श्रीदेव्युवाच ॥
महादेव महाघोरे कलौ केके च वैदिकाः ॥
स्थास्यन्ति मनवः कुत्र कल्पाः के च फलप्रदाः ॥ १ ॥
कियच्च वैदिकं कर्म ब्राह्मे पाद्मे च कथ्यते ॥
शाखाः स्थास्यन्ति काश्चैव उपशाखास्तथा च काः ॥ २ ॥
श्रीमहेश्वर उवाच ॥
वैदिके कर्मणि कलौ नराणां धीः सुदुर्लभा ॥
यथा नावं विना सिन्धुपारमिच्छस्ति मानवाः ॥ ३ ॥
तेनाज्ञानात्कलौ देवि वामे कौले कृतादराः ॥
अतत्त्वज्ञा विनश्यन्ति ते तु मानुष्यवर्जिताः ॥ ४ ॥
केचित्त्वद्भक्तियोगेन उपदिष्टाः प्रतारकैः ॥
वैदिकं कर्म ते त्यक्त्वा जायन्ते यवनाधिपाः ॥ ५ ॥
कलेर्दशसहस्रेषु विष्णुः स्थास्यति मध्यमम् ॥
देशे स देवो भवति विन्ध्ये हिमवति क्वचित् ॥ ६ ॥
यावत्पूर्णः कलेः सन्धिस्तावत्स्थास्यत्यतः परम् ॥
स्त्रीमांसमद्यनिरते लोके धर्मपराङ्मुखे ॥ ७ ॥
सर्व एव हि ते मन्त्राश्चतुर्वेदेषु संस्थिताः ॥
स्थास्यन्ति पृथिवीमध्ये यावत्पूर्णः कलिर्भवेत् ॥ ८ ॥
सन्ध्यांशे तु कलेः सर्वे त्रिंशन्मन्त्रा भुवि स्थिताः ॥
तदा कल्किस्वरूपस्य विष्णोर्जन्म भविष्यति ॥ ९ ॥
ये तिष्ठन्ति कलौ देवि तत्साधनमहं ब्रुवे ॥
स्वाध्यायाभ्यसनस्यादौ व्रतान्येव चतुर्दश ॥ १० ॥
केशश्मश्रु वापयित्वा शुचिर्गुर्वाज्ञया चरेत् ॥
अथ वा पूर्वविधिना निष्पापः सन्समभ्यसेत् ॥ ११ ॥
तानध्यायान्प्रदोषेषु देवि शिष्यः पुरस्सरम् ॥
शुचिस्थले तथैकान्ते नम्रो गुर्वाज्ञया पठेत् ॥ १२ ॥
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ॥
त्र्यहं परं च नाश्नीयात्प्राजापत्यव्रतं त्विदम् ॥ १३ ॥
एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ॥
त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं व्रतं त्विदम् ॥ १४ ॥
स्नानं सन्ध्यामुपासीत प्रत्यहं विधिपूर्वकम् ॥
उपवासश्च सप्ताहं शिशुसान्तपनं व्रतम् ॥ १५ ॥
प्रतित्र्यहं पिबेदुष्णजलक्षीरघृतानि च ॥
समाहितः सकृत्स्नायी तप्तकृच्छ्रं व्रतं त्विदम् ॥ १६ ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥
एकरात्रोपवासश्च कृच्छ्रसान्तपतं व्रतम् ॥ १७ ॥
त्र्यहन्त्र्यहं तु गोमूत्रादिकं सेव्यं त्र्यहं पुनः ॥
उपवासस्तदा प्रोक्तं महासान्तपनं व्रतम् ॥ १८ ॥
एकैकं ह्रासयेत्पिण्डं कृष्णेऽमायां न भोजनम् ॥
शुक्लेपि वर्धयेच्चापि प्रोक्तं चान्द्रायणं व्रतम् ॥ १९ ॥
पलप्रमाणमन्नं तु ग्रासं शुक्लेपि वर्धयेत् ॥
ह्रसेत्कृष्णे व्रतं चान्द्रायणं स्यादेव मध्यमम् ॥ २० ॥
चतुरः प्रातरश्नीयाद्विप्रः पिण्डान्कृताह्निकः ॥
चतुरोस्तमिते सूर्ये शिशुचान्द्रायणं व्रतम् ॥ २१ ॥
अष्टावष्टौ समश्नीयात्पिण्डान्मध्यगते रवौ ॥
नियतात्मा हविष्यस्य यतिचान्द्रायणं व्रतम् ॥ २२ ॥
स्नानसन्ध्यादिकं कृत्वा द्वादशाहं न भोजनम् ॥
स्थिरचित्तोप्रमत्तश्च पराकाख्यमिदं व्रतम् ॥ २३ ॥
पिण्याकमधुतक्राम्बुसक्तूपोषणकं क्रमात् ॥
षड्भिर्दिनैः सौम्यकृच्छ्रनामकं व्रतमुत्तमम् ॥ २४ ॥
एवं त्रिरात्रमभ्यासादेकैकस्य यथाविधि ॥
तुलापुरुषवत्त्रीणि स्तोमायनमिदं व्रतम् ॥ २५ ॥
त्रींस्त्रीन्पिडान्समश्नीयान्नियतात्मादृढव्रतः ॥
हविष्यान्नस्य वैभागमृषषिचन्द्रायणं व्रतम् ॥ २६ ॥
सप्तसप्तदिने चैवं त्रिदिने गोस्तनं पिबेत् ॥
षड्दिने वायुभक्षश्च स्तोमायनमिदं व्रतम् ॥ २७ ॥
पर्णदूर्वायवस्विर्णबिल्वपत्रकुशोदकैः 1 ॥
प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्रव्रतं त्विदम् ॥ २८ ॥
एतैर्व्रतैस्तु शुद्धात्मा गुरुशुश्रूषणे रतः ॥
भिक्षाशीवा हविष्याशी भुञ्जन्मौनं समास्थितः ॥ २९ ॥
प्रतिलोमान्पुष्पवर्तीं यवनान्बौद्धकौलिकान् ॥
आचारहीनाञ्च्छूद्रांश्च दृष्ट्वा नैव पठेच्छ्रुतिम् ॥ ३० ॥
रात्रेश्चतुर्थप्रहरे पादप्रक्षालनादिकम् ॥
कृत्वासने समाविश्य ज्ञातं वेदं समुद्धरेत् ॥ ३१ ॥
निन्दां स्तुतिं न कस्यापि कुर्यादनृतभाषणम् ॥
नारीं रूपवतीं दृष्ट्वा ध्यायेद्विष्णुं सनातनम् ॥ ३२ ॥
हरिरोम्पठनादौ च तस्यान्ते च समुच्चरेत् ॥
साष्टाङ्गन्तु नमस्कारमादावन्ते गुरोश्चरेत् ॥ ३३ ॥
आद्ये यामे चतुर्थी च गणेशानं सरस्वतीम् ॥
प्रयाति रात्रौ यत्तस्मात्पूजनीयो गणाधिपः ॥ ३४ ॥
अह्नश्चतुर्थप्रहरे पूजयित्वा विसर्जयेत् ॥
सरस्वतीं तोषयित्वा गणेशं पुनरागताम् ॥ ३५ ॥
मम वक्त्रे स्थितां चेति ध्यात्वा यामे चतुर्थके ॥
पुनः पठेदनध्यायस्तदा पाठं न कारयेत् ॥ ३६ ॥
सार्धयामे प्रतिष्ठा चेत्सप्तमी याति भारती ॥
निकटे कार्तिकेयस्य गातुं तस्मात्प्रपूजयेत् ॥ ३७ ॥
सरस्वत्या युतं स्कन्दं तत्प्रभावाच्च धारयेत् ॥
शेषं रात्रौ पुनर्ध्यात्वा स्वागतान्तां पुनः पठेत् ॥ ३८ ॥
त्रयोदशी चेत्पूर्वार्धं रात्रेः स्पष्टा तदा तु गीः ॥
कैलासं याति नृत्यन्ती प्रदोषव्रतकारिणी ॥ ३९ ॥
शिवस्याराधनार्थं तु तस्मात्तत्र पठेन्न हि ॥
हठात्पठति तद्यावद्वृथात्वमुपगच्छति ॥ ४० ॥
अस्मिन्प्रदोषसमये तत्पूजाध्यानतत्परः ॥
प्राणायाम्यथ वा मौनी त्र्यब्दाच्छाक्तस्तु सिद्ध्यति ॥ ४१ ॥
सन्ध्यालोपं न कुर्वीत कदाचिदपि कुत्रचित् ॥
प्रातः सन्ध्या सनक्षत्रा ससूर्या सायमुच्यते ॥ ४२ ॥
मुहूर्तपञ्चकादूर्ध्वं विंशत्यर्वाग्यथा यथा ॥
आसन्नोभिजितः कालः श्रेष्ठः श्रेष्ठस्तथा तथा ॥ ४३ ॥
सन्ध्याकालस्य लोपेन मुख्यस्याग्निक्रियान्तरम् ॥
प्रायश्चित्तं त्वेकमर्प्यमधिके सम्प्रदीयते ॥ ४४ ॥
परसन्ध्या कालतोर्वाग्गते काले ततोधिके ॥
अष्टोत्तरशतं तत्र गायत्र्या जप इष्यते ॥ ४५ ॥
राज्ञा रुद्धो गतो वापि चात्यावश्यककर्मणि ॥
प्राणायामत्रयं कृत्वा गायत्र्यष्टोत्तरं शतग् ॥ ४६ ॥
परान्ते भोजनं चैवमनिन्द्यं निष्कृतिः स्मृता ॥
अथ वक्ष्यामि मन्त्राणां गायत्रीं वेदमातरम् ॥ ४७ ॥
यया च सगुणं ब्रह्म गीयते प्रतिपाद्यते ॥
निर्गुणं यां विना मुक्तिर्न कस्यापि प्रजायते ॥ ४८ ॥
महामायास्वरूपं यन्महाकालः स्वयं जपेत् ॥
यत्प्रभावादहं त्वञ्च जातः काल इवापरः ॥ ४९ ॥
गायत्र्या मुनिराख्यातो विश्वामित्रोति तापसः ॥
गायत्रीच्छन्द इत्युक्तं देवता सविता स्मृतः ॥ ५० ॥
व्याहृतीः सप्त भूराद्या हृन्मुखांसोरुयुग्मकैः ॥
जठरे चक्रमान्न्यस्य न्यासोयं प्रथमः स्मृतः ॥ ५१ ॥
पादाङ्गुल्यङ्घ्रिसन्धौ च सन्धौ स्याद्गुल्फपादयोः ॥
गुल्फजान्वोस्तथा सन्धौ तथा जानूरुसन्धिषु ॥ ५२ ॥
लिङ्गे नाभौ च हृदये कण्ठे वर्णान्न्यसेत्क्रमात् ॥
कराङ्गुलीमूलसन्धौ मणिबन्धे च कूर्परे ॥ ५३ ॥
भुजमूले मुखे नासिकायाञ्चापि कपोलयोः ॥
नेत्रयुग्मे भ्रुवोः शीर्ष्णि चूडाधो वामकर्णके ॥ ५४ ॥
दक्षकर्णे मुखे मस्तके च वर्णान्क्रमान्न्यसेत् ॥
गायत्र्या अक्षरन्यासो द्वितीयः सम्प्रकीर्तितः ॥ ५५ ॥
पदानि दश गायत्र्याः शिरो भ्रूमध्यदृङ्मुखे ॥
कण्ठहृन्नाभिगुल्फेषु जान्वोरङ्घ्र्योरथ न्यसेत् ॥ ५६ ॥
शिरोदेशे तु गायत्र्याः शिरोन्यासस्तृतीयकः ॥
हृदयं ब्रह्मणे प्रोक्तं विष्णवे शिर ईरितम् ॥ ५७ ॥
शिखा रुद्राय कवचमीश्वराय समीरितम् ॥
नेत्रे सदाशिवायोक्तमस्त्रं सर्वात्मने स्मृतम् ॥ ५८ ॥
अयं षडङ्गन्यासस्तु चतुर्थःपरिकीर्तितः ॥
पज्जानुकटिनाभौ च हृदये कण्ठभालयोः ॥ ५९ ॥
क्रमाद्व्याहृतयो न्यस्याः परब्रह्म च शीर्षके ॥
पुनर्व्याहृतिन्यासोयं पञ्चमः परिकीर्तितः ॥ ६० ॥
तत्सवितुर्हृदयाय वरेण्यं शिरसे तथा ॥
भर्गो देवस्य च शिखा कवचं धीमहि स्मृतम् ॥ ६१ ॥
धियो यो नो नेत्रमुक्तमस्त्रं शेषेण कीर्तितम् ॥
अयं न्यासस्तु षठः स्यात्षडेते पापहारकाः ॥ ६२ ॥
प्राणायामत्रयं कृत्वा ततो ध्यानं समाचरेत् ॥
तद्ब्रवीमीह गायत्र्या ध्यानं भक्तमनोरमम् ॥ ६३ ॥
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुकला-निबद्धमुकुटां तत्त्वार्थवर्णात्मिकाम् ॥
गायत्रीं वरदाभयाङ्कुशकशाः शुद्धं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ ६४ ॥
ततस्तु पूजयेद्देवीमष्टावरणसंयुताम् ॥
आदौ सम्पूज्य देवेशीं कोणाग्रे पूजयेत्ततः ॥ ६५ ॥
त्रिकोणस्याग्निकोणैस्तु प्रादक्षिण्येन देवताः ॥
ब्राह्मी माहेश्वरी चैव वैष्णवी प्रथमावृतिः ॥ ६६ ॥
तस्याग्रतस्त्वष्टदिक्षु क्रमादष्टौ प्रपूजयेत् ॥
आदित्यमूषां च रविं प्रज्ञां भानुं प्रभां तथा ॥
भास्करं चापि सन्ध्यां च द्वितीयावरणं त्विदम् ॥ ६७ ॥
ततोर्चयेदष्टदलकेशरेष्वङ्गषट्ककम् ॥
गायत्र्याश्च तृतीयोक्तं दलमध्ये यजेदिमाः ॥ ६८ ॥
प्रह्लादिनीं प्रभां नित्यां बिल्वरुद्रां विलासिनीम् ॥
प्रभावतीं जयां शान्तां चतुर्थावरणं त्विदम् ॥ ६९ ॥
ततो यजेद्दलाग्रेषु कान्तिं दुर्गां सरस्वतीम् ॥
बिल्वरूपां विशालां च ईशानीं व्यापिनीं क्रमात् ॥
विमलां च क्रमात्प्रोक्तं पञ्चमावरणं त्विदम् ॥ ७० ॥
तदग्रिमे त्वष्टदले एताः पूज्यास्तु शक्तयः ॥
तमोहारिणिका पूज्या विश्वयोनिर्जयावहा ॥ ७१ ॥
पद्मालया पराशोभा पद्मरूपा च षष्ठकम् ॥
भवेदावरणं चाग्रे ब्राह्याद्याः सप्त मातरः ॥
अष्टमी त्वरुणा प्रोक्ताप्रोक्त मावरणं त्विदम् ॥ ७२ ॥
रविः सितः कुजो राहुः शनिश्चन्द्रो बुधो गुरुः ॥
अष्टमावरणं चैतच्चतुरस्रदिगष्टके ॥ ७३ ॥
दिक्पालाः सप्तमे प्रोक्तास्तदस्त्राणि तथाष्टमे ॥
एवं सम्पूजयेद्देवीं तस्या मुद्राः प्रदर्शयेत् ॥ ७४ ॥
व्याहृतित्रयसंयुक्तां गायत्रीं सर्वदा जपेत् ॥
चतुर्विंशतिलक्षाणि पुरश्चरणमुच्यते ॥ ७५ ॥
क्षीरोदनं तिलान्दूर्वां सिद्धौदनसमिद्वराः ॥
पृथग्द्रव्यं सहस्रं तु जुहुयान्मन्त्रसिद्धये ॥ ७६ ॥
तर्पणादि ततः कृत्वा गुरुं सन्तोष्य यत्नतः ॥
प्रयोगानाचरेद्विद्वांस्तदनुज्ञापुरस्सरम् ॥ ७७ ॥
तत्त्वसङ्ख्यासहस्राणि मन्त्री प्रजुहुयात्तिलैः ॥
सर्वपापविनिर्मुक्तो दीर्घमायुस्स विन्दति ॥ ७८ ॥
आयुषे चाज्यहविषा केवलेनाथ सर्पिषा ॥
दूर्वान्वितैस्तिलैर्मन्त्री जुहुयात्त्रिसहस्रकम् ॥ ७९ ॥
प्रतिद्रव्यमथो मासषट्कं वै जुहुयाद्द्विजः ॥
अरुणार्कैश्च श्वेतार्कैरयुतं नियतेन्द्रियः ॥ ८० ॥
ब्रह्मश्रिये च जुहुयात्प्रसूनैर्ब्रह्मवृक्षजैः ॥
जपेन्मुमुक्षुर्गायत्रीं तुर्यपादेन संयुताम् ॥ ८१ ॥
परोरजसे सावदोमिति तुर्यः प्रकीर्तितः ॥
विमलोस्य ऋषिश्छन्दो गायत्री देवता स्मृतः 2 ॥ ८२ ॥
परमात्मा प्रथमतः प्रणवन्यासमाचरेत् ॥
सप्तव्याहृतिगायत्रीन्यासाद्यान्पूर्ववच्चरेत् ॥ ८३ ॥
ब्रह्मात्मने तु हृदयं शिरो विष्ण्वात्मने तथा ॥ ८४ ॥
शिखा रुद्रात्मने चेति कवचं चेश्वरात्मने ॥
सदा शिवात्मने नेत्रमस्त्रं सर्वात्मने इति ॥ ८५ ॥
नातः परतरो मन्त्रो नातः परतरं तपः ॥
तृणायन्ते महाविद्यादयः 3 सर्वे यदग्रतः ॥ ८६ ॥
अथ गोप्यं प्रवक्ष्यामि गोप्यं मातरि जारवत् ॥
सर्वेषां वेदमन्त्राणां यच्च संसिद्धिकारकम् ॥ ८७ ॥
लोलुपाय कृतघ्नाय नास्तिकाय शठाय च ॥
सगर्वाय गुरुद्वेष्ट्रे प्रोच्यशापमवाप्नुयात् ॥ ८८ ॥
येषां वैदिकमन्त्राणां चलनं कर्मसूचितम् ॥
तानादिपादसहिनान्गायत्र्यास्तु सदा जपेत् ॥ ८९ ॥
अष्टोत्तरसहस्रन्तु तद्वत्पालनमन्त्रकान् ॥
मध्यपादेन संयुक्तानन्तिमेन तु नाशकान् ॥ ९० ॥
अवश्यं जायते सिद्धिर्गायत्री तेजसा इति ॥
अयं सङ्क्षेपतः प्रोक्तो गायत्र्या गोपितो विधिः ॥ ९१ ॥
पद्ममष्टदलं लेख्यं ह्रीङ्कारं कर्णिकास्थितम् ॥
द्वौद्वौ स्वरौ दिग्विदिशं प्रतिपत्रं समालिखेत् ॥ ९२ ॥
किञ्जल्केषु तदग्रेषु गायत्र्यर्णांस्त्रिशस्त्रिशः ॥
तद्बहिर्वृत्तयुगलान्तराले तु समालिखेत् ॥ ९३ ॥
ककाराद्यांस्तथोमापो ज्योती रसोमृतं ब्रह्म ॥
भूर्भुवःस्वरोमिति च यन्त्रं सर्वार्थसिद्धिदम् ॥ ९४ ॥
मृत्योर्भयं तु सर्वेषां सर्वदा सर्वकर्मसु ॥
तस्मिञ्जिते तु देवादीन्मोक्षान्तं साधयेज्जनः ॥ ९५ ॥
तदर्थं सम्प्रवक्ष्यामि मन्त्रं मृत्युञ्जयाभिधम् ॥
उपासना तस्य तस्माद्वंशेल्पायुश्च नो भवेत् ॥ ९६ ॥
त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्धनम् ॥
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् ॥ ९७ ॥
वशिष्टोस्य मुनिश्छन्दोनुष्टुब्देवस्तु त्र्यम्बकः ॥
त्रिचतुर्वसुगोपञ्चत्रिभिर्वर्णैः 4 षडङ्गकम् ॥ ९८ ॥
पूर्वपश्चिमयाम्येन्दुकोणेषु 5 तदनन्तरम् ॥
कुर्यान्न्यासं तथाङ्गेषु नाभिहृत्कण्ठकुक्षिषु ॥ ९९ ॥
लिङ्गे पायौ तथा चोर्वोर्मूलयोश्चोरुमध्ययोः ॥
जान्वोस्ततो जानुवृत्तयुग्मयोः स्तनयोस्तथा ॥ १०० ॥
पार्श्वयोः पादयोः पाण्योर्नसि शीर्षे च विन्यसेत् ॥
प्रत्येकं मनुवर्णांश्च न्यासोयन्तु द्वितीयकः ॥ १०१ ॥
पदान्येकादशान्येव 6 शिभ्रूयुगलाक्षिषु ॥
वक्त्रे गण्डयुगे भूयो हृदये जठरे पुनः ॥ १०२ ॥
गुल्फोरुजानुपादेषु न्यासमेवं समाचरेत् ॥
एवं न्यासत्रयं कुर्यान्मातृकान्यासपूर्वकम् ॥ १०३ ॥
हस्ताभ्यां कलशद्वयामृतरसैरापूरयन्तं शिरो द्वाभ्यां तौ दधतं मृगाक्षवलयौ द्वाभ्यां वहन्तं परम् ॥
अङ्कन्यस्तकरद्वयामृतभरं कैलासकान्तं शिवं स्वच्छाभ्भोजनिभं सदेन्दुमुकुटं देवं त्रिनेत्रं भजे ॥ १०४ ॥
पञ्चाक्षरोदिते पीठे पूजयेद्वृषभध्वजम् ॥
मूर्ति मूलेन सङ्कल्य वक्ष्यमाणेन वर्त्मना ॥ १०५ ॥
पूर्वमङ्गानि सम्पूज्य मूर्तिं पश्चात्तु पूजयेत् ॥
पूर्वादिप्रादक्षिण्येनेशानाय सूर्यमूर्तये ॥ १०६ ॥
महादेवाय सोमेति मूर्तयेन्ते समुच्चरेत् ॥
भवाय क्षितिमूर्तये शर्वाय जलमूर्तये ॥ १०७ ॥
रुद्राय चाग्निमूर्तये उग्राय वायुमूर्तये ॥
भीमायाकाशमूर्तये ङेन्तं पशुपतिं तथा ॥ १०८ ॥
यजमानमूर्तयेचेति दलाग्रेषु ततो यजेत् ॥
रमा राका प्रभा ज्योत्स्ना पूर्णेषा पूरणी सुधा ॥ १०९ ॥
तृतीयावरणे चैताश्चतुर्थावरणे त्विमाः ॥
