ईश्वर उवाच ॥
ऊर्ध्वाम्नाये प्रवक्ष्यामि गणेशान्सिद्धिदायकान् ॥
भुक्तिमुक्तिप्रदं तत्र महागणपतिं शृणु ॥ १ ॥
तारश्रीबीजहृल्लेखा कामो भूबीजमेव च ॥
गणेशबीजं गणपतये वरवरेति च ॥ २ ॥
द सर्वजनं मे वशमानयाग्निवधूरिति ॥
अष्टाविंशतिवर्णोयं गणकोस्य मुनिर्मतः ॥ ३ ॥
निवृद्गायत्रिका छन्दो महागणपतिः सुरः ॥
गं बीजं ह्रीं च शक्तिः स्याद्दीर्घषट्कयुतस्तु गः ॥ ४ ॥
तारादिबीजषट्केन पृथग्युक्तेन कारयेत् ॥
षडङ्गानि मनोरस्य जातियुक्तानि चाचरेत् ॥ ५ ॥
अथ वा तारपूर्वेण दीर्घषट्कयुतेन च ॥
स्वबीजेनाङ्गुलिन्यासं षडङ्गानि तथाचरेत् ॥ ६ ॥
वर्णा द्वाविंशतिर्न्यस्या गणपत्यादयो मनोः ॥
ब्रह्मरन्ध्रे श्रोत्रयोश्च नेत्रयोश्चनसोर्मुखे ॥ ७ ॥
मूले दक्षभुजस्यादौ मध्ये च मणिबन्धके ॥
अङ्गुलीमूलकेग्रे च वामबाहावपीदृशम् ॥ ८ ॥
विन्यसेदग्रिमान्वर्णांस्ततश्चादौ तदग्रिमान् ॥
मणिपूरे स्वाधिष्ठाने मूलाधारे तदग्रिमान् ॥ ९ ॥
तारं पार्ष्णौ मुखे श्री च हृदि ह्रीं श्रीं गुदे न्यसेत् ॥
पादयोर्ग्लौ हृदि पुनः प्रत्यङ्गं बीजमेव च ॥ १० ॥
अवशिष्टैर्मन्त्रवर्णैःशरीरे व्यापकं न्यसेत् ॥
एवं न्यासविधिं कृत्वा हृदि देवं विचिन्तयेत् ॥ ११ ॥
ऐक्षवे जलधेर्द्वीपे नवरत्नमये शुभे ॥
तत्तरङ्गलसत्तोयैर्धौते शीते महीतले ॥ १२ ॥
तत्तोयगुणसम्पृक्तगन्धवाहनिषेविते ॥
कल्पपादपपुष्पौधैः पतद्भिः समलङ्कृते ॥ १३ ॥
नानाकुसुमसङ्कीर्णे नानापक्षिविराजिते ॥
अनेकफलसङ्कीर्णे सेविते चाप्सरोगणैः ॥ १४ ॥
ज्वालामालासहस्राढ्ये चोद्यज्ज्योत्स्नासमाकुले ॥
विलसत्पद्मरागौघकुट्टिमारुणभूतले ॥ १५ ॥
कल्पपादपपुष्पस्थषट्पदस्वनमञ्जुले ॥
पारिजातं कल्पतरुं तत्र मध्ये विचिन्तयेत् ॥ १६ ॥
युगपट्टे तु षट्केन खचितं पुष्पशोभितम् ॥
नवरत्नमयं तस्याधस्तात्सिंहासनं स्मरेत् ॥ १७ ॥
तन्मध्ये लिपिपद्मं च षडारं तस्य मध्यतः ॥
कर्णिकायां गणेशञ्च तत्संस्थं च महागणम् ॥ १८ ॥
नानारत्नविभूषाढ्यमेकदन्तं गजाननम् ॥
चक्रं चाङ्कुशपद्मादीन्बीजपूरं गदां तथा ॥
शरासनं च शूलं च बिभ्रन्तं हस्तपङ्कजैः ॥ १९ ॥
पद्मोद्यत्करया शक्त्या चाश्लिष्टं वरं प्रभुम् ॥
अर्धेन्दुमौलिं त्र्यक्षं च दीप्यमानं कृपाकरम् ॥ २० ॥
पुष्करोद्धृतरत्नौघमयकुम्भमुखच्युतान् ॥
मणिमुक्ताप्रवालादीन्वर्षन्तं धारया मुहुः ॥ २१ ॥
सर्वतः साधकास्याग्रे स्वदानजललोलुपाम् ॥
षट्पदालीं कर्णतालैर्वारयन्तं मुहुर्मुहुः ॥ २२ ॥
अमरासुरसंसेव्यं सद्रत्नमुकुटोज्ज्वलम् ॥
ऊरूकरं गजमुखं नानाभरणभूषितम् ॥ २३ ॥
इति ध्यात्वा गणपतिं यजेत्सर्वोपचारकैः ॥
धर्मादिकॢप्ते पूर्वोक्ते तीव्रादिनवशक्तिके ॥ २४ ॥
पूजायन्त्रं गणेशस्य मातृकापद्ममुच्यते ॥
चतुर्द्वारसमायुक्तं चतुरस्रत्रयावृतम् ॥ २५ ॥
तत्कर्णिकायां षट्कोणं तदन्तश्च त्रिकोणकम् ॥
देवस्याग्रे त्रिकोणाच्च बहिर्मन्त्रैर्यजेत्सुरान् ॥ २६ ॥
लक्ष्मीनारायणायेति ॐ श्रीम्पूर्वो हृदन्तकः ॥
मन्त्रस्तेन यजेत्तञ्च ध्यायेद्बिल्वतले स्थितम् ॥ २७ ॥
पद्मद्वयेकला लक्ष्मीः शङ्खचक्रधरो हरिः ॥
ॐ ह्रीङ्गौरहिराभ्यां च हृदन्तो नववर्णकः ॥ २८ ॥
देवस्य दक्षिणे तौ च ध्यायन्नेवं प्रपूजयेत् ॥
संस्थितौ च जटाधस्तात्सुवर्णरजतप्रभौ ॥ २९ ॥
पाशाङ्कुशधरा देवी टङ्कशूलधरो हरः ॥
तारः क्लीं रतिकामाभ्यां हृदन्तोयं नवाक्षरः ॥ ३० ॥
पृष्ठस्थपिप्पलाधस्ताद्रतिकामौ समर्चयेत् ॥
नालयुक्तोत्पलद्वन्द्वचापपुष्पेषुसंयुतौ ॥ ३१ ॥
ॐ ग्लौम्महीवराहाभ्यां हृदन्तोयं दशाक्षरः ॥
उत्तरेधः प्रियङ्गोस्तु महीकोलौ यजेत्ततः ॥ ३२ ॥
शुक्रवीज्याग्रकगदाचक्रालङ्कृतसद्भुजौ ॥
ॐ गं लक्ष्मीगणकाभ्यां हृदन्तोयं दशाक्षरः ॥ ३३ ॥
देवस्याग्रे त्रिकार्णान्तर्लक्ष्मीयुग्गणकं यजेत् ॥
षट्कोणेषु यजेन्मन्त्रम्ॐगं पूर्वो हृदन्तकः ॥ ३४ ॥
आमोदं सिद्धिसहितमग्रकोणे समर्चयेत् ॥
समृद्ध्यायुतमभ्यर्चेत्प्रमोदं वह्निकोणके ॥ ३५ ॥
सुमुखं कान्तिसंयुक्तमीशकोणे समर्चयेत् ॥
दुर्मुखं मदनावत्या यजेद्वारुणकोणगम् ॥ ३६ ॥
विघ्नं मदद्रवायुक्तं कोणे नैशाचरे यजेत् ॥
वायव्ये विघ्नकर्त्तारं द्राविण्या सहितं यजेत् ॥ ३७ ॥
पाशाङ्कुशधरा विद्या शक्तयश्चाभयप्रदाः ॥
रक्तारक्ताम्बरालेपभूषणा मदविह्वलाः ॥ ३८ ॥
षट्कोणस्य बहिर्देवैर्दक्षिणे तु समर्चयेत् ॥
वसुधारान्वितं शङ्खनिधिं वामेर्चयेत्तथा ॥ ३९ ॥
वसुमत्यायुतं पद्मनिधिं तद्ध्यानमुच्यते ॥
तत्राद्यो मौक्तिकाभोन्यो माणिक्याभस्तुधारया ॥
वर्षन्तौ धनसम्पत्तिं लोकानां मेघवत्सदा ॥ ४० ॥
केशरेष्वङ्गपूजा स्याद्ब्राह्म्याद्याः पत्रमध्यगाः ॥
चतुरस्रे लोकपालांस्तदस्त्राणि च पूर्ववत् ॥
षडावरणसंयुक्तमित्थं देवं समर्चयेत् ॥ ४१ ॥
एकादशायुतं जप्त्वा 1 सहस्रोत्तरमादरात् ॥
दशांशं जुहुयादष्टद्रव्यैरेकाक्षरोदितैः ॥ ४२ ॥
तर्पयित्वा दशांशेन चाभिषिक्तोणुना ततः ॥
ब्राह्मणान्भोजयेत्सम्यक् षड्रसैर्भूरिदक्षिणाम् ॥
दत्त्वा प्रणम्य विसृजेदेवं सिद्धो भवेन्मनुः ॥ ४३ ॥
ततः प्रणम्य विधिवद्गुरुं सन्तोष्य यत्नतः ॥
काम्यकर्माणि कुर्वीत सिद्धयः स्युर्न चान्यथा ॥ ४४ ॥
रक्तप्रसूनैर्गणपं पूजयित्वा मनुं जपेत् ॥
सहस्राष्टकमस्यान्ते जुहुयात्करवीरजैः ॥ ४५ ॥
तद्दशांशेन कुसुमैर्मधुरत्रयसंस्कृतैः ॥
राजा तदा चरो भूत्वा सामात्यः सन्निषेवकः ॥ ४६ ॥
एवं पलाशपुष्पैश्च मधुरत्रयसम्प्लुतैः ॥
होमात्सर्वेपि विघ्नाः स्युर्वशास्तस्य न संशयः ॥ ४७ ॥
जितेन्द्रियो मन्त्रिवरो घृतमेवं च होमयेत् ॥
कीर्तिम्प्राप्नोति विपुलां चिरकालानुबन्धिनीम् ॥ ४८ ॥
एवमाज्यप्लुतं धान्यं हुत्वामात्यः प्रजायते ॥
अष्टोत्तरसहस्रं तु जप्त्वा होमं समाचरेत् ॥
लवणाज्यसुराभिश्च शोधयित्वास्य भस्म तु ॥ ४९ ॥
करे गृहीत्वा सघृतं तेन नारीं च ताडयेत् ॥
भवत्यामरणान्तं सा दासीतोष्यधिकं वशा ॥ ५० ॥
शिवालये लक्षमिताज्जपाद्धोमो दशांशतः ॥
पायसेन त्रिमधुरयुतेन लभते सदा ॥
अर्थांश्च विविधान्मन्त्री भोगं मोक्षमवाप्नुयात् ॥ ५१ ॥
अष्टोत्तरसहस्रन्तु हुत्वा जातीप्रसूनकैः ॥
मेधा वेदार्थकरणे बुद्धिं प्राप्नोति साधकः ॥ ५२ ॥
अयुतत्रितयं यस्तु हुनेद्दूर्वा घृतेन च ॥
तस्याल्पमृत्युरोगाद्या नश्यन्त्यायुश्च वर्धते ॥ ५३ ॥
समाहितोयुतं हुत्वा पीतपुष्पैर्घृतान्वितैः ॥
संस्तम्भयेद्वैरिसेनां सभृत्यगजयोधिकाम् ॥
धारास्तम्भं च वाक्स्तम्भं कुर्यादत्र न संशयः ॥ ५४ ।
बिभीतकसमीद्भिश्च जुहुयादयुतत्रयम् ॥
उच्चाटयेद्वैरिसङ्घान्ग्रामं देशं पुरादिकम् ॥ ५५ ॥
अष्टोत्तरसहस्रं तु समिधोऽरुष्कवृक्षजाः ॥
हुत्वा रण्डास्तस्य वश्या जीवेन च धनेन च ॥ ५६ ॥
निम्बपत्रेषु सṁलिख्य साध्यनामानि तु द्वयोः ॥
एकस्य चाश्वरक्तेन महिषष्यापरस्य 2 च ॥ ५७ ॥
कटुतैलयुतैर्विंशत्सहस्रं होममाचरेत् ॥
मन्त्रान्ते प्रवदेदेतदमुकं चामुकेन च ॥ ५८ ॥
द्वेषयेति ततः स्वाहा चैकान्ते होममाचरेत् ॥
तयोस्तु जायते वैरं मित्रयोर्जीवनाशकम् ॥ ५९ ।
अष्टाङ्गुलं मनुष्यास्थि कीलं शवशिरोरुहैः ॥
संवेष्ट्य मन्त्रयेदष्टोत्तरं तच्च सहस्रकम् ॥ ६० ॥
मुहूर्ते कुलिके रात्रौ शत्रोर्द्वारि प्रपूजयेत् ॥
सप्ताहतोसौ भवति निश्चयेन यमातिथिः ॥ ६१ ॥
नागस्य विवरद्वारिलक्षमेतं मनुं जपेत् ॥
तस्याग्रतः समायान्ति नागकन्याः सहस्रशः ॥ ६२ ॥
निर्लज्जा भोगकाङ्क्षिण्यः प्रयच्छन्ति रसायनम् ॥
नानामणींश्च रत्नानि यद्यदिष्टतमं भवेत् ॥ ६३ ॥
लक्षमेकं गिरेर्मूर्ध्नि जपेन्मन्त्री दृढव्रतः ॥
कृपाणसिद्धिं लभते प्रार्थनीयां सुरासुरैः ॥ ६४ ॥
घनसारञ्च लज्जालुं शुक्लां च गिरिकर्णिकाम् ॥
नन्द्यावर्तं मधुपुष्पीं मेलयित्वा सुपेषयेत् ॥ ६५ ॥
कृत्वा तु गुटिकां विंशत्सहस्रमभिमन्त्रयेत् ॥
नेत्रे तया चाञ्जयित्वा निधानं पश्यति ध्रुवम् ॥ ६६ ॥
अष्टोत्तरशतं जप्त्वा पीडाक्रान्तं च रोगिणम् ॥
त्रिः फूत्कृत्य हरेत्पीडां सर्वां नास्त्यत्र संशयः ॥ ६७ ॥
गुप्तप्रदेशे रम्ये च गोमयेनोपलेपिते ॥
स्नात्वा मन्त्री नवं कुम्भं चन्दनाद्यैश्च चर्चितम् ॥ ६८ ॥
सुगन्धतोयैः सम्पूर्य शरावेण पिधापयेत् ॥
कपिलाज्येन सम्पूर्णं दीपं न्यस्येत्तथोपरि ॥ ६९ ॥
पूजयेदुपचारैस्तं कुमारीं च कुमारकम् ॥
तत्रोपविश्य तं स्पृष्ट्वा जपेदष्टोत्तरं शतम् ॥ ७० ॥
तदासौ कथयेत्सर्वं दीपं दृष्ट्वा तु बालकः ॥
भूतं च वर्तमानं च भविष्यन्नात्र संशयः ॥ ७१ ॥
ध्यात्वा महागणपतिमथ वा दीपसन्निधौ ॥
जपेद्गणेशः कथयेत्स्वप्ने चापि शुभाशुभम् ॥ ७२ ॥
ग्रहणे जलमध्यस्थो जपेन्मन्त्रं तदा भवेत् ॥
आकर्षणस्य संसिद्धिः सधान्यपशुयोषिताम् ॥ ७३ ॥
न्यग्रोधस्य तले जप्त्वा लक्षमेकं वटाभिधा ॥
यक्षिणी तु समागत्य धनाद्याकृष्य यच्छति ॥ ७४ ॥
उपोष्य रात्रौ विधिवत्स्नात्वा चानीय सद्वचाम् ॥
पूजयित्वा गणेशं तां स्पृष्ट्वा मन्त्रायुतं जपेत् ॥ ७५ ॥
पश्चात्कृत्वा तु तच्चूर्णं गृह्णीयात्कर्षमात्रकम् ॥
कपिलाज्यैः पिबेत्प्रातः सप्तभिर्दिवसैः कविः ॥ ७६ ॥
अवश्यमेव 3 भवति पारदस्य क्रियां शृणु ॥
कर्पटे शोधयेदादौ रसमष्टोत्तरं शतम् ॥ ७७ ॥
कर्पासपत्रजरसैर्दिनमेकं च मर्द्दयेत् ॥
कुमारिकाकाशवल्ल्योस्तदा रौप्यसमो भवेत् ॥ ७८ ॥
एतस्य युग्मांशं तु शुद्धं शुल्वं नियोजयेत् ॥
शुल्वादेतत्सार्धभागं शुल्वार्धं कनकन्त्वयः ॥ ७९ ॥
कज्जलाभं वर्धतीयं कर्पासीकन्यकाद्रवैः ॥
दिनैकमारनाले तु मर्दयित्वारनालके ॥ ८० ॥
स्थापयेद्गुटिकां कृत्वा ततो गच्छेच्छिवालये ॥
लक्षमेकं जपेन्मन्त्रं सिद्धा सा जायते तदा ॥ ८१ ॥
तां मुखे धारयन्मन्त्री रणे च विजयी भवेत् ॥
अवध्यः सर्वभूतानां शस्त्रास्त्रैश्चैव जायते ॥ ८२ ॥
तमक्त्वा म्रियते नैव विषैः सर्पादिसम्भवैः ॥
तत्प्रभावाद्वज्रदेह आकाशे लभते गतिम् ॥ ८३ ॥
नष्टच्छायस्तथादृश्यो जलगोपि प्रजायते ॥
यस्मिन्गेहे स्थिता सा तु तत्र लक्ष्मीः स्थिरा भवेत् ॥
लोकानां दृष्टिबन्धं च सा कुर्यात्साधकेच्छया ॥ ८४ ॥
ब्रह्मदण्डीं च लज्जालुं गृह्णीयात्पुष्यभास्करे ॥
वज्राणुकं त्रिलोहं च ताभ्यां सम्यग्विमर्दयेत् ॥ ८५ ॥
तद्यदा कज्जलीतुल्यं स्यात्तदा गुटिकां चरेत् ॥ ८६ ॥
गणेशं पूजयित्वास्य गृह्णीयाद्गुटिकां शुभाम् ॥
इत्थं विचिन्त्य स्वकरे गृह्णीयात्तन्मनुं जपेत् ॥ ८७ ॥
वक्त्रे शिखायां च करे स्कन्धे वा धारयेच्च ताम् ॥
तस्याः प्रभावान्नायान्ति चौरव्याघ्रोरगादयः ॥ ८८ ॥
साधकस्य समीपं तु न विघ्नैः परिभूयते 4 ॥
राजानो वश्यतां यान्ति सुन्दरीणामतिप्रियः ॥ ८९ ॥
धत्तूररोचने शङ्खपुष्पी श्वेतापराजिता ॥
सहदेवी ब्रह्मदण्डी हिमं कृष्णागुरुः समम् ॥ ९० ॥
सम्पीड्य सम्यक्कुर्याच्च गुटिकां विधिना ततः ॥
कुर्याद्द्वादशसाहस्रञ्जपं तत्तिलके कृते ॥
जनानाञ्जायते मोहो गणेशस्य प्रभावतः ॥ ९१ ॥
दीर्घतुण्डामृताग्राह्याः पुष्यार्के पेषयेच्च ताः ॥
तच्चूर्णेन करौ लिप्त्वाष्टाधिकं च सहस्रकम् ॥ ९२ ॥
मनुं जपित्वा तौ हस्तौ गजेभ्यः परिदर्शयेत् ॥
विद्रवन्ति तदा नागा ऐरावतसमा अपि ॥ ९३ ॥
गजान्ग्रहीतुकामश्चेद्राजा गजवने तदा ॥
सम्यक् च कारयेच्छालान्दृढां गजनिबन्धिनीम् ॥ ९४ ॥
चतुरस्रां विशालां च दृढावरणसंयुताम् ॥
कुर्यात्तत्र स्थलां सम्यक्चतुरस्रां समुन्नताम् ॥
तस्यामुत्तरदिग्भागे कुण्डं कुर्याद्यथोदितम् ॥
मण्डलं सर्वतोभद्रं कृत्वा तत्र प्रपूजयेत् ॥ ९५ ॥
नानोपचारैर्गणपं बहिः स्थापनमाचरेत् ॥
त्रिस्त्रिर्हुनेत्क्रमात्तारश्रीमायाकामबीजकैः ॥
ग्लौङ्गम्भ्यां गणपतये पदेनापि च होमयेत् ॥ ९६ ॥
वरवरदेति ततः पदेनापि च होमयेत् ॥
सर्वं जनं मे वशमानय स्वाहा त्वनेन च ॥
सप्तविंशत्याहुतयो हव्या एधैश्च गोघृतैः ॥ ९७ ॥
ततः समृद्धिमन्त्रेण तिस्रश्चानेन होमयेत् ॥
भुर्भूवः स्वस्तथा चाग्निर्जातवेदास्ततः परम् ॥
ततश्च मूलमन्त्रेण जुहुयाच्च नवाहुतीः ॥ ९८ ॥
मूलाणुना समस्तेन जपेन्मन्त्रार्णसङ्ख्यया ॥
आज्येनैव ततश्चाष्टद्रव्यैः स्वादुत्रयान्वितैः ॥ ९९ ॥
देवस्थानस्थदेवानां सङ्ख्यया प्रत्यहं ततः ॥
बहून्सम्भोजयेद्विप्रांस्तदाशीर्भिर्विवर्धितः ॥ १०० ॥
गुरवे दक्षिणां दद्यात्पञ्चाशद्दन्तिनोथ वा ॥
तन्मूल्यं तद्दशांशं वा दत्त्वा सन्तोष्य सद्गुरुम् ॥ १०१ ॥
चतुर्णां मिथुनानां षड्गणेशनिधियुग्मयोः ॥
अङ्गमातृदिगीशानां तन्मन्त्रैः सर्पिषा हुनेत् ॥ १०२ ॥
लक्ष्मीनारायणौ गौरीहरौ कामस्तथा रतिः ॥
पृथ्वी वराहाविति तु चत्वारि मिथुनानि च ॥ १०३ ॥
सिद्धिमोदौ तथा ऋद्धिप्रमोदौ कान्तिसंयुतः ॥
सुमुखोथो दुर्मुखस्य प्रियोक्ता मदनावती ॥ १०४ ॥
मदनद्रवया युक्तोविघ्नोथो द्राविणीयुतः ॥
विघ्नकर्तेति षट्प्रोक्ता गणेशाश्च निधिद्वयम् ॥ १०५ ॥
शङ्खःपद्मश्च तन्मन्त्रास्तद्बीजं नाम हृत्तथा ॥
एवं होमं समाप्याथ नैवेद्यं तु समाचरेत् ॥ १०६ ॥
पुनरभ्यर्च्य विघ्नेशं साङ्गं सावरणं तथा ॥
निजे हृदि समुद्वास्य विचरेच्च यथासुखम् ॥ १०७ ॥
ततो दिनैर्वेदवेदैः करिणो निपतन्ति हि ॥
विनायकप्रभावेण कलभाः शतशस्तथा ॥ १०८ ॥
