श्रीदेव्युवाच ॥
असिद्धगुरुणा दत्तो मनुः शिष्याय वा गुरुः ॥
सिद्धा मन्त्रान्तरैर्देव नैव सिद्धो यथा गुरुः ॥ १ ॥
भिन्नाम्नायो यदा शिष्यस्तद्भिन्नाम्नायदेवताम् ॥
यजते तत्र देवेश कीदृक्सिद्धिस्तु तं व्रजेत् ॥ २ ॥
ईश्वर उवाच ॥
गुरुश्चेद्दक्षिणाम्नायी सर्वाम्नायेषु दीक्षितः ॥
ऊर्ध्वाम्नायी तथा न्येषु पूर्वाम्नायी परेषु च ॥ ३ ॥
द्वयोस्तु पश्चिमाम्नायी उत्तरे त्वधरे भवेत् ॥
अधरे नैव कुत्रापि गुरुत्वं च विलोकितम् ॥ ४ ॥
दक्षिणोपासकः काल ऊर्ध्वः सायुज्यमाप्नुयात् ॥
देवतायास्तथा पूर्वः सारूप्यं लभते परः ॥ ५ ॥
सामीप्यं त्वपरो लोकमधोगत्यैहिकं फलम् ॥
लोभत्यागश्चोपकारो ह्यध्ॐमार्गेप्युदर्ककृत् ॥ ६ ॥
मन्त्रान्तरे च संसिद्धो गुरुर्मन्त्रं प्रयच्छति ॥
यथोक्ताचरणात्तस्य सिद्धिः शिष्यस्य जायते ॥ ७ ॥
कृपावशात्सिद्धमन्त्रं ददाति च यदा गुरुः ॥
विना जपं विना पूजां सिद्धयस्तत्करे स्थिताः ॥
असिद्धगुरुणा दत्तो मन्त्रः स्याद्बहुविघ्नदः ॥ ८ ॥
तत्रादौ साधयेद्विघ्नराजमन्त्रं ततः पुनः ॥
निष्पापस्य पुरश्चर्या स्वतः सिद्ध्येन्मनूत्तमः ॥ ९ ॥
तत्राम्नायविभेदेन सर्वतन्त्रेषु गोपितम् ॥
एकबीजात्मकं वक्ष्ये विघ्नमन्त्रं सुद्धिदम् ॥ १० ॥
तत्रादौ वैदिकानां तु गकारः केवलो मतः ॥
दक्षिणानां बिन्दुयुक्तो द्विबिन्दुः पूर्वमार्गिणाम् ॥ ११ ॥
एतद्द्वययुतः पश्चादूर्ध्वाम्नायेपि गौमिति ॥
ग्लौमुत्तरे गौमिति च पातालाम्नाय ईरितः ॥ १२ ॥
गणपोस्य मुनिच्छन्दो निवृद्विघ्नश्च देवता ॥
गणं जयाय स्वाहा हृत्कमेकदंष्ट्राय 1 हुम्फट् ॥ १३ ॥
अचलकर्णिने नमः शिखा प्रोक्ताथ वर्म च ॥
गजवक्त्राय च नमस्तथा नेत्रमुदीर्यते ॥ १४ ॥
महादशनचण्डाय हुम्फड्वैरिकमस्त्रकम् ॥
षड्दीर्घयुक्तबीजेन तान्त्रिको न्यासमाचरेत् ॥ १५ ॥
ततो गणपतिं ध्यायेद्यतवाक्च प्रसन्नधीः ॥
रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् ॥ १६ ॥
रक्तपुष्पैः पूज्यमानं तुन्दिलं चन्द्रमौलिनम् ॥
त्रिनेत्रं वामनं विघ्नाधीशं पूज्यं च शुण्डिनम् ॥ १७ ॥
वामे दक्षे द्वयोः पाशां कुशौ पाण्योस्तु बिभ्रतम् ॥
पद्मासनं सर्वभूषं ध्यायेद्विघ्नविनायकम् ॥ १८ ॥
श्रीपर्णादिकृते पीठे पूजयेत्कुङ्कुमादिना ॥
यन्त्रमेतद्बुधः कुर्याच्चतुरस्रत्रयं शुभम् ॥ १९ ॥
तन्मध्येष्टदले कार्यः पूजापीठं गणेशितुः ॥
तत्र पूर्वोक्तविधिना मण्डपादि प्रकल्पयेत् ॥ २० ॥
पृथिव्यन्तं समुद्रादि लिखेदिक्षुरसात्मकम् ॥
रत्नद्वीपादि च परं त्वर्चेदिष्टदलात्मके ॥ २१ ॥
अर्चयेत्कर्णिकायां तु देवं पत्रेषु वै क्रमात् ॥
तीव्रा च ज्वालिनी नन्दाभोगदा कामरूपिणी ॥ २२ ॥
