१३ नवग्रहकथनप्रकाशः

श्रीदेव्युवाच ॥

अहो दुःखप्रदाः खेटाः प्रायः कलियुगे सदा ॥
तेषां तु वेदमार्गेण कीदृक्पूजा मनुश्च कः ॥ १ ॥

कथन्ते दोषमायादिपीडा यच्छन्ति नो नृणाम् ॥
वेदमार्गेण च ब्रूहि तेषां पूजाविनिर्णयम् ॥ २ ॥

श्रीशिव उवाच ॥

साधु पृष्टं त्वया देवि ग्रहपूजाविनिर्णयः ॥
विना कालं तु दुःखेन सर्वान्सम्पीडयन्ति हि ॥ ३ ॥

नीचं कुर्वन्ति चोच्चस्थाः खेचराश्चक्रवर्तिनम् ॥
चक्रवर्तिसुतं दासं यदा ते नीचसंस्थिताः ॥ ४ ॥

आत्मा सूर्योस्ति कालस्य मनः शुभ्रांशुरुच्यते ॥
सत्त्वं भौमो वचश्चान्द्रिर्जीवो ज्ञानसुखे तथा ॥ ५ ॥

सितः कामः शनिर्दुःखं छाया राहुः शिखी शिखा ॥
खेटोपासनतो मर्त्यस्त्रिकालज्ञः प्रजायते ॥ ६ ॥

वैदिकेन तु मार्गेण ये ग्रहान्समुपासते ॥
ग्रहलोके तु ते सौख्यं ग्रहैश्च सह भुञ्जते ॥ ७ ॥

तत्र भास्करमन्त्रस्य हिरण्यस्तूपको मुनिः ॥
त्रिष्टुप्छन्दो देवता तु सविता परिकीर्तितः ॥ ८ ॥

आकृष्णेन 1 कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ॥
हिरण्ययेन सवितारथेन देवो याति भुवनानि पश्यन् ॥ ९ ॥

अङ्गुष्ठादिषडङ्गादिषड्वर्णान्विभजंश्चरेत् ॥
भुवनस्याथ मन्त्रस्य पदन्यासं समाचरेत् ॥ १० ॥

श्रीसूक्तोक्त-ऋचां स्थाने ततो ध्यायेद्दिवाकरम् ॥ ११ ॥

पद्मासनं पद्मकरं पद्मगर्भसमद्युतिम् ॥
सप्ताश्वं सप्तखड्गं च जातं देशे कलिङ्गके ॥ १२ ॥

विश्वामित्रार्यकं त्रिष्टुप्छन्दः काश्यपगोत्रजम् ॥
रक्ताम्बरधरं रक्ताभरणैरुपशोभितम् ॥ १३ ॥

रक्तगन्धानुलेपाङ्गं रक्तध्वजपताकिनम् ॥
किरीटिनं सकेयूरं मण्डितं रक्तच्छत्रिणम् ॥ १४ ॥

रथारूढं तस्य सव्यं त्वधिदैवाग्न्यधिष्ठितम् ॥
प्रत्यधिदैवेश्वरेणासव्ययुक्तं च प्राङ्मुखम् ॥ १५ ॥

ध्यात्वैवं पूजयेद्भानुं फुल्लाक्षतविनिर्मिते ॥
द्वादशाङ्गुलयुक्ते च श्रीपर्णादिकपीठके ॥ १६ ॥

अत्राधिदैवतं पूज्यं तथा प्रत्यधिदैवतम् ॥
वर्णलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥ १७ ॥

होमस्वाल्प्ये जपः कार्यस्त्वधिप्रत्यधिदैवते ॥
करवीरादिकुसुमै रक्तचन्दनमिश्रितैः ॥ १८ ॥

दूर्वाङ्कुरैश्चाक्षतैश्च तर्पणं स्याद्दिनेशितुः ॥
मधुच्छन्दा मुनिश्छन्दो गायत्र्यग्निश्च देवता ॥ १९ ॥

विनियोगस्तु सवितुः प्रीतये चेति कीर्तयेत् ॥ २० ॥

अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम् ॥
होतारं रत्नधातारम् ॥ २१ ॥

वामदेवो मुनिश्छन्दोनुष्टुब्रुद्रस्तु देवता ॥
विनियोगस्तु सवितुः प्रीतये चेति कीर्तयेत् ॥ २२ ॥

आ वो राजानामध्वरस्य रुद्रगूंहोतारगूं सत्ययजरोदस्योः ॥
अग्निं पुरा तनयित्नो सविता हिरण्यरूपमवसे कृणुध्वम् ॥ २३ ॥

होमस्त्वर्कसमिद्भिः स्यादभावे कमलाक्षकैः ॥
तदभावे यवतिलघृतैर्वा मधुरत्रयैः ॥ २४ ॥

अदृष्टसूर्यो नाश्नीयान्न रात्त्रौ भानुवासरे ॥
त्यजेच्च लवणं तक्रं दिवा स्वापं च मैथुनम् ॥ २५ ॥

त्रिकालं प्रजपेत्सूक्तं पूजयेत्तु विशेषतः ॥
एवं सिद्धे मनौ जाते नृपाः स्युस्तस्य किङ्कराः ॥ २६ ॥

तस्य पादोदकादेव रोगसङ्घो विलीयते ॥
सिद्धमन्त्रो मुमूर्षुस्तु च्छायां पश्यत्यशीर्षिकाम् ॥ २७ ॥

कुष्ठादिरोगग्रस्तस्तु साधकोर्घ्याणि दापयेत् ॥
आरोग्यार्थं त्वृचा पादैरथ ऋक्त्रितयैः स्वयम् ॥ २८ ॥

एवं चतुर्विंशतिभिरिष्ट्वा सूर्यं तु तर्त्पयेत् ॥
त्रिकालाद्यैस्तदा हन्ति दुःसाध्यानपि भास्करः ॥ २९ ॥

पुष्पाणि करवीरस्य रक्तचन्दनचन्दने ॥
दूर्वाक्षते कुशाग्राणि तिलांस्तत्त्रयमेव च ॥ ३० ॥

एतान्यावश्यकान्याहुरर्चनेष्टौ यथोत्तरम् ॥
निक्षिप्य ताम्रपात्रे तु कस्तूरीं केशरं विधुम् ॥ ३१ ॥

मन्त्रैर्वापि च गायत्र्या जानुभ्यां धरणीं गतः ॥
दृष्ट्वा सूर्यं नमस्कृत्य दद्यादर्घ्यमनन्यधीः ॥ ३२ ॥

अभिषिञ्चेच्च शिरसि ऋचाभिर्दत्ततोयकैः ॥
त्यजेत्पूर्वोदितं सर्वं भानुवारे विशेषतः ॥ ३३ ॥

कुष्ठाद्या ये महारोगाः षण्मासाद्यान्ति सङ्क्षयम् ॥
उपकुष्ठादयो ये च कृते सन्ध्याद्वयेपि ते ॥ ३४ ॥

एकसन्ध्यार्चनेनापि सूर्यावर्तादयो गताः ॥
केचित्तु सप्ततिदिनैर्मण्डलेन त्रिसप्तकैः ॥ ३५ ॥

सप्तमेनापि चैकाहात्तारतम्यं विचारयेत् ॥
स्वप्यान्नैवोदयेस्ते च पूजयित्वेष्टमाप्नुयात् ॥ ३६ ॥

उद्यन्नद्य मित्रमहमारोहन्नुत्तरां दिवम् ॥
हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥ ३७ ॥

शुकेषु मे हरिमाणं रोपणाकासु दध्मसि ॥
अथो हारिद्रवेषु मे हरिमाणं निदध्मसि ॥ ३८ ॥

उदगादयमादित्यो विश्वेन महसा सह ॥
द्विषन्तं मह्यं रन्धयन्मो अहं द्विषतेरघम् ॥ ३९ ॥

एकादशर्चसूक्तस्य हिरण्यस्तूपको मुनिः ॥
त्रिष्टुब्जगत्यौछन्दसी देवता सविता मतः ॥ ४० ॥

ह्वयाम्यग्निं प्रथमं स्वस्तये ह्वयामि मित्रावरुणाविहावसे ॥
ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारमूतये ॥ ४१ ॥

आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतम्मर्त्यं च ॥
हिरण्ययेन सविता रथेन देवो याति भुवनानि पश्यन् ॥ ४२ ॥

याति देवः प्रवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् ॥
आ देवो यातु सविता परावतोऽपविश्वा दुरिता बाधमानः ॥ ४३ ॥

अभी वृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् ॥
आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीन्दधानः ॥ ४४ ॥

विजनाञ्छ्यावाः शितिपादो अरव्यंरथं हिरण्यप्र उ गं वहन्तः ॥
शश्वद्विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥ ४५ ॥

