१९ पश्चिमाम्नाय-गणपतिमन्त्रकथनम्

श्रीशिव उवाच ॥

अथातः सम्प्रवक्ष्यामि पश्चिमाम्नायसिद्धिदान् ॥
नानाश्चर्यकरान्काशीसंस्थितान्गणनायकान् ॥ १ ॥

महागणपतेरंशाश्चतुःषष्टिविनायकाः ॥
एकैकान्ते गृहीत्वा तु योगिनीं चेटिकामपि ॥ २ ॥

स्वर्गभूमिं समासाद्य यावदन्तं गृहं मम ॥
अष्टावरणकैरष्टौ संस्थिताः सिद्धिदायकाः ॥ ३ ॥

तत्राष्टौ काशिकाबाह्ये स्वर्गभूमौ समास्थिताः ॥
योजनैकं बहिष्काश्याकीर्तितः परिधिस्तु सः ॥ ४ ॥

गं विघ्नाय नमः प्रोक्तो मन्त्र एव षडक्षरः ॥
क्षिप्रप्रसादनसममष्टानां साधनं स्मृतम् ॥ ५ ॥

वेदायुतं जपेन्मन्त्रं होमश्च घृतपायसैः ॥
प्रयोगाः पूर्ववच्चात्र क्षिप्रमेव च सिद्धयः ॥ ६ ॥

गजानना योगिनी तु योगिनीरूपधारिणी ॥
नान्द्यर्णस्सबिन्दुस्तन्नाममन्त्र इतीरितः ॥ ७ ॥

प्रिया चैतस्य गदिता तत्सिद्धिं कथयाम्यथ ॥
ॐ शिवे शिवपत्नीति शं शिवे स्वकरेति च ॥ ८ ॥

पङ्कजं फलं देहीति मनोजवमिदं वदेत् ॥
चरणयोर्देहिदेहि तुभ्यं नम् इतीरितः ॥
षट्त्रिंशदक्षरो मन्त्रो ध्यानमस्या निरूप्यते ॥ ९ ॥

उद्यद्भानुसहस्राभां कमलासनपूजिताम् ॥
हस्ते मोहमयं पाशं दधानां प्रभजे शिवाम् ॥ १० ॥

जपेत्त्रिंशत्सहस्राणि शतपत्रीवनान्तरे ॥
कौसुम्भकुसुमैर्होमं तर्पणादि ततश्चरेत् ॥
एवं सिद्धमनुर्मन्त्री चेटिकां च प्रसाधयेत् ॥ ११ ॥

श्रावणे मासि चाष्टम्यां कृष्णपक्षे निशान्तरे ॥
पूजयित्वा जपेन्मन्त्रन्तदा नादाञ्छृणोति च ॥ १२ ॥

भीषयन्ति च भूतानि तदा चेद्दृढमानसः ॥
तदानेकसुरैर्युक्ता प्रत्यक्षाख्य शिवा भवेत् ॥ १३ ॥

तुष्टा फलन्ददात्येकन्तेनासौ साधकोत्तमः ॥
दूरं याति क्षणेनैव मनसोप्यतिवेगवान् ॥ १४ ॥

अदृश्यः सर्वलोकानामपि राजगृहान्तरे ॥
एवं विप्रगणेशेन मोहिता बहवो जनाः ॥ १५ ॥

विनायकाय हृदयं गं बीजाद्योष्टवर्णकः ॥
वर्णलक्षम्पुरश्चर्या गणेशानां प्रकीर्तिता ॥ १६ ॥

सर्वासां योगिनीनान्तु स्वबीजाद्या हृदन्तकाः ॥
नाममन्त्रास्स्मृता मन्त्रवर्णलक्षम्पुरस्क्रिया ॥ १७ ॥

गणेशस्य प्रभावेन सिद्धिः स्यात्पारलौकिकी ॥
योगिनीसेवनादत्र न विघ्नैः परिभूयते ॥ १८ ॥

चेटिका प्रोक्तफलदा सर्वत्रैव विनिश्चयः ॥
सिंहास्या योगिनी चात्र जटिला विषधारिणी ॥ १९ ॥

अथ काम्या चेटिकाया मनुं विंशतिवर्णकम् ॥
ब्रवीमि वर्णद्वितयात्पातालतलवासिनीम् ॥ २० ॥

श्यामले श्रीसिद्धिमिति देहि स्वाहेति चिन्तयेत् ॥
तालारण्यान्तरे स्वस्थां करतालीमनोरमाम् ॥ २१ ॥

आलिभिः सहितां गीतकारिणीं श्यामलाम्भजे ॥
जपेदयुतसङ्ख्याकं शान्तात्मा तालकानने ॥ २२ ॥

तद्दशांशेन जुहुयात्स तालीफलखण्डकैः ॥
कर्पूरागुरुयुक्तैश्च पूर्णं तत्त्रिः प्रदक्षिणम् ॥ २३ ॥

कुर्यात्तालीवने तच्चाथैतन्मध्ये वनान्तरे ॥
ज्येष्ठामायां जपेद्रात्रौ सहस्रद्वितयं मनुम् ॥ २४ ॥

अर्धरात्रे चरेद्धोमम्पूर्णं तालफलेन च ॥
झञ्झामारुत आयाति प्रकाशोतीव जायते ॥ २५ ॥

तन्मध्ये तु महादेवी श्यामा षोडशवार्षिकी ॥
नीलांशुकपरीधाना कस्तूरीचन्दनप्रिया ॥ २६ ॥

तान्नमस्कृत्य विश्वेशीं तुष्टा भव वरानने ॥
इत्युक्त्वा मन्त्रिणे तुष्टा सा ददाति फलत्रयम् ॥ २७ ॥

परमानसविज्ञानविद्यां जातिमगोरमाम् ॥
कन्दर्पवत्स्वरूपं च जगतीमोहनक्षमम् ॥ २८ ॥

गं वीराय नमश्चेति प्रोक्तो मन्त्रः षडक्षरः ॥
योगिनी चास्य गृद्धा स्याद्वेषतः सा तपस्विनी ॥ २९ ॥

तस्याश्चेटी तु बालोक्ता ह्येकोनत्रिंशदक्षरा ॥
ॐ पञ्चवार्षिकीत्युक्त्वा बाले वचनमाधुरीम् ॥ ३० ॥

मम देहि द्वयान्ते तु हुरूणां हुरुयुग्मकम् ॥
भुवनेशीद्वयं चेति ध्यानमस्या निरूप्यते ॥ ३१ ॥

गोरोचनाचर्चिताङ्गीं हेमगौरीं सुरार्चिताम् ॥
चन्द्रावतंसां ललितवचनां नेत्रसुन्दरीम् ॥ ३२ ॥

गोमयेन समालिप्य शून्यगेहस्य भूमिकाम् ॥
चन्दनेन समालिख्य तत्पश्चात्कुङ्कुमेन च ॥ ३३ ॥

तत्र दूर्वादलैः पूज्या बाला लक्षं जपेत्ततः ॥
धत्तूरकुसुमैर्होमं सहस्रैकं समाचरेत् ॥ ३४ ॥

तद्बीजैः पूजनं कार्यं कौशेयवसनो यजेत् ॥
काषायवस्त्रो नग्नो वा सिद्धमन्त्रः समाचरेत् ॥ ३५ ॥

धत्तूरतैलेनाभ्यङ्गं पौर्णमास्यां विधूदये ॥
पुष्पस्य तद्गृहे गत्वा नग्नो बालामनुं जपेत् ॥ ३६ ॥

ततो रात्रिप्रान्तभागे दूरतः पञ्चवार्षिकी ॥
दृश्यते सा द्रुमारूढा धावंस्तत्सन्निधौ व्रजेत् ॥ ३७ ॥

सापि मोदप्रहृष्टा हि चुम्बत्याशु तदाननम् ॥
चच्चुम्बनात्तस्य जिह्वा रससन्दोहिनी भवेत् ॥ ३८ ॥

तद्वार्तया याति मोहं राजा राज्येखिलो जनः ॥
व्याघ्रादिपशुजातीनां मोहनं तद्वचो भवेत् ॥ ३९ ॥

मुखं तस्य समालोक्य सर्वे मुह्यन्ति जन्तवः ॥
गं सुराय नमश्चेति प्रोक्तो मन्त्रः षडक्षरः ॥ ४० ॥

योगिनी काकतुण्डा स्यास्फुटाक्षी चेटिकेरिता ॥
विशालाक्षि गजान्तेति तिले देहियुगं वदेत् ॥ ४१ ॥

दारिद्र्यं दाहयेत्युक्त्वा ह्रीं स्फुटं हुं कलत्रकम् ॥
वह्नेर्मन्त्रः समाख्यातो नागनेत्रमिताक्षरः ॥ ४२ ॥

जम्बीरनारिकेलानां वने वाथ नदीतटे ॥
अथ वा विजने रम्ये तादृग्वनविभूषिते ॥ ४३ ॥

अथवा कमलामोदभूषिते सुसरित्तटे ॥
लक्षमेकं जपित्वा तु होमं कुर्याद्दशांशतः ॥ ४४ ॥

नारिकेलैस्ततः सिद्धमन्त्रो मन्त्री समाचरेत् ॥
माघे मासि तथाष्टम्यां कृष्णपक्षे विधौ निशि ॥ ४५ ॥

सहस्रं प्रजपेन्मन्त्रं वेतालाः खड्गपाणयः ॥
साधकं ते भीषयन्ति न भेतव्यं तदा क्वचित् ॥ ४६ ॥

वामहस्तासृजा तांश्च सिञ्चेत्ते यान्ति दूरतः ॥
पुनर्जपे समारब्धे तदा कात्यायनी स्वयम् ॥ ४७ ॥

आयाति शवमुण्डानि चर्वयन्त्यतिभीषणा ॥
वामजङ्घासृजा सिञ्चेत्ततः सापि प्रयाति च ॥ ४८ ॥

पुनर्जपे समारब्धे भैरवी याति भीषणा ॥
गजमुण्डञ्चर्वयन्ती वमन्ती शोणितम्भुवि ॥ ४९ ॥

तया सह समायान्ति भीषणा भैरवास्तदा ॥
सिञ्चेद्वै भैरवांस्तांश्च ततो भालोद्भवासृजा ॥ ५० ॥

पुनः सहस्रजापान्ते नारिकेलत्रयं हुनेत् ॥
तदा देवी समागत्य नारिकेलं प्रयच्छति ॥
तस्मिन्स्थिते जगद्वश्यं जायते नगरेन्दिरा ॥ ५१ ॥

गमुक्त्वा प्रवदेन्ङेन्तं वरदाक्षविनायकम् ॥
हृदन्तो रुद्रवर्णोयं मन्त्रः प्रोक्तोस्य योगिनी ॥ ५२ ॥

उष्ट्रग्रीवाभिधा प्रोक्ता सैरन्ध्रीरूपधारिणी ॥
वेदास्या हरितालाक्षी मन्त्रः सप्तदशाक्षरः ॥ ५३ ॥

तारं ह्रीं हरितालाक्षि वदेद्रतिकलां ततः ॥
दहयुग्मं वह्निजायां ध्यानमस्या निरूप्यते ॥ ५४ ॥

जपापुष्पसहस्रौघद्योतमानां महेश्वरीम् ॥
ध्यायेत्तां हरितालाक्षीं सिद्धिदां शं वितन्वतीम् ॥ ५५ ॥

मृगद्वितीयचरणप्रवेशे भवति 1 ध्रुवम् ॥
आदिमे दिवसे रात्रौ गत्वा वै निर्जने वने ॥ ५६ ॥

दिवसे च समानीय हरितालं मुखे स्वके ॥
लेपयित्व प्रथमतो जपेदयुतसङ्ख्यकम् ॥ ५७ ॥

घृतकर्पूरकाश्मीरैः कौसुम्भैर्होममाचरेत् ॥
पूर्णं कुर्यात्कुलिङ्गेन हरितालरसस्पृशा ॥ ५८ ॥

ततो देवी समायाति ललिता हरितालिका ॥
नानावाक्यैर्योहयन्ती साधकस्तां न विश्वसेत् ॥ ५९ ॥

ततः प्रभातसमये मूलमन्त्रप्रभावतः ॥
भगिनीं स्वां रतिकलां साधकाय प्रयच्छति ॥ ६० ॥

वशीभूता रतिकला गृहीत्वा मन्त्रिणं ध्रुवम् ॥
खेचरं कुर्वती सद्यो नयेद्देशे विचिन्तिते ॥ ६१ ॥

यक्षिणी भूतवेतालभैरवानतिभैरवान् ॥
आनयति क्षणेनैव मन्त्रिणो वशमादरात् ॥ ६२ ॥

देवकिन्नरगन्धर्वविद्याधरपुरे नयेत् ॥
आनयेच्च पुनर्भूमौ नाना वस्तु प्रदर्शयेत् ॥ ६३ ॥

गमुक्त्वा चेभवक्त्राय हृदन्तोयं गजाक्षरः ॥
योगिन्यस्य हयग्रीवा भवेन्मासोपवासिनी ॥ ६४ ॥

अस्यास्तु कुण्डली चेटी मन्त्रो विश्वमिताक्षरः ॥
ॐ कुण्डिनि नागवाहने फुर्फुर्वह्निगेहिनी ॥ ६५ ॥

महानागसमारूढामानिम्नस्फुटलोचनाम् ॥
दीप्यन्तीमन्धकारे च फूत्काराहतभूरुहाम् ॥ ६६ ॥

एकलिङ्गो महादेवो यत्र स्याद्बिल्वकानने ॥
तत्रेमं प्रजपेन्मन्त्रं लक्षहोमं समाचरेत् ॥
बिल्वमूलेन मन्त्रस्य तदा सिद्धिः प्रजायते ॥ ६७ ॥

रात्रौ शिवचतुर्दश्यामेकान्ते शिवमन्दिरे ॥
जपेत्सहस्रत्रितयं हुनेत्तस्य दशांशतः ॥ ६८ ॥

बिल्वमूलेन होमान्ते कुण्डो नाम महाफणी ॥
विस्तीर्णवदनो लम्बो दृश्यते युगविंशकः ॥ ६९ ॥

फणां प्रसार्य नागोसौ पुनस्तिष्ठति मन्त्रिणः ॥
पुरस्तात्तस्य निर्भीत्या स्थातव्यं तेन मन्त्रिणा ॥ ७० ॥

फूत्काराणां सहस्राणि फणाभिः कुरुते ध्रुवम् ॥
तस्य वक्त्राच्छतं ज्वाला निस्सरन्ति पुनः पुनः ॥ ७१ ॥

तथा विषाणि बहुधा नीलपीतच्छवीनि च ॥
पललानि ततो धूमपत्रिणश्चापि शाखिनः ॥ ७२ ॥

एवंविधं महोत्पातं दृष्ट्वा नैव बिभेति चेत् ॥
तदा सा दृश्यते देवी तन्नागफणसंस्थिता ॥ ७३ ॥

तां स्तुयात्स्तुतिभिर्देवीं तोषिता सा ददाति च ॥
अमृतन्तोलकमितन्तेन स्यादजरामरः ॥
निधीन्पश्यति भूमिष्ठान्वाणी सत्या प्रजायते ॥ ७४ ॥

गमेकदन्तं ङेन्तञ्च हृदयान्तो गजाक्षरः ॥
वाराही योगिनी जाता वेषाच्छूकरचारिणी ॥
अस्य देवस्य चेटी तु प्रोक्तात्र मधुवासिनी ॥ ७५ ॥

त्रयोदशाक्षरो मन्त्रः प्रणवो मधुवासिनी ॥
कामदेवीति चोच्चार्य क्लींस्वाहेति मनुः स्मृतः ॥ ७६ ॥

स्तूयमाना च कामेन बिभ्रती स्वर्णपङ्कजम् ॥
ध्यायेन्नवरसां देवीं मृगाक्षीं ब्रह्मसौख्यदाम् ॥ ७७ ॥

मधुवृक्षतले स्थित्वा जपेल्लक्षमितम्मनुम् ॥
वासन्तीकुसुमैर्होमो मधुपुष्पैरथापि वा ॥ ७८ ॥

कर्पूरागुरुसम्मिश्रैः कुर्यादयुतसङ्ख्यया ॥
मधुमासि सिताष्टम्यामेकान्ते निर्जने जपेत् ॥ ७९ ॥

मधुवृक्षतले नीरे गोदावर्या विशेषतः ॥
होमः प्राग्वत्सहस्रं स्याज्जपेन्नवसहस्रकम् ॥ ८० ॥

मधुनेति तदा यक्षो ज्वालामालेतिभीषणाः ॥
माहिषेण विषाणेन दक्षहस्तेन सम्पिबन् ॥ ८१ ॥

रक्तञ्च वामहस्तेन सुरां पिबति भीषणः ॥
जिह्वयैव च यक्षो हि लतावृक्षादि गुल्मकान् ॥ ८२ ॥

उत्पाट्य चर्वन्घोरो हि भक्ष्यन्देहीति भाषते ॥
न भयं प्राप्नुयात्तस्मान्मिथ्यात्रासादिभिस्तदा ॥ ८३ ॥

तस्मै रक्तं प्रदातव्यम्मन्त्रिणा स्वकरोद्भवम् ॥
ततस्तस्मिन्गते यक्षे देवी वृक्षतले तदा ॥ ८४ ॥

प्रत्यक्षा जायते तस्मै दद्यात्पौष्पञ्च कार्मुकम् ॥
वितस्तिमात्रन्तेन स्यात्सर्वमोहनकारकः ॥ ८५ ॥

नवयौवनशालिन्यः कुङ्कुमारुणविग्रहाः ॥
धनन्देहं प्रयच्छन्ति तस्मै कामविमोहिताः ॥ ८६ ॥

गञ्च लम्बोदरं ङेन्तं हृदयान्तोष्टवर्णकः ॥
योगिनी शरभास्यास्या ज्वालामालावपुर्धरा ॥
चेटी तु मन्थरा प्रोक्ता मन्त्रो जिनमिताक्षरः ॥ ८७ ॥

ॐ मन्थरे वदेत्पश्चाद्दिक्षुक्षितिनिवासिनि ॥
ममेष्टवरयुग्मञ्च तुं घं मं वह्निगेहिनीम् ॥ ८८ ॥

करे वहन्ती कोदण्डमैक्षवं लोललोचना ॥
जपाकुसुमशोणाङ्गी मम चित्तस्य मन्थरा ॥ ८९ ॥

इक्षुवाटीस्थले चैव गुडपाकस्थले तथा ॥
रसपञ्चसमीपे तु रचयित्वा शुभं स्थलम् ॥ ९० …

लक्षमात्रम्पुरश्चर्या हीक्षुखण्डैश्च होमयेत् ॥
मल्लारिषष्ठीरात्रौ तु जपेत्सोमे शतद्वयम् ॥ ९१ ॥

तद्दशांशैर्हुनेदिक्षुखण्डैरायाति मन्थरा ॥
ददाति मधुपात्रं हि दिव्यमाध्वीकमिश्रितम् ॥ ९२ ॥

तत्पूजयेत्त्रिसन्ध्यं हि तन्मुखान्मन्थरा वदेत् ॥
भाषया स्पष्टया दद्यात्पूजान्ते यन्मनोगतम् ॥ ९३ ॥

भूतञ्च वर्त्तमानञ्च भविष्यदपि तत्त्वतः ॥
स जानाति न सन्देहो मनोरस्य प्रभावतः ॥ ९४ ॥

यदायदातिसङ्कष्टञ्जायते मन्त्रिणो ध्रुवम् ॥
तदातदा तु तां देवीं मधुपानैः प्रपूजयेत् ॥ ९५ ॥

सङ्कष्टं हरते तूर्णं विग्रहादौ प्रपूजयेत् ॥
रसपञ्चसमीपे तु भूमिपूजां विषेतः ॥ ९६ ॥

कुङ्कुमैश्चादिसिन्दूरै रक्तचन्दनवन्दनैः ॥ ९७ ॥

माध्यन्दिनीजपापुष्पकरवीरप्रसूनकैः ॥
यावदालोहितं वस्तु तावद्भिः परिपूजयेत् ॥ ९८ ॥

वक्ष्येथ कौलिकप्रोक्तान्स्थितानष्टौ विनायकान् ॥
नमो भगवते पूर्वं ङेन्तन्तन्नाम चोच्चरेत् ॥ ९९ ॥

अष्टानामपि मन्त्रोयमैन्द्र्यां सिद्धिविनायकः ॥
उलूकी योगिनी तत्र नापितीरूपधारिणी ॥ १०० ॥

विधिस्तत्र समाख्यातो ह्यणिमाद्यष्टसिद्धयः ॥
साधको यां सिद्धिमिच्छेत्तद्युक्ताय पदं वदेत् ॥ १०१ ॥

मन्त्रमध्ये वर्णलक्षं जपेद्धोमं समाचरेत् ॥
महागणपवत्सर्वं ततस्तां सिद्धिमाप्नुयात् ॥ १०२ ॥

काश्यामाग्नेयदिग्भागे विज्ञेयोर्कविनायकः ॥
योगिनी च शिवा ह्येषा मूर्तिकारूपधारिणी ॥ १०३ ॥

हंसावागस्य चेटी स्यान्मन्त्रः स्याद्द्वादशाक्षरः ॥
ॐ हंसगेम्बोधमिति वाक्छ्रीबीजाग्नि वल्लभाः ॥ १०४ ॥

शतचन्द्रसमज्योत्स्नां चन्द्रार्धकृतशेखराम् ॥
वरदाभयहस्तां च संसेवे हंसगामिनीम् ॥ १०५ ॥

सहस्राणां तु पञ्चाशत्पुरश्चरणमस्य तु ॥
अयुतार्धन्ततो होमं पद्माक्षैराज्यसंयुतैः ॥ १०६ ॥

कुर्याद्धोमं यवैस्तद्वत्पद्मयुक्तसरित्तटे ॥
हिरण्यकशिपुप्राणनाशकालतिथौ ध्रुवम् ॥ १०७ ॥

सन्ध्यामारभ्य जप्तव्यं प्रहरत्रितयावधि ॥
भूर्जपत्रैश्च होतव्यं पद्माक्षैः खखखाष्टकम् ॥ १०८ ॥

ततो हंससमारूढा शतचन्द्रसमप्रभा ॥
सा देवी मन्त्रिणे तस्मै पद्ममालां प्रयच्छति ॥ १०९ ॥

तन्मालाजपतो मन्त्री जायते शास्त्रपारगः ॥
अज्ञानाच्चेत्सगर्वोपि जायते सत्त्वमस्य तु ॥
दुर्गया स्थापितः काश्या याम्ये दुर्गविनायकः ॥ ११० ॥