करिणीनां समूहश्च पतत्यम्बु घटे यथा ॥
प्रोक्तकुण्डे प्रोक्तरूपं गणेशं सम्यगर्चयेत् ॥ १०९ ॥
तत्र वह्निं समाधाय जुहुयाल्लक्षसङ्ख्या ॥
पयोघृताभ्यां संयुक्तैः पुष्पैः शर्करयापि च ॥ ११० ॥
क्षौद्रेण पृथगेकैकद्रव्येणागर्त्त्वगाष्टपः ॥
वेतालसञ्ज्ञा गुटिका कुण्डमध्यात्प्रयाति च ॥ १११ ॥
अणिमादिकसिद्धीनां प्राप्य तं नायको भवेत् ॥
ब्राह्मे काले समुत्थाय क्षीणचन्द्रे च पर्वणि ॥ ११२ ॥
कपिलायाः पद्मखण्डं गोमयं प्रतिगृह्य च ॥
सञ्जप्य मन्त्रमयुतं निखातद्वारि वारयेत् ॥
व्याघ्रक्रोडारिचोरादीन्नात्र कार्याविचारणा ॥ ११३ ॥
जातीधत्तूरमञ्जिष्ठा प्रचण्डा हस्तयोजिनी ॥
शिखादिकर्णिकाख्यादि त्वग्जिह्वाचक्षुषामलैः ॥ ११४ ॥
नासिकाघ्राणजैश्चापि गुटीं सम्यग्विधाय च ॥
स्पृष्ट्वा सम्प्रजपेन्मन्त्रं त्वष्टाधिकसहस्रकम् ॥ ११५ ॥
गुञ्जिकादिप्रमाणं च यवमानं च लेहयेत् ॥
सर्षपार्धं त्वङ्गनाया भक्षितं वश्यकारकम् ॥ ११६ ॥
जितेन्द्रियो जपेन्मन्त्रमष्टोत्तरसहस्रकम् ॥
दशांशं जुहुयाल्लाजाहयारिकुसुमान्वितान् ॥
प्राप्नुयात्सत्कुलां कन्यामथ ध्यायेद्विनायकम् ॥ ११७ ॥
गन्धादिनाभ्यर्च्य तं च मन्त्रं लक्षमितं जपेत् ॥
निगडान्मुच्यते कस्मादथ बिल्वस्य पुष्पकम् ॥ ११८ ॥
तगरं देवदारुं च प्रियङ्ग्वगरुचन्दने ॥
नागकेशरमेतानि मधुना भावयेत्समम् ॥ ११९ ॥
गुटीं कृत्वाथ संस्पृश्य सहस्राष्टकमाजपेत् ॥
भवेत्सा सिद्धगुटिका तद्धूपाद्रोगनाशनम् ॥ १२० ॥
एतद्धूपाच्च निस्स्वोपि धनी स्याज्जनवल्लभः ॥
दुर्भगा सुभगा स्त्री स्यात्कुमारी लभते वरम् जलाशये ॥ १२१ ॥
लक्षजपाद्वृष्टिः सप्ताहतो भवेत् ॥
अथास्य लक्षहोमस्य प्रयोगं कामिकं शृणु ॥ १२२ ॥
हुनेद्गोपयसा गोर्थे स्वर्णार्थं मधुना हुनेत् ॥
घृतेन लक्ष्म्यै पयसे हुनेच्छर्करया द्विजः ॥ १२३ ॥
दघ्ना सर्वर्द्धये होमो घृतान्नैरन्नवृद्धये ॥
लाजैश्च यशसे होमो धनार्थन्तिलतण्डुलैः ॥ १२४ ॥
कौसुम्भैः करवीरैर्वा वस्त्रार्थं होममाचरेत् ॥
यवैस्तु वशयेद्भूपमुत्पलैश्चापि तद्वधूम् ॥ १२५ ॥
कैरवैर्मन्त्रिणस्तस्य पुत्तल्यादि च पितृजम् ॥
कृत्वा हुनेद्वधूर्वश्या वटात्प्लक्षादुदुम्बरात् ॥ १२६ ॥
कस्मादपि गृहीत्वा च समिधो होममाचरेत् ॥
विप्राद्यान्वशयेद्वर्णाल्लोणहोमादवर्षणम् ॥ १२७ ॥
विनश्येद्भूयसी वृष्टिर्महागणपतेस्तदा ॥
वर्णानस्य प्रवक्ष्यामि काम्यकर्माणि संस्मरेत् ॥ १२८ ॥
पीतं स्तम्भेरुणं वश्ये धूम्रमुच्चाटने स्मरेत् ॥
मारणे कृष्णमारक्तमाकृष्टौ पाटलं द्विषि ॥
हरिद्वर्णं धनप्राप्त्यै मुक्त्यै शुक्लं च संस्मरेत् ॥ १२९ ॥
गणेशतर्पणं वक्ष्ये सर्वकामफलप्रदम् ॥
त्रिवेदाङ्कसमं यच्च प्रकटं वक्ष्यतेधुना ॥ १३० ॥
एकान्ते विजने रम्ये सर्वोपद्रववर्जिते ॥
कृतस्नानादिको मन्त्री पूर्ववन्न्याससंयुतः ॥ १३१ ॥
तडागमध्ये सञ्चिन्त्य पुष्पितं नलिनीवनम् ॥
तस्य मध्ये महापद्मन्तरुणादित्यसन्निभम् ॥ १३२ ॥
समुन्नतं सुगन्धाढ्यं रमणीयम्मनोहरम् ॥
सद्यो विकसितं ध्यायेन्मन्त्री पूर्वोक्तमन्त्रवत् ॥ १३३ ॥
शुद्धं रजतसोपानं पश्यन्तं रविमण्डलात् ॥
विनिर्गत्यावरुह्याह कर्णिकामध्यसंस्थितम् ॥ १३४ ॥
इति ध्यात्वा सावरणम्महागणपतिम्पुनः 5 ॥
प्रवरैर्गन्धकुसुमैः प्राग्वत्सावरणं यजेत् ॥ १३५ ॥
निधाय पुष्करमुखं साधकेन्द्रस्य मूर्धनि ॥
वर्षन्तं रत्नधाराभिर्ध्यात्वा देवस्य मूर्धनि ॥ १३६ ॥
चन्द्रचन्दनकाश्मीरकस्तूरी मिलितैर्ज्जलैः ॥
तर्पयेत्परया भक्त्या देवदेवं प्रसन्नधीः ॥ १३७ ॥
यथादिष्टस्य नामान्ते तर्पयामीति संवदेत् ॥
तर्पणस्य विधिश्चायं शृणु वैदिकतर्पणम् ॥ १३८ ॥
तर्पयाम्येतदन्ते तु स्वाहां वैदिक ईरयेत् ॥
इतरस्तु नमो ब्रूयाद्वामाचारी नमो वदेत् ॥ १३९ ॥
मूलमन्त्रं समुच्चार्य महागणपतिन्ततः ॥
देवस्य मूर्ध्नि प्रथमन्दशवारं प्रतर्पयेत् ॥ १४० ॥
पुनश्चतुश्चतुर्वारं ज्ञेयं सर्वत्र तर्पणम् ॥
एकं वर्णं समुच्चार्य मूलमन्त्रस्य तर्पयेत् ॥ १४१ ॥
पुनः सम्पूर्णमूलेन चतुर्वारन्तु तर्पणम् ॥
एवं षट्पञ्चसङ्ख्याकं चतुष्कन्तर्पणम्भवेत् ॥ १४२ ॥
पुनर्मूलेन सन्तर्प्य ततो युग्मानि तर्पयेत् ॥
तत्र चायं प्रयोगः स्यादमुकं 6 सहितामिति ॥
अमुकीन्तर्पयामीति पुनर्मूलेन तर्पयेत् ॥ १४३ ॥
अमुक्या युक्तममुकन्तर्प्पयामि ततो वन्देत् ॥
पुनर्मूलम्भवेदेवं चतुष्कमपि तर्पणम् ॥ १४४ ॥
एवं षङ्गणपानां च सजायानान्तदन्तरा ॥
तर्पणं मूलमन्त्रेण चतुष्काजिनसङ्ख्यकम् ॥ १४५ ॥
वसुन्धराशङ्खनिधेर्भार्या पद्मनिधेस्तथा ॥
भवेद्वसुमती ताभ्याम्मध्ये मूलेन चाष्टधा ॥ १४६ ॥
तर्पणं स्यात्तु मूलेन पुनश्चापि तु तर्पयेत् ॥
एवं भूभूचतुष्काङ्कैर्वेदवेदकृतैर्मितम् ॥ १४७ ॥
तर्पणस्य विधिं वच्मि तान्त्रिकाणान्तु यद्धितम् ॥
आदौ मूलेन सन्तर्प्य मन्त्रवर्णैश्च तर्पयेत् ॥ १४८ ॥
भूभूभूभूकुभूपञ्चपञ्च दिग्द्वितयेन च ॥
अन्तरान्तरमूलेन चैवं सिद्धिश्चतुष्किका ॥ १४९ ॥
ततो मूलेन सन्तर्प्य गणेशायुधतर्पणम् ॥
कुर्यादन्तरशूलेन ह्यायुधानां क्रमस्त्वयम् ॥ १५० ॥
आदौ तद्बीजमुच्चार्य प्रणवं च वदेत्ततः ॥
अमुकात्मने च प्रवदेदमुकाय नमस्त्विति ॥ १५१ ॥
नमोमुकन्तर्पयामि स्वाहेति कथितो मनुः ॥
विघ्नम्भूम्ॐ 7 रमां मायां श्रीं ह्रीं क्लीं वसुधां च गम् ॥ १५२ ॥
एकादशे गणेशस्य षड्बीजान्यपि संवदेत् ॥
मन्त्रं फलञ्च शक्तिं च प्राणबन्धं वदेत्ततः ॥ १५३ ॥
चक्रव्याप्तिश्च तारं च भूविद्या च त्रिलोककम् ॥
तदात्मन इमे प्रोक्तास्तेषान्नामान्यहं ब्रूवे ॥ १५४ ॥
बीजपूरं च परशुं कार्मुकं च त्रिशूलकम् ॥
चक्राब्जपाशोत्पलानि कलभाग्रविषाणयुक् ॥ १५५ ॥
शुण्डायां रत्नकलशमित्थमायुधनिर्णयः ॥
सर्वं द्वाविंशसङ्ख्याकन्तर्पणं च प्रजायते ॥ १५६ ॥
षड्बीजान्ते चतुर्थ्यन्तं तत्तन्नाम समुच्चरेत् ॥
पठित्वा सकलम्मूलममुकङ्गणपंवदेत् ॥
तर्पयाम्यग्निजायान्तो मन्त्रो मूलान्तरान्तरः ॥ १५७ ॥
विघ्नो विनायको वीरः शूरो वरद एव च ॥
इभवक्रश्चैकदन्तो लम्बोदरगणेश्वरौ ॥ १५८ ॥
क्षिप्रप्रसादनश्चैव महागणपतिस्तथा ॥
एवं विंशचतुष्काः स्युस्ततो युग्मानि तर्पयेत् ॥ १५९ ॥
युग्मबीजं वदेदादौ गणेशस्य तदुत्तरम् ॥
प्राग्वत्तद्युग्ममाभाष्य मूलेनान्तरितानि च ॥ १६० ॥
श्रीं ह्रीं क्लीं ग्लौमिदन्तेषां क्रमाद्बीजचतुष्ककम् ॥
एवं षोडशसङ्ख्यानि चतुष्काणि भवन्त्यपि ॥ १६१ ॥
श्रीगणेशबीजपूर्वान्तांस्तर्पयेच्च विनायकान् ॥
मूलेनान्तरिताश्चैव चतुष्का जिनसङ्ख्यकाः ॥ १६२ ॥
तर्पयेद्विधिवत्प्राग्वन्मूलमन्त्रान्तरान्तरे ॥
ह्रीङ्गं वसुन्धराशङ्खौ तर्पणीयौ च पूर्ववत् ॥ १६३ ॥
अत्रादौ स्त्रीपुमानन्ते बीजयोर्विपरीतता ॥
ग्लौङ्गं वसुमती पद्मनिध्योर्बीजन्तु तर्पणे ॥ १६४ ॥
एवमष्टौ तर्पणानि मूलेनान्ते प्रतर्पयेत् ॥
भवन्ति वेदवेदाब्धिसङ्ख्यकास्तर्पणक्रमाः ॥ १६५ ॥
मूलमन्त्रञ्चतुर्वारम्पूर्वं सन्तर्पयेत्ततः ॥
स्वबीजाद्यस्वाहान्तानि युग्मान्येवम्प्रतर्पयेत् ॥ १६६ ॥
गणपानां ततः षट्के निधिं युग्मं प्रतर्पयेत् ॥
मध्ये मध्ये मूलमन्त्रं चतुर्वारमिति क्रमात् ॥
भवेदष्टोत्तरशतं लघुतर्पणमीरितम् ॥ १६७ ॥
महागणपतिं पुष्टिं चत्वारि मिथुनानि च ॥
षड्गणेशान्निधियुगमेवमेतत्त्रयोदश ॥ १६८ ॥
अथाव्यस्तानि चैतानि चान्तरा मूलतर्पणम् ॥
कृतञ्च द्विशतञ्चाष्टाधिकमाद्यन्तयोस्तथा ॥ १६९ ॥
मूलन्तदा तु द्विशतञ्जायते षोडशाधिकम् ॥
तर्पणम्मध्यमञ्चैतन्महागणपतेर्मतम् ॥ १७० ॥
अथवा पूर्ववत्कुर्यादादौ मूलेन तर्पणम् ॥
ततश्च मूलमन्त्रस्य चैकैकेनाक्षरेण च ॥ १७१ ॥
मूलमन्त्रस्यान्तरेण कुर्यादेवञ्चतुश्चतुः ॥
गजाश्विनेयतुल्यन्तज्जायते च ततः परम् ॥ १७२ ॥
पुनर्मध्यप्रकारेण तर्पयेदिति जायते ॥
महागणपतेः पूर्णं तर्पणन्तन्त्रवैदिकम् ॥ १७३ ॥
कामनाङ्गप्रभेदैस्तु तर्पणं वक्ष्यतेधुना ॥
पुष्करे तर्पयेद्देवम्मोक्षार्थं शुद्धवारिभिः ॥ १७४ ॥
लक्ष्मीकामेन गोदुग्धैर्मूध्नि तर्प्यो गजाननः ॥
गुह्यप्रदेशे मधुना कामार्थं तर्पयेद्विभुम् ॥ १७५ ॥
आकर्षणार्थं वश्यार्थं नेत्रयोर्मधुना तु तम् ॥
घृतेन राजवश्याय देवं पृष्ठे प्रतर्पयेत् ॥ १७६ ॥
तथा चैरण्डतैलेन रण्डावश्याय तर्पणम् ॥
प्रीतेर्विवृद्ध्यै स्कन्धे तु पयोभिस्तर्पयेद्विभुम् ॥ १७७ ॥
क्षीरेण दध्ना मधुना तुण्डे तत्पुत्रवृद्धिकृत् ॥
एवं यः पूजयेत्सम्यग्गणेशम्ममवल्लभम् ॥
तस्य भुक्तिश्च मुक्तिश्च जायते नात्र संशयः ॥ १७८ ॥
अनेनैव सुतेन्द्रेण दिवोदासो विवासितः ॥
कल्पयित्वा वेदबाह्यं मार्गं कलियुगप्रियम् ॥ १७९ ॥
आनीताश्च महत्योत्र दक्षाम्नायस्य देवताः ॥
तदुपासनतो लोकैः स्वस्वधर्मो विगर्हितः ॥ १८० ॥
अस्वादज्ञस्तु पृक्षस्थवारुण्याः काङ्क्षते फलम् ॥
क्षुधातुरस्तु भूमिष्ठन्दूरीकृत्य कशेरुकम् ॥ १८१ ॥
दिवोदासीयलोकैस्तु दृष्ट्वा त्वरितकौतुकम् ॥
अन्तःप्रधारितो धर्मो वामान्ते कौलिकादिकः ॥ १८२ ॥
राज्ञो धर्मं प्रजा भुङ्क्ते प्रजापापन्तु भूपतिः ॥
तत्पातकेन भूपोसौ काशीतः प्रेषितो दिवम् ॥
मया च काश्यां वसतिः कृता पुत्रप्रसादतः ॥ १८३ ॥
येये वामपथे देवा गणकेन नियोजिताः ॥
काशीप्रवेशकामार्थं तेते सन्तोषिताः परैः ॥ १८४ ॥
तत्र चीनागणैर्देवैर्वाममार्गेण तर्पणम् ॥
याचितन्तन्मया दत्तन्तन्त्रेषु प्रतिपादितम् ॥ १८५ ॥
तन्मार्गनिरता वीरा जायन्ते क्षत्त्रियादयः ॥
स्त्रियो भवन्ति योगिन्यो विप्रस्तत्परिवर्जयेत् ॥ १८६ ॥
दिवोदासस्य राज्यान्ते प्राप्ते कलियुगे च तैः ॥
उपद्रुता वेदमार्गे विहिताच्च द्विजातयः ॥ १८७ ॥
दुर्जनानान्तु ते भीत्या हिमाचलमुपाश्रिताः ॥
तत्रापि तैरभिद्रुत्य धर्मलोपार्थमुद्यतम् ॥ १८८ ॥
तदा विप्रैः स्तुतश्चाहम्बहुभिर्वैदिकैः स्तवैः ॥
तेषाम्मध्यात्समुद्भूतम्मम लिङ्गं मुखान्वितम् ॥ १८९ ॥
तद्विलोक्य तु ते वीराः साष्टाङ्गं प्रणता जगुः ॥
देवदेव त्वदुक्तस्य ॥
मार्गस्यायं व्यतिक्रमः ॥ १९० ॥
क्रियते वैदिकैर्मूर्खैस्तदुद्धारार्थमुद्यताः गङ्गाजलादप्यधिकम्पावनं कारणं त्विदम् ॥ १९१ ॥
कन्दमूलफलादिभ्यः पवित्रं स्वादु पोषकृत् ॥
एतन्मांसं वयं दद्म उद्धारार्थं त्रिजन्मनाम् ॥ १९२ ॥
नानातीर्थसमुद्भूता अनेकविधिसंस्कृताः ॥
भोगमोक्षप्रदा मत्स्यास्तानेभ्यो दातुमुद्यताः ॥ १९३ ॥
संसारस्य ह्यसारस्य सारंसारङ्गलोचनाः ॥
अर्द्धाङ्गे या त्वया देव विष्णुना हृदये कृता ॥ १९४ ॥
उत्सङ्गे ब्रह्मणा चापि देवेन्द्रेण निजासने ॥
वयं कारुणिकास्तात ह्येतेभ्यो दातुमुद्यताः ॥ १९५ ॥
षण्मांसैश्च षडन्नैश्च षट्तीर्थैर्देवसंयुताः ॥
षट्सुगन्धा षड्रसाश्च मुद्रा दातुं समुद्यताः ॥ १९६ ॥
ता एते नैव गृह्णन्ति यष्टव्यं पशवो यथा ॥
स्वर्णपात्रस्थपरममन्नं हित्वा तृणाशिनः ॥ १९७ ॥
तदा मया धर्मपादरक्षार्थं गदितं वचः ॥
शृण्वन्तु मद्वचो वीराः सर्वप्राणिकृपायुतम् ॥ १९८ ॥
अस्मिन्पापे कलौ लोका नेया नो कौलिके पथि ॥
अतिक्षुद्रादियोनीनान्दशस्वेकः प्रजायते ॥ १९९ ॥
कृमियोनिषु तेषान्तु दशके चोन्दुरादिकः ॥
दशके चोन्दुरादीनां विडालादिः प्रजायते ॥ २०० ॥
तेषान्तु दशके पक्षी कश्चिदेकः प्रजायते ॥
तन्मध्ये दशके कश्चिन्मृगजातिषु जायते ॥ २०१ ॥
तेषान्दशकमध्ये च महिषो वा वृषो भवेत् ॥
तेषान्तु दशके कश्चित्खरो वा करभो भवेत् ॥ २०२ ॥
भवेत्तद्दशके कश्चिद्धयादीनाञ्च जातिषु ॥
तेषान्तु दशके कश्चिन्नरो वाकुञ्जरो भवेत् ॥ २०३ ॥
आयुर्वैयस्य कालेन भावयन्तु सदा त्विमम् ॥
तेषामपि मनुष्याणाम्मध्यादेकः प्रजायते ॥ २०४ ॥
कञ्चिद्धर्मं पुरस्कृत्य मुक्तोहमिति जायते ॥
तेषान्दशकमध्ये तु कश्चिद्वर्णः प्रजायते ॥ २०५ ॥
तेषान्तु दशके कश्चिदनुलोमो भवेज्जनः ॥
तेषान्तु दशके कश्चित्प्राप्नुयाद्द्विजतां नरः ॥ २०६ ॥
द्विजानान्दशके कश्चिद्विप्रो भवति कष्टतः ॥
तेषान्तु दशके कश्चित्कर्मनिष्ठः प्रजायते ॥ २०७ ॥
कर्मिणा दशके कश्चिद्भवेदाशीलवान्नरः ॥
तेषां तु दशके कश्चिद्योगी भवति बालकः ॥ २०८ ॥
योगिनां दशके कश्चिदेको ज्ञानी प्रजायते ॥
ज्ञानिनां दशके कश्चिन्मुक्तो भवति वा न वा ॥ २०९ ॥
एवं मोक्षस्सुदुस्साध्यः संसारोयं चिरं स्थितः ॥
सर्व एव हि मुक्ताः स्युः प्रवृत्ताः कौलिके पथि ॥
ब्रह्मसृष्टिविनाशश्च तूर्णमेव भविष्यति ॥ २१० ॥
एवं प्रतारिता वीरा ननृतुर्मदमोहिताः ॥
वयम्मुक्तावयम्मुक्ता अन्योन्यञ्जघ्नुरोजसा ॥ २११ ॥
पुनः प्रमुदिताः सर्वे वचनञ्चेदमब्रुवन् ॥
अहो पशुजना यूयं निरयम्परमं गताः ॥ २१२ ॥
ते वरं याचतास्मभ्यं स्वोद्धारार्थम्भवान्तरे ॥
ततः प्रमुदितैर्विप्रैर्याचितोयं वरस्तदा ॥ २१३ ॥
अयं यः स कपालीनो लिङ्गरूपी प्रदृश्यते ॥
अस्माकन्तत्र रमताम्मनःस्वव्यभिचारितम् ॥ २१४ ॥
इति श्रुत्वा तदा वीरा वचनञ्चेदमब्रूवन् ॥
सत्यम्भवतु तच्चात्र पशुभिर्याचितन्तु यत् ॥ २१५ ॥
ब्रह्मविष्णुमहेशादिशक्तिसूर्यदिवौकसाम् ॥
नाथानस्मान्विहायाद्य पशुभिः किन्नु याच्यते ॥ २१६ ॥
