श्रीदेव्युवाच ॥
मन्त्राः श्रुता मया देव वेदोक्ताः कलिसिद्धिदाः ॥
यन्त्राणिश्रोतुमिच्छामि वाञ्छितार्थप्रदानि तु ॥ १ ॥
श्रीशिव उवाच ॥
वेदान्विना ब्राह्मणानां गतिरन्या न विद्यते ॥
स्मृतिर्गतिर्नृपाणां च पुराणानि विशान्तथा ॥ २ ॥
शूद्राणां चापि तन्त्राणि कलिदोषवशान्मतिः ॥
सर्वेषामुपरि तृष्णा तेन दुःखं प्रजायते ॥ ३ ॥
वेदकर्मरतो विप्रः कलौ ब्रह्मा न संशयः ॥
वेदकर्मविहीनस्तु विज्ञेयो ब्रह्मराक्षसः ॥ ४ ॥
त्रिकालसन्ध्योपासी च गुरुभक्तिपरायणः ॥
अनध्यायेष्वपाठी च गुरून्स्वांश्च कृपावतः ॥
वशीकृत्यसुसेवेतानिशमध्यायतत्परः ॥ ५ ॥
परान्नभोजरहितत्यक्तशूद्रपरिग्रहः ॥
विना जपं विना पूजां कृतमात्रेण सिध्यति ॥
तत्कार्यं वैदिकैर्मन्त्रैर्नान्यस्य तु कदाचन ॥ ६ ॥
अथादौ सम्प्रवक्ष्यामि गायत्रीयन्त्रमुत्तमम् ॥
पद्ममष्टदलं कुर्याद्ध्रीङ्कारं कर्णिकास्थितम् ॥ ७ ॥
द्वौ द्वौ स्वरौ दिग्विदिशं प्रतिपत्रं समालिखेत् ॥
किञ्जल्केषु तदग्रेषु गायत्र्यर्णांस्त्रिशस्त्रिशः ॥ ८ ॥
तद्बहिर्वृत्तयुगलान्तरालेषु समालिखेत् ॥
ककाराद्यांस्तथोमापोज्योतीरसोमृतं ब्रह्म ॥ ९ ॥
भूर्भुवः सुवरोमिति गायत्रीयन्त्रमुच्यते ॥
सुवर्णे वापि लोहे वा कृत्वा हस्ते तु बन्धयेत् ॥ १० ॥
अनायासाद्भवेदाप्तिर्धर्मे च रमते मनः ॥
अविच्छिन्नो भवेद्वंशः कीर्तिस्तस्य विवर्धते ॥
अथातः सम्प्रवक्ष्यामि सरस्वत्या महाद्भुतम् ॥ ११ ॥
यन्त्रं मेधाकरन्तत्र पद्ममष्टदलं लिखेत् ॥
तत्कर्णिकायां षट्कोणे ससाध्यं प्रणवं लिखेत् ॥
तस्य मध्ये कोणषट्के वाग्भवं बीजमालिखेत् ॥ १२ ॥
यश्छन्दसामृषभो विभुश्छन्दोभ्योध्यमृतात्सम्बभूव ॥
स मेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् ॥ १३ ॥
एतस्याः पञ्चवर्णां स्तुलिखेदष्टदलेषु च ॥
दलेषु मन्त्रवर्णान्वा बहिर्वृत्रचतुष्टयम् ॥ १४ ॥
कुर्यात्तदन्तर्वीथ्योस्तु द्वयोश्चापि ऋचाद्वयम् ॥
ऋमाल्लेख्यं बहिर्वृत्रं मातृकार्णैः प्रपूरयेत् ॥ १५ ॥
शरीरं मे विचक्षणं जिह्वा मे मधुमत्तमा ॥
मनसः काममाकूतिं वाचः सत्यमसीमहि ॥ १६ ॥
यो देवानां प्रथमं पुरस्ताद्विश्वाधिपो रुद्रो महर्षिः ॥
हिरण्यगर्भं पश्यति जायमानं स नो देवः शुभया स्मृत्या संयुनक्ति ॥ १७ ॥
तद्बहिर्भूपुरं कृत्वा तत्कोणेषु समालिखेत् ॥
ऐङ्क्लींसौंह्रीं च बीजानि पटस्वर्णादिनिर्मिते ॥ १८ ॥
शुभे दिने समालेख्य धारये द्यो यथाविधि ॥
मेधावी श्रुतिधारा च नीरोगश्च प्रियंवदः ॥ १९ ॥
बहुश्रुतो भवेत्सोपि क्रमाद्वेदागमानपि ॥
न विस्मरति सर्वज्ञस्त्वभ्यासो भवति ध्रुवम् ॥ २० ॥
अथ त्रैयम्बकं यन्त्रं वक्ष्यते सिद्धिकृत्परम् ॥
आलिख्याष्टदलं पद्मं तारं तत्कर्णिकान्तरे ॥ २१ ॥
तस्योदरे साध्यनाम साधकाभीष्ट कर्मयुक् ॥
द्वौ द्वौ स्वरौ केशरेषु गलेषु त्र्यम्बकाक्षरान् ॥ २२ ॥
चतुश्चतुरो बाह्ये वेष्टितव्यं जनाक्षरैः ॥
वक्ष्यमाणामृचं साध्यो नामवर्णविभूषिताम् ॥ २३ ॥
तया संवेष्टयेद्यन्त्रं लिखेत्तद्वत्तदन्तरा ॥
मुनिर्गृत्समदस्त्रिष्टुप्छन्दो रुद्रस्तु देवता ॥ २४ ॥
माता रुद्रे चक्रधीमा नमोस्तु भीमनिष्कृती वृषभवासद्वती ॥
उतो वीराम् अर्पय भेषजेभिर्भिषक्तमं त्वा भिषजां शृणोमि ॥ २५ ॥
भूपुराद्येषु ठं बीजं दिक्षु बं बीजमेव च ॥
एतत्त्रैयम्बकं यन्त्रं गोपनीयं प्रयत्नतः ॥ २६ ॥
आयुरारोग्यसौभाग्यधर्मार्थसुखमोक्षदम् ॥ २७ ॥
किमत्र बहुनोक्तेन वाञ्छितार्थं परां श्रियम् 1 ॥
लभते नात्र सन्देहो यन्त्रस्यास्य प्रभावतह् ॥ २८ ॥
एकोनपञ्चषट्कोष्ठे फलके ब्रह्मशाखिनः ॥
तत्र मध्यमकोष्ठे तु ससाध्यं ह्रीं समालिखेत् ॥ २९ ॥
पूजयेत्परया भक्त्या घृताक्तांस्तिलतण्डुलान् ॥
मासाष्टकेन हुत्वा तु सिद्धिर्भवति भूयसी ॥ ३० ॥
आयुष्कामो हुनेद्देव्यामृतमष्टोत्तरं शतम् ॥
स्वजन्मदिवसेब्देस्मिन्नपमृत्युं जयत्यसौ ॥
सर्वपापक्षयश्चैव चित्तशान्तिः प्रजायते ॥ ३१ ॥
पलाशकुसुमैरष्टशतं हुत्वा द्विजर्षभः 2 ॥
ब्रह्मतेजोमयस्तस्य भाति देहोति भास्वरः ॥ ३२ ॥
ब्रह्मवृक्षसमिद्भिस्तु कुसुमैर्बाकुलाशतैः ॥
घृताक्तैरष्टसाहस्रहोमात्पातकनाशनम् ॥ ३३ ॥
अनेनैवानुवाकेन यः कुर्यादघमर्षणम् ॥
सर्वपापक्षयस्तस्य वर्षमध्ये प्रजायते ॥ ३४ ॥
आदित्याभिमुखो यस्तु ह्यष्टाविंशतिसङ्ख्यया ॥
स्थित्वा जपेत्तदा तस्य गङ्गास्नानफलं भवेत् ॥ ३५ ॥
आत्मार्थं वा परार्थं वा जानुदघ्ने जले जपेत् ॥
सर्वग्रहकृता दोषा न तं पीडयितुं क्षमाः ॥ ३६ ॥
कुङ्कुमेन्दुसमायुक्तं चन्दनं स्थापयेत्पुरः ॥ ३७ ॥
अष्टोत्तरशतं जप्त्वाभिषिञ्चेत्कुशकूर्चकैः ॥
रुग्णं तदा विनश्येत्तु ग्रहोपग्रहदूषणम् ॥ ३८ ॥
भूतप्रेतपिशाचादिभूतबाधादि तत्क्षणात् ॥
अपस्मारादयो रोगो 3 बन्ध्याचेल्लभते सुतम् ॥
कुमारी पतिमाप्नोति कन्यार्थ्याप्नोति कन्यकाम् ॥ ३९ ॥
नाभिमात्रजले स्थित्वा ह्युदयास्तमये जपेत् ॥
अष्टौसहस्राणि तदा महावृष्टिर्नगैर्दिनैः ॥ ४० ॥
वञ्जुलस्य समिद्भिस्तु हुनेदष्टसहस्रकम् ॥
दुग्धाक्ताभिर्महावृष्टिः सप्ताहात्तु प्रजायते ॥
घृतेन हवनं कार्यमेवं सर्वसुखाप्तये ॥ ४१ ॥
पञ्चर्चस्यानुवाकस्य वक्ष्यमाणस्य देवता ॥
कृत्या छन्दस्त्वनुष्टुप्स्यान्मुनिः प्रत्याङ्गिरा मतः ॥ ४२ ॥
यो मे करालि प्रद्वारे योगारे यो निवेशने ॥
ये मे केशा नखेनैव रञ्जने दन्तधावने ॥ ४३ ॥
प्रतिसहस्रतिधावकुमार इव पितृगृहान् ॥
मूर्द्धानमेषां स्फोटय पदमेषां कुलाजलि ॥ ४४ ॥
एतेन सञ्जस नूनवेमधुनग्नेसनासः ॥
आविर्धतानुच्छो विधं भून्नैवस्यमस्यदनं परमस्य ॥ ४५ ॥
ये नोरविन्दश्चरितासो अग्ने जहुर्मर्त्यासो अमृतं वदन्तः ॥
तेषां चायूगूंष्यर्चिषा जातवेदः शुष्कं तुष्टं क्षमभिसन्दस्व ॥ ४६ ॥
रुद्रस्वरूपे रुद्रेशि कृष्णवर्णे भयङ्करि ॥
देविदेवि महादेवि महाशत्रुर्विनश्यतु ॥ ४७ ।
स्पृष्ट्वाश्वत्थस्य वृक्षं तु चाष्टोत्तरशतं जपेत् ॥
शनैश्चरदिने चायुरारोग्यैश्वर्यमाप्नुयात् ॥ ४८ ॥
संस्मृत्य च मुनिच्छन्दोदेवतादि ततः परम् ॥
न्यासश्चापि प्रकर्तव्यो मन्त्राणामिति निर्णयः ॥ ४९ ॥
खं फड् जहि मम कृत्ये विधूमाग्निसमप्रभे ॥