मायूरी योगिनी तत्र लोकानामौषधप्रदा ॥
ॐ ह्रीन्दुमुक्त्वा दुर्गायै हृदयान्तोष्टवर्णकः ॥ १११ ॥

मुनिः प्रोक्तो नारदाख्यो गायत्री छन्द ईरितम् ॥
दुर्गा देवी यया दुर्गवधार्थं सेवितो गणः 2 ॥ ११२ ॥

प्रणवं पूर्वमुच्चार्य दीर्घषट्कसमन्वितम् ॥
क्रमादाद्यन्तयोर्मायां दुर्गायै चेति मध्यतः ॥ ११३ ॥

पल्लवाद्याः षडङ्गानि चेति मन्त्राः प्रकीर्तिताः ॥ ११४ ॥

सिंहासीनां मरकतद्युतिं चन्द्रार्धशेखराम् ॥
शङ्खचक्रधनुर्बाणान्दधतीं त्रीक्षणां भजे ॥ ११५ ॥

अष्टपत्राम्बुजद्वन्द्वे चतुरस्रत्रयावृते ॥
चतुर्द्वारसमायुक्ते कुङ्कुमामादिभिरुद्धृते ॥
कुर्यात्स्वपीठपूजायां तत्र शक्तिसमर्चनम् ॥ ११६ ॥

प्रभा समा जया सूक्ष्मा विशुद्धा नन्दिनी तथा ॥
सुप्रभा विजया पूर्वदलात्सर्वार्थसिद्धिदा ॥ ११७ ॥

एवं वह्निसरक्लीबहीनैरद्भिः प्रपूजयेत् ॥
ॐ वज्रनखदंष्टायुधायप्रोक्त्वामहापदम् ॥ ११८ ॥

सिंहाय हुम्फट् हृदयमूनविंशतिवर्णकः ॥
सिंहमन्त्रः समाख्यातस्तेन सिंहं प्रपूजयेत् ॥ ११९ ॥

मूर्तिमावाह्य तस्यान्तु पूजयेच्चन्दनादिभिः ॥
प्रथमावृत्तिरङ्गैः स्याद्द्वितीया तु प्रभादिभिः ॥ १२० ॥

सबिन्दुनाद्यवर्णेन जयादीनान्तु नामभिः ॥
ङेन्तैर्नमोन्तैस्तृतीयावरणं परिकीर्तितम् ॥ १२१ ॥

जया च विजया कीर्तिः प्रीतिश्चापि प्रभा मता ॥
श्रद्धा मेधा श्रुतिश्चापि चतुर्थावरणं क्रमात् ॥ १२२ ॥

शङ्खं चक्रं गदां खड्गं पाशाङ्कुशशरान्धनुः ॥
बाह्यवीथीद्वये लोकपालानस्त्राणि च क्रमात् ॥ १२३ ॥

जितेन्द्रियो हविष्याशी वसुलक्षं जपेन्मनुम् ॥
तत्सहस्रं तिलैः स्वादुलोलितैर्वा पयोन्धसा ॥ १२४ ॥

जुहुयादेधिते वह्नौ तर्पणादि ततश्चरेत् ॥
एवं सिद्धे मनौ मन्त्री प्रयोगानाचरेत्सुधीः ॥ १२५ ॥

यथोक्तेन विधानेन नवकुम्भान्मनोरमान् ॥
पञ्चरत्नसमायुक्तान्नवस्थानेषु विन्यसेत् ॥ १२६ ॥

मन्त्री दुर्गां यजेन्मध्येष्वन्यत्र च जयादिकाः ॥
चन्दनाद्यैः समभ्यर्च्य धूपदीपैश्च मन्त्रवित् ॥ १२७ ॥

अभिषिञ्चेत्प्रियं साध्यं राजानं वा शिशुं बुधः ॥
विजयश्रीसमायुक्तो राजा भवति नान्यथा ॥ १२८ ॥

भूतापस्मारवेतालपिशाचाद्यैर्वियुज्यते ॥
वन्ध्या च ललना पुत्रं विनीतं प्राप्नुयाच्छुभम् ॥ १२९ ॥

आमयान्मुच्यते मर्त्त्यो दीर्घायुश्च न संशयः ॥
अनेनैव विधानेन जनानामनुरञ्जनम् ॥
दुर्गामनुं च भजतां बह्वायुश्चाघनाशनम् ॥ १३० ॥

काश्या नैर्-ऋत्यभागे तु ज्ञेयश्चण्डविनायकः ॥
वेश्या वृत्तिकरी चास्य योगिनी चक्रितानना ॥
हंसीनाम्नी तस्य चेटी तस्याः साधनमुच्यते ॥ १३१ ॥

सुधाकरसमज्योत्स्नां शुकशोभितसत्कराम् ॥
वामे हंसं दधानां च पीनोन्नतपयोधराम् ॥ १३२ ॥

एकान्ते च नदीतीरे जपेन्मन्वयुतत्रयम् ॥
मुस्तकन्दैः सहोशीरैर्दशांशं होममाचरेत् ॥ १३३ ॥

एवं सिद्धप्रयोगस्तु नदीतीरे च कानने ॥
गहने बिल्ववृक्षाणामेकान्तेप्यथ वा सुधीः ॥ १३४ ॥

तुङ्गभद्रानदीतीरे यत्र लक्ष्मीश्वरः शिवः ॥
तत्र स्नात्वा तटे तस्या ह्यङ्गाद्यां च दिने यजेत् ॥
भानोर्वारे निशि हुनेत्प्राग्वद्देवीं तथा यजेत् ॥ १३५ ॥

नत्वास्तुत्वा प्रार्थयित्वा निर्भयो जनवर्जिते ॥
ददाति मन्त्रिणे शीघ्रं स्फटिकाख्यं मनोहरम् ॥ १३६ ॥

तस्मिन्पश्यति भूतं च भविष्यद्वर्त्तमानकम् ॥
तथा स्वस्य परस्यापि सर्वज्ञो जायते नरः ॥ १३७ ॥

काश्याः पश्चिमदिग्भागे स देहलिविनायकः ॥
योगिनी त्वष्टवक्त्रास्य वणिक्कर्म प्रकुर्वती 3 ॥ १३८ ॥

विचित्रानाम चेट्यस्य त्रयोविंशतिंवर्णकः ॥
ह्रीं विचित्रे चित्रचैले चैलं देहि पदं वदेत् ॥
वायुं पूरययुग्मं च हुं स्वाहेत्युदितो मनुः ॥ १३९ ॥

अयुतं प्रजपेत्तीरे सरितस्तद्दशांशतः ॥
कमलाक्षैर्भवेद्धोमस्तत्तत्काम्यं समाचरेत् ॥ १४० ॥

चैत्रे चाश्विनमासे च चतुर्दश्यां निशान्तरे ॥
सरस्तीरे जपेन्मन्त्रं समस्तां रात्रिमन्ततः ॥ १४१ ॥

ततो देवी समायाति विचित्रं वसनाञ्चलम् ॥
ददाति तत्पूजयित्वा रात्रौ संस्थापयेद्गृहे ॥
तद्गृहं पूर्यते वस्त्रैराजमन्दिरगैरपि ॥ १४२ ॥

काश्या वायव्यकोणेयमुद्दण्डाख्यो विनायकः ॥
योगिनी कोटराक्ष्यस्य चेटी स्याद्दधिदुग्धदा ॥ १४३ ॥

केशमुच्चार्य चावर्त्तनखरेहिपदं ततः ॥
ह्रीं श्रीं स्वाहेति मन्त्रोथ तस्य ध्यानमिहोच्यते ॥ १४४ ॥

स्वच्छतोयैश्च सम्पूर्णं वामे धत्ते कमण्डलुम् ॥
स्वर्णकुण्डलक्षिप्ताढ्यगण्डान्तं विधिपूर्वकम् ॥ १४५ ॥

जपेल्लक्षमितं मन्त्रं नदीतीरे मनोरमे ॥
होमयेच्च त्रिमधुरैः प्रयोगं तत आचरेत् ॥ १४६ ॥

कृष्णातीरे महातीर्थेथ वा पञ्चनदे शुभे ॥
मघामासे द्वितीयायां कृष्णपक्षे निशान्तरे ॥ १४७ ॥

कृत्वा तृणकुशूलं तु निक्षिपेत्तत्स्थलान्तरे ॥
कृत्वा सायन्तनं कर्म कुशूलं पूजयेत्ततः ॥ १४८ ॥

तत्र देवीं स्मरन्मन्त्री कुशूलान्तर्विशेद्ध्रुवम् ॥
तत्र बद्धासनो योगी शीतवाधामुपेक्ष्य हि ॥ १४९ ॥

जपेत्पञ्चसहस्रं तु देवतां विधिपूर्वकम् ॥
पञ्चवक्त्रां त्रिनेत्रां च पश्येदष्टभुजां शिवाम् ॥ १५० ॥

ततः सा देवता तस्मै ददाति च कमण्डलुम् ॥
जलपूर्णं ततस्तस्मै जलेनासेचयेत्सुतम् ॥ १५१ ॥

स नरस्तत्क्षणादेव सप्तजन्मसमुद्भवाम् ॥
जातिं वदति तत्कालं तत्तत्कर्म करोति च ॥ १५२ ॥

काश्यामुत्तरभागे तु पाशपाणिर्विनायकः ॥
योगिन्यस्य भवेत्कुब्जा व्यालग्राहा स्वरूपतः ॥ १५३ ॥

यदा न महिषं शक्ता घातितुं 4 विन्ध्यवासिनी ॥
वज्रस्तदा कृतोनेन महिषो येन घातितः तस्मान्महिषमर्दिन्या मन्त्रं वक्ष्ये समासतः ॥ १५४ ॥

महिषमर्दिनीत्युक्त्वा स्वाहान्तोऽष्टाक्षरो मनुः ॥
मार्कण्डेयो मुनिश्छन्दो गायत्रं दैवतं मनोः ॥
सुरासुरनुता देवी प्रोक्ता महिषमर्द्दिनी ॥ १५५ ॥

महिष मर्दिनि हुम्फट् हृदयं परिकीर्तितम् ॥
महिषारीशानि हुम्फट् शिरोगं समुदीरितम् ॥
मन्त्रैरेभिर्जातियुक्तैः पञ्चाङ्गानि प्रकल्पयेत् ॥ १५६ ॥

गारुडोपलदीप्तिं च मणिमौक्तिककुण्डलाम् ॥
तिष्ठन्तीं माहिषे शीर्षे नौमि भालविलोचनाम् ॥ २५७ ॥

चक्रं शङ्खं कृपाणं च बाणं शूलं च तर्जनीम् ॥
कार्मुकं खेटकं हस्तैर्बिभ्रतीं शशिशेखराम् ॥ १५८ ॥

जटामुकुटशोभाढ्यां सर्वाभरणभूषिताम् ॥
पीताम्बरधरां देवीं पीनोन्नतकुचद्वयाम् ॥ १५९ ॥

ततः पूर्वोदिते पीठे यजेन्महिषमर्दिनीम् ॥
प्रथमावृत्तिरङ्गैः स्याद्दुर्गाद्याभिः परेरिता ॥ १६० ॥

स्वाग्रादिप्रादक्षिण्येन दुर्गा च वरवर्णिनी ॥
आर्या च कनकाख्यातु कृत्तिका चाभयप्रदा ॥ १६१ ॥

कन्यास्वरूपा आ-ईं-ऊन्दिङ्घ्ॐ द्विस्वरपूर्विकाः ॥
क्लीबान्तरहितं चात्र ग्राह्यं दीर्घस्वराष्टकम् ॥ १६२ ॥

परादिकं प्रथमतः सबिन्दुं वर्णमुच्चरेत् ॥
ततो देव्यायुधं प्रोच्य तृतीयावरणे यजेत् ॥ १६३ ॥

चतुर्थी लोकपालैः स्यात्पञ्चमी च तदायुधैः ॥
प्रजपेद्वसुलक्षं च तत्सहस्रं तिलैर्हुनेत् ॥ १६४ ॥

एवं सिद्धे मनौ मन्त्री प्रयोगानाचरेत्ततः ॥
तिलहोमाद्वशीकारो नृणां स्त्रीणां भवेत् ध्रुवम् ॥ १६५ ॥

आमयान्मुच्यते मर्त्यः सद्यः सर्षपहोमतः ॥
पद्महोमात्तथा राज्ञः सङ्ग्रामे विजयो भवेत् ॥ १६६ ॥

दूर्वाहोमेन मर्त्यानां रोगशान्तिर्भवेद्ध्रुवम् ॥
ब्रह्मवृक्षोत्थकुसुमैर्लभते पुष्टिमुत्तमाम् ॥ १६७ ॥

धान्यहोमेन धान्यानि काकपक्षहुतेन च ॥
विद्वेषो जायते लोके चात्यन्तसुहृदोरपि ॥
शत्रुर्गच्छति पञ्चत्वं सत्यं मरिचहोमतः ॥ १६८ ॥

एवं यो भजते देवीं दुर्गां महिषमर्दिनीम् ॥
स नाशयेत्क्षुद्रभूतांश्चौरादीन्दर्शनादपि ॥
उपासितोपासितातिनिकटे द्रुतसिद्धिदा ॥ १६९ ॥

काश्यामीशानदिग्भागे ज्ञेयः खर्वविनायकः ॥
दासी रूपं समास्थाय स्थिता विकटलोचना ॥
योगिनी जयदुर्गा च सिद्धिदा तत्र संस्थिता ॥ १७० ॥

तारो दुर्गे द्वयं प्रोच्य रक्षिणीत्यग्निगेहिनी ॥
दशाक्षरो मनुः प्रोक्तो भजतामिष्टसिद्धिदः ॥ १७१ ॥

नारदर्षिर्विराट् छन्दो जयदुर्गा च देवता ॥
ताराद्यैः पञ्च 5 मन्त्रस्य पदैः सर्वेण सम्मता ॥
जातियुक्ता चाङ्गकॢप्तिः काम्यकर्म ह्यथोच्यते ॥ १७२ ॥

दुर्गेति हृदयं प्रोक्तं दुर्गा च शिर ईरितम् ॥
दुर्गायै स्याच्छिखा वर्म्म भूतरक्षाक्षि कीर्तितम् ॥ १७३ ॥

तारादिदुर्गद्वितयं रक्षिण्यक्षि प्रकीर्तितम् ॥
तारादियुगलं दुर्गे रक्षिण्यस्त्रमुदीरितम् ॥
मेघश्यामां ग्लौकीरीटां त्रिनेत्रां सिंहवाहिनीम् ॥ १७४ ॥

चक्रं दरं खड्गशूलौ बाहुभिर्बिभ्रतीं भजे ॥
दौर्गे पीठे यजेद्देवीमुक्तमार्गेण मन्त्रवित् ॥
प्रजपेत्पञ्चलक्षं च तद्दशांशं हुनेद्घृतैः ॥ १७५ ॥

तर्प्णादि ततः कुर्यात्ततः सिद्धो भवेन्मनुः ॥
ततः सिद्धमनुर्मन्त्री प्रयोगानाचरेत्ततः ॥ १७६ ॥

इमं मनुं जपेद्भूयः प्रविशेच्छत्रुसङ्गरम् ॥
अशेषेण रिपुं हन्यान्नात्र कार्या विचारणा ॥ १७७ ॥

विवादे व्यवहारादौ यशोविजयदो भवेत् ॥
अनया विद्यया जप्तं पताकाध्वजदुन्दुभिः ॥ १७८ ॥

शृङ्गं शङ्खादिकं सर्व यानं सेना च सैन्यपः ॥
सम्मुह्येत्स च सङ्ग्रामे लभते विजयं खलु ॥ १७९ ॥

अथास्याः प्रोच्यते भेदो यदा घोरस्थले पतेत् ॥
ऋणं वा जायते तारान्नम उक्त्वा च पूर्ववत् ॥ १८० ॥

द्वादशार्णो भवेन्मन्त्रः सङ्ग्रामविजयप्रदः ॥
मुन्याद्यं पूर्ववत्प्रोक्तं ध्यानपूजादिकं तथा ॥ १८१ ॥

व्यस्तेन च समस्तेन मन्त्रेणाङ्गानि षट् क्रमात् ॥
काशीप्रान्तस्थिता एते कीर्तिता गणनायका।
ः ॥ १८२ ॥

देहलीसञ्ज्ञगणपनिकटेन्ये तु षोडश ॥
विनायकास्तु काश्यां वै वेदकर्मप्रवर्तकाः ॥ १८३ ॥

तान्त्रिकाणां नात्र सिद्धिर्वामिनां तु विशेषतः ॥
वेदस्त्वनादिस्तस्यात्र द्रुतं सिद्धिः प्रजायते ॥ १८४ ॥

अभक्तविघ्नकर्ता च भक्तानां विजयप्रदः ॥
पापिनां पापहर्ता च वाममार्गप्रसाधकः ॥ १८५ ॥

तपोवनपरित्राता सीतारक्षाकरस्तथा ॥
आयुष्कर्त्ता रोगहर्ता निधिदाता द्विजाधिपः ॥ १८६ ॥

तुन्दिलो विश्वरक्षाकृद्गणनाथो गणाधिपः ॥
दुग्धदश्चेति नामानि सर्वसिद्धिकराणि च ॥ १८७ ॥

हृदन्तानि प्रजप्तानि मन्त्रार्णायुतसङ्ख्यया ॥
नामानुसारिणी सिद्धिरवश्यं स्यान्न संशयः ॥ १८८ ॥

अथातः सम्प्रवक्ष्यामि ये विमुक्तान्तसंस्थिताः ॥
सीमाविनायका अष्टौ मन्त्रस्तेषां निरूप्यते ॥ १८९ ॥

धराबीजं समुच्चार्य तद्बीजञ्च समुच्चरेत् ॥
ङेन्तं तन्नामगं प्रोच्यहृदयान्तो मनुः स्मृतः ॥ १९० ॥

अविमुक्ते पूर्वदिशि लम्बोदरविनायकः ॥
शुष्कोदरी योगिनी तु धात्रीरूपं समाश्रिताः ॥ १९१ ॥

तत्रैव शूलिनी दुर्गातस्यास्साधनुमुच्यते ॥
ज्वलद्वयं शूलिनीति वदेद्दुष्टग्रहे ततः ॥ १९२ ॥

हुं फट् स्वाहेति मन्त्रोयं तिथिवर्णः प्रकीर्तितः ॥
मुनिर्दीर्घतमाश्छन्दः ककुबुक्तं च देवता ॥ १९३ ॥

शूलिन्याह्वा महादुर्गा सर्वारिष्टविनाशिनी ॥
दुर्गे स्याद्धृदयं शीर्षं वरदे विन्ध्यवासिनी ॥ १९४ ॥

शिखा वर्मासुरान्ते च दमन्यन्ते ततो वदेत् ॥
शुद्धं प्रियं वदेत्पश्चात्त्रासय रूपमीरितम् ॥ १९५ ॥

अस्त्रं च देवसिद्धान्ते वदेन्मन्त्री सुपूजिते ॥
नन्दिन्यन्तरे रक्षयुग्मं समस्तयोगेश्वरीति च ॥
शूलिनीतिपदाद्याश्च वर्मास्त्रान्ताः प्रकीर्तिताः ॥ १९६ ॥

पञ्चाङ्गमत्रमुद्दिष्टमेवं न्यस्तं च मन्त्रिणः ॥
रक्षाकृद्ग्रहदोषघ्नमङ्गकर्तुर्भवेद्ध्रुवम् ॥
एवं न्यस्य शरीरादौ ध्यायेद्दुर्गां सुरैर्नुताम् ॥ १९७ ॥

गदां दरमरिङ्खड्ग बाणाञ्छूलं च खेटकम् ॥
करालिकां पाशधनुर्दिग्भिर्हस्तैश्च बिभ्रतीम् ॥ १९८ ॥

मेघाभामिन्दुमुकुटां सिंहारूढां चतसृभिः ॥
कन्यकाभिः परिवृतां त्र्यक्षां भूषणभूषिताम् ॥ १९९ ॥

एवं ध्यात्वा पुनर्न्यासान्कृत्वा कुर्वीत साधकः ॥
दुर्गापीठे पुरा प्रोक्ते ध्यात्वा देवीं प्रपूजयेत् ॥ २०० ॥

दुर्गाद्याभिर्द्वितीया स्यादायुधाद्यैः समन्ततः ॥
दुर्गा च वरदा विन्ध्यवासिन्य सुरमर्दिनी ॥ २०१ ॥

प्रोक्ता युद्धप्रिया देवसिद्धाद्या पूजितापि च ॥
नन्दिनी सुमहायोगेश्वरीति गदिताश्च ताः ॥ २०२ ॥

चक्रं शङ्खं खड्गगदे शरांश्चापं त्रिशूलकम् ॥
पाशं देव्यग्रतश्चैतान्पूजयेच्च प्रदक्षिणम् ॥ २०३ ॥

दिशादिनाथैर्वज्राद्यैः पञ्चावरणपूजितम् ॥
वर्णलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥ २०४ ॥

आज्येन साज्यहविषा तर्पणादि ततश्चरेत् ॥
आराध्य विप्रान्विधिवद्भक्त्याभ्यर्च्य गुरुं ततः ॥ २०५ ॥

एवं सिद्धमनुर्मन्त्री प्रयोगान्निजवाञ्छितान् ॥
विदधीत विधानेन गुरोराज्ञापुरःसरम् ॥ २०६ ॥

शूलाद्यायुधसंयुक्तामुग्रास्यां शूलिनीं तथा ॥
विचिन्त्य प्रजपेन्मन्त्रं यस्तं स्पृष्ट्वा विधानतः ॥ २०७ ॥

तमाविश्य क्षणं सर्वं वदेत्पश्चाद्विनश्यति ॥
मन्त्रावृत्त्या तदानीं च भूतसङ्घः पलायते ॥ २०८ ॥

स्मृत्वा च रोगिणां मध्ये शूलिनीं स्वायुधैर्युताम् ॥
जपतो विद्रवन्त्याशु ग्रहाश्चोपग्रहादयः ॥ २०९ ॥

क्षेमङ्करीं पूजयित्वा मनुमेनं जपेत्सुधीः ॥
परायुधानि गृह्णाति सेना 6 निश्चेष्टिता भवेत् ॥ २१० ॥

तिलयुक्तैस्सर्षपैश्च वैरिनामसुसंयुतैः ॥
लक्षं प्रजुहुयाच्छत्रुर्यमस्यातिथ्यमाप्नुयात् ॥ २११ ॥

त्रिस्वादुयुक्तिलैरष्टसहस्रं प्रत्यहं हुनेत् ॥
शक्तिरस्याप्रतिहता वत्सरात्प्राग्भवेदलम् ॥ २१२ ॥