विद्या विश्वा सिता युक्ता सारा साध्या शिवा निशा ॥ ११० ॥
आर्या प्रज्ञा प्रभा मोहा शान्तिः कान्तिर्धृतिर्मतिः ॥
पञ्चमावरणे चैताः षष्ठावरणगा अथ ॥ १११ ॥
धरा माया सती पद्मा शान्ता माघो द्वयामला ॥
सप्तमे लोकपालाश्च तदस्त्राणि तथाष्टमे ॥ ११२ ॥
जपेल्लक्षमिमं मन्त्रमेवं ध्यायेज्जितेन्द्रियः ॥
जुहुयाद्दशभिर्द्रव्यैरयुतं घृतसंयुतैः ॥ ११३ ॥
बिल्वम्पलाशं खदिरं वटं च तिलसर्षपौ ॥
पायसं दधि दूर्वां च तथैकेन सहस्रकम् ॥ ११४ ॥
तर्पयित्वाभिषिच्याथ ब्राह्मणांस्तर्पयेद्गुरुम् ॥
एवं कृते प्रयोगार्हो जायतेयं महामनुः ॥ ११५ ॥
अयुतं जुहुयाद्द्बिल्वसमिद्भिः सम्पदे सुधीः ॥
जुहुयाद्ब्रह्मवृक्षस्य समिद्भिर्ब्रह्मतेजसे ॥ ११६ ॥
खदिरैरयुतं हुत्वा शान्तिं पुष्टिमवाप्नुयात् ॥
समिद्भिर्वटवृक्षस्य जुहुयाच्च यथाविधि ॥ ११७ ॥
धनधान्यसमृद्धस्स्यादयुतेन तु साधकः ॥
तिलैस्तत्सङ्ख्यया हुत्वा सर्वपापैः प्रमुच्यते ॥ ११८ ॥
सिद्धार्थैरयुतं हुत्वा शत्रून्विजयते नृपः ॥
अनेनैव विधानेन न स्यान्मृत्युरकालतः ॥ ११९ ॥
पायसेन कृतो होमो रक्षाश्रीकीर्तिकान्तिदः ॥
गोदुग्धेन च सिद्धान्नं हुत्वा कृत्यां विनाशयेत् ॥ १२० ॥
अयमेव मतो होमः शान्तिश्रीसम्पदावहः ॥
दधिहोमेन संवादं कुर्याद्विद्वेषिणोर्मिथः ॥ १२१ ॥
प्रत्यहं जुहुयान्मन्त्री दूर्वामष्टोत्तरं शतम् ॥
आमयान्निखिलाञ्जित्वा दीर्घमायुरवाप्नुयात् ॥ १२२ ॥
जुहुयाज्जन्मदिवसे पायसान्नैर्घृतान्वितैः ॥
इच्छन्ननिन्दितां लक्ष्मीमारोग्यं विपुलं यशः ॥ १२३ ॥
गव्यदुग्धघृताक्ताभिर्दूर्वाभिर्जुहुयाद्वशी ॥
सविंशति शतं सम्यग्यज्जन्मदिवसे सुधीः ॥
आमयैः सकलैर्मुक्तो जीवेद्वर्षशतं सुखी ॥ १२४ ॥
काश्मरीसमिधः सर्पिःपयोन्नं त्रिशतं पृथक् ॥
जुहुयाद्ब्राह्मणानन्ते भोजयेन्मधुरान्वितम् ॥ १२५ ॥
प्रीणयेद्वहुधान्याद्यैरात्मनो गुरुमादरात् ॥
अनामयमवाप्नोति दीर्घमायुः श्रिया सह ॥ १२६ ॥
सघृतेन पयोन्नेन हुत्वा पर्वणि पर्वणि ॥
राज्यश्रियमवाप्नोति षण्मासान्नात्र संशयः ॥ १२७ ॥
लाजैर्विशुद्धैर्जुहुयात्कन्या चैव वराप्तये ॥
क्षीरद्रुमसमिद्धोमाद्ब्राह्मणादीन्वशं नयेत् ॥ १२८ ॥
स्नात्वा सहस्रं प्रजपेदादित्याभिमुखो मनुम् ॥
आधिव्याधिविनिर्मुक्तो दीर्घमायुरवाप्नुयात् ॥
अनेन मनुना सर्वं साधयेदिष्टमात्मनः ॥ १२९ ॥
अथ दारिद्र्यनाशाय वक्ष्ये मन्त्रं धनेशितुः ॥
मेधातिथिर्-ऋषिः प्रोक्तो गायत्रं छन्द ईरितम् ॥ १३० ॥
अङ्गन्यासकरन्यासा देवता सदसस्पतिः ॥
जपं कुर्याच्च मासे तु चत्वारिंशत्सहस्रकम् ॥ १३१ ॥
देवताप्रीतये कार्यः षण्मासं तु मनोर्जपः ॥
पुरश्चरणमेतत्स्यात्स्वशक्त्या विप्रभोजनम् ॥ १३२ ॥
अश्वारूढं कुन्तपाणिं कुबेरं चित्रिणीप्रियम् ॥
निधीश्वरं स्वर्णवर्णं वन्दे गन्धर्वनायकम् ॥ १३३ ॥
अथ मन्त्रः ॥
सदस्पतिमद्भुतं प्रेयमिन्द्रस्य काम्यत्सनिं ते धामयाशिषम् ॥ १३४ ॥
चत्वारिंशत्सहस्रं यः प्रतिमासं जपेन्नरः महाभाण्डारिकः कुर्यात्तस्य दारिद्र्यनाशनम् ॥ १३५ ॥
सर्वार्थसाधकं वक्ष्ये सङ्ग्रामविजयप्रदम् ॥
जलन्धरवधायाहं यत्स्मरामि शृणुष्व तत् ॥ १३६ ॥
जातवेदसे सुनवाम सोममराती यतो निदहाति वेदः ॥
स नः परिषदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥ १३७ ॥
त्रिष्टुप्छन्दो मुनिश्चास्य मरीचिः कश्यपो मतः ॥
देवता जातवेदोग्निः षडङ्गानि समाचरेत् ॥ १३८ ॥
नवागषट्सप्तनागसप्तभिर्मनुवर्णकैः 7 ॥
अङ्गुष्ठयोर्गुल्फयोश्च जङ्घयोर्जानुनोस्तथा ॥ १३९ ॥
ऊर्व्वोः कट्योर्लिङ्गनाभ्योर्हृदये स्तनयोस्तथा ॥ १४० ॥
पार्श्वयोश्च तथा पृष्ठे स्कन्धयोरन्तरे तयोः ॥
बाह्वोश्चैवोपबाह्वोश्च द्वयोः कूर्परयोरपि ॥ १४१ ॥
प्रकोष्ठद्वितये चापि मणिबन्धद्वये तथा ॥
करयोस्तलयोरास्ये नस्यक्ष्णोश्चैव कर्णयोः ॥ १४२ ॥
भ्रुवोश्चैव तु मास्तिक्ये मूर्धनीति द्वितीयकः ॥
शिखायां 8 च ललाटे च नेत्रयोः कर्णयोस्तथा ॥ १४३ ॥
ओष्ठेधरे च जिह्वायां कण्ठे वाह्वोस्तथा हृदि ॥
कुक्षौ कटौ च गुह्ये च ऊर्वोर्जान्वोश्च जङ्घयोः ॥
पादयोश्च पदन्यासः प्रोक्तोयं ध्यानमुच्यते ॥ १४४ ॥
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ॥
हस्तैश्चक्रधरासिखेटविशिखां पाशाङ्कुशा तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्राम्भजे ॥ १४५ ॥
कृत्वा तु सर्वतोभद्रं पूर्वोक्तं मण्डलं शुभम् ॥
तत्कर्णिकायां षट्कोणे मण्डुकाद्यान्समर्चयेत् ॥ १४६ ॥
पूर्वोक्तान्परतत्वांस्तान्केशरेषु तदग्रतः ॥
जयाञ्च विजयाम्भद्रां रुद्रां कालीं च पूर्वतः ॥ १४७ ॥
सुमुखीं दुर्मुखीं चन्द्रमुखीं सिंहमुखीं तथा ॥
मध्ये दुर्गां यजेत्पश्चादासनं सिंहमन्त्रतः ॥ १४८ ॥
तारमुक्त्वा 9 वज्रनखदंष्ट्राय च महा ततः ॥
सिंहाय हुं फट् हृच्चेति मन्त्रः सप्तदशाक्षरः ॥ १४९ ॥
मूर्तिं मूलेन सङ्कल्प्य तस्यामावाह्य पूजयेत् ॥
केशरेषु षडङ्गानि पूर्वतोष्टदले पुनः ॥ १५० ॥
जातवेदाः सप्तजिह्वो द्वितीयो हव्यवाहनः ॥
ततश्चोदरजं वैश्वानरकौमारतेजसम् ॥ १५१ ॥
विश्वमुखं देवमुखं पीठे कोष्ठचतुष्टये ॥
धरात्मानं जलात्मानं वह्न्यात्मानं निरात्मकम् ॥ १५२ ॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च गौणिका ॥
पूषावाण्यौ ततो वीथी शची तोयात्मिका तथा ॥ १५३ ॥
नित्या दयावती चैव ह्यष्टमीकारिणीमता ॥
तथैव नवमी नाम्ना प्रोक्ता चैव तिरस्क्रिया ॥ १५४ ॥
देवमाता च दमना प्रिया पश्चान्निरूप्यते ॥
समाराध्या नन्दिनी च शरीरेषुविमर्दिनी ॥ १५५ ॥
पद्माख्या दण्डिनी तिग्मा दुर्गा गायत्र्यतः परम् ॥
निरवद्या विशालाक्षी सौम्या सायं निरूप्यते ॥ १५६ ॥
स्वरोद्वाहा नादिनी च वेदना वह्निगर्भिणी ॥
सिंहवासा च धूम्रा च दुर्विषंहारिरंसुका ॥ १५७ ॥
तापहरा त्यक्तदोषानिस्सपत्नेति तद्बहिः ॥
लोकपालांस्तदस्त्राणि पूजां प्राग्वत्समापयेत् ॥ १५८ ॥
मन्त्रं वर्णसहस्राणि जपेद्धोमं पृथक्पृथक् ॥
वेदवेदाब्धिसङ्ख्याकं तिलसिद्धार्थचित्रजैः ॥ १५९ ॥
मूलैश्च समिधाभिश्च 10 वटोदुम्बरपैप्पलैः ॥
अर्कप्लक्षोद्भवैश्चापि घृतेन हविषान्नकैः ॥ १६० ॥
सर्वैर्घृताक्तैर्जुहुयात्तिलैश्चान्ते घृताहुतीः ॥
ततस्सन्तर्प्य सतिलैः कृत्वा चात्माभिषेचनम् ॥ १६१ ॥
समाराध्य धरादेवीं तोषयेद्गुरुमात्मनः ॥
इत्थञ्जपादिभिः सिद्धे मन्त्रेस्मिन्साधकोत्तमः ॥ १६२ ॥
आग्नेयास्त्राधिकारी स्यात्तद्विधानमितीर्यते ॥
आग्नेयास्त्रमिति प्रोक्तं विलोमप्रथितो मनुः ॥ १६३ ॥
पूर्वोक्ता एव मुन्याद्याः षडङ्गानि विलोमतः ॥
ग्नित्यतारिदुधुं सिं प्रोच्चार्यात्र हृदयं मतम् ॥ १६४ ॥
ववेनाश्वा विणिर्गादु शिरोन्यासः प्रकीर्तितः ॥
एवमग्रेपि 11 जानीहि पूर्वोक्तार्णविलोमतः ॥ १६५ ॥
पूर्वोक्तसङ्ख्यकैर्वर्णैर्वर्णन्यासस्तथैव च ॥
तथैव च पदन्यासो जपः पूजा च पूर्ववत् ॥ १६६ ॥
पञ्चगव्यसुपक्वेन चरुणातस्य सिद्धये ॥
चतुस्सहस्रं च शतं चत्वारिंशच्चतुष्टयम् ॥ १६७ ॥
होमयेदर्चनं प्राग्वज्जपश्च प्रतिलोमतः ॥
सर्वत्र देशिकः कुर्याद्गायत्र्या द्विगुणं जपम् ॥ १६८ ॥
क्रूरकर्मणि कुर्वीत प्रतिलोमविधानतः ॥
शान्तिकं पौष्टिकं कर्म कर्तव्यमनुलोमतः ॥ १६९ ॥
ग्न्याद्यः 12 पञ्चाक्षरः पादो ज्ञेयो ज्ञानेन्द्रियात्मकः 13 ॥
धुमाद्यः पञ्चवर्णो द्वितीयः कर्मेन्द्रियात्मकः ॥ १७० ॥
श्वाद्यस्तृतीयः पञ्चार्णः सर्वभूतमयः 14 स्मृतः ॥
त्याद्यः 15 सप्ताक्षरः पादश्चतुर्थो धातुरूपकः ॥ १७१ ॥
दः पूर्वः पञ्चमः पाद ऊर्मिरूपः षडक्षरः ॥
तो वर्णादि षडर्णोन्यः षट्कौशिकमयो मतः ॥ १७२ ॥
सोपूर्वः पञ्चवर्णोन्यः शब्दादिमय ईरितः ॥
से वर्णाद्योष्टमो ज्ञेयः पञ्चाणा वचनादिकः ॥ १७३ ॥
एवं तत्त्वसमायोगात्परिकॢप्तिरुदीरिता 16 ॥
तत्तत्पादाक्षरोत्पन्नास्ताराद्या वह्निदेवताः ॥ १७४ ॥
प्रधानमूर्तिप्रतिमाः स्वस्वकर्मेरितप्रभाः ॥
प्रज्वलत्केशवसना भीमदंष्ट्रा भयावहाः ॥ १७५ ॥
देवता इन्द्रियोत्पन्ना ऊर्ध्वदृष्टय ईरिताः ॥
देवता भूतपादोत्थास्तिर्यग्नेत्राः 17 प्रकीर्तिताः ॥ १७६ ॥
धातुरूपाक्षरोत्पन्ना उभयात्मदृशो मताः ॥
ऊर्मिजा ऊर्ध्ववदनाः कोशोत्थास्तिर्यगाननाः ॥ १७७ ॥
अर्थसङ्ख्यासमुत्पन्ना देवता द्विदिगाननाः ॥
एताः सर्वास्स्मृताः क्लीबा इन्द्रियार्थोद्भवास्त्रियः ॥ १७८ ॥
याभ्यो मन्त्री दहेच्छत्रो राष्टं सगिरिकाननम् ॥
अस्त्रं मनुष्यनक्षत्रे प्रारभेत विचक्षणः ॥ १७९ ॥
आसुरेषु प्रयुञ्जीयाद्देवतासु शुभं हरेत् ॥
उपक्रमेत नन्दासुरिक्तास्वस्त्रं विसर्जयेत् ॥ १८० ॥
भद्रास्वाहरणं कुर्याज्जपादेः कार्यमुत्तमम् ॥
उपक्रमो भौमवारे शनिवारे विसर्जयेत् ॥ १८१ ॥
प्रतिसंहरणं वारे गुरोः शुक्रस्य वा भवेत् ॥
स्थिरेषु राशिष्वारम्भश्चरेषु स्याद्विसर्जनम् ॥ १८२ ॥
अस्त्रसंहरण कुर्यादुभयेषु विचक्षणः ॥
कृष्णपक्षे चरेदस्त्रं विसृजेच्छशिना पुनः ॥ १८३ ॥
शुक्लपक्षक्रमादस्त्रं पुनरात्मनि संहरेत् ॥
भानुना मोक्षसंहारौ कुर्यात्पक्षद्वये सुधीः ॥ १८४ ॥
पश्चिमाभिमुखो भूत्वा सर्वकर्माणि साधयेत् ॥
नक्षत्रवृक्षसकलान्साध्याख्यान्कर्मसंयुतान् ॥ १८५ ॥
राजीतैलेन सतिलान्पृथक्सप्तसहस्रकम् ॥
जुहुयात्संयतो भूत्वा रिपुर्यमपुरं व्रजेत् ॥ १८६ ॥
सप्तरात्रं प्रजुहुयात्सिद्धार्थस्नेहसंयुतैः ॥
आर्द्रवस्त्रो वृष्टिकाले मरीचैर्मनुनामुना ॥ १८७ ॥
निगृह्यते ज्वरेणारिः प्रलयाग्निसमेन सम्ः ॥
तालपत्रे समालिख्य शत्रुनाम यथाविधि ॥ १८८ ॥
आग्नेयास्त्रेण संवेष्ट्य कुण्डमध्ये निखन्यते ॥
मरिचैश्च हनेत्क्रद्धो ज्वराक्रान्तः स जायते ॥ १८९ ॥
तदादाय क्षिपेत्तोये शीतले स वशो भवेत् ॥
सामुद्रसलिलं हिङ्गुं विषं जीरकलोहिते ॥ १९० ॥
क्वथिते पुत्तलिं कृत्वा नक्षत्रतरुनिर्मिताम् ॥
अधोवक्त्रां विनिक्षिप्य यष्ट्या विषतरूत्थया ॥ १९१ ॥
तच्छिरस्ताडनं कुर्याज्जपन्मन्त्रं विलोमतः ॥
सप्ताहान्मरणं याति शत्रुर्ज्वरविमोहितः ॥ १९२ ॥
आदित्यरथनागेन्द्रग्रस्ताङ्घ्रिं तद्विषाततम् ॥
नग्नं तैलेन लिप्ताङ्गं दग्धं भानुमरीचिभिः ॥ १९३ ॥
अधोमुखं निजरिपुं ध्यात्वा क्वथितवारिणा ॥
तर्पयेद्भानुमालोक्य शत्रुर्मृत्युप्रियो भवेत् ॥ १९४ ॥
बिभ्रतीं मुसलं शूलं ध्यायेत्कालघनप्रभाम् ॥
कार्पासबीजैर्निवस्य पत्रैर्मेषोघृतप्लुतैः ॥
हुत्वा विद्वेषयेछत्रुं नखेनाहृत्य देशिकः ॥ १९५ ॥
बिभ्राणां तर्जनीं शूलं ध्यात्वा दुर्गाम्भयङ्कराम् ॥ १९६ ॥
महिषीघृतसंसिक्तैः पल्लवैर्विषवृक्षजैः ॥
हुत्वा रिपोर्महासेनामुच्चाटयति 18 मन्त्रवित् ॥ १९७ ॥
ध्यात्वा देवीं पुरा प्रोक्तां चरुभिर्मरिचान्वितैः ॥
अजारुधिरसंसिक्तर्जुहुयाद्दिवसत्रयम् ॥
रिपोरुच्चाटनं कुर्यात्सेनायानात्र संशयः ॥ १९८ ॥
अग्निशूलाकुलां दुर्गां ज्वलन्तीं प्रलयाग्निवत् ॥
ध्यात्वा सर्षपतैलाढ्यैर्बीजैर्धत्तूरसम्भवैः ॥
हुत्वा विमोहयेच्छत्रुं मरिचैर्वा ससर्षपैः ॥ १९९ ॥
कालाञ्जननिभां दुर्गां शूलखड्गकरां स्मरेत् ॥
नक्षत्रवृक्षसम्भूतैर्व्रणवृक्षजसञ्ज्ञकैः ॥
समिद्वरैः प्रजुहुयाज्जयेन्मासेन वैरिणम् ॥ २०० ॥
सिंहारूढां प्रधावन्तीं धावमानं रिपुं प्रति ॥
शरान्कार्मुकनिर्मुक्तान्वह्निज्वालामुखाकलान् ॥ २०१ ॥
मुञ्चन्तीं संस्मरन्दुर्गां तर्पयेदुष्णवारिणा ॥
भानुबिम्बं समालोक्य शत्रोरुच्चाटनं भवेत् ॥ २०२ ॥
अतिदुर्गाममोघर्ष्टिगदाहस्तां विचिन्तयेत् ॥
विद्युद्दामसहस्राभां महिषीघृतसम्प्लुतैः ॥
पुरोक्तैर्जुहुयान्निम्बबिभीतकसमिद्वरैः ॥
कोद्रवैरथ शत्रोश्च सेनायास्स्तम्भनं भवेत् ॥ २०३ ॥
इषुजालाङ्कुशाढ्याङ्गां नित्यं दुर्गामनुस्मरेत् ॥
लवणैर्मधुरैस्साध्यकाष्ठैर्वा ह्येधितेनले ॥
जुहुयान्निशि सप्ताहान्मन्त्रविद्वशयेन्नृपान् ॥ २०४ ॥
पाशाङ्कुशधरां रक्तां विश्वदुर्गां विचिन्तयेत् ॥
फलिनीकुसुमैः फलैश्चन्दनाम्भस्समुक्षितैः ॥
जुहुयान्निशि यो मन्त्री तस्य विश्वं वशं भवेत् ॥ २०५ ॥
शरच्चन्द्रनिभां देवीं विराजत्परमामृताम् 19 ॥
पाशाङ्कुशकरां ध्यात्वा सिन्धुदुर्गां समिद्वरैः ॥
वेतसैर्मधुरासिक्तैर्जुहुयाद्बृत्तिसिद्धये ॥ २०६ ॥
जपाकुसुमसङ्काशामग्निदुर्गां विचिन्तयेत् ॥
हुनेल्लवणपुत्तल्या मधुरत्रययुक्तया ॥
आकर्षेद्वाञ्छितां साध्यां मन्त्रविन्नात्र संशयः ॥ २०७ ॥
अतिदुर्गेयमत्याद्या षडन्तादिस्समीरिता ॥
दुवर्णान्ता तथान्याद्या गानि दुर्गा प्रकीर्तिता ॥ २०८ ॥
विश्वाद्या चैव मन्त्रेस्मिन्विश्वदुर्गा समीरिता ॥ २०९ ॥
सिन्ध्वाद्या सावकारान्ता सिन्दुदुर्गा निगद्यते ॥
त्यान्तामग्न्यादिकामेवमग्निदुर्गां विदुर्बुधाः ॥ २१० ॥
अङ्गणे स्थण्डिलं कृत्वा सुगन्धिकसुमादिभिः ॥
देवीं तत्रार्चयेन्नित्यं प्रागुक्तेनैव वर्त्मना ॥ २११ ॥
आहरेद्रात्रिषु बलिं चरुणा सर्वसिद्धिदम् ॥
कृत्यारोगभयद्रोहभूतानि नाशयेदयम् ॥ २१२ ॥
यथावदग्निमाराध्य गन्धैः पुष्पैर्मनोहरैः ॥
स्थित्वा तस्याग्रतो मन्त्री जपेन्मन्त्रमनन्यधीः ॥
जपोयं सर्वसिद्ध्यै स्यान्नात्र कार्या विचारणा ॥ २१३ ॥
लवणैर्मधुरासिक्तैर्जुहुयात्पश्चिमामुखः ॥
मन्त्रार्णसङ्ख्यया मन्त्री रिपुमात्मवशं नयेत् ॥ २१४ ॥
शालीन्प्रक्षाल्य संशोध्य शुद्धान्कुर्वीत तण्डुलान् ॥
निवास्य पञ्चगव्येषु संस्कृते हव्यवाहने ॥ २१५ ॥
पाचयेच्च जपन्मन्त्रमवतार्य पुनः सुधीः ॥
अर्चयित्वा विशदधीः समिद्धेग्नौ यथा पुरा ॥ २१६ ॥
जुहुयाच्चरुणाज्येन तथा चाष्टसहस्रकम् ॥
पत्रे सन्तापनं कुर्यात्साध्यं तत्प्राशयेद्गुरुः ॥ २१७ ॥
शिष्यं तं पूजयेद्वारि सम्पातं प्राङ्गणान्तरे ॥
