१८ पूर्वाम्नायगणपतिमन्त्रप्रकाशः

श्रीशिव उवाच ॥

अथातः सम्प्रवक्ष्यामि पूर्वाम्नायगणेश्वरान् ॥
हृल्लेखां विरियुग्मं च गणपते वरद्वयम् ॥ १ ॥

दकारं सर्वलोकं मे वशमानय ठद्वयम् ॥
पंविंशाक्षरो मन्त्रः प्रोक्तोयं पुत्रपौत्रदः ॥ २ ॥

मुनिर्गणक आख्यातश्छन्दो गायत्रमुच्यते ॥
देवताविरिविघ्नेशो दृष्टादृष्टफलप्रदः ॥ ३ ॥

वेदवेदेषु पञ्चार्णैः शरलोचनसङ्ख्यकैः ॥
विभक्तैर्मूलमन्त्रार्णैः षडङ्गानि समाचरेत् ॥ ४ ॥

सिन्दूराभं त्रिनयनं वामोर्ध्वपाशधारिणम् ॥
दक्षोर्ध्वे चाङ्कुशं दक्षतले मध्ये कपालकम् ॥ ५ ॥

पुष्ट्या योनिं वामतलहस्तेनैव च बिभ्रतम् ॥
चन्द्रमौलिं हस्तिमुखं दक्षिणेन करेण च ॥ ६ ॥

पुष्ट्या लिङ्गितसर्वाङ्गं स्पृशन्त्या वामपाणिना ॥
लिङ्गाग्रन्तु गणेशस्य ऊर्ध्वयोः करयोर्द्वयोः ॥ ७ ॥

सन्दधानं पद्मयुग्ममेवं गणपतिं भजेत् ॥
यजेत्पीठे पुरा प्रोक्ते नवशक्तिसमन्विते ॥ ८ ॥

मूलमन्त्रेण कऌप्तायां मूर्त्तावावाह्य पूजयेत् ॥
मिथुनानि यजेदादावामोदादीन्दिगम्बरान् ॥ ९ ॥

अङ्गानि पूजयेत्पश्चान्मातॄश्चैव ततः सुवीः ॥
अर्चयेल्लोकपालाṁश्च तदस्त्राणि ततो बहिः ॥ १० ॥

षडावरणसंयुक्तं विरिविघ्नेश्वरं यजेत् ॥
अथमन्त्रान्तरं वक्ष्ये विरिविघ्नेश्वरस्य तु ॥ ११ ॥

वरद्वयं दकारञ्च तदा लोकपदं वदेत् ॥
एकोनविंशत्यर्णोयं निवृच्छन्द उदाहृतम् ॥ १२ ॥

न्यासः षट्त्रिंशदर्णोक्त एकैकं बीजपूर्वकः ॥
अथ ध्यानं प्रवक्ष्यामि ह्यूर्ध्वादूर्ध्वकरेषु तु ॥ १३ ॥

बीजपूरं गदां चापं चक्रं मालां च दक्षिणे ॥
वामे पद्मं पाशबाणान्रदं रत्नाढ्यकुम्भकम् ॥ १४ ॥

पद्मद्वयकरां पुष्टिमङ्कस्थामरुणप्रभाम् ॥
आलिङ्गयन्तमरुणं स्रवन्मदकपोलकम् ॥ १५ ॥

त्रिनेत्रं पीतवसनं दृढमुत्थापितध्वजम् ॥
किरीटिनं कुण्डलिनं ध्यायेद्देवं गजाननम् ॥ १६ ॥

अथातः सम्प्रवक्ष्यामि ब्रह्मणा समुपासितम् ॥
काश्या बाह्ये च सौम्यस्थं विरिञ्चिगणनायकम् ॥ १७ ॥

ह्रीं विरिञ्चिपदं प्रोच्य ङेन्तं गणपतिं पुनः ॥
प्राग्वद्वदेद्वरादीनि षड्विंशत्यर्णको मनुः ॥ १८ ॥

वेदपञ्चेषुपञ्चेषुद्व्यर्णैरुक्तं षडङ्गकम् ॥
ध्यानपूजादिकं प्राग्वद्विशेषादस्य साधकः ॥ १९ ॥

सङ्गान्सार्थान्सकृच्छ्रुत्वा वेदान्पठति याज्ञिकः ॥
स्वयमेव प्रजायेत कर्ता हर्ता यथाविधि ॥ २० ॥

४१९) वेदे लक्षमिता प्रोक्ता सर्वेषां तु पुरस्क्रिया ॥
मधुरत्रयसंयुक्तैः पूर्वोक्तैरष्टभिर्हुनेत् ॥ २१ ॥

एवं साधितमन्त्रस्तु प्रयोगान्कर्तुमर्हति ॥
विकचोत्पलहोमेन वशयेत्सकलं जगत् ॥ २२ ॥

तिलतण्डुलहोमेन श्रियमाप्नोत्यनिन्दिताम् ॥
मोदकानाज्यसंयुक्तान्हुत्वा विजयमाप्नुयात् ॥ २३ ॥

मधुरत्रयहोमेन राजानं वशमानयेत् ॥
अभीष्टसाधनो होमो भक्ष्यभोज्यादिकैः कृतः ॥ २४ ॥

अथ शक्तिगणेशस्य त्र्यक्षरो मन्त्र उच्यते ॥
ह्रीं ग्रीं ह्रीमितिच्छन्दोस्य विराड्भार्गव उच्यते ॥ २५ ॥

मुनिर्देवः शक्तिगणेशोस्य मन्त्रस्य कीर्तितः ॥
षड्दीर्घभाजा बीजेन षडङ्गानि प्रकल्पयेत् ॥ २६ ॥

गजेन्द्रवदनं साक्षाच्चतुर्बाहुं सुचामरम् ॥
हेमवर्णं त्रिनेत्रं च पाशाङ्कुशधरं विभुम् ॥ २७ ॥

स्वदन्तं दक्षिणे हस्ते बीजपूरञ्च वामके ॥
पुष्करे मोदकाश्चैव धारयन्तं त्वनुस्मरेत् ॥ २८ ॥

पूर्वोक्ते पूजयेत्पीठे तीव्रादिनवशक्तिके ॥
अष्टपत्राम्बुजे देवं चतुरस्रत्रयावृते ॥ २९ ॥

प्रथमाङ्गावृतिः प्रोक्ता द्वितीया मातृभिः स्मृता ॥
तृतीया लोकपालैः स्याद्वज्राद्यैश्च चतुर्थिका ॥ ३० ॥

लक्षमेकं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ॥
तद्दशांशं प्रजुहुयादपूपैर्घृतसम्प्लुतैः ॥ ३१ ॥