वीराय मदिरा मन्त्रो मुद्रा मत्स्यः पलानि च ॥
अहो दैन्यं वयम्भोगमोक्षदाः कौलिका जनाः ॥
भोगेन मुक्तिरस्माकं सा त्यक्ता पशुभिर्जनैः ॥ २१७ ॥
भगे लिङ्गं समाधाय यत्सुखं समवाप्यते ॥
तेनार्चितोन्तरात्मायम्मुक्तो भवति तत्क्षणात् ॥ २१८ ॥
जठराग्नौ हूयते यत्त्वनेकविधिसंस्कृतम् ॥
फलं तेन तु तुष्टश्चेदन्तरात्मा विमुच्यते ॥ २१९ ॥
यदैव हृदयङ्गच्छेत्सुधातोप्यधिका सुरा ॥
तदैवं सकलाः क्लेशानाशं यान्ति विमुच्यते ॥ २२० ॥
यदैव गन्धो मुद्राया नासिकाञ्च प्रधावति ॥
अमृतानामयं सारः शफरः परिकीर्तितः ॥ २२१ ॥
तद्भोगादमृतत्वं चेन्नास्ति किं वैदिके पथि ॥
अहो शृण्वन्तु पशवस्तन्त्रसारमिदं वचः ॥ २२२ ॥
पण्डितो वापि मूर्खो वा दीक्षितो वाप्यदीक्षितः ॥
मुद्राः शतसहस्रन्तु कृत्वा मोक्षमवाप्नुयात् ॥ २२३ ॥
मुद्रायाः करणञ्चैवं शिक्षणीयं कदाचन ॥
चामुण्डाद्या महादेव्यो भैरवाद्या महाबलाः ॥ २२४ ॥
मुद्राभिरेव तृप्यन्ति न पुष्पादिकपूजनैः ॥
महापूजा कृता तेन येन मुद्राष्टकं कृतम् ॥ २२५ ॥
स यत्पदमवाप्नोति तन्न ब्रह्मा न शङ्करः ॥
अवश्यमेव मुक्तिः स्यात्सहस्रभगदर्शनात् ॥ २२६ ॥
पुरा कौलिकमार्गस्य निन्दा वै विष्णुना कृता ॥
तत्पातकवशाज्जातो मत्तो दशरथात्मजः ॥ २२७ ॥
यत्तेन निन्दिता शक्तिस्तत्सीता रक्षसा हृता ॥
दुःखञ्च समनुप्राप्तं वियोगश्चानुकालिकः ॥ २२८ ॥
शरीरं वैभवं लब्ध्वा पुनस्तेन कृतन्तपः ॥
तदा गोपकुले जातः सदा शक्तिनिषेवकः ॥ २२९ ॥
शरीरार्धेन बलिभिर्नित्यमासवसेवकः ॥
षोडशस्त्रीसहस्राणाञ्जातोसौ भगदर्शनात् ॥ २३० ॥
मोक्षाधिकारिपशवः शृणुतैतद्धितं वचः ॥
विना मांसं विना मासं विना मत्स्यं च मैथुनम् ॥ २३१ ॥
विना मुद्रामन्यतमं भवेन्नास्तीष्टसाधनम् ॥
पशुभिर्याचितं यत्तु किमु चैतत्तदेव हि ॥ २३२ ॥
एवमुक्तेन वीरेषु मुनयः शंसितव्रताः ॥
अन्तः प्रफुल्लवदनाः शान्तिपूर्वं वचो जगुः ॥ २३३ ॥
वयन्तु पशवो विप्रा अन्नप्राणा विलोकिताः ॥
यूयं सिंहाः सिंहवच्च सदा मासनिषेवकाः ॥ २३४ ॥
पशूनां च यथा तृप्तिः शाद्वलेनैव जायते ॥
अन्नेन च तथास्माकं न मांसं भक्षितुं क्षमाः ॥ २३५ ॥
सिंहानां तु यथा भक्ष्यं मांसं नान्नं कदाचन ॥
तथैव वीरसिंहानां भक्ष्यं मांसादिकं किल ॥ २३६ ॥
इति श्रुत्वा वचस्तेषां प्रोचुस्ते च महेश्वरम् ॥
त्वां सेवयितुम्मिच्छन्ति पशवो विप्ररूपिणः ॥ २३७ ॥
तस्मात्पशुपतिस्त्वं च नेपालेत्र स्थिरो भव ॥
इत्युक्त्वा ते पुनः पीत्वा मद्यं मत्तास्तथाभवन् ॥ २३८ ॥
तदा नानाविधैः स्तोत्रैर्विप्रैः सन्तोषितो ह्यहम् ॥
तदा तेभ्यो मया प्रोक्तं व्रियतांव्रियतामिति ॥ २३९ ॥
उक्तं तैश्च पुनर्देव कथं मुक्तिः कलौ भवेत् ॥
येनास्माकं भवेच्छ्रेयस्तन्धर्मं वद नः प्रभो ॥ २४० ॥
इति तेषां वचः श्रुत्वा मया तत्त्वं निरूपितम् ॥
ज्ञानं विना न मोक्षोत्र ज्ञानं धर्मादृते न हि ॥
तस्माद्द्विजाः प्रकर्तव्यं वेदोक्तं कर्म नित्यशः ॥ २४१ ॥
यथा पिष्टेन बडिशमत्र गुप्तं निपात्यते ॥
मत्स्यानां ग्रहणार्थन्तु तद्वत्तन्त्रनिषेवणम् ॥ २४२ ॥
कश्चिन्मत्स्यो दैवयोगाच्चूर्णभोक्ता न विद्यते ॥
तदास्य जायते तृप्तिर्जीवनं च भवेद्यथा ॥ २४३ ॥
तथैव वाममार्गे च ज्ञाननिर्दग्धकल्मषाः ॥
भवन्ति मुक्ता नान्ये च तस्मात्तं परिवर्ज्जयेत् ॥ २४४ ॥
ये वाममार्गनिरता वेदबाह्यानुसारतः ॥
स्वधर्ममेव शंसन्ति वचस्तेषां न मानयेत् ॥ २४५ ॥
अस्मिन्कलियुगे घोरे यथाशक्ति करोति यः ॥
सेवनं वेदमार्गस्य कलौ तस्य जनिर्न हि ॥ २४६ ॥
यमलोके न निरये पाताले नैवनैव च ॥
यद्ब्राह्मणे जन्म कलौ स एव निरयः स्मृतः ॥ २४७ ॥
अतः परं प्रवक्ष्यामि गणेशेन हृताश्च ये ॥
सत्कार्यार्थं दिवोदासनिस्सारार्थन्देवताः ॥ २४८ ॥
आनीतास्तास्तु मम वै पार्वत्याश्चापि वल्लभाः ॥
गणेश शासनात्कामो दग्धोपि पुनरुत्थितः ॥ २४९ ॥
दिवोदासस्य भवने सर्वेषां हृदये स्थितः ॥
तस्य मन्त्रान्प्रवक्ष्यामि लोकद्वयफलप्रदान् ॥ २५० ॥
आदौ क्लीम्बीजरूपोस्य मन्त्र एकाक्षरो मतः ॥
सम्मोहनो मुनिश्छन्तो गायत्रं देवता स्मरः ॥
षड्दीर्घभाजा बीजेन षडङ्गानि प्रकल्पयेत् ॥ २५१ ॥
रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् ॥
नानारत्नौघमुकुटभूषणैर्भूषितं शुभम् ॥ २५२ ॥
पाशाङ्कुशाविक्षुचापं पुष्पेषून्दधतं करैः ॥
उपविष्टं रक्तपद्मे कामदेवं विभावये ॥ २५३ ॥
पद्ममष्टदलं कृत्वा मध्येनङ्गं समर्चयेत् ॥
कर्णिकायां च षट्पत्रे कोणेष्वङ्गानि पूजयेत् ॥ २५४ ॥
देवाग्रतस्तु मध्यान्तमर्चयेत्केशरेषु च ॥
मोहिनीं क्षोभिणीं चैव त्रासिनीं स्तम्भिनीं ततः ॥ २५५ ॥
आकर्षिणीं द्राविणीं ह्रादिनीं क्लिन्नां च क्लेदिनीम् ॥
षट्पत्रे मदनानङ्गमन्मथा कुसुमाह्वयाः ॥ २५६ ॥
अनङ्गकुसुमातुरा ह्यनङ्गशिशिरापि च ॥
अनङ्गमेखलानङ्गदीपिका च ततः परम् ॥ २५७ ॥
सर्वा ध्येयाः पद्महस्ताः सालङ्काराश्च तद्बहिः ॥
पद्मे षोडशपत्राढ्ये स्वाग्रतः परिपूजयेत् ॥ २५८ ॥
युवती विप्रलम्भा च ज्योत्स्ना सूरुमदद्रवा ॥
सुरता वारुणी लोला लीला सौदामनी तथा ॥ २५९ ॥
कामच्छत्रा चन्द्ररेखा शुकी च मदनाह्वया ॥
योनिर्मायावती चेति तरुण्यः सस्मिताननाः ॥ २६० ॥
कह्लारहस्ताः कामार्ताः पत्राग्रे परिचारकान् ॥
विलासविभ्रमौ मोहं शोकं कामस्य पूजयेत् ॥ २६१ ॥
मदनातुरापत्रपौ युवानं चन्दनं तथा ॥
रतिप्रियं चूतपुष्पं ग्रीष्मं तापनमूर्जकम् ॥ २६२ ॥
हेमन्तं शिशिरं चापि मदन्ते पुष्पसायकाः ॥
एते चार्पिततूणीराः शोणस्त्रीसक्तमानसाः ॥ २६३ ॥
इक्षुचापाश्च तद्बाह्ये चाष्टपत्रदलेर्चयेत् ॥
परभूः सारसाक्षश्च शुको मेघस्ततः परम् ॥ २६४ ॥
आपाङ्गोरुविलासौ च हीनचीरो रतिप्रियः ॥
भूगृहस्य च कोणे च चतस्रः पूजयेदिमाः ॥ २६५ ॥
माधव्याख्या मालती च हरिणाक्षी मदोत्कटा ॥
श्वेतचामरसद्धस्ताः श्यामा भूषितविग्रहाः ॥ २६६ ॥
इन्द्रादींश्च ततो बाह्ये वज्रादीन्यपि पूजयेत् ॥
एवमाराधयेद्यस्तु गन्धपुष्पादिभिः स्मरम् ॥ २६७ ॥
सौभाग्यमतुलं कामान्महालक्ष्मीं स विन्दति ॥
पुरश्चरणमेतस्य लक्षं द्वादश चोच्यते ॥ २६८ ॥
तद्दशांशं त्रिमध्वक्तैः किंशुकप्रसवैर्हुनेत् ॥
तर्पणं मार्जनं कृत्वा ब्राह्मणानपि भोजयेत् ॥ २६९ ॥
ततोभ्यर्च्य गुरुं विप्रैः प्रणम्य च सुतोषयेत् ॥
एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत्ततः ॥ २७० ॥
अशोककुसुमैः स्वादुत्रयाक्तैस्त्रिदिनं हुनेत् ॥
अष्टाधिकं सहस्रं यः सर्वेषां स प्रियो भवेत् ॥ २७१ ॥
गोघृतेन सुसम्पातमष्टोत्तरशतं हुनेत् ॥
सम्यक्प्रपूजिते वह्नौ मन्त्रेणानेन मन्त्रवित् ॥ २७२ ॥
सम्पातं सर्पिषां यो वै स्वां नारीं भोजयेत्प्रिये ॥
आज्ञानुवर्तिनी सास्य भवेज्जन्मनि जन्मनि ॥ २७३ ॥
दध्यक्तलाजहोमेन प्रत्यहं मण्डलावधि ॥
वाञ्छिताṁल्लभते मन्त्री कन्या सापि प्रियं पतिम् ॥ २७४ ॥
मालामन्त्रं प्रवक्ष्यामि कामदेवस्य सिद्धिदम् ॥
हृदयं कामदेवाय सर्वजनप्रियाय च ॥ २७५ ॥
सर्वजनसम्मोहनाय ज्वलद्वह्निमयं वदेत् ॥
प्रज्वल सर्वजनस्य हृदयं ममकीर्तयेत् ॥ २७६ ॥
वशङ्कुरुकुरु स्वाहा मन्त्रो नागकृताक्षरः ॥
षड्दीर्घयतक्लीम्बीजैः षडङ्गविधिरीरितिः ॥ २७७ ॥
आदौ कराङ्गुलाष्वेतान्वर्णान्कामस्य चिन्तयेत् ॥
द्रामाद्यां द्राविणीं देवीं द्रोमायां क्षोभिणीमपि ॥ २७८ ॥
क्लीं च वशीकरीं न्यस्येत्क्रूं क्लीमाद्यां महेश्वरीम् ॥
आकर्षिणीं च सः पूर्वां सम्मोहिनींहमादिकाम् ॥ २७९ ॥
काममन्मथकन्दर्पमकरध्वजसञ्जकाः ॥
मीनकेतुरिमे न्यस्याः पञ्चाङ्गेष्वङ्गुलीषु च ॥ २८० ॥
चत्वारिंशन्मन्त्रवर्णानकारादिस्थले न्यसेत् ॥
मातृकाया नासिकाङ्गेप्यङ्गेष्वथ ततः परम् ॥ २८१ ॥
जठरे हृदये कण्ठे वक्रेनसि च पञ्चसु ॥
न्यस्येद्वर्णत्रयं शेषं व्यापकत्वेन सन्न्यसेत् ॥ २८२ ॥
पुनः सम्पूर्णमनुना व्यापकं पुनराचरेत् ॥
ततश्च मातृकार्णानां बृहन्न्यासं समाचरेत् ॥ २८३ ॥
कामबीजप्रकुटितां मात्रामुक्त्वा च युग्मकम् ॥
भ्यान्तं नमः समुच्चार्य मातृकाङ्गेषु विन्यसेत् ॥ २८४ ॥
रतियुक्तं न्यसेत्कामं कामदम्प्रीतिसंयुतम् ॥
कान्तां च कामयुक्तां हि कान्तिमन्तञ्च मोहिनीम् ॥ २८५ ॥
कामाङ्गं कमलायुक्तं कामचारं विलासिनीम् ॥
कामयुक्तां कल्पनाञ्च श्यामलां कामुकान्विताम् ॥
शुचिस्मितां न्यसेत्कामवर्धनेन समन्विताम् ॥ २८६ ॥
रमायुक्तं विशालाक्षं रमणं लोलजिह्विकाम् ॥
दिगम्बरां रतिनाथं रमाञ्चातिरतिप्रियम् ॥
रात्रिनाथं कुब्जिकाञ्चरमाकान्तञ्च कान्तया ॥ २८७ ॥
नित्यया रममाणञ्च कल्परूपां निशाकरम् ॥
नन्दकं भोगिनीयुक्तं नन्दनं कामदायुतम् ॥
सुलोचनां नन्दिनञ्च नन्दयन्तं प्रलापिनीम् ॥ २८८ ॥
पञ्चबाणं च मदनींरतिभङ्गकलिप्रियाम् ॥
पुष्पधन्वा मृगाक्षी च सुमुखा च महाधनुः ॥
क्रमणो नलिनीयुक्तो भ्रमणो यजिनीयुतः ॥ २८९ ॥
मन्मथो मदनायुक्तो मोर्भङ्गश्चापि मालया ॥
शान्तश्च मुग्धया युक्तो भ्रामको रमया युतः ॥ २९० ॥
शृङ्गश्च भ्रमया युक्तो भ्रान्ताचारस्तु लोलया ॥
भ्रमावहश्चञ्चलया मोहनोदीर्घजिह्वया ॥ २९१ ॥
रतिप्रियां मोदकं च मोहाक्षीं लोलमेव च ॥
मोहवर्धनशृङ्गिण्यो मदनं पाटलां तथा ॥ २९२ ॥
मन्मथं मदनां चापि मालां मातङ्गमेव च ॥
भृङ्गनायकहंसिन्यौ गायकं विश्वतोमुखीम् ॥ २९३ ॥
गीतिज्ञं जगदानन्दं नर्तकं रमणीमपि ॥
क्ष्वेलकं कान्तिसंयुक्तं चोन्मत्तं कलकण्ठिकाम् ॥ २९४ ॥
मत्तं वृकोदरायुक्तं मेज्यौ श्यामां विलासिनम् ॥
सर्वोत्तमायुतं लोभवर्धनं न्यस्य चिन्तयेत् ॥ २९५ ॥
प्राग्वत्पूजादिकं तद्वत्कृष्णपीठे समर्चयेत् ॥
प्रयोगाश्चापि कर्तव्याः कृष्णगोपालसम्भवाः ॥ २९६ ॥
त्रयोदश्यां शुक्लपक्षे सोमवारे सहस्रकम् ॥
अष्टोत्तरं च ताम्बूलं गजपुष्करभक्षितम् ॥ २९७ ॥
पुरुषत्वमवाप्नोति सत्पुत्रं द्रावयेत्प्रियाम् ॥
अथ कामस्य गायत्री प्रोच्यते पूजनादिकम् ॥
सन्न्यास-एकाक्षरवन्मुनिर्वात्स्यायनो मतः ॥ २९८ ॥
कामदेवाय विद्महे पुष्पबाणाय धीमहि ॥
तन्नोऽनङ्गः प्रचोदयात् ॥ २९९ ॥
षण्न्वति सहस्राणि जपोस्य परिकीर्तितः ॥
सर्वान्कामानवाप्नोति परत्रापि च सद्गतिम् ॥ ३०० ॥
प्रथमन्तु गणेशेन दिवोदासमहीपतेः ॥
अन्तःपुरे प्रेषितोयं नारीणां हृदयं गतः ॥ ३०१ ॥
अपास्य च ततो धर्मं राज्ञो हृदयमाविशत् ॥
मन्दधर्मः शापितो यस्तदा काश्या विवासितः ॥ ३०२ ॥
तस्माद्गणे शादन्येन कामो मत्तोपि चापरः ॥
विष्णुः काममयो यस्मात्तस्मात्कामः सतां गतिः ॥ ३०३ ॥
अन्तःपुरे गते कामे दिवोदासस्य तेजसा ॥
दन्दह्यमानो गणपस्तत्सहायार्थमुद्यतः ॥ ३०४ ॥
तदा ध्यात्वा महाकालं महामायां च शाश्वतीम् ॥
तदा तयोः प्रभावेण दृष्टवान्परमं पतिम् ॥ ३०५ ॥
तस्मिन्नुदभवत्काचिद्वर्णाली ब्रह्मवादिनः ॥
तामेव च जपंस्तस्थौ वर्षमात्रं विमुक्तितः ॥ ३०६ ॥
मणिकर्णिका तटे तस्य सिद्धयः समुपस्थिताः ॥
तदा ख्यातः काशिकायामसौ सिद्धिविनायकः ॥ ३०७ ॥
सिद्धये स मनुष्याणां नानारूपधरो भवेत् ॥
लोभद्वेषादिकान्सर्वान्वासयामास तत्र तु ॥ ३०८ ॥
स मन्त्रः केवलं कोलवाचको मोक्षदायकः ॥
यत्प्रसादाद्दिवोदासो गुप्तसेनः प्रपञ्चितः ॥ ३०९ ॥
तस्मात्प्रपञ्चमन्त्रोयं तन्त्रेषु प्रकटीकृतः ॥
उद्धारार्थमविप्राणां गायत्र्येषा मयोदिता ॥ ३१० ॥
सर्वेपि मन्त्रा भो देवा देवसायुज्यकारकाः ॥
तस्य चान्तर्गताः पञ्च मन्त्रो योभ्यो मया कृतः ॥ ३११ ॥
पञ्चाम्नायस्य विषयस्तं मन्त्रं कथयाम्यथ ॥
महाकालस्य यो वाची स आदौ प्रणवो मनुः ॥ ३१२ ॥
माहामायावाचिका तु हृल्लेखा परिकीर्तिता ॥
जीववाची हम्स इति द्व्यक्षरोयं तृतीयकः ॥ ३१३ ॥
जीवकर्मच्छेदकरं ज्ञानं यत्प्रोच्यते बुधैः ॥
स एव सोहमिति चेद्व्यर्णो मन्त्रश्चतुर्थकः ॥ ३१४ ॥
यस्मात्प्रपञ्च उद्भूतो देवतृप्तिकरश्च यः ॥
स्वाहा द्व्यक्षरो मन्त्रः पञ्चमः परिकीर्तितः ॥ ३१५ ॥
एवमष्टाक्षरश्चायं मन्त्रराजो निरूपितः ॥
यतो ब्रह्माप्रपञ्चादिः स एवास्य मुनिः स्मृतः ॥ ३१६ ॥
गायन्तन्त्रायते यस्माद्गायत्रं छन्द ईरितम् ॥
यस्मादपि स एकोपि तेजसोन्तो न विद्यते ॥
परम्पदेन यत्प्रोक्तं परं ज्योतिश्च देवता ॥ ३१७ ॥
आदौ तु मातृकान्यासः केवल प्रथमं स्मृतः ॥
सबिन्दुमातृकान्यासो द्वितीयः परिकीर्तितः ॥ ३१८ ॥
कलादिमातृकान्यासस्तृतीयः परिकीर्तितः ॥
केशवादिकमातॄणां चतुर्थो न्यास उच्यते ॥ ३१९ ॥
शिवशक्त्यात्मको न्यासः पञ्चमोत्र समीरितः ॥
मायाबीजादिकः षष्ठो मातृकान्यास उच्यते ॥ ३२० ॥
श्रीबीजादिकमातॄणां सप्तमो न्यास उच्यते ॥
मातृकाकामबीजाद्यास्तन्न्यासश्चाष्टमो मतः ॥ ३२१ ॥
नवमो ह्रींरमाकामबीजपूर्वास्तु मातृकाः ॥
प्रपञ्चपूर्वाणां मन्त्रो मातॄणां दशमः स्मृतः ॥ ३२२ ॥
व्यापकत्वाच्च कालस्य न ध्यानं न च पूजनम् ॥ ३२३ ॥
लक्षाष्टकं मनोरस्य पुरश्चरणमुच्यते ॥
उग्रताराद्यतिक्रूरस्तारादिश्चैव साधकः ॥ ३२४ ॥
अनेन पुटितो जप्तो वर्णलक्षमितो यदि ॥
आगत्य मन्त्रदेवस्तु जायते साध्यकिङ्करः ॥
महाकालप्रभावेण स्वर्गिभ्यो नान्यथा 8 भवेत् ॥ ३२५ ॥