घृतेनाष्टशतं मन्त्री हुत्वा वाञ्छितमप्राप्नुयात् ॥
वत्सरात्प्राग्दूर्वया च मधुरत्रययुक्तया ॥
सम्यगष्टोत्तरशतं हुत्वोस्पितमुपव्रजेत् ॥ २१३ ॥

अष्टोत्तरशतं मन्त्री गुलिकां गोमयस्य च ॥
जुहुयात्सप्तदिवसैरिष्टैः सङ्गस्तदादरात् 7 ॥ २१४ ॥

अस्पृष्टभूम्यन्तरिक्षे गृहीत्वा गोमयं शुभम् ॥
त्रिसहस्रमितं जप्तं यियासोर्द्वारिसङ्खनेत् ॥ २१५ ॥

तस्य संस्तम्भनं तत्र भवने नात्र संशयः ॥
सेनामुखे निखातं च सेनास्तम्भं करोत्यलम् ॥ २१६ ॥

ग्रामं वा नगरं गच्छेत्संस्मरेदम्बिकां सुधीः ॥
पानीयान्नकरां चैव प्रसन्नां प्रजपेन्मनुम् ॥ २१७ ॥

तर्पयित्वा प्रविष्टस्तं प्राप्नुयान्मिष्टभोजनम् ॥
सहस्रभृत्यवर्गेण सहितो नात्र शंशयः ॥ २१८ ॥

अर्कवृक्षसमिद्भिश्च त्रिमध्वक्ताभिरुक्तवत् ॥
जुहुयाद्रविसाहस्रं यान्समुद्दिश्य साधकः ॥
भवन्त्येव हि ते वश्यास्तथाश्वत्थसमिद्वरैः ॥ २१९ ॥

प्रसन्नचेताश्च तिलैः पूर्वकर्मणि वा हुनेत् ॥
दुर्गाकल्पोदितान्सर्वान्प्रयोगान्साधयेत्सुधीः ॥ २२० ॥

अथ वक्ष्ये कूटदन्तं गणेशं कूटसिद्धिदम् ॥
योगिन्यस्य ज्वलज्जिह्वा नर्त्तकी रूपधारिणी ॥
गृद्धदुर्गास्य निकटे साधकाभीष्टदायिनी ॥ २२१ ॥

तारो नमो भगवति ज्वालामालिनी संवदेत् ॥
गृद्धं गणपतिं वृत्ते स्वाहान्तो द्विनखाक्षरः ॥ २२२ ॥

त्रिचतुष्पञ्चवस्वक्षिमितैर्वर्णैर्मनोः क्रमात् ॥
पञ्चाङ्गानि सुधीरस्य जातियुक्तानि कल्पयेत् ॥
अन्यच्छूलिनिदुर्गावत्सवर्मस्याः प्रकीर्तितम् ॥ २२३ ॥

अथातः सम्प्रवक्ष्यामि देवं शालङ्कटङ्कटम् ॥
स्वदंष्ट्रा योगिनी चास्य नानासङ्गीतकोविदा ॥ २२४ ॥

विधात्री चेटिका चास्य तस्याः साधनमुच्यते ॥
ॐ विधात्रि नीरक्षीरविधायिनि पदं वदेत् ॥
स्वाहान्तस्थितिवर्णोयं जपे लक्षमितो मतः ॥ २२५ ॥

धात्रीतरुसमीपस्थां विधात्रीं कमलासनाम् ॥
विशाललोचनां वन्दे नीरक्षीरविधायिनीम् ॥ २२६ ॥

नदीतीरे तु यत्रास्ते धात्रीवृक्षो मनोरमे ॥
सफलस्तस्य 8 भूमौ तु कार्तिक्यां पूर्णिमातिथौ ॥ २२७ ॥

सोमवारे तदा मन्त्री निशायां त्रिशतं जपेत् ॥
होमो धात्रीफलैः कार्यस्ततस्तु तरुतो ध्रुवम् ॥
जायते हि महाशब्दः प्रसन्नास्मीति शोभनः ॥ २२८ ॥

तन्मन्त्रपठनान्मन्त्री नीरक्षीरं भजेदिह ॥
इत्युक्तकीलमुद्धृत्य 9 सम्पठेन्मन्त्रमुत्तमम् ॥
नीरान्वितं ततः क्षीरं जायते क्षीरमादरात् ॥ २२९ ॥

अथातः सम्प्रवक्ष्यामि कुष्माण्डाख्यविनायकम् ॥
बालग्रहपतिश्चास्य योगिनी चारुणानना ॥
वेणुवादनमेवेयं कृत्वा काश्यां सदा रता ॥ २३० ॥

चेटी तु वैनतेयाक्षी तस्याः साधनमुच्यते ॥
तारं च वैनतेयाक्षि सर्पसेवित इत्यपि ॥
नागदेवी ङेन्तमुक्त्वास्वाहान्तोष्टादशाक्षरः ॥ २३१ ॥

नानाकमलसर्पादिवेष्टितां विन्ध्यवासिनीम् ॥
ध्यायामि वैनतेयाक्षीं विषदोषहरां शिवाम् ॥
चतुःषष्टिसहस्राणि पुरश्चरणमस्य तु ॥ २३२ ॥

श्रावणे मासि नागानां पञ्चमी या प्रकीर्तिता ॥
तस्यां जपेन्महामत्री रात्रौ वल्मीकभूमिषु ॥ २३३ ॥

अयुतं 8 वैनतेयाक्षीं 10 होमः स्यान्मातुलुङ्गकैः ॥
ततः सा गारुडीं विद्यां प्रसन्ना सम्प्रयच्छति ॥
सर्पाकर्षणशक्तिं च समस्तविषनाशिनीम् ॥ २३४ ॥

मुण्डं विनायकं वक्ष्ये ऋक्षाक्षीयोगिनीयुतम् ॥
काशते काशिकायान्तु वीणावादनतत्परा ॥
किङ्करी नाम चैतस्य चेटी तत्साधनं ब्रुवे ॥ २३५ ॥

किङ्करी जलदेवीति जलं पूरयपूरय ॥
धन्धं सप्तदशार्णोयं जपेद्वर्णसहस्रकम् ॥ २३६ ॥

अवृष्टिकाले रात्रौ हि नरो नद्यां जले जपेत् ॥
कण्ठमात्रेयुतं चैकं ध्यायन्देवीं समाहितः ॥ २३७ ॥

किङ्करीं वारुणं पाशं बिभ्रतीं जलरूपिणीम् ॥
विषक्षतस्वरूपाभां घोरगर्जनभीषणाम् ॥
प्रभाते वृष्टिरायाति सा हि पञ्चदिनावधि ॥ २३८ ॥

अथ वक्ष्ये गणेशानं विख्यातं विकटद्विजम् ॥
योगिनी केकराक्ष्यस्य मृदङ्गं वादयेद्वरम् ॥
वाग्वादिनी चास्य शक्तिर्मन्त्राद्यस्य निरूप्यते ॥ २३९ ॥

वदयुग्मं वाग्वादिनि स्वाहेति च दशाक्षरः ॥
ऋषिः कण्वो विराट् छन्दो देवता तु सरस्वती ॥ २४० ॥

मातृकोक्तविधानेन मन्त्री कुर्यात्षडङ्गकम् ॥
के 11 श्रोत्रयोनसोर्दृष्टयोः कपोलास्ये तथेन्द्रिये ॥ २४१ ॥

गुदे च विन्यसेद्वर्णांस्ततो वागीश्वरीं यजेत् ॥
सितपद्मगतां श्वेतां लेखनीपुस्तकान्विताम् ॥
नम्रां च कुचभारेण वाग्देवीं चन्द्रशेखराम् ॥ २४२ ॥

ॐह्रींवर्णजाय चोक्त्वा सरस्वत्यासनाय च ॥
नमः पञ्चदशार्णोयमासनस्य मनर्मतः ॥
अङ्गानि पूजयेदादौ स्वरद्वन्द्वं ततोर्चयेत् ॥ २४३ ॥

वर्गाष्टकं ततोभ्यर्च्य ततोष्टौ शक्तयस्त्विमाः ॥
योगसन्ध्या च विमला ज्ञानवृद्धिः स्मृतिस्तथा ॥ २४४ ॥

मेधा प्रज्ञा ततः पूज्या मातृकाश्च दिगीश्वराः ॥
तदायुधानि पूज्यानि भूपुरादौ यथाक्रमम् ॥ २४५ ॥

दशलक्षं जपेदन्ते विमध्वक्तैश्च कैरवैः ॥
जुहुयात्तद्दशांशैस्तु शुद्धैश्चाथ तिलैर्हुनेत् ॥ २४६ ॥

तर्पणं मार्जनं कृत्वा ब्राह्मणान्भोजयेत्ततः ॥
एवं सिद्धे मनौ मन्त्री ब्रह्मचर्यव्रते स्थितः ॥ २४७ ॥

जपहोमरतो रामां चिन्तयेद्देवताधिया ॥
अचिरादेव स भवेत्कवीनामग्रणीर्ध्रुवम् ॥ २४८ ॥

न्यासान्वितमिमं मन्त्रं दिनादौ प्रत्यहं जपेत् ॥
लभते नात्र सन्देहो वाक्सिद्धिमतुलां नरः ॥ २४९ ॥

ब्रह्मवृक्षरमावृक्षसुमनोभिः समिद्वरैः ॥
मधुरत्रयसंयुक्तैर्जुहुयात्साधकः स्वयम् ॥
अचिराद्वाग्विलासेन कवीनामग्रणीर्भवेत् ॥ २५० ॥

अथातः सम्प्रवक्ष्यामि राजपुत्रं गणेश्वरम् ॥
योगिन्यस्य बृहत्तुण्डा तालवादनतत्परा ॥ २५१ ॥

मातृकासिद्धिदश्चायं तस्मात्तन्मन्त्रम् उच्यते ॥
यस्यामन्तर्गता मन्त्रास्त्रयस्त्रिंशच्च कोटयः ॥ २५२ ॥

गायत्री मातृका वापि साधिता स नरो भवेत् ॥
समस्तागममन्त्राणां दातानास्त्यत्र संशयः ॥ २५३ ॥

अकारादिक्षकारान्ता वर्णा वायुश्च देवता ॥
वदन्ति मातृकां देवीं यया सर्वमिदं ततम् ॥ २५४ ॥

ब्रह्मा मुनिश्च गायत्री छन्दो देवी च मातृका ॥
हलो बीजान्यचः प्रोक्ताः शक्तयः कीलकं भवेत् ॥ २५५ ॥

अव्यक्तं सत्त्वनिर्वाच्यं व्यञ्जनैः स्वरसङ्गमः ॥
प्रागुक्तमातृका न्यासास्सर्वे मुख्या भवन्ति च ॥ २५६ ॥

सुधाकुम्भाक्षवटिकावरपुस्तकधारिणीम् ॥
पञ्चाशदर्णव्याप्ताङ्गीं चन्द्रार्धाङ्कितशेखराम् ॥ २५७ ॥

त्र्यक्षां कुन्देन्दुरुचिरां पद्मस्थां कुचनामिताम् ॥
मुक्तावृतस्फुरद्भूषां भजे मातृसरस्वतीम् ॥ २५८ ॥

लिखेत्स्वर्णादिजे पत्रे रोचनाकुङ्कुमादिभिः ॥
अष्टपत्रं शुभं पद्मं भूपुरत्रितयावृतम् ॥ २५९ ॥

कर्णिकायां तु स्फें बीजं केशरेषु द्वयम् द्वयम् ॥
कचढादिकवर्गांश्च लिखेदष्टदलेषु च ॥ २६० ॥

तत्कमलस्याग्रदिक्षु वं बीजं ठं विदिक्षु च ॥
पूजापीठमिदं प्रोक्तमादावङ्गानि संयजेत् ॥ १६१ ॥

स्वरद्वन्द्वं ततो वर्गान्केशरेषु यजेदिमाः ॥ २६२ ॥

मेधा प्रज्ञा प्रभा विद्याधीर्धृतिस्मृतिबुद्धयः ॥
विद्येश्वरी मध्यमान्ते पूज्याः पीठे ततः परम् ॥ २६३ ॥

वर्गाष्टके त्विमाः पूज्या व्यापिनी पालनी तथा ॥
पावनी क्लेशिनी चापि धारिणी मालिनी तथा ॥ २६४ ॥

हंसिनी शान्तिनी पत्रस्याग्रेर्च्या मातरः परम् ॥
वीथ्यां लोकेश्वरानग्रे वीथ्यामस्त्राणि पूजयेत् ॥ २६५ ॥

तद्दशांशेन जुहुयान्मधुरत्रयलोलितैः ॥
तिलैः शुद्धैस्तर्पणादि कृत्वा सिद्धो भवेन्मनुः ॥ २६६ ॥

तत्त्वैर्भूपैश्च दिग्भिः कनकरजतताम्रांसकैर्भिन्नसूत्रैः सम्यक्कृत्वा त्रिवेणीस्तबकमथ जपेद्गव्यमाज्यं हुनेच्च ॥
वस्वभ्राणां च पातं सुजनितहविषा चाभिषिञ्चेद्घृतैस्तां देवीमभ्यर्च्य धार्यं 12 ग्रहगदशमनं सङ्गरे स्याज्जयाय ॥ २६७ ॥

तोयम्पिबेद्दिनादौ च द्विवारं जप्तमेतया ॥
वत्सराज्जायते सम्यक्स मूर्खोपि कवित्वभाक् ॥ २६८ ॥

ब्राह्मीरसेन वचया पयसा पाचयेद्घृतम् ॥
अयुतं जप्तमनया भक्षितं कविताप्रदम् ॥ २६९ ॥

वर्णौषधीक्वाथसुवर्णकुम्भैर्जपन्सहस्रं च नरं प्रसिञ्चेत् ॥
कीर्तिश्च लक्ष्मीः कविता तथायुर्भवेच्च बन्ध्या लभते सुताग्र्यम् ॥ २७० ॥

अथ प्रवक्ष्ये प्रवरं गणेशं सुरा प्रिया साखिलकर्मविज्ञा ॥
स्याद्योगिनी चास्य शुभङ्करी च चेटी नदी याम्यतटे क्षयोस्याः 13 ॥ २७१ ॥

आकृत्यर्णो मनुस्तारः शुभङ्करा परेति च ॥
देवते ममेष्टं देहि दुर्भुग्नी शिखिवल्लभा ॥ २७२ ॥

कलाकलापान्परिपालयन्ति विभावयन्ती विषयाननेकान् ॥
नारीनरेन्द्रानपि मोहयन्ती सा मानसे मेस्तु शुभङ्करी श्रीः ॥ २७३ ॥

जप्त्वा 14 लक्षं च रक्तैर्हयरिपुकुसुमैर्होमयेत्सिद्धमन्त्रः कृष्णायाम्भाद्रकृष्णे हयरिपुगहने चापि शेफोलिसिन्ध्वोः ॥
याम्ये तीरे च नद्या निशि जपमयुतन्तद्दशांशेन होमं कुर्यात्प्रातस्तु नीराज्जयति सुखकरान्साधकेन्द्रो गतोसौ ॥ २७४ ॥

नानाभोगकरः कामं यं यं प्रार्थयते तु तम् ॥
स्वयं ददाति सा देवी सुस्त्रीवित्ताम्बरादिकम् ॥ २७५ ॥

अथातः सम्प्रवक्ष्यामि वाराणस्यां तु ये स्थिताः ॥
आवृता वक्रतुण्डाद्याश्चेटीशक्तिसमन्विताः ॥ २७६ ॥

ङेन्तन्तन्नाम हृच्चेति तेषाम्मन्त्रः प्रकीर्तितः ॥
वक्रतुण्डविधिः पूर्वमुक्तोष्टानां स एव हि ॥ २७७ ॥

कपालहस्तयुक्तानां प्रदिष्टा ऋक्षयोगिनी ॥
शतनादे योगिनीति देहि देहि वदेत्ततः ॥ २७८ ॥

ह्रींह्रूंस्वाहेति मन्त्रोयं ध्यानमस्या निरूप्यते ॥
वीणातन्त्रीस्फुरद्धस्तां तन्नादचलकुण्डलाम् ॥ २७९ ॥

कुसुम्भवसनां नम्रां स्तनभारेण योगिनीम् ॥
नदीतीरे चाम्रवणे जपेन्मन्त्रं दशायुतम् ॥
आम्रपत्रैः समूलैश्च हुनेत्सिद्धो भवेन्मनुः ॥ २८० ॥

अमायां श्रावणे मासि रात्रौ दूरे नदीतटे ॥
तत्र रात्रौ मनुं देव्या जपेदष्टसहस्रकम् ॥ १८१ ॥

प्राग्वद्धूनेदष्टशतं ततः शब्दाञ्छृणोति च ॥
वीणावेणुमृदङ्गानां किन्नरीणाञ्च भूयसः ॥ २८२ ॥

इत्यादयः शतं नादा जायन्ते नादिभीषणाः ॥
ततः सा योगिनीरूपा प्रत्यक्षा मन्त्रिणो भवेत् ॥ २८३ ॥

ददाति योगमुद्रां सा दर्शयेत्कुण्डलीपथम् ॥
ततः स्वानुभवो मन्त्री योगी ज्ञानी प्रजायते ॥
वाक्सिद्धिश्च भवेदस्य ब्रह्मभूयाय कल्पते ॥ २८४ ॥

अथातः सम्प्रवक्ष्यामि चैकदन्तुरविघ्नपम् ॥
योगिनी तस्य रक्ताक्षी गानवादरता सा ॥ २८५ ॥

नेत्ररम्या चेटिकास्य वेदाग्न्यर्णो मनुश्च ओम् ॥
नेत्ररम्ये अञ्जनं च देहियुग्मं निधिं वदेत् ॥ २८६ ॥

दर्शयद्वितयं चोक्त्वा पटलम्पदमुच्चरेत् ॥
दूरीकुरु युगम्पञ्च स्हाहेति कथितो मनुः ॥ २८७ ॥

पुरश्चरणमेतस्या अयुतत्रितयं चरेत् ॥
घृताक्तगुग्गुलैर्होमो देवतां साधयेत्ततः ॥ २८८ ॥

कनने करवीराणां रात्रौ वैशाखमासि तु ॥
चतुर्दश्याञ्जपेद्देवीं 15 नेत्ररम्यां शतत्रयम् ॥ २८९ ॥

भौमस्तु वासरः प्रोक्तस्त्वथ वा शुक्रवासरः ॥
घृताक्तगुग्गुलैर्होमं ततः कुर्याच्छतत्रयम् ॥ २९० ॥

ददाति मन्त्रिणे तस्मै स्वाञ्जनं नेत्रबोधकम् ॥
निधिं भूमिगतं वस्तु दूरदेशगतं तथा ॥
आलोकते स मन्त्री च सद्यो भवति भूपतिः ॥ २९१ ॥

अथातः सम्प्रवक्ष्यामि कपिसिंहद्विपाननम् ॥
एवं त्रिवदनन्तस्य योगिनी तु शुकी मता ॥
रसज्ञा चेटकी चास्य पङ्कजाक्षी प्रकीर्तिता ॥ २९२ ॥

ॐ पङ्कजाक्ष्यमृतफलं देहीति युगं तथा ॥
श्रीं स्वाहा मेघवर्णोयं जपः षष्टिसहस्रकः ॥
होमः पलाशपुष्पैः स्यादभावे च समिद्वरैः ॥ २९३ ॥

सञ्जीवयन्तीव मदं लोलनेत्राभिसुन्दरी ॥
पङ्कजाक्षी कार्यकरी नानालङ्कारशोभिता ॥ २९४ ॥

वसतर्न्तौ च गङ्गायास्तटे ब्रह्मरुहांवने ॥
कृष्णाष्टम्याञ्चैत्रमासे भौमे शुक्रे थवा निशि ॥ २९५ ॥

त्रिसहस्रं जपित्वातु पालाशैर्होममाचरेत् ॥
ततो देवी समायाति ददाति फलमुत्तमम् ॥ २९६ ॥

जरामरणराहित्यं तत्कालम्भक्षिते सति ॥
फले तस्मिन्समायाति सद्गुरुःप्रार्थितःपुनः ॥ २९७ ॥

अथातः सम्प्रवक्ष्यामि पञ्चास्यञ्च गजाननम् ॥
श्वेन्यस्य योगिनी प्रोक्ता रागालापनतत्परा ॥
पयोदिनीचेटिकास्य ह्येकत्रिंशाक्षरो मनुः ॥ २९८ ॥

तारम्पयोदिनीत्युक्त्वा जलधाराधरे तथा ॥
अग्निं शमय वाडवं वह्निं च शमय द्वयम् ॥ २९९ ॥

श्रीं स्वाहा नम इत्येतज्जपेदन्ते सहस्रकम् ॥
सरस्तीरे पयः कार्ये हुनेत्सघृतपायसम् ॥ ३०० ॥

वर्षन्ती जलबिन्दूंश्च मेघमाला मनोरमा ॥
श्यामाम्बरपरीधाना मे चित्तेस्तु पयोदिनी ॥ ३०१ ॥

श्रावणे बहुलाष्टम्यां रोहिणी ऋक्षसम्भवे ॥
भौमे बृहस्पतौ वापि शुक्रे वा तत्र वासरे ॥ ३०२ ॥

रात्रौ स्नान विधिं कृत्वा सरस्तीरे मनोरमे ॥
अयुतम्प्रजपेन्मन्त्रम्पायसैर्होममाचरेत् ॥ ३०३ ॥

सहस्रैकन्ततो 8 देवी साक्षात्सा तु पयोदिनी ॥
ददाति वरकां चैकाम्मन्त्रिणे तोष मागता ॥ ३०४ ॥

अग्निदाहोस्य नैवास्ति भवेच्च करकान्वितः ॥
अवृष्टावपि कर्तव्यन्ध्यात्वादेवीं भवेज्जलम् ॥ ३०५ ॥

अथातः सम्प्रवक्ष्यामि हेरम्बं गणनायकम् ॥
चत्वरादिककाम्यास्य योगिन्यस्ति कपोतिका ॥
हंसवागीश्वरीशक्तिर्मन्त्राद्यस्य निरूप्यते ॥ ३०६ ॥

ॐ ह्रीं ॐ ह्रीं ॐ तथोक्त्वा सरस्वत्यै नमस्त्विति ॥
ऋषिः शक्तिश्च देव्यादिर्गायत्री छन्द ईरितम् ॥ ३०७ ॥

हंसवागीश्वरी देवी देवता परिकीर्तिता ॥
विद्वांस्तृतीयबीजेन षडङ्गन्यासमाचरेत् ॥ ३०८ ॥

सुषुम्णाग्रे भ्रुवोर्मध्ये रन्ध्राणां नवमे तथा ॥
मन्त्राक्षराणि विन्यस्य चिन्तयेदिष्टदेवताम् ॥ ३०९ ॥