एवं सिद्धमनुर्मन्त्री काम्यकर्माणि साधयेत् ॥
शुक्लपक्षे चतुर्थ्यां तु पूजयित्वा विनायकम् ॥ ३२ ॥

अपूपैर्गुडसम्मिश्रैः पक्वान्नैश्च घृतप्लुतैः ॥
मरिचैर्जीरकैश्चैव सैन्धवेन विमिश्रितैः ॥ ३३ ॥

देवस्य सन्निधौ मन्त्री जुहुयात्त्रिसहस्रकम् ॥
गद्यपद्यमयी वाणी सप्ताहाद्भवति ध्रुवम् ॥ ३४ ॥

वश्यार्थी मधुहोमेन राजानं वशमानयेत् ॥
कन्यार्थी जुहुयाल्लाजैस्तन्नामायुतमन्त्रतः ॥ ३५ ॥

एकां कन्यामथो सप्त भोजयेल्लभते वधूम् ॥
चन्द्रसूर्यग्रहे प्राप्ते पलन्तु कपिलाघृतम् ॥ ३६ ॥

कर्षमात्रं वचाचूर्णं मिश्रीकृत्याभिमन्त्रयेत् ॥
पिबेत्तु नियतो भूत्वा देवताध्यानतत्परः ॥ ३७ ॥

यावज्जीवं भवेत्तावन्नाश्नीयात्किमपीह सः ॥
सप्ताहाज्जायते शीघ्रमपरो वाक्पतिर्यथा ॥ ३८ ॥

बन्ध्या तु स्नानदिवसे पूजयित्वा विनायकम् ॥
निष्कार्धपादमानेन हरिद्रां सैन्धवं वचाम् ॥ ३९ ॥

गोमूत्रे कुडवे पिष्ट्वा सहस्रमभिमन्त्रयेत् ॥
अन्नैः सुभक्ष्यभोज्यैश्च भोजयित्वा च कन्यकाः ॥ ४० ॥

गुरवे दक्षिणां दत्वा पिबेन्नारी तदौषधम् ॥
ततः सा लभते पुत्रं सर्वलक्षणसंयुतम् ॥ ४१ ॥

अथास्य भेदं वक्ष्यामि ताराद्यश्चतुरर्णकः ॥
ऋषिः शुक्रो निगदितश्छन्दो गायत्रमुच्यते ॥ ४२ ॥

देवता शक्तिगणपः सर्वसिद्धिकरः परः ॥
पूर्ववच्च षडङ्गानि ध्यानमस्य निरूप्यते ॥ ४३ ॥

हेमाभं हेमवस्त्रं च त्रिनेत्रं तुन्दिलं भुजैः ॥
पाशाक्षसूत्रदशनान्धारयन्तं तथाङ्कुशम् ॥ ४४ ॥

पुष्करेण दधानञ्च मोदकं हेमभूसणम् ॥
मध्याह्नादित्यसङ्काशं चारुशक्त्या समन्वितम् ॥४५ ॥

ततः पूर्वोदिते पीठे देवमावाह्य पूजयेत् ॥
प्रथमावृत्तिरङ्गैः स्याद्दलषट्के ततः परम् ॥ ४६ ॥

पद्मे चाष्टदले वक्रतुण्डादींश्च दलाग्रतः ॥
मातृकाः पूजयेद्बाह्ये भूपुरे लोकपालकान् ॥ ४७ ॥

आयुधानि च तद्बाह्ये प्राग्वच्छेषं समापयेत् ॥
लक्षमेकं जपेन्मन्त्रं तद्दशांशं समाहितः ॥ ४८ ॥

जुहुयाद्धृतसंयुक्तैस्तिलैर्मन्त्रविदुत्तमैः ॥
तर्पणादि ततः कुर्यादेवं सिद्धो भवेन्मनुः ॥ ४९ ॥

काम्यकर्म ततः कुर्याद्देशिको यतमानसः ॥
आज्यान्नैर्जुहुयान्नित्यमन्नवान्वत्सराद्भवेत् ॥ ५० ॥

पायसाज्येन महतीं श्रियमाप्नोति मानवः ॥
रम्भातुल्यां लभेत्कन्यामेनं यो भजते नरः ॥ ५१ ॥

अथातः सम्प्रवक्ष्यामि भेदमस्यार्कवर्णकम् ॥
ह्रीं गं ह्रीं च महेत्युकत्वा ङेन्तं गणपतिं पुनः ॥ ५२ ॥

स्वाहान्तोस्य भवेच्छन्दो गायत्रीपूर्विका निवृत् ॥
ऋषिर्गणक आख्यातो देवः शक्तिविनायकः ॥ ५३ ॥

एकेनैकेन चैकेन सप्तभिर्द्वितयेन च ॥
समस्तेन च मन्त्रार्णैरङ्गकॢप्तिरिहोदिता ॥ ५४ ॥

मुक्तावलीचन्द्रधरं व्यालनेत्रं च दक्षिणे ॥
ऊर्ध्वाधरैः पद्मसृणी दधानं वाम ऊर्ध्वके ॥ ५५ ॥

दशकुम्भं तलस्थेन प्रियायोनिं प्रसन्नयेत् ॥
नागवक्त्रं मणिमयं मुकुटं बिभ्रतं प्रभुम् ॥ ५६ ॥

एवं सञ्चिन्त्य विधिवत्साधकः सर्वसिद्धये ॥
यजेत्पूर्वोदिते पीठे विरिविघ्नेशवर्त्मना ॥ ५७ ॥

लक्षमेकं जपेन्मन्त्रमयुतं जुहुयात्ततः ॥
अपूपैर्घृतसंयुक्तैर्विधिवत्पूजितेनले ॥ ५८ ॥

तर्पणं मार्जनं कृत्वा ब्राह्मणान्भोजयेत्ततः ॥
एवं सिद्धमनुर्मन्त्री प्रयोगान्विधिवच्चरेत् ॥ ५९ ॥

इक्षुदण्डैः कृतो होमो राजलक्ष्मीं प्रयच्छति ॥
कदल्या नारिकेलैश्च होमो लोकवशङ्करः ॥ ६० ॥

सतिलैः पृथुकैर्होमो राजानं वशमानयेत् ॥
सक्तुभिश्च कृतो होमो ब्राह्मणानां वशङ्करः ॥ ६१ ॥

सर्पिषा जुहुयात्सम्यग्धनधान्यादिसम्पदे ॥
पूर्वोक्ताश्चापि कर्तव्याः प्रयोगाः साधकैरिह ॥ ६२ ॥

अथान्यं सम्प्रवक्ष्यामि मन्त्रं शक्तिगणेशितुः ॥
ॐ ह्रीं गं ह्रीं च वशमानय स्वाहा भवाणर्कः ॥ ६३ ॥