कृत्यावेगा विनश्यन्ति सहभूतग्रहामयैः ॥
परैरुत्सादिता कृत्या पुनस्तानेव भक्षयेत् ॥ २१८ ॥
व्रीहिभिर्हविषा क्षीरैः पयोवृक्षसमिद्वरैः ॥
आज्यैर्मधुत्रयोपेतैर्मन्त्रैर्दशशतं पृथक् ॥
जुहुयात्सम्पदां भूमिः साधका भवति ध्रुवम् ॥ २१९ ॥
भास्करे मेषराशिस्थेमन्त्रज्ञानगुणे दिने ॥
गत्वा नद्यां जपन्मन्त्रं सततं पुष्कलाम्भसि ॥ २२० ॥
उद्धृत्यादाय सिकतः संशोध्य परिशोधयेत् ॥
न्यस्य ताः पञ्चगव्येषु सम्भूते हव्यवाहने ॥
भर्जयेन्मनुना सिद्ध्यै दर्व्या ब्रह्मतरूत्थया ॥ २२१ ॥
सिंहमेषधनुःस्थेर्के कृष्णपक्षेष्टमीतिथौ ॥
विशाखाकृत्तिकामूलहस्तोत्तरमघास्वथ ॥ २२२ ॥
रोहिण्यां श्रवणे वारे मन्दवाक्पतिदैवते ॥
विहायान्येषु कुर्वीत सिकतास्थापनं सुधीः ॥ २२३ ॥
गृहग्रामादिराष्ट्राणां रक्षार्थं सिकताः शुभाः ॥
प्रस्थाढकघटोन्माना मध्यादिष्ववरेष्विमाः ॥ २२४ ॥
नवसु प्रक्षिपेज्जप्त्वा तेषु सम्पूजयेत्क्रमात् ॥
मध्यादिदेवीमस्त्राणि कपालान्तानि देशिकः ॥ २२५ ॥
चक्रं शङ्खमसिं खेटं बाणांश्चापं त्रिशूलकम् ॥
कपालं स्वस्वमन्त्रेण सम्पूज्यान्ते बलिं हरेत् ॥ २२६ ॥
नक्षत्रग्रहराशीनां लोकेशानां बलिं हरेत् ॥
विहिता यत्र रक्षा या वर्धन्ते तत्र सम्पदः ॥ २२७ ॥
क्षुद्रग्रहमहारोगभयभूतसरीसृपाः ॥
अमुना विलयं यान्ति विधिना नात्र संशयः ॥ २२८ ॥
सिकातानां विशुद्धानां कुडवाश्चापि 20 षोडश ॥
पञ्चगव्ययुते पात्रे ब्रह्मवृक्षेण निर्मिते ॥ २२९ ॥
निक्षिपेद्विधिना यत्र तत्र तिष्ठन्ति सम्पदः ॥
दिनेदिने प्रवर्धन्तेऽकालवृष्ट्यादिभिः सह ॥ २३० ॥
महोत्पाता विनश्यन्ति कृत्याद्रोहामयग्रहाः ॥
चरुगव्याश्मनां कुर्यात्स्थापनं विधिनामुना ॥ २३१ ॥
गोमूत्रं प्रस्थमात्रं 21 स्याद्गोमयंस्यात्तदर्धकम् ॥
आज्यात्सप्तगुणं क्षीरं गोमूत्रात्त्रिगुणं दधि ॥ २३२ ॥
गोमूत्रेण समं सर्पिः सर्वं वा सममुच्यते ॥
गावः स्युः कपिलाः श्वेताः सितधूम्रारुणप्रभाः ॥ २३३ ॥
अभावे च सिताः सर्वाः सर्वं वा कपिलोद्भवम् ॥
एकोनपञ्चाशत्कोष्ठे फलके ब्रह्मशाखिनः ॥ २३४ ॥
विहाय कोणकोष्ठानि मध्यकोष्ठे लिखेच्च ह्रीम् ॥
तदूर्ध्वकोष्ठमारभ्य प्रादक्षिण्येन संलिखेत् ॥ २३५ ॥
देवीं तत्र समावाह्य पूजयेदुपचारकैः ॥
कृत्वा होमन्तु सम्पातं निखनेत्तद्यथा पुरा ॥
दद्याद्बलिं यथापूर्वं तस्य पूर्वोदितं फलम् ॥ २३६ ॥
नवकोष्ठान्वितं लेख्यं चतुरस्रं सुशोभनम् ॥
साध्यनामान्वितां मायां मध्यकोष्ठे तु संलिखेत् ॥ २३७ ॥
तदधःकोष्ठमारभ्य प्रादक्षिण्येन संलिखेत् ॥
मूलमन्त्रस्य पूर्वोक्तानष्टौ पादांश्च तद्बहिः ॥ २३८ ॥
वृत्तद्वयान्तराले तु मातृकार्णैः प्रवेष्टयेत् ॥
तद्बहिश्चतुरस्रं स्याद्धारणामन्त्रमद्भुतम् ॥
सर्वभूतभयहरं श्रीकीर्त्यायुःप्रदं शुभम् ॥ २३९ ॥
आग्नेयास्त्रस्य जानाति विसर्गादानकर्मणी ॥
यः पुमान्सगुणैः श्रेष्ठस्तस्याधीनं जगत्त्रयम् ॥ २४० ॥
अतिदुर्गामनुं वक्ष्ये यद्दिनास्त्रमितीर्यते ॥
प्रतिलोममिमं मन्त्रं कृत्वास्त्रं परिचक्षते ॥ २४१ ॥
अतिदुर्गाणि विश्वानावेव सिन्धुं दुरितात्यग्निः ॥
जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः स नः परिषत् ॥ २४२ ॥
अङ्गन्यासस्तु पूर्वोक्तो वर्णन्यास इतीरितः ॥
क्रमेणानेन वर्णानाम्पदानां न्यास इष्यते ॥ २४३ ॥
ध्यानं चैव पुरा प्रोक्तं कृत्यास्त्रस्य विलोमतः ॥
न्यासादिकं तथा ध्यानं मुनिश्छन्दश्च पूर्ववत् ॥ २४४ ॥
पुरश्चर्यादिकं सर्वं प्रयोगान्कीर्तयाम्यहम् ॥
भानुबिम्बगतं शत्रुं मध्ये वक्रं विषाहतम् ॥ २४५ ॥
मूलादुत्थितया ग्रस्तं कुण्डल्या भावयेत्सुधीः ॥
मूलाधारेपि चेत्सद्यस्तस्य कालं स भावयेत् ॥
दिनद्वयाज्ज्वराक्रान्तो रिपुः प्राणान्विमुञ्चति ॥ २४६ ॥
दिनास्त्रेण प्रविद्धाङ्गं स्वाधिष्ठनगतं रिपुम् ॥
पञ्चवायुसमिद्धेन चाग्निना दग्धविग्रहम् ॥
ध्यायेन्मनुं जपेत्सद्यः स भवेद्यमवल्लभः ॥ २४७ ॥
मणिपूरगतं शत्रुमग्निना दीप्तविग्रहम् ॥
ध्यायन्दिनास्त्रं प्रजपेत्स मृत्युवशतां व्रजेत् ॥ २४८ ॥
अनाहितो हतः शत्रुर्निर्दग्धो मन्त्रवह्निना ॥
पाशेन बद्ध्वा शीघ्रं स नीयते यमकिङ्करैः ॥ २४९ ॥
विशुद्धस्थानगो वैरी दिनबाणेन पूरितः ॥
अधोमुखः स्मृतस्तूर्णम्परासुः स्याद्दिनत्रयात् ॥ २५० ॥
आज्ञायां निहितं शत्रुं दहेद्बाणाग्निना धिया ॥
पुत्रमित्रकलत्रादिसहितो मृत्युमाप्नुयात् ॥ २५१ ॥
नाभिमात्रे जले स्थित्वा ध्यायेद्बिम्बं दिनेशितुः ॥
वैरिणं दग्धसर्वाङ्गं मन्त्रमष्टोत्तरं शतम् ॥
जपेत्सप्त दिनादर्वाग्यमलोकं स गच्छति ॥ २५२ ॥
आरवारं 22 समारभ्य सप्ताहं प्रजपेन्मनुम् ॥
सूर्योदयं समारभ्य यावदस्तमयो भवेत् ॥
सन्निपातपराविष्टो यमग्रस्तो भवेदरिः ॥ २५३ ॥
स्थित्वा दुर्गालये मन्त्री त्रिरात्रं वर्जिताशनः ॥
दिने वा मन्त्रविद्धाङ्गं वैरिणं प्रविचिन्तयेत् ॥
जपेन्मनुमिमं शत्रुर्ज्वरितो मरणं व्रजेत् ॥ २५४ ॥
दृष्ट्वादुर्गां जपेन्मन्त्रमजस्रं स्वरिपुं स्मरन् ॥
शूलप्रोतशरीरन्तु दिनास्त्रेण प्रपीडितम् ॥
ज्वरेण महताविष्टो जायतेसौ यमातिथिः ॥ २५५ ॥
रविमण्डलगं शत्रुं दष्टं तद्रथपन्नगैः ॥
विषाग्निदग्धसर्वाङ्गं ध्यायेदुष्णेन वारिणा ॥
तर्पयेद्दिनबाणेन स्यादसौ यमवल्लभः ॥ २५६ ॥
रविबिम्बादागतया ज्वालया ग्रस्तविग्रहम् ॥
रिपुं ध्यात्वा जपेन्मन्त्रं स प्रयाति यमान्तिकम् ॥ २५७ ॥
ग्रहग्रस्ताग्रबिम्बस्थं विद्धं मन्त्रमयैः शरैः ॥
प्रतिपद्धातितं शत्रुं जपेदयुतमन्त्रवित् ॥
रिपुन्नयति शीघ्रं तं यमदूतो यमालयम् ॥ २५८ ॥
प्रलयानलसङ्काशां कालरात्रिमिवापराम् ॥
शूलपाशधरां घोरां सिंहस्कन्धं निषेदुषीम् ॥ २५९ ॥
सवितुर्मण्डलान्तःस्थां रक्तनेत्रत्रयोद्भवैः ॥
विस्फुलिङ्गैर्निर्दहन्तीं रिपुमाकुलविग्रहम् ॥ २६० ॥
स्वेष्टदंष्ट्राधरां नृत्यद्भ्रुकुटीभीषणाननाम् ॥
तर्जयन्तीं निजं शत्रुं तर्जन्या भीमरूपया ॥ २६१ ॥
दंष्ट्रामयूखजालेन द्योतयन्तीं दिगन्तरम् ॥
शूलेन वैरिणो वक्षो दारयन्तीं भयङ्कराम् ॥ २६२ ॥
जपेद्दिनत्रयं धीमान्मारयेद्रिपुमात्मनः ॥
अस्त्रमन्त्रकृतन्यासः प्रलयाग्निसमप्रभः ॥ २६३ ॥
रक्तवस्त्रधरां क्रुद्धां रक्तनेत्रत्रयावृताम् ॥
सिंहाधिरूढा धावन्तीं धावमानं रिपुं प्रति ॥
खड्गेन तच्छिरश्छित्त्वा क्षणाद्व्योमस्थलं गताम् ॥ २६४ ॥
ध्वात्वा दुर्गां जपेन्मन्त्रं त्रिदिनं वर्जिताशनः ॥
अनेनैव विधानेन रिपुर्मृत्युप्रियो भवेत् ॥
कर्माण्येतानि कर्वीत दिवसे न तु रात्रिषु ॥ २६५ ॥
तस्माद्दिनास्त्रमित्युक्तमथ रात्र्यस्त्रमुच्यते ॥
पश्चिमाभिमुखं न्यस्य सजीवं महिषं पुरः ॥ २६६ ॥
निखाय तस्य शिरसि कुण्डं कृत्वा त्रिकोणकम् ॥
तस्मिन्समेधिते वह्नौ यथावद्देशिकोत्तमः ॥ २६७ ॥
सत्रिकोणाः मन्त्रावर्णाः साध्यनामसमन्विताः ॥
भुजरक्तेन संसिक्ताः कारस्करसमिद्वराः ॥
सहस्रं जुहुयाद्ध्यात्वा देवीं सवितृमण्डले ॥ २६८ ॥
प्रलयाग्निसमां घोरां द्वात्रिंशद्भुजशोभिताम् ॥
उद्यदायुधसन्दीप्तां नृत्यन्तीं सिंहमस्तके ॥ २६९ ॥
महादंष्ट्रां महाभीमां ज्वलत्केशां नदन्मुखीम् ॥
रक्तार्द्रमांसवसनां घूर्णितोग्रत्रिलोचनाम् ॥ २७० ॥
अनेन विधिना शत्रुर्महाज्वरनिपीडितः ॥
विमुञ्चति निजं देहं पुत्रमित्रादिभिः सह ॥ २७१ ॥
ऊर्ध्ववक्त्रांस्ततो मन्त्री लम्बयित्वा भुजङ्गमान् ॥
भानुबिम्बगतां दुर्गां सहस्रादित्यसन्निभाम् ॥ २७२ ॥
सहस्रपाणिचरणां सहस्राक्षिशिरोमुखीम् ॥
सहस्रनागबद्धाङ्गीं त्रासयन्तीं जगत्त्रयम् ॥ २७३ ॥
ध्यायन्मन्त्रेण तेनैव तर्पयेदुष्णवारिणा ॥
संयतः कालपाशेन वैरी मुञ्चेत्स्वजीवितम् ॥ २७४ ॥
मध्याह्नार्कायुतप्रख्यां नदन्तीं नरसिंहवत् ॥
घोरसिंहासनासीनां महाभीषणदारिणीम् ॥ २७५ ॥
शूलप्रोताहितां ध्यायञ्जपेन्मन्त्रमनन्यधीः ॥
तर्पयेदुष्णतोयेन सर्पवक्त्रे दिनत्रयम् ॥
यमस्य भवनं गच्छेदरातिर्नात्र संशयः ॥ २७६ ॥
ऋक्षवृक्षैः प्रतिकृतिं प्रतिष्ठितसमीरणाम् ॥
उष्णोदके विनिःक्षिप्य निष्पीड्य विधिना ततः ॥ २७७ ॥
अर्केन्द्वनलसङ्काशां खड्गखेटकधारिणीम् ॥
नयनत्रयसङ्गच्छद्विस्फुलिङ्गशताकुलाम् ॥ २७८ ॥
सिंहस्थां सर्पभूषाढ्यां त्रैलोक्यभयदायिनीम् ॥
खड्गकृत्ताहितां ध्यायन्प्रजपेदयुतं मनुम् ॥
विधानेनामुना शत्रुर्युक्तो भवति मृत्युना ॥ २७९ ॥
प्रकल्प्य दुर्गायतने त्रिकोणं कुण्डमुत्तमम् ॥
तत्र सञ्ज्वलिते वह्नौ महिषीशकृता कृताम् ॥ २८० ॥
पुत्तिलीं सर्जतां रक्तां प्रतिष्ठितसमीरणाम् ॥
छित्त्वा छित्त्वा प्रजहुयादजरक्तान्वितां निशि ॥ २८१ ॥
ध्यात्वा दुर्गां प्रनृत्यन्तीं महिषोरःस्थलान्तरे ॥
शूलेन महिषस्याङ्गं भिन्दन्ती घोरदर्शनाम् ॥ २८२ ॥
अट्टहासैरजस्रोत्थैर्भीषणां सुरसेविताम् ॥
प्रदीप्तानलसङ्काशां भ्रमन्नेत्रत्रयान्विताम् ॥ २८३ ॥
सदष्टाधरसम्भिन्नां दṁष्ट्राभीममुखाम्बुजाम् ॥
खड्गखेटकयुक्ताभिः कन्यकाभिः समावृताम् ॥ २८४ ॥
अनेन विधिना शत्रुः प्रयाति यममन्दिरम् ॥
दिनास्त्रमेवं कथितं रात्रौ कृत्यास्त्रमुच्यते ॥ २८५ ॥
आधारादुद्गतां देवीं कुण्डलीं सर्परूपिणीम् ॥
तां ब्रह्मरन्ध्रमार्गेण गतां व्योमस्थलं ततः ॥ २८६ ॥
मुखेन शत्रुमादाय निवृत्तां स्वगृहं प्रति ॥
ज्वलत्कालानलोद्दीप्तां विचिन्त्य प्रजपेन्मनुम् ॥
सप्तभिर्वासरैः शत्रुर्मृत्युमाप्नोति मोहितः ॥ २८७ ॥
अङ्गारवारे चित्यग्नौ सर्षपस्नेहलालितम् ॥
सिद्धार्थकुडवं जप्तं जुहुयात्पशुमन्त्रतः ॥
कृत्यास्त्रज्वालया सद्यो रिपुर्यमपुरं व्रजेत् ॥ २८८ ॥
चतुर्दश्यामर्धरात्रे चितास्थीन्यत्र साधकः ॥
व्रणतैलविलिप्तानि चिताग्नौ जुहुयात्ततः ॥
अनेन विधिना शतुर्मृत्युमेष्यति कातरः ॥ २८९ ॥
धान्यस्य तु तुषान् पिष्ट्वा शत्रोश्चैव विनिर्मिताम् ॥
प्रतिमां व्रणतैलाक्तां कृतप्राणां हुनेन्निशि ॥
छित्त्वाछित्त्वाजरक्तेन सप्ताहान्म्रियते रिपुः ॥ २९० ॥
श्मशानवालुकां स्पृष्ट्वा साक्षतां नियतं जपेत् ॥
विविक्तस्तु तडागादौ जपेन क्वथितं जलम् ॥
तदीयं पीतमचिरान्निहन्ति सकलाञ्जनान् ॥ २९१ ॥
कृष्णाङ्गारचतुर्दश्यां जपितैः प्रेतभस्मभिः ॥
माहिषाज्येन संयुक्तैस्तन्मन्त्राक्षरसङ्ख्यया ॥ २९२ ॥
निर्माय प्रतिमामेतां सम्यग्जप्तसमीरणाम् ॥
चितिकाष्ठेन्धिते वह्नौ जुहुयाद्दृढमानसः ॥
चतुर्दशीत्रयादर्वाक्छत्रुर्मृत्युवशो भवेत् ॥ २९३ ॥
श्मशानभस्मसिद्धार्थान्पञ्चगव्ये विनिक्षिपेत् ॥
महिषं संस्मरेद्देवीं ज्वालाग्निसदृशप्रभाम् ॥ २९४ ॥
भर्जयेत्प्रजपन्मन्त्रं विषकाष्ठैधितानले ॥
दुर्गागारे प्रजुहुयादनेनायुतमस्त्रवित् ॥ २९५ ॥
पुनरादायतद्भस्म सेनायां वैरिणः क्षिपेत् ॥
सा सेना बहुधा भिन्ना ज्वरेणापि विमोहिता ॥ २९६ ॥
आयुधानि परित्यज्य युद्धकाले पलायते ॥
गेहग्रामादिषु क्षिप्तं कुर्यादुच्चाटनं द्रुतम् ॥ ३९७ ॥
सप्तवारेषु कुलिके दुर्गावेश्मसु शर्कराः ॥
सप्तमाहेन्द्रदिग्वर्जं गृहीत्वा प्रजपेन्मनुम् ॥ २९८ ॥
महिषीपञ्चगव्येन महिषं तर्पयेत्पुरा ॥
भूयो जपित्वा विक्रिरेद्गेहे ग्रामपुरे त्विमाः ॥
स देशो नश्यति क्षिप्रं दग्धो मन्त्रदवाग्निना ॥ २९९ ॥
ब्रह्मदण्डी मर्कटिका वज्रकण्टकिका त्रयम् ॥
भौमवारस्य कुलिके गृहीत्वा प्रजपेन्मनुम् ॥
सार्धं पुत्रकलत्राद्यैरुत्सादो जायते रिपोः ॥ ३०० ॥
एकत्रैवाखनेन्मन्त्री मण्डलान्तस्स्थलं भवेत् ॥
षड्बिन्दुषट्कपुत्तल्यां निखनेदोदनान्वितम् ॥ ३०१ ॥
स्पृष्ट्वा तां प्रजपेन्मन्त्रं कृष्णाष्टम्यां दिनार्धतः ॥
शत्रुनामसमायुक्तां श्मशाने निखनेदिमाम् ॥
प्रणश्यति रिपुः शीघ्रं सकुटुम्बः सबान्धवः ॥ ३०२ ॥
कपालशकलान्मन्त्री कृत्यास्त्राक्षरसङ्ख्यया ॥
स्पृष्ट्वा तां प्रजपेदस्त्रं प्राणस्थापनपूर्वकम् ॥ ३०३ ॥
कृष्णाङ्गारचतुर्दश्यां श्मशाने विषवृक्षजे ॥
जुहुयादजरक्ताक्तां कृत्यास्त्रज्वालया ततः ॥
रिपुर्यमपुरं गच्छेन्महाज्वरविमोहितः ॥ ३०४ ॥
अजरक्तेन सम्पूर्णे कलशे निक्षिपेदहिम् ॥
कपालेन पिधायैनं छादयेद्रक्तवाससा ॥ ३०५ ॥
पूजयेद्रक्तपुष्पाद्यः स्पृष्ट्वा तं त्वयुतं जपेत् ॥
भौमवारे दिशो मध्ये यथापूर्वं समाहितः ॥ ३०६ ॥
कारस्करैघिते वह्ना कृत्यास्त्रेण समेधिते ॥
अयुतं व्रणतैलेन हुत्वान्ते तं पटं पुनः ॥ ३०७ ॥
आमस्तकं समुद्धृत्य त्वभिचाररतः सुधीः ॥
जुहुयाद्विधिना तेन त्रिदिनैर्म्रियते रिपुः ॥ ३०८ ॥
सुन्दरं महिषीसर्पिः प्रस्थं मन्त्रेण मन्त्रितम् ॥
कुशैराबद्धसर्वाङ्गं स्थापितं प्राणतेजसा ॥ ३०९ ॥
कारस्करैधिते वह्ना व्रणतैलेन मन्त्रवित् ॥
होमं कृत्वा पुनर्वस्त्रं जुहुयाद्यतमानसः ॥
एकेन दिवसेनारिर्गच्छेद्यमपुरं प्रति ॥ ३१० ॥
त्रिकोणकुण्डनिहिते वह्नौ मन्त्रेण दीपिते ॥
अर्चिते गन्धपुष्पाद्यैरयुतं जुहुयात्सुधीः ॥ ३११ ॥
रजिभक्ततिलैस्तैलैर्नित्यं सप्तदिनं ततः ॥
प्रसूतिसमयप्राप्तां महिषीं स्थापितानिलाम् ॥
अर्चिता गन्धपुष्पाद्यैः स्पृशन्मन्त्रं तु तं जपेत् ॥ ३१२ ॥
मस्तकाद्योनिपर्यन्तं जुहुयादेधितेनले ॥
एवङ्कृते समुत्पन्ना कृत्या दीप्ता हुताशनात् ॥
भक्षयेदचिराच्छत्रुमीश्वरेणाभिरक्षितम् ॥ ३१३ ॥
पुनरग्नौ विशत्येषा कर्तारमपि काङ्क्षिणी ॥
एवं विधानि कर्माणि यः कुर्यान्मन्त्रवित्तमः ॥
स जपेदात्मरक्षार्थं मन्त्रान्मृत्युञ्जयादिकान् ॥ ३१४ ॥
अथ त्रिशक्तिमन्त्रस्य साधनार्थं पुरश्चरेत् ॥
जपं महाव्याहृतीनां होमं तर्पणमेव च ॥
ॐङ्कारपूर्वकञ्जप्त्वा मन्त्रं त्वयुतसङ्ख्यया ॥
सहस्रं जुहुयादाज्यैस्तर्पणादि ततश्चरेत् ॥ ३१५ ॥