हंसपृष्ठस्थपद्मस्थां कान्तकर्पूरसन्निभाम् ॥
चन्द्राननां मन्दहासा चन्द्रार्धकृतशेखराम् ॥ ३१० ॥

पुस्तकं च करैर्वीणां जपमालां सुधाघटम् ॥
इति ध्यात्वा यजेत्पीठे मातृका याः पुरोदिताः ॥ ३११ ॥

वर्णाद्येनाशनं दद्यान्मूर्ति मूलेन कल्पयेत् ॥
तस्यामावाह्य तां देवीमर्चयेद्गन्धपुष्पकैः ॥ ३१२ ॥

सम्पूज्य पार्श्वयोर्वाचौ संस्कृते प्राकृते उभे ॥
ततोङ्गानि च तच्छक्तीर्मातृर्लोकेश्वरानपि ॥
तदस्त्राणि ततो बाह्ये देवीमित्थं प्रपूजयेत् ॥ ३१३ ॥

प्रज्ञा मेधा श्रुतिः शक्तिः पञ्चमी स्मृतिरीरिता ॥
वागीशी सुमतीः स्वस्तिरष्टौ तच्छक्तयो मताः ॥ ३१४ ॥

वर्णैकाधिकलक्षन्तु जपेन्मन्त्रं समाहितः ॥
तत्सहस्रं प्रजुहुयात्सिताक्तैर्नागचम्पकैः ॥
तर्पणादि ततः कुर्यात्साधको नियतव्रतः ॥ ३१५ ॥

इमं मनुं यो भजते पातकैर्मुच्यतेचिरात् ॥
लक्ष्मीयशःकान्तियुतः कवित्वस्यालयं भवेत् ॥ ३१६ ॥

कुर्यात्पूर्वानुगदितान्प्रयोगानत्र मन्त्रवित् ॥
अथ मन्त्रान्तरं वक्ष्ये यत्तस्याः षोडशार्णकम् ॥ ३१७ ॥

ऐङ्कारं पूर्वमुच्चार्य नमो भगवतीति च ॥
वेदयुग्मं च वाग्देवी स्वाहान्तो मन्त्र ईरितः ॥ ३१८ ॥

पूर्वमन्त्रोदिताश्चात्र मुन्याद्याः सम्प्रकीर्तिताः ॥
पदैर्मन्त्रस्य षड्द्भिः स्यात्षडङ्गं चैव जातिमत् ॥ ३१९ ॥

कुन्देन्दुभासिवसनां श्वेतमाल्यानुलेपनाम् ॥
वनमालां तथा व्याख्यां मुद्रां पुस्तकमेव च ॥ ३२० ॥

सुधाकुम्भं हस्तपद्मैर्दधतीं श्वेतपद्मगाम् ॥
त्र्यक्षां चन्द्रार्धभालां च पीनोन्नतपयोधराम् ॥ ३२१ ॥

प्राग्वत्पूजाप्रयोगादिविशेषोत्र निगद्यते ॥
अष्टलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ॥ ३२२ ॥

यथाविधि जपान्ते च तादृशाशं हुनेत्तिलैः ॥
आज्याप्लुतैस्तपर्णादि सर्वं पूर्ववदाचरेत् ॥ ३२३ ॥

अह्नो मुखे प्रत्यहं य एतज्जप्त्वा जलं पिबेत् ॥
संवत्सराद्भवेद्विद्वान्नात्र कार्या विचारणा ॥ ३२४ ॥

स्नानकाले मन्त्रजप्तैस्तोयैः सिञ्चेत्स्वमूर्धनि ॥
सर्वैस्तोयैस्तर्पयेत्तां मेषा वंशे भवेद्ध्रुवम् ॥
जपित्वा मन्त्रमेतं च पुष्पगन्धादिकं सुधीः ॥ ३२५ ॥

शिरसा धारयेत्तेन सभापूज्यः स जायते ॥
वादे च विजयो नित्यं भवेत्तस्य न संशयः ॥ ३२६ ॥

अन्यन्मन्त्रान्तरं चास्या वक्ष्यते रुद्रवर्णकम् ॥
ऐं वाचस्पते अमृते प्लुवः प्लुरिति कीर्तितः ॥
दशाक्षरवदस्यान्यत्पञ्चाङ्गं तु मनोः परैः ॥ ३२७ ॥

पद्मसंस्थां पद्मयुगाक्षमालापुस्तकानि च ॥
करैर्दधानां चन्द्रार्धमुकुटां त्रीक्षणां सिताम् ॥
नानामुनिनुतां नम्रां स्तनभारेण ताम्भजे ॥ ३२८ ॥

यजेच्च मातृकापीठे दशार्णोक्तेन वर्त्मना ॥
प्रयोगादि प्रकुर्वीत पूर्ववद्वै दशार्णवत् ॥ ३२९ ॥

अथातः सम्प्रवक्ष्यामि विघ्नराजं विनायकम् ॥
योगिनी पाशहस्तास्य वंशारोहणकारिणी ॥
सरस्वती शक्तिरस्य त्र्यर्णा चेटीत्रयान्विता ॥ ३३० ॥

चारुस्वामीति मन्त्रोस्य विप्राणां परिकीर्तितः ॥
वाक्तुस्वामीति सञ्जप्यः क्षत्त्रियैः परतापकैः ॥ ३३१ ॥

ग्वारुं स्वमीति वैश्यानामैंरुं स्वाम्यङ्घ्रिजन्मनाम् ॥
ऋष्यादिकं दशार्णोक्तं देवी त्र्यर्णा सरस्वती ॥ ३३२ ॥

द्विरुच्चरितमूलेन षडङ्गं जातिसंयुतम् ॥
करन्यासं विधायाथ ध्यायेद्देवीं सरस्वतीम् ॥ ३३३ ॥

मुक्ताहारसमायुक्तां चन्द्रार्धकृतशेखराम् ॥
व्याख्यामुद्रा रत्नकुम्भं त्वक्षमालां च पुस्तकम् ॥ ३३४ ॥

पीनोत्तुङ्गकुचानम्रां श्वेताब्जस्थां सरस्वतीम् ॥ ३३५ ॥

पुरा प्रोक्ते मातृकायाः पीठे देवीं समर्चयेत् ॥
यथापूर्वं प्रत्यहं यः स भवेद्वाक्पतिर्ध्रुवम् ॥ ३३६ ॥

वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ॥
आज्याक्तहविषा वह्नौ दशांशं जुहुयात्ततः ॥ ३३७ ॥

तर्पणादि ततः कुर्यात्प्रागुक्तविधिना ततः ॥
एवं सिद्धमनुर्मन्त्री प्रयोगान्कर्तुमर्हति ॥ ३३८ ॥

चतुरङ्गुलसम्भूतैः सुमनोभिर्हुनेत्तु यः ॥
वाचः सोऽप्रतिमां सिद्धिमचिराल्लभते ध्रुवम् ॥ ३३९ ॥

कुचन्दनोदकेनाक्तैर्जातीपुष्पैः सिताम्बुजैः ॥
नन्द्यावर्तोद्भवैः कुन्दसंयुतैः कुसुमैर्हुनेत् ॥ ३४० ॥

अचिरादतुलां वाचां सिद्धिं प्राप्नोत्यसंशयम् ॥
एवं मन्त्रं जपेन्मन्त्री सभायां जयमाप्नुयात् ॥ ३४१ ॥

वचां श्वेतां तथा ब्राह्मीं जपितां मनुनामुना ॥
अह्नो मुखे च यः खादेत्स मेधां वाञ्छितां लभेत् ॥ ३४२ ॥

पाण्डवी पृथुमध्या च पार्थिवा चेति चेटिकाः ॥
ॐ पाण्डवीति बगले ततश्च बगलामुखि ॥ ३४३ ॥

शत्रोः पादं स्तम्भयद्विः क्लीं ह्रीं भुवञ्चरे वदेत् ॥
स्फ्रीं स्वाहेति त्रिंशार्णो मन्त्रो ध्यानं निरूप्यते ॥ ३४४ ॥

पीताम्बरां पीतवर्णां पीतगन्धानुलेपनाम् ॥
प्रेतासनां पीतवर्णां विचित्रां पाण्डवीं भजे ॥ ३४५ ॥

अयुतत्रितयं जप्त्वा कुसुम्भकुसुमैर्हुनेत् ॥
एवं कृत्वा पुरश्चर्यां पश्चात्साधनमाचरेत् ॥ ३४६ ॥

वत्सरादौ प्रतिपदि शुक्रवारे जपेन्निशि ॥
अयुतं तद्दशांशेन कुसुम्भकुसुमैर्हुनेत् ॥ ३४७ ॥

प्रसन्ना जायते देवी वस्त्रमेकं ददाति च ॥
वैरिणोद्वेगतो बद्धं गतिस्तम्भः प्रजायते ॥ ३४८ ॥

कार्तिके कृष्णषष्ठ्यान्तु वटवृक्षतले स्थितः ॥
जप्त्वायुतं चूतपत्रैः ससुगन्ध्यगुरूद्भवैः ॥
तैलयुक्तैर्भवेद्धोमः पृथुमध्या प्रसीदति ॥ ३४९ ॥

ददाति पीठं तत्रस्थो दृष्ट्या रामाश्च मोहयेत् ॥
वहन्ति पञ्चभूतानि तत्पीठं तेन खे गतिः ॥ ३५० ॥

उन्मत्तजनगां देवीं स्थूलाङ्गीं कलहप्रियाम् ॥
कार्तिकेयगुहाखेलां पृथुमध्यां भजाम्यहम् ॥ ३५१ …

ॐ पार्थिवे च पृथिवीतलचारिणि वायुमा ॥
ततो लिनि च तारुण्यं कुरुयुग्मं च धं च धम् ॥ ३५२ ॥

स्वाहैकोनत्रिंशदर्णः पार्थिवाया मनुः स्मृतः ॥
नदीतीरे वृष्टिकाले चतुर्दश्यां निशान्तरे ॥ ३५३ ॥

कूलं खनित्वा कुहरं कर्त्तव्यं युगसप्तकम् ॥
जपस्यार्धायुतो होमः कदलीखण्डकैस्तथा ॥ ३५४ ॥

पृथिवीतलसञ्चारशालिनीं वायुमालिनीम् ॥
भजामि पार्थिवीं देवीं तारुण्याङ्कप्रदां शिवाम् ॥ ३५५ ॥

तुष्टा ददाति सा शक्तिं पृथिव्यन्तरचारिणीम् ॥
जरामरणराहित्यं सम्भवेच्चैव सर्वगः ॥ ३५६ ॥

विनायकस्तु प्रवरो दण्डहस्तास्य योगिनी ॥
रज्जुरोहास्वरूपा सा चेटी कङ्कालिका मता ॥ ३५७ ॥

ऐं कङ्कालीमहाकालीकलिकलाभ्यामुच्चरेत् ॥
स्वाहान्तःस्थितिवर्णोयं लक्षमस्य जपो मतः ॥ ३५८ ॥

हुनेदस्य सहस्रैकं कङ्काली वरदा भवेत् ॥
ईप्सितं तत्साधकस्य तदेकं सा प्रयच्छति ॥ ३५९ ॥

अथातः सम्प्रवक्ष्यामि गणेशं मोदकप्रियम् ॥
प्रचण्डा योगिनी चास्य चेटिका पङ्कवासिनी ॥ ३६० ॥

ॐ पङ्कवासिनी पङ्कजावती वनदेवते ॥
केदारं देहि सिद्धिं च कुरु द्विः कामबीजकम् ॥
रमा बीजं वह्निजाया चैकत्रिंशाक्षरो मनुः ॥ ३६१ ॥

वैशाखे पद्मसरसि स्वल्पोदे जलवर्जिते ॥
सप्तरात्रं जपेन्मन्त्रं दिवसे लक्षसङ्ख्यया ॥
होमस्तत्पत्रपुष्पैश्च देव्या ध्यानं निरूप्यते ॥ ३६२ ॥

पङ्कजाक्षि निशि वै शिवदूति स्मरेवक्त्रनयनाम्बुजलीले ॥
मानसे म वस स्मरदेवि प्रत्यहं कमलकाननसंस्थे ॥ ३६३ ॥

सदा देवी समागत्य त्रिजगद्वशकारकम् ॥
ददाति केशरं चैकं कल्पपुष्पाति गन्धवत् … ३६४ ॥

घर्षयित्वास्य तिलके कृते स्यादखिलं जगत् ॥
वश्यं राजस्त्रियो भूपाः पण्डिता देवता अपि ॥ ३६५ ॥

अथातः सम्प्रवक्ष्यामि पूर्वदिक्स्थान्विनायकान् ॥
महाश्मशानमावृत्य स्हितानभयदायकान् ॥ ३६६ ॥

प्रथमं मनवश्चैषां स्वबीजहृदयादिकम् ॥
चतुर्थ्यन्तं भवेन्नाम योगिनी वसुविक्रमा ॥ ३६७ ॥

चेष्टां वातुलवत्कुर्यात्पारिजातसरस्वती ॥
अस्य शक्तिस्तु तन्मन्त्रः प्रोक्त एकादशाक्षरः ॥ ३६८ ॥

ॐ ह्रीं हंसवर्णाश्च सैकारा बिन्दुसंयुताः ॥
पुनर्ह्रीं मां सरस्वत्यै हृदयान्तो मनुर्मतः ॥ २६९ ॥

ऋषिध्यानन्यासजपं हंसवागीश्वरीमतम् ॥
प्रयोगाश्चापि सिद्ध्यन्ति पूर्वोक्ताः सर्व एव हि ॥ ३७० ॥

वरानना चेटिकास्य तस्याः साधनमुच्यते ॥
वरानने पदं चोक्त्वा वामलोचन इत्यपि ॥ ३७१ ॥

परस्य मारिणी चोक्त्वा मालिनीद्वितयं ततः ॥
धुन्धुन्धीं वह्निजायान्तो मनुः षट्त्रिंशदर्णकः ॥ ३७२ ॥

सौन्दर्यामृतसन्दोहसारभूतामिमां पराम् ॥
विवर्धितां स्थिरां देवीं सम्भजे तां वराननाम् ॥ ३७३ ॥

रथ्याद्वारे कुजे कृष्णसप्तम्यां तु शुचिर्यजेत् ॥
सहस्रत्रितयं होमः शङ्खैश्चापि कपर्दकैः ॥ ३७४ ॥

ततः स्त्रीरूपिणी दद्यात्कपर्दैकं वरानना ॥
कपर्दं स्थापयेद्यत्र कणादीनां कुशूलके ॥ ३७५ ॥

त्रिदिनावधि तद्धान्यं विक्रीतं नैव हीयते ॥
ततो धान्यान्तरं स्थाप्यं वृद्धिस्तत्रापि जायते ॥ ३७६ ॥

सिंहतुण्डो गणाध्यक्षो वेणुप्राचास्य योगिनी ॥
पृथिव्यावेष्टनकरी सप्तकोटेश्वरी मता ॥ ३७७ ॥

शक्तिश्चेटी विधुश्रेष्ठा ततः साधनमुच्यते ॥
कः स उक्त्वा चण्डिकां च सः कः सप्ताक्षरो मनुः ॥ ३७८ ॥

ऋषिर्ब्रह्मा च गायत्री छन्दः प्रोक्तं च देवता ॥
सप्तकोटेश्वरी देवी वागैश्वर्यकरी मता ॥ ३७९ ॥

षड्दीर्घयुक्चकारेण 16 षडङ्गं सम्प्रकीर्ततम् ॥
अस्याः पूजादिकं सर्वं त्रिपुरावत्प्रकीर्तितम् ॥ ३८० ॥

विधुश्रेष्ठामौं वक्ष्ये विधुश्रेष्ठे 17 विपद्गते ॥
मानं पूरय कर्णान्ते ताटङ्कं देहि युग्मकम् ॥
थं लक्ष्मीर्वह्निजायान्तः सप्तविंशाक्षरो मनुः ॥ ३८१ ॥

चित्रायां सोमवारे च यदा सोमग्रहो भवेत् ॥
यावद्विधुविमोक्षः स्यात्तावन्मन्त्रञ्जपेज्जले ॥ ३८२ ॥

तदा देवी तु ताटङ्कं दद्यात्सव्यश्रुतिस्थितम् ॥
पूर्णचन्द्रप्रभाभन्तदमाम्पूर्णां करोति च ॥ ३८३ ॥

साधको लोकमान्यश्च ध्यानमस्या निरूप्यते ॥
चन्द्रमण्डलसंस्थान्तां विधुश्रेष्ठा वियद्गताम् ॥
काश्मीरचारुताटङ्कां ध्यायामि शिववल्लभाम् ॥ ३८४ ॥

अथातः सम्प्रवक्ष्यामि कुपिताक्षङ्गजाननम् ॥
पापहन्त्री योगिनी तु पुत्रदारूपधारिणी ॥ ३८५ ॥

कुपिताक्षस्य शक्तिस्तु बाला स्याद्वामलोचना ॥
अस्य चेटी समाख्याता तस्याः साधनमुच्यते ॥ ३८६ ॥

ऐङ्क्लींसौरिति बालायाख्यक्षरो मन्त्र उच्यते ऋषिस्तु 18 दक्षिणामूर्तिः पङ्क्तिश्छन्दोस्य देवता ॥ ३८७ ॥

बालाबीजं वाङ्मयं स्यात्तार्तीयं शक्तिरुच्यते ॥
कीलकं कामराजः स्याद्द्विरावृत्त्या 19 षडङ्गकम् ॥ ३८८ ॥

यथा त्रिपुरभैरव्यास्त्र्यर्णन्यासाः पुरोदिताः ॥
एतद्बीजेन ते सर्वे कर्तव्यास्तत्फलाप्तये ॥ ३८९ ॥

अभयं पुस्तकं मालां वरं च दधतीङ्करैः ॥
अरुणामरुणाब्जस्थां रक्तवस्त्रां द्विजेशकाम् 20 ॥ ३९० ॥

यन्त्रोद्धारञ्च पूजायाम्पूजयेत्सकलन्तथा ॥
ज्ञेयं त्रिपुरभैरव्यास्त्र्यक्षरायाश्च तत्समम् ॥ ३९१ ॥

जपो लक्षत्रयं होमे द्रव्याद्यं तद्वदेव हि ॥
कुमारीपूजनं नित्य काम्यसिद्ध्यर्थमुच्यते ॥ ३९२ ॥

मालतीजातिकामल्लिकुसुमैर्मधुमिश्रितैः ॥
घृतचूर्णैश्च जुहुयाद्वागीशत्वं प्रजायते ॥
मूकस्यापि हि मूढस्य शिलारूपस्य नान्यथा ॥ ३९३ ॥

जपापुष्पैराज्ययुतै रक्तक्षीरैर्यथाविधि ॥
हवनान्मोहयेन्मन्त्री लोकत्रयनिवासिनः ॥ ३९४ ॥

कस्तूरीकुम्मेन्दूनां 21 हवनात्कामवद्भवेत् ॥
चम्पकैः पाटलैर्होमान्महतीं श्रियमाप्नुयात् ॥ ३९५ ॥

गुग्गुल्वगुरुकर्पूरचन्दनानां च होमतः ॥
राजनागेन्द्रदेवानां पुरन्ध्रीर्वशमानयेत् ॥ ३९६ ॥

लाक्षाहोमाल्लभेद्राज्यं पक्वान्नमधुहोमतः ॥
उपसर्गनिवृत्तिः 22 स्यात्कल्हारहवनाद्धनम् ॥ ३९७ ॥

दुग्धेनायुर्धनं दघ्ना मेधारोग्यं घृतेन तु ॥
समिद्भिर्जायते क्षीरं मधुना मृत्युनाशनम् ॥ ३९८ ॥

दधिमाक्षिकहोमेन 23 सौभाग्यं धनमाप्नुयात् ॥
कह्लारहवनाद्भाग्यं मधुरत्रयरक्तयुक् ॥ ३९९ ॥

छागमांसं 24 हुनेत्सर्वं परराष्ट्रं वशं नयेत् ॥
वैरिस्तम्भः सिताहोमाल्लाक्षाक्षीरपयोदधि 25
हुतं तदल्पमृत्योश्च रोगाणां चापि नाशनम् ॥ ४०० ॥

कमलैररुणैर्होमःसम्यक्सम्पत्तिदायकः ॥
रक्तोत्पलैर्जगद्वश्यं लक्ष्मीर्भाग्यं सितोत्पलैः ॥ ४०१ ॥

दाडिमं मातुलुङ्गं 26 च नारङ्गं सकलं क्रमात् ॥
कूष्माण्डं जुहुयाद्विप्रादिका वश्या न संशयः ॥ ४०२ ॥

खर्जूरीफललक्षस्य होमात्सर्वे नृपा वशाः ॥
द्राक्षा लाक्षासिद्धयष्टीकदलीफलहोमतः ॥ ४०३ ॥

लक्षाद्विंशतिराजानो वश्यास्तस्य महीपतेः ॥
नालिकेरेण लक्षं चेद्धुतोग्निर्नृपवद्भवेत् ॥ ४०४ ॥

पक्वाम्रलक्षहोमेन सम्पूर्णा धरणी वशा ॥
पनसस्य फलैर्लक्षहोमाद्वश्याः शतं नृपाः ॥ ४०५ ॥

गुग्गुलूनां तु होमेन सर्वदुःखानि नाशयेत् ॥
वश्याः सर्वे तिलाज्याभ्यां चन्दनेन तु शत्रवः ॥ ४०६ ॥

रक्तचन्दनहोमेन वश्याः स्युः पुरुषाः स्त्रियः ॥
खर्जूरस्य तु होमेन वाग्वश्यं जायते नृणाम् ॥ ४०७ ॥

कस्तूरीहोमतो भूपा मन्त्रिणः परिचारकाः ॥
नीलतण्डुलहोमेन शान्तिर्भवति मन्दिरे ॥ ४०८ ॥

शर्कराघृतहोमेन सर्वकार्याणि साधयेत् ॥
घृतपायसहोमेन धान्यसिद्धिर्भवेद्ध्रुवम् ॥ ४०९ ॥

तत्तदन्नस्य होमेन तत्तत्सिद्धिः प्रजायते ॥
सोपस्करैश्च वटकैरुपसर्गान्विनाशयेत् ॥ ४१० ॥

बन्धूककुसुमैर्होमात्सर्वसत्त्वं वशं नयेत् ॥
जपापुष्पैर्जगद्वश्यं बाणपुष्पैश्च मोहनम् ॥ ४११ ॥

बहुलस्य हुनेत्पुष्पैः सौभाग्यं जायते महत् ॥
दशागधूपहोमाच्च सौभाग्यमतुलं भवेत् ॥ ४१२ ॥

