श्रीदेव्युवाच ॥
भगवन्देवदेवेश गुरुणा ज्ञानिना यदा ॥
लोभेन दत्तो मन्त्रश्चेदतो दुःखमवाप्यते ॥ १ ॥
तदा किं देव कर्तव्यं यदा सौख्यं न जायते ॥
इह लोके परत्रापि येन संलभ्यते सुखम् ॥ २ ॥
श्रीमहादेव उवाच ॥
प्रायः कलियुगे देवि गुरवो लोभसंयुताः ॥
शिष्यास्सुखेप्सवोऽभक्ता ह्यतो न क्वापि सिद्धयः ॥ ३ ॥
प्रायोमन्त्रग्रहस्तेन दुःखायैवोपजायते ॥
तदर्थं सम्प्रवक्ष्यामि सर्वतन्त्रेषु गोपितम् ॥ ४ ॥
मन्त्रत्यागं प्रथमतः कृत्वा प्रत्यङ्गिराम्भजेत् ॥
मन्त्रत्यागविधिं वक्ष्ये येन सञ्जायते सुखम् ॥ ५ ॥
विद्वांसं ब्राह्मणं ज्ञात्वा तन्त्रेषु परिनिष्ठितम् ॥
प्रातस्तस्य गृहं गत्वा स्वीयं दुःखं निवेदयेत् ॥ ६ ॥
ततस्तेन प्रकर्तव्यो मन्त्रत्यागविधिः परः ॥
तत्रादौ रम्यभवने कुम्भं दीक्षाविधानतः ॥ ७ ॥
मण्डले स्थापयित्वा तु युतं तीर्थजलैः शुभैः ॥
विलोमन्तन्त्रमन्त्रेण तत्रावाह्येष्टदेवताम् ॥ ८ ॥
सकलीकृत्य सम्पूज्यावरणञ्च प्रपूजयेत् ॥
एवं सावरणां मन्त्री समभ्यर्च्येष्टदेवताम् ॥ ९ ॥
हुनेद्विलोममन्त्रेण गोघतेन सहस्रकम् ॥
अष्टान्वितं शतं वापि ततः सन्तर्पयेदमुम् ॥ १० ॥
ब्रह्मार्पणेन 1 मनुना देवताभ्यो बलिन्ततः ॥
यवान्नैश्चापि दुग्धान्नैर्दिग्विदिक्ष्वध ऊर्ध्वतः ॥ ११ ॥
आयाहीन्द्र सुराधीश शतमन्यो शचीपते ॥
नमस्तुभ्यं गृहाणेमं पुष्पधूपादिकं बलिम् ॥ १२ ॥
आयाहि तेजसा नाथ हव्यवाह वरप्रद ॥
गृहाण पुष्पधूपादि बलिमेनं प्रयोजितम् ॥ १३ ॥
प्रेतनाथ त्वमायाहि भिन्नाञ्जनसमद्युते ॥
बलिन्दत्तं गृहाणेमं सुप्रीतो वरदोभव ॥ १४ ॥
नमस्ते रक्षसां नाथ निर्-ऋते त्वमिहागतः ॥
गृहाण बलिपूजादि मया भक्त्या निवेदितम् ॥ १५ ॥
एहि पश्चिमदिक्पाल जलनाथ नमोस्तु ते ॥
भक्त्या निवेदितां पूजां गृहीत्वा सुखमाप्नुहि ॥ १६ ॥
प्रभञ्जन प्राणपते त्वमेहि सपरिच्छदः ॥
मया प्रयुक्तं विधिवद्गृहाण बलिमादरात् ॥ १७ ॥
कुबेरतारकाधीशावागच्छेतां सुरोत्तमौ ॥
पुष्पधूपादिभिः प्रीतौ भवतां वरदौ मम ॥ १८ ॥
ईश त्वमेहि भगवन्सर्वविद्याश्रय प्रभो ॥
पूजितः पुष्पधूपाद्यैः प्रीतोभव विभूतये ॥ १९ ॥
आयाहि सर्वलोकानां नाथ ब्रह्मन्समर्चनम् ॥
गृहाण सर्वविप्राग्र्य जगत्कर्ते नमोस्तु ते ॥ २० ॥
आगच्छ वरदश्रेष्ठ विष्णो विश्वस्य नायक ॥
पूजितः परया भक्त्या भव त्वं सुखदो मम ॥ २१ ॥
ततः सपरिवारां यः पूजयेन्मन्त्रदेवताम् ॥
मन्त्रेण विपरीतेन पुष्पधूपोपचारकैः ॥ २२ ॥
ततस्तु प्रार्थयेद्विद्वान्पूजितां मन्त्रदेवताम् ॥
अनुकल्पादिनालोच्य मया तरलबुद्धिना ॥ २३ ॥
उपात्तो दुःखदो मन्त्रस्तद्दोषं विनिवर्तय ॥
पापं प्रतिहतं मेस्तु भूयाच्छ्रेयः सनातनम् ॥ २४ ॥
तनोतु मम कल्याणं पावनी भक्तिरेव तु ॥
इति सम्प्रार्थ्य मन्त्रेशं मन्त्रं यन्त्रे विलोमतः ॥ २५ ॥
विलिख्यामलकर्पूरचन्दनेन समर्पयेत् ॥
कलशोपरि संस्थाप्य भक्त्या परमया युतः ॥ २६ ॥
तद्यन्त्रं स्वस्य शिरसि बद्ध्वा स्नायाद्घटोदकैः ॥
मन्त्रपूतैः पुनश्चान्यं कुम्भं तोयैः प्रपूरयेत् ॥ २७ ॥
तन्मध्ये मन्त्रयन्त्रं च निक्षिप्याथ प्रपूरयेत् ॥
तं कुम्भं निम्नगायां च शुद्धे वान्यजलाशये ॥ २८ ॥
विसृजेदथ विप्रांश्च यथाशक्ति प्रपूजयेत् ॥
