श्रीविष्णुरुवाच ॥
देवदेव महादेव भक्तानुग्रहकारक ॥
कालस्त्वमसि लोकानां महामाया त्वियं परा ॥ १ ॥
युवयोः के तुष्टिकरा मन्त्राः सूक्तानि तद्वद ॥
येन भुक्तिश्च मुक्तिश्च क्लेशो नैव च नैव च ॥ २ ॥
श्रीशिव उवाच ॥
विष्णो गोप्यं त्वया पृष्टं न वाच्यं तान्त्रिके द्विजे ॥
तन्त्रे च तामसं रुपं त्वया पृष्टं तु सात्त्विकम् ॥ ३ ॥
भोगमोक्षैकनिलयं चतुर्वेदोत्तमोत्तमम् ॥
मन्त्रस्तोत्रेश्वरं तन्मे जानीहि शतरुद्रियम् ॥ ४ ॥
छन्दांस्यनुष्ष्टुबादीनि ह्यघोरोस्य मुनिर्मतः ॥
देवतास्य भवेद्रुद्र आदित्यः परपूरुषः ॥ ५ ॥
या ते रुद्रशिखा प्रोक्ता त्वस्मिन्महेति मस्तकम् ॥
सहस्राणि ललाटे च भ्रुवोर्मध्ये च हम्स ऋक् ॥ ६ ॥
याते रुद्रशिवा तनूरघोरा पापकाशिनी ॥
तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥ ७ ॥
अस्मिन्महत्यर्णवे अन्तरिक्षे भवा अधि ॥
तेषागूंसहस्रयोजने वधन्वानि तन्मसि ॥ ८ ॥
सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् ॥
तेषा गूं सहस्रयोजने वधन्वानि तन्मसि ॥ ९ ॥
ह गूं सः शुचिषद्वसुरन्तरिक्ष सद्धोता ॥
वेदिषदतिथिर्दुरोणसत् ॥ १० ॥
त्र्यम्बक 1 न्नेत्रयोश्चैव नमः स्तुत्याय कर्णयोः ॥
मानस्तोके नासिकायामवतत्य मुखे न्यसेत् ॥ ११ ॥
नमः स्तुत्याय च पत्थ्याय च नमः काट्याय च नीप्याय च ॥
नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ॥ १२ ॥
मानस्तोके तनये मा न आयुषि मा नो गोषु मानो अश्वेषुरीरिषः ॥
मा नो वीरान्नुद्रभामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥ १३ ॥
अवतत्य धनुस्त्व गूं सहस्राक्ष शतेषुधे ॥
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥ १४ ॥
नीलग्रीवाद्वयं न्यसेत्क्रमात्कण्ठोपकण्ठयोः ॥
नमस्ते अ या ते हेतिद्वयं बाह्वोः प्रकोष्ठयोः ॥ १५ ॥
नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ॥
तेषा गूं सहस्रयोजनेवधन्वानि तन्मसि ॥ १६ ॥
नीलाग्रीवाः शितिकण्ठा दिव गूं रुद्रा उपाश्रिताः ॥
तेषा गूं सहस्रयोजनेवधन्वानि तन्मसि ॥ १७ ॥
नमस्ते आयुधायानातताय धृष्णवे ॥
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ १८ ॥
या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः ॥
तयास्मान्विश्वतस्त्वमयक्ष्मया परिभुज ॥ १९ ॥
ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ॥
तेषा गूं सहस्रयोजनेवधन्वानि तन्मसि ॥ २० ॥
इमामृचन्तु करयोरङ्गुष्ठादिषु विन्यसेत् ॥
सद्योजातादिकाः पञ्च हृदये तु न्यसेदिमाः ॥ २१ ॥
नमोवः किरिकेभ्यो देवानागूं हृदयेभ्योनमो विक्षीयत्केभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यः ॥ २२ ॥
नमो गणेभ्यः पृष्ठे तु नमो हिरण्यबाहवे ॥
पार्श्वयोर्न्यस्य कुक्ष्योस्तु नमस्तक्षभ्य इत्यपि ॥ २३ ॥
नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमः ॥
नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमः ॥ २४ ॥
नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम्पतये नमः नमः शष्पिञ्जराय त्विषीमते पृथीनाम्पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम्पतये नमो नमो बम्लुशाय ॥ २५ ॥
नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमः नमो निषादेभ्यः पुञ्जिष्ठेभ्यश्च वो नमो नमः श्वनिभ्यो मृगयुभ्यश्च वो नमः ॥ २६ ॥
विज्यन्धनुस्तु जठरे नाभौ हिरण्यगर्भकम् ॥
मिढुष्टमेति कट्याञ्च ये भूतानान्तु गुह्यके ॥ २७ ॥
विज्यन्धनुःकपर्दिनो विशल्यो बाणवाṁ उत ॥
अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः ॥ २८ ॥
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ॥
सदाधारपृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ २९ ॥
मिढुष्टम शिवतम शिवो नः सुमना भव ॥
परमे वृक्ष आयुधन्निधाय कृत्तिं वसान आचर पिनाकम्बिभ्रदामहि ॥ ३० ॥
ये भूतानाम्पतयो विशिखासः कपर्दिनः ॥
तेषागूंसहस्रयोजनेवधन्वानितन्मसि ॥ ३१ ॥
जातवेदादिकाः पञ्च शिरोयुक्ता अपानके ॥
मा नो महान्तमूर्वोश्च एष ते जानुनोर्न्यसेत् ॥ ३२ ॥
जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः ॥
स नः पर्षदतिदुर्गाणि विश्वा नावेवसिन्धुन्दुरितात्यग्निः ॥ ३३ ॥
स यो वृषा वृष्ण्येभिः समो कामहो दिवः पृथिव्याश्च सम्राट् ॥
सतीनसत्वा हव्योभरेषु मरुत्वान्नो भवत्विन्द्र ऊतीः ॥ ३४ ॥
यस्यानाप्तः सूर्यस्येव यामो भरेभरे वृत्रहा शुष्मो अस्ति ॥
वृषन्तमः सखिभिः स्वेभिरेवैर्मरुत्वन्नो भवत्विन्द्र ऊतीः ॥ ३५ ॥
दिवो न यस्य रेतसो दुद्यानाः पन्थासो यन्ति शवसा परीताः ॥
तरदद्वेषाः ससहिः पौंस्येभिर्मरुत्वान्नो भवत्विन्द्र ऊतीः ॥ ३६ ॥
सो अङ्गिरोभिरङ्गिरस्तमो भूद्वृषा वृषभिः सखा सन् ॥
अग्निभिर्-ऋग्भी गातुभिर्ज्येष्ठो मरुत्वान्नो भवत्विन्द्र ऊतीः ॥ ३७ ॥
मानो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ॥
मा नो वधीः पितरम्मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ ३८ ॥
एत्तत्ते रुद्रा वसन्तेन परोमूजवतोतीहि ॥
अवततधन्वा पिनाकावसः कृत्तिवासा अहिगूंसन्नः शिवोतीहि ॥ ३९ ॥
सगूंसृष्टजिज्जङ्घ्योश्च विश्वम्भूतञ्च गुल्फयोः ॥
ये पथां पथिरङ्घ्र्योः स्यादध्यवोचश्च वर्मकम् ॥ ४० ॥
सगूंसृष्टजित्सोनपा बाहुशर्घ्यूर्ध्वधन्वा प्रतिरताभिरस्ता ॥
बृहस्पते परिदीयारथीनरक्षोहा मित्राṁ अपबाधमानः ॥ ४१ ॥
विश्वम्भूतम्भुवनं मित्रम्बहुधा जातञ्जायमानञ्च यत् ॥
सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥ ४२ ॥
ये पथाम्पथिरक्षय ऐलबृदा आयुर्युधः ॥
तेषागूंसहस्रयोजनेवधन्वानि तन्मसि ॥ ४३ ॥
अध्यवोचदधिवक्ता प्रथमो दैव्योभिषक् ॥
अहींश्च सर्वाञ्जम्भयन्सर्वाश्च यातु धान्यो धराचीः परासुव ॥ ४४ ॥
उपवर्मनमो विल्मि नमो अस्तु च नेत्रयोः ॥
प्रमुञ्च धन्वनश्चेति न्यसेन्नेत्रे तृतीयके ॥ ४५ ॥
नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च ॥
नमः श्रुताय च श्रुतसेनाया च नमो दुन्दुभ्याय चाहनन्न्याय च ॥ ४६ ॥
नमोस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ॥
अथो ये अस्य सत्त्वानो हन्तेभ्योकरन्नमः ॥ ४७ ॥
प्रमुञ्च धन्वनस्त्वमुभयोरात्न्योर्ज्याम् ॥
याश्च ते हस्त इषवः परा ता भगवो व्वप ॥ ४८ ॥
एवं षड्विंशदङ्गानां न्यासः प्रथम ईरितः ॥
य एतावन्त इति च कुर्याद्दिग्बन्धनन्ततः ॥ ४९ ॥
परातावन्तश्च भूयागूंसश्च दिशो रुद्रा वितस्थिरे ॥
तेषागूंसहस्रयोजनेवधन्वानि तन्मसि ॥ ५० ॥
अयन्तु सर्वमन्त्राणाम्पठने त्वधिकारकृत् ॥
इमन्न्यासम्प्रकुर्वाणः पावकेपि न नश्यति ॥ ५१ ॥
तारो 2 नमो भगवते रुद्रायेति दशाक्षरः ॥
मन्त्रः प्रोक्तोनेन कुर्यान्न्यासान्ते तु नमस्कृतिम् ॥ ५२ ॥
पश्चादस्यैव मन्त्रस्य वर्णन्यासं समाचरेत् ॥
मस्तके 3 नसि भाले च मुखे कण्ठे तथा हृदि ॥ ५३ ॥
दक्षहस्ते वामहस्ते नाभौ पादद्वये तथा ॥ ५४ ॥
सर्वमन्त्राधिकारि स्यान्न्यासेस्मिंस्तु द्वितीयके ॥
अथ न्यासस्तृतीयोपि प्रोच्यतेत्र शृणुष्व तम् ॥ ५५ ॥
पदोर्हृदि मुखे मूर्ध्नि सद्योजातादिका ऋचः ॥
न्यास्या न्यासे तृतीयेस्मिञ्शैवं तेजः समाविशेत् ॥ ५६ ॥
हंसः सोहमिति ब्रूयाद्भावयेच्च तथा धिया ॥
ततोष्टदिक्षु दिक्पालांस्तत्तन्मन्त्रेण विन्यसेत् ॥ ५७ ॥
त्रातारमिन्द्रमवितारमिन्द्रगूंहवेहवे सुहवगूंशूरमिन्द्रम् ॥
ह्वयामि शक्रं पुरुहूतमिन्द्रगूंस्वस्ति नो मधवा धात्विन्द्रः ॥ ५८ ॥
त्वन्नो अग्ने वरुणस्य विद्वान्देवस्य हेडोवयासिसीष्ठाः ॥
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषा गूं सि प्रमुमुग्ध्यस्मत् ॥ ५९ ॥
सुगं नः पन्थामभयं कृणोतु यस्मिन्नक्षत्रे यम एति राजा ॥
तस्मिन्नेनमभ्यषिञ्चन्त देवास्ते तदस्या चित्र गूं हविषा यजामः ॥ ६० ॥
असुन्वन्तमयजमानमिच्छस्तेन नस्येत्यामन्विहि तस्करस्य ॥