जम्बूफलैः स्त्रियो वश्याः कुष्माडैर्दैत्यकन्यकाः ॥
श्रीफलैरतुला लक्ष्मीरिक्षुदण्डैः सुखं भवेत् ॥ ४१३ ॥

रसादिक्षो राजकन्या नालिकेरफलेन वा ॥
केवलं घृतहोमेन वरदाः सर्वशक्तयः ॥ ४१४ ॥

वामीतु सङ्गमात्पूर्वं प्रजपेद्वामचक्षुषः ॥
शतमात्रं पौर्णमास्यां विशाखादित्यसङ्गमे ॥ ४१५ ॥

सद्यः प्रसन्ना देवी स्याद्वीर्यस्तम्भं ददाति सा ॥
अपि कान्ताशतासङ्गे नासौ स्खलति मानवः ॥ ४१६ ॥

रतिदेवीं रतिप्रीतिं कामकीर्तिं मनोरमाम् ॥
मम कामप्रदां सद्यः सम्भजे वामलोचनाम् ॥ ४१७ ॥

ईं लीं भीं रं समुच्चार्य वमुक्त्वा वामलोचने ॥
वीर्यं स्तम्भय द्विश्चोक्त्वा नादे माकुरु चोच्यते ॥ ४१८ ॥

पञ्चविंशतिवर्णोयं स्वाहान्तो मन्त्र ईरितः ॥
मदनान्धो लक्षजपात्सिध्येद्वा वामलोचना ॥ ४१९ ॥

प्रागुक्तो यस्तु विघ्नेशो नाम्ना क्षिप्रप्रसादनः ॥
काली च योगिनी तस्य शक्तिर्वागीश भैरवी ॥
चित्राक्षी चेटिका चास्य पुरे वसति योगिनी ॥ ४२० ॥

स्थैं 27 ह्रीं चैव समुच्चार्य नित्यक्लिन्नेपदं वदेत् ॥
मदद्रवे च सहरा औकारेण समन्विताः ॥ ४२१ ॥

एकादशाक्षरो मन्त्रो न्यासध्यानादिकं तथा ॥
चैतन्यभैरवीतुल्यं विशेषोयं च पूजने ॥ ४२२ ॥

अग्रकोणे च चैतन्यनित्यक्लिन्नां मदद्रवाम् ॥
षडङ्गावरणं पश्चादन्यत्सर्वं यथोक्तवत् ॥ ४२३ ॥

तुल्यश्चैतन्यभैरव्याः प्रयोगादिः प्रकीर्तितः ॥
चित्राक्ष्याः 28 साधनं वच्मि तदेकान्ते नदीतटे ॥ ४२४ ॥

षट्कोणं मण्डलं कृत्वा तोयपूर्णान्घटान्न्यसेत् ॥
कोणषट्के तत्र सुराञ्छक्रादींस्तु प्रपूजयेत् ॥
इन्द्रं विधिं यमं कालं विष्णुमीशं क्रमेण च ॥ ४२५ ॥

अक्षय्यमावृतोयोयमारम्भस्य प्रकीर्तितः ॥
तदूर्ध्वमासनं कृत्वा मध्याह्ने प्रजपेन्मनुम् ॥
नित्यं शतत्रयं होमस्त्रिरेलायाः फलैर्भवेत् ॥ ४२६ ॥

कुर्यादेवं प्रत्यहन्तु तृतीया त्वाष्ट्रसंयुता ॥
सोमेन रविणा वापि यदा युक्ता भवेत्तदा ॥ ४२७ ॥

प्रातः कालाज्जपः कार्यो घटाद्देवी वदेत्स्फुटम् ॥
येषु कुम्भेषु यद्द्रव्यं स्थापनीयं तथा तु तत् ॥
भविष्यति तदक्षय्यं ध्यानमस्या निरूप्यते ॥ ४२८ ॥

रुद्रादिप्रेतमौलिस्थां कलशाङ्कुरमालिनीम् ॥
चित्राक्षीं चित्रवेषां तां सम्भजे परमेश्वरीम् ॥ ४२९ ॥

चित्राक्षी चित्ररूपेण रुद्रादि प्रेतसं वदेत् ॥
स्थे प्रसीदेति युगलं श्रीं स्वाहा त्रिद्विवर्णकः ॥ ४३० ॥

अथातः सम्प्रवक्ष्यामि चिन्तामणिविनायकम् ॥
योगिनी लक्षणज्ञास्य नाम्ना रुधिरवाहिनी ॥ ४३१ ॥

षट्कूटभैरवी शक्तिश्चित्रकण्ठ्यस्य चेटिका ॥
हसकलरकारांश्च डकारैकारसंयुतान् ॥ ४३२ ॥

बिन्दुयुक्तान्कूटरूपो मनुरस्याः प्रकीर्तितः ॥
सम्पत्प्रदा भैरवीवत्सर्वं न्यासादिकं मतम् ॥ ४३३ ॥

समस्तं चिन्तितं दद्याद्रिपुभारविनाशिनी ॥
सेनाविनायकः काश्यां स्थापितस्त्वनया पुरा ॥ ४३४ ॥

अथातः साधनं वक्ष्ये चित्रकन्यां समासतः ॥
चैत्रशुक्लचतुर्दश्यां वसन्ते निशि सञ्जपेत् ॥ ४३५ ॥

सहस्रत्रितयो होमो मधूकक्रुसुमैर्भवेत् ॥
त्रिंशत्सहस्रं सा देवी तदा दद्याच्च मन्त्रिणे ॥ ४३६ ॥

कोकिलास्वरमत्यन्तमोहनं जगतामपि ॥
अपि पक्षिमृगादीनामुरगाणा च मोहनम् ॥ ४३७ ॥

चूताङ्कुरावतंसा सा वीणानादनिनादिनी ॥
शुक्लाम्बरा शिवाङ्कस्था रक्तकञ्चुकधारणी ॥ ४३८ ॥

चित्रकण्ठि चित्रनादस्वरं देहियुगं तथा ॥
भरिंस्विंहेति मन्त्रोयं मन्वर्णः 29 परिकीर्तितः ॥ ४३९ ॥

अथातः सम्प्रवक्ष्यामि दन्तिहस्तं विनायकम् ॥ ४४० ॥

वसाधया योगिनी च चित्ररेखास्वरूपिणी ॥
पञ्चबाणेश्वरी शक्तिश्चिह्नगम्या च चेटिका ॥ ४४१ ॥

द्रां ह्रीं क्लीं क्लूम्स इत्येष बाणेश्वर्या मनुर्मतः ॥
ऋषिः कामस्तु गायत्री छन्दो बाणेश्वरी सुरी ॥ ४४२ ॥

एकाक्षरेण सर्वैश्च मनोर्वर्णैः षडङ्गकम् ॥ ४४३ ॥

रक्तवस्त्रामिक्षुधनुष्पुष्पकोदण्डधारिणीम् ॥
सालङ्कारां च सूर्याभां बाणेशीं सुन्दरीं भजे ॥ ४४४ ॥

त्रिपुरेशीं च सम्पूज्य मोहयेत्सकलं जगत् ॥
पञ्चलक्षं जपेद्धोमो बन्धूककुसुमैर्मतः ॥ ४४५ ॥

कृष्णपक्षे चतुर्थ्यां तु चित्रायां सोमवासरे ॥
ध्यात्वायुतं जपेद्रात्रौ तदा सा वरदा भवेत् ॥
प्रयोगाद्यं सर्वमस्यास्त्रिपुरावत्प्रकीर्तितम् ॥ ४४६ ॥

तत्र रात्रौ गृहे सम्यग्दिव्यान्नं यावदीप्सितम् ॥
तावद्ददाति हेमन्त्रिन्दिव्यभोगानपि ध्रुवम् ॥ ४४७ ॥

मन्त्रस्तु दिव्यकमले चिह्नाङ्गे मे प्रसीद च ॥
श्रींस्वाहा तिथिवर्णोयं ध्यायेत्कण्ठेब्जकम्रजाम् ॥ ४४८ ॥

हस्ते चामृतकुम्भं च सालङ्कारां मनोहराम् ॥
अथातः सम्प्रवक्ष्यामि पिचिण्डिलविनायकम् ॥ ४४९ ॥

सिद्धिप्रदं राक्षसानां गर्भहस्तास्य योगिनी ॥
मनोहरा कर्मकरी चेटी चास्य त्रिलोचना ॥ ४५० ॥

नारी रम्याभिधा मन्त्रस्त्रयोविंशतिवर्णकः ॥
आदौ 30 तारं ततो नारीं रम्या कमलवासिनीम् ॥ ४५१ ॥

त्वं नारीं मोहयद्वन्द्वं क्लीं स्वाहा ध्यानमुच्यते ॥
लग्नां कल्याणमूर्तिं च मोहरूपां स्थितां वने ॥
पद्मानां प्रार्थितां शम्भुविष्णुब्रह्मादिकैः सुरैः ॥ ४५२ ॥

मार्गकृष्णचतुर्दश्यां भौमरात्रौ सरस्तटे ॥
त्रिसहस्रं जपेत्पश्चान्नारङ्गैर्होममाचरेत् ॥ ४५३ ॥

चिह्निता स्त्री भवेद्वश्या प्राणैरपि धनैरपि ॥
यदा चेच्छा भवेत्स्त्रीणां नारीं रम्यां तदा जपेत् ॥ ४५४ ॥

उद्दण्डमुण्डहेरम्बमथ वक्ष्ये समासतः ॥
योगिनी शरहस्तास्य रूपतः सा वशङ्करा ॥
निधिप्रान्ता चेटिकास्य मन्त्रोऽस्यास्तिथिवर्णकः ॥ ४५५ ॥

वदेत्तारं 31
निधिप्रान्ते निधिं देहिद्वयं रमा ॥
स्फ्रींस्वाहेति च मन्त्रोयं ध्यायेद्देवीं त्रिमालिनीम् ॥ ४५६ ॥

रसायननिधि प्रीतां भवलक्ष्मीनिधिप्रदाम् ॥
आषाढशुक्लसप्तम्यां चतुर्थ्यां वा समाहितः ॥ ४५७ ॥

जपेत्सप्तशतं मन्त्रं पलाशतरुसन्निधौ ॥
पलाशमूलैरत्यन्तैः कोमलेर्होममाचरेत् ॥ ४५८ ॥

ततो देवी निधिप्रान्ता मन्त्रिणे तोषमागता ॥
ददाति निधिमेकं हि त्रैलोक्येपि सुदुर्लभम् ॥ ४५९ ॥

एतासामष्टचेटीनां द्वात्रिंशच्च सहस्रकम् ॥
निर्जने च वटाधस्ताद्वा गणेशसमीपतः ॥
जपः कार्यस्तदा सिद्धिरर्चयित्वा गणेश्वरम् ॥ ४६० ॥

अथातः सम्प्रवक्ष्यामि नगरावरणे स्थितान् ॥
स्थूलदन्तादिकानष्टौ गणेशान् योगिनीयुतान् ॥
शक्तिभिश्चेटिकाभिश्च युक्तान्गम्बीजपूर्वकान् ॥ ४६१ ॥

तद्बीजं च पठेन्नाम ङेन्तं भगवते पदम् ॥
हृदयान्तस्तथाष्टानां मन्त्रोयं परिकीर्तितः ॥ ४६२ ॥

पञ्चकामेश्वरी चास्य शक्तिस्तन्मन्त्र उच्यते ॥
ह्रीं क्लीम् ऐं ब्रूमिति प्रोच्य श्रीं मन्त्रः पञ्चवर्णकः ॥ ४६३ ॥

ऋषिः सम्मोहनश्छन्दो गायत्रं देवता मता ॥
कामेशी च षडङ्गानि पृथग्वर्णैस्ततोखिलैः 32 ॥ ४६४ ॥

रक्तां रक्तदुकूलाङ्गलेपनां रक्तभूषणाम् ॥
पाशाङ्कुशशरानक्षमालिकामभ्यं धनुः ॥ ४६५ ॥

पुस्तकं च वरं हस्तैर्बिभ्राणां वशकारिणीम् ॥
पञ्चकामैः परिवृतामस्याः 33 पूजादिकं भवेत् ॥ ४६६ ॥

बाणेश्वरीसमानं तु वामे कामौ तथार्चयेत् ॥
उदग्दक्षिणयोर्देव्याः स्थलेषु त्रिषु योगिनीः ॥
अञ्जनानां सिद्धिकरी नष्टवेषास्य चेटिका ॥ ४६७ ॥

तारं 34 च नष्ट वेषे च भ्रामिणीं ह्रीं द्वयं वदेत् ॥
स्त्रीं स्त्रीं स्वाहा विश्ववर्णो मन्त्रो ध्यानं निरूप्यते ॥ ४६८ ॥

मांसं च रुधिरं सद्यश्चर्वयन्तीं सुभीषणाम् ॥
प्रेतासनां महादेवीं नष्टवेषां भजाम्यहम् ॥ ४६९ ॥

जपेत्सहस्रत्रितयं कृष्णाष्टम्यां महानिशि ॥
होमश्च गजदन्तेन दशांशस्तुष्यति त्वियम् ॥ ४७० ॥

ददाति मन्त्रिणे चार्द्रमस्थि तेन तु साधकः ॥
भूतप्रेतपिशाचादीन्खेलन्संवशयेदपि ॥ ४७१ ॥

अथातः सम्प्रवक्ष्यामि कलिप्रियगजाननम् ॥
योगिन्यस्य बृहत्कक्षी गुटी सिद्धिप्रदा मता ॥
त्रिवर्णेशी शक्तिरस्य क्लीम् ऐं सौश्च मनुर्मतः ॥ ४७२ ॥

द्विरावृत्त्या षडङ्गानि पञ्चबाणान्प्रविन्यसेत् 35
पञ्चकामांश्च विन्यस्य मूलेन व्यापकं चरेत् ॥ ४७३ ॥

उद्यत्सूर्यसहस्राभां माणिक्यवरभूषणाम् ॥
स्फुरद्रत्नदुकूलाढ्यां नानालङ्कार भूषिताम् ॥ ४७४ ॥

इक्षुकोदण्डबाणांश्च ह्यक्षमालां च पुस्तकम् ॥
दधतीं पूजयेत्पश्चात्षडङ्गानि प्रपूजयेत् ॥ ४७५ ॥

पञ्चबाणास्ततः पूज्या रत्यादित्रितयं ततः ॥
कामाष्टकं ततो भैरवाष्टकञ्चापि मातरः ॥ ४७६ ॥

पीठाष्टकं च लोकेशान्मध्ये देवान्समर्चयेत् ॥
पुरश्चरणकृत्यादि काम्यकर्म तथाखिलम् ॥ ४७७ ॥

एतस्यास्त्रिपुरेशी च चेटिकास्यनिनादिनी ॥
निनादिनि 36 च गुटिकां देहि स्त्रीं वह्निगेहिनीम् ॥ ४७८ ॥

द्वादशार्णो मनुर्ध्यानमूर्ध्वकेशीं त्रिलोचनाम् ॥
खेचरीं तां चञ्चलाक्षीं महानादां भजाम्यहम् ॥ ४७९ ॥

अमायां च नरः सायं नद्यां स्नायाद्विशेषतः ॥
कृष्णायां निशि कुर्वीत तत्तीरे चायुतं जपम् ॥ ४८० ॥

कस्तूरीकमलैर्होमो दशांशस्तत्र देवता ॥
महाशब्दं प्रकुरुते भीतिदं ध्यानतत्परः ॥
न बिभेति यदा मन्त्री तदा देवी प्रसीदति ॥ ४८१ ॥

ददाति गुटिकामेकां सिद्धिदां च मनोहराम् ॥
तामादाय भवेन्मत्री त्रिलोकीगमनक्षमः ॥ ४८२ ॥

अथातः सम्प्रवक्ष्यामि चतुर्दन्तं गजाननम् ॥
सर्पास्या योगिनी चास्य धातुवादक्रियाकरी ॥ ४८३ ॥

एककामेश्वरी शक्तिः कामबीजं मनुर्मतः ॥
क्रषिः सम्मोहनश्छन्दो गायत्री देवता मता ॥ ४८४ ॥

एककामेश्वरी बीजं कः शक्तिर्बिन्दुरुच्यते ॥
लः कीलकं षडङ्गानि षड्दीर्घान्वितमूलतः ॥ ४८५ ॥

पूर्वोक्तपञ्चबाणांश्च न्यसेद्ध्यानं समाचरेत् ॥ ४८६ ॥

जपाकुसुमसङ्काशां धनुर्बाणकरां स्मरेत् ॥
नानालङ्कारशुभगां मोहयन्तीं जगत्त्रयम् ॥ ४८७ ॥

त्रिकोणं चाष्टपत्रं च ततो भूबिम्बमालिखेत् ॥
मोहिनीं क्षोभिणीं चैव शशिनीं स्तम्भिनीं तथा ॥ ४८८ ॥

आकर्षिणीं द्राविणीं च तथैवाह्लादिनीं मताम् ॥
क्लिन्नां च क्लेदिनीं चापि ततः सिहासनं यजेत् ॥
ततो देवीं समावाह्यार्चयेन्मुद्राश्च दर्शयेत् ॥ ४८९ ॥

अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनम् ॥
त्रिपूरायास्ततश्चाङ्गान्यर्चयेच्च दलाष्टके ॥
अनङ्गपदमुच्चार्य रूपिणी 37 मदना तथा ॥ ४९० ॥

मन्मथा कुसुमा चेति तदग्रे मदनातुरा ॥
शिरा मेषबला तद्वद्द्विपिकाष्टौ समीरिताः ॥ ४९१ ॥

दिगीश्वरास्ततः पूज्या जपेदर्कसहस्रकम् ॥
हुनेद्बन्धूककुसुमैस्तर्पणादि ततश्चरेत् ॥
काम्यप्रयोगा विज्ञेयास्त्रिपुरेश्या यथा तथा ॥ ४९२ ॥

अथातः सम्प्रवक्ष्यामि चैकविंशतिसङ्ख्यकान् ॥
गणेशान्त्राजमातङ्या सम्बधान्योगिनीयुतान् ॥ ४९३ ॥

बीजषट्कं गणेशस्य ङेन्तं तन्नाम चोच्चरेत् ॥
नमोन्ता मनवस्तेषां क्रमान्नामानि वच्म्यहम् ॥ ४९४ ॥

अग्रे पृष्ठे द्विदन्तादिद्वितुण्डाक्षो विनायकः ॥
ज्येष्ठो विनायकश्चैव तथा गजविनायकः ॥ ४९५ ॥

विनायकः कालसञ्ज्ञो नागेशाख्यो विनायकः ॥
अथान्तर्गृहमावृत्य स्थिताञ्छृणु विनायकान् ॥ ४९६ ॥

तथा सृष्टिगणेशश्च यक्षविघ्नेश एव च ॥
गजकर्णश्चित्रघण्टः स्यान्मङ्गलविनायकः ॥ ४९७ ॥

विनायकश्च मित्रादिरथ वानन्दकानने ॥
व्यवस्थिता गणेशा ये ते वक्ष्यन्ते मयाधुना ॥ ४९८ ॥

मोदः प्रमोदः सुमुखो दुर्मुखो गणनायकः ॥
विनायको ज्ञानपूर्वो द्वारविघ्नेश एव च ॥ ४९९ ॥

अविमुक्तेशनिकटे त्वविमुक्तविनायकः ॥
योगिन्यश्च क्रमादेषां कीर्त्यन्ते प्रेतवाहनाः 38 ॥ ५०० ॥

दन्दशूककरा रौद्री मृगशीर्षा वृषानना ॥
व्यालास्या धूर्त्तविश्वासा व्योमैकचरणार्धदृक् ॥ ५०१ ॥

तापिनी तुष्टिपूर्वा च शोषिणी कोटरी तथा ॥
विद्युत्प्रभा स्थूलनासा मार्जारी कण्ठपूरणा ॥ ५०२ ॥

कामाक्ष्यट्टाट्टहासा च बलाका गतिपुण्यदा ॥
मूकास्याचेति योगिन्यो ङेन्तं नाम नमोन्तकम् ॥ ५०३ ॥

स्वबीजाद्यं भवेन्मन्त्रो यथानामार्थकारकः ॥
अथातः सम्प्रवक्ष्यामि शक्तिमेषां सुसिद्धिदाम् ॥ ५०४ ॥

विख्यातां राजमातङ्गी सद्यः प्रत्ययकारिकाम् ॥
ऐं ह्रीं श्रीं मनवः प्रोक्ता भगवतीप्रदं वदेत् ॥ ५०५ ॥

श्रीमातङ्गे वदेदेतच्छूरि सर्वजनेति च ॥
मनोहरि सर्वमुखराजि सर्वमुखेति च ॥ ५०६ ॥

रजनीं सर्वराजेति वशङ्करि वदेत्ततः ॥
सर्वस्त्रीपुरुषेत्युक्त्वा वशङ्करि पदं वदेत् ॥ ५०७ ॥

सर्वदुष्टमृगवशङ्करि सर्वपदं ततः ॥
सत्त्ववशङ्करि सर्वलोकमुक्त्वामुकं वदेत् ॥ ५०८ ॥

मे वशमानय स्वाहेत्यष्टाशीत्यक्षरो मनुः ॥
एकविंशद्विश्वधृतिधृतिविश्वकरैर्मनोः ॥ ५०९ ॥

ॐ नमो मुखमन्त्रार्णैः ऐं ह्रींश्रीम्बीजपूर्वकैः ॥
षडङ्गन्यास उदितः पदन्यासं ब्रवीम्यहम् ॥ ५१० ॥

शिरोललाटभ्रूमध्यतालुकण्ठमनोगले ॥
हृदयेऽनाहते बाह्वोर्जठरे नाभिमण्डले ॥ ५११ ॥

स्वाधिष्ठाने व्यञ्जने च पादयोर्दक्षिणान्ययोः ॥
मूलाधारे गुदे न्यस्य पदान्यष्टादश क्रमात् ॥ ५१२ ॥

त्र्येकद्विचतुवर्सुषट् नगाष्टदशदिग्गजैः ॥
वेदाग्नीन्दुद्वित्रिनेत्रैर्वर्णैर्मन्त्रपदानि तु ॥ ५१३ ॥

ऐं ह्रीं श्रींराजमातङ्यै नम उक्त्वा न्यसेत्ततः ॥
मूलाधारे पूर्वबीजत्रयं प्रीत्यै पदं वदेत् ॥ ५१४ ॥

मातङ्यै नम इत्युक्त्वा हृदये विन्यसेत्पुनः ॥
बीजत्रयं ततो मनो भवायै च नमो वदेत् ॥ ५१५ ॥

भ्रूमध्ये विन्यसेत्पश्चाद्देवीन्यासं समाचरेत् ॥
शिरोवदनहृद्गुह्यपादेषु क्रमतो न्यसेत् ॥ ५१६ ॥