एवङ्कृते सर्वदेवाराधनं स्यात्समर्थता ॥
विनानेन त्रिशक्तेस्तु मन्त्रसिद्धिर्न जायते ॥ ३१६ ॥
ॐ भूरग्नये च पृथिव्यै महते च स्वाहा ॥
ॐ भुवो वायवे चान्तरिक्षाय च महते च ॥ ३१७ ॥
ॐ सुवरादित्याय च दिवे च महते च ॥
ॐ भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते स्वाहा ॥ ३१८ ॥
वक्ष्यमाणफलावाप्तिः सामान्या तु सहस्रशः ॥
देशकालानुरूपेण श्रेष्ठा त्वयुतहोमतः ॥ ३१९ ॥
यथामनोरथस्तादृग्लक्षहोमात्प्रजायते ॥
अथ क्रमेण तद्वक्ष्ये तेजस्वी घृतहोमतः ॥ ३२० ॥
उदुम्बरसमिद्भिस्तु सर्वकर्मसमर्थता ॥
पश्वादिकामो जुहुयाद्दुग्धं वाप्यथ वा दधि ॥ ३२१ ॥
समस्तोत्पातशान्त्यर्थमपामार्गस्य तण्डुलान् ॥
अर्कस्य समिधो हुत्वा यथेष्टं कनकं लभेत् ॥ ३२२ ॥
जात्यास्तु वल्लिकायुग्मं ग्रन्थयित्वा घृतान्वितम् ॥
जुहुयादयुतसङ्ख्याकं सम्पदं स सदा लभेत् ॥ ३२३ ॥
कन्याकामस्तु जुहुयात्तिलतण्डुलमुष्टिभिः ॥
अपामार्गस्य समिधो जुहुयाद्रामकामुकः ॥ ३२४ ॥
वशीकर्तुं तु समिधः पलाशाशोकयोर्हुनेत् ॥
आयुष्कामस्तु दूर्वाभिः ष्पैस्तु धनकामुकः ॥ ३२५ ॥
समिधो व्याधिघातस्य रुधिरेणाजकेन च ॥
संयोज्य जुहुयान्मन्त्री त्वभिचारः प्रसिध्यति ॥ ३२६ ॥
जातानां जायमानां प्रभोः सर्वत्रकोपनम् ॥
मरणं वा तत्र हुनेत्सर्वव्रीहिभिरादरात् ॥ ३२७ ॥
प्रभूतव्रीहिदूर्वाभिर्होमान्सप्तकृतिर्भवेत् ॥
उल्लूककाकपक्षाभ्यां होमो विद्वेषकारकः ॥ ३२८ ॥
स्वप्नग्रहे तु कपिलाघृतहोमं सहस्रकम् ॥
सम्पातस्य घृतं स्थाप्यं वचान्तेनैव लोलयेत् ॥
मन्त्रयित्वा पुत्रवतीं मेधावी चैव जायते ॥ ३२९ ॥
प्रत्यहं मासमात्रं तु स्थित्वा सूर्यस्य सम्मुखम् ॥
अयुतं प्रजपेन्नित्यं गुणिनं लभते सुतम् ॥ ३३० ॥
यद्यदिष्टतमं वस्तु तत्तद्धोमं समाचरेत् ॥
अयुतम् घृतसंयुक्तं तस्य प्राप्तिः प्रजायते ॥
होमयोग्यं तु यत्तस्य पुत्रवत्सिद्धिसाधनम् ॥ ३३१ ॥
अथ त्रिशक्तिमन्त्रस्य साधनं कथयाम्यहम् ॥
ब्रह्मविष्णुशिवाः सिद्धा यत्प्रसादाद्धरिस्तथा ॥ ३३२ ॥
गायत्री 23 च तथाग्नेयमस्त्रं त्रैयम्बको मनुः ॥
एतत्त्रयं त्रिशक्त्याख्यो मन्त्रः प्रोक्तशताक्षरः ॥ ३३३ ॥
उक्तास्त्रयोस्य मुनयश्छन्दांस्यपि च तानि तु ॥
अगोचरं वेदगम्यं परन्तेजोस्य देवता ॥ ३३४ ॥
विश्वैरुद्रैस्तथा 24 कृत्या 25 चाकृत्या तिथिभिर्घनैः 26 ॥
मन्त्रवर्णैः षडङ्गानि प्राङ्न्यासांश्च समाचरेत् ॥ ३३५ ॥
सस्यं मानविवर्जितं श्रुतिगिरामाद्यं जगत्कारणं व्याप्तं स्थावरजङ्गमे मुनिवरैर्ध्यातं निरुद्धेन्द्रियैः ॥
अर्काग्न्युग्रमयं शताक्षरवपुस्तारात्मकं सन्ततं नित्यानन्दगुणालयं परतरं वन्दामहे तन्महः ॥ ३३६ ॥
सौरपीठे यजेत्तत्र षडङ्गैः प्रथमावृतैः ॥
गायत्री शक्तिभिः पश्चात्पूजयेदावृतित्रयम् ॥ ३३७ ॥
पञ्चमावरणं कार्यं वीथीरूपं तु तत्र च ॥
चतुश्चत्वरिंशत्सङ्ख्या जातवाद्यास्तु शक्तयः ॥ ३३८ ॥
आग्नेयास्त्रोदिता ह्येव प्रोक्तं शक्तिचतुष्टयम् ॥
आवृतीना तु सम्पूजा मृत्युञ्जयोक्तशक्तिभिः ॥ ३३९ ॥
दिक्पालांश्च तदस्त्राणि दशकैकादशावृतौ ॥
लक्षं जपेद्धुनेत्क्षीरं भक्ताद्यैस्तर्पयेत्ततः ॥ ३४० ॥
एवं सिद्धे मनौ मन्त्री भवेद्भास्करसन्निभः ॥
सुधालतोद्भवैः 27 खण्डैर्जुहुयात्क्षीरसंयुतैः ॥ ३४१ ॥
दीर्घमायुरवाप्नोति ह्याधिव्याधिविवर्जितः ॥
दूर्वाभिर्धृतसिक्ताभिस्तदेव फलमाप्नुयात् ॥ ३४२ ॥
मधुरत्रयसंयुक्तैर्जुहुयादरुणाम्बुजैः ॥
महालक्ष्मीमवाप्नोति मासैः षद्भिर्विधानवित् ॥ ३४३ ॥
रक्तोत्पलैस्त्रिमध्वक्तैर्जुहुयात्सर्वसम्पदे ॥
श्रीप्रसूनैः 28 प्रजुहुयाद्रमाया वसतिर्भवेत् ॥ ३४४ ॥
सहस्रं जुहुयान्नित्यं पायसेन तिलैः शुभैः ॥
भानुसङ्ख्यान्द्विजान्नित्यं भोजयेन्मधुरान्वितैः ॥ ३४५ ॥
सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः ॥
कृत्याद्रोहग्रहान्सर्वाञ्जित्वा दीर्घं स जीवति ॥ ३४६ ॥
प्रातःस्नानरतो नित्यं जपन्नित्यं शतं शतम् ॥
भानुमालोकयेत्सम्यक्स जीवेच्छरदा शतम् ॥ ३४७ ॥
नित्यमष्टोत्तरशतं निःश्रेयसफलाप्तये गायत्र्याद्यं जपेन्मन्त्रं सर्वपापविमुक्तये ॥ ३४८ ॥
सर्वशत्रुविनाशाय त्रिष्टुबाद्यं 29 जपेदिमम् ॥
त्र्यम्बकाद्यं प्रजपेदायुरारोग्यवृद्धये ॥ ३४९ ॥
अथ त्वरितरुद्रस्य विधानमभिधीयते ॥
न वेदे नागमे चेदृङ्मन्त्रस्त्वरितसिद्धिदः ॥ ३५० ॥
यो रुद्रो अग्नौ यो अप्सु य ओषधिषु ॥
यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्राय नमो अस्तु ॥ ३५१ ॥
अथर्वणो मुनिः प्रोक्तश्छन्दोनुष्टुवुदाहृतम् ॥
अस्त्यस्य देवता रुद्रः षडङ्गानि न्यसेत्क्रमात् ॥ ३५२ ॥
अत्र न्यासस्तु पञ्चाङ्गः पञ्चत्रीषूग्रगोमितैः 30 ॥
वर्णान्देहादिषु न्यस्याङ्गुष्ठादौ ध्यानमाचरेत् ॥ ३५३ ॥
चतुर्भुजं त्रिनेत्रं च शुद्धस्फटिकसन्निभम् ॥
अमृतेन च सम्पूर्णौ कलशौ हस्तयोर्द्वयोः ॥ ३५४ ॥
हस्तद्वयेन योगस्य कृतमुद्रं स्थिरासनम् ॥
सर्वकामफलेशानं शङ्करं करुणानिधिम् ॥ ३५५ ॥
उग्रकर्मण्युग्रमूर्तिं ज्वलत्पावकलोचनम् ॥
द्विभुजं नागहस्तं च शूलपाणिं जटाधरम् ॥ ३५६ ॥
अधःशय्यां त्वेकवारं हविष्यान्नस्य भोजनम् ॥
ब्रह्मचर्यं सत्यवाणीं पुरश्चर्याविधौ चरेत् ॥ ३५७ ॥
लक्षमेकं जपेन्मन्त्रं होमैर्कसमिधो घृतम् ॥
तर्पणं मार्जनं विप्रभोजनं मन्त्रसिद्धये ॥ ३५८ ॥
पूजापार्थिवलिङ्गस्य 31 प्राग्वन्नित्यं समाचरेत् ॥
एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति ॥ ३५९ ॥
अयुतद्वयहोमेन या सिद्धिः सा निगद्यते ॥
औदुम्बरैरन्नकामस्तेजस्कामस्तु खादिरैः ॥ ३६० ॥
अपामार्गसमिद्धोमाद्भूतबाधा विनश्यति ॥
ग्रहबाधाविनाशाय जपेदश्वत्थसन्निधौ ॥ ३६१ ॥
लवणान्वितदध्यक्तास्त्र्यस्राग्राबोधिवृक्षजाः ॥
हूयन्ते समिधः शुष्काः स्वाहान्तं मन्त्रमुच्चरेत् ॥ ३६२ ॥
दशपञ्चाहुतीर्हुत्वा गच्छगच्छेत्युदीरयेत् ॥
यावद्धोमं बलिं दद्यात्पुरुषाहरसम्मितम् ॥
एवङ्कृते तु वा सम्यक्पुरुषं तं स मुञ्चति ॥ ३६३ ॥
जुहुयाच्छतपत्राणि संहृष्टोभीष्टमाप्नुयात् ॥
लाजहोमेन कन्यार्थी कन्यां प्राप्नोति रूपिणीम् ॥ ३६४ ॥
लाजाश्च चरुणा युक्ताः श्वेतपुष्पाणि वा पुनः ॥
हूयन्ते हरिते देशे तस्य विश्वं वशीभवेत् ॥ ३६५ ॥
वामे तदुन्नतं कार्यं स्त्रीवश्यं नतु दक्षिणे ॥
अरिसैन्यप्रशान्त्यर्थं तिलानाज्येन सम्मितान् ॥ ३६६ ॥
होमस्थाने च संस्थाप्य कुम्भमेकं जलान्वितम् ॥
मन्त्रयित्वाष्टसाहस्रं शरावांस्तत्र विक्षिपेत् ॥ ३६७ ॥
अभिषेकैश्च तैस्तेषां शाला प्रोक्ष्य प्रदक्षिणम् ॥
ग्रहग्रामादिशान्त्यर्थं राज्यस्याप्येवमाचरेत् ॥ ३६८ ॥
वास्तुपूजा प्रकर्तव्या चतुष्षष्टिपदैः शुभैः ॥ ३६९ ॥
ईशानाय बलिः कार्यो भूतानां पतये तथा ॥
एवङ्कृते पशूनान्तु प्रजानां शान्तिमाप्नुयात् ॥ ३७० ॥
उत्पातेषु च सर्वेषु निशायां ग्रामबाह्यतः ॥
उपविश्य जपेद्रुद्रं त्वरितं बहुभिः सह ॥ ३७१ ॥
होमः पलाशकाष्ठैस्तु कर्तव्यो घृतसंयुतैः ॥
ईशानाय बलिं कुर्याद्यस्यां दिशि तदद्भुतम् ॥ ३७२ ॥
ततो दिशाम्पतेस्तत्र पशूनाम्पतये तथा ॥
वृद्धिकामो जपेल्लक्षं तिलहोमो घृतान्वितः ॥ ३७३ ॥
बलिपूजा च कर्तव्या शिवस्य वरुणस्य च ॥
यस्य कस्यापि कार्यस्य लभ्यते योग्यता यदि ॥ ३७४ ॥
तदा लक्षार्धतो लक्षपर्यन्तं त्वरितं जपेत् ॥
सर्वान्कामानवाप्नोति त्वरितस्य प्रसादतः ॥ ३७५ ॥
श्रीकामः शान्तिकामो वा जपेल्लक्षमिदं ततः ॥
श्रीकामो बिल्वसमिधा शान्तिकामः शमीमयैः 32 ॥ ३७६ ॥
जुहुयादाज्यसम्मिश्रैस्तर्पणं मार्जनं तथा ॥
एवं सर्वेषु कार्येषु होमः कार्यस्तथा यवैः ॥ ३७७ ॥
जुहुयाल्लक्षमेकन्तु पुत्रार्थी पायसेन च ॥
विद्यार्थी श्रीफलैस्तद्वदायुष्कामस्तु दूर्वया ॥ ३७८ ॥
तिलैरथाज्यसम्मिश्रैस्तेजस्कामो वृतेन वा ॥
व्रीहिभिः पुष्टिकामस्तु तुष्टिकामस्तथा हि तैः ॥ ३७९ ॥
पायसं सर्वकामेषु होतव्यं शर्करान्वितम् ॥
मध्वब्जाज्याम्रपर्णानि तीव्रज्वरविनाशने ॥ ३८० ॥
सर्वरोगविनाशाय सूर्यस्याभिमुखो जपेत् ॥
सहस्रमयुतं लक्षं रोगिणान्तारतम्यतः ॥ ३८१ ॥
जपान्ते तु षडङ्गानां न्यासञ्चापि पराह्वयम् ॥
पञ्चत्रिपञ्चरुद्रेषु 33 चतुर्वर्णैः षडङ्गकम् ॥ ३८२ ॥
पादयोर्जङ्घयोर्जान्वोरूर्वोर्गुह्ये 34 च मेढ्रके ॥
क्रमान्नाभौ च जठरे हृदि कण्ठे मुखे नसि ॥ ३८३ ॥
नेत्रयोश्च भ्रुवोर्मध्ये ललाटे मूर्ध्नि विन्यसेत् ॥
पदानि षोडश मनोरिति त्वरितरुद्रियम् ॥ ३८४ ॥
ऋचो विधानं वारुण्या यथावदभिधीयते ॥
अस्या उपासको यत्र तत्रावृष्टिर्न जायते ॥ ३८५ ॥
ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्यस्यत्या स वरुणो मुमो नरत् ॥
अवोचन्वाना प्रदितेरुपस्था यूयं यात स्वस्तिभिः सदा नः ॥ ३८६ ॥
ऋषिर्वशिष्टोनुष्टुप्च्छन्दो वरुणदैवतम् ॥
अष्टाङ्गवसुवस्वद्रिषडर्णैरङ्गकल्पनम् ॥ ३८७ ॥
पादाग्रयोस्तथा 35 पादाङ्गुलिमूलद्वयोरपि ॥
गुल्फयोश्च तथा जान्वोरूर्वोश्च गुदलिङ्गयोः ॥ ३८८ ॥
मूलाधारे तथा नाभौ कुक्षौ पृष्ठे तथा हृदि ॥
वक्षः स्थले गले हस्ताग्रयोरङ्गुलिमूलयोः ॥ ३८९ ॥
मणिबन्धयुगे चैव कूर्परद्वितये तथा ॥
बाहुमूलद्वये चास्ये कपोलयुगले नसोः ॥ ३९० ॥
नेत्रयोः कर्णयोर्मध्ये भ्रुवोर्भाले च मूर्धनि ॥
सर्वाङ्गे च क्रमान्न्यस्य मन्त्रार्णान्ध्यानमाचरेत् ॥ ३९१ ॥
चन्द्रप्रभं पङ्कजसन्निषण्णं बाणाङ्कुशाभीतिवरान्दधानम् ॥
मुक्ताविभूषाञ्चितसर्वगात्रं ध्याये प्रसन्नं वरदं विभूत्यै ॥ ३९२ ॥
धर्माद्विकल्पिते पीठे वरुणं सम्यगर्चयेत् ॥
कृत्वाङ्गपूजनं शेषं वासुकिं तक्षक पुनः ॥ ३९३ ॥
कर्कोटकञ्च पद्मञ्च महापद्मं ततः परम् ॥
शङ्खपालञ्च कुलिकमिन्द्रादीनायुधानि च ॥ ३९४ ॥
लक्षमेकञ्जपेन्मन्त्रं पायसेन दशांसतः ॥
सर्पिस्सिक्तेन जुहुयात्तर्पणादि ततश्चरेत् ॥ ३९५ ॥
ऋणमुक्त्यै जपेन्मन्त्रं प्रत्यहं साष्टकं शतम् ॥
जपेनानेन लभते सम्मतामक्षयां श्रियम् ॥ ३९६ ॥
सितेक्षुशकलैर्मन्त्री जुहुयाद्धृतसम्प्लुतैः ॥
चतुर्दिनं दशशतम् ऋणमुक्त्यै महाश्रिये ॥ ३९७ ॥
समिद्भिर्वेतसस्थाभिः क्षीराक्ताभिर्दिनत्रयम् ॥
जुहुयाद्वृष्टिसंसिद्ध्यै मन्त्रविद्विजितेन्द्रियः ॥ ३९८ ॥
अनेन विधिना मन्त्री सूर्ये शतभिषाङ्गते ॥
चतुश्शतं घृतयुतं पायसं जुहुयादृणी ॥
ऋणनाशाय सम्पत्त्यै वश्यारोग्याभिवृद्धये ॥
भृगुवारे कृतो होमः पायसेन ससर्पिषा ॥
महतीं सम्पदं कृत्वा तारयेत्सकलापदः ॥ ३९९ ॥
शालिभिर्घृतसंयुक्तैः शरीरान्तर्हितः सुधीः ॥
त्र्यहं चतुश्शतं हुत्वा स्तम्भयेत्परसैनिकान् ॥
सायं प्रत्यङ्मुखो वह्निमाराध्य प्रजपेन्मनुम् ॥
चतुश्शतं विमुच्येत मन्त्री सर्वैरुपद्रवैः ॥ ४०० ॥
मन्त्री प्रत्यङ्मुखो भूत्वा तर्पयेद्विमलैर्जलैः ॥
सर्वोपद्रवनाशाय सर्वदाभ्युदयाप्तये ॥ ४०१ ॥
बहुना किमिहोक्तेन मन्त्रेणानेन साधकः ॥
साधयेत्सकलान्कामाञ्जपहोमादितत्परः ॥ ४०२ ॥
अयुतं प्रजपन्बद्धो मुच्यते नात्र संशयः ॥
दिवा रात्रौ जपेनैव सिद्धिः सम्प्रति वर्तते ॥ ४०३ ॥
अहोरात्रं स्थितश्चैवमनश्नञ्च्छुद्धचेष्टितः ॥
अयःपाशाः स्फुटन्त्वस्य दारुपाशा विशेषतः ॥
अवैदिकाय नो देयं तान्त्रिकाय कदाचन ॥ ४०४ ॥
वक्ष्ये चान्नपतेर्मन्त्रं न्यासमुन्यादिवर्जितम् ॥
पूजाहीनं जपेनैव नान्नहीनः प्रजायते ॥ ४०५ ॥
अन्नपतेन्नस्य दो नो देह्यनमीवस्य सुष्मिणः ॥
प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥ ४०६ ॥
अनेन जुहुयादन्नं नित्यमष्टोत्तरं शतम् ॥
अमोघं जायते चान्नं यद्धूतं न च वर्षतः ॥ ४०७ ॥
सर्वोपस्करसंयुक्तं कुण्डेग्निं स्थापयेत्ततः ॥
लक्षमेकं हुनेदन्नं यावज्जन्माक्षयं भवेत् ॥ ४०८ ॥
यदानेन वनङ्गत्वा स्थालीपाकविधानतः ॥
अग्निञ्चोपसमाधायोदुम्बर्या समिधा युतम् ॥ ४०९ ॥
जुहुयात्तस्य क्षेत्रे तु धान्याख्या व्रीहयोऽक्षयाः ॥
भवन्त्यवृष्टाविति च किमाश्चर्यं सुवर्षणे ॥ ४१० ॥
अथो लवणमन्त्रस्य विधानमभिधीयते ॥
परिशिष्टपदान्ते तु जुहुयाल्लवणैस्तथा ॥ ४११ ॥
लवणाम्भसि निष्ठोसि उग्रोसि हृदयं तव ॥
लवणस्य पृथिवी माता लवणस्य वरुणःपिता ॥ ४१२ ॥
लवणे हूयमाने तु कुतो निद्रा कुतो रतिः ॥
लवणं दहति पचति लवणं छिन्दति भिन्दति ॥ ४१३ ॥
अमुकस्य दह गात्राणि दह मां सन्दह त्वचम् ॥
दह त्वगस्थि मज्जानि अस्थिभ्यो मद्द्विषां दह ॥ ४१४ ॥
यदि वसति योजनशते नदीनां वा शतान्तरे ॥
सन्दह्यानय मे शिघ्रमग्निं लवणतेजसा ॥ ४१५ ॥
नगरे लोहप्राकारकृष्णसर्पशतार्गले ॥
अत्रैव वशमायान्तु लवणमन्त्रपुरस्कृताः ॥ ४१६ ॥
या ते रात्रिर्महारात्रिः सा ते रात्रिर्महानिशा ॥
अङ्गिरा मुनिराख्यातश्छन्दोनुष्टुबुदाहृतम् ॥ ४१७ ॥
अग्नीरात्रिः पुनर्दुर्गा भद्रकाली च देवता ॥
पञ्चत्रिपञ्चवेदेषु द्व्यक्षरैश्चिटिमन्त्रजैः ॥ ४१८ ॥
षडङ्गानि प्रकुर्वीत स मन्त्रः कथ्यतेधुना ॥
तारं 36 चिटिद्वयं पश्चाच्चाण्डालि तदनन्तरम् ॥ ४१९ ॥
महल्यहलि वै ब्रूयादमुकं मे पदन्ततः ॥
वशमानय ठद्वन्द्वञ्चतुर्विंशाक्षरो मनुः ॥ ४२० ॥
अग्न्यादिकचतुष्कस्य ध्यानं कुर्यात्ततः परम् ॥
तानि ध्यानानि कथ्यन्ते सावधानतया शृणु ॥ ४२१ ॥
नवकुङ्कुमसन्निभं त्रिनेत्रं रुचिराकल्पशतं भजामि वह्निम् ॥
स्रुवशक्तिवराभयानि दोर्भिर्दधतं रक्तसरोरुहे निषण्णम् ॥ ४२२ ॥
कालाम्बुवाहद्युतिमिन्दुरक्तां हारावलीशोभिपयोधराढ्याम् ॥
कपालपाशाङ्कुशशूलहस्तां नीलाम्बरां यामवतीं नमामि ॥ ४२३ ॥
कालाम्बुदाभामसिशङ्खशूलखेटाढ्यहस्तां तरुणेन्दुचूडाम् ॥
भीमां त्रिनेत्रां जितशत्रुवर्गां स्मरामि दुर्गामरिभङ्गदक्षाम् ॥ ४२४ ॥