अन्यमस्मदिच्छसात इत्या नमो देवि निर्-ऋते तुभ्यमस्तु ॥ ६१ ॥
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ॥
अहेडमानो वरुणेह बोध्युरुशगूं समान आयुः प्रमोषीः ॥ ६२ ॥
आ नो नियुद्भिः शतिनीभिरध्वरगूं सहस्रिणीभिरुपयाहि यज्ञम् ॥
वायो अस्मिन्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥ ६३ ॥
वय गूं सोमव्रते तव मनस्तनूषु बिभ्रतः प्रजावन्तः सचेमहि ॥ ६४ ॥
तमीशानं जगतस्तस्थुषस्पतिन्धियं जिन्वमसेहूमहेवयम् ॥
पूषा नो यथा वेदसामसद्बृधेक्षितापायुरदब्धःस्वस्तये ॥ ६५ ॥
अस्मे रुद्रा मेहना पर्वतासो वृग्रहत्येभर हूतौसजोषाः ॥
यः शंसते स्तुवते धायि वज्र इन्द्रज्येष्ठा अस्मा अवन्तु देवाः ॥ ६६ ॥
अनेन च नमस्कुर्यादूर्ध्वं चाथो धरातले ॥
धरामन्त्रेण कुर्याच्च स एवं पापवर्जितः ॥
स्योना पथिवि नोभवानृक्षरा निवेशनी ॥
यच्छा नः शर्म सप्रथः अवनिशोःशुचदस्वम् ॥ ६७ ॥
न्यासवन्त समीक्ष्येह प्रेतचौराद्युपद्रवाः ॥
दीप्यमानमशक्तास्ते पलायन्ते विदूरतः ॥ ६८ ॥
मनोज्योतिर्न्यसेद्गुह्ये ह्यबोध्यग्निस्तथोदरे ॥
मूर्धानं हृदये न्यस्य मुखेमर्माणि ते तथा ॥ ६९ ॥
मनोज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञ गूं समिमन्दधातु ॥
या द्रष्टा उषसो निम्रुचस्ताः सन्दधामि हविषा ष्टुतेन ॥ ७० ॥
अबोध्यग्निः समिधा जनानाम्प्रतिधेनु मिवायती मुषासम् ॥
यह्वा इव प्रवयामुज्जिहानाः प्रभानवः सिषनेनाकमच्छ ॥ ७१ ॥
मूर्द्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत -आ जातमग्निम् ॥
कवि गूं सम्राजमतिथिं जनानामासन्नापात्रं जनयन्ति देवाः ॥ ७२ ॥
मर्माणि ते वर्मणाछादयामि सोमस्त्वा राजामृतेनानुवस्ताम् ॥
उरोर्वरीयो वरुणस्ते कृणोतु जयन्तन्त्वा नु देवा मदन्तु ॥ ७३ ॥
जातवेदास्तच्छिरसि न्यामः प्रोक्तश्चतुर्थकः ॥ ७४ ॥
जातवेदा यदि वा पावकोसि वैश्वानरो यदि वा वैद्युतोसि ॥
शं प्रजाभ्यो यजमानाय लोकम् ऊर्जम्पुष्टिं दददभ्यावकृत्स्वः ॥ ७५ ॥
हृदये शिवसङ्कल्पं शिरः पुरुषसूक्तम् ॥
शिखाद्भ्यः सम्भूत इति वर्म प्रतिरथं मतम् ॥ ७६ ॥
अद्भ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताग्रे ॥
तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे ॥ ७७ ॥
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ॥
तमेव विद्वानमृत इह भवति नान्यः पन्था विद्यतेयनाय ॥ ७८ ॥
प्रजापतिश्चरति गर्भे अन्तरजायमानो बहुधा विजायते ॥
तस्य धीराः परिजानन्ति योनिं मरीचीनां पदमिच्छन्ति वेधसः ॥ ७९ ॥
यो देवेभ्य आतपति यो देवानां पुरोहितः ॥
पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥ ८० ॥
रुचं ब्राह्मञ्जनयन्तो देवा अग्रे तदब्रुवन् ॥
यस्त्वेवं ब्राह्मणो विद्यात्तस्य देवा असन्वशे ॥ ८१ ॥
श्रीश्च ते लक्ष्मीश्च पत्न्या वहोरात्रे पार्श्वे नक्षत्राणि रुपमश्विनौ व्यात्तम् ॥
इष्णन्निषाणमुं म इषाण सर्वलोकं म इषाण ॥ ८२ ॥
शतरुद्रियमस्त्रं स्यादथ पञ्चाङ्गमुच्यते ॥
न्यासस्तु पञ्चमः प्रोक्तोयं सर्वाभीष्टसाधकः ॥ ८३ ॥
त्वमग्नेरुद्रो असुसे महो दिवस्त्व गूं सर्धो मारुतं यक्ष ईशिषे ॥
त्वं वातैररुणैर्यासि शं गयस्त्वं पूषापि च नः पासि तु त्मना ॥ ८४ ॥
देवा देवेषु श्रयध्वं प्रथमा द्वितीयेषु ॥
श्रयध्वं द्वितीयास्तृतीयेषु श्रयध्वं तृतीयाश्चतुर्थेषु ॥ ८५ ॥
श्रयध्वं चतुर्थाः पञ्चमेषु श्रयध्वं पञ्चमाः षष्ठेषु ॥
श्रयध्वं षष्ठाः सप्तमेषु श्रयध्वं सप्तमा अष्टमेषु ॥ ८६ ॥
श्रयध्वम् अष्टमा नवमेषु श्रयध्वं नवमा दशमेषु ॥
श्रयध्वं दशमा एकादशेषु श्रयध्वम् एकादशा द्वादशेषु ॥ ८७ ॥
श्रयध्वं द्वादशास्त्रयोदशेषु श्रयध्वं चतुर्दशाः पञ्चदशेषु ॥
श्रयध्वं पञ्चदशाः षोडशेषु श्रयध्वं षोडशाः सप्तदशेषु ॥ ८८ ॥
श्रयध्वं सप्तदशा अष्टादशेषु श्रयध्वम् अष्टदशा एकोनविगूंशेषु ॥
श्रयध्वम् एकोनवि गूं शा वि गूं शेषु श्रयध्वं वि गूं शा एकवि गूं शेषु ॥ ८९ ॥
श्रयध्वम् एकविगूंशा द्वाविगूंशेषु श्रयध्वं द्वाविगूंशास्त्रयोविगूंशेषु ॥
श्रयध्वं त्रयोवि गूं शाश्चतुर्वि गूंशेषु श्रयध्वं चतुर्वि गूं शाः पञ्चवि गूं शेषु ॥ ९० ॥
श्रयध्वं पञ्चविगूंशाः षड्विगूं शेषु श्रयध्वं ङ्वेगूं शाः सप्तविगूंशेषु ॥
श्रयध्वं सप्तविगूंशा अष्टावि गूंशेषु श्रयध्वम् अष्टाविगूंशा एकोनत्रिगूंशेषु ॥ ९१ ॥
श्रयध्वम् एकोनत्रिगूंशास्त्रिगूंशेषु श्रयध्वं त्त्रिगूंशा एकत्रिगूंशेषु ॥
श्रयध्वम् एकत्रिगूंशा द्वात्रिङ्गूंशेषु श्रयध्वं द्वात्रिगूंशास्त्रयस्त्रिगूंशे ॥ ९२ ॥
श्रयध्वं देवास्त्रिरेकादशास्त्रिस्त्रयस्त्रिगूंशा उत्तरे भवन्तु ॥
उत्तरवर्त्मान उत्तरसत्त्वानः ॥
यत्काम इदं जुहोमि तन्मे समृध्यतां वयगूंस्याम पतयोरयीणां भूर्भुवःस्वःस्वाहा ॥ ९३ ॥
पञ्चाङ्गन्यासमेवन्तु कृत्वाष्टाङ्गं नमेच्छिवम् ॥
जपं निवेद्य रुद्रायोपतिष्ठेत्ततः पुनः ॥ ९४ ॥
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ॥
सदाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ ९५ ॥
प्राणतो निमिषतो महित्वैक इन्द्रो राजा जगतो बभूव ॥
यद्वशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥ ९६ ॥
ब्रह्मजज्ञानम्प्रथमम्पुरस्ताद्विसीमतः सुरुचो वेन आ वः ॥
सबुध्निया उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥ ९७ ॥
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षतां पिपृतां नो भरीमभिः ॥ ९८ ॥
उपश्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ॥
स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अपसेध शत्रून् ॥ ९९ ॥
अग्ने नय सुपथारा ये अस्माद्विश्वानि देववयुनानि विद्वान् ॥
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ १०० ॥
या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मानम् ॥
अष्टावसूनि कृण्वन्नस्मै नर्या पुरूणि यज्ञो भूत्वा यज्ञमासीद स्वयोने ॥ १०१ ॥
जातवेदा भुव आजायमानो यथा च स्वाहाग्नये घृतवद्भिस्तु हव्यैः ॥
तेभिर्नो अग्ने अमितैरहोभिः शतं पूर्भिरायसीभिर्निपाहि ॥ १०२ ॥
इमं यमप्रस्तरमाहि सीदाङ्गिरोभिः पितृभिः संविदा नः ॥
आत्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व ॥ १०३ ॥
इत्युपस्थाय देवन्तु देवयोगं समाचरेत् ॥
तिष्ठत्वीशो नासिकायां चन्द्रादित्यौ च नेत्रयोः ॥ १०४ ॥
कर्णयोरश्विनौ चापि रुद्रास्तिष्ठन्तु मेढ्रके ॥
तिष्ठन्तु मूर्ध्नि चादित्या महादेवः शिरोगतः ॥ १०५ ॥
शिखाया वासुदेवश्च पिनाकी चापि पृष्ठके ॥
पुरस्तिष्ठतु शैली च पार्श्वयोः शिवशङ्करौ ॥ १०६ ॥
सर्वतश्चापि वायुश्च सर्वतश्च ततो बहिः ॥
अग्निज्वालामालिकाश्च तिष्ठन्तु बहुशो मम ॥ १०७ ॥
सर्वेष्वङ्गेषु सर्वे च तिष्ठन्तु मम देवताः ॥
तिष्ठं मामिति प्रोच्य प्रपञ्चं मनसा हुनेत् ॥ १०८ ॥
अग्निर्मे वाचि श्रितः वाग्घदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ॥ १०९ ॥
वायुर्मे प्राणे श्रितः प्राणो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ॥ ११० ॥
सूर्यो मे चक्षुषि श्रितः चक्षुर्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ॥ १११ ॥
चन्द्रमा मे मनसि श्रितः मनो हृदये हृदयम् अहममृते अमृतं ब्रह्मणि ॥ ११२ ॥
दिशो मे श्रोत्रे श्रिताः श्रोत्र गूं हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ॥ ११३ ॥
आपो मे रेतसि श्रिताः रेतो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ॥ ११४ ॥
पृथिवी मे शरीरे श्रिता शरीरगूंहृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ॥ ११५ ॥
ओषधिवनस्पतयो मे लोमसु श्रिताः लोमानि हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ॥ ११६ ॥
इन्द्रो मे बले श्रितः बलगूंहृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ॥ ११७ ॥
