श्रीशिव उवाच ॥
अथातः सम्प्रवक्ष्यामि उत्तराम्नायसिद्धादन् ॥
वदेद्धस्तिपिशाचीति लिःलिःस्वाहा नवाक्षरः ॥ १ ॥
कङ्कालोस्य मुनिश्छन्दो विराडुच्छिष्टनामकः ॥
गणेशो देवता प्रोक्तस्सर्वसम्पत्प्रदायकः ॥ २ ॥
द्वित्रीन्द्विन्दुद्विभिश्चापि पचाङ्गविधिरीरितः ॥
ध्यानं पूजापुरश्चर्यादिकं स्याद्वक्रतुण्डवत् ॥
नवलक्षोः जपः प्रोक्तः काम्यकर्माण्यथ ब्रुवे ॥ ३ ॥
प्रतिमां कारयेद्धिमान्निम्बकाष्ठमयीं शुभाम् ॥
साध्याङ्गुष्ठप्रमाणां च गणेशस्य महात्मनः ॥ ४ ॥
स्पृष्ट्वा तां प्रजपेन्मन्त्रं काम्यसिद्धिस्ततो भवेत् ॥
षष्ठ्यां चैव चतुर्दश्यां कृष्णपक्षे च मन्त्रवित् ॥ ५ ॥
उच्छिष्टो रात्रिमध्ये तु जपेन्मन्त्रमिमं शुभम् ॥
वाञ्छितं वशमायाति साधकस्य न संशयः ॥ ६ ॥
भूर्जपत्रे समालिख्य साध्यनाम यथाविधि ॥
मन्त्रेण वेष्टितं कृत्वा जपेन्मन्त्रमनन्यधीः ॥
पादेनाक्रम्य तत्पत्रं हस्तकृष्टिरियं मता ॥ ७ ॥
लिखित्वा पूर्ववत्पत्रं पूजयित्वा विधानतः ॥
साध्यं स्मृत्वा जपेन्मन्त्रं सर्वलोकं वशं नयेत् ॥ ८ ॥
धारयेन्मस्तके यन्त्रं जपन्मन्त्रमनन्यधीः ॥
राजानं राजपत्नीं वा कर्षयेत्तत्क्षणात्सुधीः ॥ ९ ॥
ताम्बूलपत्रपुष्पाणि वस्त्राण्याभरणानि च ॥
फलमूलादिवस्तूनि समादाय जपेन्मनुम् ॥
एकविंशतिवारान्हि दद्यादिष्टाय नान्यथा ॥ १० ॥
वशकृत्सर्वलोकानां प्रयोगोयं प्रकीर्तितः ॥
श्रीखण्डधूपदानेन राजानं वशमानयेत् ॥ ११ ॥
समिधो निम्बकाष्ठस्य कटुतैलसमन्विताः ॥
काकपक्षसमायुक्ता हुत्वा मन्त्री यथाविधि ॥
चिताग्नौ भूरि शत्रुं स उच्चाटयति नान्यथा ॥ १२ ॥
उलूककाकयोः पक्षांस्तद्वसारक्तसंयुतान् ॥
श्मशानाग्नौ तु जुहुयाद्विद्वेषः स्निग्धयोर्भवेत् ॥ १३ ॥
शत्रुपादरजोयुक्ता चक्रिहस्तमृदं बुधः ॥
श्मशानभस्मसंयुक्तामुद्वर्तनसमन्विताम् ॥
शत्रोस्तत्पुत्तलीं कुर्यात्सर्वावयवशोभिताम् ॥ १४ ॥
तस्या हृदि लिखेन्नाम मूलमन्त्रेण वेष्टयेत् ॥
कृत्वा प्राणप्रतिष्ठान्तु विषरक्ताढ्यपात्रके ॥ १५ ॥
स्थापयित्वा जपेन्मन्त्रं सम्यगेकाग्रमानसः ॥
म्रियतेरिर्न सन्देहो देवताभिः सुरक्षितः ॥ १६ ॥
चितायां दग्धदम्पभ्योर्भस्मादाय यथाविधि ॥
रोचनाकुङ्कुमाभं च भूर्जे नाम समालिखेत् ॥ १७ ॥
वेष्टितं मूलमन्त्रेण प्राणस्थापनमाचरेत् ॥
साध्यं स्मृत्वा जपेन्मन्त्रं सम्यगष्टोत्तरं शतम् ॥
द्विष्टयोर्जनयोः सम्यक्स्नेहो भवति तत्क्षणात् ॥ १८ ॥
अथ मन्त्रातरं वक्ष्ये चोच्छिष्टस्य गणेशितुः ॥
ॐ ह्रीं क्लींह्रीं समुच्चार्य ह्रींह्रीं घेङ्घें तथा च फट् ॥ १९ ॥
स्वाहान्तो भववर्णोयं प्राग्वद्ध्यानादिकं मतम् ॥
मुन्यादयः प्रयोगाश्च वर्णलक्षमितो जपः ॥ २० ॥
अथान्यत्सम्प्रवक्ष्येहं चोच्छिष्टस्य महामनुम् ॥
ॐ ह्रीं क्रीं च समुच्चार्य ह्रीं हुङ्घेङ्घें तथा च फट् ॥ २१ ॥
एकदष्ट्रायेति 1 हस्तिमुखलम्बोदराय च ॥
उक्त्वोच्छिष्टात्मने क्राङ्क्रूंह्रींह्रीङ्घेघेग्निगेहिनी ॥ २२ ॥