तिस्रो द्यावः सवितुर्द्वा उपस्थाṁ एकायमस्य भुवने विराषाट् ॥
आणिं न रथ्यममृताधितस्थुरिह ब्रवीतु या उतच्चिके तत् ॥ ४६ ॥

विसुपर्णो अन्तरिक्षाण्यरव्यङ्गभीरेवषा असुरः सुनीथः ॥
क्वेदानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्याततान ॥ ४७ ॥

अष्टौ व्यरव्यत्ककुभः पृथिव्यास्त्रीधन्वयोजना सप्तसिन्धून् ॥
हिरण्याक्षः सविता देव आगाद्दधद्रत्ना दाशुषे वार्याणि ॥ ४८ ॥

हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते ॥
अपामीवां बाधते वेति सूर्यमभिकृष्णेन रजसा द्यामृणोति ॥ ४९ ॥

हिरण्यहस्तो असुरः सुनीथः सुमृडीकः स्ववाṁ यात्वर्वाङ् ॥
अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः ॥ ५० ॥

ये ते पन्थाः सवितः पूर्व्यासो रेणवः सुकृता अन्तरिक्षे ॥
तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ॥ ५१ ॥

करवीरजपामुस्तदेवदारुमनःशिलाः ॥
केशरैलापद्मकाष्ठमधुपुष्पौघबालकैः 2 ॥ ५२ ॥

एतज्जापी प्रतिदिनमेतद्युक्तजलैश्चरेत् ॥
स्नानं सूर्यस्य सन्तुष्ट्यै दुष्टो वा यस्य भास्करः ॥ ५३ ॥

कौसुम्भवस्त्रं कनकं माणिक्यं गां तथैव वा ॥
सर्वञ्चैकतरं दद्यान्नित्यं भास्करसेवकः ॥ ५४ ॥

दद्यादशक्तो गोधूमांस्तथा भास्करपीडितः ॥
गुडान्नाशी तु नित्यं स्याद्धारयेदर्कमूलकम् ॥ ५५ ॥

अथ वक्ष्ये चन्द्रमन्त्रं गौतमोस्य मुनिर्मतः ॥
गायत्री छन्द इत्येकं सोमो देवः प्रकीर्तितः ॥ ५६ ॥

आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ॥
भवावाजस्य सङ्गथे ॥ ५७ ॥

षड्दीर्घबिन्दुयुक्तेन सकारेण षडङ्गकम् ॥
पदन्यासश्च 3 कर्तव्यो रुद्रोक्ताङ्गेषु दिक्षु च ॥ ५८ ॥

किरीटिनं श्वेतवस्त्रं दशाश्वं श्वेतभूषणम् ॥
पाशपाणिं द्विबाहुं तमत्रिगोत्रसमुद्भवम् ॥ ५९ ॥

जातं यवनदेशे च श्वेतगन्धानुलेपनम् ॥
श्वेतध्वजपताकाढ्यं केयूरमणिभूषितम् ॥ ६० ॥

श्वेताकृतिं रथारूढमधिदेवेन 4 संयुतम् ॥
तथा प्रत्यधिदेवेन वायव्याभिमुखं युतम् ॥ ६१ ॥

एवं ध्यात्वा चतुर्विंशत्यङ्गुलीचतुरस्रके ॥
श्वेताक्षतकृते चन्द्रमर्चेद्देवद्वयान्वितम् ॥ ६२ ॥

वर्णलक्षञ्जपेन्मत्रं सर्वेष्वेतेष्वयं विधिः ॥
जपाद्यम्पूर्ववत्सर्वमधिप्रत्यधिदेवयोः ॥ ६३ ॥

श्वेताक्षतैश्च पुष्पैश्च श्रीखण्डेन च कम्बुना ॥
श्वेतदूर्वान्वितैस्तर्प्यः पलाशसमिधो हुनेत् ॥ ६४ ॥

घृताक्तास्तदभावे तु वरस्य परिकीर्तिताः ॥
अशक्तौ तदभावे वा जपेन्मन्त्रं दशांशतः ॥ ६५ ॥

मेधातिथिर्-ऋषिः प्रोक्तोऽनुष्टुब्छन्द उदाहृतम् ॥
आपोत्र देवताश्चन्द्रप्रीतये विनियोजनम् ॥ ६६ ॥

अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ॥
अग्निञ्च विश्वशम्भुवम् ॥ ६७ ॥

ऋषिर्दीर्घतमाः प्रोक्ता जगती छन्द ईरितम् ॥
देवतोमा समाख्याता नियोगश्चन्द्रतुष्टये ॥ ६८ ॥

गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी चतुष्पदी ॥
अष्टापदी दशपदी बुभूवृषी सहस्राक्षरा परमे व्योमन् ॥ ६९ ॥

पौर्णिमायां निराहारस्सायं चन्द्रं प्रपूजयेत् ॥
क्षीरेणार्घ्यन्तु शङ्खेन दद्याद्देवस्य तुष्टये ॥ ७० ॥

सूक्तं चन्द्रमसो जप्यं प्राग्वच्चन्द्रस्य सवनात् ॥
शान्तो दान्तः सुकीर्तिश्च श्रीमान्दाता सुरूपवान् ॥ ७१ ॥

त्रयोविंशर्चसूक्तस्य गौतमोस्य मुनिर्मतः ॥
छन्दस्त्रिष्टुब्देवता च चन्द्रमाः परिकीर्तितः ॥ ७२ ॥

त्वं सोम प्रचिकितो मनीषा त्वम्ṁ रजिष्ठमनुनेषि पन्थाम् ॥
तव प्रणीती पितरो न इन्द्रो देवेषु रत्नमभजन्त धीराः ॥ ७३ ॥

त्वं सोम क्रतुभिः सुक्रतुर्भूस्त्वं दक्षैः सुदक्षो विश्ववेदाः ॥
त्वं वृषा वृषत्वेभिर्महित्वाद्युम्नेभिद्युम्न्यभवोनृचक्षाः ॥ ७४ ॥

राज्ञो न ते वरुणस्य व्रतानि बृहद्गभीरन्तव सोम धाम ॥
शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥ ७५ ॥

या ते धामानि दिवि या पृथिव्याम्पर्वतेष्वोषधीष्वप्सु ॥
तेभिर्नो विश्वैः सुमना अहेलन्राजन्सोम प्रतिहव्या गृभाय ॥ ७६ ॥

त्वं सोमामि सत्पतिस्त्वं राजोत वृत्रहा ॥
त्वम्भद्रो असि क्रतुः ॥ ७७ ॥

त्वञ्च सोमनो वसो जीवातुं न भरामहे ॥
प्रियस्तोत्रो वनस्पतिः ॥ ७८ ॥

त्वं सोम महे भगं त्वं यून ऋतायते ॥
दक्षं दधासि जीवसे ॥ ७९ ॥

त्वन्नः सोम विश्वतो रक्षा राजन्नधायतः ॥
नरिष्ये त्त्वावतः सखा ॥ ८० ॥

सोम यास्ते मयो भुव ऊस्यः सन्ति दाशुषे ॥
ताभिर्नोविता भव ॥ ८१ ॥

इमं यज्ञमिदं वचो जुषाण उपागहि ॥
सोम त्वं नो वृधे भव ॥ ८२ ॥

सोमगीर्भिष्ट्वा वयं वर्धयामो वचोविदः ॥
समृडीको न आविश ॥ ८३ ॥

गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः ॥
सुमित्रः सोम नो भव ॥ ८४ ॥

सोमरारन्धि नो हृदि गावो न यवसेष्वा ॥
मय्ये इव स्व ओक्ये ॥ ८५ ॥

यः सोमसख्ये तव रारणद्देवमर्त्यः ॥
तं दक्षः स च ते कविः ॥ ८६ ॥

उरुष्याणो अभिशस्तेः सोम निपाह्यंहसः ॥
सखा सुशेव एधि नः ॥ ८७ ॥

आप्याय स्व समेतु ते विश्वतः सोम वृष्ण्यम् ॥
भवा वाजस्य सङ्गथे ॥ ८८ ॥

आप्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः ॥
भवा नः सुश्रवस्तमः सखावृधे ॥ ८९ ॥

सन्ते पयांसि समु यन्तु वाजाः संवृष्ण्यान्यभिमातिषाहः ॥
आप्यायमानो अमृताय सोम दिवि श्रवागूंस्युत्तमानि धिष्व ॥ ९० ॥

या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम् ॥
गयस्फानः प्रतरणः सुवीरो वीरहा प्रचरासोमदुर्यान् ॥ ९१ ॥

सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं दधाति ॥
सादन्यं विदथ्यं सभेयम्पितृश्रवणं यो ददाशदस्मे ॥ ९२ ॥