देविदेवि महादेवि ममशत्रुर्विनश्यतु ॥ ५० ॥
आदौ पादेन चार्धेन नामयुक्तेन चाचरेत् ॥
षडङ्गान्यङ्गुलिन्यासं वक्ष्ये नामान्यनुक्रमात् ॥ ५१ ॥
कृष्णाम्बरे च हृदये सिंहवहिनि शीर्षके ॥
महाबले शिखायां च महाभैरवि वर्मणि ॥ ५२ ॥
सर्वकृत्योच्छेदिनीति नेत्रयोरीरितं सुराः ॥
तथा सर्वपरोन्मुक्तमन्त्रच्छेदिन्यथास्त्रके ॥ ५३ ॥
आत्मरक्षां च दिग्बन्धं भूतशुद्ध्यस्त्रसंस्थितिम् ॥
सर्वांश्च मातृकान्यासान्पूर्वमेव समाचरेत् ॥ ५४ ॥
पठेदादौ च गायत्रीं पश्चादेनम्मनुं 4 जपेत् ॥
ततः पठेज्जात् 5 वेदं पुनर्गायत्रिकां पठेत् ॥ ५५ ॥
पुनर्मूलं 6 ततस्तामग्निवर्णां 7 तपसेत्यृचम् ॥
गायत्रीपूर्वकं मूलमग्रे त्वं 8 पारयेति च ॥ ५६ ॥
पुनस्तामृचिकां 9 मूलं विश्वानरो दुर्जुहोति ॥
गायत्रीपूर्वकं मूलं यजनाजिनमित्यृचम् ॥ ५७ ॥
अनेन तु प्रकारेण सहस्रान्नियुतावधि ॥
जपेन्मन्त्रं तारतम्ये कामनाया विचार्य च ॥ ५८ ॥
यं यं कामयते कामं तं तं प्राप्नोति सर्वथा ॥
प्रयोगस्य विधौ कामः सिद्ध्यत्येव न संशयः ॥ ५९ ॥
पञ्चर्चस्यानुवाकस्य प्रयोगाः पूर्वमीरिताः ॥
पञ्चर्चभिश्च पञ्चाङ्गं पञ्चम्या पुनरस्त्रकम् ॥ ६० ॥
सर्वत्रापि जपस्यादौ चाष्टोत्तरशतं जपेत् ॥
इमामृचं न वै सोपि बाध्यते मदनादिकैः ॥ ६१ ॥
उक्तामदन्तु स्तोमाः कृणुष्व रोषे आद्रिवः ॥
अवब्रह्म द्विषो जहि ॥ ६२ ॥
स्वेच्छादयोत्र दुष्टाश्च धर्मविघ्नं प्रकुर्वते ॥
स्वास्थ्येन जपतस्तस्य शत्रुनाशोस्ति तत्र च ॥ ६३ ॥
ग्रन्थिकर्णे विरूपाक्षि स्तम्बस्तनि महोदरि ॥
जहि शत्रूंस्त्रिशूलेन कुप्यस्व पिब शोणितम् ॥ ६४ ॥
अङ्गिरास्तु मुनिश्छन्दोनुष्टुप्कृत्या च देवता ॥
समस्तरोगनाशार्थे नियोगो नन्दिवृद्धये ॥ ६५ ॥
कुबेरन्ते मुखं रौद्रं नन्दिमानन्दिमावह ॥
द्वारं मृत्युं भयं क्रोधं विषं नाशय नोक्षरे ॥ ६६ ॥
पादैरथ द्वयेनापि कृष्णाम्बरादिनामभिः ॥
युक्तैश्च पूर्वतत्कुर्यादङ्गुल्यादिषडङ्गकम् ॥ ६७ ॥
धार्यं पूर्ववदेव स्यादात्मरक्षादिकं तथा ॥
गायत्र्यादिमतैस्तत्तु प्राग्वत्सन्दर्भितं मतम् ॥ ६८ ॥
जपेद्दशशतं चाष्टसहस्रं कार्यगौरवात् ॥
अवश्यं जायते कार्यसिद्धिः पुण्या गिरां त्वियम् ॥ ६९ ॥
विक्षिप्तता मनोर्दोषे गुरुदोषे कदर्थिता ॥
आधिव्याधी देवदोषे तस्मात्तं परिवर्जयेत् ॥ ७० ॥
पूर्वमुक्तो मनुत्यागो गुरुत्यागस्तथोच्यते ॥
मन्त्रो यद्देवतायाः स्यात्तिथौ तस्यां भवेद्भुवि ॥ ७१ ॥
गुरुत्यागस्य सङ्कल्पं कुर्यात्तद्दोषपूर्वकम् ॥
गुर्वन्तरं करोमीति नरं वा देवमेव च ॥ ७२ ॥
राशिकूटेन संशुद्धं देवताष्टकमध्यतः ॥
कुर्यादेकं गुरुं तत्र पूर्वाभावे परं परम् ॥ ७३ ॥
आपो हि दक्षिणामूर्तिः सूर्यश्चन्द्रो हुताशनः ॥
मन्त्रावरणदेवाश्च जातिदेवः कुलेश्वरः ॥ ७४ ॥
देशदेव इमे त्वष्टौ नरो वा लक्षणान्वितः ॥
गुरोर्युग्मं पूजयित्वा प्रणमेद्दण्डवत्क्षितौ ॥ ७५ ॥
देवतानाम सम्प्रोच्य द्रव्यं तन्नामतो यजेत् ॥
त्रिपर्णस्य पलाशस्य प्राग्रे मुष्टेस्तु दक्षिणे ॥ ७६ ॥
प्रादेशप्रमिते चात्र कुशानास्तीर्य मूर्द्धनि ॥
तोयपूर्णं घटं प्राच्यां दुग्धपूर्णन्तु पश्चिमे ॥ ७७ ॥
उत्तरे तु सुरापूर्णं क्रमादेतत्प्रकीर्तितम् ॥
प्राग्गुरोश्चापि चैतन्यं प्रविष्टं नूतने गुरौ ॥
इति सञ्चिन्त्य शिष्यस्तु वेदिकां कारयेत्सुधीः ॥ ७८ ॥
तत्र मन्त्राक्षरोपेतं यच्च कोणचतुष्टयम् ॥
विहाय देवीमावाह्य सम्पूज्य हवनं चरेत् ॥ ७९ ॥
आज्येन मूलमन्त्रेण सम्पातं यन्त्रके क्षिपेत् ॥
अष्टोत्तरशतं पश्चात्तद्यन्त्रं निखनेद्भुवि ॥ ८० ॥
गृहग्रामादिराष्ट्राणां रक्षार्थं तत्रतत्र च ॥
नक्षत्रग्रहराशीनां लोकेशानां बलिं हरेत् ॥ ८१ ॥
विहिता यत्र रक्षेयं वर्धन्ते तत्र सम्पदः ॥
क्षुद्रग्रहमहारोगचौरभूतसरीसृपाः ॥
अमुना विलयं यान्ति विधिना नात्र संशयः ॥ ८२ ॥
जातवेदसमन्त्रस्य यन्त्रमेतदुदीरितम् ॥
वैदिकैरेव कर्तव्यमन्यथा दुःखदं भवेत् ॥ ८३ ॥
जातवेदसमन्त्रस्य विपरीतस्य ये सुराः ॥
अंशै।
पादाः समुद्दिष्टास्तेषां यन्त्रं वदाम्यहम् ॥ ८४ ॥
नवकोष्ठयुतं कुर्याच्चतुरस्रं तु मण्डलम् ॥
ससन्ध्यां विलिखेन्मायां मध्यकोष्ठे त्वधः स्थितात् 10 ॥ ८५ ॥
कोष्ठात्क्रमेण मन्त्रस्य लिखेत्पादाष्टकं ततः ॥
प्रादक्षिण्येन तद्बाह्ये वृत्तयुग्मान्तरे लिखेत् ॥ ८६ ॥
मातृकार्णैः सुसंवेष्ट्य बहिर्भूपुरमालिखेत् ॥
भुविचास्त्रमिदं यन्त्रं भूतरोगनिवारणम् ॥ ८७ ॥
रक्षायुःकीर्तिधिश्रीदं लिखेत्स्वर्णादिपत्रके ॥
धारयेद्बाहुमूले च कण्ठे वा मस्तकेपि वा ॥ ८८ ॥
अथातः सम्प्रवक्ष्यामि गायत्र्यादित्रिशक्तिकम् ॥
यन्त्रं सर्वार्थदं तत्र पद्ममष्टदलं लिखेत् ॥ ८९ ॥
तस्य मध्ये तु षट्कोणं तन्मध्ये साध्यसंयुतम् ॥
लिखेत्तारं ततः कुर्यात्सप्तव्याहृतिवेष्टितम् ॥
षट्कोणेष्वेवतारादि शिवपञ्चाक्षरस्य तु ॥ ९० ॥
एकैकमक्षरं लेख्यं तदग्रेषु च शुद्धितः ॥
पूर्वार्धञ्चैव गायत्र्याः प्रथमे पत्रके लिखेत् ॥
जातवेदसमन्त्रस्य पूर्वार्धन्तु द्वितीयके ॥ ९१ ॥
त्र्यम्बकस्य तु पूर्वार्धं तृतीये तु दले लिखेत् ॥
ॐ ह्रीं ठं चं कं समिति ह्यौं यं मं ततः पचम् ॥ ९२ ॥
सोहं वं ठं नमः प्रोच्य शिवायेति पदं वदेत् ॥
माया लं येति सं कण्ठं तारो माया ध्रुवस्तथा ॥ ९३ ॥
एकोनत्रिशेदर्णोयं मन्त्रः कोष्ठे चतुर्थके ॥
त्र्यम्बकस्योत्तरार्धन्तु पञ्चमेथोत्तरार्धकम् ॥ ९४ ॥
जातवेदसमन्त्रस्य षष्ठेथो ह्युत्तरार्धकम् ॥
गायत्र्या सप्तमे लेख्यमोमापोज्योतिरित्यपि ॥ ९५ ॥
गायत्र्यास्तु शिरस्त्वेतद्भवेत्सप्तदशाक्षरः ॥
लिखेदष्टमपत्रे तु बहिर्वृत्तद्वयं लिखेत् ॥ ९६ ॥
तदन्तरे मातृकार्णैर्वेष्टयेद्भूपुरं बहिः ॥
भूपुरस्य तु कोणेषु कूटं चिन्तामणिं लिखेत् ॥ ९७ ॥
अग्निर्ब्रह्मा वृषो निद्रा पुनरक्षिगतं तथा ॥
शक्रं ततः परं चन्द्रैः कूटं चिन्तामणेर्महत् ॥ ९८ ॥
केशरेषु द्वन्द्वशश्च स्वरान्प्रागादितो लिखेत् ॥
शताक्षरमनोर्यन्त्रं भवेदीदृशमेव च ॥ ९९ ॥
धारयेद्योयमारोग्यधराधान्यधनादिकम् ॥
लब्ध्वा च निश्चलां लक्ष्मीं स जीवेच्छरदां शतम् ॥ १०० ॥