उग्रा तेजस्वती सत्या नवमी विघ्ननाशिनी ॥
आद्या मध्यातथा चान्तमनाः पीठमनुं शृणु ॥ २३ ॥
ॐ सर्वशक्तिकमलासनाय नम इत्यमुम् ॥
पूर्वादिषु चतुर्दिक्षु यजेत्पीठं गणाधिपम् ॥ २४ ॥
गणेशानं गौरवर्णं रक्तं च गणनायकम् ॥
गणक्रीडं नीलवर्णं केशरेषु ततो यजेत् ॥ २५ ॥
अग्नीशासुरवायव्यमध्ये चान्तरदिक्षुं च ॥
मन्त्रस्यास्य षडङ्गानि ध्यातव्यास्ताश्च देवताः ॥ २६ ॥
तुषारस्फटिकश्यामनीलकृष्णारुणत्विषः ॥
वरदाभयधारिण्यः प्रधानतनवः स्त्रियः ॥ २७ ॥
वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ ॥
लम्बोदराख्यविकटौ विघ्नराड्धूम्रवर्णकौ ॥ २८ ॥
पूर्वादिषु दलेष्वर्च्या ब्राह्म्याद्याश्च दलाग्रतः ॥
ध्यानं तासां प्रवक्ष्यामि प्रोक्तं सव्यक्रमेण तु ॥ २९ ॥
ब्राह्मी वर्णसिता ध्येया मृगचर्मविभूषिता ॥
अक्षमालामयोदण्डं कुण्डिकां दधती करैः ॥ ३० ॥
त्रिशिखं परशुं हस्तैर्डमरुं नृकपालकम् ॥
विभ्राणां चन्द्रगौराङ्गीं महेशीं भावयेच्छुभाम् ॥ ३१ ॥
गुणं ख्ट्।
वाङ्गकं दण्डमङ्कुशं दधतीं करैः ॥
इन्द्रगोपारुणां ध्यायेत्कौमारीं करुणालयाम् ॥ ३२ ॥
अरिशङ्खकपालानि घण्टां च करपङ्कजैः ॥
विभ्राणां वैष्णवीं ध्यायेन्नीलमेघसमप्रभाम् ॥ ३३ ॥
तोमराङ्कुशवज्राङ्कविद्युद्युक्तकराम्बुजाम् ॥
इन्द्राणीं भावयेन्मन्त्री नीलवर्णां सुभूषणाम् ॥ ३४ ॥
हलं च मुसलं दोर्भिर्दधानां खड्गखेटकौ ॥
वाराहीं भावयेच्छक्तिमञ्जनाचलसन्निभाम् ॥ ३५ ॥
धारयन्तीं शूलखेटौ कपालं नृशिरः करैः ॥
चामुण्डां शोणवर्णां च मुण्डमालायुतां स्मरेत् ॥ ३६ ॥
स्वर्णाभामक्षमालां च बीजपूरकपालके ॥
पद्मं च दधतीं हस्तैर्महालक्ष्मीं स्मरेत्सुधीः ॥ ३७ ॥
चतुरस्रत्रयान्तस्थवीथिद्वन्द्वे समर्चयेत् ॥
दिक्पालांश्च तदस्त्राणि पूजाविघ्नहरस्य तु ॥ ३८ ॥
यश्चैवं पूजयेदेवं गणेशं विघ्ननाशनम् ॥
असिद्धादपि सम्प्राप्तो मन्त्रोसौ सिद्धिकृद्भवेत् ॥ ३९ ॥
लक्षमेकं मनुं जप्त्वा जुहुयात्तद्दशांशतः ॥
मोदकैः पृथुकैर्लाजैः सक्तुभिश्चेक्षुपर्वभिः ॥ ४० ॥
नारिकेरैस्तिलैर्मोचैर्होमं कुर्यात्पृथक्पृथक् ॥
सहस्रमेकं द्विशतं पञ्चाशप्रमितं तथा ॥ ४१ ॥
तिलैस्त्रिमधुराक्तैश्च होमः कार्योथ कथ्यते ॥
दौग्धान्नेन घृताक्तेन होमोभीष्टफलप्रदः ॥ ४२ ॥
लक्ष्मीकामो नारिकेरैश्चतुर्थ्यां तु चतुश्शतम् ॥
सितपक्षादिमारभ्य प्रत्यहं जुहुयात्क्रमात् ॥ ४३ ॥
चतुर्थ्यन्तं ततः सर्वप्राणिनो वशगा नृणाम् ॥
तिलैश्च घृतसंयुक्तैर्होमः श्रीवश्यकीर्तिदः ॥ ४४ ॥
स्वादुत्रययुतैर्लाजैर्हुनेत्सप्तदिनावधि ॥
कन्यार्थी लभते कन्यां पुत्रार्थी लभते सुतम् ॥ ४५ ॥