पर्जन्यो मे मूर्ध्नि श्रितः मूर्द्धा हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ॥ ११८ ॥
ईशानो मे मन्यौ श्रितः मन्युर्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ॥ ११९ ॥
आत्मा म आत्मनि श्रितः आत्मा हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ॥ १२० ॥
पुनर्म आत्मा पुनरायुगात् पुनः प्राणः पुनराकूतमागात् ॥
वैश्वानरो रश्मिभिर्वावृधानः अन्तस्तिष्ठत्वमृतस्य गोपाः ॥ १२१ ॥
न्यासानेवं विधायाथ ध्यायेदात्मानमीश्वरम् ॥
पार्थिवोक्तप्रकारेण लिङ्गपूजां ततश्चरेत् ॥ १२२ ॥
आराधितो मनुष्यैस्त्वं सिद्धैर्देवासुरादिभिः ॥
आराधयामि भक्त्या त्वां मां गृहाण महेश्वर ॥ १२३ ॥
आ त्वा वहन्तु हरयः सजेतसः श्वेतैरश्वैरहरहः केतुमद्भिः ॥
वाता जलैर्बलवद्भिर्मनोजवैर्माम्पाहि शीघ्रम्मम हव्याय शर्व ॥ १२४ ॥
एतत्ते रुद्रा वसन्तेन परोमूजवतोतीहि ॥
अवततधन्वोपिनाकाव सः कृत्तिवासा अहि गूं सन्नः शिवोती हि ॥ १२५ ॥
चत्वारि शृङ्गास्त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य ॥
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याम् आविवेश ॥ १२६ ॥
प्रसन्नो भव देवेश सुमुखो भव शङ्कर ॥
शान्तो भवस्व चात्र त्वं मम चाभिमुखो भव ॥ १२७ ॥
स्वामिन्सर्वजगन्नाथ यावत्पूजावसानकम् ॥
तावत्त्वं प्रीतिभावेन लिङ्गेस्मिन्सन्निधो भव ॥ १२८ ॥
अभिषेकं ततः कुर्यादमृतैः पञ्चभिः क्रमात् ॥
पश्चाच्छुद्धोदकेनाथ ततः पूजनमारभेत् ॥ १२९ ॥
रौद्रीन्धारान्ततः कुर्यात्प्रोच्यते तद्विधानकम् ॥
नमस्ते रुद्राग्नाविष्णू इत्यध्यायद्वयेन च ॥ १३० ॥
आवर्तनमिति प्रोक्तं गङ्गास्नानफलप्रदम् ॥
आवर्तनाभिषेकं तु यः कुर्यात्प्रत्यहं नरः ॥ १३१ ॥
तस्यैव दिनजं पापं दैवजं नाशमाप्नुयात् ॥
सन्ध्यावन्दनतः क्षीणं तच्चेत्प्राग्जन्मजम्भवेत् ॥ १३२ ॥
एकः पाठो नमस्ते च अनुवाकः परस्य च ॥
एवम्भवाय नस्तस्युः आ ना विष्णुस्तथैककम् ॥ १३३ ॥
इदं रुद्रियमाख्यातं रौद्रपापनिकृन्तनम् ॥
अनेन प्रत्यहं यस्तु कुर्याल्लिङ्गाभिषेचनम् ॥ १३४ ॥
जन्मजन्मकृतं पापं वर्षेवर्षे प्रणश्यति ॥
सप्तजन्मकृते पापे नष्टे लक्ष्मीर्विवर्धते ॥ १३५ ॥
वंशश्च स्थिरतामेति यशो याति दिगन्तरम् ॥
सूते 4 चास्य यथारूपं तथा तोये प्रदृश्यते ॥ १३६ ॥
रुद्रीभिरेकादशभिराद्य रुद्रः प्रकीर्तितः ॥
अनेन सिक्तं यैर्लिङ्गन्ते न पश्यन्ति भास्करिम् ॥ १३७ ॥
एकादशभिरेतैस्तु महारुद्रः प्रकीर्तितः ॥
धनप्रदोऽधनानाञ्च महापातकनाशनः ॥ १३८ ॥
अनेन विहितो होमः सोमयागफलप्रदः ॥
योनाधिकारि दीक्षायान्तस्य पापक्षयङ्करः ॥ १३९ ॥
एकादशमहारुद्रैरतिरुद्रः प्रकीर्तितः ॥
अतिपापहरोयं स्याद्दृष्टन्यायेन निष्कृतिः ॥ १४० ॥
विश्वासघातनं स्वामिद्रोहोऽन्यायेन दण्डनम् ॥
कृतघ्नता च सामर्थ्ये शरणागतनाशनम् ॥ १४१ ॥
अतिपापानि पञ्चेति शप्ते देशे तपस्तथा ॥
अकर्मणि कृते यत्तदतिरुद्रो विनाशयेत् ॥ १४२ ॥
शाखायां यस्य तु यथा स्वाध्यायौ पठितावुभौ ॥
पठनीयौ तथा तेन शाखाखण्डं न कारयेत् ॥ १४३ ॥
न रुद्रो यस्य शाखायान्तैत्तिरीयं पठेत्स तु ॥
शाखा तु यजमानस्य ब्राह्मणद्वारतः कृता ॥ १४४ ॥
अथ वा तैत्तिरीयाणां नान्यशाखा प्रपूज्यते ॥
शाखामिश्रं कृतं कर्म यजमानं विनाशयेत् ॥ १४५ ॥
धनलोभात्परार्थं यो माभिषिञ्चति मूढधीः ॥
स तु चाण्डालवज्ज्ञेयो निर्धनस्सप्तजन्मसु ॥ १४६ ॥
कुटुम्बिना तु यत्नेन धनार्थम्मम पूजनम् ॥
कृतं चेज्जपदानाभ्यां तद्रुद्रांशोस्य निष्कृतिः ॥ १४७ ॥
काको ब्रह्मस्वभोक्ता स्याच्छिवस्वाशी तु कुक्कुटः ॥
देव्यन्नभोक्ता प्लवगो मूषको विष्णुवित्तभुक ॥ १४८ ॥
चण्डीचण्डीशनिर्माल्यं तथा वैनायकं द्विजाः ॥
प्रसादं न च गृह्णन्ति स्वयन्दत्तादृते क्वचित् ॥ १४९ ॥
न सत्कृतं त्वविधिना यैर्वित्तेनान्यजन्मनि ॥
भूत्वा मे पूजकास्ते तु सुखं कुर्वन्त्यनुत्तमम् ॥ १५० ॥
रुद्रो न यस्य शाखायाम्परिशिष्टान्वितं स तु ॥
पठेद्रुद्रन्तैत्तिरीयं लुप्तशाखस्तमेव हि ॥ १५१ ॥
मन्त्रप्रयोगसहितो रुद्राध्यायोथ वक्ष्यते ॥
असंस्कृताय नो वाच्यं तान्त्रिकाय कदाचन ॥ १५२ ॥
ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः ॥
नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः ॥ १५३ ॥
या त इषुः शिवतमा शिवम्बभूव ते धनुः ॥
शिवा शरख्या या तव तया नो रुद्र मृडय ॥ १५४ ॥
या ते रुद्रशिवा तनूरघोरा पापकाशिनी तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥ १५५ ॥
यामिषुं गिरिशन्तहस्ते बिभर्ष्यस्तवे ॥
शिवां गिरित्र तां कुरु माहिगूंसीः पुरुषं जगत् ॥ १५६ ॥
शिवेन वचसा त्वा गिरिशाच्छावदामसि ॥
लक्षमेकं प्रजुहुयाद्गोघृतं योत्र सुप्रभम् ॥ १५७ ॥
माध्वीकं मधुकं क्षौद्रन्तिलांश्च दधिसंयुतान् ॥
यत्किञ्चित्कार्यमुद्दिश्य तस्य सिद्धिः प्रजायते ॥ १५८ ॥
एवमेव सहस्रं चेदेकादशदिनं हुनेत् ॥
बालानां मारका ग्रामे नश्यन्त्येव न संशयः ॥ १५९ ॥
कुमारमारकश्चैव द्वादशाहेन नश्यति ॥
होमः पञ्चदशाहन्तु राज्योपद्रवनाशनः ॥ १६० ॥
होमाद्विंशतिरात्रेण देशोपद्रवनाशनम् ॥
पृथिव्युपद्रवो नश्येन्मासमात्रेण होमतः ॥ १६१ ॥
गवामुपद्रवे जाते गोष्ठमध्ये तदा हुनेत् ॥
वैकङ्कतसमिद्भिश्चायुतं 5 शान्तिः प्रजायते ॥
अयुतं रुद्रहोमेन महाशान्तिर्भवेद्ध्रुवम् ॥ १६२ ॥
यथा नः सर्वमिज्जगदयक्ष्मगूं सुमना असत् ॥
जपेदयुतसङ्ख्याकं शापमोक्षः प्रजायते ॥
शिशिरे तु जले प्रातर्लक्षञ्जप्त्वा सुखी भवेत् ॥ १६३ ॥
अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ॥
अहीं श्च सर्वाञ्जम्भयत्न्सर्वाश्च यातुधान्यो धराचीः परासुव ॥ १६४ ॥
लक्षमेकं पुरश्चर्या होमः स्याद्घृतसर्षपैः ॥
व्याधीनां नाशनं चेत्थं प्रयोगान्तरमुच्यते ॥ १६५ ॥
सप्ताभिमन्त्रितान्कृत्वा सर्षपानातुरस्य च ॥
चतुर्दिक्षु क्षिपेद्रक्षा दशदिग्भ्यः प्रजायते ॥ १६६ ॥
सप्ताभिमन्त्रितान्कृत्वा पथि गच्छंस्तु सर्षपान् ॥
दशदिक्षु क्षिपेन्नित्यं पथि क्षेमं प्रजायते ॥ १६७ ॥
ब्रह्मराक्षसयक्षाद्यैः पिशाचप्रेतभूतकैः ॥
आविष्टः सर्षपैस्ताड्यः सप्तवाराभिमन्त्रितैः ॥ १६८ ॥
पुनः पुनर्मन्त्रपाठं पूर्वं कृत्वा धनार्थिनः ॥
धनं गृहीत्वा गच्छन्ति करे चन्दनमेव हि ॥ १६९ ॥
शिखामाक्रम्य च जपेत्ताडयेद्गौरसर्षपैः ॥
रात्रिं समस्तां स्कन्दादिग्रहपीडा विनश्यति ॥ १७० ॥
अनेन मन्त्रयित्वा तु दद्याच्छास्त्रोक्तमौषधम् ॥
तत्कालं तद्गुणो यः स्यादन्यथा तु यथा तिथिः ॥ १७१ ॥
अभिमन्त्र्य जलं दद्यात्सर्वसत्त्वभवां रुजम् ॥
हरेत्सविग्रहाणां च सर्षपैस्ताडनैस्तथा ॥ १७२ ॥
सर्वभूतोद्भवां पीडां भस्मधारणतो जयेत् ॥
दिवसे च तथा रात्रौ त्रिशूलमभिमन्त्रयेत् ॥ १७३ ॥
सहस्रैकं समादाय क्षिपेन्नागह्रदे तु तत् ॥
त्रिशूलेनास्तवेगास्ते नाशं गच्छन्ति पन्नगाः ॥ १७४ ॥
भस्माभिमन्त्रितं कृत्वा पन्नगाक्रान्तमन्दिरे ॥
क्षिपेत्तत्तालशब्देन पन्नगोत्सादनं भवेत् ॥ १७५ ॥
असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ॥
ये चैनगूंरुद्रा भितो दिक्षुः श्रिताः सहस्रशो वैषागूंहेड ईमहे ॥ १७६ ॥
असौ योऽवसर्पति नीलग्रीवो विलोहितः ॥
उतैनं गोपा अदृशं न दृशन्नु दहार्यः ॥
उतैनं विश्वा भूतानि सदृष्टो मृडयाति नः ॥ १७७ ॥
उदयास्तमयोः सूर्यमेताभ्यामुपतिष्ठते ॥
अष्टोत्तरशतं त्र्यब्दमक्षयोविभवो 6 भवेत् ॥ १७८ ॥
सहस्रमभिजप्तेन क्षीरेण स्नापयेच्छिवम् ॥
अब्दैकेन प्रसन्नः स्याद्घृतस्रावाच्च वर्षणम् ॥ १७९ ॥
अतसीनान्तु पुष्पाणि हुनेदयुतसङ्ख्यया ॥
अवश्यो वश्यतां याति सविता वरदो भवेत् ॥ १८० ॥
अर्कमूलोद्भवैर्दुग्धैराप्लुतानां तु होमयेत् ॥
अयुतं चार्कसमिधां शक्तश्चेत्स जले जपेत् ॥ १८१ ॥
होमान्ते भगवान्सूर्यो वृष्टिं मुञ्चति नान्यथा ॥
मन्त्रद्वयं तु भजतामिष्टां सिद्धिं प्रयच्छति ॥ १८२ ॥