टङ्कं कपालं डमरुं त्रिशूलं सम्म्बिभ्रती चन्द्रकलावतंसा ॥
पिङ्गोर्ध्वकेशी सितभीमदंष्ट्रा भूयाद्विभूत्यै मम भद्रकाली ॥ ४२५ ॥
ऋक्पञ्चकं जपेत्सम्यगयुतं तद्दशांशतः ॥
हविषा घृतसिक्तेनजुहुयादर्चितेऽनले ॥ ४२६ ॥
एवं कृतपुरश्चर्यः प्रयोगकुशलो भवेत् ॥
अग्निं यामवतीं ध्यायेद्वश्याकर्षणकार्ययोः ॥
स्मरेद्दुर्गां भद्रकालीं मन्त्री मारणकर्मणि ॥ ४२७ ॥
जानुप्रमाणसलिले स्थित्वा निशि जपेन्मनुम् ॥
अनेन वाञ्छितः साध्यः किङ्करोजायते क्षणात् ॥ ४२८ ॥
नाभिमात्रे जले स्थित्वा जपेन्मन्त्रमनन्यधीः ॥
अष्टोत्तरसहस्रं यस्तस्य साध्यो वशो भवेत् ॥ ४२९ ॥
ऋक्पञ्चकं जपेन्मन्त्री कण्ठमात्राम्भसि स्थितः ॥
सप्तभिर्दिवसैर्भूपान्वशयेद्विधिनामुना ॥ ४३० ॥
संलिख्य तालपत्रे तं साध्यनाम्ना विदर्भितम् ॥
निक्षिप्य क्षीरसम्मिश्रे जले तत्क्वाथयेन्निशि ॥
वश्यो भवति साध्योस्य नात्र कार्या विचारणा ॥ ४३१ ॥
तालपत्रे लिखित्वैनं भद्रकालीगृहे खनेत् ॥
वश्याय सर्वजन्तूनां प्रयोगोयमुदाहृतः ॥ ४३२ ॥
तालपत्रे समालिख्य मन्त्रं साध्यविदर्भितम् ॥
तापयेत्खादिरे वह्नौ मासे वश्यो भवेन्नरः ॥ ४३३ ॥
त्रिकोणं कुण्डमासाद्यसम्यक्छास्त्रोक्तलक्षणम् ॥
तस्मिन्होमं प्रकुर्वीत संस्कृते हव्यवाहने ॥ ४३४ ॥
प्रक्षाल्य दध्ना दुग्धेन संशोध्य लवणं सुधीः ॥
सुचूर्णितं प्रजुहुयात्सप्ताहाद्वशयेज्जगत् ॥ ४३५ ॥
दधिमध्वाज्यसंसिक्तैर्जुहुयात्सैन्धवैस्तथा ॥
वशयेदखिलान्देवानचिरात्किमु पार्थिवान् ॥ ४३६ ॥
विशुद्धलवऽं प्रस्थं विभक्तं पञ्चधा पृथक् ॥
एकैकमंशं जुहुयादृचा पञ्चाहमादरात् ॥
यस्य नाम्ना स वश्यः स्यादनेन विधिनाचिरात् ॥ ४३७ ॥
शुद्धं लवणमादाय जुहुयान्मधुरान्वितम् ॥
हुतं पञ्चाशदाहुत्या वश्यं यच्छति वाञ्छितम् ॥
नित्यं शुद्धलवणेन हुत्वा शत्रून्वशं नयेत् ॥ ४३८ ॥
मधुरत्रयसम्मिश्रैर्लवणैः साधुचूर्णितैः ॥
जुहुयाद्वशयेन्नारीं नरान्नरपतीनपि ॥ ४३९ ॥
मन्त्रं कृष्णद्वितीयादि प्रजपेद्यावदष्टमि ॥
पुत्तलीः पञ्च कुर्वीत साङ्गोपाङ्गाः समाः शुभाः ॥ ४४० ॥
एका साध्यद्रुमेण स्यादन्या पिष्टमयी मता ॥
चक्रिहस्तमृदान्या स्यादन्या तु सिकतामयी ॥ ४४१ ॥
लवणं पोतसम्भूतं चूर्णितं परिशोधितम् ॥
कुडवं प्रोक्षयेत्क्षीरदध्याज्यमधुभिः क्रमात् ॥
गुडाज्यमधुभिः सम्यङ्मिश्रितेनामुना पुनः ॥ ४४२ ॥
कुर्वीत पुत्तलीं सौम्यां सर्वावयवशोभिताम् ॥
प्राणप्रतिष्ठामन्त्रैश्च प्राणानस्या हृदि क्षिपेत् ॥
आशु प्राणान्प्रतिष्ठाप्य पूजयेत्कुसुमादिभिः ॥ ४४३ ॥
पश्चात्कृष्णाष्टमीरात्रौ याममात्रे गते सति ॥
विधाय मातृकान्यासं मन्त्रस्य समनन्तरम् ॥ ४४४ ॥
चिटिमन्त्रसमुद्भूतांश्चतुर्विंशतिसङ्ख्यकान् ॥
ताराद्यान्विन्यसेद्वर्णान्स्थानेष्वेषु समाहितः ॥ ४४५ ॥
मूर्ध्नि 37 भाले दृशोः श्रुत्योर्नासास्यचिबुकेषु च ॥
कण्ठयुक्स्तनयुग्मेषु कुक्ष्योर्नाभौ कटिद्वये ॥ ४४६ ॥
मेढ्रे पायौ प्रविन्यस्य शिष्टं वर्णचतुष्टयम् ॥
ऊरुद्वये जानुयुग्मे जङ्घायुग्मे पदद्वये ॥ ४४७ ॥
एवं विन्यस्य सर्वाङ्गे रक्तमाल्यानुलेपनः ॥
रक्तवस्त्रधरः शुद्धः पुत्तलीं दारुणाकृताम् ॥ ४४८ ॥
अधोमुखीं खनेत्कुण्डे पिष्टजामासनादधः ॥
मृन्मयीं प्रतिमां पादेनाक्रामेच्च तथात्मनः ॥ ४४९ ॥
सैकतीं प्रतिमां चाग्निकुण्डस्योर्ध्वं प्रलम्बयेत् ॥
लवणेन कृतां पश्चात्पुत्तलीं संस्पृशञ्जपेत् ॥ ४५० ॥
ऋक्पञ्चकं यथान्यासमष्टोत्तरसहस्रकम् ॥
संहत्य चिटिमन्त्रार्णान्पुनस्तस्याः 38 स्तनौ न्यसेत् ॥ ४५१ ॥
अङ्गुष्ठसन्धिप्रपदजङ्घाजानूरुपाउषु ॥
लिङ्गदेशे पुनर्नाभौ जठरे हृदयाम्बुजे ॥ ४५२ ॥
स्तनद्वये कन्धरायां चिबुके वदने तथा ॥
घ्राणयोः कर्णयोरक्ष्णोर्ललाटे मूर्ध्नि विन्यसेत् ॥ ४५३ ॥
अग्निमादाय सन्दीप्य साध्यनक्षत्रदारुभिः ॥
तस्मिन्नभ्यर्च्य मन्त्रोक्तदेवतां रूप्यपात्रके ॥ ४५४ ॥
कुशाब्जराजिपुष्पाद्भिर्दत्त्वार्घ्यं प्रणमेत्सुधीः ॥
मन्त्रैरेतैः प्रयोगादावन्ते संयतमानसः ॥ ४५५ ॥
लवणेनाभिमन्त्र्याथ निशायां हव्यवाहनम् ॥
निशायां मन्त्रजप्तेन तृप्तो भव तया सह ॥ ४५६ ॥
जातवेदो महादेव तप्तजाम्बूनदप्रभ ॥
स्वाहापते विश्वभक्ष्य लवणं दह शत्रुहन् ॥ ४५७ ॥
ईशे शर्वरि शर्वाणि ग्रस्तं मुक्तं त्वयाजगत् ॥
महादेवि नमस्तुभ्यं वरदे कामदा भव ॥ ४५८ ॥
तमोमयि महादेवि महादेवमनुव्रते ॥
प्रिया मे पुरुषं हत्वा वशमानय देवि मे ॥ ४५९ ॥
दुर्गे दुर्गादिरहिते दुर्गसंराधनार्गले ॥
चक्रशङ्खधरे देवि दुष्टशत्रुभ्यङ्करे ॥ ४६० ॥
नमस्ते दह शत्रून्मे वशमानय चण्डिके ॥
शाकम्भरि महादेवि शरणं मे भवानघे ॥ ४६१ ॥
भद्रकालि भवाभीष्टरुद्रसिद्धिप्रदायिनि ।
सपत्नान्मे जहिजहि शोषय तापयतापय ॥ ४६२ ॥
शूलासिशक्तिवज्राद्यैश्छित्त्वानय यमालये ॥
महादेवि महाकालि रक्षास्मानक्षरात्मिके ॥ ४६३ ॥
साध्यं संस्मृत्य निर्मिद्य पुत्तलीं सप्तधा पुनः ॥
ऋक्पञ्चकं समुच्चार्य जुहुयादेधितेनले ॥ ४६४ ॥
प्रथमो दक्षिणः पादस्तत्करस्तदनन्तरम् ॥
शिरस्तृतीयमाख्यातं वामहस्तस्ततः परम् ॥ ४६५ ॥
मध्यादूर्ध्वं पञ्चमं स्यादध्ॐसः षष्ठ ईरितः ॥
सप्तमो वामपादः स्यादिति भागक्रमः स्मृतः ॥ ४६६ ॥
सप्तसप्त विभागान्वा प्रोक्तेष्वेव यथाविधि ॥
कृत्वैवमर्चयित्वाग्निं प्रणमेद्दण्डवत्ततः ॥ ४६७ ॥
यजमानो धनैर्धान्यैः प्रीणयेद्गुरुमात्मनः ॥
अनेन विधिना मन्त्री वशयेदसुरान्सुरान् ॥ ४६८ ॥
किम्पुनर्मनुजान्भूपानमात्यान्नृपयोषितः ॥
मारणे पूर्वसम्प्रोक्तपुत्तलीनां चतुष्टयम् ॥ ४६९ ॥
निवेशयेद्यथापूर्वं साधकेन्द्रो विधानवित् ॥
अपरं वक्ष्यमाणेन विधानेन प्रकल्पयेत् ॥ ४७० ॥
बलाह्वया मूलनखी तिलत्र्यूषणरामठैः ॥
विकृतिं वश्यसिद्ध्यर्थं साध्यनामाङ्घ्रिरेणुभिः ॥ ४७१ ॥
महिषीमूत्रसम्पिष्टैः पूर्वोक्तलवणान्वितैः ॥
विधाय पुत्तलीं सम्यक्प्राणस्थापनमाचरेत् ॥ ४७२ ॥
जपपूजादिकं सर्वं कुर्यात्प्रागुक्तवर्त्मना ॥
ततः सवेदिके कुण्डे रात्रौ प्रज्वलितेनले ॥ ४७३ ॥
दुर्गां च भद्रकालीं वा समाराध्य यथाविधि ॥
धारयेन्निशितं शस्त्रं सव्यहस्तेन साधकः ॥ ४७४ ॥
वामपादं समारभ्य दक्षिणाङ्घ्र्यवसानकम् ॥
छित्त्वाछित्त्वा प्रजुहुयान्निराहारो जितेन्द्रियः ॥ ४७५ ॥
कृष्णाष्टमीं समारभ्य यावत्कृष्णचतुर्दशी ॥
अनेनैव विधानेन होमं कुर्याद्विचक्षणः ॥ ४७६ ॥
त्रिसप्ताहप्रयोगेन मारयेद्रिपुमात्मनः ॥ ४७७ ॥
नक्षत्रवृक्षाः कारस्करामलक्यावुदुम्बरः ॥
जम्बूश्च खदिरः कुष्ठो वंशपिप्पलनागराः ॥ ४७८ ॥
रोहितश्च पलाशश्च प्लक्षो वटशिलाभवौ ॥
पार्थो वैकङ्कतश्चापि बकुलः सरलः क्रमात् ॥ ४७९ ॥
सर्जवञ्जुलपनसा अर्कः शमिकदम्बकौ ॥
निम्बश्चाम्रो मधूकश्च लोध्रोमन्त्रविधिस्त्विति ॥ ४८० ॥
यश्च त्रिषवणं सन्ध्यां सहस्रजपपूर्विकाम् ॥
करोति तस्य वक्ष्यामि सिद्धये सुगमा ऋचः ॥ ४८१ ॥
तच्छन्दो दैवतमृषिन्यासध्यानादिकं विना ॥
जपेदष्टसहस्रे तु यासु सिद्धिरदूरतः ॥ ४८२ ॥
सर्वलोकोपकारार्थं कथयाम्यत्र ता ऋचः ॥ ४८३ ॥
अवपतन्तीरवदन्दिव ओषधयस्परि ॥
यं जीवमश्नवामहै न स रिष्यति पूरुषः ॥ ४८४ ॥
सर्वौषध्यहुतं हुत्वा मिष्टान्नं लभते सदा ॥
भाण्डागारस्य वस्तूनि चतुर्थांशेन होमयेत् ॥ ४८५ ॥
भवन्ति तानि पूर्णानि वर्षमध्ये न संशयः ॥
त्रिवारमेवं यः कुर्यादक्षयोस्त्ययुतेन च ॥ ४८६ ॥
समाहि।
गूंसीर्मधु नव दिष्टो मधु वक्ष्यामि मधुमतीं देवेभ्यो वाचमुद्यासगूंशुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोन्नमदन्तु ॥ ४८७ ॥
महाभिचारजे व्याधावशान्ते चापचारके ॥
अनेन जुहुयाच्चाज्यं सहस्रं तस्य शान्तये ॥ ४८८ ॥
नमो अस्तु सर्पेभ्यो ये के च पृथीइमनु ॥
ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ ४८९ ॥
सर्पस्थाने तु जुहुयादनेन घृतपायसम् ॥
मासमेकं सहस्रन्तु स्वर्णमुत्पद्यते ततः ॥ ४९० ॥
या इषवो यातुधानानां ये वा वनस्पतीननु ॥
ये वा बिलेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥ ४९१ ॥
बिलप्रविष्टं सर्पन्तु दृष्ट्वा तत्रैव होमयेत् ॥
आज्याहुतिसहस्रं तु तेन स्वर्णशतं लभेत् ॥ ४९२ ॥
कृणुष्वपाजः प्रसितिं न पृथ्वीं याहि राजेवामवाम् इभेन ॥
त्रिष्वीमनप्रसितिं गृणानो स्तासिविध्य रक्षसस्तपिष्ठैः ॥ ४९३ ॥
प्रत्यङ्गिर-ऋचमिमा नित्य यः प्रजपेत्सुधीः ॥
त्रिसन्ध्यं तस्याग्निकृतं दुःखं पतति वैरिणि ॥ ४९४ ॥
उदग्नेतिष्ठ प्रत्वा तनुष्वन्यामित्राṁ ओषधात्तिग्महेते ॥
यो नो अरातिं समिधा न चक्रे नीचा तं धक्ष्यत सं न शुष्कम् ॥ ४९५ ॥
विषाक्तराजिकारक्तकण्टकाञ्जुहुयाद्रिपोः ॥
गृहीत्वा शत्रुनामास्य ग्रामनाशः प्रजायते ॥ ४९६ ॥
कृतस्य क्रोधनाशार्थमयुतं प्रजपेन्मनुम् ॥
हुनेन्मासं सहस्रं तु सर्षपान्पुंवशीकृते ॥ ४९७ ॥
काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि ॥
एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥ ४९८ ॥
या शतेन प्रतनोषि सहस्रेण विरोहसि ॥
तस्यास्ते देवीष्टके विधेम हविषा वयम् ॥ ४९९ ॥
आभ्यां दूर्वाप्रवालानामयुतं जुहुयाद्वशी ॥
ग्रामस्थं मारकं हन्याद्द्विगुणेन पुरः स्थितम् ॥ ५०० ॥
त्रिगुणे राष्ट्रकं हन्यान्महारोगांश्च षड्गुणैः ॥
नानादेशोद्भवं हन्यान्मारकं लक्षहोमतः ॥ ५०१ ॥
मधुमान्नो वनस्पतिर्मधुमाṁ अस्तु सूर्यः ॥
माध्वीर्गावो भवन्तु नः ॥ ५०२ ॥
उदुम्बरस्य समिधो येन कामेन यो हुनेत् ॥
आज्येनाक्ता अयुतशः प्रयुतावधेयुक् ततः ॥ ५०३ ॥
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ॥
सङ्क्रन्दनोनिमिष एकवीरः शतगूंसेना अजयत्साकमिन्द्रः ॥ ५०४ ॥
सङ्क्रन्दनेनामिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ॥
तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ ५०५ ॥
स इषुहस्तैः सनिषङ्गिभिर्वशी सगूंस्रष्टा स युध इन्द्रोगणेन ॥
सगूंसृष्टजित्सोमपाबाहुशर्घ्युग्रधन्वा प्रतिहिताभिरस्ता ॥ ५०६ ॥
बृहस्पते परिदीयारथेन रक्षोहामित्राṁ अपबाधमानः ॥
प्रभञ्जन्सेना प्रभृणो युधाष्ट जयन्नस्माकमेध्यविता रथानाम् ॥ ५०७ ॥
बलविज्ञाय स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ॥
अभिवीरो अभिसत्त्वासहोजाजैत्रमिन्द्ररथमातिष्ठगोवित् ॥ ५०८ ॥
गोत्रमिदं गोविदं वज्रबाहुं जयन्तमज्मप्रमृणन्तमोजसा ॥
इमगूम्स जाता अनुवीरयध्वमिन्द्रगूंसखायो-अनुसगूंरभध्वम् ॥ ५०९ ॥
अभिगोत्राणि सहसा गाहमानो दयो वीरः शतमन्युरिन्द्रः ॥
दुश्च्यवनः पृतनाषाढयुध्योस्माकगूंसेना अवतु प्रयुत्सु ॥ ५१० ॥
इन्द्र आसां नेताबृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ॥
देवसेनानामभिभञ्जतीनां जयन्तीनाम्मरुतो यन्त्वग्रम् ॥ ५११ ॥
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतागूंशर्ध उग्रम् ॥
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥ ५१२ ॥
उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकाना मनागूंसि ॥
उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥ ५१३ ॥
अस्माकमिन्द्रः सम्भृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ॥
अस्माकं वीरा उत्तरे भवन्त्वस्माṁ उ देवा अवताहवेषु ॥ ५१४ ॥
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्न्यष्वेपरेहि ॥
अभिप्रेहि निर्दह हृत्सुशोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥ ५१५ ॥
अवसृष्टा परापत शरव्ये ब्रह्मसगूंशिते ॥
गच्छामित्रान्प्रपद्यस्व मामीषां कञ्चनोच्छिषः ॥ ५१६ ॥
प्रेता जयता नर इन्द्रो वः शर्म यच्छतु ॥
उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥ ५१७ ॥
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव ॥
तन्न इन्द्रो बृहस्पतिरदितिः शर्म यच्छतु विश्वा हा शर्म यच्छतु ॥ ५१८ ॥
मर्माणि ते वर्मभिश्छादयामि सोमस्त्वा राजामृतेनाभिवस्ताम् ॥
उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानुदेवा मदन्तु ॥ ५१९ ॥
अनेन चानुवाकेन आत्मानं चायुधान्यपि ॥
अभिमन्त्र्य रणे यायाद्विजयो जायते ध्रुअम् ॥ ५२० ॥
चौरं व्याघ्रं च महिषं सिंहं सर्पं च राक्षसम् ॥
श्रुत्वा तस्मिन्स्थले चिन्त्योनुवाको मनसा द्विजैः ॥ ५२१ ॥
तत्स्थानं कुशलं गच्छेदथ वा मन्त्रमन्त्रितान् ॥
अक्षतान्वा कुशान्वापि क्षिपेद्रक्षा भवत्वितः ॥ ५२२ ॥
सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त ऋषयः सप्तधामप्रियाणि सप्त होत्रास्सप्तधा त्वा यजन्ति सप्तयोनीरापृणस्व घृतेन स्वाहा ॥ ५२३ ॥
सहस्रतश्च लक्षान्तमनेन च घृताहुतीः ॥
हुत्वा भवति तेजस्वी हुनेदयुतसङ्ख्यया ॥ ५२४ ॥
औदुम्बर्यश्च समिधो घृताक्ताः कनकं लभेत् ॥
सप्ततोलकपर्यन्तं षण्मासाभ्यन्तरे ध्रुवम् ॥ ५२५ ॥
स नो भुवनस्य प्रजापते यस्य त उपरिगृहा यस्य वेह ॥
अस्मै ब्रह्मणस्मै क्षत्राय महिशर्म यच्छ स्वाहा ॥ ५२६ ॥
इदमिन्द्राय स्वाहेति त्यागोत्र जुहुयाद्घृतम् ॥
सहस्राष्टकमेतेन वास्तुदोषात्प्रमुच्यते ॥ ५२७ ॥
नापमृत्युर्गृहे तस्मिंश्चित्तोद्वेगो न जायते ॥
नाप्नोति सूतिकापीडां भयं नैकाकिनो भवेत् ॥ ५२८ ॥
अग्न आयूंषि पवस आसु वोर्जमिषञ्च नः ॥
आरे बाधस्वदुच्छुनाम् ॥
अनेनाज्यं सहस्रन्तु हुत्वा शत्रुगृहं व्रजेत् ॥ ५२९ ॥
तेनापवर्जनं सम्यक्प्रीतिपूर्वं च मित्रवत् ॥
हिरण्यपाणिमूतये सवितारमुपह्वये ॥
सचेतादेवतापदम् ॥ ५३० ॥
अनेनायुतसङ्ख्याका औदुम्बर्यस्तथार्कजाः ॥
सुवर्णवृद्धिसिद्ध्यर्थं घृताक्ताः समिधो हुनेत् ॥ ५३१ ॥