पूर्वोदितास्तु मुन्याद्या मन्त्रार्णैरङ्गकल्पनम् ॥
एकेन द्वित्रियुग्मेन मन्त्रार्णेन समेन च ॥
बन्धूकाभं त्रिनेत्रं च नागास्यं शशिशेखरम् ॥
भोगिमालं गुणसृणी वरेक्षून्हस्तपङ्कजैः ॥ ६४ ॥

दधानं शुण्डया स्पृष्टभगं चालिङ्गितं तथा ॥
श्यामलाङ्ग्या लिङ्गपद्महस्तया भावयेद्धृदि ॥ ६५ ॥

पूर्वोक्तपीठे पूर्वोक्ता पूजा कार्या मनीषिणा ॥
लक्षत्रयं जपेन्मन्त्रमपूपैस्तद्दशांशतः ॥
घृताप्लुतैश्च जुहुयात्तर्पणादि ततश्चरेत् ॥ ६६ ॥

ततो निजगुरुं ध्यात्वा धनधान्यैश्च तोषयेत् ॥
ततः काम्यप्रयोगास्तु तत्कल्पोक्तान्प्रसाधयेत् ॥ ६७ ॥

स्वादुत्रयाप्लुतापूपैर्होमः कान्तावशङ्करः ॥
शक्तिं विना गणेशो न शक्तिश्चापि न तं विना ॥ ६८ ॥

तस्माद्बुधैः साधनीयः सर्वथा शक्तिसङ्गमः ॥
तस्मादादौ प्रवक्ष्यामि शक्तिं श्रीभुवनेश्वरीम् ॥ ६९ ॥

ह्रीमित्येकाक्षरं बीजं तस्या मन्त्रः प्रकीर्तितः ॥
ऋषिः शक्तिर्वशिष्ठश्च सूतश्छन्दोस्य कथ्यते ॥ ७० ॥

गायत्री देवता बोधसंविद्वाच्या कलापरा ॥
हकारस्तु भवेद्बीजमीकारः शक्तिरुच्यते ॥ ७१ ॥

रेफस्तु कीलकं प्रोक्तं नियोगोखिलसिद्धये ॥
षड्दीर्घयुक्तबीजेन षडङ्गानि समाचरेत् ॥ ७२ ॥

संहारमातृकां सृष्टिमातृकां विन्यसेत्ततः ॥
देव्येकतापादनाय मन्त्रन्यासोथ वक्ष्यते ॥ ७३ ॥

भाले ह्ॐ हृल्लेखायै मुखे ह्रं भगनाम च ॥
ह्रं रक्ता हृदये स्थाप्या गुदे ह्रीं च करालिका ॥ ७४ ॥

हुं पादयोर्महोच्छुष्मा पञ्चवक्त्रेषु विन्यसेत् ॥
ऊर्ध्वोदग्याम्यपूर्वाशाप्रत्येकस्थेषु च क्रमात् ॥ ७५ ॥

न्यस्येत्कण्ठे च गायत्रीं सावित्रीं वामगे कुचे ॥
सरस्वतीं दक्षकुचे ब्रह्माणीं वामगेंसके ॥ ७६ ॥

हृदि विष्णुं महेशं च दक्षिणेंसे प्रविन्यसेत् ॥
ब्रह्माणं विन्यसेद्भाले गायत्र्या सहितं सुधीः ॥ ७७ ॥

विष्णुं कपोलदेशे तु सावित्र्या सहितं न्यसेत् ॥
महेशं वामगण्डे च वागीश्वर्या युतं न्यसेत् ॥ ७८ ॥

वामे धनपतिं युक्तं श्रिया श्रोत्राग्रके न्यसेत् ॥ ७९ ॥

स्मरं रत्या युतं वक्त्रे गणं पुष्टया युतं न्यसेत् ॥
दक्षश्रोत्राग्रके मन्त्री निधी शक्तियुतौ न्यसेत् ॥ ८० ॥

श्रवःकपोलान्तरयोर्वक्त्रमूले न्यसेत्ततः ॥
गलमूले कुचयुगे वामांसे हृदिदक्षिणे ॥ ८१ ॥

अंसे पार्श्वयुगे चैतान्न्यसेन्मन्त्री समाहितः ॥
न्यस्येन्मातृरष्टभाले चांसे पार्श्वे तथोदरे ॥ ८२ ॥

पार्श्वे चासे च मन्त्रज्ञस्तथा पादे गले हृदि ॥
व्यापयेन्मूलमन्त्रेण तनुं देवीं ततः स्मरेत् ॥ ८३ ॥

उद्यदादित्यरुचिरां शीतांशुकृतशेखराम् ॥
पद्मासनां त्रिनेत्रां च पाशाङ्कुशवराभयैः ॥
अलङ्कृतचतुर्बाहुं मन्दस्मितलसन्मुखीम् ॥ ८४ ॥

कुचभारविनम्राङ्गलतां देवीं हृदि स्मरेत् ॥
आदौ कृत्वा तु षट्कोणं तद्बाह्येष्टदलाम्बुजम् ॥ ८५ ॥

तद्बाह्ये षोडशदलं चतुरस्रत्रयं बहिः ॥
चतुर्द्वारसमोपेतं मण्डलं प्रोक्तमुत्तमम् ॥ ८६ ॥

तत्र पीठं यजेत्पूर्वं नवशक्तिसमन्वितम् ॥
जया च विजया चैवाजिताख्या चापराजिता ॥ ८७ ॥

नित्या विलासिनी दोग्घ्री ह्यघोरा मङ्गला ततः ॥
एतास्तु शक्तयः पूज्याः केशरेषु च मध्यके ॥ ८८ ॥

दद्यान्मूले नासनं तु मूर्तिं तेनैव कल्पयेत् ॥
देवीमावाहयेत्तस्यामङ्गावरणसंयुताम् ॥ ८९ ॥

पाशाङ्कुशवराभीतिधरा भूतनिभाश्च ताः ॥
हृल्लेखाद्या समभ्यर्च्य विविधाभरणोज्ज्वलाः ॥ ९० ॥

मध्याग्रयाम्योदक्प्रत्यक्स्थानेषु क्रमतस्तथा ॥
अग्नीशासुरवायव्यकोणेष्वग्रेहृदादिकान् ॥ ९१ ॥

यजेदस्त्रन्तथाशासु कोणाग्रे मिथुनानि च ॥
गायत्रीमरुणाभासामरुणाकल्पभूषिताम् ॥ ९२ ॥

चतुर्मुखीं करैर्दण्डं कुण्डिकामक्षिमालिकाम् ॥
अमीतिं बिभ्रतीं तद्वद्ब्रह्माणं पुरतो यजेत् ॥ ९३ ॥

सावित्रीं हस्तकमलैररिशङ्खगदाम्बुजम् ॥
बिभ्राणां पीतवसनां केयूराङ्गदभूषिताम् ॥ ९४ ॥