समिधस्तु वटप्लक्षपिप्पलोदुम्बरोद्भवाः ॥
तिलसिद्धार्थाज्यहविर्होमद्रव्याष्टकं मतम् ॥ ३२६ ॥
होमार्थं पूजयेद्विप्रान्सिद्धमन्त्रस्ततो भवेत् ॥
सिद्ध्यन्ति सर्वकार्याणि प्रयोगः कथ्यतेधुना ॥ ३२७ ॥
दशायुतं विधानेन तदर्धमथवा पुनः ॥
कार्यस्यैवानुसारेण हुनेद्रव्याष्टकेन च ॥ ३२८ ॥
चौरशत्रुभयव्याधिसर्पराक्षसदोषतः ॥
चतुःशतन्तदर्धं वा तदर्धं वा हुनेत्ततः ॥ ३२९ ॥
क्षुद्ररोगेषु जातेषु तत्तद्दोषानुसारतः ॥
रससङ्ख्यसहस्राणि हुनेद्द्रव्याष्टकेन च ॥ ३३० ॥
एतद्द्विगुणतश्चाथ चतुर्गुणत एव वा ॥
भूतावेशग्रहावेशकृत्यादीन्सुविनाशयेत् ॥ ३३१ ॥
शास्त्रोक्तं तु क्रमं हित्वा जपपूजादिकृत्तु यः ॥
वामे वा कौलिके मार्गे ग्रस्यते भैरवादिभिः ॥ ३३२ ॥
स्मृतिभ्रंशो भवेद्यस्य होमद्रव्याष्टकेन च ॥
सहस्रसङ्ख्यहोमेन स्वप्नो भवति तत्क्षणात् ॥ ३३३ ॥
प्रत्येकं द्विसहस्रं यो हुनेद्द्रव्याष्टकेन च ॥
अपस्मारं स्मृतिभ्रंशं शोषदोषं स नाशयेत् ॥ ३३४ ॥
द्रव्याष्टकं त्रिमध्वक्तं हुनेत्तस्य तु भोग्यतः ॥
देवेन्द्रस्य महालक्ष्मीस्तल्लक्ष्म्या लज्जतेतराम् ॥ ३३५ ॥
लक्षं लक्षार्धकं वापि त्रिमध्वक्तं तु यो हुनेत् ॥
द्रव्याष्टकं त्रिवर्षार्वाक्तस्य लोकत्रयं वशे ॥ ३३६ ॥
वश्यादिसाधनं प्रोक्तं त्विह द्रव्याष्टकेन च ॥
वृद्ध्यादिकं विजानीयाद्धोमं तं कार्यगौरवात् ॥ ३३७ ॥
शुद्धैस्तिलैस्तु लक्षं यो होमं कुर्याद्यथाविधि ॥
महापापानि तस्याशु प्रलयं यान्ति नान्यथा ॥ ३३८ ॥
लक्षं कमलहोमेन महालक्ष्मीः प्रजायते ॥
हविष्यैः पुष्टिदो होमो घृतहोमो यशस्करः ॥ ३३९ ॥
मालतीपुष्पहोमोपि सर्ववश्यप्रदो भवेत् ॥ ३४० ॥
सामुद्रं लवणं हुत्वा तथा वश्यं प्रसाधयेत् ॥
अथ शालिसमुद्भूतांस्तण्डुलान्साधु चूर्णयेत् ॥ ३४१ ॥
मधुरत्रयसंयुक्ततच्चूर्णेनैव साधकः ॥
साध्यप्रतिकृतिं कुर्यात्सम्यक्सम्पूज्य तां स्पृशेत् ॥ ३४२ ॥
प्राणस्थापनमन्त्रन्तु जपेत्साष्टशतं ततः ॥
विभज्य जुहुयान्मन्त्री तां न्यासक्रमतो निशि ॥ ३४३ ॥
सप्तरात्रं प्रकुर्वाणो नरं वा स्त्रियमेव वा ॥
वशीकरोति सोप्येवं नात्र कार्या विचारणा ॥ ३४४ ॥
सामुद्रलवणस्यापि पुत्तल्या फलमीदृशम् ॥
प्रादुर्भूते ततस्तस्मिन्वटाग्नौ जुहुयाद्घृतम् ॥ ३४५ ॥
अष्टोत्तरशतं मन्त्री भासितं पतितं च यत् ॥
पूर्णौषधिविपक्वेन पञ्चगव्येन पूरिते ॥ ३४६ ॥
चुल्ल्यां संस्थापितेधस्ताद्वह्निः कुम्भे प्रदापयेत् ॥
तावत्सङ्ख्यं च सञ्जप्य गृह्णीयात्सर्वसिद्धिदम् ॥ ३४७ ॥
लक्षणाद्गात्रलेपाच्च तिलकक्रियया तथा ॥
मस्तके धारणात्सद्यः सर्वे नश्यन्त्युपद्रवाः ॥ ३४८ ॥
भूतप्रेतपिशाचादिविषरोगादिनाशनम् ॥
सर्ववश्यकरं पुसां श्रीसौभाग्यजयप्रदम् ॥ ३४९ ॥
सहस्रसङ्ख्यके होमे तदानीं गुरवे बुदः ॥
पलं पलार्धकं वापि दद्याद्धेम्नो वरस्य च ॥ ३५० ॥
कल्पवृक्षाद्यथा देवा लभन्ते वाञ्छितं फलम् ॥
एवं सिद्धिं प्रपञ्चाख्यमन्त्रेण गणपस्य हि ॥ ३५१ ॥
तत्सन्निधौ समाजग्मू राजकीया महाजनाः ॥
स एव सर्वशास्त्राणां वक्ताभूज्जगतो गुरुः ॥ ३५२ ॥
विना विप्रान्सर्वजनास्तन्त्रमार्गे प्रकीर्तिताः ॥
मकारपञ्चकेनैव जातं सर्वत्र पूजनम् ॥ ३५३ ॥
शनैश्शनैः समभवत्पृथिव्यां क्वचिदीदृशः ॥
मपञ्चमन्त्रमाहात्म्याद्राजापि भ्रान्तमानसः ॥ ३५४ ॥
मन्नाम्ना कल्पितैर्ग्रन्थैः क्षुद्रदेवरता जनाः ॥
मपञ्चकस्य सेवातो धर्मं पश्यन्ति ते न हि ॥ ३५५ ॥
प्राप्नुवान्त द्रुतं सिद्धिं गणेशस्य प्रभावतः ॥
अहो साक्षात्परब्रह्म अहो गुरुपतिस्त्वयम् ॥
अहोष्टसिद्धिनाथोयं सर्वविद्याविशारदः ॥ ३५६ ॥
मथित्वा चतुरो वेदानस्मद्भाग्यात्कृपालुना ॥
दर्शितः कौलिकः पन्था भुक्तिमुक्तिप्रदायकः ॥ ३५७ ॥
इति नॄणां वचः श्रुत्वा जग्मुर्विप्राश्च तं प्रति ॥
स तेषां सम्यगातिथ्यं कृत्वा तुष्टाव चागमम् ॥ ३५८ ॥
अहो विप्रा जीवहिंसाप्रधानं यज्ञकर्म तु ॥
न कर्तव्यो गुरुप्रोक्तो यज्ञो यागो मपञ्चकः ॥ ३५९ ॥
तपश्चापि न कर्तव्यमात्मा दुःखी प्रजायते ॥
तान्त्रिकं कर्म कर्तव्यं वैदिकं न कदाचन ॥ ३६० ॥
वैदिकाः पशवः प्रोक्ता जीवन्मुक्तास्तु तान्त्रिकाः ॥
कुर्वन्त्याभ्यन्तरं कर्म तत्त्वमेतद्विचार्यताम् ॥ ३६१ ॥
यद्दीयते प्राप्यते तद्वेदशास्त्रादिसम्मतम् ॥
दुःखं यदात्मनो दत्त्वा कथं सौख्यं प्रलभ्यते ॥ ३६२ ॥
सुखबीजेन संसाध्यं महत्सौख्यं द्विजोत्तमाः ॥
तस्मात्कौलं समासाद्य लोकद्वयसुखप्रदम् ॥
मुक्ता भवन्तु भो विप्रास्त्यज्यतां वेदकर्म तत् ॥ ३६३ ॥
जातानि बहुवर्षाणि चाहोरात्राणि कुर्वताम् ॥
काचिद्दृष्टा तत्र सिद्धिः प्रत्यक्षं दृश्यतामिदम् ॥ ३६४ ॥
प्राणाग्निहोत्रं तन्त्रोक्तं कर्म षट्कप्रकाशतम् ॥
त्यक्त्वा तदग्निहोत्रन्तु चर्यतां दृश्यतामिदम् ॥ ३६५ ॥
इति तद्वचनं श्रुत्वा सरस्वत्या विमोहिताः ॥
त्यक्त्वाखिलं वेदमार्गं प्रविष्टा वामकौलयोः ॥ ३६६ ॥
प्राणाग्निहोत्रं ववक्ष्यामि गणेशेन प्रदर्शितम् ॥
ज्ञानिनां त्वरिता सिद्धिरन्येषां पतनं द्रुतम् ॥
उपविष्टः प्रसन्नात्मा प्राङ्मुखः स्थिरमानसः ॥
अतिमृद्वासनं बद्ध्वा पद्मासनमृजुर्भवेत् ॥ ३६७ ॥
शक्तिरूपात्मकं चिन्त्यं मूलाधारे त्रिकोणकम् ॥
मायाबीजन्तु तन्मध्ये चिन्तनीयं गुणात्मकम् ॥ ३६८ ॥
प्राग्रकोणात्त्रिकोणेषु त्रिकोणांस्त्रीन्विचिन्तयेत् ॥
हकारं चापि तन्मध्ये ध्यायेत्सत्त्वगुणात्मकम् ॥ ३६९ ॥
हकारान्तर्गतं ज्योतिश्चेतो भास्करसन्निभम् ॥
सात्त्विकेन हकारेण वेष्टितं तच्च चिन्तयेत् ॥ ३७० ॥
स हकारो राजसेन ईकारेण समन्वितः ॥
तामसेन तु रेफेण समाक्रान्तन्तु तद्द्वयम् ॥ ३७१ ॥
मूलाधार इति ध्यात्वा पञ्चकुण्डानि तत्र तु ॥
मध्ये प्राच्यां प्रतिच्यां च कौबेर्यां दक्षिणे तथा ॥ २७२ ॥
सर्वदा ज्वलदग्नीनि तानि कुण्डानि भावयेत् ॥
मध्यादिपूर्वतस्तत्र ज्ञेयाः पञ्चाग्नयो ह्यमी ॥ ३७३ ॥
आवसथ्यश्च सत्यश्च गार्हपत्यो हुताशनः ॥
तथा चाहवनीयोग्निरन्वाहार्यश्च पञ्चमः ॥ ३७४ ॥
प्रभाजालनिदानांश्च ज्ञानरूपान्निरञ्जनान् ॥
द्वादशान्तः स्थितां स्तांश्च कल्पादित्यान्विचिन्तयेत् ॥ ३७५ ॥
मातृकार्णानाज्यरूपान्व्यत्ययात्तत्र होमयेत् ॥
त्रं क्षं हं सं षमिति तु ज्ञेया वर्णाश्च पञ्च च ॥ ३७६ ॥
ध्येया मरकतप्रख्याः शास्त्रादिज्ञानकारकाः ॥
शं वं लं रं यं च ध्येयाः पञ्च गोमेदसन्निभाः ॥
सैंहिकेयस्य पञ्चैते सङ्ग्रामे विजयप्रदाः ॥ ३७७ ॥
मं भं बं फं पमिति च वर्णाः पं शनेर्मताः ॥
नीलेन्द्रेण समा ध्येया मन्त्रसिद्धिप्रदायकाः ॥ ३७८ ॥
नं धं दं थं तमिति च ध्येया विद्रुमसन्निभाः ॥
भौमस्यैते द्यूतकलिराजद्वारेषु सिद्धिदाः ॥ ३७९ ॥
णं ढं डं ठं टमित्येते वर्णाः शुक्रस्य कीर्तिताः ॥
चिन्तनीया वज्रनिभा यात्राकार्यशुभङ्कराः ॥ ३८० ॥
ञं झं जं छं चमिति च पुष्परागसमत्विषः ॥
गुरोरेते विवाहादिकार्यादिषु सुशोभनाः ॥ ३८१ ॥
ङं घं गं खं कमित्येते ध्येया वैदुर्यसन्निभाः ॥
केतोरेते शत्रुनाशकरा ध्येया मनीषिभिः ॥ ३८२ ॥
अः अम् औं ॐ च ऐम् ए च ऌं ॡं मौक्तिकसन्निभाः ॥
ऋं ॠम् ऊम् उं च ईञ्च आम् अं चैतेर्कसन्निभाः ॥
वर्णा हीरकसङ्काशा राजकार्यकरा इमे ॥ ३८३ ॥
एवं ध्यात्वा सखेटार्णांस्ततो होमं समाचरेत् ॥
क्षं शं मं नं णं च ञं ङम् अः एम् ऊम् आवसथ्यके ॥ ३८४ ॥
लं वं भं धं ढं च झं घम् अम् ऌम् उं सत्यकुण्डके ॥
हं लं बं दं डं च जं गम् औम् ऌम् ईं जुहुयात्ततः ॥ ३८५ ॥
अग्नावाहवनीयाख्ये सं रं फं थं ततश्च ठम् ॥
छं खं ॐ ऋं च इं कारमन्वाहार्ये हुनेत्सुधीः ॥ ३८६ ॥
पं यं पं तं टं च चं कम् ऐम् ऋम् आं गार्हपत्यके ॥
क्षकाराद्यान्नकारान्तान्व्यस्यान्वर्णान्क्रमाद्धुनेत् ॥ ३८७ ॥
तारं मायां च तं वर्णं हंसः सोहं ततः परम् ॥
स्वाहेत्युक्त्वा प्रोक्तकुण्डे हुनेदेकैकमक्षरम् ॥ ३८८ ॥
अकारस्तु परब्रह्मरूपो ध्येयस्ततो हुनेत् ॥
एवं हुत्वा शब्दजातं सर्वं शास्त्रादिकं हुनेत् ॥ ३८९ ॥
आवसथ्याभिधे कुण्डे हं बीजेन गुरूक्तितः ॥
स्पर्शादिकान्वायुगुणान्यं बीजेनेन्द्रकुण्डके ॥ ३९० ॥
सर्वरूपाणि जुहुयाद्रं बीजेन च पश्चिमे ॥
वम्बीजेन रसान्सर्वान्हुनेत्कुण्डे तथोत्तरे ॥ २९१ ॥
लम्बीजेन हुनेत्सर्वान्गन्धान्दक्षिणकुण्डके ॥
प्रलयानलसङ्काशज्वलदग्निष्वहर्निशम् ॥ ३९२ ॥
होमं कुर्वीत कुण्डेषु मातृकावर्णसंयुतम् ॥
नित्यशुद्धपरानन्दचिद्रूपोसौ विराजते ॥ ३९३ ॥
ध्रुवयज्ञादिकं होमं जपान्तं तत्तु पूर्ववत् ॥
पञ्चाशत्सङ्ख्यया कृत्वा न्यस्य तावद्यथाविधि ॥ ३९४ ॥
जीवन्मुक्तो भवेन्मन्त्री चिरञ्जीवी च जायते ॥
तेजसा सूर्यकल्पोसौ कर्ता हर्ता च शम्भुवत् ॥ ३९५ ॥
प्रत्यहं विधिनानेन भोजनं कुरुते यदि ॥
गार्हपत्यादिकुण्डेषु क्रमाद्ग्रासांस्तु होमयेत् ॥
अथर्वपरिशिष्टोक्तैर्मन्त्रैरेतैस्तु पञ्चभिः ॥ ३९६ ॥
गार्हपत्येनेहिरण्यवर्णाः शुचयः पावकाः ॥
अग्निं विहृत्यात्मानमुपचर्योर्ध्वं गच्छन्तु स्वाहा ॥ ३९७ ॥
अन्वाहार्येऽपाने गगनरुचयः पावकाः ॥
अग्निं विहृत्यात्मानमुपचर्योर्ध्वौधस्तिर्यग्गच्छन्तु स्वाहा ॥ ३९८ ॥
आअहवनीये व्याने रक्तवर्णाः शुचयः पावकाः ॥
अग्निं विहृत्यात्मानमुपचर्य तिर्यगूर्ध्वाधो गच्छन्तु स्वाहा ॥ ३९९ ॥
आवसथ्ये समाने सुप्रभावर्णाः शुचयः पावकाः ॥
अग्निं विहृत्यात्मानमुपचर्य तिर्यगूर्ध्वाधस्समं गच्छन्तु स्वाहा ॥ ४०० ॥
एवं होमं विधायाथ मन्त्रमेतमुदीरयेत् ॥
एवं भावनया सर्वमश्नीयादुच्यते मनुः ॥ ४०१ ॥
अहं वैश्वानरो भूत्वा जुहोम्यन्नं चतुर्विधम् ॥
पञ्चमेन विधानेनोर्ध्वाधस्तिर्यक्षु गच्छतु ॥ ४०२ ॥
स्वाहान्तोयं चतुस्त्रिंशद्वर्णमन्त्र उदाहृतः ॥
तूष्णीं होमं विधायाथ संस्कृतान्नेन मन्त्रवित् ॥ ४०३ ॥
अमृते त्यादिमन्त्रेण पीत्वा च चुलुकोदकम् ॥
आचम्य विधिना पश्चाच्छुद्धाचमनमाचरेत् ॥ ४०४ ॥
मूलाधारं समारभ्य द्वादशान्तावधि स्मरेत् ॥
जीवात्मानं जगद्व्याप्तं नित्यमेकमनन्यगम् ॥ ४०५ ॥
प्रकृतिस्थं शुभं चादिमध्यान्तरहितं परम् ॥
हवनीयेन शुद्धेन जुहुयात्तेन तर्पितम् ॥ ४०६ ॥
एवं गलत्सुधारूपं पञ्चाशद्वर्णसिक्तकम् ॥
भुक्त्वा हविर्हुतं मन्त्री सज्वलत्पञ्चवह्निकः ॥ ४०७ ॥
प्रातः सायं च कुर्वाणो मन्त्री प्राणाग्निहोत्रकम् ॥
गर्भस्थितिभवं क्लेशं विन्दते न कदाचन ॥ ४०८ ॥
अत्र तत्त्वं प्रवक्ष्यामिकौलिकोद्धारहेतुकम् ॥
या काचिद्वाममार्गेण साध्यते देवता तु सा ॥ ४०९ ॥
मपञ्चकेन सा तृप्ता साधकस्येष्टदायिनी ॥
नाधिकारस्तु विप्राणां मपञ्चकनिषेवणे ॥ ४१० ॥
अज्ञानान्मोहतो वापि दुर्गरोर्वा प्रसङ्गतः ॥
मपञ्चकस्य सङ्गश्चेज्जातो निरयमश्नुते ॥ ४११ ॥
तदुद्धाराय वक्ष्यामि युक्तिं प्राणाग्निहोत्रकम् ॥
मांसस्य भक्षणे चिन्त्यं हुनेत्पश्चिमकुण्डके ॥ ४१२ ॥
अग्निमुख्यादेवतया हुतं तद्भुज्यते त्विति ॥
मैथुने स्वस्य वीर्यं तु घृतरूपं विचिन्तयेत् ॥ ४१३ ॥
दक्षिणाग्निं तु तेनेद्धं भावयेत्सम्भवेत्त तत् ॥
एवमातृप्तिपर्यन्तं बालाया मैथुनं चरेत् ॥ ४१४ ॥
पूर्णतत्त्वे मनो नीत्वा ध्वजपातः प्रजायते ॥
न तत्र रात्रिजं पापं देवता चेत्प्रसीदति ॥ ४१५ ॥
पूर्वकुण्डेहुनेन्मुद्रां मूलमन्त्रेण साधकः ॥
देवता तेन तुष्टा स्यान्न पापैरभिभूयते ॥ ४१६ ॥
मद्यमुत्तरकुण्डे तु जुहुयाद्देवतामुखे ॥
न चाप्नोत्यस्य गन्धेन पापं वै धर्म एव सः ॥ ४१७ ॥
मध्यमे तु हुनेन्मत्स्यान्ध्यायंश्च वडवानलम् ॥
त्यक्तसौख्यः साधकश्चेद्भुक्तिमुक्तिप्रदः स तु ॥ ४१८ ॥
इत्थं वो बोधितं विप्रा वाममार्गे प्रकीर्तिताः ॥
नानामन्त्रैः कृताः शिष्या ज्ञातॄणां भुक्तिमुक्तिदैः ॥ ४१९ ॥
शक्तित्रयात्मको मन्त्रो वाग्वादिन्याः प्रकीर्त्यते ॥
प्रणवं वदयुग्मं च वाग्वादिनि पदं वदेत् ॥ ४२० ॥
ह्रीङ्क्लीङ्क्लीन्ने क्लेदिनीति महाक्षोभं वदेत्कुरु ॥
सौरुक्त्वा मोक्षमुच्चार्य कुरुष्व प्रणवं वदेत् ॥ ४२१ ॥
वाग्वादिन्या मनुः प्रोक्त एकोनत्रिंशदक्षरः ॥
नवभिश्च नगैर्बाणैर्जायतेस्य मनुत्रयम् ॥ ४२२ ॥
ब्रह्मादीनां त्रयाणां तु वाग्देव्यस्तत्र देवताः ॥
उत्पत्तिस्थितिनाशानां कारिकास्ताः प्रकीर्तिताः ॥ ४२३ ॥
नास्याः पूजा न च ध्यानं नच्छन्दो न च किञ्चन ॥
गणेशस्य प्रसादेन वर्णलक्षजपाद्द्रुतम् ॥ ४२४ ॥
वाक्सिद्धिं 9 समवाप्नोति कार्योत्पत्त्यादिकं 10 हृदि ॥
चिन्तयित्वा तथा मन्त्रखण्डं जप्त्वा वदेत्सकृत् ॥ ४२५ ॥
तदा सा भारती सत्या शापानुग्रहवादिनी ॥
मौनादस्य स्थिरा सिद्धिरशक्तौ मितभाषणात् ॥ ४२६ ॥
ततः प्रोक्ता गणेशेन त्रिंशद्व्याख्या तु भैरवी ॥
वदवद वाग्वादिनि ऐमित्येको नवाक्षरः ॥ ४२७ ॥
क्लिन्ने क्लेदिनि इत्युक्त्वा महाभागे वदेत्कुरु ॥
भैरवी देवता चात्र वर्णलक्षजपो भवेत् ॥ ४२८ ॥
न च पूजादिकं न्यासा मपञ्चकनिषेवणम् ॥
केवलं सिद्धये प्रोक्तं सर्वतन्त्रेषु गोपितम् ॥ ४२९ ॥
ज्ञातं यैर्गुरुमार्गेण सिद्धास्ते नात्र संशयः ॥
एताभ्यामेव मन्त्राभ्यां बहवः कौलिकाः कृताः ॥ ४३० ॥
अथ वक्ष्ये विप्रगोप्यां देवीं त्रिपुरभैरवीम् ॥