ताम्रादिपत्रेथालिख्य जप्त्वा चाष्टोत्तरं शतम् ॥
हुत्वा घृतेन तावत्तु कृत्वा सम्पातमेव च ॥ १०१ ॥
तावद्भूयो जपित्वा च पुरग्रामाकरादिषु ॥
स्थापितं यन्त्रमेतत्तु गोसत्यारोग्यपुष्टिदम् ॥ १०२ ॥
कण्ठे वा दक्षिणे बाहौ धारितं यन्नरैः सदा ॥
कुर्याच्च रक्षणं तेषां वैरिव्याघ्रादिभीतितः ॥ १०३ ॥
अथातः सम्प्रवक्ष्यामि वारुणं यन्त्रमुत्तमम् ॥
अष्टपत्रस्य पद्मस्य षट्कोणं कर्णिकान्तरम् ॥
कृत्वा षट्कोणमध्ये तु ससाध्यं प्रणवं लिखेत् ॥ १०४ ॥
वरुणाय नमः प्रोक्तो वरुणस्य षडक्षरः ॥
एकैकमक्षरं चास्य कोणषट्के लिखेन्मनोः ॥ १०५ ॥
केशरेषु द्वन्द्वशश्च स्वरान्प्रागादितो लिखेत् ॥
पूर्वपत्रे ध्रुवं दत्त्वा स्ववर्णान्पञ्च संलिखेत् ॥ १०६ ॥
द्वितीये क्षितिषु क्षिप्तं तोवर्णांश्च तृतीयके ॥
विस्मृत्याशं चतुर्थे तु लिखेद्वरुणमुमोच तत् ॥ १०७ ॥
अवोचन्पञ्चमे षष्ठे आदिमे रूप इत्यपि ॥
यूयं प्राप्ताः सप्तमे तु अन्ते स्वस्तिभिः सदा नः ॥ १०८ ॥
बहिर्वृत्तद्वयं कृत्वा तयोर्मध्वे लिखेद्ध्रुवम् ॥
ऋणमोचनमेतत्तु यन्त्रं सर्वसमृद्धिदम् ॥ १०९ ॥
सर्वरक्षाकरं वश्यं शत्रुसङ्घविनाशनम् ॥
किमत्रबहुनोक्तेन वाञ्छितार्थप्रदं नृणाम् ॥ ११० ॥
यदद्यकच्चेति ऋचा यन्त्रं वक्ष्यामि भाग्यम् ॥
कर्णिकायां साध्यगर्भं तारं पत्रेषु चाष्टसु ॥ १११ ॥
यदद्य प्रथमे कच्च द्वितीये नत्रवृत्रह ॥
चतुर्थे नुदगाग्रे तु अभिसूर्याथ षष्ठके ॥ ११२ ॥
शर्वन्तु सप्तमे त्विन्द्रमष्टमे च वशे लिखेत् ॥
बाह्ये वृत्तद्वयं कृत्वा मातृकार्णांस्तदन्तरे ॥ ११३ ॥
वेष्टयेद्भूपुरेणाथ वश्यसौभाग्यकारकम् ॥
सुवर्णरत्नधान्यादिसर्वसम्पत्करं परम् ॥ ११४ ॥
बाहुमूले गले वापि धारयेत्स्वर्णवेष्टितम् ॥
गणेशस्य प्रियं चैतत्तथा वाग्विभवप्रदम् ॥ ११५ ॥
मन्त्रमादौ प्रवक्ष्यामि महासम्पत्तिकारकम् ॥
वैदिकं विष्णुगृहिणी भक्तानां तु विशिष्यते ॥ ११६ ॥
चतुर्दलं लिखेत्पद्मं कर्णिकायां लिखेत्तत्तः ॥
तारगर्भंसाध्यनाम दलेष्वेवेत्यृचं तथा स्वाग्रादि प्राग्दक्षिणेन लिखेद्दलचतुष्टये ॥ ११७ ॥
वामदेवो मुनिश्छन्दस्त्रिष्टुब्देवो बृहस्पतिः ॥
अभीष्टसिद्धये चास्य मन्त्रस्य विनियोजनम् ॥ ११८ ॥
श्वापित्रे विश्वदेवाय वृङ्क्ते यज्ञैर्विधेम नमसा हविर्भिः ॥
बृहस्पतेस्तु प्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥ ११९ ॥
तद्बाह्येष्टदले दिक्षु यूयमस्मादृचोङ्घ्रयः ॥
एवेन्द्राग्नीत्यृचः पादा लेख्यास्तत्र विदिक्षु च ॥ १२० ॥
गौतमो मुनिराद्यायास्त्रिष्टुप्छन्दोग्निदेवता ॥
इन्द्राग्नी देवते त्रिष्टुप्छन्दश्चन्द्रो मुनिर्मतः ॥ १२१ ॥
यूयमस्मान्नवत वस्यो अच्छानि रंहतिभ्यो मरुतो मृगृवानाः ॥
जुषध्वं नो हव्यदाति जयत्रा वयं स्याम पतयो रयीणाम् ॥ १२२ ॥
एवेन्द्राग्निपपिवीत्सा सूतस्य विश्वास्मभ्यं सञ्जपतं जनामि ॥
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १२३ ॥
तद्बाह्येष्टदलं कृत्वा क्रमात्तत्र तु संलिखेत् ॥
त्वं सोमेति-ऋचो वर्णाचोन्पञ्चाङ्गाब्धिशरर्तवः ॥ १२४ ॥
वेदाः षट् षट् तदग्रेषु प्रजायतम् ऋचस्तथा ॥
लिखेद्वर्णान्वेदपञ्चसप्तसप्तगवेन्द्रषट् ॥ १२५ ॥
अग्निर्मे गौतमः सोमस्त्रिष्टुबग्न्यादयो मताः ॥
हिरण्यगर्भकस्त्रिष्टुम्मुन्याद्यास्तदग्रिमे ॥ १२६ ॥
त्वं सोम प्रचिकिन्नो मनीषा त्वं रचिष्टुमननेपि पन्थाम तवप्रणीति पितरो न इन्द्रो देवोद्यरन्नमभजन्त धीराः ॥ १२७ ॥
प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव ॥
यक्तामास्ते जुहुमस्तन्नो अस्तु वयं स्यामपतयो रयीणाम् ॥ १२८ ॥
वृत्तद्वयं बहिष्कृत्य तयोर्मध्ये च मातृकाः ॥
लेख्याः सबिन्दुकास्तस्य वेष्टनाकारतां गताः ॥ १२९ ॥
तद्वहिश्चैव कोणेषु श्रीं श्रीं बीजमिदं लिखेत् ॥
बाहुमूलेथ वा कण्ठे मूर्ध्नि वा यदि धारयेत् ॥ १३० ॥
गोगजाश्वादिमहिषसस्यसम्पद्वसुन्धराम् ॥
लभते पुत्रपौत्रादिशालिनीं सन्ततिं तदा ॥ १३१ ॥
अथान्यत्सम्प्रवक्ष्यामि यन्त्रं लक्ष्मीप्रदं सुराः ॥
षट्कोणमध्ये साध्यस्य नामयुक्प्रणवं लिखेत् ॥ १३२ ॥
लिखेत्कोणेषु श्रीबीजं बहिरष्टदलं लिखेत् ॥
तत्केशरेषु विलिखेद्द्वन्द्वशश्च स्वरान्क्रमात् ॥ १३३ ॥
या लक्ष्मीः सिन्धुसम्भूता भूतधेनुः पुरावसुः ॥
या मा विश्वावसुर्देवी सदा नो जुषतां गृहे ॥ १३४ ॥
चतुरश्चतुरो वर्णान्दलेष्वस्या ऋचो लिखेत् ॥
बहिर्वृत्तद्वयं कृत्वा तयोरन्तश्च वेष्टयेत् ॥ १३५ ॥
अश्वदायेति ऋचा च वृत्तमेकं च तद्बहिः ॥
अकारादिक्षकारान्तवर्णैर्मध्यं प्रवेष्टयेत् ॥ १३६ ॥
तद्बहिश्चतुरस्रं च श्रीबीजं कोणगं लिखेत् ॥
श्रीयश्चैतत्प्रियं यन्त्रं स्थापितं यत्र मन्दिरे ॥ १३७ ॥
धनैर्धान्यैश्च विविधैरन्यैश्चाश्वगवादिभिः ॥
आपूर्य सततं चैव तत्रैव रमते रमा ॥ १३८ ॥
अथ यन्त्रं प्रवक्ष्यामि भारत्याः सर्वकामदम् ॥
षट्कोणमध्ये प्रणवं साध्यनामाभिगर्भितम् ॥ १३९ ॥
पूर्वादिकोणषट्के च ऐं क्लीं सौं विलिखेत्क्रमात् ॥
सौं क्लीम् ऐमथ तद्भाये लिखेदष्टदलं पुनः ॥ १४० ॥
वक्ष्यमाण-ऋचोः पादांल्लिखेत्प्रतिदले ततः ॥
सो मो मुनिर्देवता वात्रिष्टुप्छन्दः प्रकीर्तितम् ॥ १४१ ॥
यद्वाग्वदन्त्यपि चेतनानि राष्ट्री देवानां निषसाद मन्दा ॥
चतस्र ऊर्ज्जन्दुदुहे पयांसि कश्चित्स्विदस्याः परमञ्जगाम ॥ १४२ ॥
देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो नुदन्ति ॥
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपष्टुतैतु ॥ १४३ ॥
वृत्तानां पञ्चकं बाह्ये कृत्वा वीथीचतुष्टयम् ॥
ऋषिर्दीर्घतमास्त्रिष्टुप्छन्दो वाणी च देवता ॥ १४४ ॥
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ॥
गुहा त्रीणि निहितानेङ्गयन्ति तुरीयां वाचो मनुष्या वदन्ति ॥ १४५ ॥
इमामृचं चाद्यवीथ्यां द्वितीयायां लिखेत्ततः ॥
विश्वामित्रो मुनिस्त्रिष्टुप्छन्दो वाग्देवता मता ॥ १४६ ॥
ससर्परीरमतीं बाधमाना बृहन्मिमाय यमदग्निदत्ता ॥
आसूर्यस्य दुहिता तताश्रवो देवेष्वमृतमर्ज्जया ॥ १४७ ॥
लिखेदिमामृचं पश्चात्तृतीयायां लिखेदथ ॥