हृल्लेखां गगनां रक्तां ततश्चापि कपालिकाम् ॥
महोच्छुष्मां स्वनामादिवर्णबीजपुरस्सराम् ॥ ५१७ ॥

मातङ्ग्यन्तां प्रविन्यस्य बाणशक्तिं तथा न्यसेत् ॥
मूर्धपादास्यगुह्ये हृदये द्राविणीं क्रमात् ॥ ५१८ ॥

शोषिणीं बन्धिनीं मोहिनीं चैवा कर्षिणीन्तथा ॥
मातङ्ग्यन्तां स्वबीजाद्यां ततः कामाष्टकं न्यसेत् ॥
बीजत्रयाद्यां मातङ्गी पदान्ते मन्मथं मुखे ॥ ५१९ ॥

मकरध्वजं वामांसे मदनं वामपार्श्वके ॥
वामकट्यां पुष्पचापं नाभौ च कुसुमायुधम् ॥
कन्दर्प्पं दक्षकट्यां च दक्षपार्श्वे मनोभवम् ॥ ५२० ॥

रतिप्रियं च दक्षांसे तच्छक्तिन्यास उच्यते ॥
मातङ्ग्यन्ता अनङ्गाद्याः स्थानेष्वेष्वेव विन्यसेत् ॥ ५२१ ॥

कुसुमा मेखला प्रोक्ता मदना मदनातुरा ॥
मदनोद्वेगिताग्रे सम्भवा भुवनपालिनी ॥ ५२२ ॥

शशिरेखा ततः कुर्यान्न्यासं लक्ष्म्यादिकं यथा ॥
ङेमातङ्गीनमोन्तांश्च लक्ष्मी चापि सरस्वतीम् ॥
रतिं प्रीतिं कीर्तिशान्त्यौ पुष्टिं तुष्टिं क्रमेण च ॥ ५२३ ॥

मूलाधारे तथा मूले मणिपूरे तथा हृदि ॥
कण्ठे मुखे भ्रुवोर्मध्ये शिरस्येवं च विन्यसेत् ॥ ५२४ ॥

ब्राह्म्याद्याः पूर्वमुद्दिष्टा मातङ्गीपदपश्चिमाः ॥
मूलाधारे त्वधिष्ठाने नाभौ हृदि गले मुखे ॥ ५२५ ॥

भ्रूमध्ये मस्तके चैवमसिताङ्गादिभैरवान् ॥
मातङ्ग्यन्तान्न्यसेत्पश्चान्मातङ्ग्यन्ता इमाम् अपि ॥ ५२६ ॥

आधारे विन्यसेद्द्वामां ज्येष्ठां लिङ्गस्य मूलके ॥
नाभौ रौद्रीं तथा शान्तिं हृदये सिद्धिदां गले ॥ ५२७ ॥

वागीश्वरीं च भ्रूमध्ये क्रियाशक्तिं च बिन्दुके ॥
लक्ष्मीं कलापदे सृष्टिं रोधिकायां तथा न्यसेत् ॥ ५२८ ॥

अर्धेन्दौ मोहिनीं न्यस्य नादे तु प्रथमां न्यसेत् ॥
भाविनीं चापि नादान्ते ततो मान्यां तडिल्लताम् ॥
विष्णुं वज्रे विष्णुशक्तिं ध्रुवमण्डलके न्यसेत् ॥ ५२९ ॥

ऐं ह्रीं श्रीं पूर्विकाश्चैता ङेमातङ्गीनमोन्तकाः ॥
चतस्रः शक्तयो न्यस्या मातङ्गी शिरसि न्यसेत् ॥ ५३० ॥

ललाटे महामातङ्गीं महालक्ष्मीं तथा हृदि ॥
सिद्धलक्ष्मीं तथा मूले मूलाधारे प्रविन्यसेत् ॥ ५३१ ॥

मूलमन्त्रं समुच्चार्य सर्वाङ्गे व्यापकं चरेत् ॥
एवं न्यस्तशरीरोसौ चिन्तयेन्मन्त्रदेवताम् ॥ ५३२ ॥

अमृतोदधिमध्यस्थे रत्नद्वीपे मनोहरे ॥
स्वर्णप्राकारसंवीते मण्डपे रत्ननिर्मिते ॥ ५३३ ॥

कदम्बबिल्वकह्लारकल्पवृक्षोपशोभिते ॥
वेदीमध्ये सुखास्तीर्णे रत्नसिंहासने शुभे ॥ ५३३ ॥

अष्टपत्रं महापद्मं केशराढ्यं सकर्णिकम् ॥
तन्मध्ये तु त्रिकोणं स्यादष्टपदं ततो बहिः ॥ ५३५ ॥

पुनः षोडशपत्रं स्यात्तद्बाह्ये स्याच्चतुर्दलम् ॥
वेदास्रं सचतुर्द्वारं मण्डलं प्रोक्तमुत्तमम् ॥ ५३६ ॥

तस्य मध्ये मुखासीनां श्यामवर्णां शुचिस्मिताम् ॥
कदम्बमालाभरणां पूजितां च सुरासुरैः ॥ ५३७ ॥

प्रलम्बालकसंयुक्तां चन्द्ररेखावतंसिकाम् ॥
ललाटे तिलकोपेतामीषत्प्रहसिताननाम् ॥ ५३८ ॥

किञ्चित्स्वेदाम्बुमधुरललाटफलकोज्ज्वलाम् ॥
वलीतरङ्गमध्याभां रोमराजीविराजिताम् ॥ ५३९ ॥

सर्वाभरणसंयुक्तां मुक्ताहारविभूषिताम् ॥
नानामणिगणोन्नद्धकटिसूत्रैरलङ्कृताम् ॥ ५४० ॥

बलयै रत्नखचितैः केयूरैर्मणिभूषितैः ॥
भूषितां द्विभुजां बालां मदाघूर्णितलोचनाम् ॥ ५४१ ॥

आपीनमण्डलाभोगसमुन्नतपयोधराम् ॥
प्रलम्बकर्णाभरणां स्वर्णोत्तंसविराजताम् ॥ ५४२ ॥

तमालनीलां तरुणीं मधुमत्तां मतङ्गिनीम् ॥
चतुष्षष्टिकलारूपां पार्श्वस्थशुकसारिकाम् ॥ ५४३ ॥

कोटिबालार्कसङ्काशां जपाकुसुमसन्निभाम् ॥
एवं वा पीतवर्णां वा ध्यायेन्मातङ्गिनीं पराम् ॥ ५४४ ॥

धर्मादिकॢप्तपूर्वोक्ते पीठेर्च्याः शक्तयो नव ॥
ऐंह्रींश्रीम्बीजपूर्वाश्च ङेमातङ्गिनमोन्तकाः ॥ ५४५ ॥

विभूतिरुन्नतिः कान्तिः कीर्तिः सृष्टिश्च सम्मतिः ॥
पुष्टिरुत्कृष्टिर्-ऋद्धिश्च मातङ्ग्या नव शक्तयः ॥ ५४६ ॥

वाङ्माये 39 कमलां सर्वशक्त्यन्ते कमलापदम् ॥
सनाय नम इत्युक्त्वा मातङ्ग्याः पीठमर्चयेत् ॥ ५४७ ॥

देव्यामूर्तिं च मूलेन कल्पयित्वा यथाविधि ॥
तस्यामावाहद्देवीमर्चयेत्तदनन्तरम् ॥ ५४८ ॥

पाशाङ्कुशवराभीतिखड्गचर्मधनुःशरान् ॥
मौसलीं दुर्गबाणाख्यां योनिमुद्रां 40 प्रदर्शयेत् ॥ ५४९ ॥

त्रिकोणे पूर्वरक्षोदिक्कोणे रत्यादिका यजेत् ॥
पाशाङ्कुशा च श्वेताभा प्रथमायान्तु साञ्जलिः ॥ ५५० ॥

अन्त्यारुणेक्षुकोदण्डपञ्चबाणलसत्करा 41
त्रिकोणकाष्टदलयोरन्तराले तु पूजयेत् ॥ ५५१ ॥

मध्ये दिक्षु क्रमात्पञ्चहृल्लेखादिकशक्तयः 42
गुणं सृण्यभयेष्टानि वहन्त्यो भूतसन्निभाः ॥ ५५२ ॥

अग्नीशरक्षःपवनकोणेष्वग्नेर्दिशासु च ॥
यजेदङ्गानि मन्त्रज्ञः पञ्चबाणास्ततोर्चयेत् ॥ ५५३ ॥

दिक्ष्वग्रे क्रमतो मुक्तास्वर्णविद्रुमहीरकान् ॥
अमलारुणभायुक्तान्धनुर्बाणायुधांस्तथा ॥ ५५४ ॥

दलेष्वग्रे पूजनीया अनङ्गकुसुमादिकाः ॥
गुणसृण्यभयेष्टानि धारयन्त्योरुणप्रभाः ॥ ५५५ ॥

अग्रे दलानां सम्पूज्या लक्ष्म्याद्याश्चारुभूषणाः ॥
लक्ष्मी हेमप्रदा पद्माकरा कौसुम्भकाम्बरा ॥ ५५६ ॥

सरस्वती शङ्खनिभा चिन्मुद्रा पुस्तकेरतिः ॥
श्वेताभा पुष्पबाणेक्षुहस्ता चामललोचना ॥ ५५७ ॥

धनुर्बाणकरा प्रीतिर्मेचकाभा सिताम्बरा ॥
कीर्तिः कुण्डसमा पद्मचिन्मुद्राकरशालिनी ॥ ५५८ ॥

चिन्मुद्राभययुक्छान्तिर्ध्यानस्तिमितलोचना ॥
बालाभयङ्करा 43 पुष्टिः पीताङ्गा चारुभूषणा ॥ ४५९ ॥

तुष्टिर्वराभयकरा प्रसन्नमुखपङ्कजा ॥
द्वितीयाष्टदले पूज्या मन्मथाद्या मदोद्धताः ॥ ५६० ॥

पुर-आकृष्टचापेज्याः पृष्ठदेशनिषङ्गकाः ॥
पत्रसंस्था मातरस्तु तदग्रे चाष्ट भैरवाः ॥ ५६१ ॥

कपालशूलडमरुवेतालासक्तपाणयः ॥
दीर्घस्वराद्या ब्राह्म्याद्या ह्रस्वाद्या भैरवा अपि ॥ ५६२ ॥

ततः षोडशपत्रस्था वामाद्याः श्यामविग्रहाः ॥
आदर्शरत्नदीपं च व्यजनं च ततः परम् ॥ ५६३ ॥

नागवल्लीदलं चैव चामरं ज्ञानकोशकम् ॥
वासोमाल्यातपत्राणाभरणाशुकशालिकैः ॥ ५६४ ॥

चामरं रत्नकलशं तालवृन्तं प्रदीपकम् ॥
बिभ्राणा वामहस्तैश्च देवेशाः खड्गपाणयः ॥ ५६५ ॥

रक्तवर्णाः सुविमला भावयेदर्चयेदिमाः ॥
वादयन्तीः सदा वीणाञ्चतुःपत्रे ततोर्चयेत् ॥ ५६६ ॥

मातङ्ग्याद्यास्तत्र पूज्याः पाशाङ्कुशवराभयैः ॥
अलङ्कृतभुजा रक्ता द्वितीया चेन्दुसन्निभ्हा ॥ ५६७ ॥

असिखेटकशूलाह्वमुण्डहस्ता तथा परा ॥
पाशाङ्कुशसरोजानि योनिमुद्राञ्च विभ्रती ॥ ५६८ ॥

अरुणा चान्तिमा हेमरत्नपत्रे वराभये ॥
दधाना श्यामवर्णा च ध्यातव्या मन्त्रिसत्तमैः ॥ ५६९ ॥

अग्निनैर्-ऋत्यवायव्यरुद्रकोणेषु संयजेत् ॥
गणेशदुर्गावटुकक्षेत्रपालान्बहिर्यजेत् ॥ ५७० ॥

चतुरस्रे लोकपालांस्तदस्त्राणि च तद्बहिः ॥
प्रजपेदयुतम्मन्त्री मन्त्रम्पश्चाद्दशांशतः 44 ॥ ५७१ ॥

त्रिस्वादुयुक्तैर्जुहुयाद्बन्धूककुसुमैर्वशी ॥
तर्पणम्मार्जनं कृत्वा ब्राह्मणाराधनन्तथा ॥ ५७२ ॥

एवं सिद्धमनुर्मन्त्री साधयेन्निजवाञ्छितम् ॥
भाग्यार्थी जुहुयाज्जातीमल्लिकानागकेशरैः ॥ ५७३ ॥

श्रीफलैश्चापि तत्पत्रैर्होमाद्राज्यश्रियं व्रजेत् ॥
राजपुत्रः पङ्कजैः स्वां श्रियमाप्नोत्यनुत्तमाम् ॥ ५७४ ॥

लक्ष्मीपुष्पौत्पलैश्चैव वशयेत्सकलं जगत् ॥
जपाबन्धूकबकुलैर्वज्रवृक्षसमुद्भवैः ॥ ४७५ ॥

सुमनोभिश्च जुहुयाद्वश्यायैव हि मन्त्रवित् ॥
मधुना जुहुयात्तस्य सर्वसिद्धिर्भवत्यलम् ॥ ५७६ ॥

त्रिस्वादुसंयुतैः सम्यग्वेतसोत्थसमिद्वरैः ॥
जुहुयाद्वृष्टिकामस्तु गुडूचीभिर्ज्वरं हरेत् ॥ ५७७ ॥

कदम्बकुसुमैर्हुत्वा वशयेत्प्रमदाजनान् ॥
आयुष्कामः प्रजुहुयाद्दूर्वाभिर्नात्र संशयः ॥
अन्नं प्रजुहुयान्मन्त्री चान्नवाञ्जायतेचिरात् ॥ ५७८ ॥

शालितण्डुलहोमेन धनाकुलगृहो भवेत् ॥
होमद्रव्यन्तु यत्प्रोक्तं त्रिस्वाद्वक्तं तु तद्भवेत् ॥ ५७९ ॥

नन्द्यावर्त्तप्रसूनैः स्याद्धोमो वाक्सिद्धिदः परः ॥
निम्बप्रसूनहोमाच्च कमलां वाञ्छितां लभेत् ॥ ५८० ॥

हुनेत्किंशुकहोमैर्यः स भवेत्तेजसां निधिः ॥
चन्दनागुरुकर्पूररोचनाकुङ्कुमैरपि ॥ ५८१ ॥

होमात्तु विश्वं सकलं वशयेन्नात्र संशयः ॥
अष्टाभिर्जपितैरेतैस्तिलकं जनमोहनम् ॥ ५८२ ॥

सिन्धुवारस्य मूलानि होमयेद्बन्धमुक्तये ॥
उग्रगन्धस्य तैलेन संसिक्तैर्लवणैर्हुनेत् ॥
अचिराच्छत्रुसङ्घं स नाशयेन्नात्र संशयः ॥ ५८३ ॥

सञ्चूर्णितनिशामिश्रैर्लवणैः स्तम्भयेद्रिपुम् ॥
परिपक्वैरतिरसैः फलैः पुष्पैः सुगन्धिभिः ॥
होमाद्वाञ्छितमाप्नोति नात्र कार्या विचारणा ॥ ५८४ ॥

अथ मन्त्रान्तरं वक्ष्ये मातङ्ग्या अतिसिद्धिदम् ॥
ऐङ्क्लीं सौः ऐं समुच्चार्य ह्रींश्रीं तारं समुच्चरेत् ॥ ५८५ ॥

नमो भगवतीत्यादिश्चतुर्विंशतिवर्णकः ॥
उच्चरेत्सर्पमन्त्रस्य रञ्जनीं क्लीं ततो वदेत् ॥ ५८६ ॥

तथा श्रीबीजमुच्चार्य सर्वराजादिकान्वदेत् ॥
पूर्वमन्त्रस्य वर्णांस्तु चत्वारिंशत्क्रमात्ततः ॥ ५८७ ॥

वशङ्करिपदं प्रोच्य प्राङ्मन्त्रस्यामुकादिकान् ॥
एकादशार्णान्प्रवदेच्छ्रींह्रींऐंसौस्ततो वदेत् ॥
क्लीमवेति द्व्यूनशतं मन्त्रे वर्णाः प्रकीर्तिताः ॥ ५८८ ॥

अयं मन्त्रस्त्रिभुवनवशीकारकरः परः ॥
आचार्यानुग्रहात्प्राप्यो महापुण्यतमैर्जनैः ॥
दुष्प्राप्योऽकृतपुण्यैश्च मुनीन्द्राद्यैश्च सेवितः ॥ ५८९ ॥

वाञ्छावितरणे कल्पपादपः परिकीर्तितः ॥
ऋष्याद्याः पूर्वमुदिता मन्त्रस्यास्य भवन्ति हि ॥ ५९० ॥

ततस्तु मातृका न्यस्य देवताभावसिद्धये ॥
पञ्चबाणानङ्गुलीषु तलयोर्मकरध्वजम् ॥ ५९१ ॥

न्यसेन्मन्त्रं दशार्णं सौर्वाग्भवं ङेन्तमुच्चरेत् ॥
मकरध्वज इत्येतत्क्लीं नमोन्तः प्रकीर्तितः ॥ ५९२ ॥

शिखाशिरोललाटेषु भ्रूमध्ये नेत्रयुग्मके ॥
श्रोत्रयोर्घ्राणयोर्वक्त्रे गण्डयोः ककुदि क्रमात् ॥ ५९३ ॥

असयोरुरसि न्यस्य स्तनयोर्हृदयाम्बुजे ॥
नाभिमण्डलके गुह्ये मूलाधारे पदोरपि ॥ ५९४ ॥

त्रयोविंशतिसङ्ख्यानि त्रित्र्येकह्यब्धिभिस्तथा ॥
षडष्टकैकचन्द्राष्टनवाष्टादशपत्रिभिः ॥ ५९५ ॥

वस्वष्टवह्निचन्द्राक्षित्रिद्वित्रिन्क्रमान्न्यसेत् ॥
एकोनविंशतियुतान्मन्त्रार्णानादितः क्रमात् ॥ ५९६ ॥

पदैः षड्भिः षडङ्गानि ऐं ह्रीं श्रीम्पूर्वकैश्चरेत् ॥
कामशक्तीन्दिराबीजान्युक्तानि च शिखा मनोः ॥ ५९७ ॥

षड्दीर्घकामयुक्तेन षडङ्गानि प्रकल्पयेत् ॥
द्राविण्याद्याः पुनः पञ्च कुक्षौ पार्श्वद्वये हृदि ॥ ५९८ ॥

मणिपूरे न्यसेदत्र ब्राह्म्याद्याश्चात्र विन्यसेत् ॥
दक्षपादाङ्गुलीमूले गुल्फसन्धौ च जानुनि ॥ ५९९ ॥

दक्षोरुमूले वामोरुमूले जानुनि गुल्फके ॥
वामपादाङ्गुलीमूले ततो लक्ष्म्यादिका न्यसेत् ॥ ६०० ॥

वामदोर्मूलके मध्ये सन्धौ च मणिबन्धके ॥
वामहस्ताङ्गुलीमूले दक्षहस्ताङ्गुलीतटे ॥ ६०१ ॥

मणिबन्धे मध्यसन्धौ कक्षयोर्मूलके क्रमात् ॥
मस्तके च भ्रुवोर्मध्ये नेत्रयोः श्रोत्रयोगुदे ॥ ६०२ ॥

नासायुग्मे मुखे गण्डद्वन्द्वे जिह्वाग्रदेशके ॥
मूलाधारे त्वधिष्ठाने तालौ वामादिका न्यसेत् ॥ ६०३ ॥

लक्ष्म्यादिकस्थले न्यस्या असिताङ्गादिभैरवाः ॥
मातङ्यादिचतुष्कं च हृदि नाभौ शिरोगुदे ॥ ६०४ ॥

गणेशदुर्गाबटुकक्षेत्रपालांस्ततो न्यसेत् ॥
कभ्रूकण्ठेषु 45 मूले च मन्त्रेण व्यापकं चरेत् ॥ ६०५ ॥

सरस्वतीं महालक्ष्मीं निधियुग्मं प्रविन्यसेत् ॥
आनने च भ्रुवोर्मध्ये दक्षपादे तथोत्तरे ॥ ६०६ ॥

एवं न्यस्य मनुं मन्त्री ध्यायेद्देवीमनन्यधीः ॥
अमृतस्य समुद्रे तु रत्नद्वीपे महावने ॥ ६०७ ॥

पञ्चानां कल्पवृक्षाणां मण्डपे मणिसंयुक्ते ॥
मणिसिंहासनस्योर्ध्वमुपविष्टां विचिन्तयेत् ॥ ६०८ ॥

मधुपानेन मुदितां पूर्णमाननिरीक्षणाम् ॥
शुभ्रांशुवदनां नीपपुष्पगुम्फितवेणिकाम् ॥ ६०९ ॥

वीणालसत्करां रक्तवस्त्रां बिम्बाधरा शुभाम् ॥
कस्तूरीतिलकां चन्द्रमुकुटामुन्नतस्तनीम् ॥ ६१० ॥

शङ्खपत्रश्रुतिं मध्यां नम्रां संएचकच्छविम् ॥
वलयाङ्गदहारादिमञ्जीररशनान्विताम् ॥ ६११ ॥

हास्यैर्भक्तांस्तोषयन्तीं पार्श्वसंस्थालकांशुकाम् ॥
पूर्वोक्ते च शुभे पीठे यन्त्रमेतत्प्रकल्पयेत् ॥ ६१२ ॥

त्रिकोणं पञ्चकोणं वाप्यष्टपत्रं कलाछदम् ॥
अष्टपत्रं वेदतलं चतुरस्रं मनोहरम् ॥ ६१३ ॥

चतुर्द्वारसमायुक्तं सर्वदृष्टिमनोहरम् ॥
अत्रावाहाह्य यजेद्देवीं मन्त्री शृङ्गारवेषतः ॥ ६१४ ॥

मूलेन मूर्तिं सङ्कल्प्य कृत्वार्घ्यस्थापनादिकम् ॥
माताङ्गीपीठमभ्यर्च्य कृत्वा मूलप्रकल्पनम् ॥ ६१५ ॥

ततः पुष्पो पचारान्ते लयाङ्गं सम्यगर्चयेत् ॥
त्रिकोणेभ्यन्तरे प्राग्वत्षडङ्गानि प्रपूजयेत् ॥ ६१६ ॥

मातङ्ग्याद्याश्चतुष्पत्रे चतुरस्रे त्रिकोणतः ॥
गणेशादिचतुष्कं च चतुर्द्वारेषु चार्चयेत् ॥ ६१७ ॥

