२१ सूर्य्यमन्त्रप्रकाशः

श्रीदेव्युवाच ॥

भगवन्देवदेवेश गणेशस्य मया श्रुताः ॥
सरहस्या महामन्त्राः कलौ सिद्धिप्रदायकाः ॥ १ ॥

अतः परं देववरः कथं पूज्यो दिवाकरः ॥
ब्रूहि तस्य च के मन्त्राः केष्वाम्नायेषु कीर्तिताः ॥ २ ॥

श्रीशिव उवाच ॥

एक एवास्य चाम्नायो दक्षिणः परिकीर्तितः ॥
यथायं पावनं विप्रं स्वयमेव करैः स्पृशेत् ॥ ३ ॥

उपासना तथैतस्य स्वधर्माचारपूर्विका ॥
चतुर्युगेषु प्रत्यक्षो देवोयं सर्वसम्मतः ॥ ४ ॥

सर्वेषामेव देवानां नेत्रभूतो जगत्पतिः ॥
तस्य मन्त्रान्प्रवक्ष्यामि सावधाना भवाम्बिके ॥ ५ ॥

ॐ घृणिः सूर्य आदित्यो मन्त्रश्चाष्टाक्षरो मतः ॥
देवभागो मुनिश्छन्दो गायत्री देवता रविः ॥ ६ ॥

तेजोज्वालामणे हुम्फट् स्वाहेति च दशाक्षरः ॥
हृन्मन्त्रः 1 सत्यपूर्वोयं ब्रह्मपूर्व 2 शिरोमनुः ॥ ७ ॥

विष्णुपूर्व 3 शिखामन्त्रो वर्माणू 4 रुद्रपूर्वकः ॥
अग्निपूर्वो 5 नेत्रमनुरस्त्रं 6 सर्वपदैर्भवेत् ॥ ८ ॥

विधायैवं षडङ्गानि न्यसेन्मूर्तीर्यथा क्रमम् ॥
मस्तकाननहृद्गुह्यपाददेशेषु देशिकः ॥ ९ ॥

पञ्चह्रस्वैः 7 सहादित्यो रविर्भानुश्च भास्करः ॥
सूर्य्यस्ततश्च मन्त्रार्णान्प्रणवाद्यान्न्यसेद्बुधः 8 ॥ १० ॥

ध्यायेत्ततः कुण्डलिनं शतपत्रलसत्करम् ॥
पद्मे चैव समासीनं वरकेयूरभूषणम् ॥ ११ ॥

त्रिनेत्रं रक्तवर्णञ्च सुप्रसन्नं दिवाकरम् ॥
पूजयित्वा योगपीठन्तत्पीठे चार्चयेद्रविम् ॥ १२ ॥

धर्म्मादीनां स्थले तत्र यजेत्कोणचतुष्टये ॥
ईशानान्मध्यपर्य्यन्तं समाराध्यं प्रभूतकम् ॥ १३ ॥

विमलञ्च तथा सारं परमं सुखमेव च ॥
तद्बाह्येष्टदलं कृत्वा दलमूलेषु चार्चयेत् ॥ १४ ॥

पूर्वादिषु तथा मध्ये दीप्ता सूक्ष्मा जया तथा ॥
भद्रा विभूतिर्विमला ह्यमोघा विद्युता तथा ॥ १५ ॥

सर्वतोमुखिका चैता अग्निवर्णाः सुभूषिताः ॥
आसां बीजानि रांरींरूंरैंर्ॐरौन्तु क्रमेण च ॥ १६ ॥

रंरश्च नवपीठाणुर्ब्रह्मविष्णुशिवात्मने ॥
सौराय योगपीठाय हृदन्तोष्टादशाक्षरः ॥ १७ ॥

अनेन पीठं सम्पूज्य खखोल्कायाग्निगेहिनीम् ॥
मूर्त्ति च कल्पयामीति चोक्त्त्वा मूर्ति प्रकल्पयेत् ॥ १८ ॥