प्राग्वन्मुन्यादिसर्वासां नियोगो वास्तुसिद्ध्ये ॥ १४८ ॥
ससर्परीरभरत्तूपमेभ्योधिश्रवः पाञ्चजन्यासु कृष्टिषु ॥
सापक्ष्या-इनव्यमायुर्दधाना यां मे पलस्तियमदग्नयो ददुः ॥ १४९ ॥
मातृकाणैश्चतुर्थीन्तु वेष्टयित्वाथ तद्बहिः ॥
भूपुरस्तस्य कोणेषु वाग्भवं बीजमालिखेत् ॥ १५० ॥
एवं स्वर्णादिके पत्रे लिखेद्वा यन्त्रमुत्तमम् ॥
तत्र वाचं समावाह्य पूजयित्वा विधानतः ॥ १५१ ॥
ऋष्यादिकं तु संयोज्य धारयेच्च शुभे दिने ॥
कवीनां तार्किकाणां च चक्रवर्ती भवेदसौ ॥ १५२ ॥
वचां पिष्ट्वा लिखेदेतन्नागवल्लीरसेन तु ॥
द्युसरिल्लोलकल्लोलनिभा निर्याति भारती ॥ १५३ ॥
यदद्य कदृचो यन्त्रं वक्ष्ये वश्यकरं परम् ॥
अष्टपत्रस्य पद्मस्य कर्णिकायान्तु संल्लिखेत् ॥ १५४ ॥
षट्कोणं तस्य मध्ये तु ससाध्यं ह्रीं समालिखेत् ॥
षट्सु पूर्वादि सुकोणेषु अं श्रीं ह्रीं क्लीं क्रमेण च ॥ १५५ ॥
ग्लौङ्गम्बीजानि संलिख्य पद्मस्य प्रथमे दले ॥
श्रीविद्याप्रथमं कूटं क-ए-ईल च ह्रीमिति ॥ १५६ ॥
लिखेद्द्वितीयपत्रे तु यदद्य कच्च वृत्रहन् ॥
श्रीविद्यायां द्वितीयन्तु लिखेत्कूटं तृतीयके ॥ १५७ ॥
असकदलह्रीमिति तदेतत्परिकीर्तितम् ॥
उदगा अधिसूर्येति लिखेत्पत्रे चतुर्थके ॥ १५८ ॥
श्रीविद्यायास्तृतीयं तु कूटं पञ्चमपत्रके ॥
सकलह्रीमिति प्रोक्तं लिखेत्षष्ठदले पुनः ॥ १५९ ॥
सर्वन्तदिन्द्र ते वशे सप्तमे गणपतये ॥
वरद इदं लेख्यं ततश्चाष्टमपत्रके ॥ १६० ॥
सर्वजनं मे वशमानय स्वाहेति सṁल्लिखेत् ॥
तद्बहिर्वृत्रयोरन्तर्वेष्टयेन्मातृकाक्षरैः ॥ १६१ ॥
ततो भूपुरकोणेषु श्रींह्रीङ्क्लीङ्ग्लौमिति क्रमात् ॥
लिखेद्धेमपटादौ च हेमसूच्या वशङ्करम् ॥ १६२ ॥
अथ संवादसूक्तस्य यन्त्रं वक्ष्ये गणेशितुः ॥
चतुर्दले तु कमले कर्णिकायाञ्च षड्दलम् ॥ १६३ ॥
ससाध्यं प्रणवन्तत्र मध्यकोष्ठे च संलिखेत् ।
अं श्रींह्रीङ्क्लीङ्ग्लौगञ्च ततः पूर्वदले लिखेत् ॥ १६४ ॥
गणपतये याम्ये तु वर वरदेति संल्लिखेत् ॥
तृतीये सर्वजनं मेब्धौ वशमानय स्वाहा ॥ १६५ ॥
तद्बाह्येष्टदलं कुर्यादर्धमर्धमृचां लिखेत् ॥
तत्र संवादसूक्तस्य तदिदानीं निगद्यते ॥ १६६ ॥
सतसिद्युवरोवरोवृषं नग्ने विश्वान्यर्य-आ ॥
रन्तस्य देव समिध्यसमनो वसून्या भव ॥ १६७ ॥
सङ्गष्टध्वं संवदसध्वं सं वो मनांसि जानताम् ॥
देवा भागं यथा पूर्वे शन्नानाना उपासते ॥ १६८ ॥
समा नो मन्त्राः समितिः समाना ॥
समानं मनः सहवितमेषां समनिमात्रम् अभिमन्त्रये वः ॥ १६९ ॥
समानेन वो हविषा जुहोमि समानीव त्र्याकूतिः समाना ॥
हृदयानि वः समानि वस्तु वो मनो यथावत्सुसहा सति ॥ १७० ॥
एतत्संवादसूक्तस्य मुनिः संवर्त्तनः स्मृतः ॥
अग्निर्देवस्तथाजायसञ्ज्ञानमितरासु च ॥ १७१ ॥
छन्दस्त्रिष्टुप् तृतीयाया अन्यासां स्यादनुष्टुभम् ॥
वृत्तत्रयन्तु तद्बाह्ये कृत्वा वीथिद्वयं लिखेत् ॥
आद्यवीथ्यां जातवेदसे सुनवेत्यृचा पुनः ॥ १७२ ॥
आवेष्टयेन्मातृकार्णैः परवीथीन्प्रवेष्टयेत् ॥
तद्बहिर्भूपुरं कृत्वा तत्र पादचतुष्टयम् ॥ १७३ ॥
कोणेषु च विकोणेषु लिखेद्यच्च तदुच्यते ॥ १७४ ॥
भद्रं नो अपि वाताय मनः मरुतामोनसे स्वाहा ॥
इन्द्रो विश्वस्य राजेति ॥
शन्नोभवद्विपदे शञ्चतुष्पदे ॥ १७५ ॥
सङ्घातभेदे मर्त्यानां मैत्रीकरणमुत्तमम् ॥
जगत्सम्मोहनं वश्यं कान्तिसौभाग्यपुष्टिदम् ॥ १७६ ॥
गायत्रीभुवनेश्वर्या योगयन्त्रमथोच्यते ॥
लिखेदष्टदलं मध्ये तत्र कोणेषु सṁल्लिखेत् ॥ १७७ ॥
रमणीयत्रिकोणानि षट्के षड्गुरुमार्गतः ॥
षट्कोणेऽस्य तु तन्मध्ये साध्यं साधककर्मयुक् ॥ १७८ ॥
ह्रीम्बीजमालिखेत्तच्च विलोमाभिः प्रवेष्टयेत् ॥
त्रिभिर्व्याहृतिभिश्चैवं 11 मन्त्रं मध्येऽथवा पुनः ॥
त्रिभिर्व्याहृतिभिश्चैवं लिखेन्मनुमथो सुधीः ॥ १७९ ॥
त्रिकोणद्वादशदले खं-ईं-बीजद्वयं तथा ॥
त्रिकोणानां बहिश्चापि लिखेत्पार्श्वद्वये पुनः ॥ १८० ॥
प्रादक्षिण्येन गायत्र्या देवमातुर्विलोमतः ॥
वर्णद्वयं बिन्दुयुतं लिखेदथ लिखेत्पुनः ॥ १८१ ॥
शनिबीजं त्रिकोणानामग्रे तारयुतं लिखेत् ॥
शृङ्खलाकाररेखाभिरेकैकेनान्तराणि च ॥ १८२ ॥
भवत्येवं च षड्बीजं शृङ्खलाद्वितयं बहिः ॥
वृत्तद्वयं लिखेत्तत्र वीथ्या लेख्यं विलोमतः ॥ १८३ ॥
प्रत्यक्षरं बिन्दुयुतं जातवेदसमन्त्रकम् ॥
वृत्तद्वये तु तद्बाह्ये कुर्याद्वीथीचतुष्टयम् ॥ १८४ ॥
मातृकार्णानाद्यवीथ्यां सबिन्दून्वै लिखेत्क्रमात् ॥
द्वितीयायां विलोमेन कुर्याद्बाह्येष्टकोणकम् ॥ १८५ ॥
कोणाष्टकेषु तु लिखेच्चिन्तामणिककूटकम् ॥
तस्य बाह्ये त्रिशूलानि कुर्यात्षोडशसङ्ख्यया ॥ १८६ ॥
एतद्वेदविदां यन्त्रं सर्वकार्यप्रसिद्धिकृत् ॥
सर्वसौभाग्यजननं सर्वशत्रुविनाशकृत् ॥ १८७ ॥
भुवनेशीमन्त्रपूजा यन्त्रेस्मिंश्च परा भवेत् ॥
वैदिकैस्तेन कर्तव्या पूजा यन्त्रस्य सिद्धये ॥ १८८ ॥
तद्विधिं सम्प्रवक्ष्यामि स्वर्णादिकृतपत्रके ॥
एतद्यन्त्रं वैदिकेन सुलेख्यं कुङ्कुमादिभिः ॥ १८९ ॥
यन्त्रमन्ये यजेद्देवीं कुर्याद्वीथित्रयं बहिः ॥
आद्यायां तु षडङ्गानि परस्यां दिक्चतुष्टयम् ॥ १९० ॥
हृल्लेखां गगनां रक्तां पूजयेच्च करालिकाम् ॥
तृतीयवीथ्यां ब्राह्माद्याः पूजनीया दिगष्टके ॥ १९१ ॥
तद्बाह्ये षोडशदलं कृत्वा तत्र यजेदिमाः ॥
करालीं विकरालीं च धूमां सरस्वतीं श्रियम् ॥ १९२ ॥
दुर्गामुखीं तथा लक्ष्मीं श्रुतिस्मृतिश्रियो ह्यपि ॥
श्रद्धां मेधां मतिं कान्तिं चार्यां तस्य बहिः पुनः ॥ १९३ ॥
द्वात्रिंशद्दलपद्मं तु कृत्वा तत्र यजेदिमाः ॥
विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली तथा कुहूः ॥ १९४ ॥
रुद्रवीथ्याप्रभानन्दाप्यायिनि सिद्धिदा शुभा ॥
कालरात्रिर्भद्रकाली महारात्रिः कपालिनी ॥ १९५ ॥
विकृतिर्दण्डमुण्डिन्यौ दुःखण्डा च शिखण्डिनी ॥
निशुम्भशुम्भमथनी महिषासुरमर्दिनी ॥ १९६ ॥
इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी ॥
नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥
अम्बिका ह्लादिनी चैव द्वात्रिंशच्छक्तयस्त्विमाः ॥ १९७ ॥
तद्बाह्ये तु चतुष्षटिदलं कृत्वा यजेदिमाः ॥