किरीटहाररशनानूपुरैरुपशोभिताम् ॥
तादृग्रूपमयं विष्णुं रक्षःकोणेग्रके यजेत् ॥ ९५ ॥

शुभ्रां त्रिनेत्रामभ्यन्तः शुभ्रवस्त्रविराजिताम् ॥
टङ्काक्षसूत्राभयदवरयुक्तां चतुर्भुजाम् ॥ ९६ ॥

सरस्वतीं यजेद्वायोः कोणे चेशं च तादृशम् ॥
लक्ष्मीं प्रियाङ्कसंस्थां च दक्षेणालिङ्ग्यबाहुना ॥ ९७ ॥

पतिं 1 कामेन कमलं धनदं च पृषोदरम् ॥
पीतं रत्नघटं रत्नकरञ्जं बिभ्रतीं यजेत् ॥ ९८ ॥

आग्नेये रमणाङ्कस्थां रतिं सव्येन पाणिना ॥
आलिङ्गय रमणं पद्ममन्यतो दधतीं स्मरेत् ॥
बन्धूकाभं बाणगुणसृणिचापकरञ्जकम् ॥ ९९ ॥

ऐशान्यां पूजयेत्सम्यग्विघ्नराजं प्रियान्वितम् ॥
सृणिपाशधरं कान्तावराङ्गस्पृक्कराङ्गुलिम् ॥ १०० ॥

माध्वीपूर्णकपालाढ्यं विघ्नराजं दिगम्बरम् ॥
पुष्करे विगलद्रत्नस्फुरच्चषकधारिणम् ॥ १०१ ॥

सिन्दूरसदृशाकारामुद्दाममदविह्वलाम् ॥
धृतरक्तोत्पलामन्यपाणिना तद्ध्वजस्पृशम् ॥
आश्लिष्टकान्तामरुणां पुष्टिमर्चेद्दिगम्बराम् ॥ १०२ ॥

कर्णिकायां निधिं पूज्य षट्कोणस्याथ पार्श्वयोः ॥
आद्याः त्वनङ्गकुसुमा ह्यनङ्गकुसुमातुरा ॥ १०३ ॥

अनङ्गमदनान्या तु ह्यन्या भुवनपालिनी ॥
सष्ठी गगन वेगा स्याच्छशिशीर्षा च सप्तमी ॥ १०४ ॥

अन्ते गगनरेखेषु पत्रेषु परितः स्थिताः ॥
पाशाङ्कुशवराभीतिकरा रक्ताः सुभूषिताः ॥ १०५ ॥

ततः षोडशपत्रेषु कराली विकसलिका ॥
सरस्वती श्रीदुर्गोषा लक्ष्मीश्रुत्यौ स्मृतिर्धृतिः ॥ १०६ ॥

श्रद्धा मेधा मतिः कान्तिरार्या षोडशशक्तयः ॥
खड्गखेटकधारिण्यः श्यामाः पूज्याः प्रदक्षिणैः ॥ १०७ ॥

ब्राह्म्याद्यास्तद्बहिप्पूज्यपत्रसन्धिषु दिक्क्रमात् ॥
पद्माद्बहिः समभ्यर्च्याः शक्तयः परिचारिकाः ॥ १०८ ॥

अनङ्गरूपानङ्गादिमदना मदनातुरा ॥
तथा भुवनवेगा स्यादग्रे भुवनपालिका ॥ १०९ ॥

षष्ठी च सर्वशिशिरा तदग्रे नङ्गवेदना ॥
अनङ्गमेखला चेति तद्बाह्ये तु दिगीश्वरान् ॥ ११० ॥

रक्तां रक्तोज्ज्वलाकल्पां रक्तान्तायतलोचनाम् ॥
रक्तोत्पलकरां वामे दक्षिणे क्रमतस्त्विदम् ॥ १११ ॥

चषकं तालवृन्तं च ताम्बूलं छत्रचामरे ॥
दर्पणं चांशुकं पुष्पं बिभ्राणां दक्षिणैः करैः ॥ ११२ ॥

वज्रादीन्यपि तद्बाह्ये पूजयेच्चोत्तमोत्तमे ॥
कौर्प्ये दिव्यावृते चित्ते चतुर्भिरपि चोत्तमा ॥ ११३ ॥

हृल्लेखाद्यैस्तदङ्गैश्च लोकपालैस्तदायुधैः ॥
मध्यास्त्रावरणैः पूजाङ्गलोकेशतदस्त्रकैः ॥ ११४ ॥

द्वाभ्यां कनिष्ठाङ्गलोकपालाभ्यां सा प्रवासके ॥
अनन्यगतिका पूजा ह्यङ्गेनैकेन कीर्तिता ॥ ११५ ॥

पूजालोपं न कुर्वीत भुवनेश्याः कदाचन ॥
सन्ध्यालोपे यथा पापं पूजालोपे तथा भवेत् ॥ ११६ ॥

सप्ताहपूजालोपे तु शापः पतति दारुणः ॥
शुक्रे तु दक्षिणी वामी रवौ पूजां न लोपयेत् ॥ ११७ ॥

सप्तशुक्रं मानवो यो निष्पूजो भवतीह सः ॥
द्वात्रिंशल्लक्षमानेन जपेन्मन्त्रं समाहितः ॥ ११८ ॥

तद्दशांशं हुनेदष्टद्रव्यैस्त्रिस्वादुसंयुतैः ॥
तर्पणादि ततः कुर्यान्मन्त्री शास्त्रोक्तवर्त्मना ॥ ११९ ॥

अथान्यदपि मन्त्रस्य पुरश्चरणमुच्यते ॥
एकलिङ्गे शिवागारे दक्षिणामूर्तिमाश्रितः ॥ १२० ॥

बद्धपद्मासनो भस्मशायी च कुशविष्टरः ॥
कृष्णाष्टमीं समारभ्य यावत्कृष्णा चतुर्दशी ॥ १२१ ॥

नित्यमिष्ट्वा शिवं शक्तिं जपेन्मन्त्रं सहस्रकम् ॥
दधिक्षौद्रघृताभ्यक्ता व्याघातसमिधो हुनेत् ॥ १२२ ॥

ततः साग्रसहस्रेण ध्यायेत्सर्वेश्वरीमुखीम् ॥
ततः सिद्धो भवेन्मन्त्रो नात्र कार्या विचारणा ॥ १२३ ॥

अश्वत्थोदुम्बरप्लक्षन्यग्रोधसमिधस्तथा ॥
तिलसर्षपदुग्धाज्यद्रव्याण्यष्टमितानि च ॥ १२४ ॥

प्रतिद्रव्यन्तु होमेस्य ह्ययुतानां चतुष्टयम् ॥
एवं सिद्धमनुर्मन्त्री सर्वान्कामान्प्रसाधयेत् ॥ १२५ ॥