अषाह्लंयुत्सु पृतनासु प्रियं स्वषामप्सां वृजिनस्य गापाम् ॥
भरेषुजां सुक्षितिं सुश्रवः सञ्जयन्तम् त्वामनुमदेम सोम ॥ ९३ ॥

त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वङ्गाः ॥
त्वमाततन्थोर्वन्तरिक्ष त्वञ्ज्योतिषा वितमो ववर्थ ॥ ९४ ॥

देवेन नो मनसा देव सोम रायो भागंसहसावन्नभियुध्य ॥
मा त्वा तनदीशिषे वीर्यस्योभयेभ्यः प्रचिकित्सागमिष्ठौ ॥ ९५ ॥

पञ्चगव्यञ्च रजतम्मौक्तिकं शङ्खशुक्तिके ॥
कुमुदानि जले क्षिप्त्वा स्नानञ्चन्द्रस्य तुष्टये ॥ ९६ ॥

श्वेतं वृषं घृतघटं शङ्खङ्कांस्यस्य भाजनम् ॥
मुक्ताहारं च विभवे तारं वा शक्तितो ददेत् ॥ ९७ ॥

चन्द्रसेवाकरो नित्यम्भक्षयेत्पायसं सितैः ॥
सुगन्धैश्च फलैर्युक्तं सोममूलं च धारयेत् ॥ ९८ ॥

एवं चन्द्रस्य सूर्यस्य कुरुते य उपासनाम् ॥
महापातकजान्रोगान्स तु नाशयितुं क्षमः ॥ ९९ ॥

शुक्लपुष्पान्वितोदेन सङ्कल्पस्य च योजनम् ॥
आदौरोगं समुच्चार्य तन्नाशाय ततो वेदेत् ॥ १०० ॥

देशकालादि चोच्चार्य गोत्राचारादि पूर्वकम् ॥
साध्यनाम तु षष्ठ्यन्तं ह्यृचा कल्पेन चोच्चरेत् ॥ १०१ ॥

अर्घ्यदानं करिष्यामि तर्पयामि च वा वदेत् ॥
शिखाबन्धन्ततः कृत्वा भूतोत्सादनमाचरेत् ॥ १०२ ॥

प्रार्थयित्वा च पृथिवीं संविशेच्च निजासने ॥
सुदर्शनस्य मन्त्रेण दिशाम्बन्धं समाचरेत् ॥ १०३ ॥

सर्वरोगनिवारणाय 5 शार्ङ्गाय पदं वदेत् ॥
सशरायास्त्रराजाय चतुर्थ्यन्तं सुदर्शनम् ॥ १०४ ॥

सप्तविंशतिवर्णोयं हृदन्तो मनुरुच्यते ॥
भूतशुद्धिन्ततः कृत्वा प्राणस्थापनमाचरेत् ॥ १०५ ॥

ऋचा स्वाङ्गानि संस्पृश्य गुरुं चापि परं गुरुम् ॥
परात्परं गुरुं ध्यात्वा न्यासं कुर्यात्ततः परम् ॥ १०६ ॥

उद्यन्नद्य मित्र महो दक्षिणे तु करे न्यसेत् ॥
कृतमत्र मया यच्च मित्रो रक्षतु मान्ततः ॥ १०७ ॥

वामहस्ते न्यसेच्चैव आरोहन्नुत्तरां दिवम् ॥
विहिताकरणात्पापाद्रवी रक्षतु मां सदा ॥ १०८ ॥

हृद्रोगम्मम सूर्येति हृदये तु प्रविन्यसेत् ॥
अज्ञानकृतपापात्तु सूर्यो रक्षतु मां सदा ॥ १०९ ॥

हरिमाणञ्च नासायां विन्यसेन्मस्तकोपरि ॥
भानुस्तु सर्वभूतेभ्यः सर्वदा मां च रक्षतु ॥ ११० ॥

शुकेषु मे हरिमाणं दक्षिणे चरणे न्यसेत् ॥
निषिद्धगमनात्पापाद्भानू रक्षतु मां सदा ॥ १११ ॥

रोपणा कासु दध्मसि वामपादे तु विन्यसेत् ॥
ऋतुस्त्रीसङ्गसम्भूतात्पापात्पूषाभि रक्षतु ॥ ११२ ॥

अथो हारिद्रवेषु मे नाभिदेशे तु विन्यसेत् ॥
हिरण्यगर्भोवतु मां तमोजात्पापतः सदा ॥ ११३ ॥

हरिमाणन्निदध्मसि जिह्वायां च मुखे न्यसेत् ॥
मुखजिह्वोद्भवात्पापान्मरीचिर्मां सदावतु ॥ ११४ ॥

उदगादयमादित्यो न्यसेद्दक्षिणचक्षुषि ॥
मामादित्योवतु सदा दृक्समुद्भवपातकात् ॥ ११५ ॥

विश्वेन सहसा सह विन्यसेद्वामचक्षुषि ॥
यद्दृष्टव्यन्न तद्दृष्टन्तत्पापात्सवितावतु ॥ ११६ ॥

द्विषन्तं मह्यं रन्धयन् विन्यसेत्कवचोपरि ॥
त्वग्लोमसम्भवात्पापाद्भानुर्मा परिरक्षतु ॥ ११७ ॥

मो अहं द्विषतेरघं विन्यसेच्च तथास्त्रके ॥
विद्वेषणकृतात्पापाद्भास्करो मां सदावतु ॥ ११८ ॥

न्यासं पुरुषसूक्तस्य देवमूर्तौ समाचरेत् ॥
ततः स्वदेहे विन्यस्य प्राग्वद्ध्यायेद्दिवाकरम् ॥ ११९ ॥

ततः पुरुषसूक्तेन षोडशर्चेन पूजयेत् ॥
गन्धाक्षतादिपुष्पाणि रक्तान्येव प्रयोजयेत् ॥ १२० ॥

नैवेद्यं पायसं प्रोक्तम् ऋक्त्रयस्य मुनिर्मतः ॥
कण्वः प्रस्कण्वनामा तु च्छन्दोनुष्टुप्च देवता ॥ १२१ ॥

श्रीसूर्यस्त्वथ मित्राय इदमर्घ्यं वदेत्सिते ॥
मित्रं सन्तर्पयामीति चैवं प्रोक्तं सितेतरे ॥ १२२ ॥

एवं रवौ च सूर्ये च कल्पनीयं ततः परम् ॥
वदेदर्धर्चके मित्ररविभ्यामर्घ्यमित्यपि ॥ १२३ ॥

त्रयः सर्वर्चके चैवमुन्नेयाः स्वधिया बुधैः ॥
कृष्णं सर्वत्र सूर्यन्तु तर्पयाभीति संवदेत् ॥ १२४ ॥

सर्वर्चेनापि सन्तर्प्यो विशेषोयमुदाहृतः ॥
प्रतिभानोश्च वारे तु कार्यं नान्यत्र वासरे ॥ १२५ ॥

क्षुद्ररोगा विनश्यन्ति विप्रान्द्वादश भोजयेत् ॥
माहारोगे सहस्रं तु शीतत्वादिमहागदे ॥ १२६ ॥

देशस्योपद्रवे जाते पुनरर्घ्याणिभास्करे ॥
सहस्रमपि तानीह सर्वनीरुक्प्रजायते ॥ १२७ ॥

पुत्रो भार्या च मित्रं च तस्य नीरुक्प्रजायते ॥
प्राप्नोति बिपुलां लक्ष्मीं ब्रह्म प्राप्नोत्यनामयम् ॥ १२८ ॥

श्रावणे शुक्लसप्तम्यां विशाखायां भृगोर्दिने ॥
श्रीसूर्यः क्रियया जातः पूजा तत्र विशिष्यते ॥ १२९ ॥

माघशुक्लस्य चाष्टम्यां कृत्तिकायाम् गुरोर्दिने ॥
क्षेत्रे समभवच्चन्द्रः पूजा तत्र विशिष्यते ॥ १३० ॥

भौममन्त्रं प्रवक्ष्यामि विरूपोस्य मुनिर्मतः ॥
अङ्गारको देवता च गायत्री छन्द ईरितम् ॥ १३१ ॥

अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम् ॥
आपागूंरेतागूंसि जिन्वति ॥ १३२ ॥

अम्बीजेन षडङ्गानि चाङ्गुलिन्यास एव च ॥
रुद्रस्थानेषु कर्तव्यः पदन्यासो द्वितीयकः ॥ १३३ ॥

रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् ॥
रक्तपुष्पैः पूज्यमानं चतुर्बाहुं किरीटिनम् ॥ १३४ ॥

वराभयगदाशूलहस्तं मेषोपरि स्थितम् ॥
वशिष्ठगोत्रसम्भूतं जमदग्न्यर्षिकं कुजम् ॥ १३५ ॥