इत्थं कृतविधानस्य दुर्लभस्य मनोरुजः ॥ २९ ॥
विनश्यन्ति न सन्देहः क्रमाच्चित्तप्रसन्नता ॥
जायतेऽतीवसम्पन्ना वर्धते तत्कुलं सदा ॥ ३० ॥
अथ प्रत्यङ्गिरां वक्ष्ये सारभूतां सुखप्रदाम् ॥
यद्भक्तस्य दृशः पाताद्भूतप्रेताधिदेवताः ॥ ३१ ॥
कदाचिन्नाभिगच्छन्ति साध्यसिद्धिः प्रजायते ॥
शान्तिं पुष्टिं समृद्धिं च साधकाय प्रयच्छति ॥ ३२ ॥
कुलद्वयविदात्मादि मन्त्रार्थज्ञानकोविदः ॥
आचारसंयुतः शुद्धवाक्छुद्धो मनसा तथा ॥ ३३ ॥
शान्तबुद्धिः प्रसन्नात्मा जितक्रोधो जितेन्द्रियः ॥
दम्भाहङ्कारमोहादिविकलो ज्ञानवित्तमः ॥ ३४ ॥
ध्यानयोगसमारूढः सर्वाभीष्टप्रसाधकः ॥
मन्त्रराजमिमं लब्ध्वा जायते स च भूपतिः ॥ ३५ ॥
विनियोगमथो वक्ष्ये चत्वारिंशदृचस्तथा ॥
प्रत्यङ्गिरा मुनिः प्रोक्तश्छन्दोनुष्टुप्प्रकीर्तितम् ॥ ३६ ॥
उग्रा कृत्या देवतास्ति महादेवोथ वा हरिः ॥
विनियोगोत्र सर्वेषु त्वभीष्टेषु तथाविधः ॥ ३७ ॥
आदौ शरीरशुद्ध्यर्थं प्राजापत्यं व्रतं चरेत् ॥
कुशोदकेन संशोध्य पञ्चगव्येन वै पुनः ॥ ३८ ॥
चरुं हविष्यं भुञ्जानः शतमष्टोत्तरं जपेत् ॥
दिनत्रयं ततः सिद्धं मन्त्रं कार्येषु योजयेत् ॥ ३९ ॥
दिक्पालमुद्रासनपल्लवानां विधिं परिज्ञाय जपेत्सुमन्त्रम् ॥
न चान्यथा सिद्ध्यति तस्य मन्त्रः पूतः सदायङ्किल मन्त्रराजः ॥ ४० ॥
लङ्घयेत्प्रत्यरीन्सर्वानभीष्टं चैव जायते ॥
प्रयुक्तो ब्राह्मणे मन्त्रो विपरीतफलो भवेत् ॥ ४१ ॥
जपादौ वा प्रयोगादौ पुरश्चर्यादिके तथा ॥
आदौ शान्तिं प्रकुर्वीत तद्विधानं निगद्यते ॥ ४२ ॥
बार्हस्पत्यः शान्तिमुनिर्विश्वेदेवाः सुरा मताः ॥
छन्दश्च शक्वरी प्रोक्ता शान्त्यर्थं विनियोजनम् ॥ ४३ ॥
तच्छंय्योरावृणीमहे गातुं यज्ञाय ॥
गातुं पज्ञपतये दैवी स्वस्तिरस्तु नः ॥ ४४ ॥
स्वस्तिरस्तु मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् ॥
शं नो अस्तु द्विपदे शं चतुष्पदे ॥ ४५ ॥
नमो ब्रह्मणे नमो अस्त्वग्नये ॥
नमः पृथिव्यै नम ओषधीभ्यः ॥ ४६ ॥
नमो वाचस्पतये नमो विष्णवे महते करोमि ॥
भद्रं नो अपि वातये मनः ॥ ४७ ॥
उच्चरंस्त्रिस्तारपूर्वं मन्त्रान्ते शान्तिरित्यपि ॥
गायत्र्यष्टोत्तरशतं जप्त्वा कर्म समाचरेत् ॥ ४८ ॥
कर्मान्तेपि पुनश्चैवं कृत्वा कर्म समापयेत् ॥
सर्वेषामेव मन्त्राणां बीजम्ॐशक्तिरत्र ह्रीम् ॥ ४९ ॥
तारमायापुटाः 2 सर्वे जप्तव्याः केवला न हि ॥
तदा क्षिप्रं प्रसिद्ध्यन्ति मन्त्रास्तन्त्रेषु निर्णयः ॥ ५० ॥
अश्विनौ तु मुनी प्रोक्तावनुष्टुप्छन्द ईरितम् ॥
कृत्यात्र देवता चास्य नियोगोभीष्टसिद्धये ॥ ५१ ॥
यां 3 कल्पयन्ति नोरयः क्रूरां कृत्यां वधूमिव ॥
तां ब्रह्मणा अपनिर्णुघ्न प्रत्यक्कर्तारमृच्छतु ॥ ५२ ॥
नागत्र्यब्ध्यब्धिवेदेषु नागवर्णैर्ध्रुवादिकैः ॥
ह्रीम्बीजान्तैः षडङ्गानि मन्त्रस्य तु समाचरेत् ॥ ५३ ॥
शिरोभ्रुमध्यक्त्रेषु कण्ठे बाहुद्वये हृदि ॥
नाभावूर्वोर्जानुनोश्च पदानि पदयोर्न्यसेत् ॥ ५४ ॥
चतुर्दशक्रमान्मन्त्री तारमायापुटान्यपि ॥
ततो ध्यायेत्सिंहमुखीं मुक्तकेशां दिगम्बराम् ॥ ५५ ॥
असिचर्मकरां श्यामां दंष्ट्राग्रां सर्वभीषणाम् ॥
ग्रसन्तीमहितान्नुद्रतेजसा ध्यानमीरितम् ॥ ५६ ॥
अयुतं प्रजपेन्मन्त्रं होमस्तस्य दशांशतः ॥