तस्यामावाह्य देवेशं तत्र सूर्य्यं समर्चयेत् ॥
तद्बाह्येष्टदलं कृत्वा दिग्दलेषु यजेदिमान् ॥ १९ ॥

आदित्यञ्च रविं भानुं भास्करं सूर्य्यमेव च ॥
आद्यार्णबीजा हृन्ङेन्ता विदिक्पत्रे यजेदिमाः ॥ २० ॥

उषां प्रज्ञां प्रभां सन्ध्यां ब्राह्म्यादीश्च दलाग्रतः ॥
सूर्य्यस्याग्रेरुणः पूज्योप्यथ विध्वादयो ग्रहाः ॥ २१ ॥

तद्बाह्ये भूपुरे पूज्या लोकपालास्तदग्रतः ॥
तदस्त्राणि च तद्बाह्ये भास्करार्चनमीरितम् ॥ २२ ॥

अष्टलक्षं जपित्वान्ते दुग्धवृक्षसमिद्वरैः ॥
जुहुयात्तत्सहस्राणि दुग्धाक्तैः साधकोत्तमः ॥ २३ ॥

तर्प्पयेच्छुद्धसलिलैश्चन्द्रचन्दनवासितैः 9
स्वाभिषेकं ततः कृत्वा ब्राह्मणान्भोजयेत्ततः ॥ २४ ॥

एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्त्तुमर्हति ॥
रक्ताम्बरधरो रक्तमाल्यो रक्तानुलेपनः ॥ २५ ॥

घृतक्षीरसमायुक्तगुडभक्ताशनो निशि ॥
भिक्षाहारस्तथा वीतसङ्गः सन्तोषवान्सदा ॥ २६ ॥

मन्त्रमावर्तयेन्नित्यमाराधनपरायणः ॥
रथमभ्यर्च्य भास्वन्तञ्चार्घ्यं तस्मै निवेदयेत् ॥ २७ ॥

प्रत्यहं रविवारे वा तद्विधानमुदीर्य्यते ॥
अग्रे मण्डलमालिख्य यजेत्पीठं यथाविधि ॥ २८ ॥

तत्र संस्थापयेत्पात्रं शुद्धन्ताम्रसमुद्भवम् ॥
रम्यं प्रस्थजलग्राहि मूलमन्त्रं समुच्चरेत् ॥ २९ ॥

शुद्धोदकेन सम्पूर्य्य प्रक्षिपेत्तत्र कुङ्कुमम् ॥
रोचनां राजिकां रक्तचन्दनं वंशतण्डुलान् ॥ ३० ॥

श्यामाकतण्डुलाच्छालीन्करवीरजपाभवान् ॥
सञ्चिन्त्य देवतात्मैक्यं भास्करं सम्यगर्चयेत् ॥ ३१ ॥

उपचारैर्निवेद्यान्तैस्तत्पिधाय जपेन्मनुम् ॥
सम्यगष्टोत्तरशतं भूयः पुष्पादिभिर्यजेत् ॥ ३२ ॥

उद्धृत्यामस्तकं पात्रं जानुस्पृष्टमहीतलः ॥
दृष्टिं निधाय व्योम्न्यर्कं साङ्गं सावरणं स्मरेत् ॥ ३३ ॥

ततो जपन्मूलमनुं धिया दद्याच्च भानवे ॥
अर्घ्यं प्रसन्नचेताः सन्दद्याच्च सुमनोञ्जलिम् ॥ ३४ ॥

पुनर्नियतधीस्तावद्यावद्भानुर्निजैः करैः ॥
अर्घादिकं समादत्ते जपेदष्टोत्तरं शतम् ॥ ३५ ॥

ततः प्रसन्नो भगवान्पयच्छेदिष्टमात्मनः ॥
अनेन तु प्रयोगेण भवेदायुर्निरुग्णता ॥ ३६ ॥

वृद्धिः पुत्रकलत्राणान्तेजो वीर्य्यं धनं यशः ॥
तन्मन्त्रसहिताम्भोभिः सप्तधाञ्जलिसेचनम् ॥ ३७ ॥