सप्तविंशतिवर्णोयं वक्रतुण्डषडर्णवत् ॥
चतुर्थ्यन्तं 2 हस्तिमुखददमात्रं यदोच्चरेत् ॥ २३ ॥
त्रयोविंशतिवर्णस्तु तस्य मन्त्रः प्रकीर्तितः ॥
मुन्यादिदेवतोच्छिष्टगणनाथः प्रकीर्तितः ॥ २४ ॥
प्राग्वज्ज्ञेयं प्रयोगादि सिद्धिः कलियुगे द्रुतम् ॥
अथान्यत्सम्प्रवक्ष्यामि मन्त्रं षड्विंशवर्णकम् ॥ २५ ॥
तारो 3 नमो भगवते एकदंष्ट्राय हस्ति च ॥
मुखलम्बोदरायेइ तथोच्छिष्टमहात्मने ॥ २६ ॥
क्रौं क्लौं ह्रौं ह्रुं ततो घेङ्घें स्वाहान्तोयम्मनुर्मतः ॥
ऋष्यादिकं पुरा प्रोक्तं क्रौङ्क्लुंह्रुं 4 च घे द्वयम् ॥
एतैः षडङ्गं कुर्वीत प्राग्वद्ध्यानं च पूजनम् ॥ २७ ॥
अथान्यमस्य वक्ष्यामि द्वादशार्णं महामनुम् ॥
ह्रीङ्गं हस्तिपिशाचि लिखेत्स्वाहेति मन्त्रकः ॥ २८ ॥
नवार्णमन्त्रवत्सर्वं ध्यानपूजादिकं मतम् ॥
पुरश्चर्यार्कलक्षास्यात्प्रयोगादि च पूर्ववत् ॥ २९ ॥
तारो 5 नमोच्छिष्टगणेशाय दशाक्षरो मनुः ॥
ध्यानपूजाप्रयोगादि सर्वमस्य दशार्णवत् ॥ ३० ॥
दशाक्षरस्यास्य चान्ते कथितश्चेन्नवाक्षरः ॥
एकोनविंशवर्णः स्यात्तदा मन्त्रः सुसिद्धिकृत् ॥ ३१ ॥
ध्यानपूजादिकं सर्वं विज्ञेयं तु नवार्णवत् ॥
द्वयगद्वित्रिद्विद्विभिश्च 6 मन्त्रार्णैः स्यात्षडङ्गकम् ॥ ३२ ॥
अथान्यत्सम्प्रवक्ष्यामि द्वात्रिंशद्वर्णकं मनुम् ॥
तारं हस्तिमुखेति च ङेन्तं लम्बोदरं वदेत् ॥ ३३ ॥
उच्छिष्टेति महात्मेति ने आङ्क्रींह्रीं समुच्चरेत् ॥
क्लीह्रीं हं घेद्वयं चापि उच्छिष्टायाग्निगेहिनी ॥ ३४ ॥
रसेषुसप्तषट्षट्कनेत्त्रार्णैरङ्गकल्पनम् ॥
उच्छिष्टगणनाथस्य मन्त्रेष्वेषु न शोधनम् ॥ ३५ ॥
सिद्ध्यादि चक्रमायादौ प्राप्तास्ते सिद्धिदा गुरोः ॥
मनवोमी सदा गोप्या न प्रकाश्या इतस्ततः ॥ ३६ ॥
वाममार्गाराधनं तु विनानेन न सिध्यति ॥
जातिभ्रंशो निर्धनत्वं वंशच्छेदोन्यथा भवेत् ॥ ३७ ॥
अथातः सम्प्रवक्ष्यामि कृतयुक्तास्तु शक्तयः ॥
ब्राह्मणेभ्यः सदा गोप्या विशेषाद्वेदकर्मणः ॥ ३८ ॥
उच्छिष्टचाण्डलिनीति सुमुखी च महापिशा ॥
चिनि ह्रीं वत्रयं बिन्दुविसर्गाभ्यां च संयुतम् ॥ ३९ ॥
विंशत्यर्णो मनुः 7 प्रोक्तो भजतामिष्टसिद्धिकृतम् ॥
यस्य तिष्ठति मन्त्रोयं न स विघ्नैस्तु बाध्यते ॥ ४० ॥
शवोपरि समासीनां रक्ताम्बरपरिच्छदाम् ॥
रक्तालङ्कारसंयुक्तां गुणहारविराजिताम् ॥ ४१ ॥
रक्तां षोडशवर्षां च पीन्नोन्नतघनस्तनीम् ॥
उच्छष्टेन बलिं दत्त्वा जपेत्तद्गतमानसः ॥ ४२ ॥
उच्छिष्टेन प्रकर्तव्यो जपोस्याः सिद्धिमिच्छता ॥
उच्छिष्टं जपतो ह्यस्य जायन्ते सर्वसिद्धयः ॥ ४३ ॥
स्थण्डिलं मण्डलं कृत्वा चतुरस्रं समाहितः ॥
पूजयेन्मण्डलं देव्या मूलमन्त्रेण मन्त्रवित् ॥ ४४ ॥
तत्र चाग्निं समाधाय वह्निरूप व्यवस्थिताम् ॥
देवीं ध्यात्वा चरेद्धोमं दधिसिद्धार्थतण्डुलैः ॥
सहस्रैकं विधानेन राजा भवति वश्यगः ॥ ४५ ॥
मार्जारस्य तु मांसेन यो देव्यै होममाचरेत् ॥
स प्राप्नोति परां विद्यां शस्त्रशास्त्रवशीकृताम् ॥ ४६ ॥