दधिसंसिक्तलवणैर्जुहुयाच्च चतुर्दिनम् ॥
निशीथिन्यां च वश्यादौ भवेद्वश्यं तथेप्सितम् ॥ ४६ ॥
गौरवं लाघवं साध्यं जाप्यं चासाध्यमेव च ॥
कार्यं ज्ञात्वा होमसङ्ख्यां कल्पयेच्च सहस्रतः ॥ ४७ ॥
कोट्यन्तमेवं विज्ञेयं यत्र सङ्ख्या तु नोदिता ॥
सितार्कद्रुममूलेन कुचन्दनसुदारुभिः ॥ ४८ ॥
गजाक्षत्रोटिनं चैव दन्तकेनापि दन्तिनाम् ॥
विधाय विघ्नं सम्पूज्य तं पृष्ट्वा प्रजपेन्मनुम् ॥ ४९ ॥
उपोषितः शुचिश्चन्द्रग्रहणे तं समुद्धरेत् ॥
शिखायां व्यवहारादौ समरे विजयी भवेत् ॥ ५० ॥
रोचनारजसानेन कृतं च मनुना ततः ॥
तिलकं सर्वराजानो लोकाः स्युर्वशगास्सदा ॥ ५१ ॥
नवनीतेन वै साध्यनामालिख्यानुलोमगम् ॥
विलोमं विघ्नबीजं च तद्धृतं स्थापितं जले ॥ ५२ ॥
जपित्वाष्टोत्तरशतं तूष्णीं तद्भक्षयेत्तदा ॥
सप्ताहाद्वशगः साध्यः साधकस्य भवेद्ध्रुवम् ॥ ५३ ॥
गणेशं तर्पयेत्तोयैः प्राग्वत्कार्यवशेन तु ॥
मण्डादिभिरवाप्नोति मन्त्रोयं प्रणवादिकः ॥ ५४ ॥
सन्न्यासिने च पूजायां हृदन्तः परिकीर्तितः ॥
वक्ष्येथ दक्षिणाम्नाये लक्ष्मीगणपतिं सुराः ॥ ५५ ॥
गजलक्ष्मीसमायुक्तमयं योगोति दुर्लभः ॥
श्रीं गं सौम्याय चोच्चार्य महागणपतिं तथा ॥ ५६ ॥
ङेन्तमुक्त्वा वरवरदोक्त्वा सर्वजनं वदेत् ॥
मे वशमानय स्वाहेत्येकोनत्रिंशदक्षरः ॥ ५७ ॥
अन्तर्यामी मुनिश्छन्दो गायत्री त्रिवृदन्विता ॥
देवो लक्ष्मीगणेशोत्राथाद्यबीजद्वयेन तु ॥
षड्दीर्घयुक्तेनाङ्गानि जातियुक्तानि कारयेत् ॥ ५८ ॥
हेमाभं पीतवसनं शङ्खचक्रगदाभयान् ॥
दक्षोर्ध्वकरमारभ्य दक्षिणेधः करावधि ॥ ५९ ॥
दधतं शुण्डया स्वर्णघटं पद्मोपरि स्थितम् ॥
वामाङ्केविष्णुलक्ष्म्या चाश्लिष्टं दक्षभुजेन तु ॥ ६० ॥
प्राक्प्रोक्ते पूजयेत्पीठे तीव्रादिनवशक्तिके ॥
अष्टपत्राम्बुजद्वन्द्वे कर्णिकाकेशरोज्ज्वले ॥
चतुर्द्वारसमायुक्तचतुरस्रत्रयावृते ॥ ६१ ॥
मूलेन मूर्ति सङ्कल्प्य तस्यामावाह्य पूजयेत् ॥
प्रथमावृत्तिरङ्गैः स्याद्वक्रतुण्डादिभिः परा ॥ ६२ ॥
अणिमा महिमा चैव लघिमा गरिमा तथा ॥
ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरग्रतः ॥ ६३ ॥
चतुर्थी मातृभिश्चाग्रे लोकेशानायुधानि च ॥
लक्षं जपेद्धुनेद्बिल्वसमिधो मधुरप्लुताः ॥
तर्पणादि ततः कृत्वा काम्यकर्माणि साधयेत् ॥ ६४ ॥
हुनेच्चैव सहस्राणि श्रीफलैर्मधुरान्वितैः ॥
महालक्ष्मीकरो होमः पुत्रमित्रकलत्रदः ॥ ६५ ॥
शुद्धतोयेन सन्तर्प्य चत्वारिंशच्चतुःशतम् ॥
चत्वारिंशद्दिनान्मन्त्री वाञ्छितां लभते श्रियम् ॥ ६६ ॥
ताराद्योयं रमाहीनस्तथाष्टाविंशदक्षरः ॥
न्यासध्यानादिकं प्राग्वत्पूजाभेदो निगद्यते ॥ ६७ ॥