कौलिके वाममार्गे च सिद्धान्ते द्रुतसिद्धिदाम् ॥ ४३१ ॥
हकारं च सकारं च रेफमैकारसंयुतम् ॥
नादबिन्दुसमायुक्तं वाग्भवं कूटमुच्यते ॥ ४३२ ॥
हकारञ्च सकारञ्च ककारञ्च तथा रवौ ॥
नादबिन्दुसमायुक्ते ईकारे योजयेत्तदा ॥
पञ्चवर्णात्मकं कूटं कामराजाभिधं मतम् ॥ ४३३ ॥
हकारञ्च सकारञ्च रेफमैकारसंयुतम् ॥
विसर्गाढ्यं तृतीयन्तु कूटं वर्णत्रयात्मकम् ॥ ४३४ ॥
तृतीयबीजे बिन्द्वाढ्यं स्त्रीणामुक्तं न सर्गयुक् ॥ ४३५ ॥
आदौ सकारः पश्चाद्धस्त्रिभिः कटत्रयेपि च ॥
पठनीयस्तथा तासां देयो मन्त्रं सुसिद्धये ॥ ४३६ ॥
पङ्क्तिश्छन्दो मुनिः प्रोक्तो दक्षिणामूर्तिसञ्ज्ञकः ॥
देववन्दितपादाब्जा देवी त्रिपुरभैरवी ॥ ४३७ ॥
आपादं नाभितस्त्वोघमानानि हृदयात्परम् ॥
आहृन्मूर्द्धागतं चान्त्यं चैवं बीजत्रयं न्यसेत् ॥ ४३८ ॥
आद्यं सव्ये परं दक्षे तृतीयमुभयोर्न्यसेत् ॥
ऐं हृत् क्लीं च शिरः प्रोक्तं सौरन्त्येन शिखा मता ॥ ४३९ ॥
ऐं वर्म क्लीं च नेत्रं स्यात्सौरास्त्रं परिकीर्तितम् ॥
मूर्ध्न्याधारे हृदि न्यस्यं मनो कूटत्रयं पुनः ॥ ४४० ॥
कुर्वीत देहसन्नाहं त्रीभिर्बीजैस्तदुच्यते ॥
मणिबन्धे करतले कराग्रे च क्रमान्न्यसेत् ॥ ४४१ ॥
आदौ दक्षे ततो वामे कक्षकूर्परपाणिषु ॥
पुनर्दक्षे च वामे च पादयोश्च तथा न्यसेत् ॥
पादान्ते हृदये लिङ्गे संहारक्रमतो न्यसेत् ॥ ४४२ ॥
अथ सृष्टिक्रमेणैव बीजान्यङ्ङ्गेषु विन्यसेत् ॥
आदौ वामे ततो दक्षे कर्णयोश्चिबुके ततः ॥ ४४३ ॥
शङ्खयोश्च मुखे चैव नेत्रयोश्च तथा न्यसेत् ॥
बाहुद्वये च हृदये कूर्परद्वितये कटौ ॥ ४४४ ॥
जानुनोर्व्यञ्जने चापि पादयोर्मलनिर्गमे ॥
पार्श्वद्वये च हृदये स्तनयुग्मे गले तथा ॥ ४४५ ॥
नवयोन्यात्मको न्यासः प्रोक्तो बीजत्रयेण तु ॥
लिङ्गे रत्यै नम इति चाद्यबीजेन विन्यसेत् ॥ ४४६ ॥
प्रीत्यै नमश्च हृदये मध्यबीजेन विन्यसेत् ॥
मनोभवायै हृदये भ्रुवोर्मध्ये तृतीयकम् ॥ ४४७ ॥
सौः क्लीम् ऐमिति बीजैश्च स्थानेष्वेव पुनर्न्यसेत् ॥
अमृतेशीं च योगेशीं विश्वयोनिं क्रमादिमाः ॥
विलोमबीजैर्विन्यस्य मूर्तिन्यासमथाचरेत् ॥ ४४८ ॥
स्ह्रोमितीशानरूपाय ततो मनोवाय च ॥
नम इत्यन्तः प्रोच्या धरेशानं न्यसेद्बुधः ॥ ४४९ ॥
स्ह्रें तत्पुरुषरूपाय मकरध्वजकात्मक ॥
नमः प्रोच्य न्यसेद्वक्त्रे हृदये तु ततो न्यसेत् ॥ ४५० ॥
ह्स्रूम् अघोररूपाय कन्दर्पस्यात्मने नमः ॥
ह्स्रीं वामदेवरूपाय मन्मथस्यात्मने नमः ॥ ४५१ ॥
एतद्गुह्ये प्रविन्यस्य न्यस्येच्च पदयोस्तथा ॥
ह्स्कं सद्योजातात्मने कामदेवाय नम इत्यपि ॥ ४५२ ॥
ऊर्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषु मुखैः क्रमात् ॥
प्रविन्यस्येत्ततः पञ्च बाणानङ्गेषु विन्यसेत् ॥ ४५३ ॥
ह्रां ह्रीं क्लीं हूम इति च पञ्च बाणाः प्रकीर्तिताः ॥
अङ्गुष्ठादिकनिष्ठान्तमङ्गुलीषु क्रमान्न्यसेत् ॥ ४५४ ॥
क्षोभणद्रावणाकर्षवश्योन्मादाश्च नामतः ॥
ललाटे च भ्रुवोर्मध्ये मुखकर्णाक्षिकण्ठके ॥ ४५५ ॥
हृन्नाभिलिङ्गे विन्यस्या एता अष्टौ च शक्तयः ॥
शुभगाद्या भगा त्वन्या तृतीया भगसर्पिणी ॥ ४५६ ॥
चतुर्थी तु पराजेया पञ्चमी भगमालिनी ॥
अनङ्गानङ्गकुसुमा प्रोक्ता चानङ्गमेखला ॥ ४५७ ॥
अनङ्गमदना सर्वा मदविभ्रममन्थराः ॥
ध्येयाः कुसुम्भवसना हरित्काञ्चिकिकाः शुभाः ॥ ४५८ ॥
वाक्कामवूं पुनः स्त्रीं सस्ताराः पञ्चोदितास्त्वमी ॥
न्यासं कुर्याद्भूषणाख्यं ततः स तु निगद्यए ॥ ४५९ ॥
न्यस्येच्छिरसि भ्रूमध्ये कर्णाक्षियुगले नसि ॥
गण्डयोरोष्ठयोर्दन्तपङ्क्त्योरास्ये न्यसेत्स्वरान् ॥ ४६० ॥
चिबुकेथ गले कण्ठे पार्श्वयोः स्तनयुग्मके ॥
दोर्मूलयोः कूर्परयोः पाण्योस्तत्पृष्ठदेशतः ॥ ४६१ ॥
हस्तद्वये हमित्येकं तत्पृष्ठे च तु नित्यकम् ॥
नाभौ गुह्ये पुनश्चोर्वोर्जानुनोर्जङ्घयोस्तथा ॥ ४६२ ॥
स्फिजोश्च गुल्फयोः पश्चाच्चरणाङ्गुष्ठयोर्द्वयोः ॥
ग्रैवेये च तथा कट्यां हृदये दलकुण्डले ॥
वामकुण्डलके मूर्ध्नि बलये पानके तथा ॥ ४६३ ॥
हृदयस्थारुणाम्भोजकर्णिकामध्यसंस्थिताम् ॥
जपाकुसुमसङ्काशामरुणाम्बरभूषणाम् ॥ ४६४ ॥
स्मितसौधमहामोहां त्रिनेत्रां चन्द्रशेखराम् ॥
विश्वसौन्दर्यसर्वस्वजन्मसागररूपिणीम् ॥ ४६५ ॥
ब्रह्माब्जनेत्ररुद्रेशशिवाक्षैर्मण्डसञ्ज्ञितैः ॥
मण्डिताङ्गीं महादेवीं मुक्ताजपवटीधराम् ॥ ४६६ ॥
पुस्तकालङ्कृतकरां वरदाभयधारिणीम् ॥
आनन्दमधुरां देवीं मदाघूर्णितलोचनाम् ॥
रक्ताङ्गरागसुभगां ध्यायेत्त्रिपुरभैरवीम् ॥ ४६७ ॥
पूजायन्त्रं प्रवक्ष्यामि भैरवीबालयोरथ ॥
नवयोन्यात्मकं कुर्यान्मण्डलं गुरुमार्गतः ॥ ४६८ ॥
हकारञ्च सकारञ्च रेफमौकारसंयुतम् ॥
बिन्दुद्वययुतं चाग्रे त्रिकोणे मध्यमे न्यसेत् ॥ ४६९ ॥
योन्यष्टके कामबीजं बहिरष्टदलं लिखेत् ॥
केशरेषु स्वरालेख्या द्वन्द्वशोग्रदलेषु च ॥ ४७० ॥
कचटांस्तपयान्वर्णाञ्छक्षौ च विलिखेत्क्रमात् ॥
क्रमाद्दलानां ग्रन्थीश्च प्रणवाभ्यां ततश्चरेत् ॥ ४७१ ॥
दलाग्रेषु त्रिशूलानि बहिर्भूपुरमालिखेत् ॥
शूलाग्रेषु लिखेद्वर्णान्क्रमात्त्रिभ्यश्च पूर्वतः ॥ ४७२ ॥
खगघाङ्ङछजांश्चापि झञठाण्डढणास्तथा ॥
थदधान्नफवाश्चापि भसराल्लṁवषांस्तथा ॥ ४७३ ॥
वृत्तद्वयं च तद्बाह्ये वीथिकायां च मातृकाः ॥
चतुरस्रत्रयं कुर्यात्तद्बाह्ये देवतार्चनम् ॥ ४७४ ॥
यन्त्रमध्ये देवपृष्ठाः प्रादक्षिण्येन पूजयेत् ॥
द्वादशैताश्चाद्यवीथ्यामेकस्यां दिशि तु त्रयम् ॥ ४७५ ॥
वामा ज्येष्ठा तथा रौद्री अम्बिकेच्छे ततः परम् ॥
ज्ञानोत्क्रियाकुब्जिका च बिम्बा देवी विषघ्निका ॥ ४७६ ॥
दुस्तरा च तथा नन्दा ध्यानमासां निरूप्यते ॥
विप्रा वेदविदो यूयं तच्छृणुध्वं समाहिताः ॥ ४७७ ॥
मुक्ताफलामलमणिस्फुरच्छत्रं शशिप्रभम् ॥
गङ्गातरङ्गधवलं चामरद्वयमद्रिजे 11 ॥ ४७८ ॥
नवरत्नस्फुरद्दीप्तताम्बूलस्य करण्डकम् ॥
मल्लिकामालतीजातीशतपत्राढ्यदामभिः ॥ ४७९ ॥
पूर्णं रत्नमयं भाण्डं तथालङ्कारपूरितम् ॥
पटीञ्च व्यजनद्वन्द्वं नवरत्नविचित्रितम् ॥ ४८० ॥
नीलकण्ठस्य पूच्छैश्च तथोशीरविराजितम् ॥
कर्पूरमृगनाभ्याढ्यं कर्पूरक्षोदसंयुतम् ॥ ४८१ ॥
चषकं स्वर्णरचितं कङ्कतीं हीरराजिताम् ॥
कज्जलस्य शलाकां च करण्डं चन्द्रपूरितम् ॥ ४८२ ॥
दधानाः परमेशान्यः शक्तयः पीठसंस्थिताः ॥
पूर्वादिक्रमतः सर्वाः सर्वाभरणभूषिताः ॥ ४८३ ॥
सम्पूज्य मध्ये देवेशीं प्रेतसिंहासनं यजेत् ॥
रक्तस्धर्णाकृति स्वर्णदीप्तिमत्कलमव्ययम् ॥
पञ्चप्रेतासनं साक्षान्मोक्षदायि न संशयः ॥ ४८४ ॥
ह्स्कोः सदाशिवमहाप्रेतपद्मासनाय च ॥
हृदन्तः षोडशार्णोयं मन्त्रः स्यात्पीठपूजनम् ॥ ४८५ ॥
सिंहासनं च सम्पूज्यं चक्रैर्व्याकुलसुन्दरीम् ॥
आवाहनाद्या मुद्राश्च दर्शयित्वा प्रदर्शयेत् ॥
वरमुद्रां चाभयाख्यां ध्यायेत्त्रिपुरभैरवीम् ॥ ४८६ ॥
हृदयस्यारुणाम्भोजकर्णिका मध्यसंस्थिताम् ॥
जपाकुसुमसङ्काशारुणां स्वर्णविभूषणाम् ॥ ४८७ ॥
स्मितसौधमहामोहां त्रिनेत्रां चन्द्रशेखराम् ॥
विश्वसौन्दर्य सर्वस्वजन्मसागररूपिणीम् ॥ ४८८ ॥
ब्रह्मार्कविष्णुरुद्रेशशिवाख्यैर्मञ्चसञ्ज्ञिकैः ॥
मण्डिताङ्गीं महादेवीं मुक्ताजपवटीधराम् ॥ ४८९ ॥
पुस्तकालङ्कृतकरां वरदाभयधारिणीम् ॥
आनन्दमधुरां देवीं मदाघूर्णितलोचनाम् ॥ ४९० ॥
रक्ताङ्गसुभगां साक्षाद्ध्यायेत्त्रिपुरभैरवीम् ॥
मुद्राविंशतिसङ्ख्याकास्ततो देव्यै प्रदर्शयेत् ॥ ४९१ ॥
वराभये पुस्तकाक्षमाले चाङ्कुशपाशकौ ॥
चापबाणे कपालं च कमलं चायुधं तथा ॥
कपालाख्यं वामहस्ततलं कुर्यात्कपालवत् ॥ ४९२ ॥
आवाहनाद्या आदौ स्युश्चतस्रोन्ते च पं च ॥
दर्शनीया योनिमुद्रास्तासां लक्षणमुच्यते ॥ ४९३ ॥
योनिमुद्रा हृदि क्षिप्ता त्रैलोक्यं क्षिभिणी भवेत् ॥
त्रैलोक्यद्राविणी चास्य त्रिलोक्याकर्ष्णी भ्रुवोः ॥ ४९४ ॥
त्रैलोक्यवशकृद्भालेह्लादकृद्ब्रह्मरन्ध्रके ॥
ततः षडङ्गावरणं पीठस्योपरितोर्चयेत् ॥ ४९५ ॥
अग्नीशासुरवायव्यमध्ये दिग्दिक्षु च क्रमात् ॥
अग्निकोणे रतिं पश्चात्प्रीतिमुत्तरकोणके ॥ ४९६ ॥
मनोभवान्दक्षकोणे ततो बाणान्समर्चयेत् ॥
द्वौद्वावर्वागुदक्चैकमग्रे कामांश्च बाणवत् ॥ ४९७ ॥
तत्र सम्पूजयेदेताः पूर्वादिक्रमतो बुधः ॥
अनङ्गकुसुमा चाद्या द्वितीयानङ्गमेखला ॥ ४९८ ॥
तृटीयानङ्गमदनाग्रेनङ्गमदनातुरा ॥
शुभगा पञ्चमी देवी भगाग्रे भगसर्पिणी ॥ ४९९ ॥
भगमालात्र सर्वत्र देवपृष्ठं च पूर्वदिक् ॥
अष्टयोनिषु ब्राह्माद्या बाह्ये चाष्टदलद्वयम् ॥ ५०० ॥
ब्राह्म्यायुक्तश्चासिताङ्गो रुरुर्माहेश्वरीयुतः ॥
चण्डः कौमारिकायुक्तः क्रोधः स्याद्वैष्णवीयुतः ॥ ५०१ ॥
वाराह्या च तथोन्मत्तो माहेन्द्र्या च कपालभृत् ॥
चामुण्डाभीषणौ महालक्ष्मीः संहारसंयुता ॥ ५०२ ॥
दीर्घस्वराष्टको बिन्दुयुक्तानामहृदान्विताः ॥
क्रमात्स्युरष्टशक्तीनां पूजनेष्टौ मनूत्तमाः ॥ ५०३ ॥
न हृद्भैरवमन्त्रेषु स्वरा ह्रस्वाः सबिन्दुकाः ॥
कामरूपश्च मलयस्ततः कोल्लगिरिः स्मृतः ॥ ५०४ ॥
कुल्मान्तकवचौ हारे ह्यतो जालन्धरः परः ॥
उड्डीयानं देवकोटं पीठाष्टकमुदाहृतम् ॥ ५०५ ॥
ग्रन्थिस्थानेषु सम्पूज्यं पश्चिमादिक्रमेण तु ॥
हेतुकं भैरवं त्वाद्यं द्वितीयं त्रिपुरान्तकम् ॥ ५०६ ॥
वेतालमग्निजिह्वं च कालान्तककपालिनौ ॥
एकपादं भीमरूपं ततो 12 बाह्ये तु भूपुरे ॥ ५०७ ॥
पूजयेल्लोकपालांश्च ऊर्ध्वाधः क्रमतो यजेत् ॥
ब्रह्माणं चैव विष्णुं चाप्यर्चयेत्पश्चिमादितः ॥
वम्पूर्वोवटुको ङेन्तो हृदयान्तस्तथैव च ॥ ५०८ ॥
आदौ त्रिकोणं तद्बाह्ये वृत्तं च चतुरस्रकम् ॥
पूर्वमन्त्रैः समभ्यर्च्य वटुकादींस्ततः परम् ॥
बलिमन्त्रैश्च बलयो देया यन्त्रान्वदाम्यथ ॥ ५०९ ॥
एह्येहि देवीपुत्रान्ते वटुकान्ते च नाथ च ॥
कपिलान्ते जटाभारभास्वरान्ते त्रिनेत्र च ॥
ज्वालामुखेति सर्वान्ते विघ्नान्नाशयनाशय ॥ ५१० ॥
सर्वोपचारसहितं बलिं गृह्णद्वयं वदेत् ॥
पञ्चपञ्चादशार्णोयं स्वाहान्तो वटुकस्य तु ॥ ५११ ॥
पात्रान्तरेण गृह्णीयात्पूर्वं स्थापितपात्रतः ॥
तोयं गृहीत्वा वामाङ्गुष्ठेन वै विसृजेद्बलिम् ॥ ५१२ ॥
ॐ यां योगिनीभ्यः स्वाहा सवर्णंयोगिनीपदम् ॥
हुं फट् स्वहेति धृत्यर्णो योगिनीनां बलौ मनुः ॥ ५१३ ॥
वामाङ्गुष्ठानामिकाभ्यां मध्ये च पातयेद्बलिम् ॥
सद्वीर्ययुक्तं क्षं प्रोच्य स्थाने क्षेत्रे निपानभूः ॥ ५१४ ॥
धूपदीपादि सहितं बलिं गृह्णद्वयं वधूः ॥
अग्नेरष्टनवार्णोयं क्षेत्रपालबलेर्मनुः ॥ ५१५ ॥
अङ्गुष्ठतर्जनीभ्यां च तर्जन्या चैकयापि च ॥
गां गीं गूं गणपतये वर वरद शर्व च ॥ ५१६ ॥
जनं मे वशमानय बलिं गृह्ण द्वयं वदेत् ॥
स्वाहान्ता एकत्रिंशच्च मनौ वर्णाः प्रकीर्तिताः ॥ ५१७ ॥
वामाङ्गुष्ठमध्यमाभ्यां प्रोक्ष्याग्रे बलिमुत्सृजेत् ॥
निर्माल्यभोजिनी चास्य देवी त्रिपुरचण्डिका ॥ ५१८ ॥
न जपेत्त्रिंशतो न्यूनं साधकस्तु कदाचन ॥
तत्सम्प्रदायशुद्धात्मगुरोर्लध्वा मनुं सुधीः ॥ ५१९ ॥
प्रजपेत्सिद्धये सूर्यलक्षं मन्त्रं दृढव्रतः ॥
तत्सहस्रं प्रजुहुयात्पलाशकुसुमैर्नवैः ॥
त्रिस्वादुयुक्तैरश्वारिकुसुमैरथवा हुनेत् ॥ ५२० ॥
रक्ताम्बरः प्रीतमना मौक्तिकाभरणैर्युतः ॥
चन्दनागुरुकर्पूरकृतगात्रानुलेपनः ॥ ५२१ ॥
ब्रह्मचर्यरतः शान्तो विरतः परषड्गुणे ॥
सर्वभूतसुहृन्मौनी कुमारीपूजको भवेत् ॥ ५२२ ॥
अथैतस्या एकबीज प्रयोगो वक्ष्यतेधुना ॥
नवकुन्दनिभां देवीं मुक्ताजालविभूषिताम् ॥
मुक्ताकलापविद्याक्षमालाराजच्चतुर्भुजाम् ॥ ५२३ ॥
एतस्याः प्रथमम्बीजं लक्षं जपति संयतः ॥
कविता जायते तस्य नानावृत्तार्थशोभना ॥ ५२४ ॥
अथ द्वितीयबीजस्य ध्यानादिकमिदं स्मृतम् ॥
रक्तां सुरतरोर्मूलविलसन्मणिपीठगाम् ॥ ५२५ ॥
पाशञ्च बीजपूरश्च बाणानङ्कुशमेव च ॥
कपालञ धनुश्चेति षड्भुजैर्दधतीं भजे ॥ ५२६ ॥
रक्तैरलङ्कृतां पुष्पैर्मदाघूर्णितलोचनाम् ॥
हेलाविलाससम्पन्नां नवयुवनसुन्दरीम् ॥ ५२७ ॥
देवीं ध्यात्वा जपेद्बीजं यो लक्षं मध्यतो वशी ॥
त्रैलोक्यं क्षोभयेदाशु पूर्ववत्सिद्धिभागसौ ॥ ५२८ ॥
अथो तृतीयबीजस्य वक्ष्ये ध्यानादिकं खलु ॥
अक्षमालासुधाककुम्भमुद्रापुस्तकधारिणीम् ॥ ५२९ ॥
नवकुन्देन्दुसङ्काशां राजन्मौक्तिकभूषणाम् ॥
शक्तिं सच्चिन्मयं ध्यात्वा बीजं सारस्वतं वशी ॥
यो जपेज्जायते तस्य कविता भुवि सम्मता ॥ ५३० ॥
पलाशपुष्पैस्त्रिस्वादुयुतैर्होमायुतद्वयम् ॥
कुर्यात्सरस्वतीतुष्ट्यै सौभाग्यानां गृहं हि सः ॥ ५३१ ॥
जाती करञ्जकशमीवटोद्भवसमिद्वरैः ॥
बिल्वप्रसूनैस्त्रिस्वादुयुतैर्होमं समाचरेत् ॥
परनारीनृपाणां च रञ्जनं भवति ध्रुवम् ॥ ५३२ ॥
मालतीवकुलोद्भूतैर्दलैश्चन्दनवारिणा ॥
सिक्तैर्हुनेत्क्रमात्तस्य कवित्वमभिजायते ॥ ५३३ ॥
अनुलोमविलोमेन मध्यस्थं साध्यकर्मयुक् 13 ॥
मनुं प्रजप्य होतव्यं लोणराजिकया ततः ॥
नरनारीनृपांश्चैव वशयेन्नात्र संशयः ॥ ५३४ ॥
त्रिस्वादुयुग्बिल्वफलैर्होमो मर्त्त्यावरञ्जनः ॥
साधकस्य समृद्धिश्च कमलाया भवेदपि ॥ ५३५ ॥
त्रिस्वादुयुग्गुडूचीभिर्होमो रोगारिनाशनः ॥