अपामार्गसमिद्भिस्तु होमो हव्यघृतादिभिः ॥ ५७ ॥
त्रिकोणे चार्चयेद्देवीं षड्दलेष्वङ्गपूजनम् ॥
लोकपालास्तदस्त्राणि पूजयेदित्थमर्चनम् ॥ ५८ ॥
एवंसिद्धमनुर्मन्त्री प्रयोगेषु शतं जपेत् ॥
जुहुयाच्च शतं दिक्षु दशमन्त्रैर्बलिंहरेत् ॥ ५९ ॥
यो 4 मे पूर्वगतः पाप्मा पाकेनेह कर्मणा ॥
इन्द्रस्तन्देवमुच्चार्य राजान्ते भञ्जयत्विति ॥ ६० ॥
अञ्जयत्विति चोच्चार्य मोहयत्विति चोच्चरेत् ॥
नाशयतु पदं पश्चान्मारयत्वित्यतो बलिम् ॥ ६१ ॥
तस्मै प्रयच्छतु कृतं ममान्ते च शिवं गम ॥
शान्तिः स्वस्त्ययनं चास्तु बलिमन्त्र उदाहृतः ॥ ६२ ॥
प्रणवाद्याष्टषष्ट्यर्णस्तेनैव वितरेद्बलिम् ॥
अस्मिन्मन्त्रेपूर्वम्पदस्थानेऽग्न्या 5 दिपदं वदेत् ॥ ६३ ॥
इन्द्र इत्यादिकस्थाने अग्निरित्यादिकं पठेत् ॥
एवं तु दश मन्त्राः स्युस्तत्तद्दिक्षु बलिं हरेत् ॥ ६४ ॥
एवं कृते शत्रुकृता कृत्या क्षिप्रं विनश्यति ॥ ६५ ॥
प्रत्यङ्गिरा मुनिः प्रोक्तोऽनुष्टुप्छन्दः प्रकीर्तितम् ॥
कृत्या तु देवता चास्य नियोगो रिपुनिग्रहे ॥ ६६ ॥
शीर्षण्वतीं कर्णवतीं विष्णुरूपां भयङ्करीम् ॥
यः प्राहिणोदिहाद्य त्वं नित्यं योजय स्वस्तिभिः ॥ ६७ ॥
वामदेव ऋषिः प्रोक्तो गायत्री छन्द ईरितम् ॥
कृत्या तु देवता प्राग्वन्नियोगोरिनिवर्तने ॥ ६८ ॥
येन दिष्ट्येह वदसि प्रतिपूरमधापिनि ॥
तमेवातो निवर्तस्व मा स्याम्यत्सो अनागसः ॥ ६९ ॥
मुनिर्वृद्धवशिष्ठोस्यच्छन्दोनुष्टुप्प्रकीर्तितम् ॥
देवः कालाग्निरुद्रोत्र नियोगोरिविनाशने ॥ ७० ॥
अभिवर्तस्य कर्तरि निरस्तां ताभिरोजसा ॥
आयुरस्य निकृन्तस्य प्रजाश्च पुरुषादिनि ॥ ७१ ॥
ऊर्ध्वास्योस्य मुनिः प्रोक्तो नुष्टुप्छन्द उदाहृतम् ॥
देवता यातुधान्योभिचारनाशे नियोजनम् ॥ ७२ ॥
यस्त्वा कृत्ये चकारेह त्वं तं गच्छ पुनर्नवे ॥
आसतीः कृत्यानाशाय सर्वास्तु यातुधान्यः ॥ ७३ ॥
आसाम्प्रयोगं वक्ष्यामि पञ्चानामद्भुतं भुवि ॥
इदं पञ्चर्चकं सूक्तं शुक्लाष्टम्यां समाचरेत् ॥ ७४ ॥
सुमासि पौर्णमास्यां च यदुम्बरभवं समम् ॥
आनयेद्दण्डमेकन्तु पुरुषस्य प्रमाणतः ॥ ७५ ॥
शतनाम स्मरन्दण्डं गृहीत्वाष्टोत्तरं शतम् ॥
सूक्तं जपेत्तदारातिर्दह्यते स महाग्रहैः ॥ ७६ ॥
यदि प्रतिपदारम्भात्कर्म चैतत्समाचरेत् ॥
अष्टप्रादेशमात्रन्तु दण्डं बैभीतकं समम् ॥ ७७ ॥
गृहीत्वोच्चार्यारिनाम जपेत्सूक्तं तदा रिपुः ॥
महाव्याधिगृहीतोसौ म्रियते नात्र संशयः ॥ ७८ ॥
कारस्करस्य चार्कस्य समिधोग्निमुखोद्भवैः ॥
तैलैराक्ता हुनेत्सप्तरात्रमष्टोत्तरं शतम् ॥ ७९ ॥
शत्रुनाशो भवत्यवमथवा केवलं जपम् ॥
मासमेकं प्रकुर्वीतरिपुर्मृत्युमवाप्नुयात् ॥ ८० ॥
श्मशानकाष्ठमय्या तु तालपत्रे लिखेद्रिपोः ॥
ईश्वरस्यालये नामवर्णान्मन्त्रेण गर्भितान् ॥ ८१ ॥
अष्टोत्तरशतं जप्त्वा भूमौ प्रादेशमात्रके ॥
निखतेत्तत्क्षणादेव ज्वरः सत्रोः प्रजायते ॥ ८२ ॥
तत्क्षणं नाशमायाति प्रयोगान्ते तु दक्षिणाः ॥
दद्याद्गोभूहिरण्यादि यथा शक्त्येति तद्विधिः ॥ ८३ ॥
महादेवो मुनिः प्रोक्तोनुष्टुप्छन्दः प्रकीर्तितम् ॥
कृत्या तु देवता चास्य नियोगो रिपुनिग्रहे ॥ ८४ ॥
क्षिप्रं कृत्ये निवर्तस्व कर्तुरेव गृहं प्रति ॥
पशूंश्चैवास्य नाशय वीर्यं चास्य निबर्हय ॥ ८५ ॥
