥

दारिद्र्यमोचनं चैव लक्षमेकञ्जपेत्ततः ॥
दशांशेन कृते होमे एभिर्द्रव्यैः पृथक्पृथक् ॥ ६३९ ॥

अथातः सम्प्रवक्ष्यामि वाममार्गेण सिद्धिदाम् ॥
इन्द्राण्याः परमां शक्तिं छिन्नमस्तां महेश्वरीम् ॥ ६४० ॥

प्रणवश्च 62 रमा लज्जाबीजद्वन्द्वञ्च वाग्भवम् ॥
वज्रवैरोचनीये ह्रीं ह्रीं फट् स्वाहा धनाक्षरः ॥ ६४१ ॥

भैरवोस्य मुनिः प्रोक्तो विराट् छन्द उदाहृतम् ॥
छिन्नमस्ता भवेद्देवी वाममार्गेण सिद्धिदा ॥ ६४२ ॥

आङ्खड्गाय 63 ह्रदाख्यातमीं सुखड्गाय मस्तकम् ॥
ऊं वज्राय शिखा प्रोक्ता ऐं पाशाय तनुच्छदम् ॥ ६४३ ॥

औम् अङ्कुशाय नेत्रं स्यादस्त्रासरक्षकाय च ॥
हूंहूं नवार्णोस्त्रमन्त्रः सर्वे स्युः प्रणवादिकाः ॥
स्वाहान्ता सर्व एवैते ततो ध्यानं समाचरेत् ॥ ६४४ ॥

भास्वन्मण्डलमध्यस्थां विपरीत रते स्थिताम् ॥
रतिकामसमारूढां विकीर्णसकलालकाम् ॥ ६४५ ॥

वामे करे निजशिरच्छिन्नं सन्दधतीं पुनः ॥
गलान्निर्गतरक्तञ्च पिबन्तीन्तन्मुखेन च ॥
डाकिनीवर्णिनीभ्याञ्च सखीभ्यां परिधारिताम् ॥ ६४६ ॥

आधारशक्तिमारभ्य परतत्त्वान्नपूजिते ॥
पीठे जयाख्या विजया अजिता चापराजिता ॥ ६४७ ॥

नित्या विलासिनी षष्ठी दोग्ध्री घोरा च मङ्गला ॥
दिक्षु मध्ये च सम्पूज्या नवपीठस्य शक्तयः ॥ ६४८ ॥

सर्वबुद्धिप्रदे 64 वर्णनीये सर्वपदं ततः ॥
सिद्धिप्रदे डाकिनीये प्रणवं वज्रं वै वदेत् ॥ ६४९ ॥

रोचनीये तथैह्येहि नमोन्तः प्रणवादिकः ॥
पीठमन्त्रो वेदवह्निवर्णः पीठार्चने मतः ॥ ६५० ॥

त्रिकोणं रसकोणञ्चाष्टदलं भूपुरन्ततः ॥
बाह्यावरणमारभ्य पूजयेत्प्रतिलोमतः ॥ ६५१ ॥

भूपुराद् बाह्यभागेषु वज्रादीनि प्रपूजयेत् ॥
तदन्तः सुरराजादीन् द्वारेषु द्वारपान्यजेत् ॥ ६५२ ॥

करालं विकरालञ्चातिकालं महाकालकम् ॥
एकलिङ्गां योगिनीञ्च डाकिनीम्भैरवीं तथा ॥ ६५३ ॥

महाभैरविकेन्द्राक्ष्यावसिताङ्गीञ्च हारिणीम् 65 वर्णिनी तारवाग्भ्यां तत्पार्श्वयोर्यजेत् ॥ ६५५ ॥

एवम्पूजा प्रकर्तव्या जपेल्लक्षचतुष्टयम् ॥
पालाशाबल्वजर्वापि जुहुयात्कुसुमैः फलैः ॥ ६५६ ॥

तर्प्पणादि ततः कुर्य्यादेवं सिद्धो भवेन्मनुः ॥
श्रीपुष्पैर्लभते लक्ष्मीं तत्फलैश्च समीहितम् ॥ ६५७ ॥

वाक्सिद्धिं मालतीपुष्पैश्चम्पकैर्हवनात्सुखम् ॥
घृताक्तं छागमांसं यो जुहुयात्प्रत्यहं शतम् ॥
मासमेकन्तु वशगास्तस्य स्युः सर्वपार्थिवाः ॥ ६५८ ॥

हयारिकुसुमैः श्वेतैर्लक्षसङ्ख्यं जुहोति यः ॥
रोगजालं पराभूय सुखी जीवेच्छतं समाः ॥ ६५९ ॥

रक्तैस्तत्सङ्ख्यया हुत्वा वशयेन्मन्त्रिणो नृपान् ॥
फलैर्हुत्वाप्नुयाल्लक्ष्मीमुदुम्बरपलाशजैः ॥ ६६० ॥

गोमायुमांसैस्तामेव 66 विवाहं पायसान्धसा ॥
बन्धूककुसुमैर्भाग्यं कर्णिकारैः समीहितम् ॥ ६६१ ॥

तिलतण्डुलहोमेन वशयेन्निखिलाञ्जनान् ॥
नारीरजोभिराकृष्टं मृगमांसैः समीहितम् 67 ॥ ६६२ ॥

स्तम्भनं माहिषैर्मांसैः पङ्कजैः सघतैरपि ॥
चिताग्नौ परभृत्पक्षैर्जुहुयादरिमृत्यवे ॥
उन्मत्तकाष्ठदीप्तेग्नौ तत्फलं वायसच्छदैः ॥ ६६३ ॥

द्यूते वने नपद्वारे समरे वैरिसङ्कटे ॥
विजयं लभते मन्त्री ध्यायेद्देवीं जपन्मनुम् ॥ ६६४ ॥

भुक्तौ मुक्तौ सितां ध्यायेदुच्चाटे नीलरोचिषम् ॥
रक्तां वश्ये मतौ धूम्रां स्तम्भने कनकप्रभाम् ॥ ६६५ ॥

निशि दद्याद्बलिं तस्यै सिद्धये मदिरादिना ॥
गोपनीयः प्रयोगोथ प्रोच्यते सर्वसिद्धिदः ॥ ६६६ ॥

भताहे कृष्णपक्षस्य मध्यरात्रे ततो गते 68
स्नात्वा रक्ताम्बरधरो रक्तमाल्यानुलेपनः ॥ ६६७ ॥

आनीय पूजयेन्नारीं छिन्नमस्तास्वरूपिणीम् ॥
सुन्दरीं यौवनाक्रान्तां नरपञ्चकगामिनीम् ॥ ६६८ ॥

सस्मितां मुक्तकबरीं भूषादानप्रतोषिताम् ॥
विवस्त्रां पूजयित्वैनां चायुतं प्रजपेन्मनुम् ॥ ६६९ ॥

बलिं दत्त्वा निशां नीत्वा सम्प्रेक्ष्य धनतोषिताम् ॥
भोजयेद्विविधैरन्नैर्ब्राह्मणान्देवताधिया ॥ ६७० ॥

अनेन विधिना लक्ष्मीं पुत्रान्पौत्रान् ॥
यशः सुखम् ॥
नारीमायुश्चिरं धर्म्ममिष्टमन्यदवाप्नुयात् ॥ ७३१ ॥

तस्यां रात्रौ व्रतं कार्य्यं विद्याकामेन मन्त्रिणा ॥
मनोरथेषु चान्येषु गच्छेत्तां प्रजपेन्मनुम् ॥ ६७२ ॥

किं बहूक्तेन विद्याया अस्या विज्ञानमात्रतः ॥
शास्त्रज्ञानं पापनाशः सर्वसौख्यं लभेद्ध्रुवम् ॥ ६७३ ॥

उषस्युत्थाय शय्यायामुपविश्य जपेच्छतम् ॥
अङ्गमासान्तरे मन्त्री कवित्वेन जयेत्कविम् ॥ ६७४ ॥

शिवेन कीलिता विद्या तदुत्कीलनमुच्यते ॥
माया तारपटां मन्त्रे जपेदष्टोत्तरं शतम् ॥ ६७५ ॥

मन्त्रस्यादौ तथैवान्ते भवेत्सिद्धिप्रदा तु सा ॥
एष नूनं विधिर्गोप्यः सिद्धिकामेन मन्त्रिणा ॥ ६७६ ॥

उदिता छिन्नमस्तेयं मार्गेस्मिन्नतिसिद्धिदा ॥
अथ वक्ष्ये षोडशार्णं चतुर्भेदं मनूत्तमम् ॥ ६७७ ॥

श्रींह्रींह्रूं-ऐं 69 वज्रवैरोचनीये ह्रीं च ह्रूं प्रिया ॥
दहनस्य तिथिर्वर्णो लक्ष्मीबीजादिको 70 धने ॥ ६७८ ॥

लज्जाबीजादिको 71 वश्ये ह्रूमाद्येनाघनाशनम् ॥
वाग्बीजाद्येन मोक्षः स्याच्चत्वारः प्रणवादिकाः ॥ ६७९ ॥

भवन्ति षोडशार्णाश्च चतुर्मुखमुखेरिताः ॥
उपास्याश्चतुराम्नायैर्मुनिर्ब्रह्मा समीरितः ॥ ६८० ॥

न्यासपूजादिकं प्राग्वत्किञ्चित्काम्यमिहोच्यते ॥
गुरवे दक्षिणां दद्याद्वस्त्राणि विविधानि च ॥
धर्म्मार्थकाममोक्षाणां गुरुरेव समाश्रयः ॥ ६८१ ॥

साधितोयं महामन्त्रः सर्वसिद्धिप्रदायकः ॥
ददात्यष्टौ महासिद्धीः किम्पुनः क्षुल्लकाः प्रियाः ॥ ६८२ ॥

भुक्तौ मुक्तौ च शान्तौ च श्वेतपुष्पं विनिर्दिशेत् ॥
काम्यकर्म्मणि सर्वत्र ध्यानं स्यात्पुष्पवर्णकम् ॥ ६८३ ॥

जाग्रच्छयान उत्तिष्ठन्भुञ्जानः संयमन्नपि ॥
सदाकालं जपेन्मन्त्रमापत्तस्य न विद्यते ॥ ६८४ ॥

संलिख्य स्वकरे मन्त्रं मुष्टिबन्धं समाचरेत् ॥
स्तम्भयेत्पशुशस्त्राणि यावन्मुष्टिं न मुञ्चति ॥ ६८५ ॥

लिखित्वा स्वकरे मन्त्रमातुरं संस्पृशञ्जपेत् ॥
विमुच्यते हठाद्रोगान्मुक्तरोगः सुखी भवेत् ॥ ६८६ ॥

अथातः सम्प्रवक्ष्यामि विश्ववर्णं महामनुम् ॥
वज्रवैरोचनीये ह्रूंह्रींश्रींस्वाहाध्रुवादिकः ॥
ध्यानपूजादिकं प्राग्वत्किञ्चित्काम्यमुदीर्य्यते ॥ ६८७ ॥

शुक्लेन ध्यानमात्रेण मन्त्रमेनं जपेच्च यः ॥
महोरग’सतैर्दष्टं मृतमुत्थापयेन्नरः ॥ ६८८ ॥

रक्तेन वशमायान्ति सर्वभतलवासिनः ॥
पीतेन स्तम्भयेन्नित्यं नौकावाजिगजादिकम् ॥ ६८९ ॥

लिखित्वा स्वकरे मन्त्रं यावन्मुष्टिं न मुञ्चति ॥

कृतेन ध्यानमात्रेण रिपूनुच्चाटयेन्नरः ॥
मारयेदप्ययत्नेन कृष्णध्यानान्न संशयः ॥ ६९० ॥

तर्प्पणं च प्रकुर्वीत पयसा पायसेन च ॥
घृतेन मधुना वापि सुरया तत्र साधकः ॥ ६९१ ॥

ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रश्चेति यथाक्रमम् ॥
तर्प्पणस्य विधानेन हठात्सिद्धः प्रजायते ॥ ६९२ ॥

ततो होमं प्रकुर्वीत समिद्भिः कुसुमैस्तथा ॥
श्रीफलानां च होमेन तथैवोदुम्बरस्य च ॥ ६९३ ॥

सर्वसिद्धिप्रदो होमो विधातव्यः प्रयत्नतः ॥
शतमष्टोत्तरं कृत्वा 72 जुहुयात्तर्प्पणोत्तरम् ॥ ६९४ ॥

पुष्पहोमविधिं वक्ष्ये सर्वकामसमृद्धिदम् ॥
नित्यमष्टोत्तरशतं मासषट्कं समाचरेत् ॥ ६९५ ॥

अथ वा लक्षमात्रन्तु कुर्य्यात्सिद्धिर्भवेद्ध्रुवम् ॥
आज्ययुक्तः सामिषश्च होमान्ते प्रत्यहं बलिः ॥ ६९६ ॥

श्वेताश्वमारकुसुमैर्जीवयेत्कालदष्टकम् ॥
मध्वक्ततिलपुष्पैस्तु भवेत्सम्पत्तिरुत्तमा ॥ ६९७ ॥

कर्णिकारैश्च सतिलैः सहस्रैः सुन्दरीं लभेत् ॥
साज्यैर्बन्धूककुसुमैरयुतैः सुभगो भवेत् ॥ ६९८ ॥

बन्धूकपुष्पैः सतिलैस्तण्डुलैश्च विमिश्रितैः ॥
रक्तचन्दनरक्ताश्वमारपुष्पैर्नृपो वशः ॥ ६९९ ॥

अथातः सम्प्रवक्ष्यामि तारामन्त्रान्कवित्वदान् ॥
सम्यग्गुरुमुखात्प्राप्तान् वामाचारेण साधितान् ॥ ७०० ॥

यद्यदृष्टवशाल्लाभो मन्त्रस्यास्य प्रजायते ॥
ज्येष्ठपुत्राय दातव्यो नान्येभ्यश्च कदाचन ॥ ७०१ ॥

ये मन्त्रा वाममार्गेण उपास्यन्ते तु तेऽखिलाः ॥
स्वपुत्रादौ प्रदातव्या दक्षिणा न कदाचन ॥ ७०२ ॥

यो विप्रः स्वकुलं हित्वा दक्षिणाय प्रयच्छति ॥
वाममार्गोपासनन्तु तौ द्वौ लोकद्वयाच्च्युतौ ॥ ७०३ ॥

ॐ मायात्रीं हुम्फडिति पञ्चवर्णो मनुर्मतः ॥
मुनिरक्षोभ्यसञ्ज्ञोस्य बृहती छन्द ईरितम् ॥ ७०४ ॥

तारा देवी ह्रीं च बीजं ह्रुं शक्तिश्चात्र कीर्तिता ॥
षड्दीर्घयुग्लज्जयात्र 73 षडङ्गविधिरीरितः ॥ ७०५ ॥

न्यासषट्कं ततः कुर्य्यात्तारायाः सर्वसिद्धिदम् ॥
तत्रादौ प्रथमो न्यासः 74 श्रीकण्ठादिः पुरोदितः ॥ ७०६ ॥

मातृकाक्षरमुच्चार्य्य ह्रीन्त्रींहुम्पूर्वकं वदेत् ॥
श्रीकण्ठादिसपत्नीकं नमोन्तं मातृकास्थले ॥ ७०७ ॥

विन्यस्य च चतुर्थ्यन्तं न्यासोयम्प्रथमः स्मृतः ॥

अस्मिन्न्यासे क्रियमाणे देवीमेवंविधा स्मरेत् ॥ ७०८ ॥

शवपीठसमासीनां नीलकान्तिन्त्रिलोचनाम् ॥
अर्धेन्दुशेखरां नानाभूषणाढ्यां चतुर्भुजाम् ॥ ७०९ ॥

द्वितीयन्तु ग्रहन्यासं कुर्यात्तां 75 समनुस्मरन् ॥
त्रिबीजस्वरपूर्वं तु रक्तं सूर्य्यं हृदि न्यसेत् ॥ ७१० ॥

तथाह्यवर्गपूर्वं तु सोमं शुक्लं भ्रुवोर्द्वयोः ॥
एवम्मन्त्रविधानज्ञः कवर्गाद्यञ्च मङ्गलम् ॥ ७११ ॥

रक्तं नेत्रत्रये चापि चवर्गाद्यं च वक्षसि ॥
बुधं श्यामं न्यसेत्पीतं टवर्गाद्यं गले गुरुम् ॥ ७१२ ॥

तवर्गाद्यं श्वेतवर्णं घण्टिकायान्तु भार्गवम् ॥
नीलवर्णं पवर्गाद्यं नाभिदेशे शनैश्चरम् ॥ ७१३ ॥

शवर्गाद्यं धूम्रवर्णं ध्यात्वा राहुं न्यसेन्मुखे ॥
लक्षाद्यं धूम्रवर्णाभं केतुं नाभौ पुनर्न्यसेत् ॥ ७१४ ॥

न्यासन्तृतीयं वक्ष्यामि बीजत्रितयपूर्वकम् ॥
समानवर्णानुच्चार्य्य 76 प्रागिन्द्राय नमोस्तु के ॥ ७१५ ॥

दीर्घस्वरसमायुक्तं चाग्नेय्यामग्नये नमः ॥
दक्षिणे यमाय नमः कवर्गाद्यं ललाटके ॥ ७१६ ॥

चवर्गाद्यं च नैर्-ऋत्यां नैर्-ऋत्याय नमो मुखे ॥
टवर्गाद्यं गले पश्चाद्वरुणाय नमस्त्विति ॥ ७१७ ॥

न्यसेद्धृदि तवर्गाद्यं वायव्यां वायवे नमः ॥
पवर्गाद्यं कुबेराय नमो वै दक्षिणे करे ॥ ७१८ ॥

वामहस्ते यवर्गादीशाने रुद्राय हृद्भवेत् ॥
शवर्गाद्यूर्ध्वकामाय नमो नाभौ तु विन्यसेत् ॥
हुं लक्षाद्यं पृथिव्यै हृत्पादयोरिति विन्यसेत् ॥ ७१९ ॥

शिवशक्त्याभिधो न्यासश्चतुर्थः कथ्यतेधुना ॥
ह्रीन्त्रींहुम्पूर्वकः कार्य इन्द्रियाघहरः परः ॥ ७२० ॥

ब्रह्माणं डाकिनीयुक्तं वादिसान्तार्णपूर्वकम् ॥
मूलाधारे 77 न्यसेच्चैव चतुर्दलसमन्विते ॥ ७२१ ॥

श्रीविष्णुं श्कतिनीयुक्तं वादिलान्तार्णपूर्वकम् ॥

स्वाधिष्ठानाभिधे चक्रे लिङ्गस्थे षड्दले न्यसेत् ॥ ७२२ ॥

रुद्रन्तु लाकिनीयुक्तं डादिफान्तार्णपूर्वकम् ॥
न्यसेच्चक्रे दशदले नाभिस्थे मणिपूरके ॥ ७२३ ॥

ईश्वरं कादिठान्तार्णपूर्वङ्कं काकिनीयुतम् ॥
विन्यसेद्द्वादशदले हृदयस्थे त्वनाहते ॥ ७२४ ॥

सदाशिवं शाकिनीं च षोडशस्वरसंयुताम् ॥
कण्ठस्थे षोडशदले विशुद्धाख्ये प्रविन्यसेत् ॥ ७२५ ॥

आज्ञाचक्रे परशिवं हाकिनीसंयुतं तथा ॥
हक्षार्णपूर्वं भ्रूमध्यसंस्थितेतिमनोहरे ॥ ७२६ ॥

वक्ष्येथ पञ्चमं न्यासं समस्तारिष्टनाशनम् ॥
अम् आङ्कवर्गं 78 ह्रीन्त्रींहुं तारायै नम उच्यते ॥ ७२७ ॥

विन्यसेद् ब्रह्मरन्ध्रेथ इम् ईं चापि चवर्गकम् ॥
ह्रीन्त्रींहुं नम उग्रायै ललाटे चापि विन्यसेत् ॥ ७२८ ॥

उम् ऊं टवर्गं ह्रीन्त्रींहुं महोग्रायै नमो भवेत् ॥
विन्यसेच्च भ्रुवोर्मध्ये कण्ठे ऋं ॠं तवर्गकम् ॥
ह्रीन्त्रींहुं च वज्रायै नमोन्तं सकलेष्वपि ॥ ७२९ ॥

ऌं ॡं पवर्गं ह्रीन्त्रींहुं नमः काल्यै हृदि न्यसेत् ॥
एम् ऐं यवर्गं ह्रीन्त्रींहुं सरस्वत्यै च नाभिके ॥
ओमौं सवरं ह्रीन्त्रींहुं कामेश्वर्य्यै च लिङ्गके ॥ ७३० ॥

अम् अः लक्षौ च ह्रीन्त्रींहुं चामुण्डायै नमो न्यसेत् ॥
मूलाधारे न्यसेत्पश्चात्पीठन्यासं समाचरेत् ॥ ७३१ ॥

आधारे 79 कामरूपाख्यं बीजह्रस्वार्णपूर्वकम् ॥
हृदि जालन्धरं पीठ 80 दीर्घपूर्वं प्रविन्यसेत् ॥ ७३२ ॥

ललाटे पूर्णगिर्य्याख्यं कवर्गाद्यं 81 न्यसेत्सुधीः ॥
उड्डियानं 82 चवर्गाह्यं केशसन्धौ प्रविन्यसेत् ॥ ७३३ ॥

भ्रुवोर्वाराणसीपीठं टवर्गाद्यं 83 समाहितम् ॥
तवर्गपूर्विकां 84 न्यस्येदवन्तीं नयनद्वये ॥ ७३४ ॥

पवर्गपूर्वकं मायापुरीपीठं मुखेन्यसेत् ॥
कण्ठे तु मथुरापीठं यवर्गाद्यं प्रविन्यसेत् ॥ ७३५ ॥

नाभावयोध्या पठिन्तु शवर्गाद्यं प्रविन्यसेत् ॥
कटौ काञ्चीपुरीपीठं दशमन्तु प्रविन्यसेत् ॥ ७३६ ॥

षोढा न्यासस्तु तारायाः प्रोक्तोभीष्टप्रदायकः ॥
महाप्रलयपानीये लसच्छ्वेताम्बुजस्थिताम् ॥ ७३७ ॥

कर्त्रीं खङ्गं नीलपद्मं कपालं दधतीं करैः ॥
सर्प्पकाञ्चीं सर्प्पकरां सर्प्पकङ्कणकुण्डलाम् ॥ ७३८ ॥

सर्प्पकेयूरमञ्जीरां नीलाभां रक्तलोचनाम् ॥
पिङ्गोग्रैकजटां त्र्यक्षां व्याघ्रत्वक्परिधायिनीम् ॥ ७३९ ॥

दंष्ट्राकरालवदनां ललज्जिह्वां स्मिताननाम् ॥
नरास्थिपट्टं बध्नन्तीं भालेऽक्षोभ्यमुनीश्वराम् ॥ ७४० ॥

स्थापयन्तीं च तदधो ध्यायेच्छवहृदासनाम् ॥
नानाप्रकारपूजास्यास्तन्त्रेतन्त्रे प्रकाशिता ॥ ७४१ ॥

जपात्सिद्धिरवश्यं स्यात्सा पूजात्र निगद्यते ॥
संस्कारा वैदिका यस्य तस्मै विद्या न सिध्यति ॥ ७४२ ॥

लोभाद्वा मोहतो दद्याद् गृह्णीयाद्यदि वैदिकः ॥
उभयोः कुलनाशः स्याद्दरिद्रो जन्मजन्मनि ॥ ७४३ ॥

शक्रे तु वैभवोन्मत्ते ब्रह्मविष्णुमहेश्वरैः ॥
साधिता वाममार्गेण देवानां विजयाय च ॥ ७४४ ॥

जनयित्वा वारणादीन्मानयित्वा सुरेश्वरम् ॥
स्वविक्रमं ख्यापयित्वा शक्रो देवपतिः कृतः ॥ ७४५ ॥

उत्कर्षकारिणी तस्माद्वाममार्गेण साधिता ॥
कृत्वा तु तान्त्रिकस्नानम्पूजार्थं जलमाहरेत् ॥ ७४६ ॥

तारं 85 वज्रोदके हुम्फट् सप्तार्णोयञ्जलग्रहे ॥
उपानत्पादुके त्यक्त्वा पूजको जलमाहरेत् ॥ ७४७ ॥

त्रिधा चाचमनम्पश्चादनेन मनुना चरेत् ॥
तारं 86 मायां सुविशुद्धधर्म्मसर्वपदं वदेत् ॥ ७४८ ॥

पापानि शाम्याशेषेति विकल्पानयनेति च ॥
यः स्वाहेति च षड्विंशदर्ण आचमने मनुः ॥ ७४९ ॥

ततः कुर्य्याच्छिखाबन्धम्मन्त्रेणानेन 87 ॐ मणि ॥
धरिवज्रिणि शिखरिणि च सर्ववशङ्करे ॥ ७५० ॥

णि हुम्फट् वह्निजायान्तस्त्रयोविंशतिवर्णकः ॥
भूमिशुद्धिं नवार्णेन ततः कुर्य्यात्तु साधकः ॥ ७५१ ॥