कुर्याच्छागस्य मांसेन होमं मधुसमन्वितम् ॥
सहस्रैकं विधानेन भवन्ति धनसिद्धयः ॥ ४७ ॥
विद्याकामश्चरेद्धोमं शर्कराघृतपायसैः ॥
मासात्तस्य भवन्त्येव सिद्धा विद्याश्चतुर्दश ॥ ४८ ॥
रजस्वलाया वस्त्रेण मधुना पायसेन च ॥
होमं कृत्वा महादेवि त्रैलोक्यं वशमानयेत् ॥ ४९ ॥
नागवल्या चरेद्धोमं मधुना सहसर्पिषा ॥
अयुतैकं विधानेन सिद्धयोष्टौ भवन्ति च ॥ ५० ॥
नरमार्जारमांसेन घृतेन मधुना सह ॥
चाण्डालकेशयुक्तेन भवदाकर्षणं धुर्वम् ॥ ५१ ॥
तथा बकस्य मांसेन मधुना लोलितेन च ॥
कृत्वा होममवाप्नोति विद्यावित्तवरानाः ॥ ५२ ॥
मधुरार्कस्य होमेन चितावह्नौ तु मन्त्रवित् ॥
कोकिलाकाकपक्षैश्च होमाच्छत्रून्विनाशयेत् ॥ ५३ ॥
उच्चाटनाय शत्रूणां होमं कुर्याच्च मन्त्रवित् ॥
पूर्वोक्तेन विधानेन चिताकाष्ठहुताशने ॥ ५४ ॥
उलूककाकपक्षाभ्यां कृत्वा होमं निरन्तरम् ॥
शत्रून्विद्वेषयेद्द्वेष्टा चान्योन्यकलहाकुलान् ॥ ५५ ॥
उलूकपक्षहोमेन गर्भपातो भवेत्स्त्रियाः ॥
सहस्रैकं विधानेन कुर्याद्धोर्म समाहितः ॥ ५६ ॥
बिल्वपत्रैः समध्वाज्यैर्मासमेकं निरन्तरम् ॥
वन्ध्यापि लभते पुत्रं चिरञ्जीविनमुत्तमम् ॥ ५७ ॥
प्रातरुत्थाय यः कश्चित्कुर्याद्धोमं दिनेदिने ॥
जपापुष्पैराज्ययुतैरष्टोत्तरशतं प्रिये ॥
षण्मासस्य प्रयोगेण भवेदाकर्षणं ध्रुवम् ॥ ५८ ॥
देवगन्धर्वकन्याश्च तथा नागादिकन्यकाः ॥
हठाच्चागस्य कामार्त्ता बलादालिङ्गयन्ति तम् ॥ ५९ ॥
विद्यायै क्रियते होमस्तिलैः पायसमिश्रितैः ॥
स प्राप्नोति महाविद्यां शास्त्रौघदशशालिनीम् ॥ ६० ॥
मधुना रुरुमासेन होमं कुर्यात्प्रयत्नतः ॥
विद्यावान्धनवान्वापि सर्वशास्त्रवशङ्करः ॥ ६१ ॥
भोजनानन्तरं चास्या बलिं कृत्वा दिनेदिने ॥
शतमष्टोत्तरं मन्त्रमुच्छिष्टेन जपेत्सदा ॥ ६२ ॥
उत्कटे वा श्मशाने वा शून्यागारे चतुष्पथे ॥
बलिप्रदानतो देवी प्रत्यक्षा भवति ध्रुवम् ॥ ६३ ॥
गोपनीयं प्रयत्नेन कथनीयं न कस्यचित् ॥
गुरुभक्तिश्च कर्तव्या कायेन च धनेन च ॥ ६४ ॥
अथातः सम्प्रवक्ष्यामि वामदक्षिणनिर्णयम् ॥
कलौ विष्णुप्रार्थनया सर्वतन्त्रेषु गोपितम् ॥ ६५ ॥
मनुष्याः पशवो ज्ञेयाः पशवोपि नराः सुराः ॥
पशवोप्यसुराश्चापि भक्ष्यं पानं च मैथुनम् ॥ ६६ ॥
जानन्ति तुल्यं भेदेन शीतोष्णाद्याः षडूर्मयः ॥
सर्वानेव हि बाधन्ते ममानन्दवनेमुतः ॥ ६७ ॥
द्वयोस्तुल्या गतिः प्रोक्ता कामक्रोधादिकामतः ॥
तत्कथं मनुजाः श्रेष्ठास्त्र त्वां प्रब्रवीमि च ॥ ६८ ॥
पशुदेहादन्यलोकसाधनं नैव जायते ॥
नृदेहात्तद्भवेद्यस्मात्तस्माच्छ्रेष्ठा नरा मताः ॥ ६९ ॥
यो यस्य धर्मो विहितस्तेन धर्मेण यो व्रजेत् ॥
तस्यैव परलोकोस्ति यावत्पुण्यं वसेद्दिवि ॥ ७० ॥
पुनराढ्यगृहे जन्म सत्सङ्गस्चोपजायते ॥
सावधानस्तत्र यदा शास्त्रश्रवणतो भवेत् ॥
तदायं जायते विप्रः श्रोत्रियाणां कले सुराः । ७१ ॥
तत्रापि सावधानश्चेद्ब्राह्मधर्मपरो यदा ॥
तदा ममानन्दवने दीक्ष्यते स सभान्तरे ॥ ७२ ॥