अगस्त्योस्य मुनिः प्रोक्तोनुष्टुप्छन्दः प्रकीर्तितम् ॥
कृत्या तु देवता प्रोक्ता नियोगो रिपुतक्षणे ॥ ८६ ॥
यस्त्वां कृत्ये चकारेह विद्वानपि उपग्रहान् ॥
तस्यैवातः परावृत्य तनुं कृन्धि यथा तरुम् ॥ ८७ ॥
वशिष्ठोस्य मुनिः प्रोक्तोनुष्टुप्छन्दः प्रकीर्तितम् ॥
रुद्रस्तु देवता प्रोक्तो नियोगोरिनिकर्तने ॥ ८८ ॥
प्रतिचित्वावसे धातुब्रह्मणे विष्णुमित्रहम् ॥
अग्निश्च कृत्यं रक्षोहा चोज एकपात् ॥ ८९ ॥
ब्रह्मास्य मुनिराख्यातोऽनुष्टुप् छन्दः प्रकीर्तितम् ॥
कृत्या तु देवता प्रोक्ता नियोगोरिनिकृन्तने ॥ ९० ॥
यथा त्वाङ्गिरसः पूर्वे भृगवश्चायसेधिरे ॥
अत्रयश्च वशिष्ठश्च तथैव नायसेधि माम् ॥ ९१ ॥
अग्निरस्य मुनिः ख्यातस्त्रिष्टुप्छन्दः प्रकीर्तितम् ॥
कृत्या तु देवता प्रोक्ता नियोगोरिनिकर्तने ॥ ९२ ॥
यस्ते परूंषि स दधौ रथस्यैवं विभूर्धिया ॥
तन्त्रच्छतगते जननज्ञास्तेजनो यतः ॥ ९३ ॥
अथ वक्ष्येऽस्य चोक्तस्य पञ्चर्चस्य विधिं शुभम् ॥
भुञ्जानः कपिलाक्षीरमनुवाकं त्र्यहं जपेत् ॥ ९४ ॥
क्षुत्तृड्द्वन्द्वादिरहितो ब्रह्मचर्यरतो भवेत् ॥
प्रयोगेस्मिंस्तु विज्ञेयाः कामक्रोधादयोरयः ॥ ९५ ॥
पलाशस्य समिद्भिस्तु मधुरैर्दधभिः प्लुतैः ॥
हुनेदष्टसहस्रं तु ब्रह्मवर्चसवान्भवेत् ॥ ९६ ॥
गोरत्र दक्षिणा प्रोक्ता पलाशसमिधो हुनेत् ॥
दुग्धाक्ताश्चाष्ट शतकं सप्तभिर्दिवसैर्ग्रहाः ॥ ९७ ॥
उपग्रहाः पलायन्ते शान्तिः सर्वत्र जायते ॥
एवं हुत्वा पिप्पलस्य समिद्भिर्यश आप्नुयात् ॥ ९८ ॥
नदीतीरे श्मशाने च भद्रकालालयेपि वा ॥
कृत्वा तद्भस्मनो राशिं ध्यात्वायन्नाम चेतसा ॥ ९९ ॥
जपेदष्टसहस्रं स सप्ताहाज्जायतेक्षरी ॥
तदेव भस्माहोरात्रं मन्त्रितं गोष्ठके क्षिपेत् ॥ १०० ॥
सद्यो गोश्च सुखं तत्र जायते नात्र संशयः ॥
पौर्णमास्यामुपोष्याथ रजन्यामङ्गुलीयकम् ॥ १०१ ॥
स्वरक्षार्थं च सन्धार्य जपेदष्टसहस्रकम् ॥
महाराजसमः स स्यादाज्ञया विभवेन च ॥ १०२ ॥
नित्यमष्टोत्तरशतं विष्णोर्देवालये जपेत् ॥
षण्मासाभ्यन्तरेणैव तस्य पूर्णा नमोरथाः 6 ॥ १०३ ॥
संवत्सरजपादेवं ब्रह्मणा सदृशो भवेत् ॥
तिलान्भारशतं दद्याद्दक्षिणां तेस्य पाठिने ॥ १०४ ॥
भृगुर्मुनिरनुष्टुप् च छन्दः कृत्या च देवता ॥
सङ्ग्रामविजये चैव विनियोगः प्रकीर्तितः ॥ १०५ ॥
यो नः कृत्ये रणस्थो वा जनो वान्यो हि हिंसति ॥
तस्य त्वं देवि विद्ध्वाग्निं तनुमृच्छ स्वहेतिना ॥ १०६ ॥
अगस्त्यस्तु मुनिः प्रोक्तश्छन्दोनुष्टुबुदाहृतम् ॥
देवी कृत्या नियोगस्तु विवादादौ जयाय च ॥ १०७ ॥
मनाः शर्यादेनहविमस्य क्षियन्तं या कृत्वने ॥
सरस्वतीत्यवकृत्यमच्छिषस्तस्य किञ्चन ॥ १०८ ॥
महादेवो मुनिः कृत्या देवताछन्द ईरितम् ॥
अनुष्टुप् च नियोगस्तु विवादादौ जयाय च ॥ १०९ ॥
मनः कश्चिदुहारातिर्मनसा प्रतिभूरिति ॥
दूरस्थो वान्तिकस्थो वा तस्य हृद्यसृक् पिब ॥ ११० ॥
मुनिरग्निरनुष्टुप् च छन्दः कृत्या च देवता ॥
दुस्साध्यकार्यसिद्ध्यर्थं विनियोगोस्य कीर्तितः ॥ १११ ॥
येनासि कृत्ये प्रहिता छद्मनास्मज्जिघांसया ॥
तस्य व्यनेच्चाव्यनहीनस्तहरसाशनिः ॥ ११२ ॥
गौतमो मुनिराख्यातोनुष्टुप् छन्दोस्यदेवता ॥