ॐरक्षरक्ष 88 हुं चास्त्रं स्वाहा मन्त्रोनवाक्षरः ॥
त्रयोदशार्णमन्त्रेण विघ्नानुत्सारयेत्ततः ॥ ७५२ ॥

ॐसर्वविघ्नानुत्सारय 89 हुम्फट् ज्वलनप्रिया ॥ ७५३ ॥

मायाबीजं 90 जपापुष्पनिभं नाभौ विचिन्तयेत् ॥
तदुत्थेनाग्निना देहन्दहेत्सार्द्धं स्वपाप्मना ॥ ७५४ ॥

त्रीं बीजन्तु सुवर्णाभं चिन्तयेदधृदि मन्त्रवित् ॥

पवनेन तदुत्थेन पापभस्म क्षिपेद्भुवि ॥ ७५५ ॥

हुम्बीजमिन्दुकुन्दाभं भाले ध्यायेच्च भावतः ॥
अनया भूतशुद्ध्या तु देवीसादृश्यमाप्नुयात् ॥ ७५६ ॥

ततस्तु देव्याः पूजार्थं मन्त्रयेत्काश्यपी 91 ध्रुवम् 92
पवित्रवज्र 93 भूमे हुंस्वाहा मन्त्रो भवाक्षरः ॥ ७५७ ॥

द्वादशार्णेन मन्त्रेण भूमौ कुर्य्याच्च मण्डलम् ॥
आसुरे 94 खे वज्ररेखे हुंस्वाहाप्रणवादिकः ॥ ७५८ ॥

चतुर्दशार्णमनुना कसुमानि सुशोधयेत् ॥
यथागताभिषेकेति 95 सामग्री मे पदं वदेत् ॥
तारादिहुṁफट्स्वाहान्तो नृपवर्णो मनुर्मतः ॥ ७५९ ॥

ततः संशोधयेच्चित्तं पञ्चार्णेन सुसाधकः ॥
96 आं ह्रीं वह्निगृहिणी पञ्चार्णश्चित्तशोधने ॥ ७६० ॥

अथार्घ्यस्थापनार्थन्तु लंवं चोक्त्वा प्रमार्जयेत् ॥
भूमिं पूर्वोक्तमन्त्रेण मण्डलस्य तु मण्डलम् ॥ ७६१ ॥

कुर्य्याद्वृत्तं त्रिकोणं च भूपुरन्तस्य बाह्यतः ॥
कुर्य्यात्तत्राधारशक्तिं कूर्म्मं शेषं च संयजेत् ॥ ७६२ ॥

आधारं स्थापयेत्तत्र ॐ ह्रीं फडिति मन्त्रतः ॥
आधारं पूजयेत्तत्र वं वह्निमण्डलाय 97 च ॥ ७६३ ॥

नमोन्तेन नवार्णेन ततो नरकपालकम् ॥
हुम्फट्मन्त्रेण सङ्क्षाल्य स्थीम्बीजेन निवेशयेत् ॥ ७६४ ॥

ततोर्चयेन्नृकपालन्तज्जपेन्मन्त्रचतुष्टयम् ॥
कालीकपालाय 98 नमो ह्रांह्रींह्रूम्पूर्वकं वदेत् ॥
एकादशाक्षरो मन्त्रस्तेनपूजादिकम्मतम् ॥ ७६५ ॥

स्त्रांस्त्रींस्त्रून्तारिणीत्युक्त्वा 99 कपालाय नमोन्तकः ॥
द्वादशार्णेनात्रभवेत्कपालार्चा द्वितीयिका ॥ ७६६ ॥

ह्रांह्रींह्रूं 100 प्रोच्य नीलकपालाय नम इत्ययम् ॥
एकादशार्णोनेनोक्ता कपालार्च्चा तृतीयिका ॥ ७६७ ॥

मायांस्त्रींहुं 101 स्वर्गकपालाय सर्वापदं वदेत् ॥
ततो धाराय सर्वाय तथा सर्वोद्भवाय च ॥ ७६८ ॥

सर्वशुद्धिमयायेति सर्वासुररुधीति च ॥
रारुणाय च शुभ्रायेतिसुराभाजनाय च ॥ ७६९ ॥

देवीकपालाय नमश्चतुर्थो मन्त्र ईरितः ॥

षट्पञ्चाशत्कवर्णोयं कपालस्य तु पूजने ॥ ७७० ॥

ततस्तस्मिन्कपाले तु पूजयेदर्कमण्डलम् ॥
ॐसूर्य्यमण्डलायेति नमोन्तोयं नवाक्षरः ॥ ७७१ ॥

सूर्य्यमण्डलपूजायां नृकपाले मनुर्मतः ॥
मूलमन्त्रं 102 पठंस्तस्मिन्सुधाबुद्ध्या सुरां क्षिपेत् ॥ ७७२ ॥

गन्धपुष्पाक्षतान् क्षिप्त्वा त्रिखण्डाख्यां प्रदर्शयेत् ॥
मुद्रां सा तु करौ व्यस्तावङ्गुष्ठौ कारयेत्समौ ॥ ७७३ ॥

अनामान्तर्गते कृत्वा तर्ज्जन्यौ कुटिलाकृती ॥
कनिष्ठिके निजस्थाने त्रिखण्डाह्वानकर्म्मणि ॥ ७७४ ॥

ततस्तस्यां सुरायान्तु पूजयेच्चन्द्रमण्डलम् 103
एकादशार्णेन ततः शङ्खतोयन्तु मन्त्रयेत् ॥ ७७५ ॥

ह्रींश्रींह्रौम्ॐ 104 समुच्चार्य्य ह्रीन्त्रींहुम्फट् समुच्चरेत् ॥
ह्सौ र्हुमिति वागाद्यो मन्त्र एकादशाक्षरः ॥ ७७६ ॥

ह्रीम्बीजेन ततो मद्यं किञ्चिच्छङ्खाम्बुना क्षिपेत् ॥
शङ्खमुद्रां 105 योनिमुद्रां 106 शङ्खतोयाय दर्शयेत् ॥ ७७७ ॥

तत्र वृत्ताष्टषट्कोणं ध्यात्वा देवीं विचिन्तयेत् ॥
पूर्वोक्तां पूजयित्वैनां मूलेनाथ प्रतर्प्पयेत् ॥ ७७८ ॥

तर्जनी मध्यमानामाकनिष्ठाभिर्महेश्वरीम् ॥
साङ्गुष्ठाभिश्चतुर्वारं महाशङ्खस्थिते जले ॥ ७७९ ॥

पञ्चाक्षराणुना पश्चात्सन्तर्प्यानन्दभैरवम् ॥
ॐह्रौंह्सौं च नमोन्तोयं मन्त्रो भैरवपूजने ॥ ७८० ॥

ततस्तेनार्घ्यतोयेन प्रोक्ष्य पूजनसाधनम् ॥
योनिमुद्रां प्रदर्श्याथ प्रणमेद्भवतारिणीम् ॥ ७८१ ॥

ततस्तां पूजयेत्पीठे पद्मे षट्कोणकर्णिके ॥
धरागृहावृते पीठमादावर्च्यं सशक्तिकम् ॥ ७८२ ॥

ऐङ्कौं सरस्वतीत्युक्त्वा योगपीठात्मने नमः ॥
चतुर्दशाक्षरो मन्त्रः प्रोक्तः पीठस्य पूजने ॥ ७८३ ॥

मेधा प्रज्ञा प्रभा विद्या धीधृतिस्मृतिबुद्धयः ॥
विद्येश्वरीति सम्प्रोक्ता पीठस्य नव शक्तयः ॥ ७८४ ॥

महीगृहचतुर्दिक्षु गणेशं बटुकन्तथा ॥
क्षेत्रपालं योगिनीं च ध्यात्वा सम्यक्प्रपूजयेत् ॥ ७८५ ॥

पाशाङ्कुशौ त्रिशूलं च कपालं दधतं करैः ॥

अलङ्कारचयोपेतं गणेशं प्राक्प्रपूजयेत् ॥ ७८६ ॥

कपालशूले हस्ताभ्यां दधतं सर्प्पभूषणम् ॥
श्वयूथवेष्टितं रम्यं बटुकं दक्षिणेऽर्चयेत् ॥ ७८७ ॥

डमर्वसित्रिशूलांश्च कपालं दधतं करैः ॥
कृष्णं दिगम्बरं क्रूरं क्षेत्रपं पश्चिमे यजेत् ॥ ७८८ ॥

डमरुं पाशलिङ्गे च कपालं दधतीं करैः ॥
रक्तमाल्यां रक्तवस्त्रां योगिनीमुत्तरे यजेत् ॥ ७८९ ॥

ततः सम्पूजयेद्देव्या मस्तकेक्षोभ्यसञ्ज्ञकम् ॥
मुनिं द्वादशवर्णेन मनुना स निगद्यते ॥ ७९० ॥

अक्षोभ्य 107 वज्रपुष्पं च प्रतीच्छानलवल्लभा ॥
अथ सम्पूजयेत्कोणषट्कदेव्या षडङ्गकम् ॥ ७९१ ॥

ततश्चाष्टदलाद्दिक्षु 108 यजेद्वैरोचनामितौ ॥
पद्मनाभं शङ्खपाण्डुरं पूर्वादौ समर्चयेत् ॥ ७९२ ॥

आग्नेयादिकपत्रेषु 109 लामकां मामकान्तथा ॥
पाण्डुरां तारकां चापि भूगृहद्वारतोर्चयेत् ॥ ७९३ ॥

प्रागादिषु 110 क्रमेणैव पद्मान्तकयमान्तकौ ॥
विघ्नान्तकं नरान्तं च वक्ष्यन्ते मनवोर्चने ॥ ७९४ ॥

आदौ प्रणवमुच्चार्य्य नामबीजं समुच्चरेत् ॥
सम्बुद्ध्यतं च तन्नाम वज्रपुष्पम्प्रतीच्छ च ॥ ७९५ ॥

स्वाहान्तो मनुराख्यातो द्वादशानामयं क्रमः ॥
शक्रादींश्चापि वज्रादीन् पूजयेत्तदनन्तरम् ॥ ७९६ ॥

ततश्च नित्यपूजान्तेन्वहं देव्यै बलिं हरेत् ॥
मद्याम्बुमीनपिशितमुद्रापिष्टम्भवेद्यथा ॥ ७९७ ॥

तृप्तिः स्वस्य तु तन्मानन्तत्र मन्त्रो निगद्यते ॥
श्रीमदेकजटे 111 नीलसरस्वति महोग्र च ॥ ७९८ ॥

तारे देवि खखेत्युक्त्वा सर्वभूतपिशाचराक्षसान् ग्रसग्रस मम जाड्यं छेदयछेदय ॥ ७९९ ॥

श्रींह्रीं फड्वह्निजायान्तस्तारमायादिको मनुः ॥
भवेद्द्विपञ्चाशदर्णः पूजैवेष्टार्णतामियात् ॥ ८०० ॥

रतं कुर्वन्नदन्भक्ष्यमनेकन्दधि मध्वपि ॥
मद्यं मांसं च ताम्बूलञ्जपेल्लक्षचतुष्टयम् ॥ ८०१ ॥

दशांशं जुहुयाद्रक्तपद्मैः क्षीराज्यलोलितैः 112
आदौ यन्त्रम्पूजयित्वा जपस्थाने जपञ्चरेत् ॥ ८०२ ॥

नारीं पश्यन्स्पृशन् गच्छन् महानिशि बलिं हरेत् ॥
न कार्य्यः सुभ्रुवां द्वेषो यत्नतः परिपूजयेत् ॥ ८०३ ॥

जपे न कालनियमो न स्थितौ सर्वदा जपेत् ॥
श्मशाने शून्यसदने देवागारेथ निर्जने ॥ ८०४ ॥

पर्वते वनमध्ये वा शवमारुह्य मन्त्रवित् ॥
समरे शत्रुनिहतं यदा षण्मासिकं शिशुम् ॥ ८०५ ॥

विद्यां संसाधयेच्छीघ्रं साधितैवम्प्रसिद्ध्यति ॥
एवं सिद्धमनुर्मन्त्री प्रयोगान्कर्त्तुमर्हति ॥ ८०६ ॥

जातमात्रस्य बालस्य दिवसत्रितयादधः ॥
जिह्वायां स लिखेन्मन्त्रम्मध्वाज्याभ्यां शलाकया ॥ ८०७ ॥

सुवर्णकृतया यद्वा मन्त्री धवलदूर्वया ॥
गतेष्टमेब्दे बालोसौ जायते कविराड् ध्रुवम् ॥ ८०८ ॥

सूर्य्यग्रहे भवेत्काष्ठम्पद्मयुक्तं सरोवरे ॥
तरच्च जलमध्ये तत्समानीय तटे पुनः ॥ ८०९ ॥

दन्तैर्धृत्वा ततः कुर्य्याल्लेखनीं द्वादशाङ्गुलाम् ॥
मधुतैलसुराभिश्च संलिखेत्पद्मिनीदले ॥ ८१० ॥

मूलमन्त्रं मातृकार्णैर्मन्त्री सम्यक्प्रवेष्टयेत् ॥
निखाय तद्दलं कुण्डे चतुरस्रे समेखले ॥ ८११ ॥

संस्थाप्य पावकन्तत्र हुनेन्मूलाणुना ततः ॥
गोदुग्धमदिराक्तन्तु रक्तपद्मसहस्रकम् ॥
होमान्ते तेन मनुना पूर्वद्रव्यैर्बलिं हरेत् ॥ ८१२ ॥

पद्मेपद्मे महापद्मे पद्मावति च इत्यपि ॥
स्वाहान्तः प्रणवादिश्च मन्त्रोयं षोडशाक्षरः ॥ ८१३ ॥

ततो निशीथेपि बलिं पूर्वोक्तमनुना हरेत् ॥
एवङ्कृते पण्डितानामजेयः कविराड् भवेत् ॥
निवासो भारतीलक्ष्म्योर्जनतारञ्जनक्षमः ॥ ८१४ ॥

गोरोचनामनेनैव मनुना तु शतञ्जपेत् ॥
ललाटे तिलकं कृत्वा यं पश्येत्स तु दासवत् ॥ ८१५ ॥

श्ममानाङ्गारमाहृत्य शर्वर्य्यां भौमवासरे ॥
कृष्णाम्बरेण संवेष्ट्य निबद्धं रक्ततन्तुभिः ॥ ८१६ ॥

शताभिजप्तम्मूलेन निक्षिपेद्वैरिवेश्मनि ॥
उच्चाटयति सप्ताहात्सकुटुम्बं न संशयः ॥ ८१७ ॥

क्षाराढ्यया निशामन्त्रं 113 लिखित्वा पौरुषेस्थिनि ॥
रविवारे निशीथिन्यां सहस्रमभिमन्त्रयेत् ॥ ८१८ ॥

तत्क्षिप्तं शत्रुभवने मण्डलभ्रंशकं भवेत् ॥
क्षेत्रे क्षिप्तं सस्यहान्यै जवहृत्तुरगालये ॥ ८१९ ॥

अथातः सम्प्रवक्ष्यामि दैत्यानां वरसिद्धये ॥
ब्रह्मणोपासितान्तारां बल्यादिभिरुपासिताम् ॥
114 त्रीं ह्रीं ह्रूं समुच्चार्यह्रींहुम्फट् सप्तवर्णकः ॥ ८२० ॥

मुनिर्ब्रह्मा च गायत्री छन्दस्तारा च देवता ॥
न्यासांस्तु पूर्ववत्कुर्य्याद्ध्यानमस्या निरूप्यते ॥
श्वेताम्बरां चन्द्रकान्तिचन्द्रार्धकृतशेखराम् ॥ ८२१ ॥

कर्तरीं च कपालं च कराभ्यां दधतीं भजे ॥
नानालङ्कारशोभाढ्यां त्रीक्षणाम्पद्मसंस्थिताम् ॥ ८२२ ॥

जपपूजादिकं त्वस्याः सर्वं पूर्ववदाचरेत् ॥
मधुपुष्करपत्रान्नहोमाद्विद्यानिधिर्भवेत् ॥ ८२३ ॥

रक्तां वश्ये स्वर्णनिभां स्तम्भने मारणेऽसिताम् ॥
उच्चाटने धूम्र वर्णां शान्तौ श्वेतां विचिन्तयेत् ॥ ८२४ ॥

अथातः सम्प्रवक्ष्यामि तारकस्य 115 वराय तु ॥
ब्रह्मणोपासितान्तारां द्वादशार्णां सुदुर्लभाम् ॥ ८२५ ॥

वाचं 116 लज्जां रमां कामं ह्सौर्हुं चोग्रमुच्चरेत् ॥
तारे हुम्फडिति प्रोक्तो मन्त्रोयं द्वादशाक्षरः ॥ ८२६ ॥

अथातः सम्प्रवक्ष्यामि ब्रह्मणा समुपासिताम् ॥
हिरण्यकशिपोर्दातुं वरं सप्तार्णसम्मिताम् ॥ ८२७ ॥

प्रणवं 117 कवचं मायां क्लीं प्राक्कूटं च पञ्चमम् ॥
हुम्फडन्तः सर्वमस्य न्यासाद्यम्पूर्ववद्भवेत् ॥ ८२८ ॥

अथातः सम्प्रवक्ष्यामि हरिणा या ह्युपासिता ॥
बौद्धमार्गप्रचारार्थं सिद्धिदा द्वादशाक्षरी ॥ ८२९ ॥

उपासिता ब्रह्मणा या 118 तस्याः कूटे तु पञ्चमे ॥
सौरुक्त्वा साधिता विद्या द्वादशार्णातिबुद्धिदा ॥ ८३० ॥

यत्प्रभावाद्दिवोदासः काश्या उच्चाटितः पुरा ॥
तस्यास्तु पूर्ववज्ज्ञेयं न्यासध्यानजपादिकम् ॥ ८३१ ॥

अथातः सम्प्रवक्ष्यामि सप्तार्णां 119 रामसेविताम् 120
लक्ष्मीप्रभृतिरा 121 सार्थं तया मत्तस्तदा हली ॥ ८३२ ॥

ब्रह्मोपासितसप्तार्णमध्ये कूटं तु पञ्चमम् ॥
त्यक्त्वा तत्र सौश्चोक्त्वा विद्या रामेण 122 सेविता ॥ ८३३ ॥

सर्वसिद्धिकरी चेयं शत्रुसंहारकारिणी ॥
ध्यानपूजादिकम्प्राग्वत्प्रयोगादिकमेव च ॥ ८३४ ॥

अथातः सम्प्रवक्ष्यामि नारायणसुसेविताम् ॥
पञ्चार्णां यत्प्रभावेण दैत्यानां कदनं कृतम् ॥ ८३५ ॥

त्रीं हुं फट् क्लीं वाग्भवं च पञ्चार्णा सर्वसिद्धिदा ॥

एषां त्रयाणां तु मुनिर्विष्णुः प्राग्वज्जपादिकम् ॥ ८३६ ॥

अथातः सम्प्रवक्ष्यामि मया या समुपासिता ॥
दत्ता च रविणादित्यै सा विद्या तु षडक्षरी ॥ ८३७ ॥

ॐ ह्रीं ह्रुं ह्रीं हुं फडिति मुनिः सोहं च पूर्ववत् ॥
ज्ञेयं न्यासादिकं पूर्वं प्रयोगादि च पूर्ववत् ॥ ८३८ ॥

अथान्यं सम्प्रवक्ष्यामि चास्याः पञ्चाक्षरं मनुम् ॥
जलन्धरवधार्थं तु मया सिद्धीकृतं पुरा ॥ ८३९ ॥

त्रीं हुं मायां 123 हुम्फडिति मनुः पञ्चाक्षरो मतः ॥
मया पञ्चमुखैर्जप्तो दक्षमार्गेण भोः सुराः ॥ ८४० ॥

देवांशेषु च विप्रेषु तथा धर्म्मपुरेषु च ॥
यमानां नियमानां च तत्रस्था नान्यदेवता ॥ ८४१ ॥

वाममार्गाराधितास्तु कार्य्यं साधयितुं क्षमाः ॥
दक्षिणाराधिता देवा रणसाहाय्यकारकाः ॥ ८४२ ॥

तेजोनिधीन्रिपून्हत्वा नयन्ति ब्रह्म शाश्वतम् ॥
क्षत्रियाणां क्षयार्थं तु मया रामाय चार्पिताः ॥ ८४३ ॥

पञ्चामृतं सुरास्थाने मांसस्थाने च सूरणम् ॥
मत्स्यस्थाने खण्डकाद्यं धर्म्मपत्न्यां रतं मतम् ॥ ८४४ ॥

अन्यच्च पूर्ववद्देवा भुजते तत्प्रकाशितम् ॥
कस्तु तारां न सेवेत लोकद्वयपरीप्सया ॥ ८४५ ॥

अस्याः पूजादिकं प्राग्वद्विशेषोत्र निरूप्यते ॥
तारायाः सद्गुरौ सिद्धिः स्त्रीरते भ्रान्तता भवेत् ॥ ८४६ ॥

अथातः सम्प्रवक्ष्यामि महातारामनुं सुराः ॥
सिद्धा मार्गद्वयेनापि वर्णवर्णाधिकारतः ॥ ८४७ ॥

त्रीं 124 ह्रीं ह्रां हुं नमस्तारायै महापदमुच्चरेत् ॥
तारायै सकलेत्युक्त्वा दुस्तरात्तारयद्वयम् ॥ ८४८ ॥

तरद्वयं वह्निजाया द्वात्रिंशार्णो मनुर्मतः ॥
न्यासपुजाजपाद्यं तु प्राग्वत्सर्वं समाचरेत् ॥ ८४९ ॥

अथातः सम्प्रवक्ष्यामि देवीं दक्षिणकालिकाम् ॥
क्रीं 125 क्रीं क्रीं हुं द्विरुच्चार्य्य लज्जाबीजद्वयं तथा ॥ ८५० ॥

दक्षिणे कालिके पश्चात्पुनर्बीजानि संवदेत् ॥
क्रमेणैवाग्निगृहिणी मन्त्रो द्वाविंशदर्णकः ॥ ८५१ ॥

भैरवोस्य मुनिः प्रोक्तस्त्रिष्टुप्छन्द उदाहृतम् ॥
देवता कालिका देवी ह्रीं बीजं हुं च शक्तिका ॥ ८५२ ॥

दीर्घषट्कयुताद्येन 126 बिन्दुना संयुतेन च ॥
षडङ्गानि न्यसेन्मन्त्री द्विः सकृद्वा यथाविधि ॥ ८५३ ॥

पञ्चाशद्भिर्मातृकार्णैर्हृदये 127 च भुजद्वये ॥
दशभिर्दशभिः कुर्य्यात्तथा जङ्घाद्वये क्रमात् ॥ ८५४ ॥

एष्वङ्गेषु 128 च मूलेन पञ्चभिः पञ्चभिः शरैः ॥
सप्तभिश्चापि मन्त्रार्णर्व्यापकं च समन्ततः ॥ ८५५ ॥

करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ॥
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ॥ ८५६ ॥

खड्गाभयवराञ्छिन्नं मुण्डं च दधतीं करैः ॥
महामेघप्रभां श्यामां तथा चैव दिगम्बराम् ॥ ८५७ ॥

कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् ॥
कर्णावतंसतानीतशवयुग्मविराजिताम् ॥ ८५८ ॥

घोरदंष्ट्राकरालास्यां पीनोन्नतपयोधराम् ॥
शवानां करसङ्गातैः कृतकाञ्चीं हसन्मुखीम् ॥ ८५९ ॥

सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् ॥
घोररूपां महारौद्रीं श्मशानालयवासिनीम् ॥ ८६० ॥

दन्तुरां दक्षिणां व्यालीयुक्तालम्बिकचोच्चयाम् ॥
शवरूपमहादेवहृदयोपरिसंस्थिताम् ॥ ८६१ ॥

शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् ॥
महाकालसमायुक्तां शर्वोपरिरतान्विताम् ॥ ८६२ ॥

सुखप्रसन्नवदनां स्मेरारुणसरोरुहाम् ॥
एवं सञ्चिन्तयेत्कालीं श्मशानालयवासिनीम् ॥ ८६३ ॥

आदौ विरचयेत्पञ्च त्रिकोणानि ततः परम् ॥
पद्ममष्टदलं बाह्ये भूपुरं तत्र पूजयेत् ॥ ८६४ ॥

ततो मध्यत्रिकोणान्तर्न्यसेद्देवीं च दक्षिणे ॥
महाकालं च तत्रैव न्यसेदेष विधिः स्मृतः ॥ ८६५ ॥

ततः पूर्वादिकोणेषु वामावर्तेन पूजयेत् ॥
कालीं कपालिनीं कुल्लां प्रथमे तु त्रिकोणके ॥ ८६६ ॥

नीलां घनां बलाकां च द्वितीये तु त्रिकोणके ॥
कुरुकुल्लाविरोधिन्यौ विप्रचित्तां तृतीयके ॥ ८६७ ॥

उग्रामुग्रप्रभां दीप्तां चतुर्थे तु त्रिकोणके ॥
मात्रां मुर्द्रा च मित्रां च त्रिकोणे पञ्चमे यजेत् ॥ ८६८ ॥