गुप्तरूपा स्थिता काश्यामेवं त्रिपुरभैरवी ॥ ५३६ ॥
अथ सम्पत्प्रदां वक्ष्ये देवीं त्रिपुरभैरवीम् ॥
आहूतां गणनाथेन कौलिकाचारपूजिताम् ॥ ५३७ ॥
हकारं च सकारं च खकारं च फरौ तथा ॥
ऋकारस्वरसंयुक्तं बिन्दुनादविभूषितम् ॥
पञ्चवर्णात्मकं कूटं प्रथमं परिकीर्तितम् ॥ ५३८ ॥
द्वितीयं बीजमृजमैः कात्कौ स्याच्च तृतीयकम् ॥
एवं मन्त्रः समाख्यातो द्विरावृत्त्या षडङ्गकम् ॥ ५३९ ॥
प्राग्वदस्याश्चरेन्न्यासं ध्यानमस्या निरूप्यते ॥
उद्यत्सूर्यसहस्राभां चन्द्रचूडां त्रिलोचनाम् ॥ ५४० ॥
नानालङ्कारसुभगां सर्ववैरिनिकर्तनीम् ॥
स्रवद्रुधिरमुण्डालिललितां रक्तवाससम् ॥ ५४१ ॥
डमरुञ्च त्रिशूलं च खड्गं खेटकमेव च ॥
पिनाकं च शरान्पाशानङ्कुशं पुस्तकं तथा ॥ ५४२ ॥
अक्षमालां च बिभ्राणां शवसिंहासनस्थिताम् ॥
एवं ध्यात्वा यजेत्पीठं प्रथमं पीठमन्त्रतः ॥ ५४३ ॥
अघोरे ऐं ॐ चं घोरे मायां घोरद्वयान्तरम् ॥
श्रीं सर्वतः सर्वसर्वेभ्यो नमस्ते पदं वदेत् ॥
रुद्ररूपेभ्यो ह्रीं श्रीं च देवार्णः पीठमन्त्रकः ॥ ५४४ ॥
ततः पूज्यास्तु पीठस्य शक्तयः पृष्ठदेशतः ॥
वामां ज्येष्ठां च रौद्रीं च कालीं च वरलोचनाम् ॥ ५४५ ॥
कलाढ्यां च बलाढ्यां च यजेद्धिङ्कारिणीं ततः ॥
बलप्रमथिनीञ्चैव सर्वभूतदमां तथा ॥ ५४६ ॥
द्वादशैताः क्रमाद्देव्यो मदनीं च मनोन्मनीम् ॥
पूजापीठं समुद्धृत्य प्राग्वदङ्गानि पूजयेत् ॥ ५४७ ॥
रत्यादित्रयमभ्यर्च्य तथानङ्गादिकान्यजेत् ॥
ब्राह्म्यादियुग्मं सम्पूज्य वसुपत्रेषु मातृकाः ॥
भूपुरे लोकपालांश्च सायुधान्परमेश्वरि ॥ ५४८ ॥
अन्यः सर्वः प्रयोगोयं त्रिपुराभैरवीसमः ॥
चतन्यभैरवीमन्त्रस्त्र्यक्षरः कथ्यतेऽधुना ॥
सहावकारसंयुक्तौ प्रथमं बीजमीरितम् ॥ ५४९ ॥
सकलैरीसमायुक्तैर्द्वितीयं बीजमुच्यते ॥
सहरौद्रीसमायुक्ता विसर्गान्तास्तृतीयकम् ॥ ५५० ॥
उद्यद्भानुसहस्राभां नानालङ्कारभूषिताम् ॥
मुकुटोर्ध्वलसच्चन्द्ररेखां रक्ताम्बराचिताम् ॥ ५५१ ॥
पाशाङ्कुशधरां नित्यां वामहस्तकपालिनीम् ॥
वरदाभयशोभाढ्यां पीनोन्नतघनस्तनीम् ॥ ५५२ ॥
एवं ध्यात्वा यजेद्देवीं पूर्वसिंहासने स्थिताम् ॥
द्विरावृत्त्या षडङ्गानि न्यस्येत्सर्वाङ्गलक्षणम् ॥ ५५३ ॥
त्रिकोणं चैव षट्कोणं वसुपत्रं ततः परम् ॥
चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् ॥ ५५४ ॥
प्रथमावरणं चात्रषडङ्गैः परिकल्पयेत् ॥
रत्यादिकास्ततः पूज्यास्त्रिकोणाग्रे वसन्तकम् ॥
वामे कामं विधुं दक्षे यजेद्बाणांश्च पूर्ववत् ॥ ५५५ ॥
डाकिनीं शाकिनीं चैव लाकिनीं काकिनीं ततः ॥
शाकिनीं हाकिनीं चापि पश्चिमादिक्रमाद्यजेत् ॥
अनङ्गकुसुमाद्याश्च वसुपत्रेषु पूर्ववत् ॥ ५५६ ॥
परभृत्सारसाख्यौ च शुकमेघाह्वयौ पुनः ॥
अपाङ्गभ्रूविलासौ च हावभावौ प्रपूजयेत् ॥ ५५७ …
पुरश्चर्यादिकं प्राग्वत्प्रयोगांश्चापि साधयेत् ॥
तद्वदेव च पूजापि शेषं न्यासादिकं तथा ॥ ५५८ ॥
अथातः सम्प्रवक्ष्यामि भुवनेश्वरभैरवीम् ॥
हसावकारसंयुक्तौ प्रथमं बीजमीरितम् ॥ ५५९ ॥
हंसकला ह्रींसमेता द्वितीयं बीजमुच्यते ॥
हसावौकारसंयुक्तौ विसर्गान्तं तृतीयकम् ॥
षड्दीर्घान्वितमध्येन बीजेनोक्तं षडङ्गकम् ॥ ५६० ॥
जपाकुसुमसङ्काशां दाडिमीकुसुमप्रभाम् ॥
चन्द्ररेखां जटाजूटां त्रिनेत्रां रक्तवाससम् ॥ ५६१ ॥
नानालङ्कारसुभगां पीनोन्नतघनस्तनीम् ॥
पाशाङ्कुशवराभीतीर्दधानां च शिवां श्रये ॥ ५६२ ॥
चैतन्यभैरवीवत्स्याद्यद्यन्नोक्तमिहाथ तत् ॥
षडङ्गावरणं चात्र पूर्ववत्परितो यजेत् ॥ ५६३ ॥
रत्याद्याः पूजयेद्देवि त्रिकोणे तदनन्तरम् ॥
ब्रह्मविष्णुमहेशाद्यास्तत्र पूजा बहिः पुनः ॥ ५६४ ॥
डाकिन्याद्या वसुदले षड्दले हाकिनीमुखाः ॥
अनङ्गकुसुमाद्याश्च ब्राह्म्याद्याश्च समन्ततः ॥ ५६५ ॥
भूबिम्बे लोकपालांश्च बटुकाद्यांश्च पूजयेत् ॥
चतुःषष्टियोगिनीभ्यो हृदन्तोयं दशाक्षरः ॥ ५६६ ॥
अष्टपत्रेषु भूबिम्बे त्वेकोच्चारेण पूजयेत् ॥
एकादशमहाकोटियोगिनीभ्यो नमोर्चयेत् ॥ ५६७ ॥
जपादिकं प्रयोगाश्च ज्ञेयाः प्राग्वत्त एव हि ॥
अथातः सम्प्रवक्ष्यामि भैरवीं कमलेश्वरीम् ॥ ५६८ ॥
हसस्थाने सहेत्युक्त्वा सर्वं मन्त्रादि पूर्ववत् ॥
राज्ञाज्ञाता ततः शप्ता तुहिनागेऽभवन्नदी ॥ ५६९ ॥
त्यक्तस्तया वाममार्गो राजभीत्या तु मत्कृते ॥
यतो लब्धं तया दुःखं कलौ ख्यातिं गमिष्यति ॥ ५७० ॥
पुनस्तेषु च देवेषु प्रत्यक्षेयं भविष्यति ॥
अवर्णाद्याश्च वर्णाश्च भविष्यन्ति वरप्रदाः ॥ ५७१ ॥
त्यक्त्वा मपञ्चकं पूजां कृत्वा ये चैव मत्पराः ॥
अस्यास्तीरे पुरीश्वर्या न च तेषु प्रसीदति ॥ ५७२ ॥
भुवनेशी भैरवी तु कृत्वा रूपान्तरं मम ॥
कार्यार्थं बहवः शिष्याः कौलिका वामनाः कृताः ॥
तस्माद्ध्यानाद्यर्चनादि प्राग्वद्दक्षिणमार्गतः ॥ ५७३ ॥
अथातः सम्प्रवक्ष्यामि हसराद्यां च भैरवीम् ॥
भुवनेश्वरभैरव्या बीजादौ हसरान्पठेत् ॥ ५७४ ॥
त्रयाणामपि बीजानां प्रथमं व्यञ्जनात्मकम् ॥
हसराद्यांस्तथा विद्यात्प्राग्वत्पूजादिकं मतम् ॥ ५७५ ॥
अथातः सम्प्रवक्ष्यामि सिद्धां कौलेशभैरवीम् ॥
आद्यन्तबीजयो रेफरहिता हसरादिकाः ॥ ५७६ ॥
कौलेश्वरी भवेद्विद्या कौलिकानां सुद्धिदा ॥
सम्पत्प्रदा भैरवीवत्सर्वं ध्यानादिकं मतम् ॥ ५७७ ॥
कुर्वन्तोपीदृशं कर्म दिवोदासस्य तेजसा ॥
न शक्तास्तत्र संस्थातुं तदा देवेन ढुण्ढिना ॥ ५७८ ॥
जयदुर्गा समाहूता भजतां जयदायिनी ॥
ऊर्द्ध्वाम्नायस्य ये देवास्तान्वक्ष्यामि समासतः ॥ ५७९ ॥
दुर्गेदुर्गेतिदुर्घटेच प्रणवादिनवाक्षरम् ॥
एकादशार्ण्णं स्वाहान्तं मन्त्रयुग्मं तदीयकम् ॥ ५८० ॥
नारदो मुनिराख्यातो विराट् छन्द उदाहृतम् ॥
जयदुर्गा देवतास्य भुक्तिमुक्तिफलप्रदा ॥ ५८१ ॥
ताराद्यैः पञ्चमन्त्रस्य पदैः सर्वेशधीर्मता ॥
जातियुक्तैरङ्गकॢप्तिः षट्पदैस्तैः षडङ्गकम् ॥ ५८२ ॥
अष्टपत्राम्बुजद्वन्द्वं चतुरस्रत्रयावृतम् ॥
चतुर्द्वारसमायुक्तं कुङ्कुमादिभिरुद्धरेत् ॥ ५८३ ॥
कुर्यात्स्वपीठपूजायां नवशक्तिसमर्चनम् ॥
प्रभा माया जया चैव सुप्रभा च विशुद्धिका ॥ ५८४ ॥
नादिनी सुप्रभावापि विजया सिद्धिदा तथा ॥
एकवह्निशरक्लीबहीनैरद्भिः प्रपूजयेत् ॥ ५८५ ॥
तारो वज्रनखदंष्ट्रायुधाय महासिंहाय ॥
हुं फट् नमः सिद्धमनुः पीठं चानेन पूजयेत् ॥ ५८६ ॥
आसनं मनुना तेन दद्यान्मूलेन कल्पयेत् ॥
मूर्तिमावाह्य तस्यान्तः पूजयेच्चन्दनादिभिः ॥ ५८७ ॥
क्रमादावरणाङ्गैश्च जयादिसुप्रभादिभिः ॥
देवायुधैर्दिगीशैश्च हेतिभिर्ध्यानमुच्यते ॥ ५८८ ॥
मेघाभां चन्द्रमुकुटां सिंहास्यां त्रीक्षणां करैः ॥
चक्रं खड्गं चर्म दरं दधानां च क्रमाद्भजे ॥ ५८९ ॥
जया च विजया कीर्तिः प्रीतिश्चापि प्रभा मता ॥
श्रद्धा मेधा श्रुतिश्चेति ओमाद्यक्षरपूर्विकाः ॥ ५९० ॥
असिर्दरो गदा खड्गपाशाङ्कुशशरा धनुः ॥
इत्यायुधानि प्रोक्तानि लक्षाणां पञ्चकं जपेत् ॥ ५९१ ॥
दशांशं जुहुयादाज्यैस्तर्पणादि ततश्चरेत् ॥
ततः सिद्धमनुर्मन्त्री प्रयोगानाचरेत्सुधीः ॥ ५९२ ॥
इमं मन्त्रं जपेद्भूयः प्रविशेत्क्षत्त्रसङ्गरम् ॥
अशेषेण रिपुं हन्यान्नात्र कार्या विचारणा ॥ ५९३ ॥
विवादे व्यवहारादौ जप्तो विजयदो भवेत् ॥
अनया विद्ययास्त्राणि शस्त्राणि सुबहून्यपि ॥ ५९४ ॥
सञ्जप्तानि च सङ्ग्रामे सम्यग्विजयदानि तु ॥
एतदाराधनाद्देवा दिवोदासोभवत्क्षणात् ॥
सङ्ग्रामे सैन्यवर्गस्य क्षयमालोक्य मोहितः ॥ ५९५ ॥
योच्चारणार्थमनीता दिवोदासस्य भूभुजः ॥
वनदुर्गा स्थिता गङ्गापारे तस्या मनुं शृणु ॥ ५९६ ॥
उत्तिष्ठ पुरुषीत्युक्त्वा किं स्वपिषि भयं वदेत् ॥
मे शमयेति चोच्चार्य पश्चाद्ब्रूयात्स्थितं तथा ॥ ५९७ ॥
यदि शक्यमशक्यं वा तन्मे भगवतीति च ॥
शमयाग्निवधूश्चेति मन्त्रो नगगुणार्णकः ॥ ५९८ ॥
स्वकार्यं साधयित्वेवं गणनाथेन कीलिता ॥ ५९९ ॥
एनां जपेच्च निष्कीलां तदा सिद्धिः प्रजायते ॥ ६०० ॥
ॐ ह्रीं दुं दुं पुनर्दुं च प्रथमं बीजपञ्चकम् ॥
मन्त्रादौ योजयेदन्ते दुंहीमोमि इति मन्त्रवित् ॥ ६०१ ॥
निष्कीला जायते विद्यासाधकानां सुसिद्धिदा ॥
आरण्यको मुनिः प्रोक्तो ह्यनुष्टुप् छन्द ईरितम् ॥ ६०२ ॥
वनदुर्गा देवतास्य सर्वशत्रुविनाशिनी ॥
ऋत्वष्टाष्टभूबाणैर्मन्त्रार्णैः स्यात्षडङ्गकम् ॥ ६०३ ॥
दक्षपादाङ्गुलीमूले गुल्फे जानुनि चोरुके ॥
गुदेलिङ्गे तथा मूलाधारे च जठरे तथा ॥ ६०४ ॥
पार्श्वयुग्मे हृदि कुचद्वन्द्वे कण्ठे च सन्धिषु ॥
करयोर्वदने नासागण्डयुक्कर्णयुग्मके ॥ ६०५ ॥
भ्रूमध्ये मूर्धनि मनोर्वर्णा न्यस्या यथाविधि ॥
विद्युन्निभां त्रिनेत्रां च ह्यरुणे पङ्कजे स्थिताम् ॥ ६०६ ॥
चक्रं दरं वराभीती हस्तेषु दधतीं शुभाम् ॥
स्वर्णोद्यत्कान्तिवसनां शशिमौलिं वनस्थिताम् ॥ ६०७ ॥
प्रसन्नां पुष्पभूषाढ्यां पार्श्वोद्यन्मृगशाविकाम् ॥
इति ध्यात्वा यजेद्देवीं पीठे पूर्वोदिते ततः ॥ ६०८ ॥
पूर्वमङ्गानि पूज्यानि तत आर्यादिका यजेत् ॥
चक्राद्यस्त्राणि मातॄश्च लोकेशानायुधानि च ॥ ६०९ ॥
आर्या दुर्गा च भद्रा च भद्रकाल्याम्बिका तथा ॥
क्षेम्या च वेदगर्भा च शाङ्करी चाष्टमी मता ॥ ६१० ॥
शङ्खचक्रासिखेटेषु धनुः शूलं गदेति च ॥
वेदलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्तिलैः ॥ ६११ ॥
व्रीह्याज्यतिलदुग्धान्नैर्दुर्गां सञ्चिन्त्य चानले ॥
तर्पणं मार्जनं कृत्वा ब्राह्मणाराधनं तथा ॥ ६१२ ॥
धनधान्यादिभिः सम्यक्तोषयित्वा निजं गुरुम् ॥
एवं सिद्धमनुर्मन्त्री वाञ्छितार्थान्प्रसाधयेत् ॥ ६१३ ॥
दुर्गां प्रयोगभेदेन चिन्तयेद्वनवासिनीम् ॥
ध्यायेच्छ्रियं श्यामलाङ्गीं हयारेर्मूर्धनि स्थिताम् ॥ ६१४ ॥
शङ्खचक्रासिबाणांश्च तर्जनीचर्म खेटकम् ॥
चापं च दधतीं हस्तैः सुप्रसन्नाननां भजे ॥ ६१५ ॥
प्रत्यहं प्रजपेन्मन्त्री स्वरक्षार्थं शतं सदा ॥
सहस्रं च तदन्ते च प्रयोगान्कर्त्तुमर्हति ॥ ६१६ ॥
यद्यदुद्दिश्य च मनुं सहस्रं वायुतं जपेत् ॥
अचिराल्लभते तत्तदसाध्यमपि साधकः ॥ ६१७ ॥
प्रातःस्नायी न्यासपूर्वं स्मरन्देवीमनन्यधीः ॥
नित्यं सहस्रं प्रजपेन्मन्त्रं साधकसत्तमः ॥ ६१८ ॥
क्रूरसर्पग्रहाद्यांश्च दोषान्प्रशमयेत्सुधीः ॥
हुनेदारण्यकतिलैराजिकाभिश्च वा हुनेत् ॥ ६१९ ॥
अपामार्गसमिद्भिर्वा नाशयेत्सकलान्गदान् ॥
अपस्मारादिकान्मन्त्री नात्र कार्या विचारणा ॥ ६२० ॥
न्यग्रोधोत्थसमिद्भिश्च सशुङ्गाभिर्हुनेत्सुधीः ॥
दशाहतो वाञ्छितार्थसिद्धिर्भवति नान्यथा ॥ ६२१ ॥
त्र्यहं वा सप्तरात्रं वा चेधै रास्नासमुद्भवैः ॥
एकैकं सकलं मन्त्री हुनेद्वञ्छितसिद्धये ॥ ६२२ ॥
त्रिंशच्छरान्सिताग्रांश्च विधाय जुहुयाद्बुधः ॥
कुटुतैलैः सहस्रं वा ह्ययुतैस्तदनन्तरम् ॥ ६२३ ॥
सम्पाततैलरसनान्समभ्यर्च्य यथाविधि ॥
पूर्ववत्प्रजपेन्मन्त्रं ताञ्च्छरानपि भूपतिः ॥ ६२४ ॥
शुद्धाचारश्च धीरश्च धन्वी सङ्ग्राममानसः ॥
गृहीत्वा परसेनायां मध्ये गच्छेदभीतवत् ॥
साधनानि दिशः सर्वाः समन्तात्सफलास्तदा ॥ ६२५ ॥
स आगत्य पुनर्भूयो गुरुं धान्यैर्धनैरपि ॥
वस्त्रालङ्करणैश्चापि तोषयेज्जयदायिनम् ॥ ६२६ ॥
अष्टाधिकशतेनाथ जपेन शवभस्म च ॥
निक्षिपेद्यस्य शिरसि स विद्विष्टो भवेज्जनैः ॥
देशाद्देशान्तरं चैव सदा भ्राम्यति काकवत् ॥ ६२७ ॥
कारस्करद्रुमोत्थैश्च पत्रैर्वायुनिपातितैः ॥
सहस्रं जुहुयात्पादरजोभिः सहवैरिणः ॥ ६२८ ॥
उच्चाटोथ 14 भवेत्सद्यो विषवृक्षसमुद्भवैः ॥
पुष्पैर्हुनेत्सहस्रं च सेना संस्तम्भयेद्बुधः ॥ ६२९ ॥
तावद्भिस्तस्य पत्रैश्च मन्त्री सेनां निवर्तयेत् ॥
विषवृक्षसमुद्भूतां शत्रोः प्रतिकृतिं शुभाम् ॥ ६३० ॥
कृत्वा प्रतिष्ठितप्राणां खण्डखण्डीकृतां निशि ॥
कृष्णपक्षे चतुर्दश्यां ककोलूकवसायुतैः ॥ ६३१ ॥
होमाद्रिपुर्नाशमेति ह्युन्मत्तसमिधा तथा ॥
होमान्मत्तो रिपुर्नूनं भवत्येव सहस्रतः ॥ ६३२ ॥
वैरिणः प्रतिमा कृत्वा सम्यक् संस्थापितानिलाम् ॥
विषत्रिकटुकालिप्तां सम्यगुष्णजले क्षिपेत् ॥ ६३३ ॥
प्रजपेच्च मनुं सद्यो ज्वराक्रान्तो भवेद्रिपुः ॥
दुग्धाभिषेकतः शान्तिर्भवत्यस्य न संशयः ॥ ६३४ ॥
प्रतिमां विषवृक्षोत्थां निक्षिपेदुष्णवारिणि ॥
उन्मादश्च रिपोः सद्यः पूर्ववच्छान्तिरीरिता ॥ ६३५ ॥
सूर्यबिम्बवदारक्तां शूलतर्जनीकाधराम् ॥
ध्यात्वायुतं प्रजप्याथ मारयेद्रिपुसञ्चयम् ॥ ६३६ ॥
असिखेटकरार्कस्था क्रुद्धा सा वनवासिनी ॥
संस्मृता मन्त्रजापेन शमयेच्छत्रुसञ्चयम् ॥ ६३७ ॥
शरचापकरां सिंहस्थितां पावकसन्निभाम् 15 ॥
कारस्करद्रुसमिधा ह्ययुतं जुहुयात्सुधीः ॥ ६३८ ॥
रोगिणोः वैरिणः 16 सर्वे जायन्ते चाचिरात्तदा ॥
विषवृक्षोत्थितैः पत्रैरभिनाशं प्रयान्ति च ॥ ६३९ ॥
तद्वृक्षसुमनोभिः स्यादुच्चाटः करिणां ध्रुवम् ॥
राजवृक्षसमिद्धोमाद्रोगा नश्यन्ति दन्तिनाम् ॥ ६४० ॥
विषवृक्षप्रसूनैश्च त्रिमध्वक्तैरिभव्रजः ॥
वशी भवेत्तथा श्रीघ्रं पत्रैरादित्यकोत्थितैः ॥ ६४१ ॥
त्रिस्वादुयुक्तैः करिणो जातिमन्तो भवन्ति च ॥
अभ्यङ्गः पञ्चगव्येन लोकरक्षाकरः स्मृतः ॥ ६४२ ॥
करिणां 17 मनुजानां च प्राग्वै तन्त्रविदुत्तमैः ॥