कृत्यामार्गस्थचौरादिनाशे तु विनियोजनम् ॥ ११३ ॥
यो नोसि वासः प्रस्थानः परा याति पराचतम् ॥
तैर्देविरात्र्याः कृत्ये नो गमयेमान्निकृन्तय ॥ ११४ ॥
अथैतस्यानुवाकस्य प्रयोगः कीर्त्यतेधुना ॥
शुक्लपक्षप्रदिपदमारभ्य प्रत्यहं जपेत् ॥ ११५ ॥
अष्टोत्तरसहस्रन्तु पौर्णमास्यन्तमेव च ॥
भक्षयेत्कपिलाक्षीरं हविष्यौदनमेव च ॥ ११६ ॥
श्रोत्रियालयभिक्षां वा सर्वकृत्यानिवारणे ॥
समर्थोदर्शनादेव भवेद्भूतस्य का कथा ॥ ११७ ॥
जयेत्तथापमृत्युं च यक्षगन्धर्वराक्षसान् ॥
स्कन्दग्रहब्रह्मरक्षोपस्मारादिगदांस्तथा ॥ ११८ ॥
सर्वे रोगा विनश्यन्ति वृद्धिश्चैवोत्तरोत्तरम् ॥
सर्वोपद्रवशान्तिः स्याद्भवने साधकस्य तु ॥ ११९ ॥
नित्यमष्टोत्तरं हुत्वा घृताक्ताञ्छालितण्डुलान् ॥
सर्वव्याधिविनाशः स्याच्छिवमेव दिनेदिने ॥ १२० ॥
अष्टोत्तरसहस्रं तु तिलमाषचरुं हुनेत् ॥
घृताक्तं सर्वरोगाणां त्वरितं शान्तिकं स्मृतम् ॥ १२१ ॥
पलाशपुष्पं च तिलान्सुरभीघृतसंयुतान् ॥
हुत्वा चाष्टोत्तरशतं मासं तत्सर्वदुःखहृत् ॥ १२२ ॥
महोत्पातस्य शान्तिश्च जीवेद्वर्षशतं तथा ॥
देया स्वर्णाङ्गुलीयादि दक्षिणा मन्त्रपाठिने ॥ १२३ ॥
अङ्गिरा मुनिरुद्दिष्टो गायत्री छन्द ईरितम् ॥
देवोग्निर्विनियोगस्तु सर्वशत्रुनिकर्त्तने ॥ १२४ ॥
यद्युवेशद्विपदेस्मानर्दिवेष चतुष्पदी ॥
निरेस्था नो व्रजास्माभिः कर्तुं त्वष्टपदीगृहान् ॥ १२५ ॥
मुनिर्ज्वरस्तु भगवांस्त्रिष्टुप्छन्द उदाहृतम् ॥
मृत्युर्देवो नियोगस्तु जराभवतु शत्रवे ॥ १२६ ॥
यन्द्विष्मो यश्च द्वेष्ट्यघायुर्यस्य न संशयः ॥
शुने पिपृमि वक्ष्यामि तं प्रत्यस्मत्वमृत्यवे ॥ १२७ ॥
ब्रह्मास्य मुनिराख्यातोनुष्टुप्छन्दः प्रकीर्तितम् ॥
अग्निर्देवो नियोगस्तु शत्रुविद्वेषणे मतः ॥ १२८ ॥
यश्च यायज्ञः शपथो यश्च मामीश याति नः ॥
ब्रह्माचपकुद्धशयाशर्वतत्कन्धस्पतिम् ॥ १२९ ॥
देवता भौम उद्दिष्टो मुनिः कश्यप ईरितः ॥
अनुष्टुप्च्छन्द उद्दिष्टं नियोगोरिपलायने ॥ १३० ॥
सबन्धुश्चाप्यबन्धुश्च यो अस्म अभिदा मति ॥
तस्य त्वसिन्धयिष्टाय दावित्सर्प ताक्षिरः ॥ १३१ ॥
पञ्चर्चस्य प्रयोगोस्या धना चात्र प्रवक्ष्यते ॥
समुद्रगामिनीं गत्वा जपेदष्टोत्तरं शतम् ॥ १३२ ॥
जपेन्नित्यमहोरात्रं समुद्दिश्य जलाञ्जलीन् ॥
अष्टाविंशतिसङ्ख्याकान्दद्यात्तद्वत्पुनर्जपेत् ॥ १३३ ॥
सप्ताहान्म्रियते शत्रुरस्य रोगी न संशयः ॥
बिभीतदण्डमाधाय चैकप्रादेशसम्मितम् ॥ १३४ ॥
शत्रुनाम स्मरन्धृत्वा नित्यमष्टोत्तरं शतम् ॥
जपेन्मनुं रिपुकुलं ज्ञाताज्ञाविनश्यति ॥ १३५ ॥
अपराधं विना द्वेष्टा स तु कुष्ठी प्रजायते ॥
अष्टाविंशतिसङ्ख्या यः पश्यन्भानुं रिपुं स्मरन् ॥
अन्वहं प्रजपेच्छत्रुर्ज्वरेण परिपीड्यते ॥ १३६ ॥
तिलतैलाक्तसमिधां होमश्चाष्टशतं भवेत् ॥
शत्रोः पुत्रकलत्राश्वगजताद्यं विनयश्यति ॥ १३७ ॥
हिरण्यं दक्षिणां दद्यात्प्रयोतान्ते च शान्तिकम् ॥
प्रायश्चित्तं पुनः कुर्यान्मुक्तदोषः प्रजायते ॥
द्विजानः देवभक्तानां जातु कुर्यान्न विप्रियम् ॥ १३८ ॥
कालाग्निरुदो देवस्तूपमन्युग कथितो मुनिः ॥
बृहती छन्द उद्दिष्टं नियोगोस्यारिनाशने ॥ १३९ ॥
अभिप्रेहिशुभप्राक्षं युक्ताशु शपथं रथे ॥
शत्रुर्न तिष्ठति कृत्ये वृको वा विमतो गृहात् ॥ १४० ॥