जगतीछन्दसं वक्रं रक्तध्वजपताकिनम् ॥
अवन्तीदेशसम्भूतं ध्यात्वा देवम्प्रपूजयेत् ॥ १३६ ॥

रक्तचन्दनसम्मिश्रतण्डुलैस्त्र्यस्रके कृते ॥
अधिदेवतया भूम्या युक्तं षाण्मातुरेण च ॥
तथा प्रत्यधिदेवेन तत्रावाह्य प्रपूजयेत् ॥ १३७ ॥

वर्णलक्षं जपेन्मन्त्रं मधुरत्रयसंयुताः ॥
खादिर्यः समिधो होमे तर्पणाद्यं च पूर्ववत् ॥
मेधातिथिर्मुनिश्छन्दो गायत्री भूश्च देवता ॥ १३८ ॥

स्योना पृथिवी भवानृक्षरा निवेशनी यच्छा नः शर्म सप्रथाः ॥
अपनः शोशुचदघम् ॥ १३९ ॥

मुनिर्दीर्घतमाः प्रोक्तस्त्रिष्टुप्छन्द उदाहृतम् ॥
देवः स्कन्दः कुजप्रीत्यै जपार्थं विनियोजनम् ॥ १४० ॥

यदक्रन्दप्रथमं जायमान उद्यन्समुद्रादुत वा पुरीषात् ॥
श्येनस्य पक्षा हरिणस्य बाहू उपन्तुत्यं महि जातन्ते अर्वन् ॥ १४१ ॥

भौमस्य प्रीतिमन्विच्छन्हव्यान्नाशी भवेन्नरः ॥
गोजिह्वान्धारयेन्नित्यं भौमवारे तु रोगिकः ॥ १४२ ॥

कुजमन्त्रे तु संसिद्धे सङ्ग्रामे विजयी भवेत् ॥
स्वयं नश्यन्ति रिपवो नेत्रच्छायाग्निसन्निभाः ॥ १४३ ॥

त्रिंशर्चकस्य सूक्तस्य विरूपाङ्गिरसावृषी ॥
गायत्री छन्द उद्दिष्टं देवोग्निः कुजतुष्टये ॥ १४४ ॥

समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् ॥
अस्मिन्हव्या होतता ॥ १४५ ॥

अग्नेस्तोभं जुषस्व मे वर्धस्वानेन जन्मना प्रतिसूक्तानि हर्यनः ॥ १४६ ॥

अग्निन्दूतम्पुरोदधे हव्यवाहमुपबुवे ॥
देवाṁ आसादयादिह ॥ १४७ ॥

उत्ते बृहन्तो अर्चयः समिधानस्य दिवः ॥
अग्ने शुक्रास ईरते ॥ १४८ ॥

उप त्वा जुष्टे मम घृताचीर्यन्तु हर्यतः ॥
अग्ने हव्या जुषस्व नः ॥ १४९ ॥

मन्द्रं होमारेमृत्विजं चित्रभानुं विभावसुम् ॥
अग्निमीले स उस्रवत् ॥ १५० ॥

प्रत्नं होतारमीष्यं जुष्टमग्निकविं क्रतुम् ॥
अधराणामभिश्रियम् ॥ १५१ ॥

जुषाणो अङ्गिरस्तमे मा हव्यान्यानुषक् ॥
अग्ने यज्ञं नय क्रतुपः ॥ १५२ ॥

समिधा न उशन्त्यशुक्रशोचे इहावह ॥
चिकित्वान्दैव्यञ्जनम् ॥ १५३ ॥

विप्रं होतारमद्रुहं धूमकेतुं विभावसुम् ॥
यज्ञानां केतुमीमहे ॥ १५४ ॥

अग्ने निपाहि नस्त्वं प्रतिष्य देवरीषतः ॥
सधिद्वेषः सहष्कृतः ॥ १५५ ॥

अग्निः पत्नेन मन्मनाशुम्भा नस्तन्न्वां स्वाम् ॥
कविर्विप्रेण वा वृधे ॥ १५६ ॥

ऊजो निपातमाहुवेग्निम्पावक शोचिषम् ॥
अस्मिन्यज्ञे स्वध्वरे ॥ १५७ ॥

स नो मित्रमहस्त्वमग्ने शुक्रेण शेचिषा ॥
देवैरासत्सि बर्हिषी ॥ १५८ ॥

यो अग्निन्तन्नो द इ-मे देवम्मत्तः समर्पयति ॥
तस्मा इद्दीदयद्वसू ॥ १५९ ॥

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् ॥
अपागूंरेतागूंसि जिन्वति ॥ १६० ॥

उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ॥
तव ज्योतीगूंष्यर्चयः ॥ १६१ ॥

ईषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः ॥
स्तोतास्यां तव शर्मणि ॥ १६२ ॥

त्वामग्ने मनीषिणस्त्वां हिन्वन्ति चितिभिः ॥
त्वां वर्धन्तु नो गिरः ॥ १६३ ॥

अदध्वस्य स्वा धावतो दूतस्परेभतः सदा ॥
अग्नेः सख्यं धृणीमहे ॥ १६४ ॥

अग्निः शुचिव्रततमः शुचिः शुचिर्विप्रः ॥
शुचिःशुची रोचत आहुतः ॥ १६५ ॥

उतत्वाधितयो मम गिरो वर्धन्तु विश्वहा ॥
अग्ने सख्यस्य बोधिनः ॥ १६६ ॥

यदग्ने स्यामहावं वा यत्स्या अहम् ॥
स्पष्टे सत्याशिषा इहाशिषः ॥ १६७ ॥

वसुर्वसुपतिर्हि त्वमस्यग्रे विभावसुः ॥
स्याम ते सुमतावपि ॥ १६८ ॥

अग्ने धृतव्रताय ते समुद्रायेवसिन्धवः ॥
गिरो वास्रास ईरते ॥ १६९ ॥

युवानं विस्पतिं कविं श्वादम्पुरुवेयुसम् ॥
अग्निं शुम्भामि मन्मभिः ॥ १७० ॥

यज्ञानां रथ्ये वयन्तिग्मजम्भाय वीलवे ॥
स्तोमैरिषे माग्नये ॥ १७१ ॥

अयमग्ने त्वे च अयि जरिताभूतु सन्त्या ॥
तस्मै पावकमृडय ॥ १७२ ॥

धीरो ह्यस्य प्रसिद्विप्रो न जागृभिः सदा ॥
अग्नेदीदयसिविद्यवि ॥ १७३ ॥

पुराग्ने दुरितेभ्यः पुरो मृधेभ्यः कवे ॥
प्रण आयुर्वसोत्तिरा ॥ १७४ ॥

विश्वम्बला 6 चन्दनञ्च रामठासनपुष्पकम् 7
फलिनीबकुलैर्युक्तं स्नानम्भौमस्य तुष्टये ॥ १७५ ॥

आरक्ताम्बुभवं ताम्रं प्रवालञ्च मसूरिका ॥
सुरक्तवस्त्रमसृजस्तुष्ट्यै चाश्वारिपुष्पकम् ॥ १७६ ॥

पूर्वाषाढाख्यनक्षत्रे मासे भाद्रपदे सिते ॥
दशम्यां बुधवारे तु जातस्तत्र महोत्सवः ॥ १७७ ॥

बुधमन्त्रम्प्रवक्ष्यामि बौद्धस्तस्य मुनिर्मतः ॥
त्रिष्टुप्छन्दो देवतास्य बुद्धो बुद्धिप्रदो मतः ॥ १७८ ॥

उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते सगूंसृजेथामयञ्च ॥
अस्मिन्सधस्थेऽध्युत्तरस्मिन्विश्वेदेवा यजमानश्च सीदत ॥ १७९ ॥

बुम्बीजेन षडङ्गेन ध्यानमस्य निरूप्यते ॥
पीताम्बरं पीतवर्णम्पीतगन्धानुलेपनम् ॥ १८० ॥

पीतपुष्पैः पूज्यमानं खड्गचर्मगदावरान् ॥
सिन्धूत्थं दधतं हस्तैरत्रिगोत्रसमुद्भवम् ॥ १८१ ॥

भारद्वाजार्षकं जातं मगधे च किरीटिनम् ॥
बृहतीछन्दसम्पीतच्छत्रध्वजपताकिनम् ॥ १८२ ॥

केयूरमणिशोभाढ्यमधिदैवेन विष्णुना ॥
तेन प्रत्यधिदेवेन युक्तं ज्ञं चिन्तयाम्यहम् ॥ १८३ ॥

एवं ध्यात्वा शराकारे हरिद्राक्षतनिर्मिते ॥
मण्डले चतुरस्रे ज्ञं 8 सम्यगावाह्य पूजयेत् ॥ १८४ ॥