आदावङ्गानि च ततो बलाका विमला तथा ॥
कमलावनमाला च बिभीषिका च मालिका ॥ ६८ ॥
वशङ्करा वसुमाला पार्श्वयोः शङ्खपद्मकौ ॥
लोकेशांश्च तदस्त्राणि पूजयेत्काम्यमुच्यते ॥ ६९ ॥
उरोमात्रे जले स्थित्वा ध्यात्वा सवितृमण्डले ॥
देवं त्रिलक्षं जपतो धनवृद्धिः प्रजायते ॥ ७० ॥
बिल्वमूलं समास्थाय तावज्जप्ते फलं हि तत् ॥
अशोककाष्ठैर्ज्वलिते वह्नावाज्याक्ततण्डुलैः ॥ ७१ ॥
होमतो वशयेद्विश्वमर्ककाष्ठं तथापि वा ॥
खादिराग्नौ नरपतिर्लक्ष्मीं 2 पायसहोमतः ॥ ७२ ॥
श्रीमित्येकाक्षरः प्रोक्तो मन्त्रश्च्छन्दो निवृन्मतम् ॥
भृगुर्मुनिर्देवता तु लक्ष्मीः सर्वप्रदा मता ॥
षड्दीर्घबीजयुक्तेन षडङ्गानि समाचरेत् ॥ ७३ ॥
पद्मारूढां सुवर्णाभां सपद्मोर्ध्वकरद्वयाम् ।
अधोदक्षेणाभयदां वामेन वरदायिनीम् ॥ ७४ ॥
हिमाचलनिभैर्नागैः शुण्डाग्रामृतकुम्भकैः ॥
चतुर्भिः सिच्यमानां च क्षौमवस्त्रां किरीटिनीम् ॥ ७५ ॥
ध्यायेद्धरिप्रियां देवीं भक्तानुग्रहकातराम् ॥
धर्मादिकल्पिते पीठे भूपुराढ्ये दलाष्टके ॥ ७६ ॥
रमामावाह्य गन्धाद्यैः कर्णिकायां यजेत्ततः ॥
विभूतिरुन्नतिश्चैव हृष्टिः कीर्तिश्च सन्नतिः ॥ ७७ ॥
व्युष्टिरुत्कृष्टिर्-ऋद्धिश्च क्रमात्पूज्या दिगष्टके ॥
मध्ये सिंहासनं पूज्यं सर्वशक्तिमयं तथा ॥ ७८ ॥
बीजाद्यमासनं दद्यान्मूर्तिं मूलेन कल्पयेत् ॥
षडङ्गानि च सम्पूज्य पुनरष्टदलेर्चयेत् ॥ ७९ ॥
चतुर्दिक्षु च देव्यग्राद्वासुदेवं हलायुधम् ॥
प्रद्युम्नं चानिरुद्धं च विदिशासु तथा क्रमात् ॥ ८० ॥
दमकं सलिलं चैव गुग्गुलं च कुरण्टकम् ॥
देवीदक्षिणहस्ताग्रे शङ्खाख्यं निधिमर्चयेत् ॥ ८१ ॥
वामे पद्मनिधिं चैव द्वितीयेष्टदले ततः ॥
बलाकां विमलां चैव कमलां वनमालिकाम् ॥ ८२ ॥
बिभीषिकां मालिकां च शाङ्करीं वसुमालिकाम् ॥
लोकपालानायुधानि प्रोक्तमेतच्छ्रियोर्चनम् ॥ ८३ ॥
जपेद्भास्करलक्षं तत्सहस्रं जुहुयात्पुनः ॥
पद्मैस्त्रिस्वादुसंयुक्तैस्त्रिनवैः श्रीफलैरपि ॥ ८४ ॥
त्रिभिर्वा मधुराक्तैश्च तर्पणादि ततश्चरेत् ॥
एवं सिद्धमनुर्मन्त्री साधयेन्निजवाञ्छितम् ॥ ८५ ॥
वक्षोजदघ्ने पयसि तिष्ठन्नर्कगतां श्रियम् ॥
संस्कृत्य मनुमेनं च जपेल्लक्षत्रयावधि ॥
सोचिरेणैव कालेन दारिद्र्यात्परिमुच्यते ॥ ८६ ॥
मधुसूदनगेहे च बिल्वाध उपविश्य च ॥
त्रिलक्षं प्रजपेन्मन्त्रीवत्सराद्वाञ्छितार्थदः 3 ॥
अधिकं वसुसङ्घातं लभते नान्यथाचिरात् ॥ ८७ ॥
अशोकैधश्चिते वह्नौ सघृतैस्तण्डुलैर्हुनेत् ॥
मन्त्री त्रिभुवनं सर्वं वशं कुर्यान्नचान्यथा ॥ ८८ ॥
खादिरैः कमलैः सम्यगेधितेग्नौ यथाविधि ॥