मुनिः सभ्यतपाः प्रोक्तो बृहती छन्द ईरितम् ॥
ज्वलनो देवता चास्य नियोगोऽरिपलायने ॥ १४१ ॥
परिणो वृद्धिशपथादहन्नग्निरिव ह्रदे ॥
शत्रूनेवाभिनोज्ञेहि दिव्यावृक्षमिवाशनिः ॥ १४२ ॥
अङ्गिरास्तु मुनिश्छन्दोनुष्टुप् कृत्या च देवता ॥
गजाऽजतुरगादीनां नियोगो रिपुमोहने ॥ १४३ ॥
असपत्नं पुरस्तान्नः शिवं दक्षिणतस्कृधि ॥
अभयं सततं पश्चाद्भर उत्तरतो गृहे ॥ १४४ ॥
मुनिः कश्यप इत्युक्तो बृहती छन्द ईरितम् ॥
देवी कृत्या नियोगस्तु रिपूणां त्रासनाय च ॥ १४५ ॥
परे हि कृत्ये मातिष्ठ वृद्धसेवपदं नय ॥
मृगास्यहि मृगोरिः प्रान्तत्वानि कर्तुमर्हति ॥ १४६ ॥
एतस्यैवानुवाकस्य प्रयोगः कीर्त्यतेधुना ॥
कृष्णाष्टमीं समारभ्य यावच्छुक्लाष्टमी भवेत् ॥ १४७ ॥
इष्ट्वा माहेश्वरं लिङ्गं जपन्नाशयति क्षणात् ॥
अभिचारिक कृत्यादीन्हयानां हस्तिनामपि ॥ १४८ ॥
विनाशयेन्महाव्याधिं संस्ष्ट्वा रुद्रकालिकाम् ॥
जपेन्नश्येदरिस्तस्य रक्षितोपीश्वरेण चेत् ॥ १४९ ॥
दक्षिणाभिमुखो रुद्राज्जपे दष्टोत्तरं शतम् ॥
नित्यञ्जपेदेक विंशद्दिनावधि तथा रिपोः ॥ १५० ॥
कलत्रादिकनाशः स्याद्दक्षिणा कम्बलद्वयम् ॥
आत्मरक्षा च कर्तव्या रुद्रन्यासावधानतः ॥ १५१ ॥
मुनिः शर्वः सर्वसुरश्छन्दोनुष्टुप्प्रकीर्तितम् ॥
दाहनार्थं पुरादीनां नियोगोस्य भवेत्तथा ॥ १५२ ॥
अग्न्यास्यघोररूपेपि पुरुषेपि विनाशिनी ॥
जृम्भिता प्रतिगृह्णस्व प्रमादाय हि चाद्भुतम् ॥ १५३ ॥
अर्को मुनिरनुष्टुप् च च्छन्दः कृत्यास्य देवता ॥
अतिक्रुद्धस्य राजादेः कोपशान्त्यै नियोजनम् ॥ १५४ ॥
त्वमिन्द्रो यमो वरुणस्त्वमापोपि च रथोनिलः ॥
त्वं ब्रह्मा चैव रुद्रश्च त्वष्टा चैव प्रजापतिः ॥ १५५ ॥
छन्दस्तु देवी गायत्री देवते चाश्विनौ मतौ ॥
मुनिरिन्द्रो नियोगस्तु त्वरितं रोगनाशने ॥ १५६ ॥
आवर्तध्वं निवर्तध्वमृतवः परिवत्सराः ॥
अहोरात्रास्तथाब्दाश्च दिशः प्रतिदिशश्च मे ॥ १५७ ॥
गालवो मुनिराख्यातो मित्रो देवः प्रकीर्तितः ॥
त्रिष्टुप्छन्दो नियोगस्तु कर्तव्योद्भुतकर्मणे ॥ १५८ ॥
त्वं यमं वरुणं सोमं त्वमापोग्निमथानिलम् ॥
अत्राहृत्य पशूंश्चैव चोत्पादयसि चाद्भुतम् ॥ १५९ ॥
मुनिर्विष्णुः सुरो विष्णुरनुष्टुप्छन्द उच्यते ॥
नियोगो यस्य कस्यापि रक्षणार्थमुदाहृतम् ॥ १६० ॥
यो मेरुगर्भशयानं विश्वस्य हितं पुरुषं विजहुः ॥
कुम्भीवपाकं नरकं जनाग्रीयं पञ्चवर्षाश्च एवं पुरुषोसोमपस्य ॥ १६१ ॥
पञ्चर्चमनुवाकन्तु ये जपन्तीह नित्यशः ॥
पूर्वकर्मसमुद्भूतमाधिव्याधिभयं हरेत् ॥ १६२ ॥
यथात्रपरिशिष्टस्था ऋगेका प्रोच्यतेधुना ॥
तां जपन्सततञ्जन्तुर्नारिभिः परिभूयते ॥ १६३ ॥
येन्द्र सुत्र्यजवेमह्यमग्ने कदा धियो दुर्मदो अग्रनासः ॥
अवध्यैतानुशोचिषायिण्यतौ भूत्यैवस्वतस्यसनेमयस्याः ॥ १६४ ॥
मुनिः शुक्रो ब्रह्म देवश्छन्दोनुष्टुबुदाहृतम् ॥
स्त्रियो वै मोहनाशाय नियोगोस्य प्रकीर्तितः ॥ १६५ ॥
अत्यक्ता रक्तास्वलङ्कृतः सर्वतो दुरितं वह ॥
जातीयाश्चैव कृत्यानां शत्रुहन्याय चेतसः ॥ १६६ ॥
वसवो मुनयः प्रोक्ताः परमात्मा च देवता ॥
छन्दोनुष्टुब्नियोगोस्य दुर्वध्यारिविनाशने ॥ १६७ ॥
यथा हति पुरासीनं तथैवस्वत्सकृन्नरः ॥