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ॥
अथो ये अस्य सत्त्वानोहन्ते भ्योकरन्नमः ॥
स्थण्डिलस्योपकण्ठे तु कृत्वा सघृतपायसम् ॥ १८३ ॥
कृष्णाष्टमीं समारभ्य यावत्कृष्णचतुर्दशी ॥
प्रत्यहं स्थापयेत्तावत्सहस्रेणाभिमन्त्रितम् ॥
निवेदयेत्तु देवाय कार्षापणसहस्रकम् ॥ १८४ ॥
उद्यमाज्जायते लाभः सिद्धे मन्त्रे न संशयः ॥
असिद्धे तु तदर्धं स्यात्सूर्यकान्तवृषाद्यपि ॥
निवेदनात्पुनर्लाभो लक्षमेकं पुरस्कृतिः ॥ १८५ ॥
होमस्तु पायसघृतैरनाख्येयः प्रयोगवान् ॥
प्रमुञ्चधन्वनस्तमुभयो रात्न्योर्ज्याम् ॥
याश्च ते हस्त इषवः परा ता भगवो वप ॥ १८६ ॥
अवतत्य धनुष्ट्वगूंसहस्राक्ष शतेषुधे ॥
निशीर्य शल्यानाम्मुखा शिवो नः सुमना भव ॥ १८७ ॥
विज्यं धनुः कपर्दिनो विशल्यो बाणवाṁ उत ॥
अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः ॥ १८८ ॥
या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः ॥
तयास्मान्विश्वतस्त्वमयक्ष्मया परिभुज ॥ १८९ ॥
नमस्ते अस्त्वायुधायानातताय धृष्णवे ॥
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ १९० ॥
परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः ॥
अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥ १९१ ॥
आयुधान्यभिमन्त्र्येमाञ्जप्त्वा पञ्चसहस्रकम् ॥
बन्धयित्वा निरसयेद्गच्छेद्गच्छन्ति शत्रवः ॥ १९२ ॥
जुहुयादयुतन्दर्भकण्टकान्द्वेषकामुकः ॥
गुडम्मुखेन चोच्चार्य शत्रोर्नाम स्मरन्हुनेत् ॥ १९३ ॥
जपाख्यसवनेनैव शत्रुमुत्सादयेद्धठात् ॥
सम्पूर्णाहं जपन्नुत्सादयेत्सग्राममेव च ॥ १९४ ॥
उत्सादयेत्तु राजानमहोरात्रं दिनार्धके ॥
चतुर्भागेन वैश्यन्तु षड्भागेनैकजातिकम् ॥ १९५ ॥
पलाशाश्वत्थबिल्वानामपामार्गस्य च क्रमात् ॥
विप्रादिवश्यकामस्तु दधिक्षौद्रघृतान्विताः ॥ १९६ ॥
हुनेदयुतसङ्ख्याकाः समिधः कार्यसिद्धये ॥
हीनवर्णान्वशीकर्तुं वरुणार्ककवेतसान् ॥ १९७ ॥
शाखोटकांश्च जुहुयादष्टाविंशशतानि च ॥
सौगन्धिकानुत्पलाग्निकुमुदानि प्रयच्छति ॥ १९८ ॥
स्वयन्तु लिङ्गे लक्षन्तु चन्दनाक्तानि भक्तितः ॥
राज्यभ्रष्टो भवेद्राजा षड्भिर्मन्त्रैः पृथक्पृथक् ॥ १९९ ॥
धनार्थी प्राप्नुयाद्वित्तं शम्भुमेवं प्रपूजयन् ॥
लक्षमेकन्तिलानां यः पृथग्धत्ते शिवोपरि ॥ २०० ॥
आरोपयेत्स शत्रूणां मूर्ध्नि तिष्ठति नित्यशः ॥
अयुतं राजवृक्षस्य समिधो होमयेत्तु यः ॥ २०१ ॥
रणे राजकुले द्यूते स शत्रुं त्वरितञ्जयेत् ॥
गुग्गुलुं षट्सहस्रं यो दक्षिणामूर्तिसन्निधौ ॥ २०२ ॥
यत्कार्यार्थं हुनेत्तस्य सिद्धिः शीघ्रं प्रजायते ॥
असाध्यस्यापि सिद्धिः स्याद्धृत्वा चाष्टसहस्रकम् ॥ २०३ ॥
यथा महानसे सिद्धमन्नञ्च जुहुयात्तथा ॥
सहस्राष्टकमेतस्य द्रव्यम्भवति चाक्षयम् ॥ २०४ ॥
एका ऋक् परिशिष्टस्य एतस्याग्रे प्रवक्ष्यत ॥
तभ्यं लोकोपकाराय सावधानतया शृणु ॥ २०५ ॥
नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरुषाय त्रिपुरान्तकाय त्रिकालाय कालाग्निरुद्राय नीलकण्ठाय सर्वेश्वराय सदाशिवाय श्रीमहादेवाय नमः ॥ २०६ ॥
अयुतं यो जपेदेतां घृताक्तैर्बिल्वपत्रकैः ॥
प्रतिनाम सहस्रं तु जुहुयाल्लोकवन्दितः ॥ २०७ ॥
नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम्पतये नमोनमः ॥
शष्पिञ्जराय त्विषीमते पथीनाम्पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम्पतये नमोनमः ॥ २०८ ॥
नमो बभ्लुशाय व्याधिनेन्नानाम्पतये नमो नमो भवस्य हेत्यै जगताम्पतये नमः ॥
नमो रुद्रायाततायिने क्षेत्राणाम्पतये नमो नमः सूतायाहन्त्यै वनानाम्पतये नमोनमः ॥ २०९ ॥
पुरश्चरणमेतस्य सहस्रं चैकमीरितम् ॥
यः सङ्ग्रामगतस्तस्य कौशल्यार्थमिदञ्जपेत् ॥ २१० ॥
जपप्रभावाच्छस्त्रास्त्रैः सोरिभिर्वैव बाध्यते ॥
सूतायाहन्त्यै पूर्वन्तु परिशिष्टं निगद्यते ॥ २११ ॥
ललाललततायिनाम्पतये नमो नमो ननाननततायिनाम्पतये नमः ॥
नमो रोहिताय स्थपतये वृक्षाणाम्पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम्पतये नमोनमः ॥ २१२ ॥
मन्त्रिणे वाणिजाय कक्षाणाम्पतये नमो नम उच्चैर्घोषायाक्रन्द यते पतीनाम्पतये नमोनमः ॥ २१३ ॥
कृत्स्नवीताय धावते सत्त्वानाम्पतये नमो नमस्सहमानाय निव्याधिन आव्याधिनीनाम्पतये नमो नमः ॥
नमो निषङ्गिणे ककुभाय स्तेनानाम्पतये नमो नमो निषङ्गिणे इषुधिमते तस्कराणाम्पतये नमो नमः ॥ २१४ ॥
सहस्रपञ्चकञ्चास्य पुरश्चरणमुच्यते ॥
एतज्जप्तुर्भयं नास्ति व्याघ्रचौरादिकैर्वने ॥ २१५ ॥
नमो वञ्चते परिवञ्चते स्तायूनाम्पतये नमो नमो निचेरवे परिचरायारण्यनाम्पतये नमो नमः ॥
सकायिभ्यो जिघागूं सद्भ्यो मुष्णताम्पतये नमो नमो समिद्भ्यो नक्तञ्चरद्भ्यो विकृन्तानाम्पतये नमोनमः ॥ २१६ ॥
उष्णीषिणे गिरिचराय कुलञ्चानाम्पतये नमो नमः इषुमद्भ्यो धन्वायिभ्यश्चवो नमः ॥
नमः आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमः नम आयच्छद्भ्योस्यद्भ्यश्च वो नमोनमः ॥ २१७ ॥
सहस्राष्टकमेतस्य पुरश्चरणमुच्यते ॥
व्रणादेस्तीव्रपीडा या नाशकोस्य जपः स्मृतः ॥ २१८ ॥
विसृजद्भ्यो विद्वद्भ्यश्च वो नमा नमः स्वपद्भ्यो जाग्रद्भ्येश्च वो नमः ॥
नमः शयानेभ्य आसीनेभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यो श्च वो नमोनमः ॥ २१९ ॥
समाभ्यः सभापतिभ्यश्च वो नमः ॥
अश्वेभ्यो अश्वपतिभ्यश्च वो नमः ॥ २२० ॥
सहस्रनवकन्तावत्पुरश्चरणमस्य तु ॥
सेनायाश्चतुरङ्गानां शान्तये प्रजपेदिदम् ॥ २२१ ॥
नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उपगणाभ्यस्तृ गूं हतीभ्यश्च वो नमः ॥ २२२ ॥
नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमः ॥
नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमः ॥ २२३ ॥
नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो ननो रथिभ्यो रथपतिभ्यश्चवो नमः ॥
नमः सेनाभ्यः सेनानीभ्यश्च वो नमो नमः क्षतृभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमो महद्भ्यो अर्भकेभ्यश्च वो नमः ॥ २२४ ॥
नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमः ॥
नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम-इषुकृद्भ्योधन्वकृद्भ्यश्च वो नमः ॥
नमो मृगयुभ्यः शनिभ्यश्च वो नमो नमः श्वभ्यः श्वपतिभ्यश्च वो नमः ॥ २२५ ॥
पुरश्चरणमेतस्य सहस्राणां तु षोडश ॥
दुष्टग्रहबलिं दत्त्वा जप्त्वा चैतान्निरामयः ॥ २२६ ॥
नमो भवाय च रुद्राय नमः शर्वाय च पशुपतये च ॥
नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युप्तकेशाय च ॥ २२७ ॥
नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च ॥
नमो मीढुष्टमायेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च ॥ २२८ ॥
पुरश्चर्यायुतं चास्य विभवार्थं प्रयोजयेत् ॥
त्रिसन्ध्यं यः पठेदेतदेवं वर्षेण भाग्यवान् ॥ २२९ ॥
नमो अग्रेयाय च प्रथमाय च नम आशवे चाजिराय च ॥
नमः शिघ्र्याय च शीभ्याय च नम ऊर्म्याय चावस्वन्याय च नमः स्रोतस्याय च दीप्याय च ॥ २३० ॥
सहस्रपञ्चकं तावत्पुरश्चरणमुच्यते ॥
गणाग्रं तृप्तिमाप्नोति यन्मतं च परैरपि ॥ २३१ ॥
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च ॥
नमो मध्यमाय चाप्रगल्भ्याय च नमो जघन्याय च बुध्न्याय च ॥ २३२ ॥
नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च ॥
श्लोक्याय च वसान्याय च नम उर्वर्याय च खल्याय च ॥ २३३ ॥
नमो वन्याय च कक्ष्याय च नम श्रवाय च प्रतिश्रवाय च ॥ २३४ ॥
सहस्रदशकं तावत्पुरश्चरणमुच्यते ॥
ज्ञातिश्रेष्ठत्वमाप्नोति जपेनैव न संशयः ॥ २३५ ॥
नम आशु शेणाय चाशुरथाय च नमः शराय चावभेदिने च ॥
नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च ॥ २३६ ॥
पुरश्चर्यास्य निर्दिष्टा सहस्राणां तु पञ्चकम् ॥
जात्या नश्यति खञ्जत्वं पादुकासिद्धिमाप्नुयात् ॥ २३७ ॥
नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च ॥
नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च ॥ २३८ ॥
नमस्तीक्ष्णेषवे चायुधिने च नमः श्रुत्याय च पथ्याय च ॥
नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च ॥
नमो नादेयाय च वैशन्ताय च ॥ २३९ ॥
अयुतद्वितयं चास्य पुरश्चरणमुच्यते ॥
सङ्ग्रामे जयकृच्चायमनुवाकः प्रकीर्तितः ॥ २४० ॥
नमः कूप्याय चावट्याय च नमो वर्याय चावर्याय च ॥
नमो मेध्याय च विद्युत्याय च नम इन्द्रियाय चातथ्याय च ॥ २४१ ॥
नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च ॥ २४२ ॥
षट्सहस्रं पुरश्चर्या ग्रहेणाधिष्ठितो रविः ॥
अभिमन्त्रणमेतेन तेन तोयं विमुञ्चति ॥ २४३ ॥
नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गवे च पशुपतये च नम उग्राय च भीमाय च ॥ २४४ ॥
नमो अग्रेवधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च ॥
नमो वृक्षेभ्यो ह्रिकेशेभ्यो नमस्ताराय ॥ २४५ ॥
नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥ २४६ ॥
पुरश्चर्यायुतमिता जपेदष्टोत्तरं शतम् ॥
त्रिकाल्ं भस्मतोयञ्च भक्षयेल्लेपयेत्तथा ॥ २४७ ॥
मासत्रयाद्राजयक्ष्मा किलातश्चित्रमब्दतः ॥
नश्यत्येव भवेद्दिव्यो रोगः क्षुद्रो दिनत्रयात् ॥ २४८ ॥
नमस्तीर्थ्याय च कूल्याय च नमो वार्याय चावार्याय च ॥
नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय चाध्मानाय च ॥ २४९ ॥
नमः शष्पाय च फेन्याय च नमः सिकत्याय च प्रबाह्याय च ॥ २५० ॥
षट्सहस्रं पुरश्चर्याषण्मासं तीर्थगो जपेत् ॥
यथोक्तं तत्तीर्थफलं लभते चेह जन्मनि ॥ २५१ ॥
नम इरिण्याय च प्रमथ्याय च नमः किगूं शिलाय च क्षयाणाय च नमः कपर्दिने च पुलस्तये च ॥ २५२ ॥
नमो गोष्ठ्याय च गृह्याय च नमस्तल्पाय च गेह्याय च ॥
नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेष्याय च ॥ २५३ ॥
नमः पागूंसंव्याय च रजस्याय च नमः शुष्काय च हरित्याय च नमो लोप्याय च चोल्प्याय च ॥ २५४ ॥
सहस्रनवकं तावत्पुरश्चरणमुच्यते ॥
धातुवादो राजसश्च सिध्यत्येतत्प्रसादतः ॥ २५५ ॥
अत्रास्ति परिशेषस्यानुवाकोप्येक एव हि ॥
रजस्याय च एतस्य नमोन्तस्याग्रतः पठेत् ॥ २५६ ॥
नमो नेदिष्ठाय च कृशाङ्गाय च नमः पराय च परतराय च ॥
नमः परमाय च धूमाय च नमो हराय च ताराय च ॥ २५७ ॥
नमो वामनाय च हरिण्याय च नमः शिवाय च हरिकेशाय च ॥ २५८ ॥
सहस्राष्टकमेतस्य पुरश्चरणमुच्यते ॥
बालग्रहा विनश्यन्ति वर्हिषोदकमार्जनात् ॥ २५९ ॥
नम ऊर्व्याय च सूर्याय च नमः पर्णाय च पर्णशदाय च ॥
नम उद्गुरुमाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च ॥ २६० ॥
अस्य नवसहस्राणां पुरश्चरणमुच्यते ॥
अभिमन्त्र्य जलं देयं शोकशान्त्यै तु शोकिने ॥ २६१ ॥
नमो वः किरिकेभ्यस्सर्वत्र देवानागूं हृदयेभ्य इति ॥
परिशिष्टं चैतदत्र प्रयोगेष्वपि यो जपेत् ॥ २६२ ॥
तिलहोमेनायुतेन कार्यं पलसहस्रकम् ॥
प्रतिष्ठाञ्चैव भूपालात्प्राप्नुयाद्वर्षमध्यतः ॥ २६३ ॥
हुनेद्गोमद्यखण्डानि चैकादशसहस्रकम् ॥
घृताक्तानि प्रदातव्या गाव एकादशैव हि ॥ २६४ ॥
पुरश्चरणपूर्वन्तु लक्षैकं तिलतण्डुलान् ॥
यो हुनेत्तस्य गेहे तु राजलक्ष्मीः स्वयं वसेत् ॥ २६५ ॥
एवं च तिलधान्याभ्यां होमाल्लक्ष्मीः स्थिरा भवेत् ॥
शतपुष्पमयीं कृत्वा प्रतिमां राजरूप्यकाम् ॥ २६६ ॥
सहस्रं जुहुयाद्राजा वशोवश्यं प्रजायते ॥
पद्मोत्पलानां लक्षन्तु हुत्वा भूपश्रियं लभेत् ॥ २६७ ॥
चणकप्रतिमा लक्षं होमयेद्गुग्गुलोर्वटीः ॥
हृतसामन्तराज्यं स प्राप्नोत्येव न चान्यथा ॥ २६८ ॥
हुनेद्बिवसमिद्भिस्तु दक्षिणामूर्तिसन्निधौ ॥
लक्षमेकं तदा राष्ट्रं सामन्तस्य लभेत सः ॥ २६९ ॥
महाचतुष्पथे स्थाप्यं 7 लिङ्गं वल्मीकमृद्भवम् ॥
स्नापयेत्पञ्चगव्येन रुद्राध्यायेन मन्त्रयेत् ॥ २७० ॥
मानस्तोकेन मन्त्रेण चाभिषिञ्चेन्निवेद्यकम् ॥
सघृतं पायसं दद्याद्भूतेभ्यश्च तथा बलिम् ॥ २७१ ॥
एवं मासत्रयं कृत्वा महदैश्वर्यमाप्नुयात् ॥
पलं चार्धपलं वापि दक्षिणामूर्तिसन्निधौ ॥ २७२ ॥
श्वेताम्बरां चूर्णयित्वा स्थापयेत्ताम्रपात्रके ॥
आलोड्य कपिलाज्येन प्रदीपिन्याभिमन्त्रितम् ॥ २७३ ॥
सहस्राष्टकमेतेन मन्त्रेण प्रपिबेदथ ॥
भवेत्तस्याप्रतिहतं वाक्यं सर्वत्र निश्चितम् ॥ २७४ ॥
उदुम्बर्याश्च समिधो घृताक्ताश्चायुतं हुनेत् ॥
स्वामी बहुगवां स स्यात्क्षीयन्ते नास्य धेनवः ॥ २७५ ॥
बिल्वानां समिधश्चैव हुनेदष्टसहस्रकम् ॥
सुवर्णाष्टकमाप्नोति ह्यसिद्धो रजताष्टकम् ॥ २७६ ॥
बिल्वाभावे त्वामलकं तदभावे उदुम्बरम् ॥
तस्याभावे हैमवती तदभावे विभीतकम् ॥ २७७ ॥
श्रीखण्डगोघृताक्तानां पद्मानां लक्षमेककम् ॥
हुनेद्यस्तस्य लक्ष्मीस्तु स्वयमेवोपतिष्ठते ॥ २७८ ॥
द्रापे अन्धसस्पतेदरिद्रनीललोहित ॥
एषां पुरुषाणामेषां पशूनां मा भेर्मा रोङ्मोचनः किञ्च नाममत् ॥ २७९ ॥
अनेन जुहुयादाज्यमयुतावधि सङ्ख्यया ॥
अक्षय्यान्यस्य वासांसि भवन्ति च तथातथा ॥ २८० ॥
या ते रुद्र शिवा तनूः शिवाविश्वा हा भेषजी ॥
शिवा रुतस्य भेषजी तया नो मृद जीवसे ॥
उर्णाभाश्चाजीवदवेस्तनूं विहाय च ॥ २८१ ॥
एकादशसरं कुर्यात्सूत्रमेकैकसूत्रकम् ॥
सहस्रं सम्प्रमन्त्याथैकादश ग्रन्थयस्स्मृताः ॥ २८२ ॥
एवं सम्पूज्य तां रज्जुं धूपं दत्त्वा च बन्धयेत् ॥
वामहस्ते तु गर्भिण्याः स सुवीत सुखं सुतम् ॥ २८३ ॥
दक्षे बालकहस्ते तु सुखं तिष्ठति बालकः ॥
बन्धयेद्यदि सूत्रन्तु मन्त्रेणैवाभिमन्त्रितम् ॥ २८४ ॥
धनिको बाहुमूले वा कण्ठे वा धारयेदिदम् ॥
कदाचिदुत्तमर्णाद्वै भयन्तस्य न जायते ॥ २८५ ॥
क्ष्मागूं रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् ॥
यथा नः शमसद्द्विपदे चतुष्पदे विश्वम्पुष्टं ग्रामे अस्मिन्ननातुरम् ॥ २८६ ॥
अष्टोत्तरसहस्रन्तु प्रत्यहं जुहुयात्तिलान् ॥
अयाचितं धनन्तेन लोकेभ्य ह्युपलभ्यते ॥ २८७ ॥
यस्तु दूर्वाप्रवालानि घृताक्तान्ययुतं हुनेत् ॥
महाज्वरोपघातेपि मृतकल्पः स जीवति ॥ २८८ ॥
माक्षिकं पायसाज्याभ्यामयुतं जुहुयाच्छुचिः ॥
महाग्रहज्वरादिभ्योभिचाराच्च प्रमुच्यते ॥ २८९ ॥
वैकङ्कतीनामयुतं समिधाञ्च घृतैर्हुनेत् ॥
ज्वरादिकभवा पीडा सद्य एव विनश्यति ॥ २९० ॥
द्रव्याद्यर्थं यदा कश्चिन्मृदुभिरभिरूप्यते ॥
तदा तुषान्प्रजुहुयादयुतं सुखमेधते ॥ २९१ ॥
वैकङ्कतीश्च समिध उदुम्बर्यास्तथा तिलान् ॥
अनेन जुहुयाल्लक्षं सर्वशक्तिकरं स्मृतम् ॥ २९२ ॥
गवाञ्चान्यपशूनां वा ह्युपघाते तु तत्स्थले ॥
अग्निं संस्थाप्य जुहुयाद्वैकङ्कतीघृतप्लुताः ॥ २९३ ॥
अयुतं तस्य शान्तिः स्यात्पलाशानां तथायुतम् ॥
घृताक्तानां प्रजुहुयान्महाज्वरमुखा ग्रहाः ॥ २९४ ॥
राक्षसा भूतवेतालाः प्रेताश्चापि पिशाचकाः ॥
जनं वापि गजं वाश्वं मुक्त्वा गच्छन्ति दूरतः ॥ २९५ ॥
जनानां जननं यस्मिन्गेहे भवति सूतिका ॥
मरणं वाथ हानिर्वा तत्र शान्तिरुदीर्यते ॥ २९६ ॥
घृताक्तानां तिलानान्तु ह्ययुतं जुहुयाद्द्विजः ॥
तस्मिन्देशे महामारीव्याघ्रादिभ्यो भयं न वै ॥ २९७ ॥
देवानां क्षोभणं यत्र तत्र शान्तिं वदाम्यहम् ॥
पुरस्य मध्यभागे तु वह्निस्थापनमाचरेत् ॥ २९८ ॥
चतुर्दिक्षु च सन्नद्धा गुप्ताश्चत्वार एव हि ॥
नराः स्थाप्यास्ततः कर्म सावधानः समाचरेत् ॥ २९९ ॥
अष्टोत्तरसहस्रन्तु घृताक्ताञ्जुहुयात्तिलान् ॥
ततोर्धरात्रसमये त्वोदनं सघृतन्तिलान् ॥ ३०० ॥
पिष्टं माषौदनञ्चापि कृशरं परमान्नकम् ॥
सुज्ञो जनपदे दद्यात्स्थानेस्थाने ततो बलिम् ॥ ३०१ ॥
पलाशपत्रे रुद्रेभ्यो रक्षोभ्यस्तदनन्तरम् ॥
कुर्यादेवं पक्षमेकं सर्वोपद्रवनाशनम् ॥ ३०२ ॥
मृडानो रुद्रो तनो मपस्कृधि क्षयद्वीराय नमसा विधेम ते ॥
यच्छञ्च योश्च मनुरायजे पितातदस्यामततोवरुद्रप्रणीतौ ॥ ३०३ ॥
सहस्रन्तु जपेत्तोये तीरे सम्पूजयेच्छिवम् ॥