तण्डुलैस्त्रिस्वादुयुक्तैर्जुहुयान्मन्त्रवित्तमः ॥
तेन राजकुलं वश्यं धनवानर्थवान्भवेत् ॥ ८९ ॥
अर्कवह्नौ हुनेन्मन्त्री सुशुद्धैः शालितण्डुलैः ॥
नियतं राज्यलक्ष्मीं स चायुष्पुर्त्रांल्लभेत् कम् 4 ॥ ९० ॥
त्रिस्वादुयुक्तैर्नलिनैर्लक्षमेकं हुनेत्सुधीः ॥
अलक्ष्मीसहितो मर्त्योलक्ष्मीमाप्नोति निश्चितम् ॥
धनधान्यादिसम्पत्त्या तुष्टो भवति साधकः ॥ ९१ ॥
ब्राह्मणस्य गृहे बिल्वं समारोप्य विवर्धयेत् ॥
श्रीसूक्तं च पठेन्नेव तत्रैव जुहुयात्पुनः ॥ ९२ ॥
त्रिस्वादुयुक्तैः कुसुमैः फलैश्चापिः समिद्वरैः ॥
स्कन्धभेदैस्तस्य नरस्तिष्ठन्मूलेपि संहुनेत् ॥ ९३ ॥
बिल्वाभिमिश्रहविषा हविष्याण्यचिरं रमा ॥
प्रत्यक्षा च भवेत्तस्य कथमश्रीः कुले भवेत् ॥ ९४ ॥
वक्ष्येथ शक्तिगणपमन्त्रं ह्राह्रीं ततश्च ह्रीम् ॥
त्र्यक्षरोयं विराट् छन्दो मुनिर्भार्गव ईरितः ॥ ९५ ॥
देवता शक्तिगणपः षडङ्गानि समाचरेत् ॥
षड्दीर्घयुग्गकारेण ततो ध्यायेद्गजाननम् ॥ ९६ ॥
दक्षोर्घे चाङ्कुशं वामे पाशं वामे त्वधः करे ॥
बीजपूरं स्वयं तत्तु दक्षिणे स्वर्णवर्णकम् ॥ ९७ ॥
पुष्करं मोदकान्बिभ्रत्कर्णयोदीर्घचामरे ॥
पूर्वोक्ते पूजयेत्पीठे पूर्वादिनवशक्तिके ॥ ९८ ॥
अष्टपत्राम्बुजे देवं चतुरस्रत्रयावृते ॥
प्रथमाङ्गावृतिः प्रोक्ता द्वितीया चापि मातृभिः ॥ ९९ ॥
तृतीया लोकपालैः स्याच्छस्त्रौघैश्च चतुर्थ्यपि ॥
लक्षमेकं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ॥ १०० ॥
तद्दशांशं प्रजुहुयादपूपैर्घृतसम्प्लुतैः ॥
एवं सिद्धमनुर्मन्त्री काम्यकर्माणि साधयेत् ॥ १०१ ॥
शुक्लपक्षे चतुर्थां च पूजयित्वा विनायकम् ॥
अपूपैर्गुडसम्मिश्रैः पक्कान्नैश्च घृतप्लुतैः ॥ १०२ ॥
मरिचैः क्षुरकैश्चैव सैन्धवेनापि मिश्रितैः ॥
देवस्य सन्निधौ मन्त्री जुहुयात्त्रिसहस्रकम् ॥ १०३ ॥
गद्यपद्यमयी वाणी सप्ताहाद्भवति ध्रुवम् ॥
वश्यार्थी मधुहोमेन राजानं वशमानयेत् ॥ १०४ ॥
कन्याथी जुहुयाल्लाजैस्तन्नामपुरमन्त्रतः ॥
सप्त सम्भोजयेत्कन्या यद्वैकां स लभेत ताम् ॥ १०५ ॥
कर्षमात्रं च वा स्वर्णं पलमात्रं तथैव च ॥
सूर्यग्रहे तथा चन्द्रग्रहणे चाभिमन्त्रयेत् ॥ १०६ ॥
अष्टोत्तरसहस्रन्तु सप्तधा विभजतेत्ततः ॥
एकं भागं गृहे स्वीये देवताध्यानपूर्वकम् ॥ १०७ ॥
शेषान्भागान्द्वितीयेऽह्नि क्रमाच्चैकैकशः पिबेत् ॥
ध्यानपूर्वं देवतायाः प्रातः प्रातस्तदा भवेत् ॥ १०८ ॥
बुद्ध्या बुधेन सदृशः पण्डितो गुरुणा समः ॥
कविना च कवित्त्वेन शनिना प्रतिवादकः ॥ १०९ ॥
बन्ध्यर्त्तुस्नानदिवसे पूजयित्वा विनायकम् ॥
निष्कार्धपादमानेन हरिद्राञ्च वचान्तथा ॥ ११० ॥