पुनः कोपि स्वधर्मस्थो ज्ञानाभावाद्वियोनिषु ॥
जायते धर्मसाहाय्यान्मया काश्यां विमोच्यते ॥
कालस्यांशोधिकस्तत्र जपेच्च बहुजीवति ॥ ७३ ॥
उपासना द्विधा प्रोक्ता सकामा कामविच्युता ॥
मोक्षबीजं तु निष्कामा सकामा भवबीजकम् ॥ ७४ ॥
पन्थास्तु दक्षिणः श्रेष्ठो वामः श्रेष्ठतरो मतः ॥
यस्तु वामं विजानाति स एव परमो गुरुः ॥ ७५ ॥
अहं जानामि सम्पूर्णं पादोनं सनकादयः ॥
अर्धं चापि वशिष्ठाद्याः शक्राद्याः पादसम्मितम् ॥ ७६ ॥
जानन्ति नाथाः षष्ठांशं कोट्यंशमितरे जनाः ॥
जानन्ति कोटयश्चात्र जायन्ते कृमियोनिषु ॥ ७७ ॥
यः करोति सुरापानं जीवन्मुक्तः स जायते ॥
सुरतं यः प्रकुरुते त्रैलोक्यकरणक्षमः ॥ ७८ ॥
यो भक्षयति मत्स्यांश्च स शिवो नात्र संशयः ॥
मुद्रां भक्षयते यस्तु स सिद्धीनां पतिर्भवेत् ॥ ७९ ॥
मांसं खादति यो मर्त्यस्तस्य मृत्युभयं कुतः ॥
एतस्य चार्थत्रितयं सात्त्विको राजसस्तथा ॥ ८० ॥
तामसश्चेति तत्राद्यो वाममार्गो निरूप्यते ॥
तं मार्गं ये विजानन्ति ते मुक्ता नात्र संशयः ॥ ८१ ॥
श्रीकृष्णो वाममार्गन्तु फाल्गुनायोपदिष्टवान् ॥
मया चिन्तयता दृष्टस्समुनिश्च निरूपितः ॥ ८२ ॥
चाण्डालो वा तुरुष्को वा ब्रह्महा वाथ मत्सरी ॥
श्रोत्रियो वा वाममार्गी भुक्तिमुक्त्योः स भाजनम् ॥ ८३ ॥
ज्ञातोयं शुकदेवेन गर्भस्तम्भेन धीमता ॥
तं निन्दयति यः पापी विष्ठायां जायते कृमिः ॥ ८४ …
वाममार्गे च तन्त्राणि मया त्रीणि कृतानि तु ॥
दत्तात्रेयाय चैकन्तु श्रीकृष्णाय तथा परम् ॥ ८५ ॥
देव्यै दत्तं तृतीयन्तु दत्तेन तु युगद्वये ॥
बहवो वृष्णिकाद्याश्च वाममार्गेण मोचिताः ॥ ८६ ॥
श्रीकृष्णाय तु यद्दत्तं तेन च द्वापरे युगे ॥
इह लोकेषु सन्दाय देवलोके प्रवेशिताः ॥ ८७ ॥
यत्तन्त्रं तु मया देव्यै दत्तं तेन विमोहिताः ॥
पण्डिता अपि संसारे चान्येषां तु कथास्ति का ॥ ८८ ॥
तत्सारं सम्प्रवक्ष्यामि सर्वतन्त्रेषु गोपितम् ॥
कुण्डली शक्तिमुत्थाप्य हठयोगेन भोः सुराः ॥
कृत्वा बुभुक्षितां तान्तु जीवं तस्यैप्रदर्शयेत् ॥ ८९ ॥
साजीवभक्षणार्थन्तु मुखं व्याकुरुते यदा ॥
शिरश्चन्द्रामृतं तस्यामुखं यात्येतदीरितम् ॥ ९० ॥
जरामृत्युहरं देवाः सुरापानन्तु वामिनाम् ॥
पीत्वापीत्वा पुनः पीत्वा देहो भवति काष्ठवत् ॥ ९१ ॥
प्राक्कर्मवेगतो देहे नानाकर्माणि भान्ति च ॥
जीवः प्राप्यात्मसाम्यत्वं नित्यानन्दमयो भवेत् ॥
देहाभिमाने गलिते साधकः स्यान्महेश्वरः ॥ ९२ ॥
भ्रामितन्तु कुलालेन चक्रं चरति वेगतः ॥
तथास्य देहश्चरति व्यहङ्कारस्तु कर्मतः ॥ ९३ ॥
यथा केशनखादीनां निर्गतानां तु कर्त्तने ॥
तद्वन्न दुःखं भवति ज्ञानिनां देहताडने ॥ ९४ ॥
जीवः सर्वगतः केशनखादीनां यथा भवेत् ॥
वृद्धिस्तथास्य देहस्य व्यापारः सम्प्रवर्त्तते ॥ ९५ ॥
यथा वृक्षः सजीवोपि पीडया नानुभूयते ॥
तथा चन्द्रसुरामत्तः कामाद्यैर्नानुभूयते ॥ ९६ ॥
इडापिङ्गलयोः प्राणान्सुषुम्णायां प्रवर्त्तयेत् ॥