सर्वाः श्यामा असिकरा मुण्डमालाविभूषणाः ॥
तर्ज्जनीं वामहस्तेन धारयन्ति च सस्मिताः ॥ ८६९ ॥

ब्राह्मीं नारायणीं माहेश्वरीं मुण्डां कुमारिकाम् ॥

अपराजितां च वाराहीं नारसिंहीं दलाष्टके ॥
सम्पूज्य यत्नतश्चापि बलिं सम्प्रतिपादयेत् ॥ ८७० ॥

हृदयं चापि देवेश्यै समर्प्य विधिवद्बुधः ॥
निर्माल्यं वै शुचौ देशे धारयेच्च सदैव हि ॥ ८७१ ॥

एकलक्षं जपेन्मन्त्रं हविष्याशी दिवा शुचिः ॥
अशुचिश्च तथा रात्रौ लक्षमेनं जपेन्मनुम् ॥
दशांशं जुहुयादाज्यैस्तर्पयेदभिषेचयेत् ॥ ८७२ ॥

होमश्च तर्प्पणं पूजा कर्त्तव्या च विशेषतः ॥
ततः प्रयोगान्कुर्वीत काम्यानिष्टफलाप्तये ॥ ८७३ ॥

नागयज्ञोपवीतिनीं चन्द्रार्धकृतशेखराम् ॥
देवीमेवं च सञ्चिन्त्य महाकालसमीपगाम् ॥ ८७४ ॥

हुंहुङ्क्रीं च तथा क्रीङ्क्रीं पञ्चबीजानि योजयेत् ॥
अन्ते तु मूलमन्त्रस्य जपपूजादिकं चरेत् ॥ ८७५ ॥

वश्यकामः साधकश्चेद्रक्तपुष्पैः प्रपूजयेत् ॥
कामबाणसमाविद्धा निर्लज्जा विह्वलाः स्त्रियः ॥
स्वंस्वं सन्त्यज्य भर्त्तारमालिङ्गन्ति सदैव तम् ॥ ८७६ ॥

एवमाकर्षणे योज्यमादौ हुङ्क्रीं ततः परम् ॥
लोहितां शूलहस्तां च महाकालाग्रसंस्थिताम् ॥
ध्यात्वा सम्पूजयेत्पुष्पैः पीतैराकर्षणं भवेत् ॥ ८७७ ॥

कपिलां द्विभुजां कर्त्रीं 129 सव्ये दक्षे कपालकम् ॥
ध्यात्वैवं सर्वमन्त्रान्ते ठद्वयं परिकीर्तयेत् ॥ ८७८ ॥

एवं प्रजप्य पुष्पेण कृष्णेनैव तु पूजयेत् ॥
मरणं तु भवेत्तस्य यमुद्दिश्य कृता क्रिया ॥ ८७९ ॥

उच्चाटयति पिङ्गाक्षी सन्त्रासयति केकरा ॥
विद्रावयति शुष्कास्या प्रोन्मत्तयति घूर्णिका ॥ ८८० ॥

विक्षोभयति सङ्क्षुब्धा सम्पादयति सम्मता ॥
सङ्कोचयति संरुद्धा विरुद्धा च विरोधयेत् ॥ ८८१ ॥

योयो भावो यत्र ज्ञेयस्तं भावं स्थापयेदिति ॥
अत्र सर्वत्र कर्त्तव्यं भावमात्रस्य चिन्तनम् ॥
उच्चाटनं विनान्यत्र सर्वत्र सुरतं मतम् ॥ ८८२ ॥

स्नातः शुक्लाम्बरधरः कृतनित्यक्रियो दिवा ॥
रात्रौ नग्न शयानश्च मैथुने च व्यवस्थितः ॥
अवाक्यो मुक्तकेशश्च तेन स्युः सर्वसिद्धयः ॥ ८८३ ॥

नग्नां वरस्त्रियं पश्यन्प्रजपेदयुतं मनुम् ॥
स भवेत्सर्वसिद्धीनां पारगः सर्वदैव हि ॥ ८८४ ॥

तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः ॥
गद्यपद्यमयी वाणी तस्य सर्वविधा भवेत् ॥ ८८५ ॥

अवाक्यो मुक्तकेशश्च हविष्यं भक्षयन्नरः ॥

प्रजपेदयुतं तावदेवं प्रतिनिधिर्भवेत् ॥ ८८६ ॥

ऋतुमत्या भगं पश्यन्नयुतं प्रजपेन्नरः ॥
अनर्घकविता तस्य गद्यपद्यमयी भवेत् ॥ ८८७ ॥

अष्टोत्तरशतं जप्त्वा भगमालोक्य चान्ततः ॥
प्रयाति मैथुनं योसौ धनधान्यसुतान्वितः ॥ ८८८ ॥

सुरते जपितव्यञ्च सदापापविशुद्धये ॥
यदि योषित्प्रसङ्गेन रेतः पतति यत्नतः ॥ ८८९ ॥

समुत्सार्य्य ततो जप्तं सर्वकामसमृद्धये ॥
श्मशानाङ्गारमादाय मुक्तकेशो दिगम्बरः ॥ ८९० ॥

जपेदयुतसङ्ख्यं तु सर्वकामसमृद्धये ॥
प्रेतमारुह्य तत्रैव यो जपेन्मन्त्रवित्तमः ॥ ८९१ ॥

अयुतं वाग्यतो भूत्वा कविभिः स तु पूजितः ॥
स याति परमां सिद्धिं देवैरपि सुदुर्लभाम् ॥ ८९२ ॥

स्वदेहरुधिराक्तैश्च बिल्वपत्रैः सहस्रशः ॥
श्मशानेऽभ्यर्चयेद्देवीं वागीशसमतां व्रजेत् ॥ ८९३ ॥

सुरतत्यक्तशुक्रेण ह्यर्कपुष्पैः सहस्रकैः ॥
श्मशानेऽभ्यर्चयेद्देवीं सर्वां सिद्धिं स विन्दति ॥ ८९४ ॥

धन्वाब्जपत्रैः सम्पूज्य देवीं सर्वफलप्रदाम् ॥
लोके स कुलवान्वाग्मी सर्वयोषित्प्रियो भवेत् ॥
सुखी स्यान्नात्र सन्देहो महाकालवचो यथा ॥ ८९५ ॥

श्मशाने योषितं नीत्वा मन्त्रैः प्रार्च्य सहस्रकैः ॥
रक्तचन्दनदिग्धाङ्गीं रक्तपुष्पैरलङ्कृताम् ॥ ८९६ ॥

तावत्पुष्पैर्मनुं प्रार्च्य ततो ध्यायेच्च चण्डिकाम् ॥
ततो गत्वाप्नुयाद्राज्यं यद्यसौ न बिभेति वै ॥ ८९७ ॥

श्मशाने ह्ययने चैवं शवासनगतः स्थिरः ॥
असकृत्तु जपेन्मन्त्रं सर्वसिद्धिप्रदो 130 भवेत् ॥ ८९८ ॥

तर्पयेच्च शवास्यं तु रक्तमांसादिभिस्त्रिधा ॥
त्रिस्त्रिर्मन्त्रानुदीर्य्यैवं सर्वसिद्धिर्भवेत्ततः ॥ ८९९ ॥

तर्प्पयेच्च पयोभिर्हि सुधाधारायुतैस्तथा ॥
रेतोभिश्च तथा तद्वत् स्वकीयेन कचेन च ॥ ९०० ॥

मैथुनोपचिताद्भिश्च भगप्रक्षालनाम्बुभिः ॥
मेषमाहिषरक्तेन नररक्तेन चैव हि ॥
मूषमार्ज्जाररक्तेन वाग्मित्वं तस्य जायते ॥ ९०१ ॥

धनित्वं जायते तस्य सर्वसिद्धिः प्रजायते ॥
वचसा स भवेज्जीवो धनेन च धनाधिपः ॥ ९०२ ॥

आज्ञया देवराजोसौ रूपेण च मनोभवः ॥
बलेन पवनो ज्येष्ठस्सर्वतत्त्वार्थसाधकः ॥ ९०३ ॥

साधितासाधितं मांसं सास्थि दद्यात्सदा बलिम् ॥
मूषमांसं मेषमांसं छागं माहिषमेव च ॥ ९०४ ॥

सर्वं सास्थि प्रदातव्यं सदा त्वग्लोमसंयुतम् ॥
अजकस्य नखं छिन्नं केशं स्वमार्जनीगतम् ॥

निवेदयेच्छमशाने तत्सर्वसिद्धिप्रदो 131 भवेत् ॥ ९०५ ॥

नारीरजोयुजां कृत्वा पर्णानां शतमुत्तमम् ॥
प्रत्येकं प्रजपेन्मन्त्रं ततस्तद्धोमयेद्बुधः ॥ ९०६ ॥

युगानाङ्गयुतं तेन पूजिता दक्षिणा भवेत् ॥
सर्वसिद्धिर्भवेत्तस्य वाग्मी धीरस्स जायते ॥ ९०७ ॥

न तस्य दुर्लभं किञ्चित्पृथिव्यां जातु जायते ॥
योनिरूपं हि कृत्वा तु कुण्डं वितस्त्यरत्नितः ॥ ९०८ ॥

तस्तविस्तारतो वापि कृत्वा चैव यथाविधि ॥
तत्र कार्य्या हि मन्त्रेण वह्निस्थापनिकाः क्रियाः ॥ ९०९ ॥

महाकालाय देवाय दद्यात्प्रथममाहुतिम् ॥
स्रुवेणाज्येन मांसेन भक्तेन रुधिरेण च ॥ ९१० ॥

कृष्णपुष्पेण साज्येन सरक्तेन विषेशतः ॥
आमिषादिभिरप्येवं जुहुयाच्च श्मशानके ॥ ९११ ॥

स्नातः शुक्लाम्बरधरः शुचिः प्रयतमानसः ॥
दिवा सर्वं प्रकुर्वीत सर्वकामार्थसिद्धये ॥ ९१२ ॥

रात्रौ नग्नो मुक्तकेशो मैथुनेनापि संयुतः ॥
प्रकुर्वीत प्रयत्नेन सर्वकामार्थसिद्धये ॥ ९१३ ॥

द्विजानामत्र 132 सर्वेषां विधी रात्रौ प्रदर्शितः ॥
शूद्राणां चैव सम्प्रोक्तो रात्रावेव विधिर्मया ॥ ९१४ ॥

महाकालं यजेद्यत्नात्पश्चाद्देवीं प्रपूजयेत् ॥
त्रिधा विभज्य मन्त्राद्यैर्यत्नात्साधकसत्तमः ॥ ९१५ ॥

मांसं रक्तं तिलं केशो नखो भक्तं च पायसम् ॥
आज्यं चेति प्रयत्नेन होतव्यं सर्वसिद्धये ॥ ९१६ ॥

एवं कृत्वा विधानेन भजते सिद्धिमुत्तमाम् ॥
यद्यत्प्रार्थयते जन्तुस्तत्तत्प्राप्नोति नित्यशः ॥ ९१७ ॥

देवत्वं दानवत्वं च सिद्धचारणतां तथा ॥
हवनात् सर्वमाप्नोति नित्यमेवमतन्द्रितः ॥ ९१८ ॥

एकचित्तो जपेन्मन्त्रं चत्वारिंशत्सहस्रकम् ॥
होमं तु रक्तपुष्पेण कुण्डे कुर्य्याद्यथाविधि ॥ ९१९ ॥

एतन्मन्त्रजपान्मन्त्री मुच्यते ब्रह्महत्यया ॥
पितृमातृवधाद्यैश्च किमन्यैः क्षुद्रपातकैः ॥ ९२० ॥

कपिलारत्नसम्पूर्णपृथ्वी दानस्य यत्फलम् ॥
कोटिहोमसहस्रैर्य्यद्ध्यानेन फलभाग्भवेत् ॥
यंयं स्पृष्ट्वा जपेन्मन्त्री स तं तं वशमानयेत् ॥ ९२१ ॥

जपित्वाष्टोत्तरशतं जुहुयाद्रक्तपुष्पकैः ॥
कुर्य्यान्नृपं वशे मन्त्री नासाध्यं भुवनत्रये ॥ ९२२ ॥

शून्यागारे देवगृहे स्वयम्भूस्थान एव च ॥
ब्रह्मचारी हविष्याशी भवेदिन्द्रसमो जपात् ॥ ९२३ ॥

कुण्डे त्रिकोणसञ्ज्ञे तु शान्तौ पुष्टौ तथैव च ॥
अयुतं जुहुयान्मन्त्री सहस्रत्रितयं पुनः ॥ ९२४ ॥

काम्ये सहस्रमारक्तैः पुष्पैर्हुत्वा दशांशतः ॥
तर्पयेच्च पुनस्तद्वद्देवीं ध्यात्वा हुताशने ॥ ९२५ ॥

सम्पूज्य मूलमन्त्रेण बिल्वपत्रैर्घृतान्वितैः ॥
सहस्रं प्रत्यहं हुत्वा प्राप्नोति परमां गतिम् ॥
घृताक्तमालतीपुष्पैर्होमाद्द्रुतकविर्भवेत् ॥ ९२६ ॥

नासाध्यं विद्यते किञ्चिदिह मन्त्रविदस्सदा ॥
देव्याराधनशक्तिश्च गुरुभक्तस्य नान्यथा ॥ ९२७ ॥

अथातः सम्प्रवक्ष्यामि मन्त्रमष्टाक्षरं परम् ॥
दक्षिणे कालिके स्वाहा मन्त्रोष्टाक्षर ईरितः ॥ ९२८ ॥

न्यासः प्राग्वद्ध्यानमत्रशवरूपशिवस्थिताम् ॥
महाकालरतासक्तां शिवाभिर्दिक्षु वेष्टिताम् ॥ ९२९ ॥

नवशक्तियुते पीठेनन्ता च विजया जया 133
तथापराजया नित्या विलासिन्यपि कीर्त्तिता ॥ ९३० ॥

क्षुब्धा घोरा मङ्गलेति पीठमन्त्रोऽर्कवर्णकः ॥
ह्रीङ्कालिकायोगपीठात्मने नम उदाहृतः ॥ ९३१ ॥

अङ्गानि पूर्वमाराध्य षड्दलेषु ततोर्चयेत् ॥
कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् ॥ ९३२ ॥

विप्रचित्तां च सम्पूज्य नवकोणेष्वथोर्चयेत् ॥
उग्रामुग्रप्रभां दीप्तां नीलां घनां वाचालिकाम् ॥ ९३३ ॥

मात्रां मुद्रां तथामितां पूज्याः पत्रेषु मातरः ॥
पूर्वोक्तभूपुरे पूज्या भैरव्योष्टौ च भैरवीः ॥ ९३४ ॥

ततो महाभैरवी च तृतीया सिंहभैरवी ॥
धूम्राख्या भैरवी तुर्य्या पञ्चमी भीमभैरवी ॥ ९३५ ॥

उन्मत्तभैरवी षष्ठी वशीकरणभैरवी ॥
सप्तमी भैरवी ख्याताष्टमी मोहनभैरवी ॥ ९३६ ॥

दिक्पतींश्च तदस्त्राणि पूजैवं परिकीर्तिता ॥
पुरश्चर्य्यादिकं प्राग्वत्प्रयोगानाचरेत्तथा ॥ ९३७ ॥

स्त्रीप्रहारं च निन्दां च कौटिल्यं चाप्रियं वचः ॥
आत्मनो हितमन्विच्छन्कालीभक्तो विवर्जयेत् ॥ ९३८ ॥

असृजा महिषादीनां कालिकां यस्तु तर्प्पयेत् ॥
तस्य स्युरचिरादेव करस्थाः सर्वसिद्धयः ॥ ९३९ ॥

अथान्यं सम्प्रवक्ष्यामि चैकविंशतिवर्णकम् ॥
ॐह्रीं ह्रीं हुं युगं त्रिः क्रीं दक्षिणे कालिके वदेत् ।९४० ॥

त्रि क्रीं हुṁहुṁ च होमश्चात्र घृतेनैव विधेयः ॥
साधकेन हि क्तियुग्ममस्य न्यासादि पूर्ववत् ॥ ९४१ ॥

बिल्वमूले शवारूढो वटमूले तथैव च ॥
लक्षं मनुं जपित्वेमं सर्वसिद्धीश्वरो भवेत् ॥
पञ्चमप्रतिमित्यायं 134 दक्षिणाम्नायसिद्धिदः ॥ ९४२ ॥

अथातः सम्प्रवक्ष्यामि शक्रार्णं मनुमुत्तमम् ॥
क्रीं हुं ह्रीं दक्षिणे कालिके क्रींहुंह्रीं दहनप्रिया ॥ ९४३ ॥

पूजनं पूर्ववत्प्रोक्तं न्यासध्यानजपादिकम् ॥
विशेषान्नसुरादीनामयमाकर्षणक्षमः ॥ ९४४ ॥

हुं 135 हुं त्रिः क्रीं द्विश्च लज्जा दक्षिणे कालिके पुनः ॥
हुञ्च त्रिर्द्विश्च लज्जा स्वाहेत्याकृतिवर्णवान् ॥ ९४५ ॥

न्यासपूजादिकं प्राग्वद्विशेषेण वशीकृतिः ॥
जपादेतस्य भूतिश्च सर्वमन्यत्तु पूर्ववत् ॥ ९४६ ॥

क्रीं क्रीं क्रीं हुṁ समुच्चार्य्य हुंलज्जाद्वयमुच्चरेत् ॥
दक्षिणे कालिके स्वाहा नृपवर्णः 136 प्रकीर्त्तितः ॥ ९४७ ॥

मन्त्रराजोयमाख्यातः पूर्ववत्यादुपासना ॥
विशेषाङ्गतराज्यानामयं राज्यप्रदो मतः ॥ ९४८ ॥

क्रीमित्येकाक्षरो मन्त्रः कालिकायाः प्रकीर्तितः ॥
जपेत्कृष्णचतुर्दश्यां शून्यागारे मनुं निशि ॥
उपवासपरश्चैवमेकाहात्सिद्धिमाप्नुयात् ॥ ९४९ ॥

यद्वा श्मशाने विपिने जपेल्लक्षं तु वाग्यतः ॥
आर्द्रोष्णीष आर्द्रवासास्तेन मन्त्रः प्रसिध्यति ॥ ९५० ॥

होमश्चात्र घृतेनैव तर्पणादि ततश्चरेत् ॥
अथवा प्रजपेन्मन्त्रं श्मशाने विगतज्वरः ॥ ९५१ ॥

निशाभोजी दशांशेन तिलैर्हवनमाचरेत् ॥
जपपूजादिप्राग्वद्विशेषाद्भोगमोक्षदम् ॥ ९५२ ॥

क्रीमुक्त्वा कालिके स्वाहाषडर्णो मन्त्र ईरितः ॥
न्यासपूजादिकं प्राग्वद्द्विशेषाद्भोगदो मतः ॥ ९५३ ॥

क्रींहुंह्रीं त्र्यक्षरात्मायं मन्त्रः काल्याः प्रकीर्त्तितः ॥
प्राग्वज्जपादिकं चास्य विशेषात्सन्ततिप्रदः ॥ ९५४ ॥

कालीबीजं च हुं माया हुम्फट् पञ्चाक्षरो मनुः ॥
न्यासध्यानादिकं प्राग्वद्विशेषाद्भूतनाशनः ॥ ९५५ ॥

क्रींहुंह्रीं च हुं फट् स्वाहान्तः सप्ताक्षरो मतः ॥
प्राग्वन्न्यासादिकं सर्वं विशेषाच्छान्तिकारकः ॥ ९५६ ॥

अथातः सम्प्रवक्ष्यामि धूमावत्या मनुं परम् ॥
धून्धूं धूमावति स्वाहा मन्त्रोष्टाक्षर ईरितः ॥ ९५७ ॥

पिप्पलादो मुनिश्छन्दो निवृज्ज्येष्ठास्य देवता ॥
षड् दीर्घबिन्दुयुक्तेन धकारेण षडङ्गकम् ॥ ९५८ ॥

आद्यबीजद्द्वयान्तस्थैः षडर्णैर्न्यासमाचरेत् ॥

अङ्गुष्ठादिषडङ्गेषु पुनर्देवीं विचिन्तयेत् ॥ ९५९ ॥

विवर्णां चञ्चलां कृष्णां दीर्घां च मलिनाम्बराम् ॥
विमुक्तकुन्तलां दीर्घां विधवां विरलद्विजाम् ॥ ९६० ॥

काकध्वजरथारूढां विलम्बितपयोधराम् ॥
शूर्प्पहस्तां तु रूक्षाक्षीं धूतहस्तां त्वरान्विताम् ॥ ९६१ ॥

प्रवृद्धरोम्णीं तु भृशं जटिलां कुटिलेक्षणाम् ॥
क्षुत्पिपासार्दितां नित्यं सदा कलहतत्पराम् ॥ ९६२ ॥

एवंविधां सदा ध्यायेत्ततः कर्म्म समाचरेत् ॥
पूर्वोक्ते पूजयेत्पीठे ज्येष्ठां शत्रुनिवर्त्तने ॥ ९६३ ॥

केशरेषु षडङ्गानि पत्रस्था अष्ट शक्तयः ॥
क्षुधा तृषा रतिर्निद्रा निर्-ऋतिर्दुर्गतीरुषा ॥
अक्षमेति ततो देवा इन्द्राद्या आयुधान्विताः ॥ ९६४ ॥

एवं ज्येष्ठां समाराध्य सिद्धमन्त्रः प्रजायते ॥
उपोष्य कृष्णभूताहे नग्नो मुक्तशिरोरुहः ॥
शून्यागारे श्मशाने वा कान्तारे भूधरेथवा ॥ ९६५ ॥

प्रत्यहं प्रजपेन्निर्भीर्ध्यायेद्देवीं शवासनाम् ॥
एवं लक्षं जपेन्मन्त्रं नाशयेदचिरादरीन् ॥ ९६६ ॥

जुहुयाल्लवणोपेतां राजिकां निशि तत्फलम् ॥ ९६७ ॥

आख्यापर्य्यन्तमालिख्य तत्र स्थाप्य शिवं यजेत् ॥
अवष्टभ्य शिवं शत्रुनाम्नाथ प्रजपेन्मनुम् ॥
सहस्रादूर्ध्वतः शत्रुज्वरेण परिगृह्यते ॥ ९६८ ॥

पञ्चगव्येन शान्तिः स्याज्ज्वरस्य पयसापि वा ॥
मन्त्राद्यक्षरमालिख्य शत्रुनाम ततः परम् ॥
द्वितीयान्तं मनौ शत्रोर्नामैवं मनुमालिखेत् ॥ ९६९ ॥

रणेऽयुत जपाच्छत्रोर्निश्चितं मरणं भवेत् ॥
कृत्वा यन्त्रे रिपोराख्यामारण्ये पद्मिनीदले ॥
उन्मादो जायते शत्रोर्मनोरयुतजापतः ॥ ९७० ॥

दग्ध्वा कङ्कं श्मशानाग्नौ तद्भस्मादाय मन्त्रितम् ॥
विरोधिनाम्नाष्टाशासु क्षिप्रमुच्चाटनं रिपोः ॥ ९७१ ॥

श्मशानभस्मना कृत्वा शिवं तस्योपरि न्यसेत् ॥
विरोधिनाम संरुद्धं कृष्णपुष्पैः समर्चयेत् ॥ ९७२ ॥

महिषी क्षीरधूपं च दद्याच्छत्रुविपत्करम् ॥
महिषीरूपेणागत्य स्वप्ने शत्रुं विनाशयेत् ॥ ९७३ ॥

मन्त्रेणानेन संलिख्य तद्भस्म रिपुमन्दिरे ॥
समुच्चाटयते तूर्णं नात्र कार्य्या विचारणा ॥ ९७४ ॥

न्यस्य पाणितले शत्रोराख्यानं चितिभस्मना ॥
वह्नावधोमुखः क्रुद्धस्तापयेदयुतं जपन् ॥
धूमावतीमनुं मन्त्री शत्रुर्यमपुरं व्रजेत् ॥ ९७५ ॥

प्राग्वत्करतले नामार्द्धद्वयं तु रिपोर्न्यसेत् ॥
जलस्थः प्रजपेन्मन्त्रं हुङ्कारान्नाशयेदरीन् ॥ ९७६ ॥

श्मशानभस्मना लिङ्गं कृत्वा पुष्पादिनार्चयेत् ॥
भगवन्निति सम्भाष्य मनसा कर्म्म चिन्तयेत् ॥ ९७७ ॥

निम्बकाकच्छदानेकीकृत्य चाष्टशतं जपेत् ॥
दद्याद्धूपं साध्यनाम्ना सद्यो विद्वेषयेदरीन् ॥
चिताकाष्ठानले क्षीरहोमाच्छान्तिः प्रजायते ॥ ९७८ ॥

रजोधूमप्रदानेन गृध्ररूपेण कालिका ॥
मारयत्यरिमागत्य शान्तिर्निर्माल्यधूपतः ॥ ९७९ ॥