गोमूत्रे कुष्ठकं पिष्टं सहस्रमभिमन्त्रितम् ॥
बन्ध्या कन्या 5 भक्ष्यभोज्यैर्मुक्त्वा सम्भोज्य स्वं गुरुम् ॥
गुरवे दक्षिणां दत्त्वा पिबेन्नारी तदौषधम् ॥ १११ ॥
ततस्सा लभते पुत्रं सर्व लक्षणसंयुतम् ॥
आयुष्मन्तं सुरूपं च बुद्धिमन्तं श्रिया युतम् ॥ ११२ ॥
ताराद्योयं चतुर्वर्णो गायत्रं छन्द उच्यते ॥
पूर्ववच्च षडङ्गानि हेमाभो हेमवस्त्रवान् ॥ ११३ ॥
बृहज्जानुस्तुन्दिलश्च लम्बबाहुर्विलोचनः ॥
दक्षोर्ध्वहस्तपाशं चाधोवामे चाक्षसूत्रकम् ॥ ११४ ॥
दक्षिणाधो निजं दन्तमूर्द्ध्वे बाहौ तथा सृणिम् ॥
पुष्करेण तु विभ्राणं मोदकं हेमभूषणम् ॥
शक्तियुक्तं विश्ववन्द्यं गणेशं चिन्तयाम्यहम् ॥ ११५ ॥
प्राग्वत्पूजा समुद्दिष्टा जपेल्लक्षत्रयम्मनुम् ॥
घृताक्तैश्च तिलैर्होमं तर्पणादि ततश्चरेत् ॥ ११६ ॥
आज्यान्नैर्जुहुयान्नित्यमन्नवान्स नरो भवेत् ॥
पायसान्नेन महतीं श्रीयमाप्नोति मानवः ॥ ११७ ॥
गं क्षिप्रप्रसादनाय हृदन्तोयं दशाक्षरः ॥
ऋषिर्गणक आख्यातश्छन्दः प्रोक्तं विराडिति ॥ ११८ ॥
देवता कथितः क्षिप्रप्रसादनविनायकः ॥
षड्दीर्घभाजा बीजेन कुर्यादङ्गक्रियां बुधः ॥ ११९ ॥
ध्यानं सर्वत्रायुधानां वामोर्ध्वात्तु प्रदक्षिणम् ॥
पाशाङ्कुशौ विलसतां पत्राग्रं च दधत्करैः ॥ १२० ॥
बीजपूरं पुष्करे च त्रिनेत्रो रक्तवस्त्रवान् ॥
भक्तं सदा पूर्णचन्द्रमौलिरव्याद्गणेश्वरः ॥ १२१ ॥
पूर्वोक्ते पूजयेत्पीठे नवशक्तिसमन्विते ॥
मूर्तिं मूलेन सङ्कल्प्य तस्यां विघ्नेश्वरं यजेत् ॥
प्रथमावृत्तिरङ्गैः स्याद्द्वितीया चाष्टभिर्गणैः ॥ १२२ ॥
विघ्नो विनायकः शूरो वीरश्च वरदस्तथा ॥
इभवक्त्रश्चैकदन्तो लम्बोदर इति क्रमात् ॥ १२३ ॥
मातृपूजा दलाग्रे स्याल्लोकेशास्त्राणि चाग्रतः ॥
लक्षमेकं जपेन्मन्त्रं त्रिस्वाद्वक्तैस्तिलैर्हुनेत् ॥ १२४ ॥
पूर्वोदिताष्टद्रव्यैर्वा तर्पणादि ततश्चरेत् ॥
शर्कराघृतयुक्तेन हविषा जुहुयात्सुधीः ॥ १२५ ॥
लक्ष्मीवान्केवलाज्येन होमो लोकवशीकरः ॥
घृताक्तं तत्प्रजुहुयाल्लक्ष्मीवान्साधको भवेत् ॥ १२६ ॥
चत्वारिंशद्दिनं मन्त्री नारिकेलं हुनेत्ततः ॥
सर्वसम्पत्समृद्धिः स्यात्प्रत्यहं वाञ्छितार्थकृत् ॥ १२७ ॥
सलाजकैः कङ्गुभिश्च पृथुकैर्वाञ्छिताप्तये ॥
होमो भवेदष्टभिश्च द्रव्यैस्त्रिमधुरप्लुतैः ॥ १२८ ॥
हुनेत्ततश्च वशयेद्राज्ञस्तत्प्रमदा अपि ॥
चतुश्चत्वारिंशदाख्यं चतुःशतमतन्द्रितः ॥ १२९ ॥
प्रातःप्रातस्तु सलिलैर्विघ्नेशस्य तु मन्त्रकैः ॥
तर्पयेत्सुसमिद्भिश्च भवेत्तस्य 6 न संशयः ॥ १३० ॥
पूर्वादिगं गणेशानमायातं रविबिम्बतः ॥
पूर्वोक्तचक्रमध्यस्थं चिन्तयित्वा तु तर्पयेत् ॥