नित्यं सौभाग्यदं पञ्चविंशज्जप्त्वाभिषेचनम् ॥
मेधावी च भवेद्वाग्मी तावज्जप्ताम्बुपानतः ॥ १२६ ॥

जिह्वाग्रे न्यस्य सञ्जप्तं वाक्सिद्धिः कविता भवेत् ॥
तज्जप्तमञ्जनं वश्यं कर्पूरागुरुमिश्रितम् ॥ १२७ ॥

सासृग्भस्मारुणालेपैर्वश्याय तिलकक्रिया ॥
जानुमात्रजले स्थित्वा निश्चलो मीलितेक्षणः ॥
जपेत्सहस्रं तद्रात्र्यामिष्टामाकर्षयेत्स्त्रियम् ॥ १२८ ॥

लाजैः कन्यामवाप्नोति तिलैरारोग्यमश्नुते ॥
पुष्टिमान्दधिहोमेन तण्डुलैश्च तथा भवेत् 2 ॥ १२९ ॥

ब्राह्मीरसयुताṁल्लाजान्वचयाच समन्वितान् ॥
त्रिसहस्रेणाभिसम्मन्त्र्य मासमेकं प्रभक्षयेत् ॥
बृहस्पतिसमोमन्त्री सर्वविद्याधिपो भवेत् ॥ १३० ॥

अश्वत्थसमिधः स्वादुयुक्ता हुत्वा द्विजानसौ ॥
वशयेत्पद्महोमेन राज्ञस्तन्मन्त्रिणस्तथा ॥ १३१ ॥

कुमुदैराजपत्न्याश्च ब्रह्मक्षेत्रप्रसूनकैः ॥
तण्डुलानां पिष्टकृतां प्रतिमां स्वादुसंयुताम् ॥ १३२ ॥

कृतप्राणप्रतिष्ठां तां सञ्जप्तां मनुनामुना ॥
भक्षयेत्तामर्कवारे ततः कुर्याद्वशं नरम् ॥
राजानं प्रमदां वापि यं यं वाञ्छत्यनुत्तमम् ॥ १३३ ॥

फलके भस्मना शक्तिं ससाध्यां सुलिखेत्सुधीः ॥
गर्भिण्यै दर्शयेदाशु सा सुखप्रसवा भवेत् ॥ १३४ ॥

अभिषेकविधानं तु वक्ष्यते वाञ्छितार्थदम् ॥
मण्डपे मण्डलं कुर्याद्देवीपीठान्वितं शुभम् ॥ १३५ ॥

यथावत्पीठमभ्यर्च्य कलशान्विन्यसेत्सुधीः ॥
कर्णिकायां दलाग्रे तु स्वर्णरौप्यसुताम्रजान् ॥ १३६ ॥

मार्तिकांस्तत्र विन्यस्य पञ्चैकं वापि तन्त्रवित् ॥
महता वाद्यघोषेण मनुना स्थापयेत्सुधीः ॥
पूर्वोक्तैरुपचारैस्तु निजेष्टायै च मन्त्रवित् ॥ १३७ ॥

घटेष्वेषु च सम्पूज्या मातरो दिक्क्रमाद्बुधैः ॥
यदि स्युः पञ्चकलशा मध्यादिषु यजेत्क्रमात् ॥ १३८ ॥

हृल्लेखाद्याः पञ्चसुधीरभिषिञ्चेत्तदुत्तरम् ॥
प्रथमं घृतकुम्भेन कषायेण ततः परम् ॥ १३९ ॥

तैलेन च कषायेण मधुना च ततः परम् ॥
द्विजवृक्षत्वचः क्वाथैरभिषिञ्चेत्ततः सुधीः ॥ १४० ॥

द्वारकुम्भदलैः पश्चादन्तराले समाचरेत् ॥
वक्त्रहस्तपदक्षालाचमनान्यपि मन्त्रवित् ॥ १४१ ॥

एकैककलशस्नानानन्तरं पुनरेव हि ॥
कारयेत्तेन नीरेण त्वेवं शक्तो नरो भवेत् ॥ १४२ ॥

ब्राह्मणान्भोजयेन्नानाविधैर्भक्ष्यैश्च तोषयेत् ॥
प्राप्नोति महतीं लक्ष्मीं सर्वदा विजयी भवेत् ॥ १४३ ॥

पलाशाश्वत्थबिल्वानां फलं ग्राह्यं पलार्धकम् ॥
अग्निमन्थलक्षसेव्यनाम्नोः कर्म विदुत्तमः ॥ १४४ ॥

प्रसारिणीकाश्मरिकारोहिणीनां तदर्धकम् ॥
उदुम्बरीपाटलीन्दुकुभागाः परिकीर्तिताः ॥ १४५ ॥

बृहत्क्वाथोदकेनैव पूरयेत्कलशं ततः ॥
आप्नोति प्रतिवर्षं च सेकाद्दीर्घायुरुत्तमम् ॥ १४६ ॥

सुन्दरोनामयश्चैव सहितस्तेजसा रविः ॥
कमला किङ्करी तस्य तं दृष्ट्वा विविधाभयाः ॥
नश्यन्ति वर्धते तस्य धनं धान्यसमाकुलम् ॥ १४७ ॥

सर्वे देवा नमस्यन्ति तं दृष्ट्वा फणिनोपि वै ॥
न दशन्ति च तत्पुत्राः शयानाः पथिसाधकम् ॥ १४८ ॥

अथ चात्र प्रवक्ष्यामि त्र्यक्षरं मन्त्रमुत्तमम् ॥
ऐंह्रींश्रीमिति पूर्वोक्ता मुन्याद्याश्चात्र कीर्तिताः ॥
आद्याद्येन च मध्येन दीर्घषट्कान्वितेन च ॥
अङ्गुल्यादिषडङ्गानि शेषन्यासाश्च पूर्ववत् ॥ १४९ ॥

बन्धूकाभां त्रिनयनां चन्द्रार्धकृतशेखराम् ॥
रत्नपात्रं वामहस्ते दक्षे पद्मं ततो मनुम् ॥ १५० ॥

जपेद्द्वादशलक्षं च जुहुयात्तद्दशांशतः ॥
त्रिस्वादुयुक्तहविषा तर्पणादि ततश्चरेत् ॥ १५१ ॥

ततः प्रयोगान्कुर्वीत मन्त्री स्वेष्टफलाप्तये ॥
ब्रह्मवृक्षप्रसूनैश्च होमो लक्ष्मीप्रदो मतः ॥ १५२ ॥

सञ्जपाद्वत्सरं ब्राह्मीसर्पिः पानात्कवित्वभाक् ॥
गौरसर्षपयुग्लोणहोमस्तु वशयेत्स्त्रियम् ॥
नरं नरपतिं वान्यं वशयेन्नात्र संशयः ॥ १५३ ॥