यावद्दूरे भवेदिष्टं त्रिदिनार्वाङ्मिलेत्खलु ॥ ३०४ ॥
मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तन्तमुत मा न उक्षितम् ॥
मानो वधीः पितरं मोत मातरं मानः प्रियास्तन्वो रुद्ररीरिषः ॥ ३०५ ॥
परिजनस्य बालानामारोग्यार्थन्तिलान्हुनेत् ॥
अयुतं शीतलादिभ्य आरोग्यं जायते क्षणात् ॥ ३०६ ॥
मानस्तोकं 8 महान्तञ्च सर्वतन्त्रेषु गोपितम् ॥
कथयिष्यामि मुनये देवानां कार्यसिद्धये ॥ ३०७ ॥
अतिकृच्छ्रेण कृच्छ्रेण तथा चान्द्रायणेन वा ॥
आदौ संशोध्य चात्मानं पूतकायो जपञ्चरेत् ॥ ३०८ ॥
जपन्नेतत्तु भुञ्जीत शाकं वा यावकं पयः ॥
भिक्षाञ्चाज्यञ्जपस्तस्य भवेदयुतसङ्ख्यकः ॥ ३०९ ॥
सहस्रमात्रे मन्त्रस्य प्रयोगार्हो भवेन्मनुः ॥
प्रयोगान्ते त्वहोरात्रञ्जपः कार्यो निरन्तरम् ॥ ३१० ॥
तद्दशांशेन होतव्य औदुम्बर्यो घृताप्लुताः ॥
महाव्याहृतिभिः पश्चात्तावदेव घृतं हुनेत् ॥ ३११ ॥
संस्रावभागं सम्प्राश्य प्रयोगेणाक्षयं व्रजेत् ॥
पुनः कर्म प्रकुर्वीत प्रायश्चित्तं पुनः पुनः ॥ ३१२ ॥
स्नायाच्च तिलतैलेन सप्तधा मन्त्रितेन च ॥
मरणादिप्रयोगाणाम्भवेत्पातकमोचनम् ॥ ३१३ ॥
ब्रह्मवर्चसकामस्तु हुनेदष्टसहस्रकम् ॥
घृताक्तानान्तु समिधाञ्चौषध्यः सर्वकर्मसु ॥ ३१४ ॥
पद्मानान्तु घृताक्तानान्दशरात्रमुपोषितः ॥
अयुतं जुहुयाल्लक्ष्मीकामो वा शिवदर्शनात् ॥ ३१५ ॥
अपामार्गोद्भवानाञ्च तण्डुलानान्तथायुतम् ॥
हुनेद्वापि घृताक्तानां सर्वार्थस्य स्मृद्धये ॥ ३१६ ॥
गोसहस्रप्रलाभाय जुहुयाद्गोपयोथ वा ॥
आज्याहुतीनाञ्च तथा सहस्राष्टकमादरात् ॥ ३१७ ॥
उपोषितो दशाहानि हुनेद्बिल्वफलानि च ॥
अयुतञ्च घृताक्तानि लभेताष्टसहस्रकम् ॥ ३१८ ॥
सिद्धे मन्त्रे सुवर्णानि त्वसिद्धे रजतानि च ॥
भार्यामुकी मे भवतु ह्येदर्थे हुनेच्छुचिः ॥ ३१९ ॥
जातीपुष्पाणि चाज्येन मधुना संयुतानि च ॥
कपिला तु यदा सूता वृषभं वासितापि गौः ॥ ३२० ॥
आज्यदुग्धं गृहीत्वा स्वाः श्रपयेत्तेन वै चरुम् ॥
अष्टोत्तरशतं हुत्वा तथा चाष्टसहस्रकम् ॥ ३२१ ॥
मन्त्रयित्वा चरुन्तञ्च सपत्नीकः प्रभक्षयेत् ॥
आयुष्मतोष्टपुत्रांश्च जनयेन्नात्र संशयः ॥ ३२२ ॥
दूर्वाप्रवालाञ्जुहुयाद्दधिक्षीरघृतान्वितान् ॥
आयुष्कामोष्टसाहस्रं चिरायुष्ट्वं स विन्दते ॥ ३२३ ॥
दधिक्षौद्रघृताक्तानां पुष्पाणां कुशकाशयोः ॥
सहस्राण्यष्ट जुहुयादिच्छेत्क्षुद्रान्यदा पशून् ॥ ३२४ ॥
त्रिरात्रोपोषितो भत्वा गच्छेन्महाचतुष्पथे ॥
कृत्वा मूर्तिं गोमयेन तद्वद्दैवतसम्मुखे ॥ ३२५ ॥
पूजयित्वा हुनेद्भूमौ चाष्टोत्तरसहस्रकम् ॥
कर्मणा तेन नृपतिर्भवेद्वश्यो न संशयः ॥ ३२६ ॥
सप्ताभिमन्त्रितन्तीक्ष्णं तैलं तेन करद्वयम् ॥
सम्यक्स्पृष्टस्तेन स्पृष्टो योयोसौ वशगो भवेत् ॥ ३२७ ॥
ब्रह्मवर्चसकामस्तु दधिक्षौद्रघृतान्विताः ॥
बिल्वस्य समिधो हुत्वा लक्षं तेजोनिधिर्भवेत् ॥ ३२८ ॥
औदुम्बरीश्च जुहुयाद्दधिक्षौद्रघृतान्विताः ॥
समिधोष्टसहस्राणि शत्रोरुच्चाटनं भवेत् ॥ ३२९ ॥
सर्वोपद्रवनाशार्थं गृहीत्वा सप्तशर्कराः ॥
मन्त्रयित्वा सहस्रं तु चतुर्दिक्षु क्षिपेत्ततः ॥ ३३० ॥
ऊर्ध्वाधस्तस्य निकटे सर्वोपद्रवनाशनम् ॥
एवं कृत्वा व्रजन्मार्गे चौरव्याघ्रभयं हरेत् ॥ ३३१ ॥
आ रे तेगोघ्न उत पूरुषघ्ने क्षयद्वीराय सुन्नमस्ते ते अस्तु ॥
रक्षाव नो अधि चेदं देवब्रूह्यथो च नः शर्म यच्छद्विवर्हाः ॥ ३३२ ॥
स्तुहि श्रुतं गर्तसदं युवानं भवन्तं भीममुपहेलमुग्र ॥
मृडाजरित्रे रुद्रस्तवानो अभ्यन्ते अस्मन्निव यन्तु सेना ॥ ३३३ ॥
परि नो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः ॥
अवस्थिरा मघवद्भ्यस्तनुष्वमीड्ड्वस्तोकाय तनयाय मृड ॥ ३३४ ॥
मीढुष्टम शिवतम शिवो नः सुमना भव ॥
परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि ॥ ३३५ ॥
महाभये समुत्पन्ने व्याघ्रचौरभयादिषु ॥
चतसॄचः स्मरेच्चित्ते तद्भयस्य विनाशिकाः ॥ ३३६ ॥
विकिरिद्रविलोहित नमस्ते अस्तु भगवः ॥
यास्ते सहस्रगूंहेतन्यमस्मन्निवपन्तु ताः ॥ ३३७ ॥
शपेदयुतसङ्ख्याकं विरोधे तु महाजनैः ॥
राजा च वशमायाति प्रीतिश्चाति प्रजायते ॥ ३३८ ॥
सहस्राणि सहस्रशो बाह्वोस्तव हेतयः ॥
तासामीशानो भगवः पराचीनामुखाकृधि ॥ ३३९ ॥
यदा तु महतो मृत्युर्नृपतेर्वाप्युपद्रवः ॥
तदा होमं प्रकुर्वीत वैकङ्कतसमिद्वरैः ॥ ३४० ॥
औदुम्बरीभिः शाल्मल्या तिलैर्वापि यवैरपि ॥
प्रत्येकमेकादशधा चाभिमन्त्र्य ततोवनिम् ॥ ३४१ ॥
कृशरं पायसं वापि ततो भूतानि चार्चयेत् ॥
दद्याद्विडालमांसस्य बलिं नश्यन्त्युपद्रवाः ॥ ३४२ ॥
सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् ॥
तेषां सहस्रयोजनेवधन्वानितन्मसि ॥ ३४३ ॥
पठेयुरन्यशाखीया वाक्यान्ते परिशिष्टकम् ॥
अस्मिन्महत्यर्णवे तं रक्षो भवा अधि तथा ॥ ३४४ ॥
नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ॥
तेषागूंसहस्रयोजनेवधन्वानितन्मसि ॥ ३४५ ॥
नीलग्रीवाः शितिकण्ठा दिवगूंरुद्रा उपश्रिताः ॥
तेषागूंसहस्रयोजनेवधन्वानि तन्मसि ॥ ३४६ ॥
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ॥
तेषागूंसहस्रयोजनेवधन्वानितन्मसि ॥ ३४७ ॥
ये भूतानामधिपतयो विशिखासः कपर्दिनः ॥
तेषागूंसहस्रयोजनेवधन्वानितन्मसि ॥ ३४८ ॥
येन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ॥
तेषागूंसहस्रयोजनेवधन्वानितन्मसि ॥ ३४९ ॥
ये पथां पथिरक्षय ऐलबृदा आयुर्युधः ॥
तेषागूंसहस्रयोजनेवधन्वानितन्मसि ॥ ३५० ॥
ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ॥
तेषागूंसहस्रयोजनेवधन्वानितन्मसि ॥ ३५१ ॥
य एतावन्तश्च भयागूंसश्च दिशो रुद्रा वितस्थिरे ॥
तेषागूंसहस्रयोजनेवधन्वानितन्मसि ॥ ३५२ ॥
जपेदेता नव ऋचः परिशिष्टसमन्विताः ॥
भवन्ति भोगदास्तेन हीना ज्ञानप्रदा मताः ॥ ३५३ ॥
नमोस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवः ॥
तेभ्यो दश प्राचीर्दश दशिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः ॥
तेभ्यो नमोस्तु ते नोवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भेदध्मः ॥ ३५४ ॥
नमोस्तु रुद्रेभ्यो येन्तरिक्षे येषां वात इषवः ॥
तेभ्यो दशप्राचीर्दश दक्षिणा दश प्रतीचीर्दशोर्द्ध्वाः ॥ ३५५ ॥
नमोस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवः ॥
तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोर्द्ध्वाः ॥ ३५६ ॥
मध्याह्ने चाज्यं जुहुयादेभिर्मन्त्रैः सकण्टकम् ॥
प्रत्यङ्गिराया मन्त्रस्य कर्म कुर्यादयं मनुः ॥ ३५७ ॥
मृत्युञ्जयेन मन्त्रेण नमस्तेऽस्य समापनम् ॥
तैत्तिरीयेन्यशाखासु परिशिष्टानि सप्त च ॥ ३५८ ॥
सद्योजातादिकाः 9 पञ्च त्र्यम्बकं च यजामहे ॥
षडर्च एतास्त्वरितरुद्रनामकमुच्यते ॥ ३५९ ॥
अग्नाविद्यरसजोषसे मा वर्द्धतु चाङ्गिरः शुभ्रैर्वाजैर्निरगात्तम् ॥ ३६० ॥
नित्यं सन्ध्यावन्दनान्ते तिष्ठन्कालत्रये जपेत् ॥
अष्टोत्तरसहस्रन्तु षण्मासं सत्यवाग्भवेत् ॥ ३६१ ॥
वाजश्चमे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे ह्यधीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रुवश्च मे श्रुतिश्च मे ज्योतिश्च मे स्वश्च मे यज्ञेन कल्पन्ताम् ॥ ३६२ ॥
प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसुश्च मे चित्तं च मे अधीतं च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च मे यज्ञेन कपन्ताम् ॥ ३६३ ॥
ओजश्च मे सहश्च मे आत्मा च मे तनूश्च मे शर्म च मे वर्म च मेऽङ्गानि च मेऽस्थीनि च मे परूगूंषि च मे शरीराणि च म आयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् ॥ ३६४ ॥
ज्यैष्ठ्यं च म आधिपस्यं च मे मन्युश्च मे भामश्च मेम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्षिमा च मे द्राघिमाच मे वृद्धं च मे वृद्धिश्च मे यज्ञेन कल्पन्ताम् ॥ ३६५ ॥