त्र्यक्षरोक्तप्रयोगांश्च कुर्यादत्रापि साधकः ॥ १३१ ॥
ॐ ठां नमश्चतुर्वर्णो हेरम्बस्य मनुर्मतः ॥
मुनिर्गणक आख्यातो गायत्री छन्द ईरितम् ॥ १३२ ॥
पञ्चक्त्रोस्य हेरम्बो देवता सिंहवाहनः ॥
षड्दीर्घबीजयुक्तेन षडङ्गविधिरीतितः ॥ १३३ ॥
मुक्ताविद्युन्मेघदुग्धकाश्मीरीसन्निभैर्मुखैः ॥
गजवत्पञ्चभिर्युक्तः किरीटी चासिहस्तकः ॥ १३४ ॥
अङ्कुशं च त्रिशूलं च मुद्गरं च कपालकम् ॥
स्वयन्तमभयं चापि वरं मोदकमेव च ॥ १३५ ॥
परशुं चाक्षमालां च दधतं करपङ्कजैः ॥
कोटिसूर्यप्रतीकाशं ध्यायेद्धेरम्बमव्ययम् ॥ १३६ ॥
पद्ममष्टदलं कृत्वा चतुरस्रत्रयावृतम् ॥
चतुर्द्वारसमायुक्तं तत्रादावासनं यजेत् ॥ १३७ ॥
ॐ हुं हूं च महासिंहाय गं हेरम्बमुच्चरेत् ॥
आसनाय नमश्चेति प्रोक्तः सप्तदशाक्षरः ॥ १३८ ॥
अनेन चासनं दद्यादनेनैव प्रपूजयेत् ॥
ध्रुवयुक्तेन बीजेन कुर्यान्मूर्तिप्रवर्तनम् ॥ १३९ ॥
आदावङ्गानि सम्पूज्य लोकपालान्यजेत्पुनः ॥
तेषामस्त्राणि तद्बाह्ये हेरम्बार्चनमीरितम् ॥ १४० ॥
लक्षत्रयं जपं कृत्वा तिलैर्हुत्वा दशांशतः ॥
मधुरत्रयसंयुक्तैस्तर्पणादि समाचरेत् ॥ १४१ ॥
एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत्ततः ॥
चतुर्दश्यष्टमी षष्ठीष्वेकैकं जुहुयाद् बुधः ॥
अपूपैः कृशरैश्चापि मोदकैरिष्टसिद्धये ॥ १४२ ॥
पूर्वोक्तैर्जुहुयाद्द्रव्यैः पर्वस्वपि च मन्त्रवित् ॥
यद्यदिच्छति तत्सर्वं साधकस्तत्र साधयेत् ॥
क्षिप्रप्रसादनप्रोक्तान्प्रयोगान्वा समाचरेत् ॥ १४३ ॥
तारो ङेन्तो गणेशो हृत्प्रोक्तः सप्ताक्षरो मनुः ॥
प्रणवान्तोष्टवर्णोयं शक्तिबीजादिकोपि वा ॥ १४४ ॥
ऋषिरग्निः समाख्यातो गायत्री छन्द उच्यते ॥
सब्रह्मण्यो मनोरस्य देवता तु विनायकः ॥
दीर्घभाजाग्निबीजेन षडङ्गानि समाचरेत् ॥ १४५ ॥
रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् ॥
रक्तपुष्पैः पूज्यमानं भक्तपातकहारिणम् ॥ १४६ ॥
मुद्गरं च तथा शक्तिं कमलं चाङ्कुशं तथा ॥
हस्तैर्दधानं चन्द्रास्यं नानाभूषणभूषितम् ॥ १४७ ॥
रिपुक्षयकरं देवं सुब्रह्मण्यगणाधिपम् ॥
ध्यात्वैवं पूजिते पीठे पश्चात्सम्पूजयेद्विभुम् ॥ १४८ ॥
केशरेषु षडङ्गानि पूर्वाद्यष्टदले ततः ॥
जयन्तश्चाग्निवेषश्च कृत्तिकापुत्र एव च ॥ १४९ ॥
तथा भूतपतिस्सेनानीर्गुहो हेमसूत्रकः ॥
विशालाक्षश्च सम्प्रोक्ताः शक्तिशूलकरा इमे ॥ १५० ॥
दलाग्रेषु च पूर्वादि यजेदेताननन्तरम् ॥
देवसेनापतिं शक्तिं विघ्नं कुक्कुटमेव च ॥ १५१ ॥
मेधां मयूरं वज्रं च धियं लोकेश्वरांस्ततः ॥
तदस्त्राणि च सम्पूज्य सुब्रह्मण्यार्चनं त्विदम् ॥ १५२ ॥