सुषुम्णा शक्तिरुद्दिष्टा जीवोयन्तु परः शिवः ॥
तयोस्तु सङ्गमो देवाः सुरतं नाम कीर्तितम् ॥ ९७ ॥
वीर्यपातस्य समये सुषुम्णासन्नमारुते ॥
उत्पद्यते तु यत्सौख्यं तस्मात्कुटिगुणं तु तत् ॥ ९८ ॥
समाधिस्थास्तु योगीन्द्रास्तेन सौख्येन निर्वृताः ॥
सहस्रयुगकालन्तु मन्यन्ते ते निमेषवत् ॥
एतदेव रतं प्रोक्तमन्यत्स्याद्रासभं रतम् ॥ ९९ ॥
पञ्चक्लेशास्तु मत्स्याः स्युर्विवेकेनैव ताञ्जपेत् ॥
मत्स्यभक्षणमित्युक्तं मुक्तिमार्गनिदर्शकैः ॥ १०० ॥
क्लेशकर्मविपाकैश्च ह्याशयैः स्यादसङ्गतिः ॥
तदानीं ह्यानन्दमय आत्मत्वं प्रतिपद्यते ॥ १०१ ।
आत्मनो जायते मोदस्ता मुद्राः परिकीर्तिताः ॥
ता ज्ञेया धारणाध्यानसमाध्याख्यास्तु मोक्षदाः ॥ १०२ ॥
देहबन्धकरं यत्तु तन्मांसं परिकीर्तितम् ॥
अज्ञानेन यतो जीवो देहपाशेन बध्यते ॥ १०३ ॥
अज्ञानभक्षणं प्रोक्तं तन्मांसस्य च भक्षणम् ॥
अज्ञाननाशाज्ज्ञानस्योदयान्मोक्षः प्रजायते ॥ १०४ ॥
दत्तात्रेयाय यत्प्रोक्तं सात्त्विकं तन्निरूपितम् ॥
अनेन वाममार्गेण मोक्षो भवति सर्वथा ॥ १०५ ॥
श्रीकृष्णार्पितसारार्थं तन्त्रराजस्य गृह्यताम् ॥
ददाति यत्तल्लभते हीति शास्त्रेषु निश्चयः ॥ १०६ ॥
न मांसभक्षणे दोषो न मद्ये न च मैथुने ॥
प्रवृत्तिरेषा भूतानां निवृत्तिश्च महाफला ॥ १०७ ॥
व्यामोहकारकं मद्यं निषिद्धं नरकप्रदम् ॥
ब्राह्मणो न स्पृशेन्मद्यं वैदिके वर्त्मनि स्थितः ॥ १०८ ॥
यावद्वेदश्च वेदी च कलौ भूमौ प्रवर्तते ॥
तावन्न ब्राह्मणो मद्यं कलौ सेवेत कर्हिचित् ॥
यथामृतन्तथा मद्यम्प्रोक्तं काले निषेवितम् ॥ १०९ ॥
अमृतेन सहोत्पन्नं स्थाने मद्यं सुधायते ॥
विषेणापि समुत्पन्नं तेन मद्यं विषायते ॥ ११० ॥
अग्निर्नाम च गायत्री सा प्राप्ताचेद्गुरोर्मुखात् ॥
कुलद्वयविशुद्धेन वैदिकेनैव वर्त्मना ॥ १११ ॥
अज्ञाते तन्मुखाग्नौ तु सद्यो बिन्दुः पितेद्यदि ॥
प्रतारको वचोभिर्वा धनबुद्ध्या तथा परम् ॥
इह लोके स दुःखी स्यात्प्रेत्य राक्षसतां व्रजेत् ॥ ११२ ॥
यदि तन्त्रक्रियायुक्तो गुरुणा संस्कृतो भवेत् ॥
तदा किञ्चित्सुखं प्राप्य प्रेत्य लक्षाधिपो भवेत् ॥ ११३ ॥
विष्णोरप्यर्चनं कुर्यात्तर्पणं सुरया पुनः ॥
अविप्रः सौख्यमाप्नोति प्रेत्य ब्रह्मणि लीयते ॥
गौडी पैष्टी च माध्वी च सुरा इत्यभिधीयते ॥ ११४ ॥
राजन्यवैश्ययोर्नेष्टा ब्राह्मणस्य तु का कथा ॥
मन्त्रेण संस्कृतं कृत्वा शक्त्युच्छिष्टं तु यः पिबेत् ॥
मद्यं पुनः पुनः स्तन्यं न पिबेत्स पयो नरः ॥ ११५ ॥
दैवात्कदाचिद्विप्रोपि धूर्त्तमन्त्रैः प्रतारितः ॥
दैवेन मद्यपो जातस्तस्योद्धारो मयोच्यते ॥ ११६ ॥
त्यजेत्स वैदिकं कर्म तुलसीं नैव संस्पृशेत् ॥
चाण्डालो वा तुरुष्को वा यः कश्चित्कौलमास्थितः ॥
तस्यैव सङ्गः कर्त्तव्यो नान्यविप्रस्य कुत्रचित् ॥ ११७ ॥
प्रत्यहम्पूजयेद्देवीं शाक्तैः सङ्गस्तथान्वहम् ॥
देवताञ्चिन्तयेच्छक्तिं तां पुमान्स्वयमेव हि ॥ ११८ ॥