पापान्धकारदारिद्र्यनाशनं श्रीकरं परम् ॥
स्थण्डिले स्थापयेत्कुम्भं तीर्थोदकसुपूरितम् ॥ ३८ ॥

हिरण्यरत्नगन्धादि तत्र निक्षिप्य पूरयेत् ॥
देवं सपरिवारन्तु प्रागुक्तविधिना ततः ॥ ३९ ॥

स्थण्डिलेग्निं समारोप्य कपिलापयसा चरुम् ॥
पचेत्तेनैव जुहुयाद्रव्याज्यसहितेन च ॥ ४० ॥

सहस्रं कृतसम्पातं शुद्धपात्रे तु कारयेत् ॥
ऋतुस्नातां सुनियतां पूर्वाङ्गसमुपोषिताम् ॥ ४१ ॥

अष्टमे दिवसे तान्तु सहस्रमभिमन्त्रितैः ॥
अभिषिञ्चेत्कुम्भजलैर्दद्यात्तस्यै तु मन्त्रवित् ॥ ४२ ॥

सहस्रमन्त्रितं होमसम्पातान्तं ततोनिशि ॥
नरोपि सूर्य्य एवाहमिति ध्यात्वा तया सह ॥ ४३ ॥

सम्भोगमाचरेत्तेन सुपुत्री गुणवान्भवेत् ॥

अथ मन्त्रान्तरं वक्ष्ये दिनेशस्य षडक्षरम् ॥ ४४ ॥

हङ्खङ्खः खोल्कायेति तथान्ते चाग्निगेहिनी ॥
मुनिर्ब्रह्मा च गायत्रं छन्दः सवितृदैवतम् ॥ ४५ ॥

सूक्ष्मरूपायाग्निवधूर्मन्त्रेण हृदयं मतम् ॥
सूक्ष्माकारायाग्निवधूरिति मन्त्रेण शीर्षकम् ॥ ४६ ॥

सूक्ष्मबालाय स्वाहेति कवचञ्च सनेत्रकम् ॥
सूक्ष्माकाराय हुम्फडित्येवं शस्त्रं प्रकीर्त्तितम् ॥ ४७ ॥

मन्त्रवर्णैः 10 षडङ्गंस्याद्ध्यानमस्योच्यतेधुना ॥
रक्तपद्मद्वयं हस्तैर्बिभ्रतञ्च वराभये ॥ ४८ ॥

बन्धूकामन्त्रिनेत्रञ्च रविन्ध्यायेत् सुभूषितम् ॥
पूर्वोक्ते पूजयेत् पीठे देवमावाह्य मन्त्रवित् ॥ ४९ ॥

लक्षमेकं जपेन्मन्त्रं नियतात्मा जितेन्द्रियः ॥
जुहुयात्तद्दशांशेन बिल्वैरथ पलाशजैः ॥ ५० ॥

उदुम्बरसमुद्भूतैस्त्रिमध्वक्तैः समिद्वरैः ॥ ५१ ॥

तर्प्पणादि ततः कुर्य्यात्प्राक्प्रोक्तविधिना सुधीः ॥
अर्घादिकं च कुर्वीत पूर्ववद्वाञ्छिताप्तये ॥ ५२ ॥

एतत्संसेवनान्नॄणां खेचरीसिद्धिरीरिता ॥
न भास्करसमः कश्चिद्भुक्तिमुक्तिप्रदायकः ॥ ५३ ॥

प्रणवश्च खखोल्काय मन्त्रः पञ्चाक्षरोस्य च ॥
न्यासो ध्यानं च पूजा च प्राग्वदेव समीरिता ॥ ५४ ॥

खम्बीजादिक एषोस्ति षडर्णः सप्तवर्णकः ॥
भवेत्तन्न्यासपूजादि ध्यानाद्यङ्गं षडर्णवत् ॥ ५५ ॥