त्राता रमिन्द्रमवितारमिन्द्रगूंहवेहवे सुहवगूंशूरमिन्द्रम् ॥
ह्वयामि शक्रं पुरुहूतमिन्द्रगूंस्वस्ति नो मघवा धात्त्विन्द्रः ॥ ५३२ ॥
महीमूष मातरगूंसुव्रतानामृतस्य पत्नीमवसेहुवेम ॥
तुविक्षत्रामजरन्तीमुरूचीगूं सुशर्माणमदिति गूंसुप्रणीतिम् ॥ ५३३ ॥
एतन्मन्त्रजपेनैव दुस्तरार्थं द्रुतं तरेत् ॥
पोतस्थो वापि नौकास्थो जले यद्वन्न मज्जति ॥ ५३४ ॥
गणानान्त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ॥
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत-आ नः शृण्वन्नूतिभिः सीद सादनम् ॥ ५३५ ॥
अनेन जुहुयान्मन्त्री यवान्धान्धं तिलांस्तथा ॥
अपामार्गस्य समिध औदुम्बर्यस्तथैव 39 च ॥ ५३६ ॥
पृथक्पृथक्प्रस्थमात्रं लक्षावधि तथातथा ॥
धनं विवर्धते चाथ होमं कुर्याच्चतुष्पथे ॥ ५३७ ॥
पिचुमन्दोद्भवैः पत्रैः सहसैकं वशीकृतौ ॥
वल्मीकस्य मृदा लिङ्गं कृत्वा च स्नापयेत्तथा ॥ ५३८ ॥
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवा गूं सस्तनूभिर्व्यशेम देवहितं यदायुः ॥ ५३९ ॥
इमां तु प्रजपेल्लक्षद्वयं वा विकलेन्द्रियः ॥
पूर्णेन्द्रियः स भवति षण्ढत्वाच्च विमुच्यते ॥ ५४० ॥
अमित्वा गीर्वाणो गिर इमा भवन्तु विश्वतः ॥
वृद्धायुमनुवृद्धयो जुष्टा भवन्तु जुष्टयः ॥ ५४१ ॥
कण्ठमात्रोदके स्थित्वा चाहोरात्रमतन्द्रितः ॥
जपेदेनामृचं वृष्टिर्भवेत्कालं विना तदा ॥ ५४२ ॥
यज्जाग्रतोदूरमुदैतिदैवं तदुसुप्तस्य तथैवैति ॥
दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ५४३ ॥
येन कर्माण्यपशो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ॥
यदपूव यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ५४४ ॥
यत्प्रज्ञानमुत चेतो घृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ॥
यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥ ५४५ ॥
येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम् ॥
येन यज्ञस्तायते सप्त होता तन्मे मनः शिवसङ्कल्पमस्तु ॥ ५४६ ॥
यस्मिन्नृचः सामयजूंषि यस्मिन्प्रतिष्ठिता रथनाभाविवाराः यस्मिंश्चित्त गूं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ५४७ ॥
सुषारथिरश्वानिव यं मनुष्यान्नेनीयन्तेभीषु भिर्वाजिन इव ॥
हृत्प्रतिष्ठं यदजिरञ्जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ५४८ ॥
अयुतं प्रजपेदेताश्चित्तस्थैर्यं प्रजायते ॥
आवाह्य सोमदिवसे पार्थिवं लिङ्गमुत्तमम् ॥ ५४९ ॥
नित्यकर्मान्तरं कुर्यादष्टोत्तरशतं कणाः ॥
क्रोडीकृत्याक्षताश्चैवं स्थाप्याः स्थानचतुष्टये ॥ ५५० ॥
सङ्कल्पं मनसा कृत्वा पार्थिवं लिङ्गमर्चयेत् ॥
पूजनान्ते ऋचां पाठमेकं कृत्वाक्षतान्न्यसेत् ॥ ५५१ ॥
प्रथमे प्रहरे पर्वभागे लिङ्गस्य मूर्द्धनि ॥
द्वितीयादिप्रहरके दक्षिणाद्यासु विन्यसेत् ॥ ५५२ ॥
एतन्मध्ये जपेद्रात्रौ स्वेष्टं कार्यं स पश्यति ॥
यदा न स्यादासायं तु कृत्यं कृत्वा च भक्षयेत् ॥ ५५३ ॥
त्रयं त्रयं चतुर्दिक्षु तण्डुलानां स्थितिं चरेत् ॥
अष्टवार सहस्रन्तु जाप्या एता ऋचः शुभाः ॥ ५५४ ॥
अवश्यमेव भवति स्वप्नः सत्यो न चान्यथा ॥
भूतं वा वर्तमानं वा भविष्यदपि दृश्यते ॥ ५५५ ॥
त्वन्नो अग्ने वरुणस्य विद्वान्देवस्य हेडो अवयासिसीष्ठाः ॥
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषा गूं सि प्रमुमुग्ध्यस्मत् ॥ ५५६ ॥
सहस्रादि च लक्षान्तमनया जुहुयुर्घृतम् ॥
पुत्रार्थिनः सुपुत्राः स्युः पशुंश्चैवतदर्थिनः 40 ॥ ५५७ ॥
अथ सर्वोत्तमं वक्ष्ये श्रीसूक्तं सविधानकम् ॥
कलौ दारिद्र्यनाशाय नान्यक्तिञ्चिन्नृणां तथ ॥ ५५८ ॥
हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजम् ॥
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ ५५९ ॥
तां म आवह जातवेदो लक्ष्मी मनपगामिनीम् ॥
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ ५६० ॥
अश्वपुर्वां रथमध्यां हस्तिनादप्र्बोधिनीम् ॥
श्रियं देवीमुपह्वये श्रीर्मा देवीजुषताम् ॥ ५६१ ॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ॥
पद्मस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥ ५६२ ॥
चन्द्रां प्रभासां तपसा ज्वलन्तीं श्रियं लोकेदेवजुष्टामुदाराम् ॥
तां पद्मनीमीं शरणं प्रपद्मे अलक्ष्मीर्मे नश्यतां त्वा वृणे ॥ ५६३ ॥
ञ्जादित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोथ बिल्वः ॥
तस्य फलाइ तपसा नुदन्तु मायान्तरा याश्च बाह्या अलक्ष्मीः ॥ ५६४ ॥
उषैतु मां देवसखः कीर्तिश्च मणिना सह ॥
प्रादुर्भूतोस्मि राष्टेस्मिन्कीर्तिमृद्धिं ददातु मे ॥ ५६५ ॥
क्षुत्पिपासामला ज्येष्टामलक्ष्मीं नाशयाम्यहम् ॥
अभूतिमसमृद्धिं च सर्वा निर्णुद मे गृहात् ॥ ५६६ ॥
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ॥
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ५६७ ॥
मनसः काममाकूतिं वाचः सत्यमशीमहि ॥
पशूनां रुपमन्नस्य मयि श्रीः श्रयतां यशः ॥ ५६८ ॥
कर्दमेन प्रजा भूता मयि सम्भव कर्दम ॥
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥ ५६९ ॥
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ॥
निचदेवीं मातरं श्रियं वासय मे ले ॥ ५७० ॥
आर्द्रां पुष्करिणीं पुष्टि सुवर्णां हेममालिनीम् ॥
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ ५७१ ॥
आर्द्रां पुष्करिणीं यष्ठिं पिङ्गलां पद्ममालिनीम् ॥
चन्द्रां हिरण्मयीं लक्ष्मीं जात वेदो म आवह ॥ ५७२ ॥
तां म आवह जातवेदो लक्ष्मीमनगामिनीम् ॥
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥ ५७३ ॥
हिरण्यवर्णामित्यस्य ऋचो लक्ष्मीर्मुनिर्मतः ॥
चतुर्दशानामीशानामानन्दः कर्दमस्तथा ॥ ५७४ ॥
चिल्कीत लक्ष्मीतनयाश्चत्वारो मुनयो मताः ॥
हिरण्यादितिसृणां चच्छन्दोनुष्टुबुदाहृतम् ॥ ५७५ ॥
कां सोस्मितर्चो बृहती शशाङ्कादित्यवर्णयोः त्रिष्टुवप्छन्द उपैतु मां देवाद्यष्ट -ऋचामपि ॥ ५७६ ॥
छन्दोनुष्टुप्समाख्यातं तां म आवह इत्यृचः ॥
प्रस्तारपङ्क्तिरुद्दिष्टा देवते श्रीविभावसू ॥ ५७७ ॥
व्यञ्जनानि तु बीजानि स्वराः शक्तय ईरिताः ॥
बिन्दवः कीलकं प्रीक्तं त्वङ्गुष्ठादिषडङ्गकम् ॥ ५७८ ॥
हिरण्या 41 च तथा चन्द्रतृतीया रजतप्रभा ॥
हिरण्यस्रग्धिरण्याक्षी तथा हिरण्यवर्णिका ॥ ५७९ ॥
एताभिर्ङेनमोन्ताभिः प्रकुर्यादङ्गकल्पनम् ॥
मूर्द्धाक्षिकर्णनासास्यगलदोर्हस्तनाभिषु 42 ॥ ५८० ॥
गुदपायुरुयुग्जानुजङ्घापत्सु न्यसेदृचः ॥
न्यासद्वयमिदं देवि कुर्याद्ध्यानं ततश्चरेत् ॥ ५८१ ॥
अरुणनलिनसंस्था तद्रजः पुञ्जवर्णा करकमलधृतेष्टाभीतियुग्माम्बुजा च ॥
मणिमुकुटविचित्रालङ्कृताकल्पजालैर्भवतु भुवनमाता सन्ततं श्रीः श्रिये नः ॥ ५८२ ॥
षट्कोणं मद्ममालिख्य पूज्यास्तत्राङ्गदेवताः ॥
आग्नेयकोणतस्तद्वत्तद्बाह्येष्टदलेष्विमाः ॥ ५८३ ॥
पद्मासना पद्मवर्णा पद्मस्था पद्मलोचना ॥
तर्पयन्ती च तृप्तिश्च ज्वलन्ती तदनन्तरम् ॥ ५८४ ॥
स्वर्णप्राकारसञ्ज्ञा च हीन्द्रादीनायुधानि च आवाहनं चासनं स्यादर्घ्यपाद्याचमानि च ॥ ५८५ ॥
मधुपर्काभिषेकौ च वस्त्रालङ्कारचन्दनम् ॥
पुष्पं धूपं दीपभोज्ये प्रोद्वासनमिति क्रमात् ॥ ५८६ ॥
एतानि मन्त्रवित्कुर्यादृक्पञ्चदशकेन हि ॥
ततश्च फलताम्बूले दत्त्वा नीराजयेच्छ्रियम् ॥ ५८७ ॥
ततश्च होमयेदाज्यमेभिः पञ्चदशर्चकैः ॥
दत्त्वा देव्यै चाचमनं तां म आवहमन्त्रतः ॥ ५८८ ॥
उद्वासयेत्स्वे हृदये कृताञ्जलिपुटः पठेत् ॥
श्रीसूक्तं नित्यपूजेयं पुरश्चरणमुच्यते ॥ ५८९ ॥
परिषिञ्चेत्त्रिशो नित्यं सुक्तैस्तैः स्नानकर्मणि ॥
आदित्याभिमुखो जप्त्वायावत्तावच्च तर्पयेत् ॥ ५९० ॥
शुक्लाद्यां तिथिमारभ्य यावदेकादशी भवेत् ॥
तावद्द्वादशसाहस्रं जपेन्निश्चलमानसः ॥ ५९१ ॥
ब्रह्मचर्यरतः शुद्धवस्त्रदन्तादिकः सुधीः ॥
पद्मैस्त्रिमधुरोपेतैर्घृताक्तेन पयोन्धसा ॥ ५९२ ॥
श्रीसमिद्भिः सर्पिषा च प्रत्यहं त्रिशतं हुनेत् ॥
द्वादश्यां द्वादशैवाथ सद्विप्रांश्चापि भोजयेत् ॥
तेन सिद्धो भवेन्मन्त्रो नात्रा कार्या विचारणा ॥ ५९३ ॥
कुन्दमन्दारकुमुदमालतीपद्मकेतकैः ॥
नन्द्यावर्ताह्वयं जाती कल्हारं चम्पकं तथा ॥
रक्तोत्पलादिपुष्पाणि लक्ष्म्याश्चातिप्रियाणि च ॥ ५९४ ॥
त्रिवारमन्वहं मन्त्री जुहुयाच्च यथाविधि ॥
षण्मासं यः करोत्येवं स स्याल्लक्षपतिः स्वयम् ॥ ५९५ ॥
विकसन्मात्र एवाब्जे नवनीतम्प्रविन्यसेत् ॥
मध्ये सकेशरे पत्रे सम्यक्पत्रान्तरे तथा ॥
सुसमिद्धेनले तच्च समुद्धृत्य हुनेत्सुधीः ॥ ५९६ ॥
अभ्यर्च्याष्टोत्तरशतं जपंश्च भृगुवासरे ॥
चत्वारिंशद्भिरस्य स्यान्महालक्ष्मीरचञ्चला ॥ ५९७ ॥
तुरीयर्चा च जुहुयाद्घृतेनैकादशाहुतीः ॥
एवं कुर्वत् एवास्य षण्मासात्स्यान्महेन्दिरा ॥ ५९८ ॥
य इच्छेद्वरदां देवीं श्रियं नित्यं कुले स्थिराम् ॥
स शुचिः प्रियतो भूत्वा जुहुयादाज्यमन्वहम् ॥ ५९९ ॥
श्रियः पञ्चदशर्चस्तु श्रीकामः सततं जपेत् ॥
आवाहयेच्छ्रियं पद्मे पञ्चभिः कनकेथवा ॥ ६०० ॥
उपहारानुपहरेद्भक्तं भक्ष्यं पयो दधि ॥
स्थालीपाकं च शालीनां पयसा सम्प्रकल्पयेत् ॥ ६०१ ॥
चन्द्रायणकृतात्मा तु प्रपद्येत यतः श्रियम् ॥
सर्वौषधीभिः फाण्टैश्च स्नात्वाभिपाचितैरपि ॥ ६०२ ॥
उपैतु मां देवसख इति राज्ञोभिषेचने ॥
मनसः काम इत्येषा पशुकामाभिषेचने ॥ ६०३ ॥
कां सोस्मीति च सुस्नायात्प्रजाकामः सुचिव्रतः ॥
अश्वपूर्णामिति स्नायाद्राज्यकामः समाहितः ॥ ६०४ ॥
विहिते चर्मणि स्नायाद्ब्राह्मणस्तु यथाविधि ॥
राज्ञश्चर्मणि वैयाघ्रे क्षत्त्रियस्याथ रौरवे ॥
वस्तचर्मणि वैश्यस्य होमः कार्यस्त्वनन्तरम् ॥ ६०५ ॥
चन्द्रामिति तु पद्मानि जुहुयात्सर्पिषा द्विजः ॥
आदित्यवर्णेत्यनया बिल्वहोमो विधीयते ॥ ६०६ ॥
बिल्वेन्धनभवाग्निः स्याच्छालींश्च जुहुयाद्द्विजः ॥
दशसाहस्रिको होमः श्रीकामस्य प्रकीर्तितः ॥
हुत्वा तु प्रथमं सम्यगनन्तां विन्दते श्रियम् ॥ ६०७ ॥
अयुतं दशकृत्वस्तु हुत्वा सूक्तानि सर्पिषा ॥
अनुक्तामव्यवच्छिनां शाश्वतीं विदते श्रियम् ॥ ६०८ ॥
अशक्तौ 43 जप एवोक्तो दशसाहस्रिको वरः ॥
जपे तु प्रयुतं सम्यगनन्तां विन्दते श्रियम् ॥ ६०९ ॥
अयुतं दशकृत्वस्तु जप्त्वा श्रियमुपाश्नुते ॥
अवश्यं जुहुयान्नित्यं पद्मान्ययुतशोपि च ॥ ६१० ॥
इष्ट्वा श्रियस्तु परमा बिल्वान्सुज्ञो बिभर्ति वै ॥
बिल्वाशी बिल्वनिलयो जुह्वद्बिल्वानि सर्पिषा ॥
एकविंशतिरात्रेण परां सिद्धिं स गच्छति ॥ ६११ ॥
येन येन च कामेन जुहोति नियतेन्द्रियः ॥
पद्मान्यथापि बिल्वानि सस कामः समृद्ध्यति ॥ ६१२ ॥
न जातु कृपणोर्थाय श्रियमावाहयेत्क्वचित् ॥
नयेत्किञ्चन कामेन होमः कार्यः कथञ्चन ॥ ६१३ ॥
महद्वा प्रार्थमानेन चाज्यकामेन वा पुनः ॥
वान्यत् प्रार्थयता रत्नाद्युक्तैः श्रीरिज्यते ध्रुवम् ॥ ६१४ ॥
प्रधानतर्पणान्ते 44 च सन्तर्प्याः शक्तयस्त्विमाः ॥
प्रणवाद्या हृदन्ताश्च श्रीर्लक्ष्मीर्वरदा तथा ॥
विष्णुपत्नी च वसुदा वसुरूपा हिरण्मयी ॥ ६१५ ॥
पद्मा मालिन्यथ रमा प्रोक्ता तु रजतप्रभा ॥
सुवर्णा प्रग्रहा स्वर्णप्राकारा पद्ममालिनी ॥
इन्द्राविश्वप्रियैश्वर्यौ भुक्तिश्चापि प्रमुक्तियुक् ॥ ६१६ ॥
विशुद्धर्द्धिः समृद्धिश्च तुष्टिः पुष्टिर्धनाह्वया ॥
भुवनेशी च शुद्धा च भोगिनी भोगदा तथा ॥ ६१७ ॥
धात्री विधात्री द्वात्रिंशच्छक्तयः समुदीरिताः ॥
प्रणवादिचतुर्थ्यन्तैर्नमोभिश्चैव तर्पयेत् ॥ ६१८ ॥
बलिं भक्ष ममेत्येतैर्नामभिर्बलिमाहरेत् ॥
पूजान्ते प्रत्यहं कार्यो नियमश्च निगद्यते ॥ ६१९ ॥
शयीत शुद्धः शय्यायां तरुण्या सह नाथ वा ॥
मलिनो न भवेज्जातु कुत्सितान्नं न भक्षयेत् ॥ ६२० ॥
द्रोणपङ्कजबिल्वानि पद्मं जातु न लङ्घयेत् ॥
यतो लक्ष्मीप्रियाश्चैते कदाचिद्बुद्धिमांस्ततः ॥ ६२१ ॥
सहदेवीमिन्द्रवल्लीं श्रीदेवीं विष्णुवल्लभाम् ॥
कन्यां जम्बूं प्रवालञ्च धारयेन्मूर्ध्नि सर्वदा ॥ ६२२ ॥
स्योना पृथिवि नो भवानृक्षरा निवेशनी ॥
यच्छा नः शर्मः सप्रथाः अप नः शोशुचदघम् ॥ ६२३ ॥
इमामृचं प्रतिदिनं यस्तु विप्रः शुचिर्जपेत् ॥
विन्दते महतीं भूमिमसपत्नामकण्टकाम् ॥ ६२४ ॥
तद्विष्णोः परमं पदगूंसदा पश्यन्ति सूरयः ॥
दिवीव चक्षुराततम् ॥ ६२५ ॥
मन्त्रसिद्धौ परान्नाद्या दोषास्तु प्रतिबन्धकाः ॥
इमामृचं जले जप्त्वा तेषां नाशः प्रजायते ॥ ६२६ ॥
आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ॥
हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन् ॥ ६२७ ॥
अनया योर्चयेत्सूर्यन्त्रिसध्यं विजितेन्द्रियः ॥
जपेदष्टोत्तरशतं सम्पूर्णायुर्गदोज्झितः ॥ ६२८ ॥
अष्टोत्तरशतं जप्त्वा ध्यायन्निशि दिवाकरम् ॥
अग्नौ हुत्वानयाचा ज्यं दीर्घमायुरवाप्नुयात् ॥ ६२९ ॥
सद्योजातं प्रपद्यामि सद्योजाताय वै नमः ॥
भवे भवे नातिभवे भवस्व मां भवोद्भवाय नमः ॥ ६३० ॥
वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥ ६३१ ॥
अघोरेभ्योथ घोरेभ्यो घोरघोरतरेभ्यः ॥
सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥ ६३२ ॥
तत्पुरुषाय विद्महे महादेवाय धीमहि ॥
तन्नो रुद्रः प्रचोदयात् ॥ ६३३ ॥
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ॥
ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्म शिवो मे अस्तु सदाशिवोम् ॥ ६३४ ॥
मृत्युञ्जयान्ता 45 एताः षष्ट्यो जपेच्च दिनेदिने ॥