एवम्भावनया युक्तः शाक्तैः सङ्गं समाचरेत् ॥
प्राणस्यायमनाद्वापि भेषजान्मन्त्रतस्तथा ॥ ११९ ॥
संस्तभ्य शुक्रम्प्रजपेद्यावत्स्खलति पीङ्गना ॥
शक्त्यग्नौ तद्दशांशेन स्खलनं होम एव तत् ॥ १२० ॥
पुनारतं समारभ्य स्खलिताभ्यां च तर्पणम् ॥
पुना रतान्मार्जनञ्च एतदष्टदिनैश्चरेत् ॥ १२१ ॥
सम्भोज्याः शक्तयः पञ्च नवमे तु दिने तथा ॥
एवं कृते विधाने च देवता वरदा भवेत् ॥ १२२ ॥
रौहितकैस्तु तृप्तिः स्याद्वर्षं मासं च माद्गुरेः ॥
त्रिरात्रन्तिमिभिस्तृप्तिः शृङ्ग्या वापि दिनद्वयम् ॥ १२३ ॥
भागाष्टकं माषपिष्टं षड्भागोजपलस्य च ॥
सुरस्य च सुपक्वस्य ग्राह्यं भागचतुष्टयम् ॥ १२४ ॥
भागद्वयं तण्डुलानां मेथिकाहिङ्गुजीरकम् ॥
लवणं च तथा योग्यं सुरया मर्दितं दृढम् ॥ १२५ ॥
चक्रीकृतं नागवल्लिदलैश्च परिवेष्टितम् ॥
जलयन्त्रे विपक्वं तच्छक्तिमुद्रेयमीरिता ॥ १२६ ॥
कालखण्डं कर्करस्य चव्य यन्त्रविपाचितम् ॥
माषाढकीमसूरैश्च चणकान्नैः समन्वितम् ॥ १२७ ॥
समभागेन चूर्णेन तच्च हिङ्ग्वादिभिर्युतम् ॥
वटकाः कटुतैलेन पक्वाः स्यान्मुद्रिका परा ॥ १२८ ॥
सर्वासामेव मुद्राणां करणं तु जले स्थले ॥
सुरा देयाथ वा मद्यमासवं वा न चेतरत् ॥ १२९ ॥
गोधूमचूर्णं मांसं च पक्वं सम्मेलयेद्दृढम् ॥
दिनत्रयं जले स्थाप्यं यावदम्लं प्रजायते ॥ १३० ॥
सूक्ष्मं मत्स्यं माषपिष्टं मसूराणां च चूर्णकम् ॥
गोधूमशष्कुलीमध्ये दत्त्वाज्ये परिपाचयेत् ॥
इयं तु परमा मुद्रा शक्तीनामतितृप्तिदा ॥ १३१ ॥
धारिका पूरिकाचैव वेष्टनी पूर्ण पूरिका ॥
दक्षमार्गस्थशक्तीनां मुद्रिकाः परिकीर्तिताः ॥ १३२ ॥
सम्यक्सुपक्वं मांसं च तथा मत्स्यभवं पलम् ॥
स्विन्नेन हरिमन्थानं द्विदलेन च मेलयेत् ॥ १३३ ॥
सम्यक्पिष्ट्वा कटाहे तद्धृतेन परिपाचयेत् ॥
समं च समितं दत्त्वा मरिचानि च पत्रजम् ॥ १३४ ॥
लवङ्गं चापि क्षुद्रैलां जातीं कङ्कोलकं विधुम् ॥
यथोचितं तत्र दत्त्वा मोदकान्कारयेद्दृढान् ॥
वाममार्गगणेशानां मुद्रा परमतोषकृत् ॥ १३५ ॥
माषान्मकुष्ठांश्चणकान्मुद्गाढकपरं समम् ॥
सम्यक्पिष्ट्वा निबद्धं च दधि दत्त्वा विलोडितम् ॥ १३६ ॥
सूक्ष्मास्य तु वटी बद्धा पङ्कितासितया तथा ॥
एलादिकसुगन्धैश्चोद्धूलिका मुद्रिका मता ॥ १३७ ॥
सम्यक्खिन्नस्य मांसस्य राजिकावत्कृतस्य च ॥
शुष्कस्य भानुकिरणैराज्ये पक्वस्य षड्गुणे ॥ १३८ ॥
दुग्धं दत्त्वा पचेत्सम्यग्यावद्भवति पिण्डितम् ॥
समिता च समां दत्त्वा कर्पूरादि यथारुचि ॥
मुद्रेयं गणनाथस्य प्रिया तोषकरी सदा ॥ १३९ ॥
सम्यक्तित्तिरिमाम्स च जलयन्त्रेण पाचयेत् ॥
घृतसम्भर्जितं तेन तुल्यं चणकचूर्णकम् ॥ १४० ॥
सम्मेल्य भर्जयित्वा च घृते सम्यग्विपाचयेत् ॥
सितया मुद्रिका चेयं गणेशानां प्रियङ्करा ॥ १४१ ॥
हरिमत्स्यकबिन्दूनां मुद्गानां चूर्णकस्य च ॥
तथा गोधूमचूर्णानां मुद्गचूर्णस्य लड्डुकाः ॥
दक्षिणानां गणेशस्य प्रीतिदा मुद्रिका मता ॥ १४२ ॥
अब्राह्मणनराणान्तु मांसं सर्वोत्तमं मतम् ॥