वाराहवालधूपेन हन्याच्छूकररूपिणी ॥
अश्वत्थपत्रधूपेन शान्तिर्भवति नान्यथा ॥ ९८० ॥

शान्तिस्सर्वाभिचारस्य पञ्चगव्येन जायते ॥
क्षीरेण शान्तिर्भवति मधुरत्रितयेन वा ॥ ९८१ ॥

कीले क्ष्वेडतरोश्चापि शत्रोर्नाम समालिखेत् ॥
निर्दह्य मूलमन्त्रेण शत्रोर्नामाक्षराणि वै ॥
जप्त्वा पदद्वये मन्त्री खनेदुच्चाटनं रिपोः ॥ ९८२ ॥

शत्रुपादद्वयाद्धूलिं घृताक्तां भक्तमिश्रिताम् ॥
वायसेभ्यो बलिं दत्त्वा शत्रोरुच्चाटनं भवेत् ॥ ९८३ ॥

शत्रुपादद्वयाद्धूलिं चिताभस्मयुतां क्षिपेत् ॥
शत्रुगेहेपि सञ्जप्तां शत्रोरुच्चाटनं भवेत् ॥ ९८४ ॥

ज्येष्ठावासे श्मशाने वा निर्माल्यं पादगोचरम् ॥
गर्दभावासभूमौ वा प्रेतस्थाने चतुष्पथे ॥ ९८५ ॥

ऊषरे मेहनोर्व्यां वा हदनस्थानमध्यकौ ॥
आनीय शर्करां मन्त्री दिग्वासा दक्षिणामुखः ॥
श्मशानस्थो विनिःक्षिप्य चिताग्नौ मर्जयेत्तथा ॥ ९८६ ॥

मन्त्रं तं तु जपेल्लक्षं निक्षिपेच्छत्रुवेश्मनि ॥
सेनामध्येपि सर्वेषां क्षणादुच्चाटनं भवेत् ॥ ९८७ ॥

गर्ते पिपीलिकानान्तु पादधूलियुतान्कणान् ॥
सघृतान्सप्तवारांस्तु जुहुयान्मन्त्रविन्निशि ॥
भ्रमते काकवत्सर्वां महीमावरणादिषु ॥ ९८८ ॥

कृत्वा प्रतिकृतिं शत्रोर्जन्मवृक्षेण मन्त्रवित् ॥
कृत्वा प्रतिष्ठां प्राणस्य विद्ध्वा मर्मसु कण्टकैः ॥
आयासैर्मन्त्रमावृत्य वक्ष्यमाणैः प्रवेष्टयेत् ॥ ९८९ ॥

पूर्वोक्तशर्कराभिस्तु जप्त्वा नित्यं प्रतापयेत् ॥
सप्तरात्रेण तस्यापि भवेदुच्चाटनं ध्रुवम् ॥ ९९० ॥

मुख्यशैलाह्वये लेख्यौ सारमेयवराहयोः ॥
मन्त्रेण दमितौ साध्यौ भौमवारोदये रवेः ॥ ९९१ ॥

धत्तूररससंयुक्तचिताङ्गारेण मन्त्रितम् ॥
व्यत्यस्य पृष्ठतो बद्ध्वा केशपाशेन तं जपेत् ॥ ९९२ ॥

श्मशाने शत्रुमार्गे वा तद्गृहे निखनेन्निशि ॥
विद्वेषणं भवेत्सद्यो गौरीशङ्करयोरपि ॥ ९९३ ॥

अश्वत्थत्वचि मन्त्रार्णैर्दर्मितं साध्यमालिखेत् ॥
अन्यद्विषतरोस्तद्वज्जपित्वोद्धृत्य विन्यसेत् ॥ ९९४ ॥

पूर्वोक्तकण्टकैर्विद्ध्वा जपेत्स्पृष्ट्वा शतं शतम् ॥
विद्विष्टौ भवतस्तौ च नाम्नामपि च तत्क्षणात् ॥
एते प्रयोगाः कथिता धूमावत्या मया सुराः ॥ ९९५ ॥

अथातः सम्प्रवक्ष्यामि भद्रकाल्या महामनुम् ॥
ह्रौं कालीति 137 महाकालि द्विः किणिः फड् वसुप्रिया ॥
चतुर्दशाक्षरो मन्त्रो भद्रकाल्या उदाहृतः ॥ ९९६ ॥

पदैः षड्भिः षडङ्गानि जातियुक्तानिकल्पयेत् ॥
ध्यातव्येयं सदा देवी भद्रकाली भयापहा ॥ ९९७ ॥

क्षुत्क्षामा कोटराक्षी च नाहं तृप्तेति वादिनी ॥
जम्बूफलाभदशनाज्वलत्पाशं च बिभ्रती ॥
मषीमुखी मुक्तकेशी जगद्वसनलालसा ॥ ९९८ ॥

अशेषं कालिकातन्त्रे यत्प्रोक्तं तदिहापि च ॥
जपपूजाप्रयोगाद्यं यो विशेषः स उच्यते ॥ ९९९ ॥

आराध्य प्रजपेन्मन्त्रं नित्यमष्टोत्तरं शतम् ॥
रिष्टमाला विधातव्या जपार्थं सिद्धिमिच्छता ॥
इयं देवी महादेवी शत्रुविग्रहकारिणी ॥ १००० ॥

यथेष्टचेष्टया चिन्त्या धर्म्मकामार्थसिद्धिदा ॥
अथ मन्त्रान्तरं वक्ष्ये भद्रकाल्याः सुगोपितम् ॥
गृध्रकर्णि 138 विरूपाक्षि लम्बस्तनि महोदरि ॥ १००१ ॥

उत्पादयोत्पादयेति द्विधोपरिपदं भवेत् ॥
द्विधा वेत्ति पदं हुम्फट् स्वाहा सप्ताग्निवर्णकः ॥ १००२ ॥

पिप्पलादो मुनिः प्रोक्तो निवृच्छन्द उदाहृतम् ॥
भद्रकाली देवता स्याद्द्विरुत्पादय हृत्स्मृतम् ॥ १००३ ॥

उपरिभ्यां शिरः प्रोक्तं वेत्तिभ्यां तु शिखा स्मृता ॥
हुम्फड्भ्यां कवचं प्रोक्तं स्वाहयास्त्रमुदीरितम् ॥ १००४ ॥

अतिरौद्रां महादंष्ट्रां भृशं दीर्घां कृशोदरीम् ॥
सुवृत्तनयनां शूरां दीर्घघोणां मदातुराम् ॥ १००५ ॥

स्निग्धगम्भीरनिर्घोषां नीलजीमूतसन्निभाम् ॥
कुटिलभ्रुकुटीदीप्तां महारदनभीषणाम् ॥ १००६ ॥

दष्टौष्ठकोपताम्राक्षीं रक्तदीर्घशिरोरुहाम् ॥
त्रिशूलव्यग्रदोर्दण्डां नरकीं पिप्पलाशिनीम् ॥ १००७ ॥

अतिरक्ताम्बरां देवीं रक्तमांसासवप्रियाम् ॥
शिरोमालाभूषिताङ्गीं पिबन्तीं शोणितासवम् ॥ १००८ ॥

नृत्यन्तीं च हसन्तीं च पिशाचगणसेविताम् ॥
पिशाचस्कन्धमारुह्य भ्रमन्तीं वसुधातले ॥ १००९ ॥

शङ्करस्य मुखोत्पन्नां योगिनीं योगवल्लभाम् ॥
इत्थम्भूतां भद्रकालीं मातृभिः परिवारिताम् ॥ १०१० ॥

ध्यात्वा सम्यक्समाराध्य ततो मन्त्रञ्जपेद्बुधः ॥
अयुतं मन्त्रसिद्ध्यर्थं मातृकान्यासतत्परः ॥ १०११ ॥

घृतहोमं तथा कृत्वा तर्पणादि समाचरेत् ॥
धूमावत्या च यत्प्रोक्तमनयापि तदाचरेत् ॥ १०१२ ॥

उक्तः प्रयोग एवात्र विशेषविधिरुच्यते ॥
आज्याप्लुतं तु निर्दोषमेकमूलं वनान्तरात् ॥
विषवृक्षं समादाय ततो होमं समाचरेत् ॥ १०१३ ॥

शून्यागारे वने वापि कुण्डं कृत्वा त्रिकोणकम् ॥
विषवृक्षेन्धनेनाग्निं प्रज्वाल्यावाहयेत्सुधीः ॥ १०१४ ॥

ततो दण्डं जपेन्मन्त्री विषवृक्षस्य साधकः ॥
अष्टोत्तरशतं वह्नौ तं दण्डं निक्षिपेद्बुधः ॥ १०१५ ॥

सुविनीतं द्विजं वीरं कृत्वा चोत्तरसाधकम् ॥
दिक्षु सर्वासु संस्थाप्याः स्वमेदाः खड्गहस्तकाः ॥ १०१६ ॥

कृतरक्षः समाराध्य वह्निं क्रोधसमन्वितः ॥
अष्टोत्तरशतं जप्त्वा दण्डाग्रं जातवेदसि ॥ १०१७ ॥

दत्त्वा सिद्धार्थकैर्मन्त्री जुहुयात्सवनद्वयम् ॥
तैलोक्षितैश्च होमान्ते दिक्पालबटुयोगिनीः ॥
अग्न्यादींश्चापि सन्तोष्य बलिदानेन देवताम् ॥ १०१८ ॥

ध्यायेच्च प्रलयोदग्रमेघाभां रक्तनेत्रिकाम् ॥
शूलाग्रप्रोतसिंहां च नरमालाविभूषिताम् ॥ १०१९ ॥

तीक्ष्णदंष्ट्रा रक्तमधुमत्ता चैव भयानकाम् ॥
उल्काहस्तां शत्रुसङ्घं शिलायां निघ्नतीं मुहुः ॥ १०२० ॥

भावयित्वा करेणोल्कां दक्षिणेन रिपून्मुखीम् ॥
गत्वा दूरेण विसृजेत्तं दण्डं ध्यानमास्थितः ॥ १०२१ ॥

सुसहायस्ततस्तीर्थं गच्छेत्पश्चात्तु वाग्यतः ॥
स्नात्वावश्यं शुचिर्भूत्वा कण्ठमात्रोदके स्थितः ॥ १०२२ ॥

जपेत्सुदर्शनं दुर्गां सावित्रीं च समाहितः ॥
अष्टोत्तरसहस्रन्तु जपेदन्यच्छतं शतम् ॥ १०२३ ॥

उष्णीषवासा आच्छाद्य ससहायः सुरालयम् ॥
गत्वा तु महतीं पूजा कृत्वा देवस्य चक्रिणः ॥
पादयुग्मं समालम्ब्य वर्णलक्षं जपेन्मनुम् ॥ १०२४ ॥

तावज्जप्त्वा घटैः सम्यगभिषिञ्चेत्स्वकं वपुः ॥
दक्षिणा विधिवद्दत्त्वा शान्तिहोमञ्च कारयेत् ॥ १०२५ ॥

यद्वा दुर्गालये लक्षं सावित्रीये तथैव च ॥

कृत्वाभिषेकं ताभ्यान्तु शक्तितो भोजयेद्द्विजान् ॥ १०२६ ॥

दक्षिणां शक्तितो दद्यात्सिद्धो भवति साधकः ॥
रुद्रदण्डप्रयोगोयं दारुणोरगसूदनः ॥ १०२७ ॥

बिभीतकफले शत्रोर्लिखेन्नाम विदर्भितम् ॥
मन्त्रं जप्त्वा सहस्रन्तु खनेत्पीतावनौ पुनः ॥
उच्चाटनं भवेत्क्षिप्रमचलस्यापि किं नृणाम् ॥ १०२८ ॥

धत्तूरबीजचूर्णेन बिभीतकफले तथा ॥
त्रिकोणेरिप्रतिकृतिं लिखेत्सम्यगधोमुखीम् ॥ १०२९ ॥

अष्टोत्तरसहस्रन्तु जप्त्वा तां निखनेत्पुनः ॥
पादपातो यथा शत्रोः स्यात्तथोच्चाटयेद्बलात् ॥ १०३० ॥

अथातः सम्प्रवक्ष्यामि महाकालीमनुं परम् ॥
ॐ क्ष्रें क्ष्रें क्रेमतः क्रें च पशुं गृहाण चोच्चरेत् ॥ १०३१ ॥

हुं फट् स्वाहा शक्रवर्णः सिद्धमन्त्र उदाहृतः ॥
नास्य मुन्यादिकन्यासः सिद्धमन्त्रस्य विद्यते ॥ १०३२ ॥

कृष्णतोयेन सम्पूर्णे घटे चाहूय कालिकाम् ॥
बाह्म्यादिभिश्च दूतीभिर्युक्तां सम्पूज्य भक्तितः ॥ १०३३ ॥

अष्टमीं चण्डिकां स्तोत्रदेवीं ध्यायेद्गृहे पुनः ॥
पञ्चवक्त्रां महारौद्रीं प्रतिवक्त्रं त्रिलोचनाम् ॥ १०३४ ॥

शक्तिशूलधनुर्बाणखेटखड्गवराभयान् ॥
वामदक्षभुजैर्देवीं बिभ्राणां भोगिभूषणाम् ॥ १०३५ ॥

वर्णलक्षञ्जपेन्मन्त्रं वामाचारेण साधकः ॥
पिचुमन्दस्य समिधो घृताक्ता जुहुयात्ततः ॥ १०३६ ॥

हुत्वा प्रज्वलिते वह्नौ तर्पणादि ततश्चरेत् ॥
एवं सिद्धमनुर्मन्त्री मारयेदचिराद्रिपून् ॥ १०३७ ॥

देवीं प्रत्यङ्गिरां नाम सर्वापत्तिविघातिनीम् ॥
स्मरेदनन्यमनसा मानवो मानमाप्नुयात् ॥ १०३८ ॥

139 अं कं चं तथा टं पं यं शं ह्रां ह्रीं समुच्चरेत् ॥
हुम्स उक्त्वा हुं तथास्त्रं स्वाहान्तः षोडशाक्षरः ॥ १०३९ ॥

मुनिर्विधाता छन्दोष्टिर्देवताः षट् प्रकीर्तिताः ॥
महावायुर्महापृथ्वी महाकाशस्तथैव च ॥ १०४० ॥

महासमुद्रनामा च महापर्वत एव च ॥
महाग्निश्चेति हूं बीजं ह्रीं शक्तिः परिकीर्तिता ॥ १०४१ ॥

लज्जया तु षडङ्गानि षट्दीर्घान्वितया चरेत् ॥
मन्त्रदेवांस्ततो मन्त्री ध्यायेत्सुस्थिरमानसः ॥ १०४२ ॥

ताररत्नार्चिराक्रान्तमम्भः प्रस्रवणैर्युतम् ॥
व्याघ्रादिपशुभिर्व्याप्तं सानुयुक्तं गिरिं स्मरेत् ॥ १०४३ ॥

मत्स्यकूर्म्मादिबीजाढ्यं नवरत्नसमर्चितम् ॥

घनतोयं सकल्लोलमकूपारं विचिन्तयेत् ॥ १०४४ ॥

ज्वालावलीसमाक्रान्तं जगत्त्रितयमद्भुतम् ॥
पीतवर्णं महावह्निं संस्मरेच्छत्रुशान्तये ॥ १०४५ ॥

स्वरात्समुत्थरेण्वौघमलिनमूर्ध्वभूविदम् ॥
पवनं संस्मरेद्विश्वजीवनं प्राणरूपतः ॥ १०४६ ॥

नदीपर्वतवृक्षादिकलिता ग्रामसङ्कुला ॥
आधारभूता जगतो ध्येया पृथ्वीह मन्त्रिणा ॥ १०४७ ॥

सूर्य्यादिग्रहनक्षत्र कालचक्रसमन्वितम् ॥
निर्मलं गगनं ध्यायेत्प्राणिनामाश्रयप्रदम् ॥ १०४८ ॥

एवं षट् देवता ध्यात्वा सहस्राणि तु षोडश ॥
जपेन्मन्त्रं दशांशेन षड्द्रव्यैर्होममाचरेत् ॥ १०४९ ॥

व्रीहींश्च सतिलानाज्यं सर्षपांश्च यवांस्तिलान् ॥
एतान्हुत्वा यथाभागं पीठे पूर्वोदिते यजेत् ॥ १०५० ॥

अङ्गदिक्पालवज्रा द्यैरेवं सिद्धो भवेन्मनुः ॥
शत्रूपद्रव आपन्ने युञ्जीतात्र महामनुम् ॥ १०५१ ॥

अकारं पर्वताकारं धावन्तं शत्रुसम्मुखम् ॥
पतनोन्मुखमत्युग्रं प्राच्यां दिशि विचिन्तयेत् ॥ १०५२ ॥

ककारं क्षुब्धकल्लोलं प्लाविताखिलभूतलम् ॥
समुद्ररूपिणं भीमं प्रतीच्यां दिशि चिन्तयेत् ॥ १०५३ ॥

तुरीयपञ्चमाद्यर्णैः पृथ्वीगगनरूपिणौ ॥
शत्रुवर्गं च बध्नन्तौ चिन्तयेन्नियतात्मवान् ॥ १०५४ ॥

तदग्रिमं वर्म्मयुगं शत्रोर्निःश्वासपद्धतिम् ॥
निरुन्धानं स्मरेन्मन्त्री विदधद्रिपुमाकुलम् ॥ १०५५ ॥

मायादिवर्णत्रितयं शत्रोर्नेत्रे श्रुती मुखम् ॥
प्रत्येकं तु निरुन्धानं चिन्तयेत्साधकोत्तमः ॥ १०५६ ॥

वह्निसङ्क्षोभितं वस्त्रं रिपुमस्तकदेशतः ॥
उत्थाप्य वह्निं तद्देहं प्रदहेत्स मनुं स्मरेत् ॥ १०५७ ॥

एवं वर्णान्स्मरेन्मन्त्रं जपेद्वर्णसहस्रकम् ॥
मण्डलत्रितयादर्वाग्दारयेत्तेन विद्विषम् ॥ १०५८ ॥

एवं यः कुरुते कर्म्म प्राणायामजपादिभिः ॥
संशोधयित्वा चात्मानं स्वरक्षायै हरिं स्मरेत् ॥ १०५९ ॥

अथ प्रत्यङ्गिरामालामन्त्रः सिद्धः प्रकीर्त्यते ॥
140 ह्रीं नमः कृष्णवाससे स्तुते विश्वसहस्र ॥ १०६० ॥

हिंसिनि सहस्रावने महाबलेपराजिते ॥
प्रत्यङ्गिरे परसैन्यपर कर्म्मपदं वदेत् ॥ १०६१ ॥

विध्वंसिनि परमन्त्रोत्सादिनीति ततो वदेत् ॥
सर्वभूतेति दमनि सर्वदेवान्वदेत्ततः ॥ १०६२ ॥

बन्धयुग्मं सर्वविद्यां द्विश्छिन्धि क्षोभयद्वयम् ॥
परयन्त्राणीति वदेत्स्फोटयद्वितयं ततः ॥ १०६३ ॥

सर्वशृङ्खलां त्रोटयत्रोटय ज्वलदुच्चरेत् ॥
ज्वालाजिह्वे करालेति वदने प्रत्यङुच्चरेत् ॥ १०६४ ॥

गिरे ह्रीन्नम इत्येष सपादशतवर्णवान् ॥
ब्रह्मानुष्टुम्मुनिश्छन्दो देवी प्रत्यङ्गिरा मता ॥ १०६५ ॥

बीजशक्ती तारमाये कृत्याकार्य्ये नियोजयेत् ॥
षडङ्गानां विधिश्चात्र षड्दीर्घान्वितमायया ॥ १०६६ ॥

सिंहारूढातिकृष्णाङ्गी ज्वालावस्त्रा भयङ्करा ॥
शूलशस्त्रकरा खड्गं दधती या तु तां भजे ॥ १०६७ ॥

अयुतं प्रजपेन्मन्त्रं सहस्रं तिलराजिकाः ॥
हुत्वा सिद्धमनुर्मन्त्री प्रयोगेषु शतं जपेत् ॥ १०६८ ॥

ग्रहभूतादिकारिष्टं सिञ्चेन्मन्त्रं जपञ्जलैः ॥
विनाशयेत्परकृतं यन्त्रमन्त्रादिसाधनम् ॥ १०६९ ॥

अथातः सम्प्रवक्ष्यामि चामुण्डाया महामनुम् ॥
नवदुर्गात्मकं यस्य सेवनाद्भुक्तिमुक्तिके ॥ १०७० ॥

सुरथो यत्प्रसादेन राज्यं प्राप्य भवेन्मनुः ॥
संसारबन्धनिर्नाशि ज्ञानमाप्तं समाधिना ॥ १०७१ ॥

मार्कण्डेयपुराणोक्तचरित्रत्रितयस्तवः ॥
जपाद्यस्य फलं दद्यात्तं मनुं वच्मि साम्प्रतम् ॥ १०७२ ॥

वाग्लज्जाकामबीजानि 141 चामुण्डायै पदं वदेत् ॥
विच्चे नवार्णमन्त्रोयं शक्तिमन्त्रोत्तमोत्तमः ॥ १०७३ ॥

ब्रह्मविष्णुमहेशास्तु मुनयोस्य प्रकीर्त्तिताः ॥
गायत्र्युष्णिगनुष्टुप् च च्छन्दस्त्रयमुदीरितम् ॥ १०७४ ॥

देव्योस्य तु महाकाली महलक्ष्मीः सरस्वती ॥
नन्दाशाकम्भरीभीमाशक्तित्रयमुदाहृतम् ॥ १०७५ ॥

अस्य बीजत्रयं दुर्गा भ्रामरी रक्तदन्तिका ॥
अग्निवायुभगास्तत्त्वं प्राग्वदृष्यादिकं न्यसेत् ॥ १०७६ ॥

स्तनयोः शक्तिबीजानि तत्त्वानि हृदये पुनः ॥
तत एकादशन्यासान्कुर्य्यादिष्टफलप्रदान् ॥ १०७७ ॥

प्रथमं मातृकान्यासं प्रागुक्तं च समाचरेत् ॥
कृतेन येन देवस्य सारूप्यं याति मानवः ॥ १०७८ ॥

अथ द्वितीयं कुर्वीत न्यासं सारस्वताभिधम् ॥
बीजत्रयं 142 तु मन्त्राद्यं तारादिहृदयान्तकम् ॥ १०७९ ॥

षडक्षरो भवेन्मन्त्रो नवस्थानेषु विन्यसेत् ॥
कनिष्ठानामिकामध्यातर्जन्यङ्गुष्ठयुग्मके ॥ १०८० ॥

करमध्ये हस्तपृष्ठे मणिबन्धे च कूर्प्परे ॥
हृदयादिषडङ्गेषु जातियुक्तं पुनर्न्यसेत् ॥ १०८१ ॥

अस्मिन्सारस्वते न्यासे कृते जाड्यं विनश्यति ॥
न्यासः कार्यः सप्तशत्याः पठेत्कामविशेषतः ॥ १०८२ ॥

ततस्तृतीयं कुर्वीत न्यासं मातृगणादिकम् ॥
मायाबीजादिका 143 ब्राह्मी पूर्वतः पातु मां सदा ॥ १०८३ ॥

माहेश्वरी तथाग्नेय्यां कौमारी दक्षिणेऽवतु ॥
वैष्णवी पातु कौणप्यां 144 वाराही पश्चिमेवतु 145

इन्द्राणी पावने कोणे चामुण्डा चोत्तरेवतु ॥
ऐशान्ये तु महालक्ष्मीरूर्ध्वं व्योमेश्वरी तथा ॥ १०८५ ॥

सप्तद्वीपेश्वरी भूमौ रक्षेत्कामेश्वरी तथा ॥
तृतीयेस्मिन्कृते न्यासे त्रैलोक्ये विजयी भवेत् ॥ १०८६ ॥

न्यासं चतुर्थं कुर्वीत नन्दजादिसमन्वितम् ॥
नन्दजा पातु पूर्वाङ्गं कमलाङ्कुशमण्डिता ॥ १०८७ ॥

खड्गपात्रकरा पातु दक्षिणे रक्तदन्तिका ॥
पृष्ठे शाकम्भरी पातु पुष्पपल्लवसंयुता ॥ १०८८ ॥

धनुर्बाणकरा दुर्गा वामे पातु सदैव माम् ॥
शिरःपात्रकरा भीमा मस्तकाच्चरणावधि ॥ १०८९ ॥

पादादिमस्तकं यावद्भ्रामरी चित्रकान्तिभृत् ॥
तुर्य्यं न्यासं नरः कुर्वञ्जरामृत्युं व्यपोहति ॥ १०९० ॥

ब्रह्माद्यमथ कुर्वीत न्यासं पञ्चममुत्तमम् ॥
पादादिनाभिपर्यन्तं ब्रह्मा पातु सनातनः ॥ १०९१ ॥

नाभेर्विशुद्धिपर्य्यन्तम्पातु नित्यञ्जनार्दनः ॥
विशुद्धेर्ब्रह्मरन्ध्रान्तम्पातु रुद्रस्त्रिलोचनः ॥ १०९२ ॥