सत्यं च मे श्रद्धा च मे जगच्चमे धनं च मे विश्वञ्च मे महश्च मे क्रीडा च मे मोदश्च मे जातञ्च मे जनिष्यमाणञ्च मे सूक्तञ्च मे सुकृतं च मे यज्ञेन कल्पन्ताम् ॥ ३६६ ॥
ऋतञ्च मे मृतञ्च मे यक्ष्मं च मे नामयं च मे जीवातुश्च मे दीर्घायुस्त्वं च मे न मित्रं च मे भयं च मे सुखञ्च मे शयनञ्च मे सूषश्च मे यज्ञेन कल्पन्ताम् ॥ ३६७ ॥
यन्ता च मे धर्ता च मे क्षेमं च मे धृतिश्च मे विश्वञ्च मे महश्च मे संविच्च मे ज्ञात्रञ्च मे सूश्च मे प्रसूश्च मे सीरञ्च मे लयश्च मे यज्ञेन कल्पन्ताम् ॥ ३६८ ॥
शञ्च मे मयश्च मे प्रियं च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भगश्च मे द्रविणञ्च मे भद्रश्च मे श्रेयश्च मे वसीयश्च मे यशश्च मे यज्ञेन कल्पन्ताम् ॥ ३६९ ॥
ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रञ्चमे औद्भिद्यंश्च मे यज्ञेन कल्पन्ताम् ॥ ३७० ॥
रयिश्च मे रायश्च मे पुष्टञ्च मे पुष्टिञ्च मे विभु च मे प्रभु च मे पूर्णं च मे पूर्णतरं च मे कुयवश्च मे क्षितञ्चमेन्नञ्च मे क्षुच्च मे यज्ञेन कल्पन्ताम् ॥ ३७१ ॥
वित्तं च मे वेद्यञ्च मे भूतञ्च मे भविष्यच्च मे सुगञ्च मे सुपथ्यं च मे ऋद्धं च मे ऋद्धिश्च मे कॢप्तञ्च मे कॢप्तिश्च मे मतिश्च मे सुमतिश्च मे यज्ञेन कल्पन्ताम् ॥ ३७२ ॥
व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे प्रियङ्गवश्च मे णवश्च मे श्यामाकाश्च मे नीवाराश्च मे गोधूमाश्च मे मसूराश्च मे यज्ञेन कल्पन्ताम् ॥ ३७३ ॥
अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यञ्चमेऽयश्च मे श्यामञ्च मे लोहञ्च मे सीसञ्च मे त्रपु च मे यज्ञेन कल्पन्ताम् ॥ ३७४ ॥
अग्निश्च म आपश्च मे वीरुधश्च म ओषधयश्च मे कृष्टपच्याश्च मेऽकृष्टपच्याश्च मे ग्राम्याश्च मे पशव-आरण्याश्च मे वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे यज्ञेन कल्पन्ताम् ॥ ३७५ ॥
वसु च मे कर्म च मे शक्तिश्च मेऽर्थश्च म एमश्च मे इत्या च मे गतिश्च मे यज्ञेन कल्पन्ताम् ॥ ३७६ ॥
अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे यज्ञेन कल्पन्ताम् ॥ ३७७ ॥
मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे धाता च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे मरुतश्च मे इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे यज्ञेन कल्पताम् ॥ ३७८ ॥
पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्चम इन्द्रश्च मे समाश्च म इन्द्रश्च मे नक्षत्राणि च म इन्द्रश्च मे दिशश्चम इन्द्रश्च मे यज्ञेन कल्पन्ताम् ॥ ३७९ ॥
अगूंशुश्च मे रश्मिमश्च मे दाब्भ्यश्च मे धिपतिश्च म उपागूंशुश्च मेन्तर्यामश्च म ऐद्रा वायवश्च मे मैत्रवरुणश्च मा आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थी च मे यज्ञेन कल्पन्ताम् ॥ ३८० ॥
आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मे ऐन्द्राग्निश्च मे महावैश्वदेवश्च मे मरुत्वतीयाश्च मे निष्केवल्यश्च मे सावित्रश्च मे सारस्वतश्च मे पाल्कीवतश्च मे हारियोजनश्च मे यज्ञेन कल्पन्ताम् ॥ ३८१ ॥
स्रुचश्च मे चमसाश्च मे वायव्यानि च मे द्रोणकलशश्च मे ग्राबाणश्च मे धिषधणे च मे पूतभृच्च म आधवनीयश्च मे वेदिश्च मे बर्हिश्च मे अवभृथश्च मे स्वगाकारश्च मे यज्ञेन कल्पन्ताम् ॥ ३८२ ॥
अग्निश्च मे धर्मश्च मेर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽदितिश्च मे दितिश्च मे द्यौश्च मेङ्गुलयः शक्वरयो दिशश्च मे यज्ञेन कल्पन्ताम् ॥ ३८३ ॥
ऋक्च मे सामचमे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मे क्रतवश्च मे संवत्सरश्च मेहोरात्रे ऊर्वष्ठीवे बृहद्रथन्तरे च मे यज्ञेन कल्पन्ताम् ॥ ३८४ ॥
गर्भाश्च मे वत्साश्च मे त्र्याविश्च मे त्र्यावी च मे दित्यवाट् च मे दित्यौही च मे पञ्चविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौहीच मे यज्ञेन कल्पन्ताम् ॥ ३८५ ॥
पुष्टवाट् च मे पुष्टौही च मे उक्षा च मे वशाच म ऋषभश्च मे बृहच्च मेऽनड्वांश्च मे धेनुश्च मे आयुर्यज्ञेन कल्पन्ताम् ॥ ३८६ ॥
एकाच मे तिस्रश्च मे तिस्रश्च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे नव च मे नव च म एकादश च म एकादश च मे त्रयोदश च मे त्रयोदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नव दश च मे नव दश च म एकविगूंशतिश्च म एकविगूंशतिश्च मे त्रयोविगूंशतिश्च मे त्रयोविगूंशतिश्च मे पञ्चविगूंशतिश्च मे पञ्चविङ्गूंशतिश्च मे सप्तविगूंशतिश्च मे सप्तविगूंशतिश्च मे नवविगूंशतिश्च मे नवविगूंशतिश्च मे एकत्रिगूंशच्च म एकत्रिगूंशच्च मे त्रयस्त्रिगूंशच्च मे यज्ञेन कल्पन्ताम् ॥ ३८७ ॥
चतस्रश्च मेऽष्टौ च मे २ द्वादश च मे २ षोडश च मे २ विगूंशतिश्च मे २ चतुर्विगूंशतिश्च मे २ऽष्टाविगूंशतिश्च मे २ द्वात्रिगूंशच्च मे षट्त्रिगूंशच्च मे २ चत्वारिगूंशच्च मे २ चतुश्चत्वारिगूंशच्च मे २ ऽष्टचत्वारिगूंशच्च मे यज्ञेन कल्पन्ताम् ॥ ३८८ ॥
वाजश्च पशवश्चापि क्रतुश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च यज्ञेन कल्पन्ताम् ॥ ३८९ ॥
एतावावुद्र आख्यातः सर्वकामफलप्रदः ॥
विस्वरोवाक्षरः पाठो रुद्रस्तोत्रं तु शान्तये ॥ ३९० ॥
इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्था मदानि शगूंशिषद्विश्वे देवाः सूक्तवाचः पृथिवि मातर्मा मा हिगूंसीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीन्देवेभ्यो वाचमुद्या शगूंशुश्रूषेण्यां मनुष्येभ्यस्ते मा देवा अवन्तु शोभायै पितरो नु मदन्तु ॥
ॐ शान्तिः शान्तिः ॥
शान्तिः ॥ ३९१ ॥
परं शिष्टं जपेच्चैव एष रुद्रविधिः स्मृतः ॥
अभिषिञ्चेत्पौष्टिकार्थं शान्तिकामस्तु होमयेत् ॥ ३९२ ॥
सिद्धिकामो जपेदेवमक्षराणा तु सङ्ख्यया ॥
इहैव बहुरुद्राढ्यः शिव एव न चापरः ॥ ३९३ ॥
पदतुल्यावृत्तिजपाद्विज्ञप्तिरपि जायते ॥
वाक्यतुल्पावृतीजपात्सर्वं पापं विनश्यति ॥ ३९४ ॥
ऋचां सङ्ख्याजपात्सर्वं क्षुद्रपापं विनश्यति ॥
अनुवाकमिमं जप्त्वानिष्टग्रहरुजो जयेत् ॥ ३९५ ॥
देवीसूक्तं प्रवक्ष्यामि सर्वाभीष्टप्रदायकम् ॥
अशक्तः प्रोच्यते रुद्रे विनायं तत्पुरः पठेत् ॥ ३९६ ॥
अथ देवीसूक्तम् ॥
अहं रुद्रेमिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ॥
अहं मित्रावरुणौ भा विभर्म्यहमिन्द्राग्नी अहमश्विनौ भा ॥ ३९७ ॥
अहं सोम मनेहम्स विभर्म्यहं त्वष्टारमुत पूषणं भगम् ॥
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ ३९८ ॥
अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ॥
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ॥ ३९९ ॥
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् ॥
अजन्तवो मान्त उपक्षियन्ति श्रुधि श्रुतश्रद्धिवं ते वदामि ॥ ४०० ॥
अहमेव स्वयमिदं वदामि जुष्टं देवीभिरुत मानुषेभिः ॥
यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तां सुमेधात् ॥ ४०१ ॥
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा-उ ॥
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ॥ ४०२ ॥
अहं सुवे पितरमस्य मूर्धन्माम योनिरप्स्वन्तःसमुद्रे ॥
ततो वितिष्ठे भुवना नु विश्वोतामूद्यां वर्ष्मणो स्पृशामि ॥ ४०३ ॥
अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा ॥
परो दिवा परश्ना पृथिव्यै तावती महिना सम्बभूव ॥ ४०४ ॥
देवीसूक्तमिदं प्रोक्तं सर्वसूक्तोत्तमोत्तमम् ॥
आधारोयं मन्त्रसिद्धेर्द्विजानां परिकीर्तितः ॥ ४०५ ॥
अथ विष्णोः प्रवक्ष्यामि सूक्तं गणपतेश्च यत् ॥
यत्साधनं विना सर्वे मन्त्रा विघ्नैस्तु विघ्निताः ॥ ४०६ ॥
तस्मादादौ गणेशानं प्रसाद्य पुनराचरेत् ॥
देवतासाधनं तत्तु निर्विघ्नेन प्रजायते ॥ ४०७ ॥
निद्रालस्यं क्षुधा क्रोधो लोभो मोहो मनोभवः ॥