तथा त्वया युजा वयं तस्य निकुप्नः स्थातुजङ्गमम् ॥ १६८ ॥
अग्निस्तु देवता प्रोक्ता मुनिरिन्दुः प्रकीर्तितः ॥
छन्दोनुष्टुब्नियोगस्तु चास्य शत्रुविनाशने ॥ १६९ ॥
उत्तिष्ठेवनरहीनो जातेह्निभिहेच्छसि ॥
या वास्ते कृत्ययादौ तु प्रतिकृत्स्यामिविद्रवः ॥ १७० ॥
मुनिः शान्तायनः प्रोक्तः परमातत्र देवता ॥
छन्दोनुष्टुब्नियोगस्तु तपोविघ्नकराश्च ये ॥ १७१ ॥
लोभालस्यादयो वाथ दृश्यन्ते ये तपोपहाः ॥ १७२ ॥
तपोविघ्नकराः पाठे स्वायुधाश्शमिदं पठेत् ॥ १७३ ॥
स्वायुधाः सन्ति नोरयो विघ्नं चैवं परूंषि ते ॥
तैस्तैर्निकपला पापिनोजीवयस्यरीन् ॥ १७४ ॥
भगीरथो मुनिर्ब्रह्मा छन्दोनुष्टुबुदाहृतम् ॥
पापारीणां च पापस्य नाशाय विनियोजनम् ॥ १७५ ॥
मास्याच्छिषो द्विपदं तनोचकि चतुष्पदम् ॥
माज्ञातीतन्तु जानस्यान्मनवे क्षिप्रवेशिनौ ॥ १७६ ॥
पञ्चर्चमनुवाकन्तु नित्यमष्टोत्तरं शतम् ॥
यो जपेत्पूजयेद्रुद्रं तस्य शत्रुक्षयो भवेत् ॥ १७७ ॥
सर्वकृत्याप्रशन्तिश्च सर्वलोकवशीकृतिः ॥
रुद्रालये सहस्रन्तु जपन्व्याधिं निबर्हयेत् ॥ १७८ ॥
कार्पासबीजं लवणम् घृतमष्टसहस्रकम् ॥
हुत्वा सूर्यस्याभिमुखमष्टाविंशतिसङ्ख्यया ॥ १७९ ॥
जपेद्दृष्टेस्तु संस्तम्भः समुद्रमपि शोषयेत् ॥
अत्रैव मननाभ्यासाद्विद्वत्ता सूपपद्यते ॥ १८० ॥
अङ्गिरास्तु मुनिः प्रोक्तः कालो मृत्युश्च देवते ॥
छन्दोनुष्टुब्नियोगस्तु सुदुर्लभप्रसाधने ॥ १८१ ॥
शत्रूयता प्रहितासि मां ये ताभिमधर्वतः ॥
ततस्तथा त्वदनु यो मततुर्यायश्रितः ॥ १८२ ॥
अङ्गिरास्तु मुनिः प्रोक्तो महादेवोस्य देवता ॥
नियोगच्छन्द उद्दिष्टं नियोगः पापकर्तने ॥ १८३ ॥
एवं त्वनिकृतास्माभिर्ब्रह्मणा देवि सर्वशः ॥
वधेत माष्विनो गत्वा पापधीनेव नो न हि ॥ १८४ ॥
अङ्गिरास्तु मुनिः प्रोक्तोनुष्टुप्छन्दः प्रकीर्तितम् ॥
देवी कृत्या नियोगस्तु शत्रूणां शोषणे मतः ॥ १८५ ॥
यथा विद्युद्धतो वृक्ष आमूलादनुशुष्यति ॥
एवं प्रतिशुष्यति स यो मे पापं चिकीर्षति ॥ १८६ ॥
कठो मुनिर्महादेवो देवोनुष्टुबुदाहृतम् ॥
स्त्रिया कृताभिचारादौ यामंयामं पठेदिदम् ॥ १८७ ॥
यथा प्रतिशुको भूत्वा तमेव प्रतिधावति ॥
पापन्तमेव धावतु यो मे पापं चिकीर्षति ॥ १८८ ॥
भृगुरस्य मुनिः प्रोक्तो विश्वे देवास्तु देवताः ॥
छन्दोनुष्टुप् तथा योगो दुर्गस्थाने सुखाय च ॥ १८९ ॥
या नश्चेक्षरणे यश्च निष्ण्यौ निघनागूंसति ॥
देवास्ते सर्वं धुन्वन्तु ब्रह्मवर्म ममाचरम् ॥ १९० ॥
पञ्चर्चस्यास्य वर्गस्य प्रयोगो वक्ष्यतेधुना ॥
हुनेदष्टोत्तरशतं घृताक्ततिलतण्डुलान् ॥ १९१ ॥
मासाष्टकेन चान्नादिवृद्धिर्भवति भूयसी आयुष्कामो हुनेद्देव्यामृतमष्टोत्तरं शतम् ॥ १९२ ॥
स्वजन्मदिवसेब्देस्मिन्नपमृत्युं जयत्यसौ ॥
सर्वपापक्षयश्चैव चित्तशान्तिः प्रजायते ॥ १९३ ॥
पलाशकुसुमैरष्टशतं हुत्वा द्विजर्षभः ॥
ब्रह्मतेजोमयस्तस्य भाति देहोतिभास्वरः ॥ १९४ ॥
ब्रह्मवृक्षसमिद्भिस्तु कुसुमैर्बाकुलाक्षतैः ॥
वृताक्तैरष्टसाहस्रं हुत्वा पातकनाशनम् ॥ १९५ ॥
अमुनैवानुवाकेन यः कुर्यादनलार्चनम् ॥
सर्वपापक्षयस्तस्य वर्षमध्ये प्रजायते ॥ १९६ ॥
अष्टोत्तरसहस्रं तु मनुं जप्त्वा समापयेत् ॥
मनोरस्यार्णसङ्ख्याकान्देवताप्रीतिकारकैः 7 ॥ १९७ ॥