हंसः पातु पदद्वन्द्वं वैनतेयः करद्वयम् ॥
चक्षुषी वृषभः पातु सर्वाङ्गानि गजाननः ॥ १०९३ ॥

परापरौ देहभागौ पात्वानन्दमयो हरिः ॥
कृतेस्मिन्पञ्चमे न्यासे सर्वकामानवाप्नुयात् ॥ १०९४ ॥

षष्ठं न्यासन्ततः कुर्य्यान्महालक्ष्म्यादिसंयुतम् ॥
मध्यं पातु महालक्ष्मीरष्टादशभुजान्विता ॥ १०९५ ॥

ऊर्ध्वं सरस्वती पातु भुजैरष्टाभिरूर्जिता ॥
अधः पातु महाकाली दशबाहुसमन्विता ॥ १०९६ ॥

सिंहो हस्तद्वयम्पातु परहंसोक्षियुग्मकम् ॥ १०९७ ॥

महिषं हि समारूढो यमः पातु पदद्वयम् ॥
महिषश्चण्डिकायुक्तः सवार्ङ्गानि ममावतु ॥ १०९८ ॥

षष्ठेस्मिन्विहिते न्यासे सद्गतिं प्राप्नुयान्नरः ॥
मूलाक्षरन्यासरूपन्ततः कुर्वीत सप्तमम् ॥ १०९९ ॥

ब्रह्मरन्ध्रे 146 नेत्रयुगे श्रुत्योर्नासिकयोर्मुखे ॥ ११०० ॥

पायौ मूलमनोर्व्वर्णांस्ताराद्यान्विन्यसेत्सुधीः ॥
नमोन्तान्सप्तमेस्मिंस्तु कृते रोगक्षयो भवेत् ॥ ११०१ ॥

पायुतो ब्रह्मरन्ध्रान्तं पुनस्तानेव विन्यसेत् ॥
कृतेस्मिन्नष्टमे न्यासे सर्वं दुःखं विनश्यति ॥ ११०२ ॥

कुर्वीत नवमं न्यासं मन्त्रव्याप्तिस्वरूपकम् ॥
मस्तकाच्चरणं यावच्चरणान्मस्तकावधि ॥ ११०३ ॥

पुरोदक्षे पृष्ठदेशे वामभागेषु सन्न्यसेत् ॥
मूलमन्त्रकृतो न्यासो नवमो देवताप्तिकृत् ॥ ११०४ ॥

ततः कुर्वीत दशमं षडङ्गन्यासमुत्तमम् ॥
मूलमन्त्रं जातियुक्तं हृदयादिषु विन्यसेत् ॥
कृतेस्मिन्दशमे न्यासे त्रैलोक्यं वशमानयेत् ॥ ११०५ ॥

चण्डीपाठेपि कर्त्तव्या न्यासाश्चेष्टप्रदायकाः ॥
अन्यन्यासोक्तफलदं कुर्यादेकादशन्ततः ॥ ११०६ ॥

खड्गिनी शूलिनीत्यादि पठित्वा श्लोकपञ्चकम् ॥
आद्यं कृष्णतरं बीजं ध्यात्वा सर्वाङ्गके न्यसेत् ॥ ११०७ ॥

शूलेन पाहिनो देवीत्यादिश्लोकचतुष्टयम् ॥
पठित्वा सूर्यसदृशं द्वितीयं पृष्ठतो न्यसेत् ॥ ११०८ ॥

ततः षडङ्गं कुर्वीत विभक्तैर्मूलवर्णकैः ॥
एकेनैकेन चैकेन चतुर्भिर्युग्मकेन च ॥ ११०९ ॥

समस्तेनैव मन्त्रेण कुर्य्यादङ्गानि षट् क्रमात् ॥
शिखायां नेत्रयोः श्रुत्योर्नसोर्वक्त्रे गुदे न्यसेत् ॥ १११० ॥

मन्त्रवर्णान्समस्तेन व्यापकाष्टकमाचरेत् ॥
ततो देवीत्रयं ध्यायेत्कालिकाध्यानमुच्यते ॥ ११११ ॥

दशास्यां दशपादां च दशहस्तां विधिस्तुताम् ॥
इन्द्रनीलद्युतिं खड्गं 147 चक्रं शङ्खं शिरः शरान् ॥ १११२ ॥

दक्षहस्तेषु दधतीं गदां शूलं भुशुण्डिकाम् ॥
परिघं च धनुर्बाणौ दधतीं ब्रह्मसंस्तुताम् ॥
मधुकैटभनाशार्थं सालङ्कारां त्रिवीक्षणाम् ॥ १११३ ॥

ततो ध्यायेन्महालक्ष्मीं महिषासुरमर्दिनीम् ॥
समस्तदेवतातेजोजातां पद्मासनस्थिताम् ॥ १११४ ॥

अष्टादशभुजामक्षमालां पद्मं च सायकान् ॥
खड्गं वज्रं गदां चक्रन्दक्षहस्ते कमण्डलुम् ॥ १११५ ॥

शङ्खं च दधतीं वामे शक्तिं च परशुं धनुः ॥
चर्मदण्डौ सुरापात्रं घण्टां पाशं त्रिशूलकम् ॥ १११६ ॥

सरस्वतीं ततो ध्यायेच्छरच्चन्द्रसमप्रभाम् ॥
शङ्खं च मुशलं चक्रं दक्षहस्तेषु बिभ्रतीम् ॥ १११७ ॥

घण्टां शूलं हलं चापं वामहस्तेषु बिभ्रतीम् ॥
गौरीदेहसमुद्भूतां नृणामानन्ददायिनीम् ॥ १११८ ॥

आधारभूतां जगतः शुम्भादिकविमर्दिनीम् ॥
अधिष्ठात्रीं तृतीयं हि चरित्रं च स्मरेत्सदा ॥ १११९ ॥

एवं ध्यात्वा जपेल्लक्षचतुष्कं तद्दशांशतः ॥
पायसान्नेन जुहुयात्पूजिते हेमरेतसि ॥ ११२० ॥

जयादिशक्तिभिर्युक्ते पीठे देवीं समर्चयेत् ॥
एतद्यन्त्रं वृत्तत्र्यस्रषट्कोणाष्टदलान्वितम् ॥ ११२१ ॥

श्रिया च नैर्-ऋते विष्णुं वायव्ये तूमया शिवम् ॥
विदारयन्तं महिषं प्राक्कोणे मृगपं यजेत् ॥ ११२२ ॥

षट्कोणेषु च पूर्वादौ नन्दजां रक्तदन्तिकाम् ॥
शाकम्भरीं तथा दुर्गां भीमां च भ्रामरीं यजेत् ॥ ११२३ ॥

तारस्वबीजपूर्वाश्च ङेन्ता हृदयसंयुताः ॥
सर्वासामेव शक्तीनां नाममन्त्रा यतः स्मृताः ॥ ११२४ ॥

ततश्चाष्टदले ब्राह्मीं माहेशीं च कुमारिकाम् ॥
वैष्णवीं चापि वाराहीं तथेन्द्राणीं प्रपूजयेत् ॥ ११२५ ॥

चामुण्डामथ तद्बाह्ये चतुर्विंशदलेर्चयेत् ॥
विष्णु मायां चेतनां च बुद्धिं निद्रां क्षुधान्तथा ॥ ११२६ ॥

छायां शक्तिं परां तृष्णां क्षान्तिं जातिं तदुत्तरम् ॥
लज्जां शान्तिं तथा श्रद्धां कान्तिं लक्ष्मीं धृतिं तथा ॥ ११२७ ॥

वृत्तिं सृतिं स्मृतिं चापि दयां तुष्टिं ततः परम् ॥
पुष्टिं च मातरं भ्रान्तिमर्चयेद्भूपुरेषु च ॥ ११२८ ॥

चतुष्कोणेषु गणपं क्षेत्रेशं बटुकं तथा ॥
योगिनीश्च सुरेशाद्यांस्तद्बाह्ये चायुधानि च ॥ ११२९ ॥

मार्कण्डेयपुराणोक्तं नित्यं चण्डीस्तवं पठेत् ॥
पुटितं मूलमन्त्रेण जपन्नाप्नोति वाञ्छितम् ॥ ११३० ॥

कलौ न चण्डीसदृशी सिद्धिदा भुवनत्रये ॥
वामदक्षिणमार्गाभ्यामधिकारिफलप्रदा ॥ ११३१ ॥

तत्रादिमं चरित्रं तु रोगनाशाय योजयेत् ॥
उपसर्गविनाशाय मध्यमं योजयेद्बुधः ॥ ११३२ ॥

अन्त्यं विषयकामस्तु चरित्रं परिशीलयेत् ॥
चरित्रद्वयशीलस्य न वंशश्छिद्यते क्वचित् ॥ ११३३ ॥

पठेदाद्यं तु चरितं विपत्तिस्तस्य नश्यति ॥
अनाद्यं पठते यस्तु मारयेदचिराद्रिपून् ॥ ११३४ ॥

सार्थानुस्वारपद्यं च सप्तशत्याश्च यो जपेत् ॥
यस्तु मन्त्रेण पुटितं तत्पृठाङ्कस्य सङ्ख्यया ॥ ११३५ ॥

पठेच्च श्रीं तथाद्यन्ते सकामस्तस्य सिद्ध्यति ॥
स्वशत्रून्दैत्यभावेन स्वमित्रान्देवताधिया ॥ ११३६ ॥

भावेन यो जपेच्चण्डीं त्रिसन्ध्यं मासमात्रकम् ॥
मृता वा मृतकल्पा वा शत्रवः स्युर्न संशयः ॥ ११३७ ॥

सितपक्षादिमारभ्य चाष्टम्यन्तमिषस्य च ॥
जपेल्लक्षमनुं होमः खाद्यैस्त्रिमधुराप्लुतैः ॥ ११३८ ॥

प्रत्यहं पूजयेद्देवीं चण्डीमाद्यां तथा पठेत् ॥
विप्रान्गुरून्समाराध्य वाञ्छितं लभते द्रुतम् ॥ ११३९ ॥

सप्तशत्याश्चरित्रस्य प्रथमस्य विधिर्मुनिः ॥
छन्दो गायत्रमुदितं महाकाली तु देवता ॥ ११४० ॥

वाग्बीजं पावकस्तत्त्वं धर्मार्थे विनियोजनम् ॥
प्रयोगाणान्तु नवतिर्मारणे मोहनेत्र तु ॥ ११४१ ॥

मध्यमस्य चरित्रस्य मुनिर्विष्णुरुदाहृतः ॥
उष्णिक् छन्दो महालक्ष्मीर्देवता बीजमद्रिजा ॥ ११४२ ॥

वायुस्तत्त्वं धनप्राप्त्यै विनोयोग उदाहृतः ॥
उच्चाटे स्तम्भने चात्र प्रयोगाणां शतद्वयम् ॥ ११४३ ॥

उत्तमस्य चरित्रस्य मुनिः शङ्कर उच्यते ॥
महासरस्वती देवी त्रिष्टुप् छन्द उदाहृतम् ॥ ११४४ ॥

कामो बीजं रविस्तत्त्वं कामाप्त्यै विनियोजनम् ॥
विद्वेषवश्ययोश्चात्र प्रयोगा दिक्कृतैर्मिताः ॥ ११४५ ॥

एवं सप्तशतं चात्र प्रयोगाः परिकीर्तिताः ॥
तस्मात्सप्तशतीत्येवं व्यासेन परिकीर्तिता ॥ ११४६ ॥

सौम्यानि यानि रूपाणीत्यत्रापि परिकीर्तिताः ॥
उपास्या दक्षिणे मार्गे लक्ष्म्याद्याः सप्त शक्तयः ॥
तस्मात्सप्तशतीत्येवं प्रोक्ता व्यासेन धीमता ॥ ११४७ ॥

महाविद्येत्यादिसप्तशक्तयो ब्रह्मणा स्तुताः ॥
तस्मात्सप्तशतीत्येवं प्रोक्ता व्यासेन धीमता ॥ ११४८ ॥

ब्रह्मेन्द्रगुरुशुक्राणां विष्णुरुद्रसुरद्विषाम् ॥
उपास्या देवता यास्ता इह सप्तशती ह्यतः ॥ ११४९ ॥

लक्ष्मीश्च ललिता काली दुर्गा गायत्र्यरुन्धती ॥
सरस्वती चेति सप्त ह्युपास्या वाममार्गतः ॥ ११५० ॥

काली तारा छिन्नमस्ता सुमुखी भुवनेश्वरी ॥
बाला कुभ्रेति मनवः सूचिताः सम्प्रकीर्तिताः ॥ ११५१ ॥

नाम्ना सप्तशती चेति मध्यमे चरिते द्विधा ॥

तत्तन्मन्त्रोक्तसङ्केतैर्मन्त्रशक्तिः प्रजायते ॥ ११५२ ॥

एवं स्तवाभियुक्तानामित्यारभ्य तृतीयके ॥
चरिते शक्तयस्सप्त चामुण्डान्ताः प्रकीर्तिताः ॥ ११५३ ॥

हंसयुक्तविमानाग्रे इत्यारभ्य प्रकीर्तिताः ॥
ब्रह्माण्याद्याः सप्तसङ्ख्या वर्तमानाश्च तत्र हि ॥ ११५४ ॥

वैवस्वतेन्तरे प्राप्ते इत्यारभ्य च सप्त तु ॥
शक्त्यः प्रोक्ताः स्वयं देव्यास्तस्मात्सप्तशती स्मृता ॥ ११५५ ॥

सप्तशत्यास्तु सप्तत्वं वेद्म्यहं सर्वमेव हि ॥
पादोनं श्रीहरिर्वेत्ति वेत्त्यर्धन्तु प्रजापतिः ॥ ११५६ ॥

व्यासस्तुर्य्यांशकं वेत्ति कोट्यंशमितरे जनाः ॥
यथामन्त्रस्तु सिद्द्यर्थं योज्यते क्रियतेथवा ॥ ११५७ ॥

बीजादिकं तथा सद्भिः कामनावशतः क्वचित् ॥
वर्णानां च पदानां च व्यत्यासस्तु व्यवस्थितः ॥ ११५८ ॥

शब्दशास्त्रविरुद्धो यः पाठः सोऽशुभकर्म्मणि ॥
शब्दशास्त्राविरुद्धस्तु पाठः शन्तिकपौष्टिके ॥ ११५९ ॥

सार्थस्मृतिं पठेच्चण्डीस्तवं स्पष्टपदाक्षरम् ॥
समाप्तौ तु महालक्ष्मीं ध्यात्वा कृत्वा षडङ्गकम् ॥
जपेदष्टशतम्मूलं देवतायै निवेदयेत् ॥ ११६० ॥

एवं यः कुरुते सोत्र नावसीदति कुत्रचित् ॥
शतचण्डीविधानन्तु प्रवक्ष्ये च प्रियं नृणाम् ॥ ११६१ ॥

नृपोपद्रवमापन्ने दुर्भिक्षे भूमिकम्पने ॥
अतिवृष्ट्यामनावृष्टौ परचक्रभये क्षये ॥ ११६२ ॥

सर्वेविघ्ना विनश्यन्ति शतचण्डीविधौ कृते ॥
रोगाणां वैरिणां नाशो धनपुत्रसमृद्धयः ॥ ११६३ ॥

शङ्करस्य भवान्या वा प्रासादनिकटे शुभम् ॥
मण्डपं द्वारवेद्याद्यं कुर्य्यात्सध्वजतोरणम् ॥
तत्र कुण्डं प्रकुर्वीत प्रतीच्याम्मध्यतोपि वा ॥ ११६४ ॥

स्नात्वा नित्यकृतिं कृत्वा वृणुयाद्दशवाडवान् ॥
जितेन्द्रियान्सदाचारान्कुलीनान्सत्यवादिनः ॥
व्युत्पन्नांश्चण्डिकापाठे रतांल्लज्जादयावतः ॥ ११६५ ॥

मधुपर्कविधानेन वस्त्रशस्त्रादिदानतः ॥
पाद्यार्घ्यमासनम्मालां दद्यात्तेभ्योपि भोजनम् ॥ ११६६ ॥

ते हविष्यान्नमश्नन्तो मन्त्रार्थगतमानसाः ॥
भूमौ शयानाः प्रत्येकञ्जपेयुश्चण्डिकास्तवम् ॥
मार्कण्डेयपुराणोक्तं दशकृत्वः सचेतसः ॥ ११६७ ॥

नवार्णचण्डिकामन्त्रञ्जपेयुश्चायुतं पृथक् ॥
यजमानः पूजयेच्च कन्यानां नवकं शुभम् ॥ ११६८ ॥

द्विवर्षाद्या दशाब्दान्ताः कुमारीः परिपूजयेत् ॥

नाधिकाङ्गीं न हीनाङ्गीं कुष्ठिनीं च व्रणाङ्किताम् ॥ ११६९ ॥

अन्धाक्षीं केकराक्षीं च कुरूपां रोमयुक्तनुम् ॥
दासीजाताम्भोगयुक्तामिष्टां कन्यां न पूजयेत् ॥ ११७० ॥

विप्रां सर्वेष्टसंसिद्ध्यै यशसे क्षत्त्रियोद्भवाम् ॥
वैश्यजां धनलाभाय पुत्राप्त्यै शूद्रजां यजेत् ॥ ११७१ ॥

द्विवर्षा सा कुमार्य्युक्ता त्रिमूर्तीर्हायनत्रिका ॥
चतुरब्दा तु कल्याणी पञ्चवर्षा तु रोहिणी ॥ ११७२ ॥

षडब्दा कालिका प्रोक्ता चण्डिका सप्तहायना ॥
अष्टवर्षा शाम्भवी स्याद्दुर्गा तु नवहायना ॥ ११७३ ॥

सुभद्रा दशवर्षोक्ता नाममन्त्रैः प्रपूजयेत् ॥
एकाब्दां ह्यप्रीतिभावाद्रुद्राब्दान्तु विवर्ज्जयेत् ॥ ११७४ ॥

तासामावाहने मन्त्रः श्लोकरूपो निगद्यते ॥
मन्त्राक्षरमयीं लक्ष्मीं मातॄणां रूपधारिणीम् ॥ ११७५ ॥

नवदुर्गात्मिकां साक्षात्कन्यामावाहयाम्यहम् ॥
कुमारिकादि न्यानाम्पूजामन्त्रान्ब्रुवेऽधुना ॥ ११७६ ॥

जगत्पूज्ये जगद्वन्द्ये सर्वशत्रुविनाशिनि ॥
पूजां गृहाण कौमारि जगन्मातर्नमोस्तु ते ॥ ११७७ ॥

त्रिपुरां त्रिपुराधारां त्रिवर्गज्ञानरूपिणीम् ॥
त्रैलोक्यवन्दितां देवीं त्रिमूर्तिं पूजयाम्यहम् ॥ ११७८ ॥

कालात्मिकां कलातीतां कारुण्यहृदयां शिवाम् ॥
कल्याणजननीन्नित्यां कल्याणीं पूजयाम्यहम् ॥ ११७९ ॥

कामचारां शुभां कान्तां कालचक्रस्वरूपिणीम् ॥
कामदां करुणोदारां कालिकाम्पूजयाम्यहम् ॥ ११८० ॥

चण्डीम्पूज्यां चण्डिमयीं चण्डमुण्डप्रभञ्जिनीम् ॥
पूजयामि सदा देवीं चण्डिकां चण्डविक्रमाम् ॥ ११८१ ॥

सदानन्दकरां शान्तां सर्वदेवनमस्कृताम् ॥
सर्वभूतात्मिकां लक्ष्मीं शाम्भवीम्पूजयाम्यहम् ॥ ११८२ ॥

दुर्गमे दुस्तरे कार्य्ये भवदुःखविनाशिनीम् ॥
सुन्दरीं पूजयेद्भक्त्या दुर्गान्दुर्गार्तिनाशिनीम् ॥ ११८३ ॥

सुन्दरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीम् ॥
सुभद्रजननीं देवीं सुभद्राम्पूजयाम्यहम् ॥ ११८४ ॥

एतैर्मन्त्रैर्लक्षणाढ्यान्तान्तां कन्याम्प्रपूजयेत् ॥
गन्धैः पुष्पैर्भक्ष्यखाद्यैर्वस्त्रैराभरणैरपि ॥ ११८५ ॥

वेद्यां विरचिते रम्ये सर्वतोभद्रमण्डले ॥
घटं संस्थाप्य विधिवत्तत्रावाह्यार्चयेच्छिवाम् ॥ ११८६ ॥

तदग्रे कन्यकाश्चापि भोजयेद्ब्राह्मणानपि ॥
उपचारैश्च विधिवत्पूर्वोक्तावरणान्यपि ॥ ११८७ ॥

एवं चतुर्दिनं कृत्वा पञ्चमे होममाचरेत् ॥
पायसान्नैस्त्रिमध्वक्तैर्द्राक्षारम्भाफलैरपि ॥ ११८८ ॥

मातुलुङ्गैरिक्षुखण्ण्डैर्नारिकेलैः पुनस्तिलैः ॥
जातीफलैराम्रफलैरन्यैर्मधुरवस्तुभिः ॥ ११८९ ॥

सप्तशत्या दशावृत्यां प्रतिश्लोकं हुतं चरेत् ॥
अयुतं च नवार्णेन स्थापितेग्नौ विधानतः ॥ ११९० ॥

कृत्वावरणदेवानां होमं तन्नाममन्त्रतः ॥
कृत्वा पूर्णाहुतिं सम्यग्देवमग्निं विसृज्य च ॥ ११९१ ॥

अभिषिञ्चेच्च यष्टारं विप्रौघः कलशोदकैः ॥
निष्कं सुवर्णमथ वा प्रत्येकन्दक्षिणां दिशेत् ॥ ११९२ ॥

भोजयेच्च पृथग्विप्रान्भक्ष्यखाद्यैः पृथग्विधैः ॥
तेभ्योपि दक्षिणान्दत्त्वा गृह्णीयादाशिषः शुभाः ॥ ११९३ ॥

एवङ्कृते जगद्वश्यं सर्वे नश्यन्त्युपद्रवाः ॥
राज्यं धनं यशः पुत्रानिष्टमन्यल्लभेत च ॥ ११९४ ॥

एतद्दशगुणं कुर्याच्चण्डीसाहस्रजं विधिम् ॥
विद्यावतः सदाचारान्ब्राह्मणान्वृणुयाच्छतम् ॥ ११९५ ॥

प्रत्यहं चण्डिकापाठान्विदध्युस्ते शतोन्मितान् ॥
अयुतं च जपेयुस्ते प्रत्येकं च नवार्णकम् ॥ ११९६ ॥

पूर्वोक्ताः कन्यकाः पूज्याः पूर्वमन्त्रैः शतं शुभाः ॥
एवं दशाहं सम्पाद्य होमं कुर्य्यात्प्रयत्नतः ॥ ११९७ ॥

सप्तशत्याः शतावृत्त्या प्रतिश्लोकं विधानतः ॥
लक्षसङ्ख्यं नवार्णं च पूर्वोक्तद्रव्यसञ्चयैः ॥ ११९८ ॥

होतृभ्यो दक्षिणान्दत्त्वा पूर्वोक्तान्भोजयेद्द्विजान् ॥
सहस्रसम्मितान्साधून्देव्याराधनतत्परान् ॥ ११९९ ॥

एवं सहस्रसङ्ख्याके कृते चण्डीविधौ नृणाम् ॥
सिद्ध्यत्यभीप्सितं कर्म्म दुःखौघश्च विनश्यति ॥
नारीदुर्भगरोगाद्या नश्यन्ति व्यसनोच्चयाः ॥ १२०० ॥

नेमं विधिं वदेद्दुष्टे खले चौरे श्रुतिद्रुहि ॥
साधौ जितेन्द्रिये दान्ते वदेद्विधिमिमम्परम् ॥
एवं सावर्णिका तुष्टा ब्रह्मश्रोतॄन्प्ररक्षति ॥ १२०१ ॥

अथातः सम्प्रवक्ष्यामि महालक्ष्म्या महामनुम् ॥
ऐंह्रींश्रीङ्क्लीं वेदवर्णो मन्त्रश्चास्या उदाहृतः ॥ १२०२ ॥

ऋषिर्भृगुर्निवृत्पूर्वमनुष्टुप्छन्द ईरितम् ॥
देवता कमला प्रोक्ता सर्वसम्पत्करी शुभा ॥
एकाक्षरविधानेन तदङ्गानि प्रकल्पयेत् ॥ १२०३ ॥

चतुर्भिः श्वेतकरिभिर्घटैर्मणिमयैः सदा ॥
आसिच्यमाना रत्नाभा पद्मस्था पद्मलोचना ॥
पद्मद्वयं च हस्तेषु बिभ्रती नृपसेविता ॥ १२०४ ॥

एकाक्षरोदिते पीठे यजेद्देवीं च पूर्ववत् ॥
अर्कलक्षं जपेन्मन्त्री नियताशी हुतं चरेत् ॥
तत्सहस्रं सरोजैश्च रक्तैस्त्रिस्वादुसंयुतैः ॥
पूर्वत्रोक्तप्रयोगांश्च कुर्य्यान्मन्त्री यथाविधि ॥ १२०५ ॥