सप्ततुरङ्गाय विद्महे सहस्रकिरणाय धीमहि ॥
तन्नो रविः प्रचोदयात् ॥ ५६ ॥

इयन्तु सूर्य्यगायत्री जपतामिष्टदायिनी ॥
भग्नत्रानां राजपुत्राणां क्षत्रतेजोविधायिनी ॥ ५७ ॥

यत्पृष्ठं नारिभिर्दृष्टं स्पृष्टं नैव कदाचन ॥
परस्त्रीभिर्यच्छरीरं पुरश्चर्य्याचतुष्टयम् ॥ ५८ ॥

जातिमात्रं राजपुत्रः पुरश्चर्य्याप्रभावतः ॥
सार्वभौमत्वमाप्नोति ब्राह्मणान्प्रतिपालयेत् ॥ ५९ ॥

ॐ ह्रींहेंसश्चतुर्वर्णो मन्त्रः प्रोक्तो दिनेशितुः ॥
ऋषिर्ब्रह्मा च गायत्री छन्दः सूर्य्यश्च देवता ॥ ६० ॥

ताराद्यया षडङ्गानि षड्दीर्घान्वितमायया ॥
देदीप्यमानरत्नौघमुकुटेन विराजितम् ॥ ६१ ॥

पाशाङ्कुशवराभीतिकरं रक्तं भजे रविम् ॥
नवशक्तिसमायुक्ते पीठे पूर्वोदिते यजेत् ॥ ६२ ॥

प्रकल्प्य मूर्ति मूलेन तत्रावाह्य दिवाकरम् ॥
सम्पूज्य तस्याव रणान्यर्चयेत्क्रमतः सुधीः ॥ ६३ ॥

हृल्लेखा गगना रक्ता कराली च चतुर्थिका ॥
महोच्छुष्मा पञ्चमी च मध्यात्पूर्वादिके यजेत् ॥ ६४ ॥

अङ्गे द्वितीयावरणं मातृकाभिस्तृतीयकम् ॥
सोमज्ञगुरुशुक्राश्च दिक्ष्वारशनिराहवः ॥
केतुर्विदिक्षु पूज्याश्च चतुर्थावरणं रवेः ॥ ६५ ॥

स्वनामाद्यक्षरं बिन्दुभूषितं प्रथमं वदेत् ॥
ङेन्तं हृदन्तं खेटस्य नामपूजामनुर्मतः ॥ ६६ ॥

पञ्चमी लोकपालैः स्यात्षष्ठी चापि तदायुधैः ॥
चतुलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥
ब्रह्मवृक्षसमद्भूतैः पुष्पैस्त्रिमधुरप्लुतैः ॥ ६७ ॥

सरोजैर्वा तदा देवं तर्प्पयेदभिषेचयेत् ॥
ब्राह्मणाराधनं कुर्य्यात्ततः सिद्धो भवेन्मनुः ॥
एवं साधितमन्त्रस्तु काम्यकर्म्माणि साधयेत् ॥ ६८ ॥

जपेदेवं प्रतिदिनं रविवारेथवा सुधीः ॥
दद्यादर्घद्वयमपि भवेत्तस्योदितं फलम् ॥ ६९ ॥

अथ श्रेयो जनानां 11 तु येनासौ वक्ष्यते मनुः ॥
त्र्यक्षरोस्य तु ह्रांह्रींसः प्रोक्तः सर्वार्थदायकः ॥ ७० ॥

अजोस्य मुनिरुद्दिष्टो गायत्री छन्द उच्यते ॥
देवतास्य मनोः प्रोक्तः सविता सुरपूजितः ॥ ७१ ॥

गुह्यात्पादतले यावद्गलादेर्गुह्यकं ततः ॥
मूर्धादिकण्ठपर्य्यन्तं मन्त्रार्णान्विन्यसेत्सुधीः ॥ ७२ ॥

मायाबीजेन षड्दीर्घभाजाङ्गानि प्रविन्यसेत् ॥
स्थितः पद्मेरुणे त्र्यक्षोरुणवर्णसुभूषणः ॥ ७३ ॥