सर्पिस्तिलैर्नित्यकटुराजिकापञ्चगव्यकैः ॥ ६४३ ॥
हविस्तण्डुलकैश्चैव प्रत्येकं तु सहस्रशः ॥
जुहुयादिभसङ्घानां वृद्धिर्भवति नान्यथा ॥ ६४४ ॥
महान्तं ब्रह्मवृक्षं च च्छित्त्वा निर्भिद्य पञ्चधा ॥
दिक्क्रमेणैव पञ्चाथ आयुधानि प्रकल्पयेत् ॥ ६४५ ॥
सम्यङ्नित्यं गदा शङ्खो नन्दकश्चक्रशार्ङ्गकौ ॥
कौमोदकीति क्रमतोप्युक्तमायुधपञ्चकम् ॥ ६४६ ॥
निक्षिप्य पञ्चगव्ये च जपेत्पञ्चसहस्रकम् ॥
तावच्चाज्येन जुहुयात्सम्पातं तत्र पातयेत् ॥ ६४७ ॥
भूयश्च पूर्वसङ्ख्याकं जपं कुर्याद्विचक्षणः ॥
विदध्याद्दैवतान्पञ्च पञ्चगव्यप्रपूरितान् ॥ ६४८ ॥
मध्ये हि तेष्वायुधानि निक्षिपेद्भूतले समे ॥
कुर्याच्छातिं ततो मन्त्रैर्बलिं हव्यं निजैः शुभैः ॥ ६४९ ॥
नगरग्रामदेशानां कारयेत्क्षेममीदृशम् ॥
यत्रेयं क्रियते रक्षा कमला तत्र वर्धते ॥ ६५० ॥
धनधान्यसमृद्धिः स्याद्रिपुचौरभयं न च ॥
पद्मैर्नृपं वशीकुर्यात्तत्पनीमुत्पलैरपि ॥ ६५१ ॥
ब्राह्मणान्कुमुदैर्हुत्वा कह्लारैर्विश एव च ॥
शूद्राल्लṁवणहोमेन ग्रामं जातीप्रसूनकैः ॥ ६५२ ॥
शङ्खचक्रगदाम्भोजहस्तं सञ्चिन्तयेच्छुभम् ॥
रविबिम्बे मुकुन्दं च मनुप्रोक्तेष्टलिङ्गकम् ॥ ६५३ ॥
प्रजपेद्वाथ पुरुषो भगवत्पादयोरथ ॥
सर्वसिद्धिकरः प्रोक्तः प्रकारोयं सुमन्त्रिभिः ॥ ६५४ ॥
साध्यनामाक्षरैः सम्यग्विदर्भितमनुं लिखेत् ॥
यन्त्रे मृदं कुलालस्य करलग्नां प्रगृह्य च ॥ ६५५ ॥
तया कृता या प्रतिमा तस्या हृदि च सन्न्यसेत् ॥
संस्थापित्वाभिमुख्येन सप्ताहं प्रजपेन्मनुम् ॥
सन्ध्यात्रये शतं चाष्टाधिकं वश्यो भवेत्तु सः ॥ ६५६ ॥
व्रीहीन्हुनेदष्टशतं प्रत्यहं वत्सराद्भवेत् ॥
व्रीहिमान्गोपयोभिश्च पशुमान्भवति ध्रुवम् ॥ ६५७ ॥
घृतहोमान्मन्त्रिणः स्यात्काञ्चनाप्तिर्महीयसी ॥
दध्ना च सर्वसिद्धिः स्यादन्नैरन्नसमृद्धियुक् ॥ ६५८ ॥
मधुहोमेन रत्नानां निधिर्भवति नान्यथा ॥
दूर्वाहोमेन दीर्घायुर्मन्त्री भवति निश्चितम् ॥ ६५९ ॥
श्वेतगुञ्जाः समानीय कुडवप्रमिताः शुभाः ॥
एतन्मन्त्रं तु जप्त्वा ता विकिरेच्छत्रुसैन्यके ॥ ६६० ॥
मन्त्रोत्तमः सुजप्तः स तेनासौ वैरिणश्चमूः ॥
ज्वरादिकैर्महारोगैः पिडिता सा नृणां चिरम् ॥ ६६१ ॥
सेनाधिपतिमुख्यानां परस्परविरोधतः ॥
एवं ह्युपद्रवैर्नानाविधैर्नाशं प्रयाति च ॥ ६६२ ॥
अथातः सम्प्रवक्ष्यामि बीजरूपं महामनुम् ॥
दुरित्येकाक्षरो मन्त्रस्सर्वमन्त्रोत्तमो मतः ॥ ६६३ ॥
ऋषिः काश्यप उद्दिष्टो गायत्री छन्द ईरितम् ॥
देवता तु भवेद्दुर्गा षडङ्गानां विधिस्तथा ॥
षड्दीर्घयुक्तबीजेन विसर्गेणान्वितेन च ॥ ६६४ ॥
दूर्वाश्यामां त्रिनेत्रां च कमलेष्टदले स्थिताम् ॥
शूलं बाणं खड्गचक्रे शङ्खं खेटं शरासनम् ॥
कपालानि च दक्षाधः क्रमेण दधतीं स्मरेत् ॥ ६६५ ॥
चतुर्लक्षं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः ॥
पूजादिकं प्रयोगादि नवदुर्गासमं स्मृतम् ॥ ६६६ ॥
येये भूपोपकाराय लक्ष्मीमन्त्राः सुरोधिताः ॥
गणेशेनैव काश्यां ते चार्थदास्तान्व्रवीस्यहम् ॥ ६६७ ॥
नमः कमलवासिन्यै स्वाहा चेति दशाक्षरः ॥
ऋष्याद्या दक्षवद्देवी कमला समुदीरिता ॥ ६६८ ॥
देवीं च पद्मिनीं विष्णुपत्नीं तु वरदां मताम् ॥
तथा कमलरूपां च ङेनमोन्तां च विन्यसेत् ॥
पञ्चाङ्गेषु च ताराद्या ध्यानमस्या निरूप्यते ॥ ६६९ ॥
तडित्कान्तिं पद्मयुगवरदाभयसत्कराम् ॥
शरीरभासा भुवनं भासयन्तीं सरोजगाम् ॥ ६७० ॥
काञ्चीमुकुटमञ्जीरनूपुरै रुचिरां श्रये ॥
आदावङ्गानि तद्बाह्ये कमलाद्यष्टशक्तयः 18 ॥ ६७१ ॥
तद्बाह्ये लोकपालांश्च तदस्त्राणि च तद्बहिः ॥
एवमभ्यर्चयेल्लक्ष्मी भवेत्सद्यो धनाधिपः ॥ ६७२ ॥
पञ्चलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ॥
तद्दशांशं सरसिजैस्त्रिस्वाद्वक्तैर्हुनेत्सुधीः ॥ ६७३ ॥
नद्यां समुद्रगामिन्यां कण्ठदघ्ने जले स्थितः ॥
लक्षत्रयं जपेन्मन्त्री भवेदर्थान्वितो नरः ॥ ६७४ ॥
नन्द्यावर्त्तप्रसूनैश्च जुहुयादूत्तराक्रमे ॥
रमां सम्पूज्य साहस्रं तावद्बिल्वैर्मधुप्लुतैः ॥ ६७५ ॥
फलैर्हुनेत्पौर्णमास्यां पञ्चम्यां वा सिताम्बुजैः ॥
शुक्रवारेब्जपुष्पैश्च मासं यो जुहुयात्सुधीः ॥
संवत्सराद्धनं पूर्णं लभते नात्र संशयः ॥ ६७६ ॥
किम्बहूक्तेन भजते मनुमेनं जितेन्द्रियः ॥
स वाञ्छितार्थाल्लṁभते वसुधान्यसमृद्धियुक् ॥ ६७७ ॥
अथ वक्ष्ये गणेशेन काशीराज्याप्तये मम ॥
साम्बादित्यस्य रक्षोदिग्भागे लक्ष्मीरुपासिता ॥
लक्ष्मीविनायकस्तत्र प्रसिद्धोसौ गजाननः ॥ ६७८ ॥
दक्षिणेनैव मार्गेण तस्याः सिद्धिर्न वामतः ॥
सकारश्च हकारश्च कलरा वर्णपञ्चकम् ॥ ६७९ ॥
ईकारस्वरसंयुक्तं प्रथमं कूटमुच्यते ॥
हम्बीजं तु द्वितीयं स्यात्प्रोक्तोयं त्र्यक्षरो मनुः ॥ ६८० ॥
ऋषिर्हरिश्च गायत्री छन्दो लक्ष्मीश्च मोहिनी ॥
साम्राज्यदा देवतोक्ता कूटं बीजं प्रकीर्तितम् ॥ ६८१ ॥
शक्तिं श्रीं च षडङ्गानि षड्भिर्दीर्घैः समाचरेत् ॥
अतसीपुष्पसङ्काशां रत्न भूषणभूषिताम् ॥ ६८२ ॥
शङ्खचक्रगदापद्मशार्ङ्गबाणधरां करैः ॥
षड्भिः कराभ्यां देवेशीं वरदाभयशोभिताम् ॥ ६८३ ॥
पूजायन्त्रं त्रिकोणं स्यादष्टपत्रं सुभूपुरम् ॥
मध्ये प्रपूजयेद्देवीं षडङ्गानि ततो यजेत् ॥ ६८४ ॥
त्रिकोणकोणे गायत्रीं सावित्रीं च सरस्वतीम् ॥
ईशकोणात्क्रमेणैव ब्राह्म्याद्याश्च दलाष्टके ॥ ६८५ ॥
एकोच्चारक्रमेणैव भूपुरे मनुना पुरा ॥
अष्टादशमहाकोटियोगिनीभ्यो नमोस्त्विति ॥ ६८६ ॥
मन्त्रेण पूजयेत्पश्चादिन्द्रादीनायुधान्यपि ॥
पुनर्देवीं समभ्यर्च्य गन्धपुष्पाक्षतादिभिः ॥ ६८७ ॥
बटुकक्षेत्रपालेभ्यो योगिनीभ्यो बलिं हरेत् ॥
एवमष्टभुजां ध्यात्वा त्रिलक्षं प्रजपेत्सुधीः ॥ ६८८ ॥
तद्दशांशेन पद्मैस्तु हुनेत्साम्राज्यसिद्धये ॥
एवमर्चयतो लक्ष्मीं साम्राज्यं स्यादसंशयम् ॥ ६८९ ॥
अथातः सम्प्रवक्ष्यामि नित्यक्लिन्नामनुं परम् ॥
भवार्णोसौ मुखे मायानित्यक्लिन्ने मददवे ॥ ६९० ॥
स्वाहान्तोस्य मुनिर्ब्रह्मा छन्दस्त्रिष्टुप् च देवता ॥
नित्यक्लिन्ना ह्रीं च बीजं स्वथा शक्तिः समीरिता ॥ ६९१ ॥
क्लिन्नेति कीलकं प्रोक्तं हृदाद्यने समीरितम् ॥
द्वाभ्यान्द्वाभ्यां च शेषाणि कुर्यादङ्गानि साधकः ॥ ६९२ ॥
हृदये दृग्द्वये कर्णद्वये नासाद्वयेपि च ॥
लिङ्गे गुह्ये पादयोश्च मन्त्रार्णान्क्रमतो न्यसेत् ॥ ६९३ ॥
अरुणामरुणाकल्पामरुणांशुकधारिणीम् ॥
अरुणस्रग्विलेपां तां चारुस्मरेमुखाम्बुजाम् ॥ ६९४ ॥
नेत्रत्रयोल्लसद्वक्त्रां भाले धर्माम्बुमौक्तिकैः ॥
विराजमानां मुकुटलसदर्धेन्दुशेखराम् ॥ ६९५ ॥
चतुर्भिर्बाहुभिः पाशमङ्कुशं पानपात्रकम् ॥
अभयं बिभ्रतीं पद्ममध्यासीनां मदालसाम् ॥ ६९६ ॥
ध्यात्वैवं पूजयेन्नित्यं प्रागुक्ते शक्तिपीठके ॥
त्रिकोणमादौ तस्यान्तः षट्कोणं बाह्यके लिखेत् ॥ ६९७ ॥
पद्ममाष्टदलं बाह्ये भूपुरेण च वेष्टितम् ॥
तत्र मध्ये यजेद्देवीं चन्दनादिभिरुत्तमैः ॥ ६९८ ॥
कर्णिकायोनि मध्यस्थदेशे वाय्वीशवह्निषु ॥
नैर्-ऋत्यां पुरतो दिक्षु यजेदङ्गानि षट् क्रमात् ॥ ६९९ ॥
क्षोभिणीं मोहिनीं लोकां त्रिषु कोणेषु पूजयेत् ॥
नित्यां निरञ्जनां क्लिन्नां क्लेदिनीं मदनातुराम् ॥
मदद्रवां द्राविणीं च द्रावितां चाष्टपत्रके ॥ ७०० ॥
४१०) मदाविला मङ्गलां च मन्मथार्तां मनस्विनीम् ॥
महोन्मोदां मानमयीं माया मन्दां सितावतीम् ॥
द्वारपार्श्वेषु कोणेषु दिक्षु द्वादश पूजयेत् ॥ ७०१ ॥
देव्यग्रद्वारके वामं पार्श्वमारभ्य पूजयेत् ॥
लोकेशानपि तद्बाह्ये तदस्त्राणि ततो बहिः ॥ ७०२ ॥
ध्यात्वैवं प्रजपेल्लक्षमनुमेतं दशांशतः ॥
बन्धूकपुष्पैः स्वाद्वक्तैर्जुहुयाद्धविषाथ वा ॥ ७०३ ॥
तद्दशांशं कल्पयित्वा जलैः कर्पूरवासितैः ॥
आत्मानमभिषिच्याथ ब्राह्मणान्भोजयेत्ततः ॥ ७०४ ॥
वित्तभूषाम्बराद्यैश्च तोषयेद्गुरुमात्मनः ॥
सिद्धे मन्त्रे प्रकूर्वीत प्रयोगान्मन्त्रवित्तमः ॥ ७०५ ॥
ततो विद्याप्रयोगार्हो नित्यार्चानिरतस्तथा ॥
सहस्रजापी तद्भक्तः कुर्यादुक्तं न चान्यथा ॥ ७०६ ॥
पद्मै रक्तैस्त्रिमध्वक्तैर्होमाल्लक्ष्मीमवाप्नुयात् ॥
तथैव कैरवैरक्तैराज्ञश्च स्ववर्शं नयेत् ॥ ७०७ ॥
समानरूपवत्सायाः शुक्लाया गोः पयःप्लुतैः ॥
मल्लिकामालतीजातीशतपत्रैर्हुनेद्भवेत् ॥
स्वर्णाप्तिः स्तम्भनं शत्रोर्नृपादीनां क्रुधोपि च ॥ ७०८ ॥
आज्याक्तैः करवीरोत्थैः प्रसूनैराहुतैर्ध्रुवम् ॥
रक्ताम्बराणि वाणिज्यं भूतमर्त्यं वशं नयेत् ॥
भूषावाहनवाणिज्यसिद्धयः स्युः स्ववाञ्छिताः ॥ ७०९ ॥
लवणैः सर्षपैर्गौरेरितरैर्वाथ होमतः ॥
तत्तैलाक्तैर्निशामध्ये त्वानयेद्वाञ्छितां वधूम् ॥ ७१० ॥
तैलाक्तैर्जुहुयात्कृष्णदरपुष्पैर्निशान्तरा ॥
मासादरातिस्तीव्रार्तिज्वरेण परिपीड्यते ॥ ७११ ॥
अरुष्कसुघृताक्तैस्तद्बीजैर्निशि च होमतः ॥
व्रणाः शरीरे नश्येयुर्दुस्साध्याश्च चिकित्सकैः ॥ ७१२ ॥
तैलैन दलिताङ्गस्तु रिपुर्याति यमालयम् ॥
तथा तत्तैलसं सिक्तैर्बीजैरङ्कोलकैरपि ॥ ७१३ ॥
मरिचैः सर्षपाज्यक्तैर्निशि होमात्तु मानसे ॥
वाञ्छितां वनितां कामज्वरार्तामानयेद्ध्रुवम् ॥ ७१४ ॥
मरिचैः सर्षपोपेतैः सप्तरात्रं हुतैर्निशि ॥
धनमानकुलैर्नित्यं दुष्प्राप्यामानयेद्वधूम् ॥ ७१५ ॥
अन्नाद्यैर्जुहुयान्नित्यं शतमष्टोत्तरं तु वा ॥
तेनान्नपूर्णे भवने भोक्ता च भवति ध्रुवम् ॥
तण्डुलैराज्ययुक्तैश्च होमाच्छालीनवाप्नुयात् ॥ ७१६ ॥
साध्यक्षवृक्षसम्भूतविष्टपादरजः कृताम् ॥
राजीमरीचलवणैर्जुहुयात्पुत्तलीं निशि ॥
प्रपदाभ्यां च जङ्घाभ्याञ्जानुभ्यामूरुयुग्मतः ॥ ७१७ ॥
नाभेरधस्तद्धृदयाद्गलात्कण्ठात्तथैव च ॥
छित्त्वा शिरस्सुतीक्ष्णेन शस्त्रेण जुहुयात्क्रमात् ॥
एवं द्वादशधा होमान्नरनारीनराधिपाः ॥ ७१८ ॥
वश्या भवेयुः सर्वे हि ज्वरार्त्ताश्चास्य वाञ्छया ॥
प्रयान्ति निधनं चास्य वाञ्छया नान्ययोगतः ॥
पिष्टेन गुडयुक्तेन मरिचैर्जीरकैर्युताम् ॥ ७१९ ॥
कृत्वा पुत्तलिकां साध्यज्ञानमुक्तामथो हृदि ॥
सनामहोमसम्पातघृते सम्पच्य तां पुनः ॥
स्पृशन्निजकारग्रेण सहस्रं प्रजपेन्मनुम् ॥ ७२० ॥
अभ्यर्च्य तत्घृताक्तेन भक्षयेत्तद्धिया जपन् ॥
नरनारीनृपास्तस्य वश्यास्स्युर्मरणावधि ॥ ७२१ ॥
तैरेव पिष्टैर्वृत्तं तु कृत्वा तन्मध्यतस्तथा ॥
साध्यनामस्फुटं कृत्वा प्राग्वत्सम्पाच्य भक्षणात् ॥ ७२२ ॥
वश्यास्ते 19 वत्सरं भूयः स्वनामार्थान्वितैस्तथा ॥
कृत्वा पिपच्य खादंस्तु वशयेत्तं तदर्थकम् ॥ ७२३ ॥
नारिकेरपयोभिस्तु तर्पणाद्वनिता वशा ॥
कर्पूरवासितैस्तोयैर्मनुष्यान्वशयेत्स्थितान् ॥ ७२४ ॥
तर्पणाल्लवणाम्भोभिस्सर्वे स्युस्तस्य किङ्कराः ॥
तथा लवणयुक्तेन तोयेन वनिता वशा ॥ ७२५ ॥
शुद्धेन वारिणा मासं तदर्धं तप्तवारकान् ॥
तर्पयेद्यस्य नाम्नैवं स तस्य स्याद्वशेऽनिशम् ॥ ७२६ ॥
केतकीवासितैर्जम्बूयुतै रम्भाफलोदकैः ॥
तर्पणाद्वनिता वश्या दद्युः प्राणानपि प्रियान् ॥ ७२७ ॥
तर्पणाल्लवणाम्भोभिस्सतिलैः किन्नरा वशाः ॥
शुद्धेन वारिणा मासं तर्पणात्स्यान्निजं धनम् ॥
नमेरुवासितैस्तोयैस्तर्पणाद्भूमिपा वशाः ॥ ७२८ ॥
कस्तूरीवासितैस्तोयैस्तर्पणाद्भूमिपा वशाः ॥
चम्पकैर्वासितजलैस्तर्पणं सर्वरञ्जनम् ॥ ७२९ ॥
पाटलीशतपत्राभ्यां वासितैर्ज्जलतर्पणैः ॥
सर्वलोकचमत्कारी ध्रुवं भवति नित्यशः ॥ ७३० ॥
कस्तूरीवासिताम्भोभिस्तर्पणं सर्वसिद्धिकृत् ॥
इन्द्रचन्दनसौरभ्यवासिताम्भः प्रतर्पणैः ॥ ७३१ ॥
वाञ्छितार्थसुसंसिद्धिस्तर्पयेद्वैरिमृत्यवे 19 ॥
केवलोष्णोदकैस्तस्य तीव्रज्वरसमुद्भवः ॥ ७३२ ॥
निम्बपत्ररसोपेतैरम्बुमिस्तर्पणाद्द्विषाम् ॥
जायतेन्योन्यवैरुद्ध्यं येन ते नाशमाप्नुयुः ॥ ७३३ ॥
तथैवात्युष्णसलिलैस्तर्पणाद्द्वेषिणो भृशम् ॥
अतीसारादिभिर्दोषैरुदर्यैरोगमाप्नुयुः ॥
सर्वविद्यास्वियं मुख्या देवी श्रीविद्यया समा ॥ ७३४ ॥
अथातः सम्प्रवक्ष्यामि नित्यक्लिन्नामनुं परम् ॥
ॐ ह्रीं मैमिति बीजानि नित्यक्लिन्ने मदद्रवे ॥ ७३५ ॥
ॐ ह्रीं स्वाहेति तिथ्यर्णो मन्त्रोयं वाञ्छितार्थदः ॥
ऋषिः सम्मोहनश्छन्दो विराडुक्तं तु देवता ॥
नित्यक्लिन्नाभिधा देवी चतुर्वर्गफलप्रदा ॥ ७३६ ॥
विना वाग्भवबीजं तु द्विद्वियुग्मेषुबाणकैः ॥
समस्तेनाङ्गषट्कं स्यान्नित्यक्लिन्नां स्मरेत्ततः ॥ ७३७ ॥
सुरासमुद्रमध्ये तु पृथुद्वीपं स्मरेद्बुधः ॥
तेजोमयं तत्र वनं नानाकल्पद्रुमान्वितम् ॥ ७३८ ॥
भृङ्गालिमञ्जुनादेन मन्दवातेन सेवितम् ॥
मनोज्ञतृणपुष्पाद्यैर्युक्ते माणिक्यमण्डपे ॥ ७३९ ॥
रत्नसिंहासनं तस्य मध्ये राजत्त्रिकोणके ॥
तन्मध्येष्टदले देवीमुपविष्टां च संस्मरेत् ॥ ७४० ॥
शीतांशुचूडामरुणाम्भोजाभाम्बिभ्रतीं करैः ॥
पाशाङ्कुशौ कल्पवल्लीं कपालं दोर्युगेन च ॥
वादयन्तीं कलां वीणां त्र्यक्षां नित्यां स्मराम्यहम् ॥ ७४१ ॥
इति ध्यात्वा यजेत्पीठं चतुश्शक्तियुतं सुधीः ॥
सयोनिकर्णिकं पद्ममष्टपत्रविराजितम् ॥ ७४२ ॥
आं द्राविण्यै च वामायै हृदुक्त्वैशानके यजेत् ॥