ऐं ह्रीं श्रीं क्लीं समुच्चार्य्य हसरा औयुताः पुनः ॥
विसर्गान्ताः पञ्चमन्तु बीजमेतदुदाहृतम् ॥ १२०६ ॥

जगत्प्रसूत्यै हृदयं द्वादशार्णो मनुः स्मृतः ॥
प्रणवादिरयम्मन्त्रः स्यात्त्रयोदशवर्णकः ॥ १२०७ ॥

ऋष्याद्या ब्रह्मगायत्री महालक्ष्मीः प्रकीर्त्तिता ॥
संशोध्य मनुना पाणिं प्रणवाद्यं हृदन्तकम् ॥ १२०८ ॥

अङ्गुलीषु क्रमान्मन्त्री विन्यसेद्बीजपञ्चकम् ॥
मन्त्रशेषं जपेन्मन्त्री तलयोरुभयोरपि ॥ १२०९ ॥

मूर्द्धादिचरणं यावन्मन्त्रेण व्यापकं न्यसेत् ॥
शेषं सप्तार्णकं मन्त्री विन्यसेद्धृदयादिषु ॥ १२१० ॥

पञ्चबीजैः पञ्च मन्त्री शेषैः षष्ठन्तु कल्पयेत् ॥
चतुर्थं ज्ञानमुख्यैश्च युक्तं कुर्यात्षडङ्गकम् ॥ १२११ ॥

ज्ञानैश्वर्य्ये शक्तिबले वीर्य्यं तेजश्च षट् क्रमात् ॥
एवं न्यसेन्मनुं मन्त्री चिन्तयेदिष्टदेवताम् ॥ १२१२ ॥

आदौ स्मरेत्स उद्यानं सर्वर्तुप्रतिशोभितम् ॥
मन्दान्दोलितकर्पूरकदलीवृन्दमण्डितम् ॥ १२१३ ॥

अशोकनागसरलकोविदारमनोरमम् ॥
मल्लिकायूथिकाकुन्दमदयन्तीसुगन्धिकम् ॥ १२१४ ॥

द्राक्षावल्लीनागवल्लीमाधवीदेवदारुभिः ॥
नमेरुभिर्लवङ्गैश्च चन्दनै रक्तचन्दनैः ॥ १२१५ ॥

वञ्जुलैर्मातुलुङ्गैश्च दाडिमीलकुचैः शुभम् ॥
नारिकेलैश्च खर्ज्जूरैः पूगैः कुरबकैर्वृतम् ॥ १२१६ ॥

मालतीकैङ्कताजातीपाटलीतुलसीवृतम् ॥
नन्द्यावर्त्तैर्मदनकैः सर्वर्त्तुकुसुमोज्ज्वलम् ॥ १२१७ ॥

प्रमदैः पिचुमन्दैश्च मन्दारैरुपशोभितम् ॥ १२१८ ॥

शिरीषैः पनसैरुच्चैः शाखोटैरुपशोभितम् ॥
महानसन्तस्य मध्ये स्मरेन्मन्त्री मनोरमम् ॥
मल्लिकायूथिकाकुन्दजातीमालतिकावृतम् ॥ १२१९ ॥

भ्रमद्भ्रमरमालाभिरलङ्कृतचतुर्दिशम् ॥
केकिकेकारवाकीर्णं लक्ष्मणासारसावृतम् ॥ १२२० ॥

कौरव्यहंससङ्घातं चक्रकारण्डवोज्ज्वलम् ॥
फुल्लैः सरसिजै रम्यैः कह्लारैः कैरवैरपि ॥ १२२१ ॥

नीलेन्दीवरसङ्घैश्च सुगन्धिकुसुमैर्वृतम् ॥
सर्वर्तुशोभिभिः कल्पद्रुमैर्मण्डितमुज्ज्वलम् ॥ १२२२ ॥

पुलिनं तत्र तन्मध्ये रत्नमण्डपकुट्टिमम् ॥

समुद्यदर्कसन्दोहकिरणद्युतिभास्करम् ॥ १२२३ ॥

हिमरश्मिकरव्रातसिक्तामृतसुशीतलम् ॥
प्रोल्लसद्गलितस्वर्णप्राकारसुमनोहरम् ॥ १२२४ ॥

नवरत्नमयप्रोद्यत्कपाटाट्टालिकावृतम् ॥
नूतनोद्यन्महारत्नरचितं तुङ्गगोपुरम् ॥ १२२५ ॥

तप्तगालितहेमादिदण्डध्वजसमूहकम् ॥
वैडूर्य्यादिमहारत्नरचितस्तम्भराजितम् ॥ १२२६ ॥

सन्तप्तस्वर्णरचितगवाक्षशतसङ्कुलम् ॥
हेमदण्डस्फुरद्द्वीपसहस्रं सुमनोहरम् ॥ १२२७ ॥

नानाविधक्षौमवस्त्रै 148 रचितामिश्च काञ्चनैः ॥
सक्षुद्रघण्टिकायुक्तपताकाभिरलङ्कृतम् ॥
शरद्राकासुधारश्मिदुकूलरचितैः शुभैः ॥
विचित्रवसनोद्भूतैर्युतं चन्द्रायुतैरपि ॥ १२२८ ॥

काञ्चनोर्वीमणिव्रातकुट्टिमालङ्कृतं शुभम् ॥
घनसारागुरुनखकस्तूरीकुङ्कुमैरपि ॥ १२२९ ॥

तमालैर्द्रव्यजातैश्च सुगन्धिभिरथेतरैः ॥
क्रमादेवं चतुर्द्वारं मण्डपं परिचिन्तयेत् ॥ १२३० ॥

तदन्तः पारिजातस्य मूले सिंहासनं नवम् ॥
नानारत्नगणाकीर्णं तत्र देवीं विचिन्तयेत् ॥ १२३१ ॥

बालभास्करसत्कान्तिं शशिशेखरमण्डिताम् ॥
मुक्ताहारोज्ज्वलां रम्यां रत्नाकल्पविभूषिताम् ॥ १२३२ ॥

हस्ताम्भोजैश्च बिभ्राणां नूतनां शालिमञ्जरीम् ॥
पद्मद्वयं कौस्तुभं च सस्मितास्यसरोरुहाम् ॥ १२३३ ॥

विकचोत्पलसंशोभिनयनत्रयभूषिताम् ॥
क्वणन्नूपुरसम्फुल्लरक्तोत्पलपदद्वयाम् ॥ १२३४ ॥

नितम्बविलसद्धेमरशनादाममञ्जुलाम् ॥
बलित्रयलसद्वेदिमध्यदेशसुशोभिताम् ॥ १२३५ ॥

गम्भीरावृत्तहृन्नामिह्रदमण्डलमण्डिताम् ॥
यक्षकर्दमसंलिप्तपीनोन्नतघनस्तनीम् ॥ १२३६ ॥

कुम्भिकुम्भोद्भवप्रोद्यन्मुक्तादामविराजिताम् ॥
क्षौमोत्तरासङ्गवतीं पुष्पदामविभूषिताम् ॥ १२३७ ॥

माणिक्यस्वर्णखचितवैदूर्य्याद्यङ्गदोज्ज्वलाम् ॥
काञ्चनोद्यत्पद्मरागमणिसम्बद्धकङ्कणाम् ॥ १२३८ ॥

नानाविधलसद्रत्नमुद्रिकालङ्कृताङ्गुलीम् ॥
कम्बुकण्ठकलारावां स्वर्णग्रैवेयराजिताम् ॥ १२३९ ॥

विचित्रनानालङ्कारालङ्कृताङ्गीं शुचिस्मिताम् ॥
उद्यदर्कप्रभाभास्वद्रत्नताटङ्कशोभिताम् ॥ १२४० ॥

निर्लाञ्छनशरद्राकाताराधिपशुभाननाम् ॥

पञ्चसायककोदण्डजिद्भ्रूयुगविराजिताम् ॥ १२४१ ॥

बिडालनासिकां प्रोद्यत्तिलपुष्पाक्षतां शुभाम् ॥
कर्णपूरीकृतस्वर्णबद्धरत्नाङ्कुरां शुभाम् ॥ १२४२ ॥

प्रवालविलसत्कान्तिं रुचिराधरपल्लवाम् ॥
शेखरे प्रोल्लसद्रत्नरशनावलिशोभिताम् ॥ १२४३ ॥

शीतांशुशकलाकाररुचिरालकराजिताम् ॥
कान्तकुञ्चितसंस्निग्धनीलमञ्जुलमूर्धजाम् ॥ १२४४ ॥

तप्तहाटकसम्बद्धनानारत्नौघशेखराम् ॥
सौन्दर्य्यसलिलाम्भोधिं रत्नसारविभूषिताम् ॥ १२४५ ॥

विलासलक्ष्म्या भवनं महालक्ष्मीं विचिन्तयेत् ॥
वामाधःकरमारभ्य साध्यदक्षकरावधि ॥ १२४६ ॥

आयुधानि च पूर्वोक्ते रमापीठे यजेदिमाम् ॥
दद्याद्बीजेनासनं च स्वाणुना मूर्त्तिकल्पनम् ॥ १२४७ ॥

दक्षभागे यजेद्देव्या गणकं वामतस्तथा ॥
सुमनोञ्जलिहस्तं च पुष्पाभरणमर्चयेत् ॥ १२४८ ॥

अङ्गानि पूजयेदादौ यथास्थानं च मन्त्रवित् ॥
अष्टपत्रे स्थिता पूज्या ह्युमा श्रीश्च सरस्वती ॥ १२४९ ॥

दुर्गा धरणिगायत्र्यौ देव्युषा चेति शक्तयः ॥
नानालङ्करणाढ्यास्स्युरम्भोजद्वयपाणयः ॥ १२५० ॥

अङ्घ्रिप्रक्षालनार्थञ्च प्रोच्येते वह्निसूर्यभे ॥
पूजनीये प्रयत्नेन कराभ्यां धृतचामरे ॥ १२५१ ॥

निधीन् सम्पूज्य वरुणं पश्चिमे छत्रधारिणम् ॥
परितश्च यजेद्राशीन्ग्रहान्नव ततोर्चयेत् ॥ १२५२ ॥

चतुर्दन्तान्दिग्गजांश्च यजेदाशासु मन्त्रवित् ॥
लोकपालांस्तदस्त्राणि तत्तद्बाह्ये यजेत्पुनः ॥ १२५३ ॥

जपेद्भास्करलक्षं च नियताशी धृतव्रतः ॥
तद्दशांशं प्रजुहुयाद्वृतैस्त्रिस्वादुसंयुतैः ॥ १२५४ ॥

पद्मै रमाद्रुमफलैः प्रत्येकमयुतं हुनेत् ॥
सुशीतैः शुचिभिस्तोयैस्तर्प्पयेदयुतद्वयम् ॥ १२५५ ॥

एवं सिद्धमनुर्मन्त्री गुरुभक्तो दृढव्रतः ॥
कुर्य्यात्काम्यानि कर्माणि स्वाभीष्टानि च मन्त्रवित् ॥ १२५६ ॥

आज्यप्लुताभिर्दूर्वाभिरायुष्कामो हुनेन्नरः ॥
सहस्रं दशरात्रं च समिद्धे हव्यावाहने ॥ १२५७ ॥

घृताक्ताभिश्च दूर्वाभिरष्टोत्तरसहस्रकम् ॥
सप्ताहं जुहुयाज्जीवेद्वत्सराणां शतं सुधीः ॥ १२५८ ॥

दूर्वायुक्तैर्घृताभ्यक्तैः स्निग्धैः प्रजुहुयाद्बुधः ॥
आरोग्यकामः कमलैरारभ्यार्कदिनं सुधीः ॥
।१२५९ ॥

दशाहं प्रत्यहं वापि सर्पिषाक्तास्समिद्वराः ॥
कण्ठमात्रे जले स्थित्वा महालक्ष्मीमिति स्मरेत् ॥ १२६० ॥

अष्टाधिकसहस्रं च ऊर्ध्वबाहुर्जपेन्मनुम् ॥
स वाञ्छितार्थं लभते तथारोग्यं च साधकः ॥ १२६१ ॥

अन्वहं जुहुयादष्टसहस्रं शालिभिर्ध्रुवम् ॥
सोचिराल्लभते लक्ष्मीं महतीं साधकोत्तमः ॥ १२६२ ॥

रमालताप्रसूनैर्वा नन्द्यावर्त्तसमुद्भवैः ॥
श्वेतसर्षपकैराज्यप्लुतैर्वा जुहुयाद्बुधः ॥ १२६३ ॥

महीयसीं रमामाप्नोत्यचिरात्साधकोत्तमः ॥
मान्यते च तथा सर्वैर्जन्तुभिर्नान्यथात्र च ॥ १२६४ ॥

नारिकेलरसैर्युक्तैर्मरिचैर्वीरकान्वितैः ॥
गुडयुक्तघृतैः पक्वैरपूपैर्जुहुयात्सुधीः ॥ १२६५ ॥

संयतः प्रत्यहं चाष्टशतं पायसभुग्द्विजः ॥
मण्डलाच्च ध्रुवं साक्षाद्भवेद्वैश्रवणोपमः ॥
गुडमिश्रहविष्यस्य होमादन्नसमृद्धिमान् ॥ १२६६ ॥

अष्टोत्तरसहस्रं च जपापुष्पाणि संहुनेत् ॥
सङ्गृह्य भस्ममन्त्री तन्नागवल्लीरसेन च ॥
सहितं तिलकं कुर्य्यात्सर्वं वश्यं 149 भवेद्ध्रुवम् ॥ १२६७ ॥

पलाशोत्थसमिद्भिश्च कुसुमैर्जुहुयात्तथा ॥
वश्या भवेयुर्मुखरा वशिनस्तस्य मन्त्रिणः ॥ १२६८ ॥

जातिकाकुसुमैर्मन्त्री राजानं वशमानयेत् ॥
जुहुयादरुणाम्भोजैर्वश्यास्स्युस्तस्य विश्वगाः ॥ १२६९ ॥

नीलोत्पलानां होमेन वश्याश्चारण्यसम्भवाः ॥
वशयेत्प्रमदा विद्वान्मधूककुसुमैर्हुनेत् ॥ १२७० ॥

नवकोष्ठात्मकं सम्यङ्मण्डलं रचयेत्सुधीः ॥
मध्ये यन्त्रं वक्ष्यमाणं कल्पयेच्च यथाविधि ॥ १२७१ ॥

तेषु कोष्ठेषु नवसु विन्यसेत्कलशान्नव ॥
शुभांश्चन्दनकाश्मीरलिप्तान्सर्वाङ्गसुन्दरान् ॥ १२७२ ॥

कुर्वंस्तण्डुलसंयुक्तान्सर्वदृष्टिमनोहरान् ॥
पूजयेच्च यथावत्तान्वासितैस्तीर्थपुष्करैः ॥ १२७३ ॥

कर्षस्वर्णेनरचितन्नवरत्नसमन्वितम् ॥
कर्णिकामध्यविलसत्तत्र पद्मं तु कारयेत् ॥ १२७४ ॥

मध्यमे कलशे रम्ये यथावत्तद्विनिःक्षिपेत् ॥
खादिरोशीरकाश्मीरचन्द्रागुरुतमालकम् ॥ १२७५ ॥

जातीकङ्कोलसंयुक्तं वीक्ष्य सर्वं विभागशः ॥
कलशेषु च सर्वेषु यथाविधि विलोडयेत् ॥ १२७६ ॥

सदाभद्रा च दूर्वा च देवी श्रीश्च मधुव्रता ॥
अपामागर्स्य पत्राणि मुसली वज्रवल्लरी ॥ १२७७ ॥

चक्रप्रियङ्गुव्रीहींश्च मुद्गगोधूमतण्डुलान् ॥
शालिमाषांश्च सतिलान्यवान्प्रक्षाल्य निःक्षिपेत् ॥ १२७८ ॥

कदलीनारिकेराणां श्रीधात्री कुचभूरुहाम् 150
फलानि पद्मबकुलजातीसौगन्धिकानि च ॥ १२७९ ॥

मल्लिकाचम्पकाशोकपुन्नागोत्थानि निःक्षिपेत् ॥
पुष्पाणि केतकस्याथ तुलसीपल्लवांस्तथा ॥ १२८० ॥

न्यग्रोधोदुम्बरप्लक्षचैत्यानां ब्रह्मकूर्चनम् ॥
प्रक्षिप्य च घटान्वस्त्रैश्छादयेच्चम्पकैः शुभैः ॥ १२८१ ॥

साक्षतैः सफलैस्तांश्च वेष्टयेत्क्षौमवाससा ॥
तेषु मध्यस्थकलशे समावाह्य महेश्वरीम् ॥ १२८२ ॥

महालक्ष्मीं चन्दनाद्यैरुपचारैश्च संयजेत् ॥
शेषेष्वष्टसु कुम्भेषु क्रमानुक्रमतो यजेत् ॥ १२८३ ॥

सुगन्धैश्चन्दनैः पुष्पैर्मनोज्ञैर्धूपदोपकैः ॥
भक्ष्यभोज्यनिवेद्यैश्च यथाविधि यजेत्सुधीः ॥ १२८४ ॥

संस्पृश्य तान्घटान्मन्त्री त्रिसहस्रं मनुं जपेत् ॥
ततः साध्यं समानीय संयतं स्थण्डिले शुभे ॥ १२८५ ॥

सुपीठे तं निवेश्य स्वं तस्मिन्साध्येनुयोजयेत् ॥
मनोहरैरलङ्कारैर्विविधैर्वसनैरपि ॥ १२८६ ॥

आदरादप्यलङ्कृत्य सुकॢप्तं सुमनोवृतम् ॥
सुवासिनीभिर्जायाभिरर्चितानां द्विजन्मनाम् ॥ १२८७ ॥

सहाशीर्वचनैः सर्ववाद्यानां निनदैः सह ॥
वेदघोषेण च सह लग्ने चैव तु शोभने ॥ १२८८ ॥

तेषु मध्यस्थितं कुम्भं समुद्धृत्य गुरुः स्वयम् ॥
मूलमन्त्रं जपन्सिञ्चेत्साध्यशीर्ष्णि ततोपरैः ॥ १२८९ ॥

कलशैः पूर्ववत्सिक्त्वा हस्तेनास्य शिखां शिरः ॥
संस्पृशन्वेदगदितामाशिषं सम्प्रयच्छति ॥ १२९० ॥

कल्याणमस्तु च सदा सम्पदश्च निराकुलाः ॥
प्रसीदतु महालक्ष्मीः सकला देवता अपि ॥ १२९१ ॥

रक्षन्तु त्वां सर्वदेवा विजयोस्तु सुखी भव ॥
इत्थं दत्त्वाशिषं पश्चाद्वाससी परिधाय च ॥ १२९२ ॥

आचान्तः प्रणमेत्सम्यग्यथाविधि गुरुं शिशुः ॥
नानाविधैश्च वसनैर्नानालङ्करणैः शुभैः ॥ १२९३ ॥

धनैर्धान्यै रत्नगोभिर्महिषीभिश्च दासकैः ॥
दासीभिर्देवताबुद्ध्या गुरुं सन्तोषयेत्सुधीः ॥ १२९४ ॥

नानाविधैर्भक्ष्यभोज्यैर्लेह्यैश्चोष्यैस्तथेतरैः ॥
दीनान्धकृपणैः सार्धं भोजयेच्च द्विजन्मनः ॥ १२९५ ॥

ततः स्वमन्दिरे कुर्य्यादुत्सवं बन्धुभिः सह ॥
महात्रिलोकरम्यश्च ततः स नृवरः स्वयम् ॥ १२९६ ॥

कृतार्थं मन्यते सम्यगात्मानं नान्यथा क्वचित् ॥
राजा शत्रून् विजयतेभिषिक्तश्च यथाविधि ॥ १२९७ ॥

राजपुत्रश्च राजा स्यादचिरादाप्नुयात्पदम् ॥
बन्ध्याभिषिक्ता रमणादचिराद्वाञ्छितं सुतम् ॥
महामतिं च लभते नात्र कार्य्या विचारणा ॥ १२९८ ॥

महामयेषु भूतादि समुत्थेषु भयेषु च ॥
कृत्याद्रोहादिदोषे च प्रकुर्य्यादभिषेचनम् ॥ १२९९ ॥

अभिषेकेणामुना च नृणां भवति निश्चितम् ॥
सर्वसम्पच्च सौभाग्यं सर्वामयशमस्तथा ॥
सर्वापद्वारणं चैव सर्वसौख्यानि निश्चितम् ॥ १३०० ॥

अथातः सम्प्रवक्ष्यामि सप्तविंशाक्षरं मनुम् ॥
तारो 151 रमा शक्ति लक्ष्मि कमले कमलालये ॥ १३०१ ॥

प्रसीदद्वितयं श्रींह्रींश्रीं महालक्ष्मि हृत्ताथा ॥
गायत्रीछन्द उद्दिष्टं मुनिर्दक्षः प्रजापतिः ॥ १३०२ ॥

लक्ष्मीर्देव्यथ पञ्चाङ्गं 152 त्रिबीजपुटितैर्मनोः ॥
वर्णैस्त्रिपञ्चरामाग्निरामैर्ध्यानमथो ध्रुवे ॥ १३०३ ॥

सिन्दूराभां च पद्मस्थां पद्मपत्रं च दर्पणम् ॥
अर्घपात्रं च दधतीं सद्धारमुकुटान्विताम् ॥ १३०४ ॥

नानादासीपरिवृतां काञ्चीकुण्डलमण्डिताम् ॥
लावण्यभूमिकां वन्दे सुन्दराङ्गदबाहुकाम् ॥ १३०५ ॥

पूर्वोदिते यजेत्पीठे वर्त्तमानेन वर्त्मना ॥
पुरोङ्गानि यजेत्पश्चाच्छ्रीधरादींस्ततः परम् ॥ १३०६ ॥

श्रीधरश्च हृषीकेशो वैकुण्ठो विश्वरूपकः ॥
वासुदेवः सङ्कर्षणश्च प्रद्युम्नानिरुद्धकौ ॥ १३०७ ॥

तदग्राष्टदले पूज्या भारती पार्वती तथा ॥
ब्राह्मी सती दिक्षु चैता आग्नेयादिविदिक्षु तु ॥ १३०८ ॥

दमकः सलिलश्चापि गुग्गुलुश्च कुरन्तकः ॥
चत्वारस्तु गजा एते तृतीयेष्टदलेर्चयेत् ॥ १३०९ ॥

अनुरागो विसंवादो विजयो वल्लभो मदः ॥
हर्षो बलश्च तेजस्वी यजेल्लोकेश्वरान्बहिः ॥ १३१० ॥

तदायुधानि तद्बाह्ये पूजयेच्चन्दनादिभिः ॥
एवं सम्पूजयेल्लक्ष्मीं यो मर्त्यः स धनी भवेत् ॥ १३११ ॥

लक्षं जपेत्फलैर्बिल्वैर्जुहुयान्मधुरोक्षितैः ॥
दशाहं संस्कृते वह्नौ प्राक्प्रोक्तेनैव वर्त्मना ॥ १३१२ ॥

एवं सिद्धमनुर्मन्त्री साधयेदिष्टमात्मनः ॥
चन्दनाक्तैः सरसिजैर्लक्षं प्रजुहुयात्सुधीः ॥ १३१३ ॥

लभते वैरिणां राज्यं तथैव समरं विना ॥
राजलक्ष्मीमनुं चैव प्राप्य राजसभां व्रजेत् ॥
तथा स्वं प्राप्यते नित्यं नात्र कार्य्या विचारणा ॥ १३१४ ॥

सहदेवीं श्रीलतां च श्वेतदूर्वापराजिते ॥
भद्रां मधुव्रतां शक्रवल्लीं शाल्मलिमूसली ॥ १३१५ ॥

हरिचन्दनकालीयं कर्पूरं रक्तचन्दनम् ॥
कुष्ठकङ्कोलकाश्मीरं हरिद्राशिखरी समे ॥ १३१६ ॥

पिष्ट्वा सम्यक्चसञ्जप्तमष्टोत्तरसहस्रकम् ॥
अनेन तिलकं कुर्य्यात्सर्वं वश्यं भवेद्ध्रुवम् ॥
पूर्वोक्ताश्चात्र सिद्ध्यन्ति प्रयोगा वाञ्छितार्थदाः ॥ १३१७ ॥

ॐशुद्धवाससे चोक्त्वा नमो महाश्रिये च हृत् ॥
चतुर्दशाक्षरो मन्त्रो लक्ष्मीहृदयनामकः ॥ १३१८ ॥

मनोः पदैश्च पञ्चाङ्गं पूर्ववद्ध्यानपूजनम् ॥
जपस्त्रिलक्षमेतस्य पद्मैर्होमो दशांशतः ॥ १३१९ ॥

मुनिश्छन्दादिकं प्राग्वत्प्रयोगः पूर्ववन्मतः ॥
एतस्योपासकानां तु न वंशे स्याद्दरिद्रता ॥ १३२० ॥

यौं नौं मौं नम ऐं चोक्त्वा श्रियै श्रीं नम इत्यपि ॥
एकादशार्णो मन्त्रोयं जमदग्निर्मतो मुनिः ॥ १३२१ ॥