वर्णलक्षं जपेन्मन्त्रं हुनेत्तस्य दशांशतः ॥
अपामार्गसमिद्भिश्च तर्पणानि ततश्चरेत् ॥ १८५ ॥

त्रिविक्रमाख्यो यो विष्णुस्स बुधस्याधिदेवतम् ॥
मेधातिथिर्मुनिस्तस्य गायत्रं छन्द ईरितम् ॥ १८६ ॥

इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ॥
समूढस्य पांसुरे स्वाहा ॥ १८७ ॥

अथ प्रत्यधिदैवन्तु विष्णुर्नारायणाभिधः ॥
मुनिर्दीर्घतमाः प्रोक्तश्छन्दस्त्रिष्टुबुदाहृतम् ॥ १८८ ॥

विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजागूंसि ॥
यो अस्कभा यदुत्तरगूंसधस्थं विचक्रमाणस्त्रेधोरुगायः ॥ १८९ ॥

दुग्धौदनं समश्नीयान्नैव तुम्बीं कदाचन ॥
नाम्बरं मलिनं दध्याद्वृद्धदारुजटान्तथा ॥ १९० ॥

बुधस्य मन्त्रे संसिद्धे वाग्मी भवति पण्डितः ॥
अजेयः प्रतिपक्षाणां स्वयं जेतात्र जायते ॥ १९१ ॥

द्वादशर्चस्य सूक्तस्य विश्वेदेवास्तथर्षयः ॥
देवो ज्ञो बृहतीत्रिष्टुब्जगद्गायत्रगानि च ॥ १९२ ॥

उद्बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवः सनीलाः ॥
दधिक्रामग्निमुषसं च देवीमिन्द्रावतो वसे निह्वये वः ॥ १९३ ॥

मन्द्रा कृणुध्वन्धियः प्रातनुध्वं नावमरित्रपरणीं कृणुध्वम् ॥
इष्कृणुध्वमायुं धारं कृणुध्वम्प्राञ्चं यज्ञं प्रणयता सखायः ॥ १९४ ॥

युनक्त सीरा वियुगा तनुध्वं कृते योनौ वपतेह बीजम् ॥
गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमेयात् ॥ १९५ ॥

सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक् ॥
धीरा देवेषु सुम्नया ॥ १९६ ॥

निराहावान्कृणोत न संवरत्रा दधातन ॥
सिञ्चामहा-अवत मुद्रिणं वयं सुषेकमनु पक्षितम् ॥ १९७ ॥

इष्कृता हावमवतं सुवस्त्रं सुषेचनम् ॥
उद्रिणं सिञ्चे अक्षितम् ॥ १९८ ॥

प्रीणीताश्वान्हि तञ्जयाथ स्वस्थिवाहं रथमित्कृणुध्वम् ॥
द्रोणा हावमवतमश्म चक्रम सत्रकोशं सिञ्चता नृपाणम् ॥ १९९ ॥

व्रजं कृणुध्वम्स हि वो नृपाणो वर्म सीव्यध्वम्बहुला पृथूनि ॥
पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहतातम् ॥ २०० ॥

आवो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियामिह ॥
सा नो दुहीयद्यवसेव गत्वी सहस्रधारापयसा मही गौः ॥ २०१ ॥

आतूषिञ्च हरिमीन्द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः ॥
परिष्वजध्वं दशकक्ष्याभिरुभे धुरो प्रतिवह्निं युनक्त ॥ २०२ ॥

उभौ धुरौ वह्निरायिब्दमानोन्तर्योनेव चरति द्विजानिः ॥
वनस्पतिं वन आस्थापयध्वं निषोदधिध्वमखनन्त उत्सम् ॥ २०३ ॥

कपृन्नरः कपृथमद्दधातन चोदयत खुदतवाजसातये ॥
निष्टिग्न्यः पुत्रमाच्यवयोतय इन्द्रं स बाध इह सोमपीतये ॥ २०४ ॥

हरीतकी कलिफलैर्गोमयाक्षतरोचनैः 9
स्वर्णामलकमुक्ताभिर्युक्तैः सक्षौद्रकैः 10 स्नपेत् 11 ॥ २०५ ॥

नीलवस्त्रं च मुद्गान्नं कनकं चोर्णवस्त्रकम् ॥
बुधस्य प्रीतये दद्यान्मालत्याः कुसुमानि वा ॥ २०६ ॥

नभस्यशुक्लद्वादश्यां सोमवारे द्विजन्मने ॥
ताराया हिमगोर्जातो बुधस्तस्योत्सवोत्र तु ॥ २०७ ॥

मन्त्रं बृहस्पतेर्वक्ष्ये मुनिर्गृत्समदोस्य तु ॥
त्रिष्टुप्छन्दो देवपतिवन्दितोस्ति हि देवता ॥ २०८ ॥

बृहस्पते अतियदर्यो अर्हाद्युमद्विभाति क्रतुमज्जनेषु ॥
यद्दीदयच्छवस ऋतं प्रजाततदस्मासु द्रविणं धेहि चित्रम् ॥ २०९ ॥

बृम्बीजेन षडङ्गादिन्यासमत्र समाचरेत् ॥
शृणु ध्यानं प्रवक्ष्यामि यत्तदस्य बृहस्पतेः ॥ २१० ॥

कमण्डलुधरं देवं वरदण्डाक्षसूत्रकम् ॥
पीतवर्णं च सौवर्णकिरीटेन विराजितम् ॥ २११ ॥

वशिष्ठार्यं सिन्धुदेशभवं पीताम्बरावृतम् ॥
अनुष्टुप्छन्दसं चाङ्गिरसगोत्रं सुरेडितम् ॥ २१२ ॥

पतिध्वजपताकाढ्यं पीतच्छत्रानुलेपनम् ॥
केयूराङ्गदशोभाढ्यमधिदेवेन्द्रसंयुतम् ॥
ब्रह्मप्रत्यधिदेवेन युतं सञ्चित्य चाह्वयेत् ॥ ३१३ ॥

मन्त्रैर्विरचिते दीर्घचतुरस्रषडङ्गुले ॥
हरिद्राक्षतसंसिद्धे मण्डले तं प्रपूजयेत् ॥ २१४ ॥

वर्णलक्षं जपेन्मन्त्रं होमस्त्रिमधुरान्वितैः ॥
पिप्पलस्य तु काष्ठैः स्यात्तर्पणं पीतपञ्चभिः ॥ २१५ ॥

मुनिर्गृत्समदस्त्रिष्टुप्छन्द इन्द्रश्च देवता ॥ २१६ ॥

अधिसञ्ज्ञा गुरोस्तस्य तुष्टये विनियोजनम् ॥ २१७ ॥

इन्द्र श्रेष्ठाणि द्रविणानि धेहि चितिन्दक्षस्य सुभगत्वमस्मे ॥
पोषं रयीणामरिष्टं तनूनां स्वाद्भग्नानं वाचः सुदिनत्वमह्नाम् ॥ २१८ ॥

मुनिर्गृत्समदः प्रोक्तो देवताब्रह्मणस्पतिः ॥
त्रिष्टुप्छन्दो गुरोश्चेयं प्रोक्ता प्रत्यधिदेवता ॥ २१९ ॥

ब्रह्मणस्पते त्वमस्य यन्ता सूतस्य बोधितनयं च जिन्व ॥
विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदे मावेदथे सुवाराः ॥ २२० ॥

दद्यात्स दधिभक्तं च स्वर्णपीताम्बरादिकम् ॥
नित्यं सन्धारयेद्बाहौ ब्रह्ममूलं तु धारयेत् ॥ २२१ ॥

एवंसिद्धे गुरोर्मन्त्रे वाक्सिद्धिरुपजायते ॥
देहे शक्ती राजमानं स्वशक्त्या वार्थबोधनम् ॥ २२२ ॥

एकादशर्चसूक्तस्य वामदेवो मुनिर्मतः ॥
जगती छन्द इत्युक्तं देवतात्र बृहस्पतिः ॥ २२३ ॥

यस्तस्तम्भ सहसाविज्मो अन्तान्बृहस्पतिस्त्रिषधस्थो रवेण ॥
तं प्रत्नास ऋषयो दीध्याना पुरोर्मविप्रा दधिरमन्द्रजिह्वम् ॥ २२४ ॥

धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि येनस्ततस्रे ॥
पृषन्तेसृप्रमदध्वमूर्यं बृहस्पतेरक्षता तस्य योनिम् ॥ २२५ ॥

बृहस्पते यापरमा परावदत आत ऋतस्य स्पृशो निषेदुः ॥
तुभ्यं खाता अवता अत्रिदुग्धामध्वश्चोतन्त्यभितो विषम् ॥ २२६ ॥