सरस्वत्यादिकन्यासप्रोक्तांश्चाग्रे दिगीश्वरान् ॥
तदस्त्राणि च तद्बाह्ये न्यासपूर्वं जपेन्मनुम् ॥ ६१८ ॥

पुनरभ्यर्च्याङ्ग षट्कं सुमिष्टान्नैश्च खाद्यकैः ॥
सदुग्धैश्च निवेद्याथ देवीं नत्वा ततो बलिम् ॥ ६१९ ॥

दद्याद्भक्तेन मन्त्रज्ञस्तेनेष्टं लभतेचिरात् ॥
नमो भगवतीत्युक्त्वा मातङ्गेश्वरि तत्परम् ॥ ६२० ॥

इमं बलिं गृह्णयुग्मं स्वाहान्तः सिद्धवर्णकः ॥
ततो देव्या उत्तरतो वायव्यादिसकोणके ॥ ५२१ ॥

पङ्क्तिक्रमेण ऐं ह्रीं क्लीं गुरुभ्यो नम उच्चरेत् ॥
परमेष्ठिगुरुभ्यश्च परमाचार्यगुरुभ्यः ॥ ६२२ ॥

आदिसिद्धगुरुभ्यः सद्गुरुभ्यो नम उच्चरेत् ॥
सर्वत्र पञ्चस्थानेषु गुरून्सम्पूजयेदिति ॥ ६२३ ॥

पूर्वमेव जपेल्लक्षं पुरश्चरणसिद्धये ॥
पलाशपुष्पैस्त्रिस्वादुयुक्तैरन्तेऽयुतं हुनेत् ॥ ६२४ ॥

तर्पणं मार्जनं कुर्याद्भोजयेद्भूसुरानपि ॥
कुमारीर्भोजयेच्चापि वशयेत्क्षोभयेज्जयत् ॥ ६२५ ॥

मातङ्यनुग्रहीभूय सर्वकर्माणि साधयेत् ॥
कुण्डे वा स्थण्डिले वापि विधेयं काम्यकर्मकम् ॥ ६२६ ॥

रक्तवस्त्रपरीताङ्गो रक्तमाल्यानुलेपनः ॥
घृताक्तगुग्गुलोर्होमाद्राज्ञश्च वशयेत्सुधीः ॥ ६२७ ॥

मल्लिकाजातिपुन्नागैर्जुहुयाद्भाग्यवान्भवेत् ॥
राज्यार्थी बिल्वपत्रैश्च हुनेत्पद्मैर्विशेषतः ॥ ६२८ ॥

श्रीकामः श्वेतपद्मैश्च रक्तैर्वा जुहुयात्पुनः ॥
उत्पलैर्धनकामस्तु लक्ष्मीपुष्पैश्च 46 होमयेत् ॥ ६२९ ॥

बन्धुकैश्चैव 47 वागर्थी किंशुकैर्बकुलैर्हुनेत् 48
आकर्षणे तु लवणैस्तिलैर्मधुरसंयुतैः ॥ ६३० ॥

वञ्जुलैर्वृष्टिमाप्नोति गुडूचीभिर्हरेज्ज्वरम् ॥
अन्नार्थी जुहुयादन्नैर्धान्यार्थी शालितण्डुलैः ॥ ६३१ ॥

गन्धद्रव्येण होमस्तु सर्वसौभाग्यदायकः ॥
कुङ्कुमैरोचनाभिर्वा 49 होमो वश्यार्थिनो मतः ॥
नन्द्यावर्त्तप्रसूनैश्च वागर्थी जुहुयादथ ॥ ६३२ ॥

पलाशपुष्पैस्तेजोर्थी कपिलाज्येन वा हुनेत् ॥
शत्रोरुन्मादकृद्धोम उन्मत्तकुसुमैरपि ॥ ६३३ ॥

विषमेघाह्वनिम्बाक्षश्लेष्मान्तकविभीतकैः 50 उलूककाकगृद्ध्रोत्थपक्षैस्तैलपरिप्लुतैः ॥ ६३४ ॥

त्र्यस्रकुण्डे च शर्वर्यां 51 रिपुनाशाय होमयेत् ॥
पायसैर्गुडसम्मिश्रैः खण्डैरिक्षुदलैस्तथा ॥ ६३५ ॥

उन्मादनाशनो होमः पायसैर्वा घृतप्लुतैः ॥
मरिचं तिलतै लाक्तं काशश्वासज्वरापहम् ॥ ६३६ ॥

निर्गुण्डीमूलहोमेन निगडस्य विमोचनम् ॥ ६३७ ॥

अथातः सम्प्रवक्ष्यामि जीवस्याकर्षणं परम् ॥
साध्यप्रतिकृतिः 52 कुर्याच्चतस्रो मन्त्रवित्तमः ॥ ६३८ ॥

एकां साध्यर्क्षवृक्षोत्थां 53 मधूच्छिब्देन चापराम् ॥
परां कुलालमृद्भूतां शालिपिष्टेन चापराम् ॥ ६३९ ॥

लिखेत्तासा तु हृदयेमुकं मे वशमानय ॥
साध्यनामामुकस्थाने साध्ये प्राणांश्च तत्र च ॥ ६४० ॥

संस्थाप्य तास्ततः स्पृष्ट्वा मूलमष्टोत्तरं शतम् ॥
जपेन्मूलेमुकस्थाने साध्यनाम तु योजयेत् ॥ ६४१ ॥

अमुकं पदरूपं यद्यन्त्रमन्त्रेषु दृश्यते ॥
साध्याभिधानं तद्रूपं तत्र स्थाने निवेशयेत् ॥ ६४२ ॥

कुण्डमध्ये द्व्यङ्गुलाधः पुत्तलीं दारुजां खनेत् ॥
उत्तानामथ पिष्टोत्थां स्वासनाधस्तथा खनेत् ॥ ६४३ ॥

पादन्यासस्य संस्थाने मृण्मयीं भुवि पूरयेत् ॥
लवणेन सहैतास्तु तिस्रः पूर्यास्ततः परम् ॥ ६४४ ॥

ततो मधूच्छिष्टमयीमूर्ध्वपादामधोमुखीम् ॥ ६४५ ॥

अर्कतूलकदोरेण 54 बद्धपादां प्रलम्बयेत् ॥
कुण्डोपरि च धूमेन तथा सा व्याकुला भवेत् ॥ ६४६ ॥

ततस्तु लवणं ग्राह्यं कुडवैकं 55 घृतं मधु ॥
गुडं च पेषयेल्लक्षं पुत्तलीन्तेन कारयेत् ॥ ६४७ ॥

स्पष्टाङ्गीं साध्यरूपेण तुल्यां श्लक्ष्णां मनोहराम् ॥ ६४८ ॥

रक्तमाल्याम्बरालेपः कृतन्यासविधिः स्वयम् ॥
प्रतिमायां तु संहारभागेन न्यासमाचरेत् ॥ ६४९ ॥

नामप्रतिष्ठितप्राणा साध्यानां सप्तधाभजेत् 56
दक्षोरुमूलात्पादान्तः प्रथमो भाग ईरितः ॥ ६५० ॥

बस्तितः कण्ठपर्यन्तो दक्षभागो द्वितीयकः ॥
भुजो दक्षस्तृतीयः स्याच्चतुर्थो मस्तकम्मतम् ॥ ६५१ ॥

भुजो वामः पञ्चमः स्यात्षष्ठो वामोदरादिकम् ॥
स्यात्सप्तमस्तथोर्वादिपादान्तः सव्यदेहतः ॥ ६५२ ॥

स्त्रीणां विभाग उद्दिष्टः कृच्छ्रसाध्योथ वक्ष्यते ॥
गुल्फद्वयं तथा जानुद्वयं जङ्घाद्वयं तथा ॥ ६५३ ॥

मध्यद्वयं च भुजयोर्द्वयं मौलिं तथा भजेत् ॥
शरीरमेकादशधा ह्यसाध्यस्याथ वक्ष्यते ॥ ६५४ ॥

प्राकृतानां तु सप्तानां चैकैकस्य तु सप्तधा ॥
एकैकं जुहुयाद्भागं स्मरञ्छत्रुं निशामुखे ॥ ६५५ ॥

दक्षपादाच्च पुरुषान्वामपादात्तथा स्त्रियः ॥
एवं सप्ताहतो नार्यः सङ्क्षुब्धा मदनातुराः ॥ ६५६ ॥

स्विद्यदङ्ग्यो वेपमानाःसाधकं तुष्टमानसम् ॥
त्राहित्राहि क्षमस्वेति पश्य माम्मा परित्यज्य ॥ ६५७ ॥

एवं सर्वा व्याहरन्त्यः करुणायुक्तमानसाः ॥
पतन्ति साधकस्याग्रे मदनानलपीडिताः ॥
तिष्ठन्ति दासवच्चास्य मन्त्रिणो योषितः सदा ॥ ६५८ ॥

लवणन्तिलतैलाक्तं होमयेच्छत्रुनाशनम् ॥
हरिद्राचूर्णसंयुक्तं लवणं स्तम्भने मतम् ॥ ६५९ ॥

मातङ्गी प्रीयते नित्यम्भौमवारे प्रपूजयेत् ॥
कन्यामेकां तथा तिस्रः पञ्च सप्ताथ वा पुनः ॥ ६६० ॥

स्वादुभिर्भक्ष्यभोज्यैश्च स्वादपानैर्मनोहरैः ॥
अर्चनीयाश्च मन्त्रज्ञैः कन्यकाश्चैव सर्वदा ॥ ६६१ ॥

सर्वा नार्यो भावनीयाः श्यामा एवात्र मन्त्रिणा ॥
भौमवारे तथा पिष्टमयान्दीपांश्च कल्पयेत् ॥ ६६२ ॥

प्रज्वालयेद्घृतेनैतान्मातङ्गीप्रीतये बुधः ॥
मातङ्गीप्रीतये मन्त्री योगिन्यष्टकमायजेत् ॥ ६६३ ॥

दिव्यां च महतीं सिद्धां गणेशीं प्रेतखादिनीम् ॥
डाकिनीं कालिकां कालरात्रिञ्चेशानगोचराम् ॥ ६६४ ॥

निशाचरीं चोर्ध्वकेशीं शुष्काङ्गीं भोजिनीं तथा ॥
वीरभद्रां विरूपाक्षीं धूम्रां प्राच्याञ्जटाधराम् ॥ ६६५ ॥

कलहां घोररक्ताक्षीं विश्वरूपां भयङ्करीम् ॥
प्रियां च राक्षसीं वीरकुमारीं वह्निकोणगाम् ॥ ६६६ ॥

मुण्डरारी रुद्रकार्यां भीषणां च भयातुराम् ॥
त्रिपुरान्ता क्रोधिनीं च दुर्मदां ध्वंसिनीं यमे ॥ ६६७ ॥

दीर्घां लम्बोष्ठिकां हंसीं तापिनीं मन्त्रयोगिनीम् ॥
आदित्यां चापि खट्वाङ्गीं कालाग्निमिति नैर्-ऋते ॥ ६६८ ॥

ग्राहिणीं चक्रिणीं पश्चात्कङ्कालीं भुवनेश्वरीम् ॥
हङ्कालीं यमदूतीं च कौमारीं च कपालिनीम् ॥ ६६९ ॥

केशिनीं मदिराद्यां च चारिणीं लोमजङ्घिकाम् ॥
नामकीं कामुकीं वायौ लोमकाधोमुखीं तथा ॥ ६७० ॥

व्याघ्रजटीं सर्पजटीं कुण्डामरिविनाशिनीम् ॥
घोरोग्ररूपविकटां चोदग्दिशि कपालिनीम् ॥ ६७१ ॥

लक्षाधि प्रजपेन्मन्त्रं क्षोभयेत्सर्वयोषितः ॥
पृथ्वीश्वरांस्तदर्धेन वशयेन्नात्र संशयः ॥ ६७२ ॥

तदर्धेन च सत्त्वानि वशगानि भवन्ति हि ॥
दूरस्था योषितः सर्वा आयान्त्ययुतजापतः ॥ ६७३ ॥

स्वदेशीयास्तदर्धेन समायान्त्येव निश्चितम् ॥
सहस्रत्रितयात्सर्ववाञ्छिताप्तिर्भवेद्ध्रुवम् ॥ ६७४ ॥

अथातः सम्प्रवक्ष्यामि मन्त्रभेदम्महाफलम् ॥
अष्टाशीत्यक्षरे मन्त्रे सर्वसत्त्ववशङ्करि ॥ ६७५ ॥

एतस्याग्रे वदेत्सौश्च राजलक्ष्मीप्रदे तथा ॥
सप्ताक्षराणीति पुनः सर्वलोकादिकं वदेत् ॥ ६७३ ॥

पञ्चोनशतसङ्ख्याकवर्णोयं मन्त्र ईरितः ॥
क्रव्यादिकम्पूर्वमुक्तं षड्बीजैश्च षडङ्गकम् ॥ ६७७ ॥

ध्यानपूजादिकं सर्वमष्टाशीतिमनोर्मतम् ॥ ६७८ ॥

प्रयोगाश्च त एवात्र पुरश्चर्यादिकन्तथा ॥
अथान्यत्सम्प्रवक्ष्यामि चतुःपञ्चाशदक्षरम् ॥ ६७९ ॥

ॐ ह्रीं नमश्च पद्मे श्रीं राजिते राजपूजिते ॥
जये विजये गौर्येवं गान्धारीति पदं वदेत् ॥ ६८० ॥

त्रिभुवनवशङ्करि सर्वस्त्रीपुरुषेति च ॥
वशङ्करि सुखदुघे घेङ्घें वा वाग्निगेहिनी ॥ ६८१ ॥

अजो मुनिस्तथा छन्दो निवृद्गायत्रमीरितम् ॥
देवता राजमातङ्गी षडङ्गानि तु मायया ॥ ६८२ ॥

सर्वमेवात्र पूर्वोक्तं ध्यानपूजादिकन्तथा ॥
अथास्य प्रोच्यते भेद एकषष्टिकवर्णकः ॥ ६८३ ॥

त्रिभुवनवशङ्करि एतदन्ते वदेत्पुनः ॥
भवेत्प्रणवहीनोयम्मन्त्रः सर्वत्र पूर्ववत् ॥ ६८४ ॥

किञ्चिद्वर्णविभेदेनायं प्रोक्तः पार्वतीमनुः ॥
सतारोयं समाख्यातो विजयस्य पदं वदे ॥ ६८५ ॥

गौरिगान्धारीति पुनः प्राग्वदेव समापयेत् ॥
एकषष्ट्यक्षरो मन्त्रो निवृच्छन्दो ह्यजो मुनिः ॥ ६८६ ॥

गौरी देवी षडङ्गानि शक्राशेभेभदिग्भवैः 57
मन्त्राक्षरैः षडङ्गानि ध्यानमस्या निरूप्यते ॥ ६८७ ॥

पाशाङ्कुशकरां रत्नयुक्ताभरणवेणिकाम् ॥
बन्धूकाभां त्रिनयनां स्वर्णलेखां भजाम्यहम् ॥ ६८८ ॥

प्राग्वत्षडङ्गं पीठे तु भुवनेश्या यजेदिमान् ॥
आदावङ्गानि षट्कोणे ब्राह्म्याद्यास्त्वष्टपत्रके ॥ ६८९ ॥

आशाधिपांस्तदस्त्राणि भूपुरादौ समर्चयेत् ॥
अयुतं प्रजपेन्मन्त्रं जुहुयात्पायसैर्घृतैः ॥ ६९० ॥

तर्पणा ततः कुर्यादेवं सिद्धो भवेन्मनुः ॥
प्रयोगांश्चान्नपूर्णाया मातङ्ग्या वा समाचरेत् ॥ ६९१ ॥

अथातः सम्प्रवक्ष्यामि वश्यमातङ्गिकामनुम् ॥
ॐ राजमुखी राजाभिमुखी वश्यमुखीति च ॥ ६९२ ॥

मायां ह्रीं 58 क्लीं देवदेवि महादेवि ततो वदेत् ॥
देवाधिदेवि सर्वेति जनस्य मुखमुच्चरेत् ॥ ६९३ ॥

मम वश्यं कुरुद्वन्द्वं स्वाहान्तोगकृतार्णकः ॥
दिक्सप्तक्रतुवैदेषुमैत्रार्णैरङ्गकल्पनम् ॥ ६९४ ॥

विज्ञेयं राजमतङ्गीतुल्यं पूजाजपादिकम् ॥
प्रयोगांश्चापि जानियाद्विशेषाद्वश्यकृत्त्वयम् ॥ ६९५ ॥

माया नमो हिलिहिलि चण्डमातङ्गिनीति च ॥
स्वाहेति तिथिवर्णोस्य न्यासपूजादिकं भवेत् ॥ ६९६ ॥

राजमातङ्गिकातुल्यं जपश्चायुतसङ्ख्यया ॥
घृत पायसहोमश्च प्रयोगाद्यं च पूर्ववत् ॥ ६९७ ॥

अथातः सम्प्रवक्ष्यामि कर्णमातङ्गिकामनुम् ॥
वाग्भवं हृदयं चाथ श्रीमातङ्गीपदं वेदेत् ॥ ६९८ ॥

अमोघे सत्यवादिनि मम कर्णे पदं ततः ॥
अवतारपदं द्वेधा सत्यं कथय युग्मकम् ॥ ६९९ ॥

एह्येहि श्रीश्च मातङ्ग्यै नमस्त्र्यब्ध्यर्णको मनुः ॥
अङ्गानि वाग्भवेनात्र पूजाद्यं च कृताकृतम् ॥ ७०० ॥

लक्षं जपः पायसाज्यैर्होमः सिद्धोभवेन्मनुः ॥
कर्णे तु कथयेद्देवी पृच्छकस्य शुभाशुभम् ॥ ७०१ ॥

अथातः सम्प्रवक्ष्यामि सर्वमन्त्रोत्तमोत्तमम् ॥
ऐंह्रींश्रीम्मां समुच्चार्य ह्रीङ्क्र्ॐक्लीं चरमां वदेत् ॥ ७०२ ॥

श्रीमातङ्गेश्वरि सर्ववशङ्कर्यग्निगेहिनि ॥
त्रयोविंशाक्षरो मन्त्रः सर्वकार्यप्रसाधकः ॥ ७०३ ॥

निवृद्गायत्रिका छन्दो दक्षिणामूर्तिको मुनिः ॥
कर्णमातङ्गिका चास्य देवता परिकीर्तिता ॥ ७०४ ॥

ऐंह्रींश्रीम् आं समुच्चार्य ह्रीङ्क्र्ॐबीजैस्तथा भवेत् ॥
द्विरुक्तैश्च षडङ्गस्य विधिः पूजाजपादिकम् ॥ ७०५ ॥

लक्षत्रयं जपेन्मन्त्रं मधुरत्रयलोलितैः ॥
बन्धूकपुष्पैर्होमः स्यात्सितया पायसेन च ॥ ७०६ ॥

हुनेत्कदल्याश्च फलैर्मन्त्रसिद्धिः प्रजायते ॥
समस्तमन्त्रदानादौ सिद्धः स्यात्साधकोत्तमः ॥ ७०७ ॥

अथान्यत्सम्प्रवक्ष्यामि मातङ्गीमन्त्रमुत्तमम् ॥
कामिनी रञ्जिनी स्वाहाष्टाक्षरोयमुदीरितः ॥ ७०८ ॥

ऋषिस्सम्मोहनश्छन्दो निवृत्प्रोक्तास्य देवता ॥
सर्वसम्मोहनी चाङ्गं द्विरावृत्तिपदैर्भवेत् ॥ ७०९ ॥

श्यामाङ्गी वल्लकीं दोर्भ्यां वादयन्तीं सुभूषणाम् ॥
चन्द्रावतंसां विविधैर्गायनैर्विश्वमोहिनीम् ॥ ७१० ॥

पूजामातङ्गिनीपीठे रत्याद्यास्तु त्रिकोणके ॥
पञ्चावरणतः पूज्याः केशरेष्वङ्गपूजनम् ॥ ७११ ॥

अनङ्गकुसुमाद्यास्तु पत्रेष्वग्रेषु मातरः ॥
लोकपालैश्च वज्राद्यैस्सप्तावृत्तिरियं मता ॥ ७१२ ॥

प्रजपेदयुतद्वन्द्वं दशांशं जुहुयात्ततः ॥
मधूकजैस्त्रिमध्वक्तैः सर्वं सम्मोहयेज्जगत् ॥ ७१३ ॥

अथोच्छिष्टां प्रवक्ष्यामि मातङ्गीं गोजवर्णिकाम् ॥ ७१४ ॥

नम उच्छिष्टचाण्डालि मातङ्गीति पदम् ॥
सर्ववशङ्करि स्वाहा मन्त्रोयं मोहयेज्जगत् ॥ ७१५ ॥

छन्दो निवृच्च गायत्री मुनी नारदतुम्बुरू ॥
देवता चात्र मागङ्गी चोच्छिष्टा गोब्जवर्णिका ॥ ७१६ ॥

नेत्ररामकृशानुत्रिरसनेत्रमितैः क्रमात् ॥
अङ्गानि स्युर्मन्त्रवर्णैस्ततो धायेद्धृदम्बुजे ॥ ७१७ ॥

कृष्णाम्बरां यावकार्द्रचरणामुन्नतस्तनीम् ॥
मुक्ताप्रवालमालाढ्या शङ्खकुण्डलधारिणीम् ॥ ७१८ ॥

त्र्यस्रे रत्यादिकाः पूज्याः कर्णिकायान्तु तद्बहिः ॥
पञ्चबाणास्तथाङ्गानि ब्राह्म्याद्याश्चाष्टपत्रके ॥ ७१९ ॥

द्वितीयेष्टदले पूज्या अनङ्गकुसुमादिकाः ॥
चतुरस्रे लोकपालास्तदस्त्राणि ततो बहिः ॥ ७२० ॥

अथास्य भेदा वक्ष्यन्ते क्लींह्रींश्रीम्पूर्वकं जपेत् ॥
क्लीं पूर्वं वा जपेन्मन्त्रावेतयोर्मदनो मुनिः ॥ ७२१ ॥

पूजाजपादिकं प्राग्वद्भेदांश्चास्यापराञ्च्छृणु ॥ ७२२ ॥

आं क्लीं ह्रीमादिकं मन्त्रं क्लीं ह्रीमैम्मन्तकं जपेत् ॥
वाग्मित्वं च कवित्वं च गानशक्तिं करोति च ॥ ७२३ ॥

मुनिः स्याद्दक्षिणामूर्तिरन्यत्सर्वं पुरोक्तवत् ॥
आंह्रीङ्क्र्ॐभिर्द्विरावृत्त्या षडङ्गानि समाचरेत् ॥ ७२४ ॥