आरग्वधोत्थैः कुसुमैः संसिक्तैश्चन्दनाम्भसा ॥
दुकूलयुक्तै रत्नौघै राज्यलक्ष्मीं च विन्दति ॥ १५४ ॥

तिलतण्डुलसम्मिश्रैर्होमात्पूर्वोदितं फलम् ॥
पूर्वोदितान्प्रयोगांश्च कुर्यादत्रापि साधकः ॥ १५५ ॥

अथान्यं त्र्यक्षरं वक्ष्ये द्रुतं वाग्विभवप्रदम् ॥
ऐंह्रीं-ऐमिति मुन्याद्या ज्ञेयाः पूर्वोदितास्तथा ॥ १५६ ॥

आद्यन्तपुटितेनैव दीर्घयुग्मध्यमेन च ॥
जातिभाञ्जि षडङ्गानि विदध्यान्मन्त्रवित्तमः ॥ १५७ ॥

एकाक्षरोदितं न्यासं कुर्यान्मन्त्रविदुत्तमः ॥
उद्यद्द्युतिं त्रिनयनां पीनवक्षोजनामिताम् ॥ १५८ ॥

पद्मं च रत्नपात्रं च ह्यभयं च वरं तथा ॥
हस्तैर्दधानां रक्ताजसंस्थां च शशिशेखराम् ॥
मुक्ताहारसमायुक्तां भावयेद्भुवनेश्वरीम् ॥ १५९ ॥

एकाक्षरोदिते पीठे पूजयेद्भुवनेश्वरीम् ॥
पूर्वोक्ताः पूर्ववत्पूज्या हृल्लेखाद्याश्च मन्त्रिणा ॥ १६० ॥

सम्पूजयेत्कोणषट्के पूर्ववन्मिथुनानि च ॥
किञ्जल्केषु षडङ्गानि पूजयेच्च दलेषु ताः ॥
ब्राह्म्याद्या निजनाथाङ्कस्थिताः स्मेराननालसाः ॥ १६१ ॥

असिताङ्गो रुरुश्चण्डःक्रोधोन्मत्तौ कपाल्यथ ॥
विब्भीषणश्च संहारः प्रोक्तास्तत्पतयस्त्विमे ॥ १६२ ॥

शूलं कपालं प्रेतं च क्षुद्रदुन्दुभिमेव च ॥ १६३ ॥

विभ्राणाः पाणिभिर्हस्तित्वग्वस्त्रा भीमविग्रहाः ॥
स्मर्तव्या वक्रकेशाश्च पूजाकाले सुम्मन्त्रिणा ॥ १६४ ॥

दीर्घाद्या मातरः पूज्या ह्रस्वाद्या भैरवास्तथा ॥
तद्बाह्ये स्वरपत्रेषु करालाद्याः पुरोदिताः ॥ १६५ ॥

पूज्यास्त्वनङ्गरूपाद्या लोकेशा हेतिभिः सह ॥
मनुं जपेत्तत्त्वलक्षं ब्रह्मवृक्षप्रसूनकैः ॥ १६६ ॥

त्रिमध्वक्तै राजवृक्षपुष्पैर्वा तद्दशांशतः ॥
जुहुयात्तर्पणादीनि कुर्यान्मन्त्रस्य सिद्धये ॥ १६७ ॥

एवं सूक्तविधानेन यो भजेद्भुवनेश्वरीम् ॥
मदविह्वलयोषाः स राज्ञश्च वशयेत्सुधीः ॥
एकाक्षरोदितान्सर्वान्प्रयोगानाचरेत्तथा ॥ १६८ ॥

अथान्यं सम्प्रवक्ष्यामि त्र्यर्णयन्त्रादिसिद्धिदम् ॥
ॐ ह्रीङ्क्रोमिति वह्न्यर्णो मुन्याद्येकाक्षरोदितम् ॥ १६९ ॥

कल्पयेन्माययाङ्गानि ध्यानमन्त्र निरूप्यते ॥
अङ्कुशं च गुणाभीतिवरांश्च दधतीं करैः ॥
कमलस्थां प्रोद्यदर्ककान्तिं हृदि विभावयेत् ॥ १७० ॥

पूर्वोदिते यजेत्पीठे हृल्लेखाद्या यथा पुरा ॥
किञ्जल्केषु षडङ्गानि ब्राह्म्याद्या दलमध्यतः ॥ १७१ ॥

ततः शक्रादयो बाह्ये हेतयोर्च्यास्तु तद्बहिः ॥
एवं यः पूजयेद्भक्त्या स भवेत्तु कुबेरवत् ॥ १७२ ॥

अनुरक्ताः सर्वलोका भवेयुस्तस्य मन्त्रिणः ॥
मन्त्रं जपेत्तत्त्वलक्षं जुहुयात्तत्सहस्रकम् ॥ १७३ ॥

त्रिस्वादुयुग्दुग्धवृक्षसमिद्भिः प्रोक्तसङ्ख्यया ॥
शुद्धैस्तिलैः पयोयुक्तैस्तर्पणादि ततश्चरेत् ॥ १७४ ॥

अश्वत्थोदुम्बरप्लक्षवटाश्चत्वार एव च ॥
होमे वृक्षाः समाख्याताः प्रत्येकं षट्सहस्रकम् ॥ १७५ ॥

होमोयं स्यादागमेन चतुर्विंशतिसङ्ख्यकः ॥
सहसा 3 सूर्यसदृशस्तेनाधिष्ठितमन्दिरम् ॥ १७६ ॥

रजन्यां निष्प्रदीपं च प्रदीपशतसङ्कुलम् ॥
विलोक्यते सर्वजनैरेतन्मन्त्रप्रसादतः ॥ १७७ ॥

लवणैर्मिश्रसिद्धार्थै रजन्या च घृतप्लुतैः ॥
जुहुयाच्चैव राजानं राजपत्नीं वशं नयेत् ॥ १७८ ॥

अन्नहोमेन मन्त्रज्ञः समृद्धानगृहो भवेत् ॥
विकचोत्पलहोमेन लक्ष्मीरेनं न सन्त्यजेत् ॥ १७९ ॥

चतुरङ्गुलपुष्पैश्च होमः स्यात्कविताप्रदः ॥
तिलहोमेन पापानां नाशो मन्त्रिण एव हि ॥ १८० ॥

आयुष्कामो घृतेनेव जुहुयान्मन्त्रवित्तमः ॥
पूर्वोदितान्प्रयोगांश्च कुर्यादत्रापि मन्त्रतः ॥
अस्मिन्सिद्धे मनौ मन्त्री भुक्तिं मुक्तिमवाप्नुयात् ॥ १८१ ॥

