१० पुरश्चर्याकौलिकाचार-प्रकाशः

श्रीदेव्युवाच ॥

क्वचिद्दक्षं क्वचिद्वामं क्वचित्सौरं च शाम्भवम् ॥
ऊर्ध्वाम्नायं क्वचिद्दक्षमुत्तरं पश्चिमं क्वचित् ॥ १ ॥

अध आम्नायकं चापि गाणपत्यं च वैष्णवम् ॥
पारसीकं क्वचिद्बौद्धं पाखण्डं च क्वचित्क्वचित् ॥ २ ॥

तत्तत्प्रकरणे स्तौषि क्वचिन्निन्दसि तं पुनः ॥
क्वचिन्निर्दैवतं मार्गं वेदान्तं वैदिकं क्वचित् ॥ ३ ॥

द्वीपधर्मान्खण्डधर्मान्कुलधर्मान्क्वचित्क्वचित् ॥
देशधर्मान्कालधर्माञ्जातिधर्मान्क्वचित्क्वचित् ॥ ४ ॥

तन्त्रोत्तममिदं तन्त्रं प्रसन्नश्चेन्ममोपरि ॥
तदा तत्त्वं मम ब्रूहि निःसन्देहा च मां कुरु ॥ ५ ॥

श्रीशिव उवाच ॥

अहो कालस्य माहात्म्यं तन्त्रे तन्त्रे त्वया पुनः ॥
पृच्छ्यते तत्तदाधिक्यं साहङ्कारं ब्रवीमि तत् ॥ ६ ॥

प्रज्ञेयं सात्त्विकी काचिज्जाता कालस्य यत्त्वया ॥
उपकाराय सर्वेषां पृष्टं तत्त्वं ब्रवीमि तत् ॥ ७ ॥

यथा बालस्य पितृगीस्तथा वेदध्वनिर्हिता ॥
कलेर्दशसहस्राणि यदा वर्षाणि यान्ति च ॥ ८ ॥

वेदो नारायणः साक्षात्कालावयवजन्तुभिः ॥
न श्रूयते तदा देवि ज्ञेयः कालः समागतः ॥ ९ ॥

वाग्जृम्भाक्षुतपादादिशब्दा उत्पत्तिनश्वराः ॥
वेदभिन्नानि शास्त्राणि तथा जानन्तु देवताः ॥ १० ॥

यस्य शास्त्रस्य लोकेस्मिन्प्रचारो यावदस्ति ह ॥
तावत्तन्मार्गिणां सौख्यं वेदमार्गोद्य कुण्ठितः ॥ ११ ॥

तस्मात्तन्मार्गकर्तारः शिष्यांस्तत्सम्प्रदायिनः ॥
तानानयन्ति स्वे मार्गे यत्तत्तावत्सुखं भवेत् ॥ १२ ॥

नृणां ज्ञानं यथा षड्भिरिन्द्रियैरभिजायते ॥
तथा षडङ्गैर्वेदार्थज्ञानं भवति निश्चितम् ॥ १३ ॥

कर्मेन्द्रियाणि च नृणां यथा पञ्चमितानि च ॥
तथा कालमहेशस्य पञ्चाम्नाया मयोदिताः ॥ १४ ॥

ऊर्ध्वाम्नायं समुद्दिष्टं वाचिकं कर्म तस्य तत् ॥
तत्र प्रमाणं वेदास्स्युस्तदंशाः स्मृतयस्तथा ॥ १५ ॥

तदङ्गानि पुराणानि गायत्र्याद्याश्च देवताः ॥
ब्रह्माबीजं 1 तथा क्षेत्रं 2 संस्काराद्ब्राह्मणा 3 मताः ॥ १६ ॥

ब्राह्मणाचरणं ब्रह्मविद्याभिर्ब्राह्मणो भवेत् ॥
यस्य वश्या वयं यस्य वाचमर्थोऽनुधावति ॥ १७ ॥

एकस्मिṁल्लक्षणे हीने वागर्थमनुधावति ॥
द्विहीने लक्षणे देवि स्वाचाराद्ब्राह्मणो भवेत् ॥ १८ ॥

लक्षणत्रयहीनो यस्तन्त्रमार्गेण सिद्ध्यति ॥
चतुर्लक्षणहीनानां मार्गास्स्युः कौलिकादयः ॥ १९ ॥

एतल्लक्षणभिन्नेन यथादेशं यथाकुलम् ॥
यथाजाति यथाकालं कर्तव्यो धर्मसङ्ग्रहः ॥ २० ॥

मिथ्यासम्भाषणं स्तेयं सर्वमार्गेषु गर्हितम् ॥
यत्किञ्चिज्जन्म यत्कर्म न जपोन तपः क्रियाः ॥ २१ ॥

जीवन्मुक्तः सत्यवक्ता सत्ये सर्वं प्रतिष्ठ्तम् ॥
अहिंसा परमो धर्मः सोपि वाक्कायकर्मभिः ॥ २२ ॥

दृढो यत्र न चाचारो न जातिः स च मुक्तवत् ॥
इह लोके सुखं भुक्त्वा यात्यन्ते परमं पदम् ॥ २३ ॥