लक्षमेकं जपेन्मन्त्रं सर्पिषा पयसान्धसा ॥
अयुतं जुहुयान्मन्त्री तर्पयेद्विप्रपुङ्गवान् ॥ १५३ ॥
एवं सिद्धे मनौ मन्त्री कुर्यात्कामान्यथेप्सितान् ॥
दिनेदिने स मधुरैर्भक्ष्यभोज्यैः प्रतोषयेत् ॥
देवं देवधिया सम्यगर्चयेद्ब्रह्मचारिणम् ॥ १५४ ॥
सुब्रह्मण्यमनोः सम्यगुपास्तिं ये प्रकुर्वते ॥
ऐहिकामुष्मिकान्भोगाṁल्लभन्ते नात्र संशयः ॥ १५५ ॥
ॐ हुङ्गङ्ग्लौंहरिद्रेति चोक्त्वा गणपतये वदेत् ॥
वर वरद इत्युक्त्वा सर्वजनपदं वदेत् ॥ १५६ ॥
हृदयं स्तम्भय द्वन्द्वं स्वाहा द्वात्रिंशदर्णकः ॥
ऋषिर्मदन आख्यातश्छन्दोऽनुष्टुप्समीरितम् ॥ १५७ ॥
हरिद्रागणपो देवः षडङ्गानि समाचरेत् ॥
सड्दीर्घयुक्तबीजेन विप्रादीनां प्रकीर्तितः ॥ १५८ ॥
विधिना येन मन्त्रोयं गृह्यते तदहम्ब्रुवे ॥
चतुर्थीदिवसे प्राप्ते शुक्लपक्षस्य मन्त्रवित् ॥ १५९ ॥
शुद्धां हरिद्रामानीय सुपिष्टं कन्यया शुभाम् ॥
सर्वाङ्गे तां समालिप्य स्नायाच्छुद्धजलैस्ततः ॥ १६० ॥
भक्त्या परमयोपेतः प्रसन्नेनान्तरात्मना ॥
प्रथमं गुरुपादाब्जमर्चयित्वा विधानतः ॥
स्वर्णाङ्गुलीयहारौघैर्भूषणैश्च शुभाम्बरैः ॥ १६१ ॥
पूर्वोक्तविधिना तस्माद्गृह्णीतेमं मनुं शुभम् ॥
सुगन्धैः सुमनोभिस्तं यजेद्देवधिया पुनः ॥ १६२ ॥
पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम् ॥
पीतपुष्पैः पूज्यमानं मणिसिंहासनस्थितम् ॥ १६३ ॥
पीतभूषं त्रिनेत्रञ्च ॥
षड्भुञ्ज च वराभयम् ॥
क्रोधमुद्रां सृणिं पाशं परशुं विभ्रतं करैः ॥ १६४ ॥
ध्यायेच्छुद्धमना मन्त्री हरिद्रागणपं प्रभुम् ॥
पूर्वोक्तपीठे 7 प्रयजेदङ्गमातृदिगीश्वरैः ॥ १६५ ॥
वेदलक्षं जपित्वान्ते हरिद्राचूर्णमिश्रितैः ॥
दशाम्श तण्डुलैर्हुत्वा ब्राह्मणानपि भोजयेत् ॥ १६६ ॥
साग्रं सहस्रं सञ्जप्य दशांशं हव्यवाहने ॥
सर्पिर्गुडपुटैः सम्यगपूपैर्जुहुयाद्बहिः ॥ १६७ ॥
हरिद्रागणपं तावत्तर्पयेद्भक्तितत्परः ॥
कुमारीं भोजयेत्तावद्ब्रह्मचारिणमेव च ॥ १६८ ॥
अभीष्टफलमाप्नोति नात्र कार्या विचारणा ॥
लाजैः कन्यामवाप्नोति कन्यापि लभते वरम् ॥ १६९ ॥
वन्ध्या नारी रजः स्नाता पूजयित्वा गणाधिपम् ॥
पलप्रमाणगोमूत्रे पिष्टाः सिन्धुवचानिशाः ॥ १७० ॥
सहस्रं मन्त्रयेत्कन्या वटून्सम्भोज्य मोदकैः ॥
पीत्वा तदौषधं पुत्रं लभते गुणसागरम् ॥ १७१ ॥
वाणीस्तम्भं रिपुस्तम्भं कुर्यान्मनुरुपासितः ॥
जलाग्निसिंहचौरास्त्रप्रमुखानपि रोधयेत् ॥ १७२ ॥
एतेऽष्टौ गणपाः प्रोक्ता दक्षिणाम्नायगोचराः ॥ १७३ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते दक्षिणाम्नायगणपतिमन्त्रप्रकाशष्षोडशः ॥ १६ ॥