मृगाणां च तथा प्रोक्तं तित्तिरादिकपक्षिणाम् ॥
मांसं तृप्तिकरं ज्ञेयं त्र्यहं कालीयकस्य तु ॥ १४३ ॥
दिनाष्टकं यथान्यायं यस्मिन्देशे तु यद्भवेत् ॥
खाद्यमांसं दैवतायै सम्यक्तच्च निवेदयेत् ॥ १४४ ॥
पूजायन्त्रं दक्षमार्गे प्रोक्तं गन्धाष्टकेन तत् ॥
लिखेद्वा केशरहिमरोचनाभिः समालिखेत् ॥ १४५ ॥
वाममार्गी लिखेदाद्यपुष्पेण यदि यन्त्रकम् ॥
षण्मासपूजनात्तस्य त्वरितं सिद्धिमाप्नुयात् ॥ १४६ ॥
युवत्याश्च प्रसूताया अभावे गृह्यते रजः ॥
तदभावे तरुण्यास्तु नीरोगाया रजो मतम् ॥ १४७ ॥
तदभावे च कुसुमं ग्राह्यञ्चैवापराजितम् ॥
तस्योर्ध्वभागे निक्षिप्य घर्षितं रक्तचन्दनम् ॥ १४८ ॥
तदा गणं मूलमार्गात्तेन यन्त्रं समालिखेत् ॥
तदभावे तु सुरया घृतरक्तकचन्दनैः ॥ १४९ ॥
यथोक्तं सलिखेद्यन्त्रं तुष्टा भवति देवता ॥
नवमेत्र प्रकाशेस्ति वाममार्गे सुरोत्तमाः ॥ १५० ॥
वाममार्गे प्रवृत्तस्तु पूजालोपं करोति चेत् ॥
नित्यं न कुरुते तस्य देवतातिबुभुक्षिता ॥
सन्ततिञ्चापि सम्पत्तिं भक्षयेन्नात्र संशयः ॥ १५१ ॥
प्रतिवर्षं पूजनं तु यन्त्रद्रव्योक्तवर्त्मना ॥
वर्षार्धार्धार्धमासेन देवतातृप्तिकारम् ॥
निर्धनेनैव कर्तव्यो वाममार्गः क्षयावहः ॥ १५२ ॥
रतिमात्रे वामिनात्र कर्तव्या बुद्धिरीदृशी ॥
लिङ्गं शिवो भगः शक्तिर्गाङ्गं वारि जलं मतम् ॥ १५३ ॥
इति भावनया वामी रतिं कुर्वन्विमुच्यते ॥
अन्यथा स्त्रीगमनेन नरके परिपच्यते ॥ १५४ ॥
जीवस्य हनेन पापं वामिनां तन्न विद्यते ॥
यदीदृशी तदा बुद्धिर्नोचेन्निरयमाप्नुयात् ॥ १५५ ॥
अवश्यमेव कर्तव्यं मृत्युरोगागतेन च ॥
तस्मादस्य पशोः पापक्षयार्थं गमनाय च ॥ १५६ ॥
सुरलोके घातयामि तत्सुखस्यापि सिद्धये ॥
देवतापरलाभेन तमो हन हनाम्यहम् ॥ १५७ ॥
इत्थं विचार्य यो हन्यात्तस्य तुष्यति देवता ॥
पूर्वजन्मनि यैर्वामिभिः कृतं यदुपासनम् ॥ १५८ ॥
सिद्ध्यन्ति ते तु पशवो बलियोग्या भवन्ति हि ॥
देवतासन्निधौ त्यक्त्वा प्राणान्यान्ति सुरालयम् ॥ १५९ ॥
वामिना तु सा कार्या सर्वासु प्रमदास्वपि ॥
देवीबुद्धिः कठोरं वाप्रियं नैव सुसंवदेत् ॥ १६० ॥
आत्मजाया तथा नार्यो यक्षिणीप्रमुखाः पराः ॥
वामिना ताश्च भोक्तव्या एष धर्मः सनातनः ॥ १६१ ॥
उत्तरायां नैव कोपि पातं वीर्यस्य कारयेत् ॥
चाण्डालीनामपि स्त्रीणां स्पर्शदोषं न मानयेत् ॥ १६२ ॥
रजस्वलाभगं दृष्ट्वा कुर्यादेकां पुरस्क्रियाम् ॥
केवलं सुरया होमस्तत्प्रत्यक्षं समाचरेत् ॥ १६३ ॥
उत्तिष्ठति तदा कुण्डाद्देवतार्द्धाङ्गदर्शनी ॥
ब्रूयाद्वरं गृहाणेति मनोभीष्टन्तु योर्चयेत् ॥ १६४ ॥
स्मशाने वा शून्यगेहे चैत्याधस्ताच्छवोपरि ॥
मुण्डोपर्य्यथ वा शौचस्थाने वा शून्यमन्दिरे ॥
सुरास्थाने प्रकर्तव्यं तत्र तिष्ठन्ति देवताः ॥ १६५ ॥
शालग्रामो नार्चनीयस्तुलसीं नैव संस्पृशेत् ॥
तीर्थयात्रां न कुर्वीत गङ्गास्नानं न चाचरेत् ॥ १६६ ॥
स्नानाभावे जपं कुर्यात्प्रथमर्तुसमन्वितम् ॥