दिव्यैस्तु भोजयेद्विप्रान्देवताराधनक्षमान् ॥
तदभावे वैदिकांश्च मनुर्वेदमयो यतः ॥ १९८ ॥
तदाम्नायप्रवृत्तोन्यांस्तदभावे तु भोजयेत् ॥
एवं गुरुत्याग उक्तः सर्वतन्त्रेषु गोपितः ॥ १९९ ॥
असिद्धो यः स्वयं शिष्यं कथं सन्तारयिष्यति ॥
देवत्यागं प्रवक्ष्यामि सर्वतन्त्रेषु गोपितम् ॥ २०० ॥
कृतनित्यक्रियः पूजां देवतायाः समाचरेत् ॥
सङ्कल्पन्तु ततः कुर्याद्देवत्यागादिपूर्वकम् ॥ २०१ ॥
स्वनामगोत्रं चोच्चार्य मनसा संस्मरन्हरिम् ॥
परोक्षं वा समक्षं वा गुरोः सम्प्रार्थयेत्सुरम् ॥ २०२ ॥
त्रैलोक्यनाथ जगदीश महेश्वरस्त्वं मत्कान्तकोटिजठराद्भुतशान्तिचिद्भिः ॥
यत्त्वं मयाल्पमतिना द्विभुजादिदेही ध्यातोपराधशतकं मम तत्क्षमस्व ॥ २०३ ॥
त्वं सूर्यचन्द्रदहनेशगणेशविष्णुब्रह्मेन्द्रशक्तिनरनागगतस्वरूप् अः ॥
ध्यातोसि चाल्पविषये परिपूजितोसि तन्मेपराधशतकं भगवन्क्षमस्व ॥ २०४ ॥
देवोपि नो न मनवो न च भारती त्वां जानन्ति मन्दमतिनात्र च किं बहूक्त्या ॥
ध्यातोल्पकं त्वमपराधकृता मयेदं पापं क्षमस्व करुणाकर दीनबन्धो ॥ २०५ ॥
ध्यानं करोमि मनसा न च वेद्मि रूपं मन्त्राक्षरात्मकमिदं परिभावयामि ॥
रूपं त्वदीयमिति यत्प्रवदन्ति वेदाः सिद्धिर्जपान्न च बहिष्कृतपूजनाद्यैः ॥ २०६ ॥
एवं सम्प्रार्थ्य देवेशं प्रणामैर्दण्डवत्पुनः ॥
मन्त्रमूर्त्यादिकं सर्वं गुरवे तत्समर्पयेत् ॥ २०७ ॥
तदभावे पूजकाय तद्भक्ताय प्रदापयेत् ॥
कुर्याज्जपं द्विगुणितं सर्वत्रापि च तद्दिनात् ॥ २०८ ॥
प्राग्वच्च भोजयेद्विप्रान्गुर्वादींश्चापि तोषयेत् ॥
एवन्तु देवतात्यागो मया तुभ्यं निवेदितः ॥ २०९ ॥
इति वैदिकमन्त्रेण सुसभ्यानां कलौयुगे ॥
विधिर्मया निगदितः किमन्यच्छ्रोतुमिच्छसि ॥ २१० ॥
इति “रीमहामायामहाकालानुमते मेरुतन्त्रे श्रीशिवप्रणीते प्रत्यङ्गिरामन्त्रकथनप्रकाशश्चतुर्दशः ॥ १४ ॥
-
ॐ तत्सत्प्राणबुद्धिदेहधर्माधिकारजाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणाभ्यन्तरा यच्चोदरेण शिश्ना वा यच्च स्मृतं यदुक्तं यच्च कृतन्तत्सर्वं ब्रह्मार्पणं भवेद्भूस्स्वाहा । ↩︎
-
१- ॐ । २।
ह्रीम् । ↩︎ -
अस्य मन्त्रस्य ब्रह्मा ऋषिरनुष्टुप्छन्दः प्रत्यङ्गिरा देवत्ॐ बीजं ह्रींशक्तिः कृत्यानाशने विनियोगः ॐ ह्रीमितिबीजाभ्यां सम्पुटितः सप्ताधिकत्रिंशदक्षरो मन्त्रो भवति ।
अष्टत्रिचतुश्चतुः पञ्चाष्टाक्षरैः प्रणवाद्यैर्ह्रीमन्तैरङ्गन्यासं कुर्यात् ।
यथा - ॐ यां कल्पयन्ति नोरयः ह्रीं हृदयाय नमः ॐ क्रूरां कृत्यां ह्रीं शिरसे स्वाहा ॐ वधूमिव ह्रीं शिखायै वषट् ॐ तां ब्रह्मणा ह्रीं कवचाय हुम् ॐ अपनिर्णुघ्न ह्रीं नेत्रत्रयाय वौषट् ॐ प्रत्यक्कर्तारमृच्छतु ह्रीम् अस्त्रायफट् - शिर आदिषु मन्त्रपदैर्ॐ ह्रीम्माद्यन्तैर्न्यसेत् ॥ ↩︎ -
यो मे पूर्वगतः पाप्मापापकेनेह कर्मणा ॥
इन्द्रस्तं देवराजा भञ्जयतु अञ्जयतु मोहयतु नाश यतु मारयतु अतः बलिं तस्मै प्रयच्छतु कृतं मम शिवं मम शान्तिः स्वस्त्ययनं चास्तु एतन्मत्रेण पूर्वमिन्द्रं यजेत् । ↩︎ -
पुनरेवानयैवरीत्या ।
शक्रपदस्थाने वह्न्यादिपदानि सम्मेल्य दिक्पालानां तत्तदिक्षु बलिं हरेत् ↩︎ -
स्युरिति शेषह् ॥ ↩︎
-
इदमुत्तरान्मयि ॥ ↩︎