पिङ्गलाक्षीं विशालाक्षीं समृद्धिं वृद्धिमेव च ॥ १९८ ॥
श्रद्धां स्वाहां स्वधां मायां निद्रां चैव वसुन्धराम् ।
त्रिलोकधात्रीं गायत्रीं सावित्रीं त्रिदशेश्वरीम् ॥ १९९ ॥
सुरूपां बहुरूपां च स्कन्दमात्रच्युतप्रिये ॥
विमला श्यामलां पश्चादरुणीमारुणीं तथा ॥ २०० ॥
प्रकृतिं विकृतिं सृष्टिं स्थितिं संहृतिमेव च ॥ २०१ ॥
सन्ध्यां च मातृकां हंसीं सतीं सोमर्द्धिका पराम् ॥
देवमातृभगवत्यौ देवकीं कमलासनाम् ॥ २०२ ॥
त्रिमुखीं सप्तकमुखीं सुरासुरविमर्दिनीम् ॥
लम्बोष्ठीं चार्धमुखिकां बहुशिश्नां कृशोदरीम् ॥ २०३ ॥
रथरेखा शशिरेखां परा गगनवेगिनीम् ॥
क्षितिवेगां च पातालवेगां च मदनातुराम् ॥ २०४ ॥
अनङ्गां च तथानङ्गमदनानङ्गमेखले ॥
अनङ्गकुसुमां विश्वरूपां दैत्यभयङ्कराम् ॥ २०५ ॥
अक्षोभ्यां सत्यवादां च तन्द्रारूपा शुञ्चिव्रताम् ॥
वरदां चापि विश्वेशीं तद्बाह्ये च दिगीश्वरान् ॥ २०६ ॥
तदायुधानां पूजाग्रे प्रोक्तोयं पूजने विधिः ॥
वाञ्छितं काममाप्नोति तान्त्रिकोप्यनयेज्यया ॥ २०७ ॥
अथ वक्ष्ये जातवेददुर्गायन्त्रमभीष्टदम् ॥
कृत्वा चाष्टदलं पद्मं कर्णिकायां लिखेद्ध्रुवम् ॥ २०८ ॥
तस्य मध्ये तु ह्रीङ्कारं तन्मध्ये साध्यनामकम् ॥
क्रमाद्दलेषु सुलिखेत्तारंह्रीमी तथैव च ॥ २०९ ॥
दुर्गायै नम एतस्य मन्त्रस्यैकैकमक्षरम् ॥
बहिर्वृत्रत्रयं कृत्वा पूर्ववीथ्यां समालिखेत् ॥ २१० ॥
जातवेदसमन्त्रस्य मातृकार्णान्द्वितीयके ॥
तद्बहिश्चतुरस्रं च दौर्गं यन्त्रमिदं स्मृतम् ॥ २११ ॥
अपस्मारमहाभूतक्षुद्रग्रहनिवारणम् ॥
नृणां विजयदं स्त्रीणां पुत्रदं नात्र संशयः ॥ २१२ ॥
अथातः सम्प्रवक्ष्यामि यन्त्रं श्रूसूक्तजं परम् ॥
कृत्वाष्टपत्रं कमलं श्रीं बीजं कमलान्तरे ॥ २१३ ॥
साध्यनामान्वितं लेख्यं दलेष्वष्टसु सṁल्लिखेत् ॥
कर्दमेत्यादिपञ्चर्चामर्द्धमर्द्धं दश त्वथ ॥ २१४ ॥
श्रिये जनः श्रिय आनिर्याय श्रियञ्च यो जरितृभ्यो ददाति ॥
श्रीयं वसाना अमृतत्वमायां भवन्ति सत्या समधास्मे तद्रो ॥ २१५ ॥
श्रिय एवेति ऋचोस्तत्र चतुर्थार्द्धं समालिखेत् ॥
श्रीश्च ते इति मन्त्रस्य द्वयोः स्यादर्धमर्धकम् ॥ २१६ ॥
वृत्तद्वयं तद्बहिश्च कुर्यात्प्रथमवीथिकाम् ॥
वक्ष्यमाण ऋचा चाद्या मातृकार्णैश्च तत्परा ॥ २१७ ॥
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ॥
श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ २१८ ॥
तद्बहिश्चतुरस्रं च लिखेच्छ्रीबीजमालिखेत् ॥
तस्य कोणचतुष्केषु श्रियो मन्त्रं तु वैदिकम् ॥ २१९ ॥
मया यन्त्रमिदं प्रोक्तं धारयेद्यो यथाविधि ॥
पुत्रारोग्यधराधान्यधनगोसस्यशालिनीम् ॥
लब्ध्वातिबहुलां लक्ष्मीं जीवेच्च शरदां शतम् ॥ २२० ॥
ताम्रपात्रे लिखित्वेदं जपेदष्टोत्तरं शतम् ॥
अष्टाविंशतिसङ्ख्याकं हुत्वा सम्पातसेचितम् ॥ २२१ ॥
संस्थाप्याङ्गणमध्ये तु लक्ष्मीमावाह्य पूजयेत् ॥
परिवारयुतां लक्ष्मीं बलिदानेन तोषयेत् ॥ २२२ ॥
एवङ्कृते तु तत्स्थाने वर्धन्ते सर्वसम्पदः ॥
पुत्राः स्त्रियश्च सुहृदो भृत्या धान्यं रथा गजाः ॥
गावश्च वृषभाः सौख्यं त्वसङ्ख्यन्तत्र जायते ॥ २२३ ॥
अथातः सम्प्रवक्ष्यामि यन्त्रं पौरुषसूक्तजम् ॥
षट्कोणकर्णिकामध्ये तारं साध्यसमन्वितम् ॥ २२४ ॥
सहस्रारहुम्फडिति वर्णैकैकं दलेदले ॥
स्वाग्रादिप्रादक्षिण्येन लिखेत्तत्रैव सन्धिषु ॥ २२५ ॥
षण्नाममन्त्रान्स्वाहान्तानचक्रायेति चादिमः ॥
विचक्राय सुचक्राय घीचक्राय चतुर्थकः ॥ २२६ ॥
सञ्चक्रायेति च ज्वालाचक्रायेति च षष्ठकः ॥
चतुर्दलं तु कमलं तद्बहिष्केशरेषु च ॥ २२७ ॥
चतुर्दिक्षु क्रमाल्लेख्यं क्लीङ्कृष्ण क्लीं तथाक्षरम् ॥
वासुदेवस्य मन्त्रस्य त्रीणित्रीण्यक्षराणि च ॥ २२८ ॥
तत्पत्रेषु लिखेन्मन्त्रं वदेत्तारं तथा नमः ॥
भगवते वासुदेवायेत्यणुर्द्वादशाक्षरः ॥ २२९ ॥
तद्बाह्येष्टदलं पद्मं केशरेष्वस्य सṁल्लिखेत् ॥
एकैकमक्षरं तारो नमो नारायणाय च ॥ २३० ॥
दलेषु चतुरो वर्णान्नारसिंहमनोर्लिखेत् ॥
श्रीं ह्रीं श्रीं जयलक्ष्मीति प्रियाय नित्यमुदितम् ॥ २३१ ॥
मनसे लक्ष्मीसितार्धदेहायेति वै वदेत् ॥
श्रीं ह्रीं श्रीं नमो मन्त्रस्स्यान्नृसिंहस्य रदाक्षरः ॥ २३२ ॥
तद्बहिः षोडशदलं केशरेषु क्रमाल्लिखेत् ॥
तारं नमो भगवते महासुदर्शनाय च ॥ २३३ ॥
हुम्फट् षोडशवर्णोयं दलेषु क्रमतो न्यसेत् ॥
ऋचः पुरुषसूक्तस्य बहिर्वृत्तद्वयं चरेत् ॥ २३४ ॥
तदन्तरालवीथ्यान्तु मातृकार्णैः प्रवेष्टयेत् ॥
सबिन्दुकैर्बहिस्तस्य भूपुरं तच्चतुर्ष्वपि 12 ॥ २३५ ॥
कोणेषु सुलिखेत्तारं यन्त्रं पौरुषमुच्यते ॥
सर्वपापहरं पुण्यं पुत्रायुष्कान्तिकीर्तिदम् ॥ २३६ ॥
यन्त्रं हैयङ्गवीनेन लिप्त्वा पुरुषसूक्तकम् ॥
अष्टोत्तरशतं जप्त्वा त्वृतुस्नातां तु भोजयेत् ॥ २३७ ॥
तद्यन्त्रनवनीतं च गर्भं धत्ते तदाङ्गना ॥
सुपुत्रो जायते वाग्मी सर्वागमविशारदः ॥
एवं हैयङ्गवीनं च विषार्ते सन्निपातिके ॥ २३८ ॥
शूले क्षये च पाण्ड्वादौ नीरुग्भक्षणतो भवेत् ॥
कुष्ठोपकुष्ठरोगेषु व्रणे भग्ने भगन्दरे ॥
फिरङ्गशीतलाद्येषु लेखनात्सुखमाप्नुयात् ॥ २३९ ॥
अथातः सम्प्रवक्ष्यामि क्षेत्रस्य च पतेरिति ॥
पञ्चर्चस्य च सूक्तस्य यन्त्रं सर्वार्थसिद्धिदम् ॥ २४० ॥
कृत्वाष्टदलपद्मस्य कर्णिकायां तु षड्दलम् ॥
तन्मध्ये प्रणवं लेख्यं स्तस्मिन्हुं बीजमालिखेत् ॥ २४१ ॥
साध्यनाम च बीजे लिखेत्कोणेषु चैककम् ॥
सहस्रारहुम्फडस्य चक्रमन्त्रस्य चाक्षरम् ॥ २४२ ॥
षण्नाममन्त्रान्पूर्वोक्ताṁलिखेत्षट्कोणसन्धिषु ॥
चतुरश्चतुरो वर्णांल्लिखेदष्टदले पुनः ॥ २४३ ॥
वराहमन्त्रस्यान्ते तु पत्रके वर्णपञ्चकम् ॥
तारो नमो भगवते वराहरूपमुच्यते ॥
ङेन्तं व्याहृतयः प्रोक्ताः पतये पदमुच्चरेत् ॥ २४४ ॥
भूपतित्वं मे देहीति दापयान्तेऽग्निगेहिनी ॥
त्रयत्रिंशद्वर्णकोयं वराहस्य मनुः स्मृतः ॥ २४५ ॥
तद्बाह्ये षोडशदले चार्धामर्धां लिखेदृचम् ॥
ऋचस्ता अत्र वक्ष्यामि सावधानतया शृणु ॥ २४६ ॥
क्षेत्रस्य पते मधुमन्त्रमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ॥