आसनाधोम्बरं कृत्वा जपन्सिद्धिमवाप्नुयात् ॥ १६७ ॥
प्रायशो वाममार्गे तु सिद्धमन्त्रो यदा गुरुः ॥
तदैव जायते सिद्धिरन्यथा प्रेतवद्भवेत् ॥ १६८ ॥
वाममार्गे द्रुतं सिद्धिः कर्मणा येन जायते ॥
तदहं ते प्रवक्ष्यामि सूक्ष्मसाधनमद्भुतम् ॥ १६९ ॥
अष्टम्यां वा चतुर्दश्यां कृष्णायाम्भौमवासरे ॥
गृहीत्वा नृकपालन्तु मद्यम्मांसं तथौदनम् ॥
कुल्माषोन्मिश्रितं कृत्वा गच्छेदश्वत्थभूमिकाम् ॥ १७० ॥
एकान्ते निर्जने तस्य तले संलिप्य भूमिकाम् ॥
दण्डमात्रानष्टदिक्षु 8 कीलान्मूलेन पूरयेत् ॥ १७१ ॥
अष्टोत्तरसहस्रेण सप्ततन्तुकदोरकम् ॥
निबध्नीयात्तत्र पूजां देवतायाः समाचरेत् ॥ १७२ ॥
देवीं तु हृदि संस्थाप्य तस्मिन्स्थाने तु दीपकम् ॥
कुर्याच्चैरण्डतैलेनाभावे कापिलहव्यकैः ॥ १७३ ॥
तदभावे तु तैलेन कुडवप्रमितेन च ॥
दीपं कुर्यादष्टशतसूत्राणां वर्तिका मता ॥ १७४ ॥
तस्योपरि कपालं तत्कज्जलार्थं निवेशयेत् ॥
दीपं दृष्ट्वा जपेन्मन्त्रं नान्यतस्तु विलोकयेत् ॥ १७५ ॥
अर्धे प्रज्वलिते तैले भूतप्रेतपिशाचकाः ॥
नानारूपा भिन्नशब्दाः साधकं भीषयन्ति ते ॥ १७६ ॥
न भेतव्यं तदन्नं तुं वामहस्तेन निःक्षिपेत् ॥
तेषामग्रे नान्यदृष्तिः प्रपश्येद्दीपमेव हि ॥ १७७ ॥
किञ्चिच्छेषे दीपतैले देवी सा वरदा भवेत् ॥
तस्यै तं च बलिन्दत्त्वा स्तुत्वा संयाचयेद्वरम् ॥ १७८ ॥
पूर्वकर्मविपाकेन यदि नायाति देवता ॥
दीपान्ते कज्जलं ग्राह्यं तत्र देवीं प्रपूज्य च ॥ १७९ ॥
आनयेत्तद्गृहे सिद्धं दत्त्वाक्ष्णोः स्याज्जगद्वशम् ॥
दत्त्वाक्ष्णोः कज्जलं तच्च प्रयोगानाचरेत्ततः ॥ १८० ॥
सर्व एव प्रसिद्ध्यन्ति लोलुपेतिगुरौ सति ॥
रक्षयेदञ्जनं सम्यङ्नोचेद्भवति भैरवः ॥ १८१ ॥
इत्येतद्वो निगदितं गणेशरचितं महत् ॥
तद्ब्रुवन्तु सुराः सर्वे वक्तव्यं किमतः परम् ॥ १८२ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते उत्तराम्नाय-गणपति-मन्त्र-कथनं नाम विंशतितमः प्रकाशः ॥ २० ॥
-
एकदंष्ट्राय हस्तिमुखलम्बोराय उच्छिष्टात्मने क्राङ्क्लूं ह्रींह्रीं घेङ्घें स्वाहा ॥ ↩︎
-
पूर्वोक्त उच्छिष्टात्मने एतत्पदस्याग्रे हस्तिमुखाय योजनेन त्रिनेत्रामितमनुर्भवति ॥ ↩︎
-
ॐ नमो भगवते एकदंष्ट्राय हस्तिमुखलम्बोदराय उच्छिष्टमहात्मने क्रौङ्कॢंह्रौंह्रं घेघे स्वाहा ↩︎
-
क्रौं हृदयाय नमः क्लूं शिरसे स्वाहा ह्रुं शिखायै वषट् घें कवचाय हुम् घें नेत्रत्रयाय वौषट् क्रौक्लूं ह्रौं ह्रूं घेघे अस्त्राय फट् ↩︎
-
ॐ नमः उच्छिष्टगणेशाय ॥ ↩︎
-
ॐ हस्तिमुखाय लम्बोदराय उच्छिष्टमहात्मने आङ्क्र्ॐह्रीङ्क्लीं ह्रींहुङ्घेघे-उच्छिष्टाय स्वाहा ↩︎
-
उच्छिष्टचाण्डालिनि सुमुखि महापिशाचिनि ह्रींवंवंवः ↩︎
-
दण्डलक्षणं चोक्तं श्रीभास्कराचार्येण ॥
यवोदरैरङ्गुलमष्टसङ्ख्यैर्हस्त्ॐगुलैः षड्गुणितैश्चतुर्भिः ॥
हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोशः सहस्रद्वितयेन तेषाम् इति ॥ ↩︎