प्रमादो रोग इत्याद्या मन्त्रविघ्नकराः स्मृताः ॥ ४०८ ॥
विधानपूर्वकं तस्मादत्र सूक्तं तदुच्यते ॥
यज्ज्ञापकानां कार्याणि स्युरप्रतिहतानि च ॥ ४०९ ॥
अस्य च द्वादशर्चस्य गणेशस्य महात्मनः ॥
ऋषिर्गृत्समदो देवो गणपः परिकीर्तितः ॥ ४१० ॥
आद्यानां त्रि-ऋचानां च च्छन्दस्त्रिष्टुप्प्रकीर्तितम् ॥
उत्तराणां नवानाञ्च गायत्रं छन्द उच्यते ॥ ४११ ॥
महागणपतिश्चास्य दैवतं परिकीर्तितम् ॥
विनियोगः कीर्तनीयो यथाकार्यानुसारतः ॥ ४१२ ॥
गणानान्त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ॥
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पते आ नः शृण्वन्नूतिभिः सीद सादनम् ॥ ४१३ ॥
निषुसी दगणपते गणेषु त्वमाहुर्विप्रतमङ्कवीनाम् ॥
न ऋते त्वत्क्रियते किञ्चनारे महामर्कम्मधञ्चित्रमर्च ॥ ४१४ ॥
त्वेषङ्गणं तव शङ्खादिहस्तं धृतिव्रतं मा विदानन्ति वारम् ॥
मया भुवो ये ॥ ४१५ ॥
आ तून इन्द्र सुमन्तं चित्रं यामं सङ्गृभाय ॥
महाहस्ती दक्षिणेन ॥ ४१६ ॥
विद्मा हि त्वा तु विकूर्मिं तु विदेशन्तुवीमघम् ॥
तुविमात्रमवोभिः ॥ ४१७ ॥
न हि त्वा शूर देवा न मर्तासो दित्स तम् ॥
भीमं गोवादयन्ते ॥ ४१८ ॥
एतोन्विन्द्रं स्तवामेशानं वस्प स्वराज्यम् ॥
न राधसार्थिषं नः ॥ ४१९ ॥
प्रस्तोष उपगासिषच्छवत्साम गीयमानम् ॥
अभिशर्धस्य जुगुरत् ॥ ४२० ॥
आ नो मख्यञ्जनं दक्षिणेनभिमध्यन प्रामृजद्वा इन्द्र ॥
मा नो वसोर्निर्भाक् ॥ ४२ ॥
उपक्रमस्याभर घृताधृष्णो जनानां यद्यशुष्ठरस्य वेदः ॥ ४२२ ॥
इन्द्र य उ सु ते अस्ति वोजो विप्रेभिस्तनिस्वः ॥
अस्माभिस्तुतं सन्निहि ॥ ४२३ ॥
स याजुप्तो वजा अस्मभ्यं विश्वश्चन्द्राः ॥
बलेश्च मक्षु जरन्तम् ॥ ४२४ ॥
गणानां 10 त्वा निषुसीद त्वेषङ्गणन्तथैव च ॥
आ तू न इन्द्र विद्महि न हि त्वा शूरमेव च ॥ ४२५ ॥
अङ्गुष्ठाग्रं समारभ्य करपृष्ठादिषु न्यसेत् ॥
गणानां त्वेति बहिश्च हृदयादिषडङ्गकम् ॥ ४२६ ॥
एवं न्यासद्वयं कृत्वा षड्भिश्च व्यापकं भजेत् ॥
ततो द्वादश-ऋग्भिस्तु न्यासमत्र समाचरेत् ॥ ४२७ ॥
मस्तके च मुखे चैव नेत्रयोः कर्णयोस्तथा ॥
नसि कण्ठे हृदि भुजे जठरे नाभिमध्यतः ॥ ४२८ ॥
गुल्फयोः पादयोश्चैव द्वादशर्चः पृथक्पृथक् ॥
मन्त्रराजाक्षरैश्चैव तृतीयो न्यास एव च ॥ ४२९ ॥
ततः षडक्षरेणैव चतुर्थन्यासमाचरेत् ॥
दशर्चाभिश्च द्ग्बन्धं पादे शिरसि चैककम् ॥ ४३० ॥
एवं न्यासविधिं कृत्वा साङ्गावरणपूजनम् ॥
तन्त्रमन्त्रेण सम्पूज्य ऋग्भिर्द्वादशभिस्तथा ॥ ४३१ ॥
षोडशैरुपचारैस्तु साङ्गपीठादिदैवतैः ॥
नैवेद्यैर्विविधाकारैर्मोदकैः सिद्धलड्डुकैः ॥ ४३२ ॥
पायसैः क्षीरखण्डैश्च तोषयेद्गणनायकम् ॥
इक्षुखण्डैरिक्षुरसैः कदलीपनसादिभिः ॥ ४३३ ॥
नारिकेरैर्दाडिमैश्च अन्यैर्नानाविधैह् फलैः ॥
सचन्द्रकैश्च ताम्बूलैर्दक्षिणाभिः समन्ततः ॥ ४३४ ॥
पूजयित्वा तु मध्याह्ने प्रारभेत् जपं ततः ॥
आदौ जपेन्मन्त्रराजं वारद्वादशकं बुधः ॥ ४३५ ॥
ततश्च ऋग्द्वादशकं जपेत्सर्वमतन्द्रितः ॥
अन्तर्द्वादशपाठे तु मन्त्रराजं पुनर्जपेत् ॥ ४३६ ॥
एवं क्रमेण कर्तव्यो वेदमन्त्रजपो हरे ॥
दिनेदिने सदा कार्यो जपः संसिद्धिकारकः ॥ ४३७ ॥
सूक्तमन्त्रजपेनाशु सर्वसिद्धिमवाप्नुयात् ॥
अथ वा वक्रतुण्डस्य जप आदौ प्रजायते ॥ ४३८ ॥
षड्विंशद्वारमावृत्त्या मध्ये सूक्तं गणेश्वरम् ॥
पुनः षड्विंशकावृत्त्या वक्रतुण्डः 11 षडक्षरः ॥ ४३९ ॥
एवं च संयुतं कृत्वा द्वादशर्चं मनुञ्जपेत् ॥
एवमष्टोत्तरशतं कृत्वा सूक्तं जपं हरे ॥ ४४० ॥
एकविंशत्सहस्रं तु सूक्तस्योक्ता पुरस्क्रिया ॥
जपाद्दशा।
शहोमस्तु पायसेन घृतेन च ॥ ४४१ ॥
शर्करापञ्चखाद्यैश्च कुसुमैः करवीरकैः ॥
बिल्वपत्रैरिक्षुदण्डैर्दाडिमैः कदलीफलैः ॥ ४४२ ॥
सोदकैर्लड्डुकैश्चैव घृतपक्वैर्मनोहरैः ॥
अलाभे सर्वद्रव्याणां जुहुयात्तिलसर्पिषा ॥ ४४३ ॥
होमस्य दशमांशेन गोपयोभिश्च तर्पयेत् ॥
अथ वेक्षुरसेनैव तदभावे गुडोदकम् ॥ ४४४ ॥
तर्पणस्य दशांशेन मार्जयेच्छुभवारिभिः ॥
मार्जनस्य दशांशेन ब्राह्मणान्भोजयेद्बहून् ॥ ४४५ ॥
पायसैः खण्डखाद्यैश्च मोदकैः सिद्धलड्डुकैः ॥
अपूपैर्मण्डकाद्यैश्च सघृतैः शर्करान्वितैः ॥ ४४६ ॥
सहकाररसैः 12 साज्यैस्तथा च कदलीफलैः ॥
एवंसिद्धे तु सूक्ते तु सफलं तन्निगद्यते ॥ ४४७ ॥
महदैश्वर्यमतुलं प्रज्ञां विद्यां यशो बलम् ॥
वाक्सिद्धिं समवाप्नोति चान्ते ब्रह्मपुरं व्रजेत् ॥ ४४८ ॥
यद्यत्कार्यं समुद्दिश्य क्रियते स पुरो जपः ॥
तत्तद्गणपतेर्नूनं प्रसादात्सिध्यति ध्रुवम् ॥ ४४९ ॥
बन्धोच्चाटनयोर्द्वेषे मारणे बन्धमोक्षणे ॥
वश्ये वादे महोत्पाते परचक्रभये तथा ॥ ४५० ॥
महारण्ये रणे वैरिसङ्कुले सङ्कटे जपेत् ॥
बन्धोच्चाटनयोर्द्वेषे सर्षपैर्लोहसंयुतैः ॥ ४५१ ॥
उलूककाकपक्षैश्च होमोऽरण्ये तुं निर्जने ॥
मारणे तु श्मशानस्थो रात्रौ कुर्याज्जपं रुषा ॥ ४५२ ॥
तिलैर्मल्लाटपुष्पैश्च राजिकालवणान्वितैः ॥
मेषीलोमान्वितैश्चैव होमः स्यान्मारणे ध्रुवम् ॥ ४५३ ॥
श्मशाने च तथा रात्रौ जपं कुर्याद्धि रोषतः ॥
आकर्षणार्थं साध्यानामुन्मत्तफलबीजकैः ॥ ४५४ ॥
गृध्रपक्षैस्ततश्चार्कमुक्तदुग्धैर्हुनेत्ततः ॥
सप्तवासरपर्यन्तन्ततश्चाकर्षणं भवेत् ॥ ४५५ ॥
वश्यार्थं च जपं कुर्याद्विशेषेण शिवालये ॥
सूर्यास्तमनमारभ्य यावत्सूर्योदयो भवेत् ॥ ४५६ ॥
तावन्मूलं सम्पुटेन जपेद्भूते त्रिरात्रके दिवा होमः प्रकर्तव्यो मधुपुष्पैः फलैस्तथा ॥ ४५७ ॥
तथा च मालती पत्रैर्घृतेन च समन्वितैः ॥
रक्तचन्दनसंयुक्तैर्मोदकैः सघृतैस्तिलैः ॥ ४५८ ॥
तर्पयेदिक्षुरसकैः सद्यो वश्यकरं मतम् ॥
राजानो राजपुत्राश्च राजकीयाश्च मन्त्रिणः ॥ ४५९ ॥
ईश्वरो वशतां याति मनुष्याणा तु का कथा ॥
बन्धमोक्षाय कर्तव्यो जपो रात्रौ शिवालये ॥ ४६० ॥
उपवासव्रतो नित्यं ब्रह्मचारी जितेन्द्रियः ॥
एकविंशतिसाहस्रं दिवा होमः शिवालये ॥ ४६१ ॥
पायसेन घृताक्तेन बन्धमोक्षे भवेद्ध्रुवम् ॥
सर्वसाधारणो होमः प्रत्यर्चं हि विधानतः ॥ ४६२ ॥
आदौ द्वादशवारेण मन्त्रेण द्वादशाहुतीः ॥
पश्चान्मन्त्रविभागेन प्रत्यर्चं जुहुयाद्बुधः ॥ ४६३ ॥
अन्ते द्वादशवारांस्तु होमश्च मन्त्रराजतः ॥
एवमेव प्रकारेण सर्वसाधारणे जपे ॥ ४६४ ॥
होमो गणेशसूक्तस्य सम्पुटस्यप्रजायते ॥
एवं रुद्रविधानं तु देवीसूक्तं तथैव च ॥ ४६५ ॥
विष्णोस्तुभ्यं निगदितं यतो भेदो न आवयोः ॥
अतः परन्तु ते चेच्छा यत्र तत्प्रति पृच्छ्यताम् ॥ ४६६ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे कलिप्रत्ययवेदमन्त्रप्रकाशो द्वादशः ॥ १२ ॥
-
त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्भुक्षीयमामृतात् । ↩︎ -
ॐ । ↩︎
-
ॐ मस्तके, न नासिकायाम् मो माले, म मुखे ग कण्ठे, व हृदये, ते दक्षहस्ते रु वामहस्ते, द्रा नाभौ, य पादद्वये ॥
इति मन्त्राक्षरन्यासः ॥ ↩︎ -
पारदे ॥ ↩︎
-
कण्टकिवृक्षविशेषः ॥ ↩︎
-
तस्येति शेषः ॥ ↩︎
-
ल्यवार्षः ॥ ↩︎
-
मानस्तोके तनये मा न आयुषि मा नो गोषु मानो अश्वेषु रीरिषः ॥
मा नो वीरानुद्रभामिनो वधीर्हविष्मन्तः सदमि त्वा हवामहे - अयं मन्त्रः अपरश्च - मानो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ॥
मा नो वधीः पितरं मोतमातरं नः प्रियास्तनुवो रुद्र रीरिषः ॥ ↩︎ -
सद्योजातम्प्रपद्यामि सद्योजाताय वै नमः इत्याद्याः पञ्चर्चः पूर्वं ब्रहुस्थलेषु लिखिताः । ↩︎
-
गणानां त्वेति अङ्गुष्ठाभ्यां नमः, निषुसीदेति तर्जनीभ्यां नमः, त्वेषङ्गणं तव शङ्खादिहस्तगिति मध्यमाभ्यां नमः, आतून इन्द्रः सुमंसमिति अनामिकाभ्यां नमः, विद्मा हि त्वा तु विकूर्मिमिति कनिष्ठिकाभ्यां नमः न हि त्वा शूर देवा इति करतलकरपृष्ठाभ्यां नमः ।
अनया रीत्या ।
हृदयादिन्यासमपि कुर्यात्पुनः मन्त्रं पूर्णं पूर्णं पठेत् । ↩︎ -
ॐ वक्रतुण्डाय हुम् इतिमन्त्रः । ↩︎
-
आम्ररसैः । ↩︎