स नारीनरगोशान्तिं शङ्करात्प्राप्नुयात्सदा ॥ ६३५ ॥
एतेनैव षडर्चेन जुहुयादाज्यमन्वहम् ॥
वह्निं च कल्पयेद्रौद्रं भूत्यर्थं पञ्चपर्वसु ॥ ६३६ ॥
उदुत्यं जातवेदसं देवं वहन्ति केतवः ॥
दृशे विश्वाय सूर्यम् ॥ ६३७ ॥
त्रिसन्ध्यमनया सूर्यमुपतिष्ठेत योन्वहम् ॥
हृद्रोगनाशनं तस्य परमारोग्यवर्धनम् ॥ ६३८ ॥
त्वं सोमः पितृभिः संविदानो नु द्यावापृथिवी आततन्थ ॥
यत्ते महे प्रति तं नो जुषस्व शन्न एधिद्विपदे चतुष्पदे ॥ ६३९ ॥
उपतिष्ठेत्समित्पाणिः शशिनं मानवो निशि ॥
अनया य ऋचा सोमं तस्य दुःखं लयं व्रजेत् ॥ ६४० ॥
उद्यन्तमुपतिष्ठेत पौर्णमास्यां समाहितः ॥
वासांस्यपि स विन्देत चन्द्रस्यैति सलोकताम् ॥ ६४१ ॥
विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजागूंसि ॥
यो अस्कभा यदुत्तरगूंसधस्थं विचक्रमाणस्त्रेधोरुगाया विष्यावोचा ॥ ६४२ ॥
विष्णो रराटमसि विष्णोः श्नप्त्रेस्थो विष्णोः स्यूरसि विष्णोर्ध्रुवोऽसि ॥
वैष्णवमसि विष्णवे त्वा ॥ ६४३ ॥
विष्णोः कर्माणि पश्यत यतो व्रतानि पश्यसे ॥
इन्द्रस्य युज्यः सखा ॥ ६४४ ॥
इन्द्रविष्णू नमस्कृत्य एताभिस्तृसृभिर्नरः ॥
समित्पाणिः शुचिर्भूत्वा उप्रतिष्ठेत योन्वहम् ॥ ६४५ ॥
धर्मं बुद्धिं धनं पुत्रानारोग्यं ब्रह्मवर्चसम् ॥
प्राप्नोति परमं स्थानं ज्योतीरूपं सनातनम् ॥ ६४६ ॥
कृणुष्वपाजः प्रसितिं न पृथ्वीं याहि राजेवामवा इमे न ॥
तृष्वीमनुप्रसितिं द्रुणानोस्तासि विध्यरक्षसस्तपिष्ठैः ॥ ६४७ ॥
तव भ्रमास आशु या पतन्त्यनुस्पृश धृषता शोशुचानः ॥
तपूंष्यग्ने जुह्वापतङ्गा न सन्दितो विसृजविष्वगुल्काः ॥ ६४८ ॥
प्रतिस्यशो विसृज तूर्णितमो भवायायुर्विशो अस्या अदध्वः ॥
यो नो दूरे अद्यस सोयो अन्त्यग्ने माकिष्टे व्यथिरादधर्षीत् ॥ ६४९ ॥
उदग्ने तिष्ठ प्रत्यातनुष य मित्रा गूम् ओषतात्तिग्महेते ॥
यो नो अरातिगूं सविधा न चक्रे नीचातं धक्ष्यत सन्नशुष्कम् ॥ ६५० ॥
ऊर्ध्वोभव प्रतिविध्या ध्यस्मदाविष्कृणुष्व दैव्यान्यग्रे ॥
अवस्थिरा तनुहि यातुजूनां जामि मजामि प्रमृणीहि ॥ ६५१ ॥
स ते जानाति सुमतिं यविष्वययुव ते ब्रह्मणे गातु मैरत् ॥
विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यौविदुरो अभिद्यौत् ॥ ६५२ ॥
सेदा ने अस्तु सुभगः सुदातुर्यस्त्वानिन्येम हविषा य उक्थैः ॥
पिप्रीषति स्व आयुषि दुरोणे विश्वैरस्मै सुदिना सा सदिष्टिः ॥ ६५३ ॥
अर्चामि ते सुमतिं घोष्यर्वाक्सन्ते वा वाता तरतामियं गौः ॥
स्वश्वास्त्वा सुरथामर्जये मास्मे क्षत्राणि धारयेरनुद्यून् ॥ ६५४ ॥
इह त्वा भूर्याचरेदुपत्नं दोषा वस्तदीदिवागूंसमनूद्यून् ॥
क्रीडन्तस्त्वा सुमनसः सते मानिद्युम्नातस्थिवागूंसो जनानाम् ॥ ६५५ ॥
यस्त्वा स्वश्वः सुहिरण्यो य आ न उपयाति वसुमता रथेन ॥
तस्य त्राता भवसि तस्य सखायस्त आदिथ्यामानुषा जुजोषत् ॥ ६५६ ॥
महोरुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमोदन्वियाय ॥
त्वन्नो अस्य वचसश्चिकिद्धि होतर्यविष्ठसुक्रतोदनूनाः ॥ ६५७ ॥
अस्वप्नजस्तरणयः सुशेवा अतन्द्रासो वृका अकमिष्ठाः ॥
तेपायकसञ्चियञ्चोनिषधोग्ने तव नः पान्त्वमूः ॥ ६५८ ॥
ये पापवो माम ते यन्ते अग्ने पश्यन्तो अधं दुरितादरक्षन् ॥
ररक्ष तान्सकृतो विश्ववेदा दिप्सन्त इन्द्रियवो ना ह देभुः ॥ ६५९ ॥
त्वया वयगूंसधन्या स्त्वोतास्तव प्रणीत्यरयाम वाजान् ॥
उभाशगूंसासुदयसत्पता ते ॥ ६६० ॥
उष्ट्रया कृणुह्यणुह्यहयाणा अथो ते अग्ने समिधारिधेमप्रतिस्तोम शस्यमानं गृभाय ॥
इहाशसो रक्षसः पाह्यस्मादुहोनिदोमित्रमहो अवद्यात् ॥ ६६१ ॥
रक्षोहणं वाजिनमाजिघर्मि मित्रं प्रथिष्ठमुपयामि शर्म ॥
शिशानो अग्निः क्रतुभिः सविद्धः स नो दिवा स रिषः पातु नक्तम् ॥ ६६२ ॥
विज्योतिषा वृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ॥
प्रादेवीर्मायाः सहते दुरेवाःशिशीते शृणे रक्षसे विनिक्षे ॥ ६६३ ॥
उत स्वानासो दिविषं त्वग्नेस्तिग्मायुधा रक्षसे हन्त वा उ ॥
मदैचिदस्य द्व्यरुजन्ति भामानवरन्ते परिवाधो अदेवीः ॥ ६६४ ॥
एतत्सूक्तं जपेद्विप्रो यदा स्याद्दस्युभिर्वृतः ॥
अरातीनां हरेत्प्राणान्भयन्नैवोपजायते ॥ ६६५ ॥
क्षेत्रस्य पतिना वयगूंहि तेनेव जयामसि ॥
गामश्वं घोषयित्वा नो मृडातीदृशे ॥ ६६६ ॥
इमामृचं क्षेत्रपतेः प्रत्यहं यो जपेच्छुचिः ॥
पश्यन्सूर्यं द्विजो नित्यं विन्दते क्षेत्रमुत्तमम् ॥ ६६७ ॥
वक्ष्ये पुरुषसूक्तस्य विधिं तन्त्रेषु गोपितम् ॥
अनुष्टुबस्य सूक्तस्य त्रिष्टुबन्त्यस्य देवता ॥ ६६८ ॥
पुरुषो यो जगद्बीजमृषिर्नारायणः स्मृतः ॥
स्नात्वा यथोक्तविधिना प्राङ्मुखः शुद्धमानसः ॥ ६६९ ॥
प्रथमां विन्यसेद्वामे द्वितीयां दक्षिणे करे ॥
तृतीयां वामपादे तु चतुर्थीं दक्षिणे न्यसेत् ॥ ६७० ॥
वामजानौ पञ्चमीं च षष्ठीं दक्षिणजानुनि ॥
सप्तमीं वामकट्यां वै चाष्टमीं दक्षिणे कटौ ॥ ६७१ ॥
नवमीं नाभिदेशे तु दशमीं हृदये न्यसेत् ॥
एकादशीं कण्ठदेशे द्वादशीं वामबाहुके ॥ ६७२ ॥
त्रयोदशीं दक्षभुजे मुखेदेशे चतुर्दशीम् ॥
अक्ष्णोः पञ्चदशीं चैव षोडशीं मूर्ध्नि विन्यसेत् ॥
एवं न्यासविधिं कृत्वा पश्चात्पूजां समाचरेत् ॥ ६७३ ॥
अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च ॥ ६७४ ॥
षट्स्वेतेषु हरेः सम्यगर्चने योग्यतोच्यते ॥
आपोस्यायतनं यस्मात्तस्मात्तासु सदा हरिः ॥
अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः ॥ ६७५ ॥
पण्डितानां हरिः सूर्यः स्थण्डिले भावितात्मनाम् ॥
प्रतिमास्वल्पबुद्धीनां षट्प्रकाराश्च ताः स्मृताः ॥ ६७६ ॥
अकृत्रिमाः कृत्तिमाश्च अचलाश्च तथाचलाः ॥
निर्जीवाश्च सजीवाश्च प्रतिमास्सन्ति वै हरेः ॥ ६७७ ॥
शृणु देवि क्रमात्तासामहं वक्ष्यामि लक्षणम् ॥
अकृत्रिमा च द्विविधा शालग्रामोतिपावनः ॥ ६७८ ॥
तदभावे द्वारकायाश्चक्रं तद्वच्च पावनम् ॥
कृत्रिमा दशधा प्रोक्ताः श्रेष्ठास्ताः पूर्वपूर्वतः ॥ ६७९ ॥
स्याद्रत्नरचिता चाद्या स्वर्णजा रूप्यजापि च ॥
ताम्रजा पित्तली जाता स्फाटिकी रक्तसीसजा ॥
काष्ठजा मृत्तिकाजाता चित्ररूपेति च क्रमात् ॥ ६८० ॥
अचला क्षेत्ररूपा हि हरिद्वारं यथा गया ॥
देवताभिः कृता यास्तु मूर्तयस्ताश्चलाचलाः ॥ ६८१ ॥
जगन्नाथो वेङ्कटेशः पाण्डुराभ्रादयश्च ते ॥
सजीवा ब्राह्मणा गावो निर्जीवः पिप्पलः स्मृतः ॥ ६८२ ॥
मन्त्रन्यासं पुरा कृत्वा स्वदेहे देवतासु च ॥
गायत्र्यक्षरन्यस्ताङ्गः पूजयेद्विष्णुमव्ययम् ॥ ६८३ ॥
आद्ययावाहयेद्देवमृचा 46 तु पुरुषोत्तमम् ॥
द्वितीययासनं दद्यात्पाद्यं दद्यात्तृतीयया ॥ ६८४ ॥
अर्घ्यं चतुर्थ्या दातव्यं पञ्चम्याचमनीयकम् ॥
षष्ठ्या स्नानं प्रकुर्वीत सप्तम्या वस्त्रमेव च ॥ ६८५ ॥
यज्ञोपवीतमष्टम्या नवम्या चानुलेपनम् ॥
पुष्पं दशम्या दातव्यमेकादश्या तु धूपकम् ॥ ६८६ ॥
द्वादश्या दीपकं दद्यात्त्रयोदश्या निवेदनम् ॥
चतुर्दश्या नमस्कारं पञ्चदश्या प्रदक्षिणम् ॥ ६८७ ॥
स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम् ॥
दक्षिणान्तु यथा शक्त्या षोडश्या तु समर्पणम् ॥ ६८८ ॥
ततः प्रदक्षिणं कुर्याज्जपं कुर्यात्समाहितः ॥
यथाशक्ति जपित्वा तु सूक्तं तस्मै निवेदयेत् ॥ ६८९ ॥
देवस्य दक्षिणे पार्श्वे कुण्डं स्थण्डिलमेव वा ॥
कारयेत्प्रथमेनैव द्वितीयेन तु प्रोक्षणम् ॥ ६९० ॥
तृतीयेनाग्निमादध्याच्चतुर्थेन समिन्धनम् ॥
पञ्चमेनाज्यश्रपणं चरोश्च श्रपणं तथा ॥ ६९१ ॥
षष्ठेनैवाग्निमन्थन्तु कल्पयेत्पद्ममासनम् ॥
चिन्तयेद्देवदेवेशं कालानलसमप्रभम् ॥ ६९२ ॥
ततो गन्धं च पुष्पं च धूपदीपौ निवेदयेत् ।
अनुज्ञाप्य ततः कुर्यात्सप्तम्यादि यथाक्रमम् ॥ ६९३ ॥
समिधस्तावतीः पूर्वं जुहुयादवघारितः ॥
ततो घृतेन जुहुयाच्चरुणा च ततः पुनः ॥ ६९४ ॥
एवं हुत्वा ततश्चैनमनुज्ञाप्य यथाक्रमम् ॥
अग्नेर्भगवतस्तस्य समीपे स्तोत्रमुच्चरेत् ॥ ६९५ ॥
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥
नमस्तेस्तु हृषीकेश महापुरुष पूर्वज ॥ ६९६ ॥
देवानां दानवानां च सामान्यमधिदैवतम् ॥
सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव ॥ ६९७ ॥
एकस्त्वमसि लोकस्य स्रष्टा संहारकस्तथा ॥
अव्यक्तश्चानुमन्ता चागुणो मायासमावृतः ॥ ६९८ ॥
संसारसागरं घोरमनन्तक्लेशभाजनम् ॥
त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ॥ ६९९ ॥
न ते रूपं न चाकारो नायुधानि न चास्पदम् ॥
तथापि पुरुषाकारो भक्तानां च प्रकाशसे ॥ ७०० ॥
कस्यचिन्नपरोक्षस्त्वं प्रत्यक्षोपि न कस्यचित् ॥
कस्यचिन्न च साध्योस्ति विना भक्तिं भवान्प्रभो ॥ ७०१ ॥
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ॥
योगिनां परमा सिद्धिः परमं ते पदं विदुः ॥ ७०२ ॥
अहं भीतोस्मि देवेश संसारेस्मिन्महाभये ॥
पाहि मां पुण्डरीकाक्ष न जानामि परं पदम् ॥ ७०३ ॥
कालेष्वपि च सर्वेषु दिक्षुसर्वासु चाच्युत ॥
शरीरे चागतं चापि वर्तते मे महद्भयम् ॥ ७०४ ॥
त्वत्पादकमलादन्यं न मे जन्मान्तरेष्वपि ॥
विज्ञानं यदिदं प्राप्य यदिदं ज्ञानवर्जितम् ॥ ७०५ ॥
जन्मान्तरेपि मे देव मा भूदस्य परिक्षयः ॥
दुर्गतावपि जातस्य त्वद्गतो मे मनोरथः ॥ ७०६ ॥
यदि नाशं न विन्देत ततोस्ति सुकृती सदा ॥
कामयेद्विष्णुपादौ तु सर्वजन्मसु केवलम् ॥ ७०७ ॥
पुरुषस्य हरेः सूक्तं स्वच्छं धन्यं यशस्करम् ॥
आत्मज्ञानमिदं पुण्यं योगज्ञानमिदं परम् ॥ ७०८ ॥
एवं स्तुत्वा हव्यवाहं ततः पश्चाद्विसर्जयेत् ॥
अनेनैव च निष्पापो जायते मनुजो यदा ॥ ७०९ ॥
प्राग्वज्ज्ञात्वा पारदे तत्प्रयोगानारभेत च ॥
शुक्लपक्षे शुभे वारे यदा चैकादशी भवेत् ॥ ७१० ॥
उपवासस्तु कर्तव्यो दम्पतिभ्यां सुरालये ॥
द्वादश्यां पुत्रकामाय चरुं कुर्वीत वैष्णवम् ॥ ७११ ॥
ऋग्भिः षोडशभिः सम्यगर्चयित्वा जनार्दनम् ॥
चरुं पुरुषसूक्तेन प्राशयेत्पुत्रकाम्यया ॥ ७१२ ॥
प्राप्नुयाद्वैष्णवं पुत्रमचिरात्सन्ततिक्षमम् ॥
द्वादश द्वादशीः सम्यक्पयसा निर्वपेच्चरुम् 47 ॥ ७१३ ॥
यो जुहोति स वै याति तद्विष्णोः परमं पदम् ॥
मार्गशीर्षादिमासेषु क्रमात्पूज्यश्च केशवः ॥ ७१४ ॥
नारायणो माधवश्च गोविन्दो विष्णुरेव च ॥
मधुसूदन उक्तस्त्रिविक्रमो वामनस्तथा ॥
श्रीधरश्च हृषीकेशः पद्मनाभो गदाधरः ॥ ७१५ ॥
पूजयित्वा जपेत्सूक्तं शतमष्टाधिकं ततः ॥
होमञ्च पूर्ववत्कुर्यात्सर्वान्कामानवाप्नुयात् ॥ ७१६ ॥
अपुत्रा मृतपुत्रा वा या च कन्याप्रसूर्भवेत् ॥
तस्या यथा सुपुत्रः स्यात्तमुपायं ब्रवीम्यहम् ॥ ७१७ ॥
समिधोश्वत्थवृक्षस्य प्रत्यृचं जुहुयाच्छतम् ॥
अष्टाधिकं च सघृतमुपतिष्ठेद्धुताशनम् ॥ ७१८ ॥
पुनर्विष्णुं पूजयित्वा घृतहोमं समाचरेत् ॥
अष्टोत्तरशतं कुर्यात्प्रत्यहं वाग्यतः शुचिः ॥ ७१९ ॥
सम्पाताज्यं स्थापयित्वा तन्नार्याः प्राशनाय च ॥
दद्यात्सा च पतिं विष्णुं नमस्कृत्य प्रभक्षयेत् ॥ ७२० ॥
तर्पयेच्च द्विजान्सम्यग्लब्धाशीः प्रविशेद्गृहम् ॥
परं सप्त प्रवर्तेनावश्यं गर्भवती भवेत् ॥ ७२१ ॥
अरण्ये निवसेन्नित्यं त्रिकालं स्नानमाचरेत् ॥
जपेदष्टोत्तरशतं सूक्तमेतत्त्रिकालकम् ॥ ७२२ ॥
मासमेकं फलाहारो मासमद्भिश्च तर्पयेत् ॥
आदित्यमुपतिष्ठेत मन्त्रेणानेन नित्यशः ॥
आज्यं हुत्वा दशशतं त्रिभिर्वर्षैर्जपेद्दिनम् ॥ ७२३ ॥
तद्भक्तस्तन्मना युक्तो दशवर्षाण्यनन्यभाक् ॥
साक्षात्पश्यति तं देवं नारायणमनामयम् ॥ ७२४ ॥
अथ वक्ष्ये गृहस्थानां जीवन्मुक्तेस्तु साधनम् ॥
यश्च स्वधर्मनिरतो न्यायवृत्तः शुचिव्रतः ॥ ७२५ ॥
अर्धरात्रे त्यक्तनिद्रः शुद्धो भूत्वा च वाग्यतः ॥
सम्प्रसुप्तेषु लोकेषु योगं युञ्जीत योगवित् ॥ ७२६ ॥
कृत्वासनं समे देशे निर्वाते शब्दवर्जिते ॥
सव्यं 48 पादं दक्षिणस्य जानौ संवेशयेत्ततः ॥ ७२७ ॥
संहृत्य दक्षिणं पादं सव्यं जानुनि यच्छति ॥
बद्धाञ्जलिकरः स्वस्थो योगसम्मीलितेक्षणः ॥ ७२८ ॥
ॐ मित्येव स्वहृदये चिन्तयेदविशङ्कितः ॥
तत्रात्मानं समादध्यादिन्द्रियाणि मनस्तथा ॥ ७२९ ॥
न विबुध्येत किञ्चान्यं न पश्येच्छृणुयान्न च ॥
प्राणानायम्य चासीनोऽनुद्विग्नश्चिन्तयेत्ततः ॥ ७३० ॥
श्वासेनैव समं नाभौ गमयित्वा मनस्तदा ॥
उच्छसेचैवमसकृत्तन्मना योगमुन्नयेत् ॥ ७३१ ॥
मनो नयेत हृदये पश्येन्नो शृणुयान्न च ॥
ततो नयेत तच्चेतो हृदयादूर्द्धमेव तु ॥ ७३२ ॥
समानं जत्रु चास्यं च नासिके नयने भ्रुवौ ॥
भ्रुवोर्मध्ये परं स्थानं तत्र तद्द्वारपद्धतिः ॥ ७३३ ॥
ललाटदेशे सन्धार्य मूर्द्धानं गमयेत्ततः ॥
उच्छ्वसेच्च यथाकालं नाभितश्चोच्छ्वसेत्पुनः ॥ ७३४ ॥
एतत्परं स्थानमुक्तं ब्रह्मणः परमात्मनः ॥
एवं युक्तो महात्मानमात्मानं प्रतिपद्यते ॥ ७३५ ॥
यद्येवं सुकृती शुद्धो यदि वा पापकृत्ततः ॥
उपलभ्य परं ब्रह्म गतिं ज्ञात्वा भवेच्छुचिः ॥ ७३६ ॥
सर्वपापानुबद्धश्च ह्यद्यन्तः प्रयतो जपेत् ॥
अपि जित्वा समं देवं स गच्छेत्परमाङ्गतिम् ॥ ७३७ ॥
धारणा तु पृथक्कार्या धर्मेण तेन नित्यशः ॥
आदित्येग्नौ चन्द्रमसि वृक्षाग्रेषु च धारयेत् ॥
पर्वताग्रे समुद्रे वा यत्र वा रमते मनः ॥ ७३८ ॥
न भावं विषयान्प्राप्य धारयेत् कथञ्चन ॥
वह्वत्र दुःखं जानीयात्प्रध्वंसे धारणात्मके ॥ ७३९ ॥
धार्मिकाणां कुले शुद्धे योगभ्रष्टोभिजायते ॥
मूर्ध्नि ब्रह्म प्रविन्देतेदृग्जपस्य प्रभावतः ॥ ७४० ॥
तदा मूर्ध्ना परं ज्योतिर्नक्षत्रपथमुन्नयेत् ॥
योगी योगीश्वरं प्राप्य निर्द्वन्द्वं परमात्परम् ॥ ७४१ ॥
सर्वत्रैवात्मनात्मानं पश्येद्धरिपरायणः ॥