त्रिष्टुप्छन्दो रमा देवी षडङ्गविधिरुच्यते ॥
यौं नौं मौं नम ऐं नमो हृदयाय नमोस्तु हृत् ॥ १३२२ ॥

यौं नौं मौं नम ऐंस्वाहा शिरसेग्निवधूः शिरः ॥
यौं नौं मौं नम ऐं वषट् शिखायै च वषट् शिखा ॥ १३२३ ॥

यौं नौं मौं नम ऐं हुं च कवचं कवचाय हुम् ॥
श्रियै नेत्राय वौषट् च प्रोच्य नेत्रे तुं विन्यसेत् ॥ १३२४ ॥

श्रीं नमोस्त्राय फट् चेत्यस्त्रमङ्गुल्यादिकं तथा ॥
ध्यानपूजादिकं सर्वं महालक्ष्मीवदाचरेत् ॥ १३२५ ॥

नित्यं द्वादशसाहस्र सप्तरात्रं मनुं जपेत् ॥
तेन सिद्धो भवेन्मन्त्रः साधकस्य न संशयः ॥ १३२६ ॥

होमः पूर्वोदितैर्द्रव्यैर्दशांशं तर्प्पणादिकम् ॥
कृत्वा ब्राह्मणभोजान्तं मन्त्रसिद्धिः प्रजायते ॥ १३२७ ॥

लक्ष्मीं सुवर्णककरां ध्यात्वा मन्त्रमिमं जपेत् ॥
अष्टोत्तरसहस्रं स लभते वाञ्छितं फलम् ॥ १३२८ ॥

जपन्नष्टशतं विश्वं तिलकाद्वशयेद्धुवम् ॥
मासत्रयं जपित्वा च ग्रामं मन्त्री तथाप्नुयात् ॥ १३२९ ॥

अथातः सम्प्रवक्ष्यामि लक्ष्मीं पद्मप्रभाभिधाम् ॥
पद्मप्रभे 153 पद्मसुन्दरि पद्मेश्यग्निगेहिनि ॥ १३३० ॥

चतुर्दशाक्षरो मन्त्रो ध्यानाद्येकाक्षरोदितम् ॥
पदैश्चतुर्भिः सर्वेण पञ्चाङ्गं गदितं मनोः ॥ १३३१ ॥

जपपूजा पुरश्चर्य्यादिकमेकाक्षरोदितम् ॥
इयं सिद्धा महाविद्या भक्तानां कल्पवल्लिका ॥ १३३२ ॥

अथातः सम्प्रवक्ष्यामि लक्ष्मीसाम्राज्यसञ्ज्ञितम् 154
आदौ 155 श्रीबीजमुच्चार्य्य सहकलहरास्ततः ॥ १३३३ ॥

ईकारान्ता बिन्दुयुता द्वितीयं कूटमुच्यते ॥
पुनश्च श्रीं समुच्चार्य्य मन्त्रस्त्र्यक्षर ईरितः ॥ १३३४ ॥

ऋषिर्हरिस्तथा छन्दो गायत्री देवता मता ॥
तथैव मोहिनी लक्ष्मीस्सर्वसाम्राज्यदायिनी ॥ १३३५ ॥

बीजं कूटं समाख्यातं शक्तिः श्रीबीजमुच्यते ॥
षड्भिर्दीर्घैः 156 स्वरैर्विद्वान्षडङ्गानि प्रविन्यसेत् ॥ १३३६ ॥

अतसीपुष्पसङ्काशां रत्नभूषणभूषिताम् ॥
शङ्खचक्रगदापद्मशार्ङ्गबाणधरां करैः ॥ १३३७ ॥

षड्भिः कराभ्यां देवेशीं वरदाभयशोभिताम् ॥
पूजयामि जगद्धात्रीं बिन्दुषकोणमेव च ॥ १३३८ ॥

त्रिकोणं चाष्टपत्रं च भूपुरद्वारमण्डितम् ॥
अस्मिन्समावाह्य देवीं पूजयेदुपचारकैः ॥ १३३९ ॥

बिन्दौ देवीं षडङ्गानि षट्कोणेषु यजेत्ततः ॥
अग्रे यजेच्च गायत्रीं सावित्रीं च सरस्वतीम् ॥ १३४० ॥

ब्राह्म्याद्याश्चाष्टपत्रेषु भूपुरे मनुनामुना ॥
अष्टादशमहाकोटियोगिनीभ्यो नमस्त्विति ॥ १३४१ ॥

अर्च्याः स्युर्नेत्रयोगिन्यः शक्राद्यानायुधान्यपि ॥
पुनर्देवीं समभ्यर्च्य गन्धपुष्पाक्षतादिभिः ॥ १३४२ ॥

बटुकक्षेत्रपालेभ्यो योगिनीभ्यो बलिं हरेत् ॥
एवमष्टभुजां ध्यात्वा त्रिलक्षं प्रजपेत्सुधीः ॥ १३४३ ॥

तद्दशांशेन पद्मैस्तु हुनेत्साम्राज्यसिद्धये ॥
तर्प्पणं मार्ज्जनं कुर्य्याद्ब्राह्मणानपि भोजयेत् ॥ १३४४ ॥

अथातः सम्प्रवक्ष्यामि सप्तवर्णं रमामनुम् ॥
हृदयं 157 ब्रह्मतनये मन्त्रोयं परिकीर्त्तितः ॥ १३४५ ॥

मनोः पदद्वयेनैव 158 त्रिरावृत्त्या षडङ्गकम् ॥
ध्यानपूजापुरश्चर्य्यादिकमेकाक्षरोदितम् ॥ १३४६ ॥

अथातः सम्प्रवक्ष्यामि ज्येष्ठालक्ष्मीमनुं परम् ॥
ॐह्रींश्रीमादिलक्ष्मीति 159 पदमुक्त्वा स्वयम्भुवे ॥
ह्रीं ज्येष्ठायै नमः प्रोच्य मन्त्रः सप्तदशाक्षरः ॥ १३४७ ॥

ऋषिरस्य स्मृतो ब्रह्मा छन्दस्त्रिष्टुबुदाहृतम् ॥
देवता ज्येष्ठलक्ष्मीश्च श्रीमाये शक्तिबीजके ॥ १३४८ ॥

प्रमृज्य त्रिः करौ विद्वानङ्गन्यासं समाचरेत् ॥
त्रिवेदाब्धीन्द्वग्नियुग्मवर्णैरङ्गानि षट् क्रमात् ॥ १३४९ ॥

शिरोभूमध्यवक्त्रेषु बीजानां त्रितयं न्यसेत् ॥
हृन्नाभ्याधारजान्वङ्घ्रौ पदानां पञ्चकं न्यसेत् ॥ १३५० ॥

पद्मासनस्थामरुणामरुणाम्बरधारिणीम् ॥
कुङ्कुमक्षोदलिप्ताङ्गीं प्रफुल्लकमलेक्षणाम् ॥ १३५१ ॥

मन्दस्मितमुखां ज्येष्ठां सुधापूर्णं घटं घटम् ॥
धनपूर्णं सृणिं पाशं दधतीं भुजपल्लवैः ॥ १३५२ ॥

चिन्तयेत्परया भक्त्या ततो देवीं प्रपूजयेत् ॥
सम्यग्धर्म्मादिभिः पीठं मन्त्रवित्परिकल्पयेत् ॥ १३५३ ॥

लोहिताक्षी विरूपाक्षी कराली नीललोहिता ॥
समदा वारुणी पुष्टिरमोघा विश्वमोहिनी ॥
पूर्वादिदलमध्येषु मध्ये चार्च्याः क्रमादिमाः ॥ १३५४ ॥

रक्तज्येष्ठायै विद्महे नीलज्येष्ठायै धीमहि ॥
तन्नो लक्ष्मीः प्रचोदयात् ॥ १३५५ ॥

गायत्र्यावाह्य तां ज्येष्ठां पूजयेच्चन्दनादिभिः ॥
अङ्गानि मातृलोकेशांस्तदस्त्राणि प्रपूजयेत् ॥ १३५६ ॥

लक्षं तु प्रजपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥
पायसेन सुसिद्धेन सर्पिःसिक्तेन साधकः ॥ १३५७ ॥

तर्प्पणं मार्जनं कृत्वा ब्राह्मणानपि भोजयेत् ॥
इह वंशं च सम्पत्तिं वैकुण्ठं लभते मृतः ॥ १३५८ ॥

अथातः सम्प्रवक्ष्यामि सिद्धिलक्ष्मीमहामनुम् ॥
एकादशाक्षरैरूनं तं शतत्रयवर्णकम् ॥ १३५९ ॥

ॐ श्रीं नमः सर्वसिद्धियोगिनीभ्यो नमो वदेत् ॥
सर्वसिद्धिमातृकाभ्यो नमो नित्योदिता वदेत् ॥ १३६० ॥

नन्देत्युक्त्वा नन्दितायै सकलेतिपदं ततः ॥
कुलचक्रनामिकायै भगवत्यै पदं वदेत् ॥ १३६१ ॥

ततश्चण्डकपालिन्यै ॐह्रींह्रुंह्रां वदेत्ततः ॥
ॐक्षौङ्क्रौं नम इत्युक्त्वा परमेति च हंसिनी ॥ १३६२ ॥

निर्वाणमार्गदे देवि विषमोपप्लवेति च ॥
प्रशमनि पदं प्रोच्य सकलेतिपदं वदेत् ॥ १३६३ ॥

दुरितारिष्टक्लेशेति दलनीति ततः पदम् ॥
सर्वापदाम्भोधितारिणीत्युक्त्वा सकलेति च ॥ १३६४ ॥

शत्रुविध्वंसिनि देव्यागच्छ आगच्छ उच्चरेत् ॥
हंसयुग्मं बलायुग्मं नरेति रुधिरान्त्र च ॥ १३६५ ॥

वसाभक्षिणि मम शत्रूनुक्त्वा मर्दयमर्दय ॥
खादखाद त्रिशूलं नो भिन्धिमिन्धि वदेत्ततः ॥ १३६६ ॥

छिन्धिछिन्धीति खड्गेन ताडयद्वितयं वदेत् ॥
छेदयद्वितयं प्रोच्य तावद्यावन्ममेति च ॥ १३६७ ॥

सकलेति पदस्यान्ते वदेदेवम्मनोरथान् ॥
साधयद्वितयान्ते तु वदेत्परम इत्यपि ॥ १३६८ ॥

कारुणिके भगवति महाभैरवरूपधारिणि त्रिदश चेत्युक्त्वा वरेति नमिते वदेत् ॥ १३६९ ॥

सकलेति च मन्त्रेण मातः प्रणत इत्यपि ॥
जनेति वत्सलेदेवि महाकालिपदं वदेत् ॥ १३७० ॥

कालनाशिनि ह्रुंह्रुंह्रुं प्रसीद मदनातुराम् ॥
कुरुकुरु सुरासुरकन्यकां ह्रीं वसुप्रिया ॥ १३७१ ॥

ह्रुं त्रिधाफट् ततः स्वाहा मन्त्रोयं समुदीरितः ॥
त्रिलोचनमुनिश्चातिजगतीछन्द उच्यते ॥ १३७२ ॥

सिद्धिलक्ष्मीर्देवता श्रीं बीजं ह्रीं शक्तिरुच्यते ॥
तारादिकन्तु हृदयं वदेत्परमहंसिनि ॥ १३७३ ॥

निर्वाणमार्गदे देवि शीर्षमन्त्रो ध्रुवादिकः ॥
विषमोपप्लवप्रशमनि ध्रुवाद्या शिखा मता ॥ १३७४ ॥

सकलदुरितारिष्टक्लेशदलनि वर्म्म च ॥
सर्वापदाम्भोधितारिणीति नेत्रं ध्रुवादिकम् ॥ १३७५ ॥

सकलशत्रुध्वंसिनि ताराद्यं चास्त्रमुच्यते ॥
एवं कृत्वा षडङ्गानि वक्त्रन्यासं समाचरेत् ॥ १३७६ ॥

ॐ नमः सर्वसिद्धीति योगिनीभ्यः पदं वदेत् ॥
ईशानवक्त्राय नमः पूर्ववक्त्रे तु विन्यसेत् ॥ १३७७ ॥

ॐ नमः सर्वसिद्धीति मातृभ्य इति चोच्चरेत् ॥
तत्पुरुषेति वक्त्राय नमः प्रोच्य न्यसेदवाक् ॥ १३७८ ॥

ऐं ह्रीं नित्योदितानन्दनन्दितायै वदेत्ततः ॥
अघोरवक्त्राय नमः पश्चिमे तु मुखे न्यसेत् ॥ १३७९ ॥

ऐं सकलकुलचक्रनायिकायै पदं वदेत् ॥
वामदेववक्रायेति नमश्चोदङ्मुखे न्यसेत् ॥ १३८० ॥

भगवत्यै चण्डकपालिन्यै वाक्पूर्वकं न्यसेत् ॥
सद्योजातेति वक्त्राय नमश्चोर्ध्वमुखे न्यसेत् ॥ १३८१ ॥

पञ्चवक्त्रां दशभुजां पीनोन्नतपयोधराम् ॥

तडित्कोटिसमप्रख्यां सिन्दूरारुणविग्रहाम् ॥ १३८२ ॥

अक्षमालां कपालञ्च शूलं खड्गञ्च बिभ्रतीम् ॥
खेटं घण्टां स्वर्णपाशं साङ्कुशं वरदाभये ॥ १३८३ ॥

नीलग्रीवां चन्द्रमौलिं त्रिनेत्रां सर्पभूषणाम् ॥
सर्वसिद्धिप्रदां देवीं सिद्धिलक्ष्मीं विचिन्तयेत् ॥ १३८४ ॥

मार्गद्वयेपि पूजास्या मापीठे दक्षिणे यजेत् ॥
वामे तु भुवनेश्वर्य्या अङ्गैः स्यात्प्रथमावृतिः ॥ १३८५ ॥

राज्यविद्या च सौभाग्यामृतकाम्यपदादिकाः ॥
सत्यभोगयोगपूर्वा लक्ष्म्योऽष्टौ च दलाष्टके ॥ १३८६ ॥

एतद्द्वितीयावरणं ब्राह्म्याद्याभिस्तृतीयकम् ॥
चतुर्थमसिताङ्गाद्यैर्लोकपालैश्च पञ्चमम् ॥ १३८७ ॥

चतुस्सहस्रप्रमितः पुरश्चर्य्याजपः स्मृतः ॥
होमयेद्गुग्गुलाज्याभ्यां प्रयोगानथ वच्म्यहम् ॥ १३८८ ॥

अश्वत्थवृक्षमालिङ्ग्य न्यग्रोधं प्लक्षमेव च ॥
सहस्रन्तु जपेन्मन्त्रं ग्रहपीडादिशान्तये ॥ १३८९ ॥

जातीगुल्मं समालिङ्ग्य कर्णिकारं सुपुष्पितम् ॥
बिल्वं वा पूजयेद्देवीं जपेदष्टसहस्रकम् ॥ १३९० ॥

सहस्रं लभते स्वर्णं न दरिद्रो भवेत्ततः ॥
शालिभिः स्वर्णलाभः स्याद्गोधूमैः पुष्टिरेव च ॥ १३९१ ॥

यवहोमेन धान्यं स्यादिक्षुभिश्चतुरङ्गुलैः ॥
कुमुदैर्जनवात्सल्यं बकुलैरतुलाः श्रियः ॥ १३९२ ॥

अशोकपुष्पैर्लाभः स्यात्पाटलीभिः शुभाङ्गना ॥
माषहोमेन मूकः स्यात्कोद्रवैर्व्याधियुग्भवेत् ॥ १३९३ ॥

फलैर्बैभीतकैर्भ्रान्तो म्रियते शाल्मलीहुतात् ॥
कटुतैलेन विद्वेषः स्तम्भः प्रीतप्रकारकैः ॥ १३९४ ॥

वायुवेगपतत्पत्रहोमेनोच्चाटनं रिपोः ॥
होमोऽन्येषां पदार्थानामष्टोत्तरसहस्रकम् ॥ १३९५ ॥

कस्तूरिकादिहोमेन दिव्यदेहं लभेत ना ॥
सरसीरुहहोमेन साम्राज्यं भलते नरः ॥ १३९६ ॥

ब्रह्मवृक्षसमिद्धोमाद्ब्रह्मश्रियमवाप्नुयात् ॥
आयुषे दूर्वया होमो वटहोमेन यक्षिणी ॥ १३९७ ॥

उदुम्बरसमिद्धोमात्पुत्रः स्यादुत्तमोत्तमः ॥
महाभये समुत्पन्ने महारिष्टसमुद्भवे ॥ १३९८ ॥

सितश्रीपुष्पबीजेनापामार्गमिश्रितेन च ॥
तिलतण्डुलहोमेन महाभयनिवारणम् ॥ १३९९ ॥

श्रीफलं घृतसंयुक्तं जुहुयात्तिलतण्डुलम् ॥
श्वेतपद्मकहोमेन विद्यार्थी लभते च ताम् ॥ १४०० ॥

भोगार्थी लभते भोगान्स्वेष्टं प्राप्नोत्यसंशयम् ॥
ज्वराश्चातुर्थिकाद्याश्च व्याधयो विविधा ग्रहाः ॥ १४०१ ॥

सप्तजप्तोदकानान्तु नश्यन्त्यभ्युक्षणात् क्षणात् एकविंशतिजप्ताम्बुपानात्सर्वविषापहम् ॥ १४०२ ॥

कुङ्कुमागुरुकर्पूरगोरोचनविमिश्रितम् ॥
तिलकं सप्तजपितं सर्ववश्यकरम्भवेत् ॥ १४०३ ॥

भक्ष्यभोज्यान्नहोमस्तु सर्वसिद्धिविभूतिकृत् ॥
इत्यष्ट मातृकाः प्रोक्ताः किमन्यच्छ्रोतुमिच्छसि ॥ १४०४ ॥

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते ब्राह्माद्यष्टमातृकामन्त्रप्रकाशस्त्रयोविंशः ॥ २३ ॥


  1. ब्रां हृदयाय नमः, ब्रां शिरसे स्वाहा ब्रां शिखायै वषट्, ब्रां कवचाय हुम्, ब्रां नेत्रत्रयाय वौषट्, ब्राम् अस्त्राय फट् ॥ ↩︎

  2. चिन्तामणिसरस्वती, ज्ञानसरस्वती, नीलसरस्वती, घटसरस्वती, किनिसरस्वती, अन्तरिक्षसरस्वती ॥ ↩︎

  3. ॐ ह्रीं ह्रैं ह्रीं ॐ सरस्वत्यै नमः इति एकादशाक्षरमन्त्रः ॥ ↩︎

  4. अं कं खं गं घं ङम् आं हृदयाय नमः इं चं छं जं झं यम् ईं शिरसे स्वाहा इत्थं न्यासकल्पनम् ।
    पुनः ऐं ह्रीं बीजाभ्यांसम्पुटितैः स्ह्राम्, स्ह्रीम्, स्ह्रूम्, स्ह्रैम्, स्ह्रौम्, स्ह्रः, एभिः कूटाक्षरैर्न्यासीन्कुर्य्यात् यथा ॐ ह्रीं स्ह्रां ॐ ह्रीं हृदयाय नमः इत्यादि ॥ ↩︎

  5. ॐ मूर्ध्नि ह्रीं भ्रूमध्ये, स्ह्रैं दक्षकर्णे, ह्रीं वामकर्णे, ॐ दक्षनेत्रे, स वामनेत्रे, रनासिकायाम् स्वमुखे, त्यै गुदे, न दक्षपादे, मः वामपादे, इत्यक्षरन्यासः ॥ ↩︎

  6. ततोर्चयेदित्यनयोरुत्तरत्रान्वयः ॥ ↩︎

  7. ध्यानमाह ↩︎

  8. ॐ श्रीं ह्रीं स्ह्रौं हुं फट् नीलसरस्वत्यै स्वाहा ।
    इति चतुर्दशाक्षरो मन्त्रः ॥ ↩︎

  9. द्वेकैकद्विषड्द्विवर्णैः षडङ्गानि न्यस्येत् ।
    यथा ॐ श्रीं हृदयाय नमः, ह्रीं शिरसे स्वाहा इत्यादि ॥ ↩︎

  10. ॐ ह्रीं श्रीमदेकजटे नीलसरस्वति महोग्रतारे देवि खेखः सर्वभूतपिशाचराक्षसान् ग्रसग्रस मम जाड्यं छेदयछेदय श्रीं ह्रीं फट् स्वाहा ।
    इति द्विपञ्चाशदक्षरो मन्त्रः ॥ ↩︎

  11. त्रिपुरभैरवीमन्त्रस्ये त्यर्थः ॥ ↩︎

  12. ब्लूंवं वदवद त्रींहुम्फट् ।
    इति नवाक्षरो मन्त्रः ॥ ↩︎

  13. हंस्फ्रें ह्स्रौं हौंस्फ्रौम् ऐं ह्रीं श्रीं द्रां ह्रीं क्लीं ब्लूं सः घीं घटसरस्वति घटे वदवद तुर तुर रुद्राज्ञया ममाभिलाषं कुरु कुरु स्वाहा अयं वह्निवेदार्णः ॥ ↩︎

  14. असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तकपालिनौ ॥
    भीषणश्चाथ संहार एतेष्टौ भैरवा मताः ॥ ↩︎

  15. ब्राह्मी, माहेश्वरी, कौमारी, वैष्णवी, वाराही, इन्द्राणी, चामुण्डा, महालक्ष्मीः इमा अष्टौ मातरः ॥ ↩︎

  16. कामिनी इति क्वचित्पाठः ॥ ↩︎

  17. परिवर्त्य करौ स्पृष्ट्वावर्धचन्द्राकृती प्रिये ॥
    तर्ज्जन्याङ्गुष्ठयुगलं युगपत्कारयेत्ततः ॥
    अधः कनिष्ठावष्टब्धे मध्यमे विनियोजयेत् ॥
    तथैव कुटिले योज्यं सर्वाधस्तादनामिके ॥
    बीजमुद्रेयमुदिता सर्वसिद्धिप्रदायिनी ॥ ↩︎

  18. अङ्कुशमुद्रा ॥ ↩︎

  19. ॐ नमः पद्मासने पद्मरूपे ऐं ह्रीं क्लीं वदवद वाग्वादिनि स्वाहा ।
    इति मन्त्रः ॥ ↩︎

  20. प्रणवाद्यः आदाव्ॐकारयुक्तश्चेत्तदा चतुर्विंशत्यक्षरो मनुर्भवति ॥ ↩︎

  21. हसकलरानिमांश्चतुरो वर्णान्संयुज्य ह्रीं बीजं पश्चाद्वदवदेति ततश्चित्रे श्वरि ऐं स्वाहेति पदयोजनाद्द्वादशाक्षरो मन्त्रो भवति ॥ ↩︎

  22. ऐं कुलजे ऐं सरस्वति स्वाहा इति मन्त्रः ॥ ↩︎

  23. ऐं ह्रीं श्रीं वदवद कीर्त्तीश्वरि स्वाहा । ↩︎

  24. ऐं ह्रीम् अन्तरिक्षसरस्वति स्वाहा इति ॥
    मन्त्रः ॥ ↩︎

  25. घटसरस्वतीमन्त्रः पूर्वं लिङ्खितः ॥ ↩︎

  26. ब्लूं वें वदवद त्रींहुम्फट्स्वाहा इति मन्त्रः ॥ ↩︎

  27. ऐं हें हीं किणि किणि विच्चे किणि सरस्वत्याम् अयं नवाक्षरो मन्त्रः ॥ ↩︎

  28. त्रिबीजानां द्विरावृत्या षडङ्गानां न्यासान्विदधीत यथा श्रीं हृदयाय नमः ह्रीं शिरसे स्वाहा, क्लीं शिखायै वषट् श्रीं कवचाय हुम्, ह्रीं नेत्रत्रयाय वौषट् क्लीम् अस्त्राय फट् ॥ ↩︎

  29. अम् आम् इम् ईम् उम् ऊम् एम् ऐं ॐ औम् अम् अः क्लीं सौः ॥ ↩︎

  30. ॐ वां श्रीं ह्रीं स्फ्रेंसौं स्वाहा ॥ ↩︎

  31. वामित्यादिप्रागभावाधिकरणक्षणे ॐ सांसीमिति संयोज्य तैः षडङ्गन्यासान्कुर्वीत यथा- साम् ॐ हृदयाय नमः, सींवां शिरसे स्वाहा, सूं श्रीं शिखायै वषट्, सैं ह्रीं कवचाय हुम्, सौंस्फ्रें नेत्रत्रयाय वौषट्, सः सौम् अस्त्राय फट् ॥ ↩︎

  32. सर्वज्ञामृततेजोज्वालामालिनि तृप्ता वदवद अनादिबोधे वज्रिणे वज्रधराय स्वतन्त्रनित्यमलुप्तशक्तिसहजातिरूपिणे अनन्तशक्तिबलिं पशुं हुम्फट्पाशुपतास्त्राय सहस्राक्षाय ॥ ↩︎