मधुच्युतं घृतमिव सुपूतमृतस्य नः पतयो मृडयन्ति ॥ २४७ ॥
क्षेत्रस्य पतिना वयं हितेनेव यजायसि ॥
गामश्वं योषयित्नवा सनो मूलतीदृशे ॥ २४८ ॥
मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम् ॥
क्षेत्रस्य पतिर्मधुमान्नो अस्य रिप्यम् अत्त्वेनं चरेम ॥ २४९ ॥
शुनं वाहाः शुनं नाराः शुनं कृषतु लाङ्गलम् ॥
शुनं वरत्रा वध्यन्तां शुनमष्ट्रामुदिङ्गया ॥ २५० ॥
शुनासीराविमां वाचं जुषेथां यदि विचक्रथुः ॥
पयो यमस्ते न मामुपसिञ्चतम् ॥ २५१ ॥
अर्वाची सुभगे भव सीते वन्दामहे त्वा ॥
यथा न सुभगा स यथा न सुफलाससि ॥ २५२ ॥
इन्द्रमीतां गृह्णातु तां पूषा नियच्छतु ॥
सा नः पयस्वती दुहामुत्तरां समाम् ॥ २५३ ॥
शुनं नः फाला विकृषन्तु भूमिं शुनं कीनाशा अभियन्तु वाहैः ॥
शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तम् ॥ २५४ ॥
क्षेत्रस्य तु पतिर्देवो वामदेवो मुनिः स्मृतः ॥
पुलस्त्यर्षिरनुष्टुप् च त्रिष्टुप्छन्दोस्ति सूक्तके ॥ २५५ ॥
बहिर्वृत्तत्रयं कृत्वा तत्र वीथीद्वयं भवेत् ॥
ग्लौम्बीजेनाद्यवीथ्यां तु वेष्टयेन्मातृकार्णकैः ॥ २५६ ॥
द्वितीयं भूपुरं तस्य बाह्ये कोणेषु ग्लौमिति ॥
लिखेद्दिक्षु च हुम्बीजं यन्त्रमेतच्छुभे दिने ॥ २५७ ॥
ताम्रपत्रे समालेख्य स्वर्णसूच्या यथाविधि ॥
स्थापितं भवने द्वारे क्षेत्रे वा नगरेपि वा ॥ २५८ ॥
देशे वा तत्र वर्धन्ते दिनशः सर्वसम्पदः ॥
गजाश्वधेनुमहिषवृषोष्ट्राश्वतरादिभिः ॥ २५९ ॥
धनधान्यधराशस्यवासोरत्नविभूषणैः ॥
आह्लादयन्ति विभवैरन्यैश्च स्यात्समागमः ॥ २६० ॥
अथातः सम्प्रवक्ष्यामि यन्त्रमागावसूक्तकम् ॥
षट्कोणे सुलिखेत्कामबीजं साध्यसमन्वितम् ॥ २६१ ॥
एकैकमक्षरं लेख्यं षट्कोणेषु ध्रुवो नमः ॥
कृष्णायेति लिखित्वाग्रे कुर्यात्पद्मं चतुर्दलम् ॥ २६२ ॥
वृत्तेषु सुलिखेत्क्लीं च कृष्ण क्लीमिति वर्णकान् ॥
वासुदेवमनोवर्णा दले लेख्यास्त्रयस्त्रयः ॥ २६३ ॥
तद्बहिर्दिग्दलं कृत्वा पद्मं तत्केशरेषु च ॥
गोपीजनवल्लभाय स्वाहा मन्त्रं दशाक्षरम् ॥ २६४ ॥
आलिख्य तस्य पत्रेषु नखार्णार्णं द्वयं द्वयम् ॥
माया रमाथ गोपाल ततो विषधराय च ॥ २६५ ॥
वासुदेवाय हुम्फट् च स्वाहा विंशार्णको मनुः ॥
तद्बहिः षोडशदलं कृत्वा तत्र लिखेत्स्वरान् ॥ २६६ ॥
केशरेष्वथ पत्रेषु वक्ष्यमाणा ऋचो लिखेत् ॥
अर्धमर्धं प्रतिदलं रमणीयं यथा भवेत् ॥ २६७ ॥
आ गावो अग्मन्नुत भद्रमकरत्सीदतु गो एरणयन्त्वस्मे ॥
प्रजावतीः पुरुरूपा इहस्यरिन्द्राय पूर्विरषसो दुहानाः ॥ २६८ ॥
इन्द्रो यज्वने पृणतेश्च शिक्षत्फलं मे ददाति नस्त्वं मुषायति ॥
भूयोभूयो रयिमिदस्य वार्धयन्नभिन्ने खिल्ये निदधाति देवयम् ॥ २६९ ॥
नता नशन्ति तस्करो नासामामित्रो व्यथिरादर्षति ॥
देवांश्च याभिः स च ते ददाति च ज्योगिताभिः स च ते गोपतिः सह ॥ २७० ॥
न ता अर्वा रेणुकाकाटो अस्तु तेन संस्कृत्तत्र मुच्यन्ति ता अभि ॥
उरुगायमभयं तस्य ता अनुगावो मर्त्तस्य विचरन्ति यज्वनः ॥ २७१ ॥
गावो भगो गाव इन्द्रो मे अच्छानागवः सोमस्य प्रथमस्य भक्षः ॥
इमा या गावः सजनास इन्द्र इच्छामीधृदा मनसा चिदिन्द्रम् ॥ २७२ ॥
यूयं गावो मे दयथा कृशं चिदश्रीरञ्चित्कृणुथा सुप्रतीकम् ॥
भद्रं गृहे कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥ २७३ ॥
प्रजावतीः सूयवसं रिसन्तीः सुप्रयाणे पिबन्तीः ॥
मावस्तेन ईशतमाघशंसः पारवोहन्तीसवृज्याः ॥ २७४ ॥
उपेदमुपयर्त्वनमाशुगो यूयमृच्यताम् ॥
उप ऋषभस्य रेतः स्युपेन्द्र तव वीर्ये ॥ २७५ ॥
वृत्तद्वयं बहिष्कृत्यतद्वीथ्यां कादिकाṁल्लिखेत् ॥
अकारान्तांस्तद्बहिश्च भूपुरं सम्यगालिखेत् ॥ २७६ ॥
कोणेषु ग्लौं समालिख्य लिखेद्भूरिति दिक्षु च ॥
गोपालयन्त्रमेतद्धि विधिना स्थापितं गृहे ॥ २७७ ॥
तत्र गावः पयस्विन्यः सवृषाश्च निरामयाः ॥
पीनोध्न्यो बहुरूपाश्च विशालाश्च भवन्ति हि ॥ २७८ ॥
धनधान्यधरारत्नशालिनी तस्य मन्दिरे ॥
लक्ष्मीः कीर्तिः स्थिरा भूत्वा निवसेत्सततं तदा ॥ २७९ ॥
अथान्यद्वक्ष्यते यन्त्रं गवादेर्बहुभूतिकृत् ॥
मध्येष्टदलपद्मस्य ससाध्यं प्रणवं लिखेत् ॥ २८० ॥
आ गाव इति सूक्तस्य एकैकां च दले ऋचम् ॥
वृत्तद्वयं बहिष्कृत्य तद्वीथ्यां मातृवेष्टनम् ॥ २८१ ॥
तद्बहिश्चतुरस्रं च कुर्याद्यन्त्रमिदं गृहे ॥
स्थापितन्तत्तु गोश्वादिवृषैः पूर्णं सदा भवेत् ॥ २८२ ॥
अथ वक्ष्ये दिनेशस्य यन्त्रं रोगनिवारणम् ॥
षट्कोणमध्ये सुलिखेत्साध्यं सप्रणवं ततः ॥ २८३ ॥
कोणेषु तारं ह्रींसोहंहंसोवर्णान्क्रमाल्लिखेत् ॥
चतुर्दलन्तु कमलं तद्बहिः केशरेषु च ॥ २८४ ॥
ह्रीं ह्रीं हंसश्च पूर्वादौ लिखेत्पत्रेषु सर्वतः ॥
उद्यन्नद्य ऋचः पादा लेख्यास्तद्बाह्यतो लिखेत् ॥२८५ ॥
अष्टपत्रं तु कमलं केशरेषु लिखेत्क्रमात् ॥
घृणिः सूर्यस्तथादित्य इदमेकैकमक्षरम् ॥ २८६ ॥
शुकेषुमेत्यादि ऋचः प्रापयैके दले दले ॥
वृत्तद्वयन्तु तद्बाह्ये वीथ्यां मातृप्रवेष्टनम् ॥ २८७ ॥
तद्बहिर्भूपुरास्रेषु अंह्रीं ह्रींसः इदं लिखेत् ॥
एतद्यन्त्रं तु सूर्यस्य नाशयेत्सकलान्ग्रहान् ॥ २८८ ॥
तेजो लक्ष्मीं च भोगञ्च प्रतापं वर्द्धयेद्धृतिम् ॥
एतद्गोमयलिप्तायां लिखेदारक्तचन्दनैः ॥ २८९ ॥
धरायां ताम्रसूच्या तु सम्यगावाह्य पूजयेत् ॥
पूजान्ते च विशिष्टार्घ्यं प्रकल्प्यास्मै प्रदीयते ॥ २९० ॥
कुष्ठयक्ष्मादिशान्त्यै च क्षुद्ररोगविनाशनम् ॥
इदं यन्त्रं ताम्रपात्रे लिखित्वा स्थापितं गृहे ॥ २९१ ॥
विधिवत्पूजयन्नित्यं हन्यात्कुष्ठमुखान् गदान् ॥
अपस्मारं विस्मृतिं च रोगांश्चैवाभिचारिकान् ॥ २९२ ॥
सुवर्णपत्रे चालिख्य तैलमध्ये विनिःक्षिपेत् ॥
सहस्रसङ्ख्यं प्रजपेदुद्यन्नद्यमिति त्र्यृचम् ॥ २९३ ॥
तत्राशक्तशरीरस्य कुष्ठरोगविनाशनम् ॥
इदमेव लिखेद्यन्त्रं नवीने नवनीतकम् ॥ २९४ ॥
अष्टोत्तरशतं जप्त्वा त्र्यृचं निष्कास्य भक्षयेत् ॥
गदिनो रोगशान्तिः स्यात्सत्यमेतन्न संशयः ॥ २९५ ॥
अथान्यत्सम्प्रवक्ष्यामि गायत्रीसौरमन्त्रयोः ॥
यन्त्रं समस्तरोगाणां नाशनं सूर्यवल्लभम् ॥ २९६ ॥