बृहस्पतिमधमं जायमानो महोज्योतिषः परमे व्योमन् ॥
सप्तास्यास्तु विजातो रवेण विसप्तरश्मिरमत्तमांसि ॥
ससुष्ठुभा ऋक्वता गणेन वनं रुरोज फलितं रवेण ॥ २२७ ॥

बृहस्पतिरुश्रिया हव्यसूदः कनिक्रदद्वा वशतीरुदाजत् ॥
एवापित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम मनसा हविर्भिः ॥
बृहस्पते सुमः प्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥ २२८ ॥

स इन्द्राजा मतिजन्यानि विश्वा शुष्मेण तस्थावभिवीर्येण ॥
बृहस्पतिं यः सुकृतं बिभर्ति वल्गूयति वन्दते पूर्वभाजम् ॥ २२९ ॥

स इत्क्षेति सुधित ओकांसि श्वेतस्मा इलायिल्वतेविश्वदानीम् ॥
तस्मै विशः स्वयमेवानमन्ते यस्मिन्ब्रह्मराजं निपूर्व एति ॥ २३० ॥

अप्रतीतो जयति सन्धनानि प्रतिजन्यान्युत या सजन्या ॥
अवस्यवे यो वीरवः कृणोति ब्रह्मणे राजा तमवन्ति देवाः ॥ २३१ ॥

इन्द्रश्च सोमं पवते बृहस्पतेस्मिन्यज्ञेमन्दसाना वृषण्वसूः ॥
आवां विशन्त्विदवः स्वाभुगोस्मे रयिं सर्ववीरं नियच्छतम् ॥ २३२ ॥

बृहस्पत इन्द्रा वर्धतं नः स चासावां सुमतिर्भूत्वस्मे ॥
अविष्टं धियो जिवृतं पुरं धीर्जजस्तमर्योवनुषामरातिः ॥ २३३ ॥

मदयन्तीपल्लवानि मधूकं श्वेतसर्षपाः ॥
मालतीपुष्पयुक्ताश्च स्नानेन गुरुतोषणम् ॥ २३४ ॥

हरिद्रा शर्करा पीतवस्त्रं स्वर्णं च पित्तलम् ॥
गुरुतुष्ट्यै प्रदेयं स्यादभावे चणकास्तथा ॥ २३५ ॥

फाल्गुनस्य सिते पक्षे चैकादश्यां च पुष्यभे ॥
शुक्रवारे गुरुर्जातस्तत्र कार्यस्तदुत्सवः ॥ २३६ ॥

शुक्रमन्त्रं प्रवक्ष्यामि भरद्वाजो मुनिर्मतः ॥
त्रिष्टुप्छन्दो निगदितं दैत्याचार्यस्तु दैवतम् ॥ २३७ ॥

शुक्रं ते अन्यद्यजतन्ते अन्यद्विषुरूपे अहनि द्यौरिवासि ॥
विश्वा हि माया अवसि स्वधा वो भद्रा ते पूषन्निह राति रस्ति ॥ २३८ ॥

शुम्बीजेन षडङ्गानि कृत्वा ध्यानं समाचरेत् ॥
शुक्लाम्बरं शुक्लवर्णं शुक्लगन्धानुलेपनम् ॥ २३९ ॥

शुक्लपुष्पैः पूज्यमानं शौनकार्यं किरीटिनम् ॥
चतुर्भुजं दण्डिनं च साक्षसूत्रकमण्डलुम् ॥ २४० ॥

पङ्क्तिच्छन्दं 12 च वरदं तथा कीकटदेशजम् ॥
श्वेतच्छत्रध्वजपताकिनं भार्गवगोत्रजम् ॥ २४१ ॥

सकेयूरं रथारूढं श्वेताभरणभूषितम् ॥
एवं ध्यात्वा श्वेतवर्णे पञ्चकोणे नवाङ्गुले ॥ २४२ ॥

अधिदैवतमिन्द्राणी शक्रः प्रत्यधिदैवतम् ॥
ताभ्यां युतं दैत्यगुरुं मण्डले पूजयेत्ततः ॥ २४३ ॥

अर्णलक्षं जपेन्मन्त्रं हुनेत्त्रिमधुरान्वितैः ॥
उदुम्बरस्य काष्ठैश्च तर्पणादि तु चन्द्रवत् ॥ २४४ ॥

वृषाकपिर्मुनिः प्रोक्तः पक्तिश्छन्द उदाहृतम् ॥
इन्द्राणी देवता प्रोक्ता नियोगः शुक्रतुष्टये ॥ २४५ ॥

इन्द्राणीमासु नारिषु सुभगामहमश्रवम् ॥
नह्यस्या अपरं च न जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥ २४६ ॥

मधुच्छन्द्रा ऋषिः प्रोक्तो गायत्रं छन्द ईरितम् ॥
शुक्रो देवो नियोगोस्य विश्वतः शुक्रतुष्टये ॥ २४७ ॥

इन्द्रं वो विश्वतस्परिहवामहे जनेभ्यः ॥
अस्माकमस्तु केवलः ॥ २४८ ॥

शुक्रसन्तुष्टये नित्यं भक्षणीयः कृतौदनः ॥
अश्वेतं नाम्बरन्दध्यान्मुनिमूलं 13 च धारयेत् ॥ २४९ ॥

शुक्रमन्त्रस्य सिद्धस्य चिह्नानि स्युः स्त्रियो वशाः ॥
यात्रासिद्धिः प्रकाशश्च चान्तर्भूपतयो वशाः ॥ २५० ॥

निगमर्चस्य सूक्तस्य भरद्वाजो मुनिर्मतः ॥
त्रिष्टुब्जगत्यश्छन्दांसि पूषा दैवतमुच्यते ॥ २५१ ॥

शुक्रन्ते अन्यद्यजतन्ते अन्यद्विरूपे अहनि द्यौरिवासि ॥
विश्वा हि माया अवसि स्वधा वो भद्रा ते पूषन्निह रातिरस्ति ॥
अजास्यः पशुषावाजपत्स्योधियं जिन्वो विश्वभुवने विश्वे अर्पितः ॥ २५२ ॥

अष्ट्रां पूषासि पिरामुद्वरीवृजत्सञ्चक्षाणो भुवना देव ईयते ॥ २५३ ॥

यास्ते पूषन्नावो अन्तःसमुद्रे हिरण्यैमनुलिक्षचरन्ति ॥
ताभिर्वापि इत्या सूर्यास्य कामेन कृतश्रव इच्छयामः ॥ २५४ ॥

पूषा सुबन्धुर्दिव आपृथिव्या इलस्पतिर्मघवः दस्यवर्चाः ॥
यो देवासो अददुः सूर्यायै कामनकृतन्तवसस्य चम् ॥ २५५ ॥

समूलत्रिफला चैला केशरं च मनःशिला ॥
एभिर्युक्तैर्जलैः स्नायाद्भार्गवस्य तु तुष्टये ॥ २५६ ॥

श्वेतो वाजी तथा रौप्यं चन्दनं च सिताम्बरम् ॥
घृतन्दद्याच्छुक्रतुष्ट्यै तदभावे तु तण्डुलान् ॥ २५७ ॥

मधौ सितनवम्यां च रामो जातश्च भार्गवः ॥
रामः पुनर्वसौ शुक्रे मघायामेतदन्तरम् ॥ २५८ ॥

शनिमन्त्रं प्रवक्ष्यामि सिन्धुद्विपो मुनिर्मतः ॥
गायत्री छन्द इत्युक्तं देवता तु शनैश्चरः ॥ २५९ ॥

शन्नो देवीरभिष्टय आपो भवन्तु पीतये ॥
शंये रभिस्रवन्तु नः ॥ २६० ॥

शम्बीजेन षडङ्गानि कुर्याद्ध्यानं ततश्चरेत् ॥
शशासनं शूलधरमिन्द्रनीलसमद्युतिम् ॥
सौराष्ट्रदेशजं प्रोक्तं वरदं गृध्रवाहनम् ॥ २६१ ॥

भृग्वार्यं मुकुटेनालङ्कृतं काश्यपगोत्रकम् ॥
कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् ॥
गायत्रीछन्दसं देवं कृष्णाभरणभूषितम् ॥ २६२ ॥

केयूरिणं मुकुटिनं कृष्णवस्त्रावृतं तथा ॥
प्रजापत्याधिदेवेन सहितम्पद्ममास्थितम् ॥
पद्म प्रत्यधिदेवेन युक्तं ध्यात्वा समर्चयेत् ॥ २६३ ॥