अंसे तु वेशीकुसुमां मुक्ताभूषोन्नतस्तनिम् ॥
चूलिकां नीलचूडां च वादयन्तीं च वल्लकीम् ॥ ७२५ ॥

माध्वीमत्तां मधुवशां श्यामलाङ्गीं सुकोमलाम् ॥
त्रिकोणं पञ्चकोणञ्च बहिरष्टदलद्वयम् ॥ ७२६ ॥

षोडशारं चाष्टदलं भूपुरत्रितयं लिखेत् ॥
पूज्यबीजं तथा नाम वदेदुच्छिष्टपादुकाम् ॥ ७२७ ॥

पूजयामीति चोच्चार्य देवतापूजनं मतम् ॥
त्रिकोणेषु च रत्याद्याः कोणान्ते तु त्रिशक्तयः ॥ ७२८ ॥

इच्छाज्ञानक्रियाख्याश्च पूज्याश्चाङ्गानि बाह्यतः ॥
द्राविण्याद्याः पञ्चकोणे सम्पूज्याः कामशक्तयः ॥ ७२९ ॥

तद्बाह्याष्टदले पूज्याश्चाष्टदीर्घस्वरान्विताः ॥
ब्राह्म्याद्याः कन्यकानाम्न्यो द्वितीयेष्टदले तथा ॥ ७३० ॥

अनङ्गकुसुमाद्याश्च कन्याख्यास्ताः प्रपूजयेत् ॥
उर्वश्याद्याः षोडशारे कन्यकाख्याः प्रपूजयेत् ॥ ७३१ ॥

उर्वशी मेनका रम्भा घृताची मञ्जुकेशिका ॥
काश्यपी च सुकेशी मञ्जुघोषा नागकन्यका ॥ ७३२ ॥

यक्षकन्या च गन्धर्वकन्या वै सिद्धकन्यका ॥
परकायप्रवेशिन्याः कन्यकां दूरदर्शनाम् ॥ ७३३ ॥

गुटिकां सिद्धकन्यां च पादुकासिद्धकन्यकाम् ॥
ततश्चतुर्षु द्वारेषु पूजयेद्द्वारदेवताः ॥ ७३४ ॥

ततं च विततं चैव धनं च सुषिरं तथा ॥
बटुकं च गणेशं च क्षेत्रपालं च योगिनीम् ॥ ७३५ ॥

उच्छिष्टशब्दपुरतः पादुकां पूजयाम्यथ ॥
स्वनामाद्यक्षरं बीजं कृत्वाग्नेयादिके यजेत् ॥ ७३६ ॥

पुनः सर्वोपचारैश्च मध्ये भगवतीं यजेत् ॥
स्वराः सर्वे श्रुतियुता वामभागे ततः परम् ॥ ७३७ ॥

रतिश्च रागिणीयुक्ता पूज्या पार्श्वे च दक्षिणे ॥
अभ्यर्चेत्परमेश्वर्याः पाश्वर्योः शुकसारिके ॥ ७३८ ॥

पुरतो गुरुपङ्क्तिं च स्वगुरुं पूजयेत्ततः ॥
बीजत्रयन्तु बालायाः साधकस्य शुभं भवेत् ॥ ७३९ ॥

यत्किञ्चिद्वाथ वामायाः कामो वाग्वा रमापि वा ॥
मनोरुच्छिष्टमातङ्ग्या दत्त्वादौ पूजयेन्मनुम् ॥ ७४० ॥

तेनानेके मन्त्रभेदाः पूजाद्यं च यथेच्छया ॥
गौरवाल्लाघवाद्वापि कर्तव्यन्तु यथोचितम् ॥ ७४१ ॥

शुचिः स्रग्वी सुवस्त्रश्च जपेल्लक्षमतन्द्रितः ॥
उच्छिष्टभक्तेन बलिं निशि नित्यं निवेदयेत् ॥ ७४२ ॥

नित्यं जपं च काम्यं च उच्छिष्टेनैव चाचरेत् ॥
पलाशकुसुमैः स्वादुयुक्तैर्होमं तथात्र तु ॥ ७४३ ॥

एतावता न सिद्धिश्चेद्वर्णलक्षं जपेन्मनुम् ॥
कुमारी पूजनं प्रोक्तं कुर्यात्तदपि साधकः ॥ ७४४ ॥

योगिन्यष्टाष्टकस्यापि पूजाकार्यात्र मन्त्रिणा ॥
उच्छिष्टभक्तशेषेण रात्रौ तस्यै बलिं हरेत् ॥ ७४५ ॥

पूर्वोदितेन मनुना मन्त्रोयं तेन सिध्यति ॥
जपेच्चतुर्दशावृत्तिं पूजनानन्तरं मनुम् भूपतीनां पूजनीया नारीणां च विशेषतः ॥ ७४६ ॥

अष्टोत्तरसहस्रेण ताम्बूलं मनुनामुना ॥
जपितं भक्षयेद्या स्त्री याचितानङ्गभोगिका ॥ ७४७ ॥

मन्त्रिणश्च वशे तिष्ठेद्यावदायुर्न संशयः ॥
सहदेवी तथा दूर्वा मुसली मधुयष्टिका ॥ ७४८ ॥

भद्रा च विष्णुदयिता लक्ष्मीवल्लीन्द्रवल्यपि ॥
अञ्जलिन्यपि सम्प्रोक्ता पृथगेताः स्पृशञ्जपेत् ॥ ७४९ ॥

अष्टोत्तरशतं मन्त्री ततस्तन्मूर्ध्नि धारयेत् ॥
नरो नारी नृपो वाथ धत्ते हर्षसमूहकम् ॥ ७५० ॥

इन्द्राग्निविष्णुयुग्माङ्कमन्वष्टवसुदिग्गताः ॥
पृथग्जप्ताः शतशतमेताः संयोज्य पेषयेत् ॥ ७५१ ॥

शुष्कास्तु गुटिका मन्त्रजप्ताश्चाथ सहस्रशः ॥
ललाटे च धृताः सम्यक्सर्वस्त्रीजनरञ्जिकाः ॥ ७५२ ॥

भवन्ति सर्वलोकस्य दक्षारञ्जनकर्मणि ॥ ७५३ ॥

कुर्याच्च गुटिकां रेणुसम्मितां मन्त्रवित्तमः ॥
तूलवर्त्त्या च कृष्णाज्ययुक्तया कज्जलं धृतम् ॥ ७५४ ॥

सहस्रमनुना जप्तं मन्त्रितं नेत्रयोः शुभम् ॥
प्रत्यहं च जगद्वश्यं नारीसङ्क्षोभकारकम् ॥ ७५५ ॥

प्रेतग्रहगणादींश्च नाशयेदचिरादपि ॥
पूर्वोक्तैर्दशभिर्द्रव्यैः पञ्चगव्यैश्च कापिलैः ॥ ७५६ ॥

युक्तं च भसितं जप्तं सहस्रं मनुनामुना ॥
घृतं ललाटे भुवनं वशयेच्चैव नान्यथा ॥ ७५७ ॥

क्षौमे पटे प्रविन्यस्य वर्तिकारचिताशुभा ॥
विष्ण्वाह्वाकुमुदश्यामपद्मरेणुसुगर्भिता ॥ ७५८ ॥

कृष्णगोसर्पिषादीप्ता तदुत्पन्ना च या मषी ॥
मातङ्गीमनुना जप्ता नेत्राक्ता रञ्जनी नृणाम् ॥ ७५९ ॥

तद्वन्नमस्कारिणी सङ्गदिता नात्र संशयः ॥
सविष्णुदयितालक्ष्मीर्भृङ्गराजोद्भवं रजः ॥ ७६० ॥

एतद्भावितवर्तिः सा कपिलाज्यप्रदीपिता ॥
तज्जातापि मषीपूर्वं फलदा नात्र संशयः ॥ ७६१ ॥

कर्पूरं चन्दनं पद्मयुगं बकुलरोचने ॥
त्रैलोक्यं वशयत्येषामषी तत्सम्भवा भृशम् ॥ ७६२ ॥

विजयं चेन्द्रियाणां च फलङ्क्रमुकसम्भवम् ॥
मूलैर्निर्वास्य नीरैश्च तन्तुभिर्वेष्टयेत्फलम् ॥ ७६३ ॥

भुवः सूनोर्दिने भूमौ स्थापयेत्तत्फलं ततः ॥
आभौमवारसञ्जप्तं कर्पूरं तत्फलं ततः ॥ ७६४ ॥

पिष्ट्वा चैवाम्बुना जप्त्वा गुटिकाः कारयेद्बुधः ॥
ससूरकमिता एताः खादिता वश्यदाः परम् ॥ ७६५ ॥

हेमपञ्चाङ्गकं चात्ममलपञ्चकसंयुतम् ॥
सहस्रवारसञ्जप्तं भक्षयेत्पानकेषु च ॥
यस्मै दत्तं नरेशाय स वश्यो नात्र संशयः ॥ ७६६ ॥

पूर्वमन्त्रोदितान्सर्वान्प्रयोगान्मन्त्रवांश्चरेत् ॥
अथातः सम्प्रवक्ष्यामि द्वात्रिंशद्वर्णकं मनुम् ॥ ७६७ ॥

तारो 59 माया वाग्रमा च नमो भगवतीति च ॥
उच्छिष्टचाण्डालि पदं श्रीमातङ्गि तथेश्वरि ॥ ७६८ ॥

सर्वजनवशङ्करि स्वाहान्तोयं मनुः स्मृतः ॥
मातङ्गो मुनिरस्योक्तोनुष्टुप्च्छन्दश्च देवता ॥ ७६९ ॥

मातङ्ग्याः स्यादङ्गषट्कं मन्त्रार्णैर्वेदषड्रसैः 60
षडष्टबाहुभिश्चेति ध्यायेच्छ्यामां सुलोचनाम् ॥ ७७० ॥
शुकोदितं च शृण्वन्तीं रत्नपीठोपरि स्थिताम् ॥
रक्ताम्बरां सुरापानमत्तां पद्मस्थसत्पदाम् ॥
वल्लकीं वादयन्तीं तां मातङ्गीं हृदि भावयेत् ॥ ७७१ ॥

जपोयुतसहस्रन्तु होमः पुष्पैर्मधूकजैः ॥
मध्वक्तैश्च यजेत्पीठे वक्ष्यमाणविधानतः ॥ ७७२ ॥

त्रिकोणाष्टदलद्वन्द्वं कलारं चतुरस्रकम् ॥
पीठं कृत्वा यजेत्तस्मिन्पीठशक्तीर्नवेष्टदाः ॥ ७७३ ॥

विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिश्च सन्नतिः ॥
व्यूढिरुत्कृष्टिर्-ऋद्धिश्च मातङ्ग्यन्ता इमाः स्मृताः ॥ ७७४ ॥

सर्वशक्तिकमन्त्रान्ते 61 चासनाय हृदन्तकः ॥
तारमायावाग्रमाद्यः पीठमन्त्रः कलार्णकः ॥ ७७५ ॥

विष्टरासनमेतेन पाद्यादीनि प्रकल्पयेत् ॥
मूलेन पीठपूजान्ते कुर्यादावरणार्चनम् ॥ ७७६ ॥

त्रिकोणेष्वर्चयेत्तिस्रो रतिप्रीतिमनोभवाः ॥
केशरेषु षडङ्गानि मातॄश्च दलमध्यगाः ॥ ७७७ ॥

द्वितीयेष्टदले पूज्या असिताङ्गादिभैरवाः ॥
षोडशारे तु वामाख्या ज्येष्ठा रौद्री प्रशान्तिका ॥ ७७८ ॥

श्रद्धा माहेश्वरी चापि क्रियाशक्तिश्च सप्तमी ॥
सुलक्ष्मीः सृष्टिमोहिन्यौ प्रथमाचारिणी तथा ॥ ७७९ ॥

विद्युल्लता च चिच्छक्तिः सुरापा नन्दया सह ॥
नन्दबुद्धिः षोडशी तु पूजनीयाः प्रयत्नतः ॥ ७८० ॥

चतुरस्रचतुर्दिक्षु मातङ्गी सा महादिका ॥
लक्ष्मीस्तथा महालक्ष्मीः पुनर्वह्न्यादिकोणतः ॥ ७८१ ॥

ध्रुवादिकं यजेदादौ मातङ्गीं परमं ततः ॥
सर्वावरणशक्तीनां ङेन्तं नाम हृदन्तकम् ॥ ७८२ ॥

विघ्नेशदुर्गाबटुकक्षेत्रेशादिक्सुरास्तथा ॥
वज्राद्याः पूजनीयास्स्युरित्थं सिद्धिर्मनोर्भवेत् ॥ ७८३ ॥

रम्भादण्डैः शुभैर्होमाद्भोगो राज्यन्तु बिल्वकैः ॥
पत्रैः फलैर्वा वश्या स्याज्जनता ब्रह्मवृक्षजैः ॥ ७८४ ॥

रोगनाशोऽमृताखण्डैर्निम्बैः श्रीस्तण्डुलैरपि ॥
अवृष्टिं लवणैर्विद्यात्तगरैर्वेतसैर्जलम् ॥ ७८५ ॥

लवणैर्निम्बतैलाक्तैः शत्रुनाशोधिकाशनम् ॥
निशाचूर्णयुतैः काशैर्होमात्स्यात्स्तम्भनं द्विषाम् ॥ ७८६ ॥

रक्तचन्दनकर्पूरमांसीकुङ्कुमरोचनाः ॥
चन्दनागुरुकर्पूरं गन्धाष्टकमुदीरितम् ॥ ७८७ ॥

एतद्धोमाज्जगद्वश्यं जायते मन्त्रिणो ध्रुवम् ॥
एतत्पिष्ट्वायुतं जप्त्वा तिलकेन जगत्प्रियः ॥ ७८८ ॥

कदलीफलहोमेन सर्वेष्टं समवाप्नुयात् ॥
किं बहुक्तेन मातङ्गी पूजिता कामदा नृणाम् ॥ ७८९ ॥

मध्वष्टलोलरचितां पुत्तलीं दक्षिणार्धतः ॥
हूयादष्टोत्तरशतं खादिराग्नौ नरो निशि ॥ ७९० ॥

शालिपिष्टमयीं तां तु भक्षयेत्स्त्री वशीकृते ॥
कृष्णभूतनिशि ध्वाङ्क्षोदरे क्षिप्त्वा शुभप्रभाम् ॥ ७९१ ॥

नीलसूत्रेण संवेष्ट्य चिताग्नौ प्रजपेदमुम् ॥
सहस्रजप्तं तद्वह्निं यस्मै दद्यात्स दासवत् ॥ ७९२ ॥

एवं गणेश्वराः प्रोक्ताः पश्चिमाम्नायसंस्थिताः ॥
मुनिदेव्यादिसेव्यानां काश्यां सङ्ख्या न विद्यते ॥ ७९३ ॥

प्रणवादिचतुर्थ्यन्तैर्नमसापि समन्वितैः ॥
स्वबीजाख्यैर्वर्णलक्षजपस्तेषामुदाहृतः ॥ ७९४ ॥

इक्षुखण्डैस्तिलैर्वापि कमलाद्यैः प्रमोदकैः ॥
तेषां होमः प्रकर्तव्यो मधुरत्रयसंयुतैः ॥ ७९५ ॥

भवन्ति फलदास्ते तु बिन्द्वादिकविनायकाः ॥
आकर्षाद्याश्च बटुका देवतास्ताः फलप्रदाः ॥ ७९६ ॥

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते पश्चिमाम्नाय-गणपतिमन्त्रकथनम् एकोनविंशः प्रकाशः ॥ १९ ॥


  1. शत्रन्तं सप्तम्यन्तञ्चैतत् ↩︎

  2. गणेशः ↩︎

  3. प्रकुरुते । ↩︎

  4. णिज्लोप आर्षः ↩︎

  5. भिस्विभक्तिलोप आर्षः ↩︎

  6. अप्रत्यये तथैवेष्टेति वार्तिकेन परशब्दलोपेन शब्दसम्बन्धिमहिम्ना वात्र परसेनेत्यर्थः ॥ ↩︎

  7. भवेदिति शेषः ↩︎

  8. इदं पूर्वान्वयि ↩︎ ↩︎ ↩︎

  9. मयेति शेषः ↩︎

  10. स्मरन्निति शेषः ↩︎

  11. शिरसि ↩︎

  12. यन्त्रमिति शेषः ↩︎

  13. निवासः ↩︎

  14. इडभावश्छान्दसः ↩︎

  15. ध्यात्वेति शेषः ↩︎

  16. चां हृदयाय नमः चीं शिरसे स्वाहा चूं शिखायै वषट् चैं कवचाय हुम् चौं नेत्रत्रयाय वौषट् चः अस्त्राय फट् ↩︎

  17. ॐ विधुश्रेष्ठे विपद्गते मानं पूरय कर्णताटङ्कं देहिदेहि थं श्रीं स्वाहा ↩︎

  18. अस्य श्रीबालामन्त्रस्य दक्षिणामूर्तिर्-ऋषिः पङ्क्तिश्छन्दः बाला देवता ऐं बीजम् सौः शक्तिः ।
    क्लीं कीलकं बालादेवताप्रीतये चेष्टसाधने विनियोगः ॥ ↩︎

  19. ऐं क्लीं सौः ऐं क्लीं सौः एभिः षड्बीजैः षडङ्गन्यासं कुर्यात् यथा ऐं हृदयाय नमः क्लीं शिरसे स्वाहा सौः शिखायै वषट् ऐं कवचाय हुं क्लीं नेत्रत्रयाय वौषट् सौः अस्त्राय फट् । ↩︎

  20. द्विजेशः के यस्या इति विग्रहः ॥ ↩︎

  21. मृगमदकाश्मीरकर्पूराणाम् ↩︎

  22. महामारीशान्तिः ↩︎

  23. मधुः ↩︎

  24. अजपललम् ।
    परन्त्विदं ब्राह्मणदिवर्ज्यम् शूद्रोऽपि विशुद्धचित्तो नैतदन्धिकारी भवितुं शक्नोति ।
    कुतः अहिंसा परमो धर्मश्चाहिंसा परमं तपः इति भाषणात् ॥ ↩︎

  25. इदमुत्तरान्वयि ↩︎

  26. बीजपूरकप्रभेदः ↩︎

  27. स्थैं ह्रीं नित्यक्लिन्ने मदद्रवे स्ह्रोम् इति मन्त्रः ॥ ↩︎

  28. चित्राक्षि चित्ररूपेण रुद्रादिप्रेतसंस्थे श्रींश्रींस्वाहा ॥ ↩︎

  29. चतुर्दशाक्षरः ॥ ↩︎

  30. ॐ नारि रम्ये कमलवासिनि त्वं नारीं मोहयमोहय क्लीं स्वाहा इति मन्त्रः ↩︎

  31. ॐ निधिप्रान्ते निधिं देहिदेहि श्रीं स्फ्रीं स्वाहा ↩︎

  32. ह्रीम् अङ्गुष्ठाभ्यां नमः क्लीं तर्जनीभ्यां नमः ऐं मध्यमाभ्यां नमः ब्रूम् अनामिकाभ्यां नमः श्रीं कनिष्ठिकाभ्यां नमः ॥
    ह्रीं क्लीम् ऐं ब्रूं श्रीं करतलकरपृष्ठाभ्यां नमः अनयैव रीत्याहृदयादिन्यासमपि कुर्यात् ↩︎

  33. एतस्योत्तरत्र सम्बन्धः ↩︎

  34. ॐ नष्टवेषे भ्रामिणि ह्रीं ह्रीं स्त्रीं स्त्रीं स्वाहा ॥
    अयं चतुर्दशाक्षरो मन्त्रः क्लीम् ऐं सौः क्लिम् ऐं सौः द्विरावृत्तैः षड्भिरेभिर्बीजैः षडङ्गन्यासः ।
    यथा क्लीं हृदयाय नमः ऐं शिरसे स्वाहा सौः शिखायै वषट् क्लीं कवचाय हुम् ऐं नेत्रत्रयाय वौषट् सौः अस्त्रायफट् ॥ ↩︎

  35. पञ्चबाणानां पञ्चकामानां च नामानि पूर्वं लिखितानि ॥ ↩︎

  36. निनादिनि गुटिकां देहिदेहि स्त्रीं स्वाहा इति मन्त्रः ↩︎

  37. श्लोकोक्तरूपिण्यादिनाम्नाम्पुरीनङ्गपदयुञ्जीत यथा अनङ्गरूपिणी ।
    अनङ्गमदना इत्यादि ↩︎

  38. इदं परान्वयि ↩︎

  39. ऐं ह्रीं श्रीं सर्वशक्तिकमलासनाय नमः इति मन्त्रः ↩︎

  40. योनिमुद्रालक्षणं बहुस्थलेष्वलेखिषम् ॥ ↩︎

  41. इक्षुकोदण्डादिलसत्करा या तां पूजयेदिति अर्थः ॥ ↩︎

  42. पूज्या इति शेषः ॥ ↩︎

  43. वराऽभयेति पा० ↩︎

  44. पदद्वयमुत्तरान्वयि ↩︎

  45. कं शिरः ↩︎

  46. क्वचिद्देशविशेषे प्राकृतवाचा छीतू?रनामास्य प्रसिद्धम् ↩︎

  47. बन्धुजीवकैः ↩︎

  48. केसरैः ↩︎

  49. काश्मीरैः ↩︎

  50. ५- वारिबाहैः ६- पिचुमन्दैः ७- दाडिमैः ८- बिभीतकैः ↩︎

  51. रात्रौ ↩︎

  52. प्रतिमाः ↩︎

  53. साध्यस्य नाम्नो यदृक्षं तद्वृक्षस्य समिधा द्वितीया प्रतिमा निर्मेया ॥ ↩︎

  54. आदित्यफलकार्पासदोरकेण ↩︎

  55. तुलायां चतुष्पलैः कुडवो भवति ↩︎

  56. भागं कुर्वीतेत्यर्थः ↩︎

  57. चतुर्दशभि दशभिः अष्टभिः अष्टभिः दशभिः एकाधिकदशभिः ↩︎

  58. श्रीम् ↩︎

  59. ॐ ह्रीम् ऐं श्रीं नमो भगवति उच्छिष्टचाण्डालि श्रीमातङ्गीश्वरि सर्वजनवशङ्करि स्वाहा ।
    इति मन्त्रः ↩︎

  60. ॐ ह्रीम् ऐं श्री हृदयाय नमः नमो भगवति शिरसे स्वाहा उच्छिष्टचाण्डालि शिखायै वषट् श्रीमातङ्गीश्वरि कवचाय हुम् सर्वजनवशङ्करि नेत्रत्रयायवौषद स्वाहा-अस्त्राय फट् ↩︎

  61. ॐ ह्रीम् ऐं श्रीं सर्वशक्तिकमलासनाय नमः ↩︎