अथातः सम्प्रवक्ष्यामि वक्रतुण्डाय हुन्त्विति ॥
सर्वसिद्धिकरो मन्त्रः प्रोक्तश्चायं षडक्षरः ॥ १८२ ॥

ह्रस्वं तु कवचं स्त्रीभिर्जप्तव्यं सर्वसिद्धिदम् ॥
भार्गवो मुनिराख्यातोनुष्टुप्छन्द उदाहृतम् ॥
देवता वक्रतुडोस्य सुरासुरनमस्कृतः ॥ १८३ ॥

विधाय मूलमन्त्रेण करशुद्धिं जितेन्द्रियः ॥
षड्भिर्मन्त्रगतैर्वर्णैः षडङ्गानि प्रकल्पयेत् ॥ १८४ ॥

भ्रूमध्ये कण्ठहृदये नाभ्यामाधारके तथा ॥
षडक्षराण्यथो न्यस्य सर्वेण व्यापकं तथा ॥ १८५ ॥

उद्यद्दिनेश्वररुचिं पाशाङ्कुशवराभयम् ॥
हस्तैर्दधानं स्मेरास्यमरुणं चिन्तयेद्धृदि ॥ १८६ ॥

पूर्वोक्ते पूजयेत्पीठे वक्रतुण्डं गणेश्वरम् ॥
अष्टपत्राम्बु चद्वन्द्वं चतुर्द्वारयुतेन च ॥
चतुरस्रत्रयेणाथ वेष्टितं च क्रमाल्लिखेत् ॥ १८७ ॥

मध्ये देवं समभ्यर्च्य पूजितैरुपचारकैः ॥
आदावङ्गानि सम्पूज्य यथास्थानं विशालधीः ॥
पूर्वदिग्दलमूलेषु शक्तीरष्टौ क्रमाद्यजेत् ॥ १८८ ॥

विद्याख्या विश्वधात्री च भोगदा विघ्ननाशिनी ॥
निधिप्रदा च पापघ्नी तथा पुण्या शशिप्रभा ॥ १८९ ॥

दलेषु च यजेत्तत्र ह्यणिमाद्याः पुरोदिताः ॥
द्वितीयेष्टदले तद्वद्वक्रतुण्डादिकान्यजेत् ॥ १९० ॥

चतुरस्रे लोकपालांस्तदस्त्राणि च पूजयेत् ॥
प्राग्वद्वीथीद्वये सम्यग्वक्रतुण्डार्चनं त्विति ॥ १९१ ॥

वर्णलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥
अष्टद्रव्यैः पुरा प्रोक्तैर्मधुराक्तैर्यथाविधि ॥ १९२ ॥

एवं सिद्धे मनौ मन्त्री काम्यकर्माणि साधयेत् ॥
तर्पयेत्पूर्वमार्गेण वक्रतुण्डं गणेश्वरम् ॥ १९३ ॥

चतुरस्रं हस्तमात्रं कुण्डं कुर्यात्तदग्रतः ॥
आदधीत मथित्वाग्निमनूचानगृहाद्धरेत् ॥ १९४ ॥

प्राणायामत्रयं मन्त्री कर्म समाचरेत् ॥
ततः पूर्वोक्तवत्कृत्वा मन्त्रन्यासं षडङ्गकम् ॥ १९५ ॥

गन्धपुष्पादिकैरग्निं सम्पूज्य स्थापयेत्ततः ॥
कृशानुमध्ये तत्राथ नागयज्ञोपवीतिनम् ॥ १९६ ॥

लम्बोदरं भास्करं तं चैकदन्तं त्रिलोचनम् ॥
पद्मासनसमारूढं चतुर्बाहुं त्रिलोचनम् ॥ १९७ ॥

किरीटहारकेयूराङ्गदालङ्कारभूषितम् ॥
एवं सञ्चिन्त्य मनसा समावाह्य गणेश्वरम् ॥ १९८ ॥

गन्धादिभिः समभ्यर्च्य जलेनाग्निं प्रसिच्य च ॥
षडर्णेन द्विठान्तेन जुहुयाच्च घृताहुतीः ॥
अष्टाधिकसहस्रं च ततः सिद्धो भवेन्मनुः ॥ १९९ ॥

सहस्राष्टचतुर्थीषु पक्षयोरुभयोरपि ॥
शतं त्वपूपैर्जुहुयाद्वत्सराल्लभते धनम् ॥ २०० ॥

मध्याह्नकाले नित्यं हि तदग्रे प्रजपेन्मनुम् ॥
सहस्रं त्रिशतं वाथ शतं वाष्टोत्तरं सुधीः ॥
अचिरणैव महतीं लक्ष्मीं प्राप्नोत्ययत्नतः ॥ २०१ ॥

प्रसन्नतात्र मनसः स्तुतिरन्येप्सिता तथा ॥
स्वापे वैमुख्यता चापि स्वप्ने द्विरददर्शनम् ॥
एतानि मन्त्रसिद्धेर्हि चिह्नान्युक्तानि मन्त्रिभिः ॥ २०२ ॥

पूर्वोक्तसिद्धौदनेन त्रिमासं त्रिशतंहुनेत् ॥
महानिधीनां भवनं भवेद्वैश्रवणोपमः ॥ २०३ ॥

गुडाक्तैः पृथुकैर्नारिकेलैर्मरिचसंयुतैः ॥
अपूपैः क्षीरसंयुक्तैर्गणेशस्य च सन्निधौ ॥
अग्नौ सहस्रं जुहुयात्स मन्त्री धनवान्भवेत् ॥ २०४ ॥

शुभशालिमयैः शूर्णैर्मरिचाद्यैः ससैन्धवैः ॥
सजीरकैर्बहुगुडैः शुभैरतिघृताप्लुतैः ॥ २०५ ॥

अपूपैर्जुहुयान्मन्त्री गणेशस्य च सन्निधौ ॥
सहस्रमात्रं लभते महतीमचिराच्छ्रियम् ॥ २०६ ॥

साध्यनामार्णपुटितमनुना जुहुयात्सुधीः ॥
अपामार्गसमिद्भिर्वा पक्वैः पनसजैः फलैः ॥ २०७ ॥

सहस्रं कदलैर्वाथ नरं नारीं वशं नयेत् ॥
लाजकैर्जुहुयादग्नौ सहस्रं कन्यकाप्तये ॥ २०८ ॥

सहस्रमाज्याहुतीनां हुनेत्क्षीराहुतीरपि ॥
सहस्रं रोगशान्त्यर्थं मन्त्रशास्त्रविशारदः ॥
सर्वाहुतीनां जुहुयाल्लक्षं मृत्युञ्जयो भवेत् ॥ २०९ ॥