पद्मद्वयवराभीतिहस्तश्चारुणसेवितः ॥
पूर्वोदिते यजेत्पीठे नवशक्तिसमन्विते ॥ ७४ ॥

षडङ्गावरणं चाद्यं प्राग्वच्चैव द्वितीयकम् ॥
दिक्पालैश्च तृतीयं स्याच्चतुर्थन्तु तदायुधैः ॥ ७५ ॥

ततश्च तेजश्चण्डाय निर्माल्यं विनिवेदयेत् ॥
जपेद्द्वादशलक्षं च तत्सहस्रं हुनेत्तिलैः ॥
घृताक्तमधुराक्तैश्च यवान्नैश्चैव तादृशैः 12 ॥ ७६ ॥

तप्पर्णादि ततः कुर्य्यात्प्रयोगान्साधयेदथ ॥
दद्यात्पूर्वोदितं चार्घ्यं दिनेशाय सुसाधकः ॥ ७७ ॥

सोप्यस्य धनधान्यादिपुत्रपौत्रविवर्धनम् ॥
करोति रत्नवस्त्रादिभूषणानि विवर्धयेत् ॥ ७८ ॥

अष्टपत्राम्बुजं कुर्य्यात्तत्र कुम्भान्नव न्यसेत् ॥
पत्रमध्ये कर्णिकायां तांश्च तोयेन पूरयेत् ॥ ७९ ॥

नवग्रहान्समावाह्य तेषु कुम्भेषु मन्त्रवित् ॥
कर्णिकाकलशं मूलमन्त्रेणैव सहस्रकम् ॥
प्रजप्यान्येषु तन्मन्त्राञ्छतकृत्वो जपेत्सुधीः ॥ ८० ॥

तज्जलैरभिषिञ्चेत्तु साधको मन्त्रवित्तमः ॥

मुच्यते नात्र सन्देहः साधको ग्रहदोषतः ॥ ८१ ॥

रोगा नश्यन्ति सततं लक्ष्मीश्चापि स्थिरा भवेत् ॥
ग्रहहोमः प्रकर्त्तव्यो ग्रहाणां वै कृते तथा ॥ ८२ ॥

चन्द्रभान्वोश्चोपरागे निजर्क्षे वाथ मन्त्रवित् ॥
विग्रहादौ भये चापि घोररूपे महागदे ॥ ८३ ॥

पूर्वं मण्डलकं कृत्वा ग्रहान्सम्पूज्य तत्र च ॥
स्वदिक्षु चाग्नीन्संस्थाप्य जुहुयाच्च समिद्वरैः ॥ ८४ ॥

अर्कद्विजद्रुमापूराश्वत्थोदुम्बरखादिरैः ॥
शमीदूर्वाकुशोद्भूतैः क्रमाद्धोमः समीरितः ॥ ८५ ॥

अष्टाधिकं सहस्रञ्च हुत्वा सूर्य्यस्य चाहुतीः ॥
अन्ते चान्यव्याहृतिभिर्हुत्वा होमं समापयेत् ॥ ८६ ॥

गुरुं सन्तोष्य ऋत्विग्भ्यो यथा शक्त्या च दक्षिणाम् ॥
दद्याच्च भोजयेद्विप्रान्सङ्ग्रामे विजयी भवेत् ॥ ८७ ॥

रोगाः शान्तिं व्रजन्त्याशु दीर्घमायुश्च विन्दति ॥
कृत्याद्रोहारिकाणाञ्च शान्तिरेवाशु जायते ॥ ८८ ॥

सर्वेषाञ्च ग्रहाणाञ्च होममेकत्र भावयेत् ॥
धनधान्यैश्वर्य्यपूर्ण आयुर्दीर्घं स विन्दति ॥
अथान्यत्सम्प्रवक्ष्यामि सङ्ग्रामविजयाभिधम् ॥ ८९ ॥