वृत्तं कृत्वा तु तन्मध्ये ससाध्यं प्रणवं लिखेत् ॥
बहिस्तस्य त्रिकोणं तु मन्त्रागारेति संलिखेत् ॥ २९७ ॥
एकैकमक्षरं कोणे बहिर्वृत्तं पुनर्लिखेत् ॥
यक्षराजायेति तत्र लिखेत्पञ्चाक्षराणि तु ॥ २९८ ॥
बहिस्तस्य तु षट्कोणे लिखेदेकैकमक्षरम् ॥
सहस्रारं हुम्फडिति अष्टकोणे ततो लिखेत् ॥ २९९ ॥
घृणिं सूर्यं तथादित्यं लिखेदेकैककोष्ठके ॥
पत्राग्रेषु लिखेच्श्रीह्रीम्मिति बीजद्वयं पुनः ॥ ३०० ॥
सौरं यन्त्रमिदं प्रोक्तमायुरारोग्यवृद्धिदम् ॥
बन्ध्यानां पुत्रजननं स्त्रीणां सौभाग्यदायकम् ॥ ३०१ ॥
राज्ञां विजयदं सम्यग्रोगिणां रोगनाशनम् ॥
किं बहूक्तेन विधिना धृते हस्ते फलप्रदम् ॥ ३०२ ॥
तथैव सम्प्रवक्ष्यामि सारात्सारतरं परम् ॥
यद्बुद्ध्वा च मया प्रोक्तं सारमाथर्वणस्य च ॥ ३०३ ॥
शाबरं रूपमास्थाय पृथ्वीं पर्यटता मया ॥
कलौ लोका भविष्यन्ति सर्वे कामार्थसाधकाः ॥ ३०४ ॥
असद्गुरूणां तन्मन्त्रैर्दृष्टैर्वा पुस्तकादिषु ॥
समयाचारविभ्रष्टा विक्षिप्तास्ते च निर्धनाः ॥ ३०५ ॥
अधर्मेण भविष्यन्ति भूताक्रान्तास्तहापरे ॥
अभिचारिककृत्यादिरोगैर्ग्रस्तमहाग्रहैः ॥
तेषामर्थे मया देवायन्त्रं तु प्रकटीकृतम् ॥ ३०६ ॥
मृदङ्गसदृशं कुर्याच्छिर्षं प्रेतस्य वर्जितम् ॥
घ्राणादिकं चतुर्भिश्च इन्द्रियैस्तस्य मध्यगम् ॥ ३०७ ॥
तिर्यग्रेखां प्रकुर्वीत मुण्डमित्या बहिर्गताम् ॥
पार्श्वद्वयेपि कर्तव्यमग्रयोः शूलकद्वयम् ॥ ३०८ ॥
शूलविस्तारतुल्या च तदधस्तूर्ध्वरेखिका ॥
मुण्डो हस्ताभिधः प्रोक्तो मध्यं कुर्याच्च शूलवत् ॥ ३०९ ॥
गुप्तेन्द्रियस्थले कुर्यात्पश्चाकारान्तु रेखिकाम् ॥
त्रिशूलौ पीठिकायुक्तौ पादयोस्तत्स्थले न्यसेत् ॥ ३१० ॥
एवं कृत्वा प्रेतरूपं बीजान्येतानि संलिखेत् ॥
शीर्षे हस्ते दक्षबाहावूर्ध्वमष्टदलं लिखेत् ॥ ३११ ॥
रेखार्धभागमुण्डन्तु ङेन्तं डं नं लिखेत्तथा ॥
वामबाहूपरिष्टाच्च होमो इत्यक्षरद्वयम् ॥ ३१२ ॥
अर्धे भागे तु मुण्डस्य सस्मिवाष्टाश्च संलिखेत् ॥
शिखा कार्या हृदस्थानं तिर्यगूर्ध्वं तु सं सदा ॥ ३१३ ॥
लिखेत्ततो मध्यभागे पार्श्वयोश्च लिखेदिदम् ॥
क्रमान्नव विभागेषु अलीयं प्रथमा भवेत् ॥ ३१४ ॥
भूबीजं च द्वितीये स्यादहीनञ्च तृतीयके ॥
सराहीयं चतुर्थन्तु विहकस्तत्तु पञ्चकम् ॥ ३१५ ॥
त्रैयाक इति षष्ठं स्यात्तथा नाम्बुदसप्तमम् ॥
त्रैयाक इत्यष्टमञ्च नस्तरं न तथान्तिमम् ॥ ३१६ ॥
बहिः स्थाने प्रकर्तव्यं द्विकाद्यं कोष्ठषट्ककम् ॥
ऊर्ध्वपङ्क्तौ क्रमाल्लेख्यं षट्कत्राद्वितयं तथा ॥ ३१७ ॥
अधःपङ्क्तौ सप्तगोष्टौ पेश्यां लेख्यं त्रसे सदा ॥
पेश्याबहिर्मम हृदपेश्यधस्तात्तु दक्षिणे ॥ ३१८ ॥
पादपार्श्वे साध्यनाम वामे तन्मन्त्रमालिखेत् ॥
एतद्यन्त्रं दले लेख्यं मस्या तन्नीलकर्पटे ॥ ३१९ ॥
सम्यक्संवेष्टयेत्सा तु वर्तिभूता कुशाभिधा ॥
आदित्यवासरे सायं गोमयेनोपलेपयेत् ॥ ३२० ॥
स्थाने श्वेताक्षतैस्तत्र पद्ममष्टदलं लिखेत् ॥
तत्कर्णिकायां प्रथमं पूजयेच्च गणाधिपम् ॥ ३२१ ॥
तस्यैव दक्षिणे पाश्चे क्षेत्राधिपतिमर्चयेत् ॥
पत्रेष्विन्द्रादिकानर्चेत्कर्णिकायां तु दीपिकाम् ॥ ३२२ ॥
सम्यग्न्यसेत्तदूर्ध्वन्तु स्थापयेत्तैलपात्रकम् ॥
तैलन्तु कुडवोन्मानं तिलानां तत्र तिष्ठति ॥ ३२३ ॥
तादृशे मृण्मये पात्रे धातुजे वा प्रकल्पयेत् ॥
पूजयित्वा दीपिकादि सायं तत्रोपवेशयेत् ॥ ३२४ ॥
तद्दर्शयन्निष्टयन्त्रं धायेद्दीपं विलोकयन् ॥
दीपाधिष्ठातृदेवस्य तुष्ट्यै सावरणस्य च ॥ ३२५ ॥
दद्यादामान्नमर्कन्तु वैदिकाय कुटुम्बिने ॥
यावच्च प्रज्वलेद्दीपः पश्येत्तावदतन्द्रितः ॥ ३२६ ॥
देवदोषे समुत्पन्ने दीपो वदति स स्वयम् ॥
यत्किञ्चित्त्वरितं कार्यं शान्तिर्भवति निश्चितम् ॥ ३२७ ॥
दोषा यदा राक्षसादेः शरीरे सत्यवादिनि ॥
तदा तदैव कर्तव्यं रोगी सुखमवाप्नुयात् ॥ ३२८ ॥
अभिचारिककृत्यादौ दीपकम्पः प्रजायते ॥
कम्पते तु क्षणेनैव महांश्चापि क्षणेक्षणे ॥ ३२९ ॥
एकेन भानुवारेण क्षुद्रदोषः प्रणश्यति ॥
भानुवारद्वयं कृत्याकृतदोषविनाशनम् ॥ ३३० ॥
साधकेनाप्यचरितं त्रिभिर्दोषः क्षयं व्रजेत् ॥
मन्त्रभक्षणदोषोथ चतुर्दीपैर्विनश्यतु ॥ ३३१ ॥
कुगुरुप्राणमन्त्रेण षड्भिर्दोषो विनश्यति ॥
रोगोपि सप्तद्वीपेन नश्येदेतन्महाद्भुतम् ॥ ३३२ ॥
त्रिनिमितं स्वयं गच्छेद्वेधे वातायने त्रयः ॥
अभ्यन्तरे कालिमवच्छिद्रं वापि प्रदृश्यते ॥ ३३३ ॥
त्रिशिखो वा द्विवर्णो वा निस्तेजा यदि जायते ॥
पूर्णमायुर्विनिर्देश्यं स रोगी नैव जीवति ॥ ३३४ ॥
सिद्धयन्त्रमिदं प्रोक्तं तान्त्रिकाणां तु सिद्धिदम् ॥
स्वधर्मत्यागिनां नैव यन्त्रं कार्यं तु पण्डितैः ॥ ३३५ ॥
ब्राह्मं धर्ममुपातिष्ठेत्तस्य नास्ति पुरस्क्रिया ॥
स्वयं यन्त्राणि मन्त्राश्च सिद्ध्यन्त्यत्र न संशयः ॥ ३३६ ॥
अष्टादशपुराणानि व्यासेन रचितानि तु ॥
गौतमेन प्रणीतो यो न्यायोसौ धर्मसाधनम् ॥ ३३७ ॥
भविष्यन्ति कलौ नानाकुतर्का वेदनाशकाः ॥
तानधीत्य द्विजो भूयः प्रेतो वा ब्रह्मराक्षसः ॥ ३३८ ॥
मीमांसा सेश्वरा या तु पुरुषार्थप्रसाधिका ॥
निरीश्वरा कर्मपरा भोगं स्वर्गं प्रयच्छति ॥ ३३९ ॥
स्मृतयोष्टादश प्रोक्ताः पङ्क्तौ चाद्यः पराशरः ॥
शङ्खश्च लिखितो व्यासो वशिष्ठः कश्यपो मुनिः ॥ ३४० ॥
अगस्त्ययमहारीता दिवोदासः प्रजापतिः ॥
पैठीनसिश्च भगवाञ्जमदग्निश्च गौतमः ॥ ३४१ ॥
भारद्वाज इमे प्रोक्ता धर्मशास्त्रप्रवर्तकाः ॥
मतभेदस्तथा तेषां विज्ञेयो दशभेदतः ॥ ३४२ ॥
क्वचित्कालविभेदेन विद्यते तु मुनेर्वचः ॥
तस्माज्जातिं कुलं देशं ज्ञात्वा धर्मं समादिशेत् ॥ ३४३ ॥
शिक्षा कल्पोव्याकरणं निरुक्तं छन्द एव च ॥
गणितं संहिता होरा त्रिविधं ज्यौतिषं तथा ॥ ३४४ ॥
वेदाङ्गानि षडेतानि वेदाश्चत्वार एव च ॥
चतुर्दश सु वै यद्यत्तत्प्रोक्तन्धर्मसाधनम् ॥ ३४५ ॥
सिद्धे यस्मिंस्तु सिद्धाश्च ऋष्याद्याः स्वयमेव हि ॥
एतद्विरुद्धं वर्णानाम्भवेन्नो धर्म साधनम् ॥ ३४६ ॥
आयुर्वेदो धनुर्वेदो गान्धर्वो नीतयस्तथा ॥
शिल्पविद्याश्च गणितं शकुनं चेति सप्त च ॥ ३४७ ॥