जपेच्चैव स्वरान्स्नातः पवित्रमिदमुत्तमम् ॥ ७४२ ॥
अपि पातकसंयुक्तःकालेन सुकृती भवेत् ॥
ततः परायणो नित्यं सत्यवागनसूयकः ॥
प्रजपंस्तामृचं विप्रः कालेन सुकृती भवेत् ॥ ७४३ ॥
येनयेन च कामेन जपन्ति तामृचं सदा ॥
ससकामस्समृद्धः स्याच्छ्रद्दधानस्य कुर्वतः ॥ ७४४ ॥
होमं वाप्यथवाजाप्यमुपहारमनुत्तमम् ॥
कुरुते येन कामेन तत्सिद्धिरुपजायते ॥ ७४५ ॥
ज्ञानगम्यं परं लक्ष्यं प्राप्यं सर्वमवस्थितम् ॥
वाक्यमत्यन्तयत्नेन ब्रह्माभ्येति सनातनम् ॥ ७४६ ॥
सहस्रशीर्षसूक्तं तु सर्वकामफलप्रदम् ॥
वेदगर्भशरीरेण स वै नारायणः स्मृतः ॥ ७४७ ॥
ब्रह्मेन्द्ररुद्रपर्जन्याः सूक्तेस्मिन्सुव्यवस्थिताः ॥
अत्रस्थं प्रेत्य द्रष्टव्यं जगत्स्थावरजङ्गमम् ॥ ७४८ ॥
अनासादयमानोपि भक्तिं न परिहारयेत् ॥
भक्तानुकम्पी भगवाञ्च्छ्रुयते पुरुषोत्तमः ॥ ७४९ ॥
पूजार्थे तस्य देवस्य वन्यान्स्वयमुपार्जितान् ॥
आरण्यकविधानेन निर्वपेत्प्रत्यहं चरुम् ॥ ७५० ॥
नारायणाय स्वाहेति मन्त्रेण जुहुयाद्धविः ॥
आसहस्रात्तत्र चक्षुर्दिव्यं होतुर्ददाति सः ॥ ७५१ ॥
यद्वा चरुं सहस्रं तु मन्त्रेणैकेन निर्वपेत् ॥
स हुत्वा स्वेप्सितानां च कामानां लभते फलम् ॥
पुरुषायुष्यसंयुक्तः सिद्धो वा विचरेन्महीम् ॥
सूक्तानि कोटिशः सन्ति परमेतन्महाप्रियम् ॥
सर्वैश्वरो हरिर्येन गीयते भक्तवत्सलः ॥ ७५२ ॥
ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः ॥
केयूरवान्मकरकुण्डलवान्किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ ७५३ ॥
एतत्तु यः पठति केवलमेव सूक्तं नारायणस्य चरणावभिवन्द्य वन्द्यौ ॥
पाठेन चाथ परमस्य सनातनस्य स्थानं जरामरणवर्जितमेति विष्णोः ॥ ७५४ ॥
हविषाग्नौ जले पुष्पैर्ध्यानेन हृदये हरिम् ॥
यजन्ति सूरयो नित्यं जाप्येन रविमण्डले ॥ ७५५ ॥
बिल्वपत्रं शमीपत्रं पत्रं भृङ्गारकस्य च ॥
मालतीकुशपत्रं च सद्यस्तुष्टिकरं हरेः ॥ ७५६ ॥
यन्नोपपद्यते किञ्चित्तं ध्यायन्मनसैव तु ॥
सम्पद्यते प्रसादात्तु देवदेवस्य चक्रिणः ॥ ७५७ ॥
पत्रैश्च पुष्पैश्च फलैश्च तोयैर्विक्रीतलब्धैश्च सदैव सद्भिः ॥
भक्त्यैकगम्ये पुरुषे पुराणे मुक्तौ किमर्थं क्रियते न यत्नः ॥ ७५८ ॥
इत्येवमुक्तः पुरुषस्य विष्णोरर्चाविधिर्देवि मुदा मुनीन्द्राः ॥
मुक्त्यैकमार्गप्रतिबोधनाय न वै मया लौकिककामनार्थम् ॥ ७५९ ॥
या ओषधीः सोमराज्ञीः विष्ठिताः पृथिवीमनु ॥
वृहस्पतिप्रसूतास्ता अस्यै सन्दत्त वीर्यम् ॥ ७६० ॥
अवपतन्तीरवदन्दिव ओषधयस्परि ॥
यं जीवमश्नवामहै न स रिष्यति पूरुषः ॥ ७६१ ॥
याश्चेदमुपशृण्वन्ति याश्च दूरं परा गताः ॥
सर्वाः सङ्गत्य वीरुधोस्यै सन्दत्त वीर्यम् ॥ ७६२ ॥
मा वोरिषत्खनिता यस्मै चाहं खनामि वः ॥
द्विपाच्चतुष्पादस्माकगूंसर्वमस्त्वनातुरम् ॥ ७६३ ॥
ओषधयः संवदन्त सोमेन सह राज्ञा ॥
यस्मै कृणोति ब्राह्मणस्त गूं राजन्पारयामसि ॥ ७६४ ॥
पर्वस्वेव जपेन्नित्यं षण्मासानेव यो नरः ॥
वैद्यस्त्वमृतहस्तः स्यादन्यः स्वस्त्ययनं भजेत् ॥ ७६५ ॥
इष्ट्वा शरदि वै रुद्रमोषधीश्च जपेत्सदा ॥
तस्यामया न जायन्ते तथाजीर्णानि पञ्च वा ॥ ७६६ ॥
कुर्यातु सप्तरात्रेण सप्तकृत्वः समाहितः ॥
प्रपद्य ह्योषधीर्विप्रः सूक्तमेतज्जपेत्सदा ॥ ७६७ ॥
द्विषत्क्षेत्रादिहायध्वमिति विज्ञापयेच्च ताः ॥
स्वक्षेत्रे वरुणं चेष्ट्वा विन्दते द्विषदोषधीः ॥ ७६८ ॥
बृहस्पते अति यदर्यो अर्हाद्युमद्विमाति क्रतुमज्जनेषु ॥
यद्दीदयच्छवस-ऋतप्रजाततदस्मासु द्रविणं धेहि चित्रम् ॥ ७६९ ॥
वृष्टिकामो यताहारः प्रपद्येत बृहस्पतिम् ॥
पायसेनोपहारेण होमेन च समन्वितः ॥ ७७० ॥
पश्चादिमामृचं विप्रो वृष्टिकामः प्रयोजयेत् ॥
पर्जन्यं च नमस्कृत्य वृष्टिं विन्दति शोभनाम् ॥ ७७१ ॥
कलौ धर्मस्य रक्षार्थमृच एताः क्वचित्क्वचित् ॥
विप्रेविप्रे देशदेशे थास्यन्त्यन्याश्च वै क्षितौ ॥ ७७२ ॥
एतत्तत्त्वमिह प्रोक्तं सर्वतन्त्रेषु गोपितम् ॥
इतः परं देवि देवाः किं वक्तव्यं तदुच्यताम् ॥ ७७३ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते कलिसंस्थितसविधि-मन्त्रकथनं नामैकादशः प्रकाशः ॥ ११ ॥
-
पर्णोदुम्बरराजी ↩︎
-
परमात्मा देवता स्मृत इत्युत्तरत्रान्वयोस्य ॥ ↩︎
-
मन्त्रा इत्यस्य विशेषणमिदम् ॥ ↩︎
-
त्र्यम्बकं हृदयाय नमः, यजामहे शिरसे स्वाहा, सुगन्धिं पुष्टिवर्धनं शिखायै वषट्, उर्वारुकमिव बन्धनात् कवचाय हुम्, मृत्योर्मुक्षीय नेत्रत्रयाय वौषट्, मामृतात् अस्त्रायफट् ॥ ↩︎
-
त्र्यं नमः पूर्वे, बं पश्चिमे, कं याम्ये, यम् उत्तरे, जाम् आग्नेय्याम्, मन्नैर्-ऋत्याम्, हे वायव्ये, सुम् ईशानकोणे, गं नमो नाभौ, धिं हृदये, पुं कण्ठे, ष्टिं कुक्षौ, वं लिङ्गे, र्द्धं पायौ, नं दक्षोरुमूले, उं वामोरुमूले, र्वां दक्षोरुमध्ये, रुं वामोरुमध्ये, कं दक्षिणजानुनि, मिं वामजानुनि, वं दक्षजानुवृत्ते, वं वामजानुवृत्ते, न्धम्, दक्षस्तने, नात् वामस्तने, मृं दक्षपार्श्वे, त्योः वामपार्श्वे, मुं दक्षपादे, क्षीं वामपादे, यं दक्षपाणौ, मां वामपाणौ मृं नासिकायाम्, तात्शीर्षे ↩︎
-
त्र्यम्बक नमः शिरसि यजामहे भ्रुवोः सुगन्धिमक्ष्णोः पुष्टिवर्धनं मुखे, उर्वारुकं कपोलयोः इव हृदये बन्धनात् जठरे मृत्योः ऊर्वोः मुक्षीयजान्वोः मागुल्फयोः मृतात्पादयोः, इति न्यासत्र्यम् । ↩︎
-
ॐ जातवेदसे सुनवाम अङ्गुष्ठाभ्यां नमः, सोममरातीयतस्तर्जनीभ्यां नमः, निदहाति वेदः मध्यमाभ्यां नमः, स नः परिषदति अनामिकाभ्यां नमः, दुर्गाणि विश्वा नावेव कनिष्ठिकाभ्यां नमः, सिन्धुं दुरितात्यग्निः करतलकरपृष्ठाभ्यां नमः ॥
एवं हृदयादिन्यासः ॥
अथाक्षरन्यासः ॥
जा दक्षपादाङ्गुष्ठे, त वामपादाङ्गुष्ठे, वे दक्षगुल्फे, द वामगुल्फे, से दक्षजङ्घायाम्, सु वामजघने, न दक्षजानुनि वा वामजानुनि न दक्षोरौ, सो वामोरौ, म कट्याम, मलिङ्गे रानाभौ, ती हृदये, य दक्षस्तने, तो वामस्तने, नि दक्षपार्श्वे, द वामपार्श्वे, हा पृष्ठे, ति दक्षस्कन्धे, वे वामस्कन्धे, दः दक्षस्कन्धान्तरे, स वामस्कन्धान्तरे, ना दक्षबाहौ, प वामबाहौ, रि दक्षापबाहौ ष वामोपबाहौ, द दक्षकूर्परेति वामकूर्परे, दुर्दक्षप्रकोष्ठे, गा वामप्रकोष्ठे, णि दक्षमणिबन्धे, वि वाममणिबन्धे, श्वादक्षकरतले, न वामकरतले वे मुखे व नासिकायाम्, सिं दक्षिणनेत्रे, धुं वामनेत्रे, दु दक्षकर्णे, रि वामकर्णे, ता भ्रुवोर्मध्ये, त्यमस्तके ग्निः मूर्द्धनि ॥ ↩︎ -
अथ पदन्यासः ॐ जातवेदसे शिखायाम् सुनवाम ललाटे, सोमं नेत्रयोः अरातीयतः कर्णयोः, निदहाति ओष्ठे, वेदः अधरे, सः जिह्वायामू नः कण्ठे, षरिषदै बाह्वोः दुर्गाणि हृदि विश्वा कुक्षौ, नावा कटौ, इव गुह्ये, सिन्धुम् ऊर्व्वोः दुरिता जान्वोः, अति जङ्घयोः, अग्निः पादयोः ॥ ↩︎
-
ॐ वज्रनखदंष्ट्राय महासिंहाय हुं फट् नमः इति सिंहपूजनमन्त्रः ॥ ↩︎
-
भागुरिमते टाप् ↩︎
-
तिदषरिपनः स शिखायै वषट् ॥ ↩︎
-
दः वेतिहादनि कवचायहूम् तोयती राममसो नेत्रत्रयाय वौषट् मयानसु सेदवेतजा अस्त्राय फट् ॥
मन्त्रस्य विलोमेन अक्षरैः पादकल्पना क्रियते ॥ ↩︎ -
श्रोत्रत्वक्जिह्वाघ्राणचक्षूंषि इमानि पञ्च ज्ञानेन्द्रियाणि ॥ ↩︎
-
पृथ्व्यप्तेजोवाय्वाकाशानि पञ्चमहाभूतानि ↩︎
-
त्वग्रक्तमांसमेदोस्थिमज्जा शुक्रोण सप्त धातवः ॥
एते सप्त धातवः ↩︎ -
पादाकॢप्तिरुदीरितेति वा पा० ↩︎
-
तिर्यग्वक्राः वेतिपाठः ॥ ↩︎
-
क्षणात्सेनामुच्चाटयति वा पा० ॥ ↩︎
-
विगलदिति पा० ↩︎
-
चतुर्भिः पलैः कुडव उच्यते ॥ ↩︎
-
षोदशपलैः प्रस्थः ॥ ↩︎
-
मङ्गलवारम् ॥ ↩︎
-
गायत्री-तत्सवितुरिति ।
आग्नेयमस्त्रं जातवेदसे इति त्रैयम्बकं - त्र्यम्बकं यजामेति ।
एतच्छ्रुतित्रयमेलनेन शताक्षरो मन्त्रो जायते ।
अस्य त्रिशक्तीति नाम गायत्रीमन्त्रस्य जपसमये वरेण्यमिति स्थाने पठनेन मन्त्रस्य शताक्षरत्वपूर्तिः ॥ ↩︎ -
२- त्रयोदशभिः । ३- एकाधिकदशभिः । ↩︎
-
द्व्यधिकविंशतिभिः । ↩︎
-
५- पञ्चाधिकदशभिः । ६- सप्ताधिकदशभिः । ↩︎
-
गुडूचीभिः । ↩︎
-
बिल्वप्रसूनैः । ↩︎
-
ॐ जातवेदसे इति मन्त्रस्य प्रथमकथनमुचितम् । ↩︎
-
ॐ यो रुद्रो अग्नौ अङ्गुष्ठाभ्यां नमः, यो अप्सु तर्जनीभ्यां नमः, य ओषधीषु मध्यमाभ्यां नमः, यो रुद्रो विश्वा भुवना विवेश अनामिकाभ्यां नमः, तस्मै रुद्राय नमो अस्तु कनिष्ठिकाभ्यां नमः, एवं हृदयादिन्यासोपि ॥
अथाक्षरन्यासः ॥
ॐ यो नमः शिरसि रु भाले, द्रो भ्रूमध्ये, अ दक्षनेत्रे, प्सु वामनेत्रे, यः दक्षकर्णे, ॐ वामकर्णे ष नासिकायाम्, धी दक्षकपोले, षु वामकपोले यो मुखे, रु कण्ठे, द्रो दक्षबाहौ, वि वामबाहौ, श्वा दक्षकरतले, भू वामकरतले व पृष्ठे, ना वक्षःस्थले, वि उदरे, वे नाभौ, श कट्याम्, त दक्षोरौ, स्मै वामोरौ, रु दक्षजानुनि, द्रा वामजानुनि, य दक्षजङ्घायाम्, न वामजङ्घायाम्, मो दक्षपादे, अ वामपादे, स्तु सर्वाङ्गे ॥
इत्यक्षरन्यासः । ↩︎ -
पार्थिवपूजायां यत्कामनायै या पूजोक्ता तां तत्र तथैव रीत्या विदधीत ॥ ↩︎
-
काष्ठैरिति शेषः । ↩︎
-
अष्टाष्टषडष्टाष्टसप्तषडक्षरैरङ्गन्यासः ।
यथा - ध्रुवासु त्वासु क्षितिषु अङ्गुष्ठाभ्यां नमः इत्थं पूर्वोक्तरीत्या सर्वन्यासान्कुर्यात् । ↩︎ -
अथाक्षरन्यासः कथ्यते यथा-ध्रु दक्षपादाग्रे, वा वामपादाग्रे सुदक्षपादाङ्गुलिमूले, त्वा वामपादाङ्गुलिमूले, सु दक्षगुल्फे, क्षि वामगुल्फे, ति दक्षजानुनि, षु वामजानुनि, क्षि दक्षोरौ, यं वामोरौ, तो गुदे व्य लिङ्गे, स्य मूलाधारे, त्या नाभौ, स दक्षकुक्षौ, व वामकुक्षौ, रु पृष्ठे, णो हृदि मु वक्षःस्थले, मो गले, न दक्षहस्ताग्रे, रत् वामहस्ताग्रे अ दक्षहस्ताङ्गुलिमूले, वो वामहस्ताङ्गुलिमूले च दक्षमणिबन्धे, न्वा वाममणिबन्धे ना दक्षकूर्परे, दि दक्षबाहौ तेवामबाहौ रु मुखे पादक्षकपोले, स्था वामकपोले, यू दक्षनासापुटे, यं वामनासापुटे, या दक्षनेत्रे, त वामनेत्रे, स्व दक्षकर्णे, स्ति वामकर्णे, भिः भ्रुवोर्मध्ये, स भाले, द मूर्धनि, नः सर्वाङ्गे ॥
इति न्यासः ॥
ॐ यो रुद्रो अग्नौ हृदयाय नमः, यो अप्सु शिरसे स्वाहा, य ओषधीषु शिखायै वषट्, यो रुद्रो विश्वा भुवना विवेश कवचाय हुम्, तस्मै रुद्राय नेत्रत्रयाय वौषट्, नमो अस्तु अस्त्राय फट् । ↩︎ -
पुनरस्यैव मन्त्रस्य षोडशपदैः क्रमान्मूलोक्तस्थानेषु न्यासं कुर्यादिति शेषः ॥
यः पादयोः रुद्रः जङ्घयोः अग्नौ जान्वोः, यः ऊर्वोः, अप्सु गुह्ये, यः लिङ्गे ओषधीषु नाभौ यः जठरे, रुद्रः हृदये, विश्वा कण्ठे, भुवना मुखे, विवेश नासिकायाम्, तस्मै नेत्रयोः, रुद्राय भ्रुवोर्मध्ये, नमः ललाटे, अस्तु मूर्ध्नि, इति पदन्यासः ॥ ↩︎ -
समन्त्र उच्यते ॐ चिटि चिटि चाण्डालि महल्यहलि अमुकं मेवशमानयस्वाहा इति मन्त्रः । ↩︎
-
ॐ मूर्ध्नि चि भाले टि दक्षनेत्रे चि वामनेत्रे टि दक्षकर्णे चां वामकर्णे डा दक्षनासायाम् लि वामनासायाम् म मुखे ह चिबुके ल्य कण्ठे ह दक्षस्तने लि वामस्तने अ दक्षकुक्षौ मु वामकुक्षौ कं नाभौ पे दक्षकट्याम् व वामकट्याम् श लिङ्गे मगुदे न ऊरुद्वये य जानुयुग्मे स्वा जङ्घायुग्मे हा पदद्वये - इति मन्त्राक्षरन्यासः ॥ ↩︎
-
पुनस्तस्या लवणपुत्तल्या अङ्गेषु अक्षरन्यासं कुर्यात् ।
यथा ॐ अङ्गुष्ठद्वये चि अङ्गुष्ठसन्विद्वये, टि प्रपदद्वये चि जङ्घाद्वये टि जानुद्वये चाम् ऊरुद्वये डा गुदे लि लिङ्गे म नाभौ ह जठरे ल्य हृदये ह दक्षस्तने लि वामस्तने अ कन्धरायाम् मु चिबुके कं मुखे मे दक्षनासायाम् व वामनासायाम् श दक्षकर्णे मा वामकर्णे न दक्षनेत्रे य वामनेत्रे स्वा ललाटे हा मूर्ध्निम् ॥ ↩︎ -
द्वितीयार्थे प्रथमा । ↩︎
-
लभन्ते इति शेषः ॥ ↩︎
-
हिरण्यायै अङ्गुष्ठाभ्यां नमः चन्द्रायै तर्जनीभ्यां नमः रजतप्रभायै मध्यमाभ्यां नमः हिरण्यस्रजे अनामिकाभ्यां नमः हिरण्याक्ष्यै कनिष्ठिकाभ्यां नमः हिरण्यवर्णिकायै करतलकरपृष्ठाभ्यां नमः इत्यङ्गुष्ठादिन्यासः ॥ ↩︎
-
मूर्द्धादिपादपर्यन्तपञ्चदशसु अङ्गेष्वेवं न्यासं कुर्यात्सोग्रे कथ्यते हिरण्यवर्णामिति मूर्धनि ताम् आवह इति नेत्रयोः अश्वपूर्णामिति कर्णयोः एतद्रीत्यान्येपि ज्ञेयाः ॥ ↩︎
-
तस्येति शेषः ॥ ↩︎
-
एवमन्यत्र नामस्वपि ज्ञेयम् ॐङ्कारादिचतुर्थ्यन्तनाम्नामन्ते नमः पदं संयोज्य तृप्यतुपदमुच्चरेत् नमः पदं संयुज्य तृप्यत्विति पदमुच्चारयेत् ।
यथा ॐ श्रियै नमः श्रीस्तृप्यतु ।
अनयैव रीत्यान्यनामानि ज्ञेया । ↩︎ -
त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ ↩︎ -
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् इत्यादि षोडशश्रुतिभिः पुरुषसूक्तं ब्रुवते तासु प्रथमर्चावाहनं द्वितीयर्चासनमित्यादि मूलोक्तक्रमेण भगवतो विष्णोः पूजां विदधति ॥ ↩︎
-
प्रथमं तं चरुं पुरुषसूक्तेन जुहुयाच्छिष्टं स्त्रियाभक्षयेत् । ↩︎
-
वामपादं दक्षिणजानुनि पुनर्दक्षिणपादं वामजानुनि विधृत्य स्थित्वर्जु स्वनासिकाग्रे दृष्टिं निधाय ओङ्कारं जपन्मनस्सहितं स पवनमाकृष्योदरं सम्पूरयेन्तदनन्तरं नाभिचक्रात्पवनं हृदि तत उरसि तस्मात्कण्ठमानीय ततो भ्रुवोरन्तरे कृत्वा ब्रह्मरन्ध्रे नयेत् ।
शनैश्शनैर्मनसोङ्कारं यावत्प्राणान्रोद्धुं शक्नुयात्तावज्जपेत् ।
पुनर्मन्दम्प्राणानुत्तार्य वारंवारमुक्तरीत्याभ्यासेनाहतशब्दा दशधा प्रकटी भवन्ति पुनर्यदि सर्वैनोभ्यो बद्धोपि पुरुषो हृदि मनसोङ्कारजपात्परं ब्रह्म प्राप्नोति तर्हि सुकृतिनां तत्प्राप्तेः का चर्चा । ↩︎