कस्तूरीमिलितैः कृष्णचूर्णै रचितमण्डले ॥
होमश्शमीसमिद्भिः स्यादायसार्घेण तर्पणम् ॥
कृष्णपुष्पैश्चन्दनन्तु कालीयैरगुरुं हुनेत् ॥ २६४ ॥

मुनिर्हिरण्यगर्भोस्य त्रिष्टुप्छन्द उदाहृतम् ॥
नियोगः शनिप्रीत्यर्थे नानापीडाविनाशने ॥
ब्रह्म जज्ञानमिति च मन्त्रमत्र तु कीर्तयेत् ॥ २६५ ॥

यमाय सोमं सुनुत यमाय जुहुता हविः ॥
यमं ह यज्ञो गच्छत्यग्निदूतो अरं कृतः ॥ २६६ ॥

शनेरुपासको नित्यं कृशरं भक्षयेन्नरः ॥
व्याघ्रीजटे 14 गले धार्येऽभ्यङ्गः कार्यश्च नित्यशः ॥ २६७ ॥

शनिमन्त्रे तु संसिद्धे सं सिद्धा मनवोखिलाः ॥
तस्य फूत्कारमात्रेण विनश्यन्त्यखिला गदाः ॥ २६८ ॥

नवर्चस्य तु सूक्तस्य सिन्धुद्वीपो मुनिर्मतः ॥
बद्धमाना प्रतिष्ठा वानुष्टुप चैव समीरिताः ॥ २६९ ॥

छन्दासि देवता आपो नियोगः शनितुष्टये ॥
एतासां 15 जपतः पापं कामजातं विनश्यति ॥ २७० ॥

आपेहिष्ठामयोभुवस्ता न उर्जे दधातन ॥
महेरणाय चक्षसे ॥ २७१ ॥

योवः शिवतमो रसस्तस्य भाजयतेह नः ॥
उशतीरिव मातरः ॥ २७२ ॥

तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ ॥
आपो जनयथा च नः ॥ २७३ ॥

शन्नो देवीरभिष्टय आपो भवन्तु पीतये शंयोरभिस्रवन्तु नः ॥ २७४ ॥

ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ॥
अपो याचामि भेषजम् ॥ २७५ ॥

अप्सु मे सोमे अब्रवीदन्तर्विश्वानि भेषजा ॥
अग्निञ्च विश्वशम्भुवम् ॥ २७६ ॥

आपः पृणीत भेषजं वरूथन्तन्वे मम ॥
ज्योक्चसूर्यं दृशे ॥ २७७ ॥

इदमापः प्रवहत यत्किञ्चिद्दुरितं मयि ॥
यद्वाहमभिदुद्रोह यद्वाशेष उतानृतम् ॥ २७८ ॥

आपो अद्यान्वचारिषं रसेन समगस्महि ॥
पयस्वानग्न आगहि तं मासं सृज वर्चसा ॥ २७९ ॥

रसाञ्जनं कृष्णतिलाः शतपुष्पा घनो 16 बला ॥
लज्जालुलोध्रयुक्ताभिरद्भिः 17 स्नाने शनेर्मुदः ॥ २८० ॥

कृष्णा गौर्महिषी लोहन्तैलं सीसन्तु तुष्टये ॥
शनेर्दद्यादशक्तस्तु लोहं वा मरटानपि ॥ २८१ ॥

ज्येष्ठमासे कृष्णपक्षे चतुर्दश्यामसृग्दिने ॥
रोहिण्यां सूर्यतो जातः शनिस्तत्रार्चनं 18 मुदे ॥ २८२ ॥

राहोर्मन्त्रं प्रवक्ष्यामि वामदेवो मुनिर्मतः ॥
गायत्री छन्द इत्युक्तं सैंहिकेयस्तु देवता ॥ २८३ ॥

कया नश्चित्र आभुवदूतीसदावृधः सखा ॥
कया शचिष्ठया वृता ॥ २८४ ॥

राम्बीजेन षडङ्गानि ध्यानमस्य निरूप्यते ॥
करालवदनं खड्गचर्मशूलबृहद्धरम् ॥ २८५ ॥

कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् ॥
कृष्णपूष्पैः पूज्यमानङ्केयूरमुकुटान्वितम् ॥ २८६ ॥

पूर्वदेशे समुत्पन्नं क्रूरमान्तीरसार्षकम् ॥
पाटलीगोत्रसम्भूतमनुष्टुप्छन्दसङ्ग्रहम् ॥ २८७ ॥

कृष्णच्छत्ररथारूढं कृष्णध्वजपताकिनम् ॥
सर्पाधिदेवतायुक्तं कालप्रत्यधिदैवतम् ॥ २८८ ॥

इत्थं सञ्चिन्त्य नैर्-ऋत्ये नक्राकारे तु मण्डले ॥
द्वादशाङ्गुलविस्तीर्णे पूजयेच्छ्यामलाक्षतैः ॥ २८९ ॥

दूर्वाभिर्मधुराक्ताभिरस्य होमो विधीयते ॥
तर्पणादिरिह द्रव्यैः कौलिकांस्तर्पयेद्द्विजान् ॥ २९० ॥

सर्पराजो मुनिः प्रोक्तो गायत्रं छन्द ईरितम् ॥
सर्पाश्च देवताः प्रोक्ता नियोगो राहुतुष्टये ॥ २९१ ॥

आयं गौः पृष्णिरक्रमीदसदम्मातरम्पुरः ॥
पितरञ्च प्रयन्त्स्वः ॥ २९२ ॥

कण्वाचार्यो मुनिः प्रोक्तो गायत्रं छन्द ईरितम् ॥
देवता तु भवेत्कालो नियोगो राहुतुष्टये ॥ २९३ ॥

माषूणः परापरानिर्-ऋतिर्दुहेणावधीत् ॥
यदीष्टतृष्णया सह ॥ २९४ ॥

भक्षयेत्तु सदा माषान्दूर्वामूलं च धारयेत् ॥
न निन्देन्निन्द्यकर्मस्थान्वन्दीमोक्षणमाचरेत् ॥ २९५ ॥

राहोर्मन्त्रस्य सिद्धौ तु दैत्यराक्षसगुह्यकाः ॥
कुर्वते साधकाज्ञां तु सदैव समरे जयः ॥ २९६ ॥

पञ्चदशर्चसूक्तस्य वामदेवो मुनिर्मतः ॥
छन्दो निवृच्च गायत्री देवता देवनायकः ॥ २९७ ॥

कयानश्चित्र आभुव दूतीसदावृधः सखा ॥
कया सचिष्ठया वृता ॥ २९८ ॥

कस्त्वा सत्यो मदानामं हिष्ठो मत्सदन्धसः ॥
दृढाचिदारुजे वसु ॥ २९९ ॥

अभीषुणः सखीनामविता जरितॄणाम् ॥
शतं भवास्यूतिभिः ॥ ३०० ॥

अभी न आव वृत्स्व चक्रं न वृतमहतः ॥
नयुद्भिश्चर्षणीनाम् ॥ ३०१ ॥

प्रवता हि क्रतुना माहापदेव गच्छसि ॥
अभक्षि सूर्ये स च ॥ ३०२ ॥

संयत्त इन्द्र मन्यवः सञ्चक्राणि दधन्विरे ॥
अधन्वे अधसूर्ये ॥ ३०३ ॥

उ तस्मा हि त्वामाहुरिन्मघवानं शचीपते ॥
दातारमविदीदयुम् ॥ ३०४ ॥

तस्मा सद्य इत्यरिशशमानाय सुन्वते ॥
पुरोचिन्महसे वसुः ॥ ३०५ ॥

महिष्मते शतं वनराधो वरन्त आसुरः ॥
न व्यौत्मानि करिष्यतः ॥ ३०६ ॥

अस्माम् अवन्तु ते शतमस्मात्सहस्रमूतयः ॥
अस्मान्विश्वा अभीष्टयः ॥ ३०७ ॥

अस्माम् इहा वृणीष सख्याय स्वस्तये ॥
महोराये दिविन्मते ॥ ३०८ ॥

अस्माम् अविदि विश्वहेन्द्रराया परिणश ॥
अस्मान्विश्वाभिरूतिभिः ॥ ३०९ ॥

अस्मभ्यं ता अपा विविव्रजाम् अस्ते व गोमतः ॥
नवामिरिन्द्रोतिभिः ॥ ३१० ॥

अस्माकं धृष्णुया रथो द्युमाम् इन्द्रानपच्युतः ॥
गव्युरपुरीयतो ॥ ३११ ॥

अस्माकमुत्तमं कृधि श्रवो देवेषु सूर्य ॥
वर्षिष्ठां द्यामिवोपरि ॥ ३१२ ॥

नागवल्लीनागबलाकुमारीचक्रभास्करैः ॥
वचागुडूचीतगरैः स्नानं पात्रचतुष्टये ॥ ३१३ ॥

सीसकं कम्बलं स्वर्णं मेषं दद्यात्तु तुष्टये ॥
राहोरेतदभावे तु त्रिपुरान्सम्प्रदापयेत् 19 ॥ ३१४ ॥