मन्त्रं सूर्य्यस्य रां हुं च द्व्यक्षरोयं महामनुः ॥
ऋषिश्छन्दो देवताश्च ह्यजगायत्रभानवः ॥
सर्वं पूजादिकञ्चास्य श्रेयोजनकमन्त्रवत् ॥ ९० ॥

अथातः सम्प्रवक्ष्यामि हंसोयं द्व्यक्षरो मनुः ॥
ब्रह्मा मुनिः समुद्दिष्टो गायत्रं छन्द उच्यते ॥ ९१ ॥

देवी पूर्वन्देवतास्य परमात्मा समीरितः ॥
षड्दीर्घेण सकारेण हम्पूर्वेण षडङ्गकम् ॥ ९२ ॥

रक्ताब्जकाञ्चननिभं गुणं टङ्कवराभयम् ॥
करैर्दधानं पद्मस्थं हरं गौर्य्यङ्कगम्भजे ॥ ९३ ॥

पूर्वोदिते यजेत्पीठे दिक्कालादिप्रकल्पिते ॥
तत्र देवं यजेन्मूर्तिं मूलेनाकल्प्य मन्त्रवित् ॥ ९४ ॥

पूर्वमङ्गैर्यजेन्मन्त्री दलेषु च प्रपूजयेत् ॥
ऋतुं वसुं नरञ्चापि परञ्च विदिशासु च ॥ ९५ ॥

अब्जां गोजाञ्च ऋतजामद्रिजाञ्च प्रपूजयेत् ॥
ततो लोकेश्वरांश्चापि तदग्रे चायुधान्यपि ॥ ९६ ॥

जपेद्द्वादशलक्षञ्च तद्दशांशं तथा हुनेत ॥
सर्पिरक्तेन हविषा तप्पर्णादि ततश्चरेत् ॥
पूर्वोदितेन विधिना सूर्य्यायार्घं निवेदयेत् ॥ ९७ ॥

गोमयेनोपलिप्तायाम्भूमावष्टदलं लिखेत् ॥
सूर्य्याष्टगन्धैरथ वा चन्दनाभ्यां मनुन्त्विमम् ॥ ९८ ॥

लिखेत्तत्कर्णिकायान्तु तस्योर्ध्वं स्थापयेद्घटम् ॥
तीर्थादिजलसम्पूर्णन्तस्योर्ध्वं स्थापयेत्करम् ॥ ९९ ॥

दक्षिणं वामहस्तेन मूलमष्टोत्तरं शतम् ॥
जपेत्सुधामयन्तञ्च कलशं हृदि भावयेत् ॥ १०० ॥

तेनाभिषिञ्चेत्साध्यन्तु जायते गतभीस्त्वसौ ॥
गतरोगो दीर्घजीवी विपद्बाधापरिच्युतः ॥ १०१ ॥

चेत्स्त्री वै नित्यसौभाग्या मन्त्रयेद्दक्षिणङ्करम् ॥
आदौ तेन विधातव्यः करेण करकः शुभः ॥ १०२ ॥

अष्टोत्तरसहस्रञ्च मन्त्रयेत्करकं पुनः ॥
भावयित्वा जलन्तच्चामृतन्तेनाभिषेचयेत् ॥
विषिणं निर्विषो भूयात्स्थावराज्जङ्गमादपि ॥ १०३ ॥

महासर्प्पेण दष्टश्चेन्मनुना मन्त्रयेत्करम् ॥
विन्यस्येद्दंशिनो मूर्ध्नि मन्त्रयित्वा विषं हरेत् ॥ १०४ ॥

मन्त्रं सुधाकरकरशुद्धधाराप्लुतं स्मरेत् ॥
प्लुतञ्चामृतधाराभिर्भावयित्वा मनुञ्जपेत् ॥ १०५ ॥

गदिनं मार्ज्जयेत्पश्चात्क्षुद्रामयविनाशनम् ॥
अपस्मृतिन्त्रिदोषोत्थान्रोगान्हन्यान्न संशयः ॥ १०६ ॥