प्रोक्तानि चार्थशास्त्राणि यथोक्ताचरणाद्ध्रुवम् ॥
यद्दर्शितम्भवेत्तत्र समर्थं पुरुषार्थकृत् ॥ ३४८ ॥
साहित्यमागमो वाजीकरणं कामचारणम् ॥
चतुर्धा कामशास्त्रं स्यात्प्राप्त्यर्थं गुरुशास्त्रतः ॥ ३४९ ॥
धर्मार्थाद्यविरोधेन भवेत्तत्कामसाधनम् ॥
विना गुरुं विना बुद्धिं पुरुषार्थः प्रणश्यति ॥ ३५० ॥
योगशास्त्रञ्च वेदान्तं द्वयम्मोक्षस्य साधनम् ॥
अन्ये ये प्राकृता ग्रन्था धर्माभासाश्च ते सुराः ॥ ३५१ ॥
अस्मिन्कलियुगे घोरे शिश्नोदरपरायणे ॥
कश्चिदेकः कोटिमध्ये सर्वकर्मविवर्धनः ॥ ३५२ ॥
बुधोधर्मपरो भूयात्तदर्थमिदमुच्यते ॥
उत्पादयेत्सुपुत्रन्तु कुलदीपं तदुच्यते 13 ॥ ३५३ ॥
गर्भाधानाख्यसंस्कारं कुर्वीत प्रथमार्तवे ॥
सीमन्तोन्नयनं कार्यं तथा पुंसवनं स्मृतम् ॥ ३५४ ॥
एते त्रयस्तु संस्कारा ब्राह्मगर्भत्वकारकाः ॥
एतैरेव तु यो जातः संस्कृतो ब्रह्मबीजतः ॥ ३५५ ॥
जातकर्मादयस्तस्य चान्नप्राशनमेव च ॥
चत्वारस्ते बालकस्य संस्कारा ब्राह्मसिद्धये 14 ॥ ३५६ ॥
व्रतबन्धः समावर्तो वेदपाठो विधानतः ॥
एते त्रयस्तु संस्काराः कौमारे ब्रह्मकारकाः ॥ ३५७ ॥
एवं यो दशसंस्कारैः संस्कृतो दशकर्मकृत् ॥
स एव ब्राह्मणो ज्ञेयो मन्त्राः सर्वेपि तद्वशाः ॥ ३५८ ॥
तद्दृष्ट्वा राक्षसा वीरा म्लेच्छा बाधितुमक्षमाः ॥
कर्माणि दश ते दृष्ट्वा पलायन्ते तु दूरतः ॥ ३५९ ॥
दशप्रकारान्यतरप्रकारेण धनार्जनम् ॥
निर्वाहाय कुटुम्बस्य प्रथमं कर्म चोच्यते ॥ ३६० ॥
याज्यस्य याजनं कृत्वा साधयेत्प्रथमं धनम् ॥
पाठयित्वा योग्यशिष्यं द्वितीयं पारितोषिकम् ॥ ३६१ ॥
दुर्दातारं च दुष्कालं दुर्दानं दुष्टभूमिकाम् ॥
हित्वा प्रतिग्रहं कुर्यात्तृतीयन्धनसाधनम् ॥ ३६२ ॥
दायादक्रमतः प्राप्तं सञ्चितं तत्तुरीयकम् ॥
एतद्वंशे तु यद्वित्तं तल्लब्धं पञ्चमं स्मृतम् ॥ ३६३ ॥
अर्थोपायास्तु ये प्रोक्तास्साधितं तैस्तु षष्ठकम् ॥
सन्मन्त्रस्योपदेशेन यल्लब्धन्तत्तु सप्तमम् ॥ ३६४ ॥
कृषिं यथोक्तमार्गेण कुर्यात्तच्चष्टमं मतम् ॥
कालानुगुणतः प्राप्तं नवमं पारितोषिकम् ॥ ३६५ ॥
विशिष्टं पूर्वपूर्वं तु दानं स्याद्द्विगुणं भवेत् ॥
धनार्जनाख्यं कर्मैतत्प्रथमं परिकीर्तितम् ॥ ३६६ ॥
पोष्यकर्म द्वितीयं स्यादादौ स्वीये कलेवरे ॥
ततः पतिव्रता भार्या माता जनयिता ततः ॥ ३६७ ॥
भ्रातरो गुरवः पुत्राः कन्या मातामहस्तथा ॥
श्वश्रूश्चायं पोष्यवर्गो विपत्तौयच्च लभ्यते ॥ ३६८ ॥
एकाद्यंशान्समीकृत्य भागन्तेभ्यः प्रदापयेत् ॥
अत्र पुत्रस्य यो भागस्तस्य पोष्यसमीकृतिम् 15 ॥
कृत्वा विप्रेण रज्येत ब्राह्मण्यान्न तु हीयते ॥ ३६९ ॥
नित्यस्नानं तृतीयं स्यादस्नायि शूद्रतां व्रजेत् ॥
दशस्नानानि चैतानि गुणेनोपचितानि च ॥
आदौ वर्णतरुस्नानं साभ्यजं च द्वितीयकम् ॥ ३७० ॥
हैमोदकं च मात्रं च भुमाख्यं च विभूतिमत् ॥
गायत्रं चापि वायव्यं कायिकं मानसं तथा ॥ ३७१ ॥
सन्ध्याकर्म चतुर्थं स्याद्दशधा तत्प्रकीर्तितम् ॥
प्रागुक्तविधिना पूजा मुद्रा दर्शनपूर्विका ॥
अष्टाधिकसहस्रं च जपो मुख्यमिदं स्मृतम् ॥ ३७२ ॥
द्व्येकयोरेवमाचारात्सन्ध्याभेदत्रयं मतम् ॥
सार्चना मुद्रिकायुक्ता तथा चान्या विमुद्रिका ॥ २७३ ॥
अष्टोत्तरसहस्रन्तु तथा चाष्टोत्तरं शतम् ॥
अष्टाविंशतिरष्टौ वा जपे भेदचतुष्टयम् ॥
जपाभावे न सन्ध्यार्घ्यं गायत्र्या सम्प्रदीयते ॥ ३७४ ॥
दशमीयं भवेत्सन्ध्या शूद्रस्तल्लोपतो भवेत् ॥
देवपूजाद्वयं प्रोक्तं नित्यं काम्यं च पञ्चमम् ॥
पञ्चधा पञ्चयज्ञाश्च दशकर्मेति कीर्त्यते ॥ ३७५ ॥
देवभूतर्षिमनुजपितॄणामिति भेदतः ।
तेपि पञ्चविधाः प्रोक्ता उत्तमोत्तममुख्यकाः ॥ ३७६ ॥
पञ्चभेदैश्च सम्भिन्ना एकैकस्य परिच्युतेः ॥
तत्रोच्यते देवयज्ञप्रकारो देवतर्पणम् ॥ ३७७ ॥
वैश्वदेवाहुतिर्नित्योपासनस्याहुतिस्तथा ॥
अग्निहोत्राहुतिश्चैव तत्सूक्तस्य तथा जपः ॥ ३७८ ॥
त्रिविधस्तुबलिः प्रोक्तः शौचान्ते तु त्यजेज्जलम् ॥
तथा च वैश्वदेवान्ते यन्वता इति मन्त्रतः ॥ ३७९ ॥
आत्मोच्छिष्टस्य यच्छेषं तृतीयं तत्प्रकीर्तितम् ॥
अयन्तु भूतयज्ञः स्यात्क्षुद्रबाधानिवारणः ॥ ३८० ॥
अष्टकं प्रपठेन्नित्यं पूजान्ते यतमानसः ॥
तदभावे ध्यानमात्रं वेदानां च पठेदृचः ॥ ३८१ ॥
तदभावे स्ववेदस्य पाठो नित्यमुदीरितः ॥
ऋषियज्ञस्तेन भवेद्विप्रो जन्मनिजन्मनि ॥ ३८२ ॥
आममन्नं यथाशक्त्या प्रातर्देयं तथा पुनः ॥
यज्ञादौ वैश्वदेवान्ते यज्ञोयं मानुषः स्मृतः ॥
तर्पणं हन्तकारश्च पितृयज्ञो द्विधा मतः ॥ ३८३ ॥
यथा बालस्य पठनं पण्डितस्य परावरम् ॥
तथैव सत्कुलीनानां मनो वैदिकवर्त्मनि ॥ ३८४ ॥
भक्ष्यपानाङ्गनारम्ये कौलिके रमते मनः ॥
प्रायः कलियुगे नॄणां नृयोनिस्तेन दुर्लभा ॥ ३८५ ॥
अज्ञानी कौलिकोयन्तुपतितः शूकरो भवेत् ॥
वामाचारान्निपतितो ज्ञानी कुक्कुरतां व्रजेत् ॥ ३८६ ॥
वामे वा कौलमार्गे वा द्वयोः स्यात्सिद्धिरैहिकी ॥
योतिगुप्तः प्रत्यहं च बलिपूजादितत्परः ॥ ३८७ ॥
अथवा परिभूतो वा सर्वलोकबहिष्कृतः ॥
प्रायः कलियुगे देवा धातुवादे धनक्षयः ॥ ३८८ ॥
निन्दा च तान्त्रिके मार्गे नानादुःखानि कौलिके ॥
शैवादिवैष्णवादीनां द्वेषान्निरयगामिनः ॥ ३८९ ॥
एकः शुद्धो मया दृष्टो लोकद्वयफलप्रदः ॥
वेदमार्गोस्त्यत्र सिद्धिः परत्रापि परा गतिः ॥ ३९० ॥
इति ते तत्त्वमाख्यातं सर्वतन्त्रेषु गोपितम् ॥
कलौ सर्वोपकाराय किमन्यच्छ्रोतुमिच्छसि ॥ ३९१ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते वैदिकयन्त्रकथनप्रकाशः पञ्चदशः ॥ १५ ॥
-
चेति शेषः ॥ ↩︎
-
य इति शेषः ॥ ↩︎
-
नश्येयुरिति शेषः ॥ ↩︎
-
त्र्यम्बकं यजामहे इति ॥ ↩︎
-
जातवेदसे सुनवाम सोमम् इति ॥ ↩︎
-
मूलं त्र्यम्बकम् इति ॥ ↩︎
-
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ॥
दुर्गां देवीं शरणमहं प्रपद्ये सुतर सितरसे नमः । ↩︎ -
त्वं पारयानव्य इति मन्त्रः । ↩︎
-
तामग्निवर्णाम् इति ॥ ↩︎
-
इदमुत्तरान्वयि ॥ ↩︎
-
तिस्रादेशाभाव आर्षः ↩︎
-
इदमुत्तरत्र सम्बध्यते ↩︎
-
विधानमिति शेषः ↩︎
-
ब्रह्मतेजोवर्द्धनाय ↩︎
-
इदमुत्तरान्वयि ↩︎