आश्विने पौर्णमास्यां तु भरण्यां सिंहिका सुतम् ॥
जनयामास तस्मिंस्तं विशेषेणार्चयेन्मुदे ॥ ३१५ ॥

केतुमन्त्रं प्रवक्ष्यामि मधुच्छन्दा मुनिर्मतः ॥
देवता केतवः प्रोक्ता गायत्रं छन्द ईरितम् ॥ ३१६ ॥

केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे ॥
समुषद्भिरजायथाः ॥ ३१७ ॥

कम्बीजेन षडङ्गानि ध्यानमत्र निरूप्यते ॥
धूम्राक्षबाहवः पाशधराश्च विकृतानना ॥ ३१८ ॥

किरीटिनो गृध्रवाहा मध्यदेशोद्भवा दृढाः ॥
चित्राम्बराश्चित्रवर्णाश्चित्रगन्धानुलेपनाः ॥ ३१९ ॥

नानाछन्दस्कका 20 गोतमार्या जैमिनिगोत्रजाः ॥
कृष्णपिङ्गध्वजपताकिनो मुकुटिनस्तथा ॥ ३२० ॥

केयूरिणो रथारूढाः स्थूला ब्रह्माधिदेवताः ॥
चित्रगुप्ताख्यप्रत्यधिदेवताश्चेति चिन्तयेत् ॥ ३२१ ॥

सार्धाङ्गुले ध्वजाकारे वायव्यां मण्डले कृते ॥
चित्रवर्णाक्षतैः पुष्पैस्तत्रावाह्य समर्चयेत् ॥ ३२२ ॥

वर्णलक्षं जपेन्मन्त्रं कुशहोमं समाचरेत् ॥
मधुरत्रयसंयुक्तैश्चित्रद्रव्यैः प्रपूजयेत् ॥ ३२३ ॥

वामदेवो मुनिः प्रोक्तस्त्रिष्टुप्छन्द उदाहृतम् ॥
ब्रह्मास्य देवता केतुप्रीतये विनियोजनम् ॥ ३२४ ॥

ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः ॥
सबुन्ध्या उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विवः ॥ ३२५ ॥

प्रस्कण्वस्तु मुनिः प्रोक्तो बृहती छन्द ईरितम् ॥
देवता चित्रगुप्तोत्र नियोगः केतुतुष्टये ॥ २२६ ॥

उषो वाजं हिवंस्वयश्चित्रो मानुषे जने ॥
तेनावह सुकृतो अध्वराṁ उप ये त्वा गृणन्ति वह्नयः ॥ ३२७ ॥

सदैव ब्रह्मवेषः स्यान्निम्नेनोपविशेत्क्वचित् ॥
नाश्नीयाद्दग्धमन्नादि केतुसेवनतत्परः ॥ ३२८ ॥

केतुमन्त्रस्य सिद्धौ तु लिङ्गं सर्वत्रमान्यता ॥
बहुधा तु भवेद्गुप्तो दृश्यो न साधकोत्तमः ॥ ३२९ ॥

दशर्चस्य तु सूक्तस्य मधुच्छन्दा मुनिः स्मृतः ॥
देवते चन्द्रमरुतौ गायत्रं छन्द उच्यते ॥ ३३० ॥

युञ्जन्ति ब्रध्न मरुषञ्चरन्तम्परितस्थुषः ॥
रोचन्ते रोचना दिवि ॥ ३३१ ॥

बीलुचिदारुजन्तुभिर्गुहाविदिन्द्रवह्निभिः ॥
अविन्द उ श्रिया अनु ॥ ३३२ ॥

देवयन्तो यथामतिमच्छाविदद्वसुङ्गिरः ॥
महामनूषत सृतम् ॥ ३३३ ॥

इन्द्रेण स हि दृक्षसे यजमानो अविभ्युषा ॥
मन्दूस मानचर्वस ॥ ३३४ ॥

अनवद्यैरभि रघूमिमास्वस्वहस्व दर्चतिम् ॥
गणैरिन्दस्य काम्यैः ॥ ३३५ ॥

अतः परिज्मन्नागहि दिवो वारोचनादधि ॥
समस्मिन्रञ्जते गिरः ॥ ३३६ ॥

इतो वासातिमीमहे देवो वा पार्थिवादधि ॥
इन्द्रं माहो वारजसः ॥ ३३७ ॥

सहदेवी च लज्जालुबला मुस्ताप्रियङ्गवः ॥
एतद्युक्तजलस्नानात्प्रसीदति सदा शिखी ॥ ३३८ ॥

ऊर्णवस्त्रमजापुत्रं ध्वजञ्चापि पताकिकाम् ॥
पीताभां केतुतुष्ट्यै तु दद्याद्वा राजमाषकान् ॥ ३३९ ॥

आषाढस्य सिते पक्षे रौद्रभे केतवोभवन् ॥
अतश्चार्कदिने कार्यः केतूनान्तु महोत्सवः ॥ ३४० ॥

इत्थं वैदिकमार्गेण कथितं ग्रहपूजनम् ॥
ये कुर्वन्तिं सदा तेषां सिद्धिः करतले स्थिता ॥ ३४१ ॥

ग्रहाराधनशीलानामिह लोके परत्र च ॥
सुखं स्यादथ किं वच्मि तद्ब्रुवन्त्विह देवताः ॥ ३४२ ॥

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते नवग्रहकथनप्रकाशस् त्रयोदशः ॥ १३ ॥


  1. आ कृष्णेन रजसा इति अङ्गुष्ठाभ्यां नमः वर्तमानो निवेश्यन् इति तर्जनीभ्यां नमः अमृतं मर्त्यं च इति मध्यमाभ्यां नमः, हिरण्ययेन सविता इति अनामिकाभ्यां नमः रथेनादेवो याति इति कनिष्ठिकाभ्यां नमः भुवनानि पश्यन् इति करतलकरपृष्ठाभ्यां नमः ।
    एवं हृदयादिन्यासमपि कुर्यात् ॥
    अथ पदन्यासः ॥
    आ मूर्ध्नि कृष्णेन नेत्रयोः रजसा कर्णयोः वर्तमानो नासिकायाम् निवेशयन् मुखे अमृतं गले मर्त्यं बाह्वोः च हस्तयोः हिरण्ययेन नाभौ, सविता लिङ्गे रथेन पायौ देवः उरुयुग्मे याति जानुयुग्मे भुवनानि जङ्घ युग्मे, पश्यन् पादयुग्मे ।
    इति पदन्यासः ॥ ↩︎

  2. मधूकः । ↩︎

  3. साम् अङ्गुष्ठाभ्यां नमः, सीं तर्जनीभ्यां नमः सूं मध्यमाभ्यां नमः, सैम् अनामिकाभ्यां नमः सौङ्कनिष्ठिकाभ्यां नमः स करतलकरपृष्ठाभ्यां नमः ।
    अनया रीत्या हृदयादियासमपि कुर्यात् ॥ ↩︎

  4. चन्द्राधिदेवता आपः ।
    तत्प्रत्यधिदेवतोमा ॥ ↩︎

  5. सर्वरोगनिवारणाय शार्ङ्गायसशरायास्त्रराजाय सुदर्शनाय नमः इति सुदर्शनमन्त्रः । ↩︎

  6. शुण्ठी ॥ ↩︎

  7. हिङ्गु ॥ ↩︎

  8. बुधम् ॥ ↩︎

  9. बिधीतकैः ॥ ↩︎

  10. कं नाम जलम् तथा चोक्तम्-मूर्ध्नि चित्ते जले काये मुखे ब्रह्मणि मारुते ॥
    कामे काले सुवर्णे च कशब्दो द्रविणे ध्वनौ ॥
    इत्यनेकार्थध्वनिमञ्जरीकोशे ॥ ↩︎

  11. स्नपयेत् ॥ ↩︎

  12. अयं सान्तोपि पचाद्यचिच्छन्दोवाच्यदन्तम् आर्षत्वात् ॥ ↩︎

  13. अगस्त्यमूलम् ॥ ↩︎

  14. श्रीबृहती ॥ ↩︎

  15. नवानामृचाम् ॥ ↩︎

  16. वारिवाहः । ↩︎

  17. लज्जावती । ↩︎

  18. तस्येति शेषः ॥ ↩︎

  19. त्रिपुरान्गुग्गुलोस्त्रीन्खिण्डान् - इत्यर्थः कोद्वितीयो बहुव्रीहौ । ↩︎

  20. प्रथमः स्वार्थिकशैषिकः । ↩︎