ब्रह्मवृक्षोत्थसमिधो मधुरत्रयलोलिताः ॥
सहस्र जुहुयान्मन्त्री मासाछत्रूञ्जयेध्रुवम् ॥ २१० ॥

विभीतकस्य समिधां सहस्रं साष्टकं निशि ॥
लोहिताक्तं श्मशानाग्नौ जुहुयान्मारयेद्रिपुम् ॥ २११ ॥

भूमौ शत्रुस्वरूपं च लिखित्वास्योदरेनलम् ॥
प्रज्वाल्य सिद्धार्थवरैः सहस्रं जुहुयात्सुधीः ॥
तं मारयेत्सप्तदिनैर्नात्र कार्या विचारणा ॥ २१२ ॥

शोणमेघसमानाभं गणेशं निजशुण्डया ॥
रिपुं गृहीत्वा वडवामुखे वह्नौ महोत्कटे ॥ २१३ ॥

प्रक्षिपन्तं गणपतिं ध्यात्वामु प्रजपेन्मनुम् ॥
सहस्रं त्रिदिनेनासौ शत्रुमुच्चाटयेद्ध्रुवम् ॥ २१४ ॥

समुद्रगां नदीं प्राप्य गृहीत्वाञ्जलिना जलम् ॥
सहस्रकृत्वोभिमन्त्र्य परिषिञ्चेत्स्वमूर्धनि ॥
अनेन विधिना मन्त्री पापौघं नाशयेद्ध्रुवम् ॥ २१५ ॥

शनैश्चरदिनेश्वत्थमालम्ब्य त्रिसहस्रकम् ॥
जपन्मनुं गणं ध्यायेद्दोषान्ग्रहभवान्हरेत् ॥ २१६ ॥

वेतसोत्थसमिद्धोमात्सहस्रं वृष्टिमाप्नुयात् ॥
धनार्थीं जुहुयाद्धान्यैरन्नार्थ्यन्नैर्हुनेद्ध्रुवम् ॥ २१७ ॥

कमलैरुत्पलैर्वापि होमो वस्त्रप्रदो मतः ॥
क्षेत्राभिकाङ्क्षी पललैर्गुडाभ्यक्तैर्हुनेत्सुधीः ॥ २१८ ॥

तमर्चयित्वा गणपं हरिद्रां सैन्धवं वचाम् ॥
निष्कार्धार्धप्रमाणेन सम्पिष्यैतानि नित्यशः ॥ २१९ ॥

प्रसृत्युन्मितगोमूत्रे सहस्रेणाभिमन्त्रयेत् ॥
स्नातामृतुस्नानदिने विशुद्धां रक्तवाससम् ॥
पाययेत्तां च सा बन्ध्या प्रसूते वत्सरात्सुतम् ॥ २२० ॥

उपोष्य सोमग्रहणे भास्करग्रहणेथ वा ॥
कपिलाज्यं पलं चूर्णं वचायाश्च पलार्धकम् ॥ २२१ ॥

एतत्सहस्रजपितं सहस्रं प्रपिबेत्सुधीः ॥
अवाप्य मेधां महतीं कवितां लभते ध्रुवम् ॥ २२२ ॥

गोचर्ममात्रं भूतेशं चोपलिप्यांशुकावृतम् ॥
कृत्वात्र स्थापयेत्कुम्भं पूजितं चन्दनादिभिः ॥ २२३ ॥

कुमारं वा कुमारीं वा दीपस्याग्रे निधाय च ॥
जपेत्तन्मन्त्रप्रवरमष्टोत्तरसहस्रकम् ॥ २२४ ॥

तेन स्पृष्टा कुमारी वा कुमारो वा ब्रवीति तत् ॥
मनोगतं हि सकलं भविष्यद्भूतमेव च ॥
वर्तमानं मनोरस्य प्रसादान्नात्र संशयः ॥ २२५ ॥

मन्त्रान्तरमथो वक्ष्ये वक्रतुण्डगणेशितुः ॥
मेघोल्काय तथा स्वाहा मन्त्रः प्रोक्तः षडक्षरः ॥
भार्गवो मुनिरस्याणोरनुष्टुप्च्छन्द ईरितम् ॥ २२६ ॥

वक्रतुण्डगणेशोस्य देवता देववन्दितः ॥
मन्त्रवर्णैः षडङ्गानि सड्भिः कुर्याद्यथा पुरा ॥
ध्यानपूजादिकं सर्वं मन्त्री पूर्ववदाचरेत् ॥ २२७ ॥

अथातः सम्प्रवक्ष्यामि मन्त्रं द्वात्रिंशदर्णकम् ॥
रायस्पोषस्य दयिता निधिदोरत्नदो मतः ॥ २२८ ॥

रक्षोहनोबलगहनोथाद्यश्च षडक्षरः ॥
ऋष्यादिकं पुरा प्रोक्तं ध्यानपूजादि पूर्ववत् ॥
जपेदर्कसहस्राणि जुहुयात्तद्दशांशतः ॥ २२९ ॥

हविषा घृतसिक्तेन तदन्ते तोषयेद्गुरुम् ॥
एवं सिद्धे मनौ मन्त्री साधयेदिष्टमात्मनः ॥ २३० ॥

षडर्णप्रोक्तमन्त्रेण सर्वं काम्यं समाचरेत् ॥
अथास्य मेदं वक्ष्यामि मन्त्रमन्यं तथाविधम् ॥ २३१ ॥

रायस्पोषस्य दयिता निधिदो रत्नदो नृमान् ॥
रक्षोहणोबलगहनोवक्रतुण्डाय हूमिति ॥ २३२ ॥

सायकैस्त्रिभिरष्टाभिश्चतुर्भिः पञ्चमी रसैः ॥
मन्त्रार्णैः स्युः षडङ्गानि मुन्याद्याः पूर्ववन्मताः ॥ २३३ ॥

प्राग्वत्प्रयोगो निधिदो विशेषेण मनुस्त्वयम् ॥
अथ वक्ष्ये वक्रतुण्डगायत्रीं गणप्रियाम् ॥ २३४ ॥

तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि ॥
तन्नो दन्ती प्रचोदयात् ॥ २३५ ॥

आद्यन्तयोर्जपेदेनां सर्वमन्त्रप्रसिद्धये ॥
अष्टोत्तरशतं नित्यं पुरश्चरणकृन्नरः ॥ २३६ ॥

अष्टाविंशतिसङ्ख्याकान्गणेशानदिने जपेत् ॥
जपाद्यन्तेथाष्टसङ्ख्यानन्यजापी सुसिद्धये ॥ २३७ ॥

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते पूर्वाम्नायगणपतिमन्त्रप्रकाशो ऽष्टादशः ॥ १८ ॥


  1. इदं पूर्वान्वयि ↩︎

  2. वश्यकरमित्यर्थः ॥ ↩︎

  3. युग्मकम् ↩︎