ईं स्यादाह्लादकारिण्यै ज्येष्ठायै हृद्गुदासने ॥ ७४३ ॥
ऊं क्षोभिण्यै च रद्र्यै च नमः पश्चिमकोणके ॥
ऐं गुह्यशक्त्यै हृत्प्रोक्तं यजेन्मध्ये त्रिकोणके ॥
ह्रीं सर्वशक्तिकमलासनाय हृदयान्ततः ॥ ७४४ ॥
पूज्यं त्रयोदशार्णेन देव्याश्चासनमुत्तमम् ॥
नित्यक्लिन्नां तत्र यजेद्वक्ष्यमाणेन वर्त्मना ॥ ७४५ ॥
केशरेष्वङ्गपूजा स्यात्पत्रेष्वेताः प्रपूजयेत् ॥
ईं नित्या मीं सुभद्रां च मङ्गलां वनचारिणीम् ॥ ७४६ ॥
उ ऊं पूर्वा मे सुभगा मैं पूर्वा चापि दुर्भगाम् ॥
मनोन्मनी च ॐ पूर्वा मौं पूर्वारुद्ररूपिणीम् ॥
चतुर्थ्यन्तहृदन्तेन नाममन्त्रेण पूजयेत् ॥ ७४७ ॥
वल्लकी वादनपरा ह्युष्णा रक्ता मनोहरा ॥
मदमन्थरगामिन्यः सुभूषाश्चारुभूषणाः ॥ ७४८ ॥
हव्यञ्जनाढ्यं कामस्य बीजं बिन्दुद्वयान्वितम् ॥
उच्चार्य ङेहृदन्तांश्चानङ्गादीन्पूजयेत्क्रमात् ॥ ७४९ ॥
पञ्चपत्रेषु देव्यग्रप्रादक्षिण्येन ते तथा ॥
अनङ्गश्च स्मरो मन्मथाख्यः कामश्च मारकः ॥
पञ्चपुष्पेषुपाशाह्वनाङ्कुशेक्षुधनुर्भृतः ॥ ७५० ॥
पृष्ठभागे भ्रूणयुक्ता शक्तिस्तत्पार्श्वसंस्थिताः ॥
भूषायुक्ताः स्मरेद्वक्त्रकमलाः साधु पूजयेत् ॥ ७५१ ॥
ततो बाह्ये दशदले देव्यग्रादि प्रदक्षिणम् ॥
षण्डान्तस्वरहीनञ्च ककारं बिन्दुभूषितत् ॥ ७५२ ॥
एकैकं पूर्वमुच्चार्य ङेहृदन्तञ्च नाम च ॥
अयन्तु पूजामन्त्रः स्यात्सर्वासां चाप्यनुक्रमात् ॥ ७५३ ॥
रतिश्च विरतिः प्रीतिः विप्रीतिश्च मतिस्तथा ॥
दुर्भतिर्निधृतिर्विधृतिस्तुष्टिश्चापि वितुष्टिका ॥ ७५४ ॥
अरुणाभरणोपेता वीणाहस्ताः स्मिताननाः ॥
लोकपालास्ततो बाह्ये तदस्त्राणि ततो बहिः ॥ ७५५ ॥
वह्निलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्पुनः ॥
घृतेन तर्पणाद्यं च कृत्वा सन्तोष्य देशिकम् ॥ ७५६ ॥
धनधान्यादिभिः 20 सम्यक्प्रयोगानाचरेत्ततः ॥
पूर्वमन्त्रोदितान्सम्यक्पूर्वोक्तविधिना सुधीः ॥ ७५७ ॥
एवं यः पूजयेद्भक्त्या नित्यक्लिन्नां मनोहराम् ॥
प्राप्नोति महतीं लक्ष्मीं याच्यते 21 प्रमदाजनैः ॥ ७५८ ॥
षडाम्नायैश्चिरं सेव्या पारम्पर्यं विचार्य च ॥
अथातोस्याः प्रवक्ष्यामि द्वादशार्णं महामनुम् ॥ ७५९ ॥
ऐं क्लीं बीजं समुच्चार्य नित्यक्लिन्ने मदद्रवे ॥
स्वाहान्तोयं मनुः प्रोक्तो मुनिः सम्मोहनो मतः ॥ ७६० ॥
छन्दो निवृत्समाख्यातं नित्यक्लिन्ना च देवता ॥
वाग्भवेन षडङ्गानि कृत्वा देवीं विचिन्तयेत् ॥ ७६१ ॥
रक्ताम्बरां रक्तवर्णां रक्तगन्धानुलेपनाम् ॥
कमलञ्च सृणिं पाशं कपालं बिभ्रतीं करैः ॥ ७६२ ॥
मदाकुलितसर्वाङ्गीं त्रिनेत्रां शशिशेखराम् ॥
शाक्तपीठे यजेद्देवीं प्रोक्ताङ्गानि पुरा यजेत् ॥ ७६३ ॥
पूर्वोक्ताश्च ततो बाह्ये शक्तीर्नित्यादिका यजेत् ॥
अरुणा नीलकमलकपालाढ्यकराम्बुजा ॥ ७६४ ॥
शतक्रत्वादिकान्बाह्ये वज्रादींश्च ततः परम् ॥
अथ वक्ष्ये महाकालीं समस्तजनमोहिनीम् ॥ ७६५ ॥
आनीतां श्रीगणेशेन वाममार्गप्रचारिणीम् ॥
त्वरितं वाममार्गेण ह्यस्याः सिद्धिः प्रजायते ॥ ७६६ ॥
दिवोदासोच्चाटकरां दुगार्या उत्तरस्थिताम् ॥
ॐ क्ष्रेṁक्ष्रेṁक्रेṁक्रेञ्च पशुं गृहाणकवचं वदेत् ॥
अस्त्रं स्वाहा शक्रवर्णो मन्त्रः काल्या उदीरितः ॥ ७६७ ॥
न न्यासो न च मुद्रादिर्नात्र काचिद्विचारणा ॥
यथेष्टभक्ष्यपानाभ्यां मैथुनेन प्रसीदति ॥ ७६८ ॥
उष्णतोयेन सम्पूर्णे कुम्भे चैवाथ कालिकाम् ॥
ब्राह्म्यादिभिः शक्तिभिश्च युक्ता भक्त्या प्रपूजयेत् ॥ ७६९ ॥
पञ्चवक्त्रां महारौद्रीं प्रतिवक्त्रां त्रिलोचनाम् ॥
शक्तिशूलधनुर्बाणखेटखड्गवराभयान् ॥ ७७० ॥
दक्षां दक्षभुजैर्देवीं बिभ्राणाम्भोगभूषिताम् ॥
ध्यात्वैवं सिद्धकः साध्यं साधयेन्मनसि स्थितम् ॥ ७७१ ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराही च तथेन्द्राणी चामुण्डा चण्डिकाष्टमी ॥ ७७२ …
प्रोक्ता ईशानपर्यन्तं कुम्भकुक्षिस्थिता इमाः ॥
कार्तिकेया तमोदेवी महाकाली भयापहा ॥ ७७३ ॥
वर्णलक्षं जपेन्मन्त्रं घृताक्तैस्तिमिभिर्हुनेत् ॥
तर्पणादि ततः कृत्वा सिद्धो मन्त्रः 22 प्रजायते ॥ ७७४ ॥
नामोच्चारणसंरब्धरज्वा प्रज्वलितेनले ॥
जुहुयाद्वैरिणः क्रुद्धो देवीमन्त्रं जपंस्तथा ॥ ७७५ ॥
समिधः पिचुमन्दस्य बिभीताङ्गारहोमतः ॥
सप्ताहाद्वैरिणं हन्ति कालिकामन्त्रयोगतः ॥ ७७६ ॥
उच्चाटोह्यपराह्णे च सन्ध्यायां मारणन्तथा ॥
दक्षिणस्यां दिशि स्थित्वा ग्रामादेर्दक्षिणामुखः ॥
एतैरेव भवेद्धोमस्तत्तत्कर्म सुसिध्यति ॥ ७७७ ॥
अथातः सम्प्रवक्ष्यामि महागणपसेविताम् ॥
महाकृत्यां यथा नार्यः पातिव्रत्यव्रताच्च्युताः ॥ ७७८ ॥
नानाविधाश्चमत्कारा नारीभ्यश्च प्रदर्शिताः ॥
पातिव्रत्याद्भ्रंशितास्ताः पापराशिर्महानभूत् ॥ ७७९ ॥
स्त्रीषु कृत्यासु जातासु गार्हस्थ्ये भङ्गुरे सति ॥
पुरुषा यां समासाद्य गृहस्थाः सुखिनो भवन् ॥ ७८० ॥
तां कृत्यां सम्प्रवक्ष्यामि गृहस्थाश्रममण्डनाम् ॥
ह्रीं महायोगिनीं प्रोच्य गौरीमुक्त्वा भुवेति च ॥ ७८१ ॥
न भयङ्करि हुञ्चेति मन्त्रोयं षोडशाक्षरः ॥
अङ्गिराश्च मुनिर्देवी गायत्री छन्द ईरितम् ॥ ७८२ ॥
एवं फडन्तं भुवनभयङ्करि शिरो मतम् ॥
पुनरेवन्त्रिरावृत्या षडङ्गानि समाचरेत् ॥ ७८३ ॥
सिंहासीनां कृष्णमुखीं लम्बमानपयोधराम् ॥
दंष्ट्राकरालवदनां त्रिनेत्रां सर्वतोज्ज्वलाम् ॥ ७८४ ॥
कृष्णकञ्चुकसंवीतां विधूमाग्निसमप्रभाम् ॥
त्रिशूलचक्रचषकखट्वाङ्गवरपङ्कजाम् ॥ ७८५ ॥
लेलिहानां महाजिह्वां विद्युत्प्रेक्षणभीषणाम् ॥
ध्यात्वा कृत्यां विधानेनपूजयेन्मन्त्रवित्तमः ॥ ७८६ ॥
भीषणां श्रीमतीं देव्या अग्रादारभ्य पूजयेत् ॥
प्रतिष्ठाञ्च तथा विद्यां तद्बाह्ये तु चतुर्दले ॥ ७८७ ॥
पूर्वस्यां शाङ्करीं नाम शुभ्रवर्णाम्बरावृताम् ॥
द्विभुजां सौम्यवरदां पाशाङ्कुशधरां शिवाम् ॥ ७८८ ॥
दक्षिणे मालिकां नाम लम्बजिह्वां भयङ्करीम् ॥
पूजयित्वा जपेन्मन्त्रं नित्यमष्टोत्तरं शतम् ॥ ७८९ ॥
लोकेशार्चादिकं बाह्ये नियोगोस्याथ कथ्यते ॥
कालं विदित्वा प्रतिमां मारणे चाप्यधोमुखीम् ॥ ७९० ॥
तस्याधोमेखलायुक्तं 23 त्रिकोणं वह्निकोणके ॥
चन्द्रगौरं विधायाग्निं परिस्तीर्य शरैस्तृणैः ॥ ७९१ ॥
बिभीतकपरिध्या च कल्पयेद्वाऽस्य मारणे ॥
जुहुयान्निम्बतैलाक्तैः काकोलूकोत्थविट्ककैः ॥ ७९२ ॥
दारयैनं शोषयैनं मारयेत्थं विधाय च ॥
अष्टोत्तरशतं चैव ममुना जुहुयाद्बुधः ॥ ७९३ ॥
होमान्तं विधिवत्कृत्वा मारणाग्नेश्च सन्निधौ ॥
यो मे कण्ठग्रहो वापि दूरस्थोप्यन्तिकेपि च ॥
विषक्रव्यमसृक्तस्येत्थमुक्त्वा च निवेदयेत् ॥ ७९४ ॥
संरक्ष्याग्निविधानेन नवरात्रं समापयेत् ॥
मृतस्तिष्ठति तेनाशं तावदस्य रिपोर्मतिः ॥ ७९५ ॥
अर्कक्षीरेण मरिचं पिष्ट्वा सिद्धार्थमेव च ॥
जले सṁलोड्य मन्त्रेण रिपुं ध्यात्वा निरुद्धदृक् ॥ ७९६ ॥
कृष्णाम्बरोत्तरीयोग्रपादेनाक्रम्य चेद्रिपुम् ॥
वज्रं शूलमिति ध्यात्वा अद्भिस्तस्योपरि क्षिपेत् ॥
नवरात्रान्तरे शत्रुर्म्रियते नात्र संशयः ॥ ७९७ ॥
हरसिद्धे चितावह्नौ तैलसिक्तैर्बिभीतकैः ॥
जुह्वतो म्रियते शत्रुः सत्यमौशनसोदितम् ॥ ७९८ ॥
रिपोः प्रतिकृतिन्ध्यात्वा साध्यर्क्षफलकेनले ॥
अर्कक्षीरेण मरिचं पिष्ट्वा तत्रैव लेपयेत् ॥ ७९९ ॥
फट्कारं हृदये कृत्वा शिवं निर्माय कूपके ॥
क्षिपेत्कृष्णचतुर्दश्यां जप्त्वा मन्त्रं सहस्रशः ॥ ८०० ॥
सद्योवगाहनं कृत्वा तस्यामेव च लक्षकम् ॥
मन्त्रं जप्त्वा विधानेन भेदयेच्छिवमुद्रया ॥
षण्मासान्म्रियते शत्रुः सन्ध्ययोरुभयोरपि ॥ ८०१ ॥
वायुना सूद्धृतं पत्रं शुष्कं बैभीतकन्ततः ॥
गृहीत्वा विलिखेन्मन्त्री कृष्णसर्पास्यशोणितैः ॥ ८०२ ॥
नामधेयं रिपोरन्ते वायुबीजं नियोजयेत् ॥
लिखने तस्य गेहे तु काकवद्भ्रमते ध्रुवम् ॥ ८०३ ॥
वातोद्धूतैः शुष्कपत्रैः काष्ठैरशनिपातितैः ॥
उष्ट्रास्थ्ना च शवाङ्गारैः शत्रोरुच्चाटनं भवेत् ॥ ८०४ ॥
दूर्वां गुडूचीं सम्पिष्य सर्पिषा तिलतण्डुलैः ॥
अन्नैः समिद्भिः पालाशैः शान्तिं कुर्याद्विचक्षणः ॥ ८०५ ॥
लक्ष्मीं बिल्वफलैः पत्रैर्नन्द्यावर्तैः श्रियं तथा ॥
रक्तपुष्पैरपामार्गैरिङ्गालैश्च समुद्रकैः ॥
मधुरत्रयसंसिक्तैरेभिः कुर्यात्तु वश्यकम् ॥ ८०६ ॥
शान्तिं कृत्वा विधानेन कृत्यामन्त्रमिमं जपेत् ॥
महाव्याधिप्रशमनं नित्यमष्टाधिकं शतम् ॥ ८०७ ॥
जपेदेकाग्रचित्तस्तु लोकवश्यकरं परम् ॥
मनसा चिन्तयेत्कृत्यां गजारूढां विहङ्गमाम् ॥ ८०८ ॥
तस्य वश्यम्भवेत्क्षिप्रमश्वारूढां 24 तथा भजेत् ॥
चौरव्याघ्रमृगादीनां सलिलादिभयापहाम् ॥ ८०९ ॥
सप्ताभिमन्त्रितं तोयं पीत्वा मन्त्रसमाहितः ॥
मेधावी च भवेद्वाग्मी तावज्जप्त्वाभिषेकतः ॥
सप्ताभिमन्त्रितं कृत्वा विषमप्यमृतम्भवेत् ॥ ८१० ॥
पक्षं मासं द्विमासं वा षण्मासं वत्सरन्तु वा ॥
एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ॥ ८११ ॥
अथ वक्ष्ये महाशान्तिं सर्वोपद्रवनाशिनीम् ॥
वामाचारस्य सङ्गोप्त्रीं समस्तसुरतुष्टिदाम् ॥ ८१२ ॥
वाममार्गभवं पापं हरेत्पुण्यं विवर्द्धयेत् ॥
अकालमृत्युमथिनी सदा विजयवर्द्धिनी ॥ ८१३ ॥
आयुष्यपालिनी पुष्टिलक्ष्मीसौभाग्यवश्यकृत् ॥ ८१४ ॥
पुत्रदा पौत्रदा चैव लक्ष्मीमलविनाशिनी ॥
महाव्याधिप्रशमिनी ह्यपस्मारविनाशिनी ॥ ८१५ ॥
योगिनीभूतवेतालाः प्रेतकूष्माण्डपन्नगाः ॥
तत्र स्थाने न तिष्ठन्ति डाकिन्याद्या विशेषतः ॥ ८१६ ॥
कृत्यामभ्यर्चयेद्वस्त्रे यथाविधिपुरःसरम् ॥
षोडशारं लिखेत्पद्मं योनियुक्तं सबिन्दुकम् ॥ ८१७ ॥
तन्मध्येष्टदलं लेख्यमकारादि न्यसेत्क्रमात् ॥
तन्मध्ये रसकोणं तु लिखेन्मूलमनुं स्मरन् ॥ ८१८ ॥
चन्द्रबिम्बं लिखेत्पद्मं तस्योर्ध्वं प्रेतमालिखेत् ॥
न्यस्येत्तन्मध्यगं कुम्भं वस्त्ररत्नविभूषितम् ॥ ८१९ ॥
कुम्भमध्ये न्यसेत्कृत्यां सर्वलक्षणसंयुताम् ॥
अर्चयेच्च यथान्यायं पायसन्तु निवेदयेत् ॥ ८२० ॥
लोके शान्तां यजेद्देवीं तदग्रे होममाचरेत् ॥
जुहुयादाज्यसंसिक्तापामार्गतिलसर्पिषा ॥ ८२१ ॥
दूर्वाम्रखदिराश्वत्थैः प्रत्येकं तु शताष्टकम् ॥
कुण्डे च स्थण्डिले वापि होमकर्म्म समाचरेत् ॥ ८२२ ॥
तस्य दक्षिणपार्श्वे तु लक्ष्मीन्ध्यायेद्यथाविधि ॥
कुम्भमध्ये न्यसेद्देवीं दक्षिणे तु श्रियं स्मरेत् ॥ ८२३ ॥
वामपार्श्वे यजेद्देवीं हृल्लेखां परमेश्वरीम् ॥
तस्या वै वामपार्श्वे तु पूजयेद्गणनायकम् ॥ ८२४ ॥
अयुतं मूलमन्त्रन्तु जपेन्मृत्युविनाशनम् ॥
लक्षं तु भ्रूणहत्यायां मद्यपाने सहस्रकम् ॥ ८२५ ॥
गुरुद्रोहे कोटिमितं तथा चाष्टोत्तरं शतम् ॥
ब्रह्मद्रोहे तु प्रयुतं गुरुतल्पगमे तथा ॥
मदात्ययादधर्मादौ पञ्चलक्षमितं जपेत् ॥ ८२६ ॥
वामे वा कौलिके मार्गे कापाले गन्तुमिच्छति ॥
सचादौ साधयेन्मन्त्रमिमं परिमलाह्वयम् ॥ ८२७ ॥
पापनाशकरो यस्माच्छत्रुभीतिनिवारकः ॥
गुरुदोषाः शिष्यदोषा अधर्माङ्गभवाश्च ये ॥
ते सर्वे नाशमायान्ति मनोरस्य जपे कृते ॥ ८२८ ॥
दक्षिणाचारनिष्ठोपि दुःखनाशाय सेवयेत् ॥
शुष्कुल्यः फेणिका मुद्गा मांसन्तु वटकेण्डिराः ॥ ८२९ ॥
सौवीरं काञ्जिकं मद्यं स्वस्त्री शक्तिः प्रकीर्तिता ॥
वृन्ताकशाको मत्स्यार्थे वा मादधिकसिद्धिदः ॥ ८३० ॥
अथतः सम्प्रवक्ष्यामि विघ्नं त्रैलोक्यमोहनम् ॥
प्रपञ्चितं प्रपञ्चेपि शक्तिभिर्बहुधा तथा ॥ ८३१ ॥
दिवोदासस्य तपसा शाक्ते मार्गे न येविशन् ॥
तदा सम्मोहनो नाम केदारस्य तु पश्चिमे ॥ ८३२ ॥
गणेशोभूत्तदा तेन सम्पूर्णं मोहितं पुरम् ॥
तस्य मन्त्रं प्रवक्ष्यामि सोर्ध्वाम्नायेन सिद्धिदम् ॥ ८३३ ॥
वक्रतुण्डैकदंष्ट्राय क्लीं ह्रीं श्रीं गं वदेत्ततः ॥
गणपतिं वरयुग्मं दान्तं सर्वजनं वदेत् ॥ ८३४ ॥
मे वशमानय स्वाहा त्रयस्त्रिंशल्लिपिर्मनुः ॥
मुनिस्तु गणपः प्रोक्तो गायत्रं छन्द ईरितम् ॥ ८३५ ॥
त्रैलोक्यमोहनो विघ्नो देवता परिकीर्तितः ॥
रुद्रेषुपञ्चवेदाङ्गनेत्रवर्णैर्मनोः क्रमात् ॥ ८३६ ॥
षडङ्गविधिरुद्दिष्टो ध्यानपूजादिकं ब्रुवे ॥
महागणेशवत्सर्वं प्रयोगादिकमाचरेत् ॥ ८३७ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते ऊर्ध्वाम्नायगणपतिमन्त्रप्रकाशः सप्तदशः ॥ १७ ॥
-
इडभाव आर्षः ↩︎
-
पूर्वपदार्थान्तर्गतस्यापि ऊत्तरपदार्थस्य बुद्ध्या प्रविभागात्प्रत्यवमर्शः ↩︎
-
इदं पूर्वान्वयि ↩︎
-
स इति शेषः ↩︎
-
तर्पयामि इति शेषः ↩︎
-
अमुकेनेति शेषः ↩︎
-
भूमित्यत्रोङभाव आर्षः ↩︎
-
अन्यून इत्यर्थः ↩︎
-
वाक्सिद्धिं समवाप्नोति इति पूर्वान्वयि ॥ ↩︎
-
कार्योत्पत्त्येति तु चिन्तयित्वेत्यनेन सम्बध्यते ॥ ↩︎
-
पार्वति ↩︎
-
एतदग्रे तूत्तरान्वयि ↩︎
-
अमभाव आर्षः ↩︎
-
१- अस्य पूर्वपद्यघटकवैरिण इत्यत्र सम्बन्धः । २- अथानन्तरं विषवृक्षकुसुमहोमात्स्तम्भनमिति भावः ↩︎
-
ध्यात्वेति शेषः ↩︎
-
शत्रूणामिति शेषः ↩︎
-
अर्द्धं पूर्वान्वयि । ↩︎
-
द्वितीयार्थे प्रथमा ↩︎
-
इदं पूर्वान्वयि ॥
रतिं स याच्यते इत्यर्थः । ↩︎ -
अत्र गौणे कर्मणि लः ↩︎
-
तस्येति शेष्ऽः ↩︎
-
सन्धिरार्षः ↩︎
-
एतत्पदचतुष्टयं पूर्वान्वयि ↩︎