शीर्षस्थचन्द्रबिम्बं च स्मरेद्धंसमुरूपकम् 13
सञ्चिन्त्य प्रजपेन्नित्यं क्षेपयेत्पलितञ्जराम् ॥ १०७ ॥

ध्यायेन्मत्रादिमं वर्णं सुधाधारापरिप्लुतम् ॥
द्वितीयञ्चन्द्रधाराभिर्मार्ज्जयेत्तेन मन्त्रवित् ॥ १०८ ॥

मार्त्तण्डभैरवस्याथ मन्त्रं वक्ष्यामि सिद्धिदम् ॥
हकारो रेफसंयुक्तः पकारेण समन्वितः ॥ १०९ ॥

औकारस्वरसंयुक्तस्तलेब्जाकारसंयुतः ॥
बिन्दुयुक्तं कूटमुक्तं मार्तण्डस्य त्रिवर्णकम् ॥ ११० ॥

पुटितं बिम्बबीजेन सर्वकामफलप्रदम् ॥
बिम्बबीजं दक्षमार्गे भजतां सिद्धिदायकम् ॥
वाममार्गेण भजतामादेश्यं किमिदं बुधैः ॥ १११ ॥

ब्रह्मामुनिर्निवृच्छन्दो मार्त्तण्डाख्यस्तु भैरवः ॥
देवतोक्तोथ हम्बीजं बिन्दुः शक्तिः प्रकीर्त्तिता ॥ ११२ ॥

मूर्त्तयः पञ्च चोद्दिष्टाः सूर्य्यभास्करभानवः ॥
रविर्दिवाकरश्चापि न्यस्तव्या ह्यङ्गुलीषु ताः ॥ ११३ ॥

पञ्चह्रस्वाद्यबीजेन पञ्चदीर्घान्वितेन च ॥
शिरोवदनहृद्गुह्यपाददेशेषु ता न्यसेत् ॥ ११४ ॥

ततः षडङ्गनेत्रान्तं कुर्य्याद्दीर्घयुताणुना ॥
अस्त्रन्यासानन्तरन्तु नेत्रन्यासः प्रकीर्त्तितः ॥
व्यापकं मूलबीजेन कुर्वीत तदनन्तरम् ॥ ११५ ॥

जपाकुसुमसङ्काशमष्टबाहुं चतुर्मुखम् ॥
मुखेमुखे त्रिनयनं मणिवन्मुकुटान्वितम् ॥ ११६ ॥

खट्वाङ्गपद्मचक्राणि शङ्खं पाशं तथा सृणिम् ॥
अक्षमालां कपालं च दधतं करपङ्कजैः ॥ ११७ ॥

अर्धाङ्गस्थितया शक्त्यालिङ्गितं हारशोभितम् ॥
पद्मस्थितं हास्यमुखं मार्तण्डं द्युमणिं भजे ॥ ११८ ॥

पीठे दीप्तादिभिर्युक्ते प्राग्वद्देवं प्रपूजयेत् ॥
आदावङ्गानि सम्पूज्य कर्णिकायामुषादिकाः ॥ ११९ ॥

पूर्वादिदिक्षु सूर्य्यादीन्विदिक्षु परिपूजयेत् ॥
नेत्रमीशानकोणे च तद्बाह्ये खेचरानपि ॥ १२० ॥

दिगीशानायुधानीत्थं मार्त्तण्डार्चनमीरितम् ॥
लक्षाणां त्रितयं मन्त्री जपेद्बीजं च बिम्बयोः ॥
दशांशं कमलैः फुल्लैर्जुहुयान्मधुरोक्षितैः ॥ १२१ ॥

प्राग्वत्कुर्य्यादर्घ्यदानं प्रयोगानाचरेत्ततः ॥
चतुरङ्गुलसम्भूतेः सुमनोभिः श्रियं लभेत् ॥ १२२ ॥