  33. ह्रीं बीजेन षडङ्गन्यासं कुर्य्यात् ↩︎

  34. ॐ एहि परमेश्वरि स्वाहा ।
    इति मन्त्रः ॥ ↩︎

  35. ॐ ह्रीम् एहि परमेश्वरि स्वाहा ॥ ↩︎

  36. क्लीम्बीजम् ॥ ↩︎

  37. ऐं क्लीं सौम्ः बालत्रिपुरे स्वाहा ↩︎

  38. ह्रां ह्रीम् अङ्गुष्ठाभ्यां नमः, ह्रीं ह्रीं तर्जनीभ्यां नमः, ह्रूं ह्रीं मध्यमाभ्यां नमः, ह्रैं ह्रीम् अनामिकाभ्यां नमः, ह्रौं ह्रीं कनिष्ठिकाभ्यां नमः, ह्रः ह्रीं करतलकरपृष्ठाभ्यां नमः, एवंरीत्या हृदयादिन्यासानपि कुर्य्यात् ॥ ↩︎

  39. अन्नं मह्यमन्नं देहि अन्नाधिपतये ममान्नं प्रदापय स्वाहा ॥ ↩︎

  40. अस्मात्पूर्वं मन्त्रे ग्लौम्बीजयोजनेन पृथ्वीपूजनमन्त्रस्तथा श्रींसम्पुटितः श्रींविद्यापूजनमन्त्रोयमेव भवेत् ॥ ↩︎

  41. ॐकारेण ॥ ↩︎

  42. ह्रीम्बीजेन ॥ ↩︎

  43. श्रीम्बीजेन ॥ ↩︎

  44. ह्रीं क्लीं ह्रौम् ॥
    एतन्मन्त्रेण शिखायां न्यासः कार्यः कुत एतन्न्यासे मन्त्राक्षरं ह्रीम्बीजसम्पुटितं दृश्यते तेनायमपि तथैव भवेत् ॥ ↩︎

  45. नागरपिप्पलीमरिचानि त्र्यूषणशब्देनोच्यन्ते ॥ ↩︎

  46. क्षंहुं हं वज्रदेह क्षिं कुरुकुरु गर्जगर्ज हुंहुञ्छां पञ्चाननाय नमः ॥ ↩︎

  47. भवेदिति शेषः ॥ ↩︎ ↩︎

  48. गुग्गुलुभिः ॥ ↩︎

  49. त्रैकोक्य- ↩︎

  50. एकाहिकद्व्याहिकत्र्याहिकचातुर्थिकमासिकद्विमासिकवातिकपैत्तिक-श्लैष्मिकसान्निपातिकसततज्वरसम्भवविषज्वरग्रहर्क्षादि-सर्वदोषान्तकारिणि कालि सर सर गौरि सर सर गौरिधम धम विद्याशालै तालमाले रुद्ररूपे पच पच विघ्नं नाशय पापं हर दुःस्वप्नविनाशिनि कमलासने रजनीसन्ध्ये दुन्दुभिमादे मानसवेगे शङ्खिनि चक्रिणि वज्रिणि गदिनि शूलिनि अपमृत्युविनाशिनि विश्वेश्वरि द्राविडि द्रविडकेशि पशुपतिदयिते मे दुःखविमर्दिनि मोदर्शवरि किरातिनि मातङ्गि ॐ ह्रीं क्षं क्षौं कुरु कुरु ये मां प्रत्यक्षं द्विषन्ति ये मां परोक्षं द्विषन्ति तान्सर्वान्हन हन दम दम पच पच मर्दय मर्दय तापय तापय शोषय शोषयोत्सादयोत्सादय ब्रह्माणि माहेश्वरि वाराहि वैनायकि ऐन्द्रि आग्नेयि चामुण्डे वारुणि वायवि रक्षरक्ष चण्डे इन्द्रोपेन्द्रभगिनि जये विजये शान्ति स्वस्तिपुष्टिधृतिविवर्धिनि कामुकि कामदुघे सर्वकामफलप्रदे ॥ ↩︎

  51. ॐ ॐ ॐ ॐ ॐ ॐ भूर्भुवः स्वः यत एवागतं पापं तत्रैव प्रतिगच्छतु ॐ बले अबले महाबले असिद्धसाधिनि स्वधा स्वाहा स्वाहा स्वाहा स्वाहा स्वाहा स्वाहा ॥
    तृतीया व्याहृतिरर्थाद्भूर्भुवस्त्वरित्येतत्समुदायघटकं स्वःपदमिदमेव तृतीयमस्ति तत्सर्वे लोका बुध्यन्ते एव पुनः तृतीया व्याहृतिः स्वरिति कथिता तत्कथनस्यैतत्तात्पर्यं विद्यते किं तृतीयव्याहृतेर्भेदद्वयं ग्रन्थेषु दृश्यते एकः स्वः द्वितीयः पुनः भुवरिति अतोत्र स्वरित्यस्य पुनर्लेखः ॥ ↩︎

  52. अभूदिति शेषः ॥ ↩︎

  53. एह्येहि देवीपुत्रबटुकनाथ कपिलजटाभारभासुर त्रिनेत्रज्वालामुख सर्वविघ्नान् नाशय नाशय सर्वोपचारसहितं बलिं गृह्णगृह्ण स्वाहा ॥ ↩︎

  54. आम् ईम् ऊम् ऐम् औम् अः क्षें हूं स्थानक्षेत्रपालेश सर्वकामं पूरय स्वाहा ॥ ↩︎

  55. गां गीं गूं गं गणपतये वरवरद सर्वजनं मे वशमानय सर्वोपचारसहितं बलिं गृह्णगृह्ण स्वाहा ॥ ↩︎

  56. ॐ ह्रीं नमो वाराहिघोरे स्वप्नं ठःठः स्वाहा ॥ ↩︎

  57. ॐ ह्रीं हृदयाय नमः, नमो वाराहि शिरसे स्वाहा, घोरे शिखायै वषट्, स्वप्नं कवचाय हुम्, ठःठः नेत्रत्रयाय वौषट्, स्वाहा अस्त्राय फट् ॥ ↩︎

  58. वराहमुखीम् ॥ ↩︎

  59. उच्चाटनीश्वरी ॥
    एवमग्रेनया रीत्या ॥ ↩︎

  60. ॐह्रीं बगलामुखि सर्वदुष्टानां वाचं मुखं स्तम्भय जिह्वा कीलय बुद्धिं विनाशय ह्रीं ॐ स्वाहा ॥ ↩︎

  61. ॐ ह्रीं हृदयाय नमः, बगलामुखि शिरसे स्वाहा, सर्वदुष्टानांशिखायै वषट्, वाचं मुखं स्तम्भय कवचाय हुम्, जिह्वां कीलय नेत्रत्रयाय वौषट्, बुद्धिं विनाशय ह्रीं ॐ स्वाहा अस्त्राय फट् ॥ ↩︎

  62. ॐ श्रीं ह्रीं ह्रीम् ऐं वज्रवैरोचनीये ह्रीं ह्रीं फट् स्वाहा ॥ ↩︎

  63. ॐ आं खड्गाय स्वाहा हृदयाय नमः, ॐ ईं सुखड्गाय स्वाहा शिरसे स्वाहा, ॐ ऊं वज्राय स्वाहा शिखायै वषट्, ॐ ऐं पाशाय स्वाहा कवचाय हुम्, ॐ अङ्कुशाय स्वाहा नेत्रत्रयाय वौषट्, ॐ अः त्रासरक्षकाय हूं हूं स्वाहा अस्त्राय फट् ॥
    अनया रीत्याषडङ्गन्यासा विधेयाः ॥
    ↩︎

  64. ॐ सर्वबुद्धिप्रदे वर्णनीये सर्वसिद्धिप्रदे डाकिनीये ॐ वज्रवैराचनीये एह्येहि नमः इति मन्त्रः ॥ ↩︎

  65. सं पुनर्हारिणीमेकत्रकरणेन संहारिणीमिति सिद्धम् ॥ ६५४ ॥

    ष कोणेषु षडङ्गानि त्रिकोणे छिन्नमस्तकाम् ॥
    डाकिनी [ॐ ऐं डाकिन्यै नमः ॥
    ॐ ऐं वर्णिन्यै नमः इति मन्त्रः ॥ ↩︎

  66. पूवोक्तलक्ष्मीमेव प्राप्नुयादित्यर्थः ॥ ↩︎

  67. वाञ्छितम् ॥ ↩︎

  68. प्राप्ते ॥ ↩︎

  69. श्रीं ह्रीम् एम् ऐं वज्रवैरोचनीये ह्रीं ह्रूं स्वाहा अयं मन्त्रः पञ्चदशाक्षरः ॥ ↩︎

  70. श्रीं बीजमादौ संयोज्य पूर्वोक्तमन्त्रो धनाप्तिकर इति भावः ॥ ↩︎

  71. ह्रीं श्रीं ह्रूम् ऐं वत्रवैरोचनीये ह्रीं ह्रूं स्वाहा अयं वशीकरणमन्त्रः ॥ ↩︎

  72. जपमिति शेषः । ↩︎

  73. ह्रांह्रींह्रूंह्रैंह्रौंह्रः एष्वेकैकेन षडङ्गन्यासं कुर्य्यात् ॥ ↩︎

  74. श्रीकण्ठादिन्यासस्तु पूर्वमुक्तः तेनात्र नावाचि ॥ ↩︎

  75. ह्रीं त्रीं हुम् अम् आम् इम् ईम् उम् ऊम् ऋं ॠम् ऌं ॡम् एम् ऐं ॐ औम् अम् अः रक्तवर्णाय सूर्य्याय हृदि, ह्रीन्त्रीं हुं यं रं लं वं शुक्लवर्णाय सोमाय नमः भ्रुवोः, ह्रीं त्रीं हुं कं खं गं घं ङं रक्तवर्णाय मङ्गलाय नमः लोचनत्रये, ह्रीं त्रीं हुं चं छं जं झं ञं श्यामवर्णाय बुधाय नमः वक्षसि, इत्थं शेषग्रहन्यासः कर्त्तव्यः ॥ ↩︎

  76. ह्रीं त्रीं हुम् अम् इम् उम् ऋम् ऌम् ऐं ॐ अं मूर्ध्निं पूर्वे इन्द्राय नमः, ह्रीं त्रीं हुम् आम् ईम् ऊं ॠं ॡम् ऐम् औम् अः मूर्ध्न्याग्नेय्यामग्नये नमः, ह्रीं त्रीं हुं कं खं गं घं ङं दक्षिणे यमाय नमो मुखे, इत्यादि ॥ ↩︎

  77. ह्रीं त्रीं हुं वं शं षं सं डाकिनीयुक्ताय ब्रह्मणे नमः मूलाधारे, ह्रीं त्रीं हुं बं भं मं यं रं लं शाकिनीयुक्तविष्णवे नमः स्वाधिष्ठाने, डं ढं णं तं थं दं धं नं पं फं लाकिनीयुक्त रुद्राय नमः मणिपूरके ॥ ↩︎

  78. ह्रीं त्रीं हुम् अम् आं कं खं गं घं ङं तारायै नमः ब्रह्मरन्ध्रे, ह्रीम्ः त्रीं हुम् इम् ईं चं छं जं झं ञम् उग्रायै नमः ललाटे, ह्रीं त्रीं हुम् उम् ऊं टं ठं डं ढं णं महोग्रायै नमो भ्रुवोः, अग्रेप्येवं ज्ञेयम् ॥ ↩︎

  79. ह्रीं त्रीं हुम् अम् इम् उम् ऋम् ऌम् एं ॐ अं कामरूपपीठाय नम आधारे ॥ ↩︎

  80. ह्रीं त्रीं हुम् आम् ईम् ऊम् ऋम् ऌम् ऐम् औम् अः जालन्धरपीठाय नमः हृदि ॥ ↩︎

  81. ह्रीं त्रीं हुं कं खं गं घं ङं पूर्णगिरिपीठाय नमः ललाटे ॥ ↩︎

  82. ह्रीं त्रीं हुं चं छं जं झं ञम् उड्डियानपीठाय नमः केशसन्धौ ॥ ↩︎

  83. ह्रीं त्रीं हुं टं ठं डं ढं णं वाराणसीपीठाय नमः भ्रुवोः ॥ ↩︎

  84. ह्रीं त्रीं हुं तं थं दं धं नम् अवन्तीपीठाय नमः नयनद्वये इत्यादि ॥ ↩︎

  85. ॐ वज्रोदके हुं फट् ॥ ↩︎

  86. ॐ ह्रीं सुविशुद्धधर्म्मसर्वपापानिशाम्याशेषविकल्पानयनाय स्वाहा ॥ ↩︎

  87. ॐ मणिधरि वज्रिणि शिखरिणि सर्ववशङ्करिणि हुम्फट् स्वाहा ॥ ↩︎

  88. ॐ रक्षरक्ष हुं फट् स्वाहा ॥ ↩︎

  89. ॐ सर्वविघ्नानुत्सारय हुम्फट् स्वाहा ॥ ↩︎

  90. ह्रीम् ॥ ↩︎

  91. पृथिवीम् ॥ ↩︎

  92. ॐङ्कारम् ॥ ↩︎

  93. ॐ पवित्रवज्रभूमे हुम्फट्स्वाहा ॥ ↩︎

  94. ॐ आसुरेखे वज्ररेखे हुं स्वाहा ॥ ↩︎

  95. ॐ यथाभिषेकसामग्री मे हुम्फट्स्वाहा ॥ ↩︎

  96. ॐ ॐ ह्रीं स्वाहा ॥ ↩︎

  97. ॐ वं वह्निमण्डलाय नमः ॥ ↩︎

  98. ह्रांह्रींह्रूं कालीकपालाय नमः ॥ ↩︎

  99. स्त्रांस्त्रींस्त्रूं तारिणीकपालाय नमः ॥ ↩︎

  100. ह्रां ह्रीं ह्रं नीलाकपालाय नमः ॥ ↩︎

  101. ह्रीं स्त्रीं हुं स्वर्गकपालाय सर्वाधाराय सर्वाय सर्वोद्भवाय सर्वशुद्धिमयाय सर्वासुररुधिरारुणाय शुभ्राय सुराभाजनाय देवीकपालाय नमः ॥ ↩︎

  102. ॐ ह्रीं त्रीं हुं फट् ॥ ↩︎

  103. ॐ सोममण्डलाय नमः ॥
    अयं चन्द्रमण्डलार्चनमन्त्रः ॥ ↩︎

  104. ऐं ह्रीं श्रीं ह्रौं ॐ ह्रीं त्रीं हुं फट् ह्सौ हुमित्येकादशाक्षरो मन्त्रः ॥ ↩︎

  105. वामाङ्गुष्ठं तु सङ्गृह्य दक्षहस्तस्य मुष्टिना ।
    कृतोत्तानां तथामुष्टिमङ्गुष्ठं तु प्रसारयेत् ॥
    वामागुंल्यस्तथा शिष्टाः संयुताः सप्रसादिताः ॥
    दक्षिणाङ्गुष्ठके लग्ना मुद्रा शङ्खस्य भूतिदा ॥ ↩︎

  106. मिथः कनिष्ठिके बध्वा ।
    तर्जनीभ्यामनामिके ॥
    अनामिकोर्ध्वं संश्लिष्टदीर्घामध्यमयोरध ॥
    अङ्गुष्ठाग्रद्यं प्रस्य योनिमुद्रेयमीरिता । ↩︎

  107. अक्षोभ्य वज्रपुष्पं प्रतीच्छ स्वाहा ॥ ↩︎

  108. चतुर्ष्विति शेषः मन्त्रो यथा ॐ वैं वैरोचन वज्रपुष्पं प्रतीच्छ स्वाहा, ॐ अम् अमितवज्रपुष्पं प्रतीच्छ स्वाहा, ॐ पं पद्मनाभवज्र०, ॐ शं शङ्खपाण्डुरवज्रपुष्पं प्रतीच्छ स्वाहा ॥ ↩︎

  109. ॐ लांलामके वज्रपुष्पं प्रतीच्छ स्वाहा, ॐ मां मामके वज्र०, ॐ पां पाण्डुरे वज्र०, ॐ तां तारके वज्रपुष्पं प्र० । ↩︎

  110. भूपुरस्य चतुर्द्वारेषु पूर्वादिषु क्रमेणं यजेत्तन्मन्त्रानाह ॐ पं पद्मान्तक वज्रपुष्पं प्रतीच्छ स्वाहा, ॐ यं यमान्तक वज्र०, ॐ विं विघ्नान्तक वज्र०, ॐ नं नरान्तक वज्रपुष्पं ग्रतीच्छ स्वाहा ॥ ↩︎

  111. ॐ ह्रीं श्रीमदेकजटे नीलसरस्वति महोग्रतारे देवि खखसर्वभूतपिशाचराक्षसान् ग्रसग्रस मम जाड्यं छेदयछेदय श्रींह्रीम्फट्स्वाहा ॥ ↩︎

  112. हरिद्रया ↩︎

  113. हरिद्रया ॥ ↩︎

  114. ॐ त्रींह्रींह्रूंह्रींहुं फट् ॥ ↩︎

  115. तारकासुरायवरं दातुमित्यर्थः ॥ ↩︎

  116. ऐं ह्रीं श्रीं क्लीं ह्सौः उग्रतारे हुम्फट् ॥ ↩︎

  117. ॐ ह्रुं ह्रीं ह्रीं क्लीं सौः हुम्फट् ॥ ↩︎

  118. ऐं ह्रीं श्रीं क्लीं सौः हुम् उग्रतारे हुम्फट् ॥ ↩︎

  119. ॐ हुं ह्रीं क्लीं सौः हुं फट् ॥ ↩︎

  120. बलभद्रसेविताम् ॥ ↩︎

  121. राससमये लक्ष्मीनामगोप्यादिविलासार्थम् ॥ ↩︎

  122. दाशरथिना ॥ ↩︎

  123. त्रीं हुं फट् क्लीम् ऐम् ॥ ↩︎

  124. त्रीं ह्रीं ह्रां हुं नमस्तारायै महातारायै सकलदुस्तरात् तारय तारय तर तर स्वाहा ॥ ↩︎

  125. क्रीं क्रीं क्रीं हुं हुं ह्रीं ह्रीं दक्षिणे कालिके क्रीं क्रीं क्रीं हुं हुं ह्रीं ह्रीं स्वाहा ॥ ↩︎

  126. क्रां क्रीं क्रूं क्रैं कौं क्रः एभिर्बीजैः षडङ्गं विदधीत ।
    यथा क्रां हृदयाय नमः, क्री शिरसे स्वाहा इत्यादि ॥ ↩︎

  127. अम् आम् इम् ईम् उम् ऊम् ऋं ॠम् ऌं ॡं हृदये, एम् ऐं ॐ औम् अम् अः कं खं गं घ दक्षभुजे, ङं चं छं जं झं ञं टं ठं डं ढं वामभुजे, णं तं थं दं धं नं पं फं बं भं दक्षजङ्घायाम्, मं यं रं लं वं शं षं सं हं क्षं वामजङ्घायाम् ॥ ↩︎

  128. क्रीं क्रीं क्रीं हूं हूं नमो हृदये, ह्रीं ह्रीं दक्षिणे नमो दक्षभुजे, कालिके क्रीं क्रीं वामभुजे, क्रीं हूं हूं ह्रीं ह्रीं स्वाहापादद्वये, इमं न्यासं कृत्वा पुनः समस्तमूलमन्त्रेण व्यापकं कुर्य्यात् ॥ ↩︎

  129. बिभ्रतीमिति शेषः । ↩︎

  130. मन्त्र इति वा पुरुषः इति वा शिष्यते मन्त्रशेषपक्षे तस्येत्यर्घ्याहार्यमिति गौरवम् २ ॥
    तदन्यत्र नेति ज्ञेयम् ॥
    ↩︎

  131. कर्मेति शेषः ॥ ↩︎

  132. ब्रह्मक्षत्रियविशाम् ॥ ↩︎

  133. शब्दक्रमादर्थक्रमस्य बलीयस्त्वेन जयार्चनोत्तरं विजयार्चनं विधेयमत्रजयाशब्दस्य पूर्वं पाठस्तु छन्दस्स्वारस्यात् इति सुधियो ह्यम् ॥ ↩︎

  134. पञ्चमकारप्रतिमित्या ॥ ↩︎

  135. हुṁहुṁक्रीङ्क्रीङ्क्रींहुṁहुṁदाक्षिणे कालिके हुṁहुṁहुṁह्रींह्रींस्वाहा ↩︎

  136. षोडशार्णः ॥ ↩︎

  137. ह्रौं कालि महाकालि किणिकिणि फट् स्वाहा इति चतुर्दशाक्षरो मन्त्रः ॥ ↩︎

  138. गृध्रकर्णि विरूपाक्षि लम्बस्तनि महोदरि उत्पादयोत्पादय उपरि वेत्ति वेत्ति हुम्फट् स्वाहा ॥ ↩︎

  139. ॐ अं कं चं टं तं पं यं शं ह्रां ह्रीं ह्रूं सः हुं फट्स्वाहा ॥
    इति षोडशाक्षरमन्त्रः ॥ ↩︎

  140. ॐ ह्रीं नमः कृष्णवाससे स्तुते विश्वसहस्रहिंसिनि सहस्रावने महबलेपराजिते प्रत्यङ्गिरे परसैन्यपरकर्म्मविध्वंसिनि परमन्त्रोत्सादिनि सर्वभूतदमनि सर्वदेवान्बन्धबन्ध सर्वविद्यां छिन्धि छिन्धि क्षोभयक्षोभय परयन्त्राणि स्फोटयस्फोटय सर्वशृङ्खलां त्रोटयत्रोटय ज्वलज्वालाजिह्वे करालवदने प्रत्यङ्गिरे ह्रीं नमः ॥ ↩︎

  141. ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॥ ↩︎

  142. ॐ ऐं ह्रीं क्लीं नमः कनिष्ठायुग्मे, ॐ ऐं ह्रीं क्लीं नमः अनामिकायुग्मे, ॐ ऐं ह्रीं क्लीं नमः मध्यमायुग्मे, अस्यैव षडक्षरस्य न्यासाच्छेषस्थानेष्वपि कुर्य्यात् ॥ ↩︎

  143. ह्लीं ब्राह्मी मां पूर्वतः पातु, ह्रीं माहेश्वरी आग्नेय्यां पातु एवमन्यत्रन्यस्येत् ॥ ↩︎

  144. नैर्-ऋत्याम् ॥ ↩︎

  145. १०८४ ↩︎

  146. ऐन्नमः ब्रह्मरन्ध्रे, ह्रीन्नमः दक्षनेत्रे, क्लीन्नमः वामनेत्रे ॥
    एवमन्यत्रापि शेषेषु न्यसेत् ॥ ↩︎

  147. खङ्गम् ↩︎

  148. काञ्चनैरितिवस्त्रविशेषणम् ।
    रचितामिरिति तु पताकाविशेष्यमिति सुधीभिर्ज्ञेयम् ॥ ↩︎

  149. तस्येति शेषः ↩︎

  150. अप्रत्यये तथैवेष्ट इति वार्त्तिकेन कुचफलशब्दघटकफलस्य लोपेन निर्देशः ।
    कुचफलो दाडिमः । ↩︎

  151. ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं महालक्ष्मि नमः ॥ ↩︎

  152. श्रीं ह्रीं श्रीं कमले श्रीं ह्रीं श्रीं हृदयाय नमः, श्रीं ह्रीं श्रीं कमलालये श्रीं ह्रीं श्रीं शिरसे स्वाहा एवमन्यात्रापि ज्ञेयम् ॥ ↩︎

  153. पद्मप्रभे पद्मसुन्दरि पद्मेशि स्वाहा, अथ षडङ्गन्यासः पद्मप्रभे हृदयाय नमः, पद्मसुन्दरि शिरसे स्वाहा, पद्मेशि शिखायै वषट्, स्वाहा कवचाय हुम्, पद्मप्रभे पद्मसुन्दरि पद्मेशि स्वाहानेत्रत्र्याय वौषट् ॥ ↩︎

  154. मन्त्रमिति शेषः ॥ ↩︎

  155. श्रीं स्ह् क्ल्ह्रीं श्रीमितित्र्यक्षरमन्त्रः ॥ ↩︎

  156. आम् ईम् ऊम् ऐम् औम् अः एभिः षडक्षरैः षडङ्गं कुर्यात् ।
    यथा आं हृदयाय नमः ईंशिरसे स्वाहा इत्यादि ॥ ↩︎

  157. नमः ↩︎

  158. नमो ब्रह्मतनये त्रिरावृत्ताभ्यामेताभ्यां पदाभ्यां षडङ्गानि न्यस्येत् ।
    स यथा-नमः हृदयाय ब्रह्म तनये शिरसे स्वाहा, नमः शिखायै वषट्, ब्रह्मतनये कवचाय हुम् नमः नेत्रत्रयाय वौषट्, ब्रह्मतनये अस्त्राय फट ॥ ↩︎

  159. ॐ ह्रीं श्रीम् आदिलक्ष्मि स्वयम्भुवे ह्रीं ज्येष्ठायै नमः ॥ ↩︎