लक्षं हुत्वा च शाल्याज्यतिलबिल्वैर्विधानतः ॥
राजानं वशयेच्छीघ्रं जपाकुसुमहोमतः ॥
जुहुयान्मातुलुङ्गैश्च लभतेर्थं सुवाञ्छितम् ॥ १२३ ॥

एवं यः साधयेन्मन्त्री तस्य विद्या यशो बलम् ॥
पुत्रो लक्ष्मीश्च सौभाग्यं सर्वदा विजयो भवेत् ॥ १२४ ॥

पूर्वोक्ताष्टाक्षरे तारादग्रे ह्रीम्बीजमुच्चरेत् ॥
श्रीं मन्त्रोयं दशार्णस्तुपञ्चाम्नायेषु कीर्त्तितः ॥ १२५ ॥

ॐ ह्रीं ह्रीं ह्रौं सबिन्दुः ससूर्य्यायेत्यग्निगेहिनी ॥
दशाक्षरस्तु जप्तोयं द्वादशायुतसङ्ख्यया ॥
दुष्टग्रहास्तु सौम्याः स्यू राजमान्यः सजायते ॥ १२६ ॥

उपास्यस्तु कृते विष्णुस्त्रेतायां तु महेश्वरः ॥
इन्द्रयज्ञौ द्वापरे तु कलौ चण्डीविनायकौ ॥
भास्करः सर्वतुल्यस्तु सर्वोषां फलदायकः ॥ १२७ ॥

यद्यत्तेजोमयं तत्तज्ज्ञेयं सूर्य्यस्वरूपकम् ॥
इत्येतत्तुभ्यमाख्यातं किं वाच्यमथ तद्वद ॥ १२८ ॥

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते सूर्य्यमन्त्रप्रकाश एकविशः ॥ २१ ॥


  1. सत्यतेजोज्वालामणे हुं फट् स्वाहा हृदयाय नमः ॥ ↩︎

  2. ब्रह्मतेजोज्वालामणे हुम्फट् स्वाहा शिरसे स्वाहा ॥ ↩︎

  3. विष्णुतेजोज्वालामणे हुम्फट् स्वाहा शिखायै वषट् ↩︎

  4. रुद्रतेजोज्वालामणे हुम्फट् स्वाहा कवचाय हुम् ॥ ↩︎

  5. अग्नितेजोज्वालामणे हुम्फट् नेत्रत्रयाय वौषट् ↩︎

  6. सर्वतेजोवालामणे हुम्फट्स्वाहा अस्त्राय फट् ।
    इति षडङ्गं विधाय मूर्तिन्यासं विदधीत स यथा ॥ ↩︎

  7. ॐ आदित्याय नमः मस्तके ।
    एं रवये नमः मुखे ।
    उं भानवे नमः हृदये ।
    इं भास्कराय नमः लिङ्गे ।
    ॐ अंसूर्य्याय नमः पादयोः ॥
    इति श्रीसूर्य्यस्य मूर्त्तिन्यासविधिः ॥ ↩︎

  8. अथ मन्त्राक्षरन्यासः ॐ घृशीर्षणि, ॐ णिः मुखे, ॐ सू कण्ठे, ॐ र्य्यः हृदये, ॐ आकुक्षौ, ॐ दि लिङ्गे, ॐ त्यः पादयोः, इत्थं न्यासान्कृत्वा ध्यायेत् ॥ ↩︎

  9. कर्पूर ॥ ↩︎

  10. ह खं खःखोल्काय अयं षडक्षरो मन्त्रः स्वाहान्तः स्याद्गजाक्षरः ॥
    तथातारयुतोष्टार्णो नवार्णोपि प्रजायते ॥ ↩︎

  11. येन जनानां श्रेयो जायते स मनुर्वदिष्यते ॥ ↩︎

  12. घृतमध्वक्तैर्यवैः ॥ ↩︎

  13. अकारो वासुदेवः स्यादुकारः शङ्करः स्मृतः ॥
    एतत्कोशप्रमाणेन शिवरूपं बुध्येत ॥ ↩︎