परसन्तापरहिते तन्निष्ठा यस्य चेतसि ॥
मुक्तं कालेपि जानीहि जीवन्मुक्तं न संशयः ॥ २४ ॥

यदिन्द्रियज्ञानवती सृष्टिर्भवति मैथुनात् ॥
त्यक्तं तन्मनसा येन जीवन्मुक्तः स एव हि ॥ २५ ॥

यथेच्छालाभसन्तुष्टः स्तौति नो न च निन्दति ॥
न मुत्सुखे न दुःखं स्यात्कर्मणा स विमुच्यते ॥ २६ ॥

हित्वा विषयसौख्यं च परं सन्तोषमास्थितः ॥
यावद्देहस्य निर्वाहस्तावत्कालं परिक्षिपेत् ॥ २७ ॥

कामक्रोधादिरहितस्तपस्तपति निर्जने ॥
न फलं कामयेत्किञ्चिज्जीवन्मुक्तः स एव हि ॥ २८ ॥

दुर्विज्ञेया दुर्निवारा महाकालस्य गेहिनी ॥
तदंशाराधनात्सैव प्रसन्ना चेद्विमुञ्चति ॥ २९ ॥

सुबुद्धिभिः प्रियैः पुत्रैर्यथा माता प्रतार्यते ॥
तथा प्रतार्यते चेयं जीवन्मुक्तः स उच्यते ॥ ३० ॥

कृतं बन्धार्थमनया भक्ष्यं पानं च मैथुनम् ॥
येनैवं विदितं बन्धात्स्वयं मुक्तस्तदा भवेत् ॥ ३१ ॥

देवाः पूजनमिच्छन्ति तस्माद्बद्धाः परिग्रहात् ॥
शुकवद्योप्रतिग्राही जीवन्मुक्तः स कोपि हि ॥ ३२ ॥

शौरं प्रकुर्वतो नित्यं विष्ठाबुद्धिः कलेवरे ॥
देहाभिमानो गलितो जीवन्मुक्तस्स एव हि ॥ ३३ ॥

एष वै सुगमोपायो नात्र कार्या विचारणा ॥
वेदस्याभ्यासतः सर्वं यो नयेत्स तु मोक्षवान् ॥ ३४ ॥

कोहं किं दृश्यते कर्ता कोस्य याति क्व चेतसि ॥
इति सम्भावयन्नित्यं महाकाले लयं व्रजेत् ॥ ३५ ॥

वामिकैः कौलिकैस्तस्मादज्ञातैश्च गुरुं विना ॥
समस्तैरथवाज्ञातैर्वञ्चितेयं न चेतरैः ॥ ३६ ॥

बद्धेयो बन्धनैस्तस्य त्रोटयेद्वं धनानि च ॥
भावयेद्यो महाकालं जीवन्मुक्तस्तदा भवेत् ॥ ३७ ॥

बन्धमोक्षप्रकारास्तु तन्त्रे सङ्कलिता मया ॥
यैर्ज्ञाता गुरुमार्गेण तैर्बन्धोयं विमोचितः ॥ ३८ ॥

कुगुरोर्मुखतो वापि ज्ञानाभासाच्च पुस्तकात् ॥
स्वधर्मं ये परित्यज्य येत्र मग्नास्तु ते हताः ॥ ३९ ॥

तस्माद्धर्मं प्रवक्ष्यामि वामिनामधिकारिणाम् ॥
येषां भोगोपि मोक्षोपि भवेद्येषां च दुर्गतिः ॥ ४० ॥

अवश्यमेव कर्तव्याः शिष्या वामेधिकारिणः ॥
गुरोस्तेन भवेत्तेजः शिष्योपि लभते सुखम् ॥ ४१ ॥

मोहेन चाथ लोभेन दीक्षामनधिकारिणे ॥
यो दद्यात्स दरिद्रः स्याच्छिष्यः स्याद्दुःखभाजनम् ॥ ४२ ॥

पूर्वोक्तलक्षणेष्वेकं यस्मिन्विप्रे न दृश्यते ॥
उपतापं स वै कुर्यात्किञ्चिद्ब्राह्मणतां गतः ॥ ४३ ॥

अधिकारो न मे जातः समस्तब्रह्मकर्मणाम् ॥
इह लोके परत्रापि कथं लप्स्याम्यहं सुखम् ॥ ४४ ॥

अन्धश्च यः परद्रव्ये परस्त्रीषु नपुंसकः ॥
परापवादे यो मको नित्यमित्थं विचारयेत् ॥ ४५ ॥

तस्यैव ब्राह्मणस्यात्र ब्राह्मणत्वाधिकारिता ॥
अब्राह्मणास्तु ये केचिन्मासे मद्ये रता वयम् ॥ ४६ ॥

कथं लभामहे मोक्षमिति चिन्तापरायणाः ॥
पूर्वोक्तलक्षणैर्युक्तास्तेपि शिष्याः प्रकीर्तितः ॥ ४७ ॥

पञ्चलक्षणसंयुक्तो ब्राह्मणः काल एव सः ॥
अहं ब्रह्मा तथा विष्णुस्तस्याज्ञावशवर्तिनः ॥ ४८ ॥

स चेद्वामपथं प्राप्तः पुनः श्वा चापि जायते ॥
चतुर्लक्षणसम्पन्नो विप्रो ज्ञेयोस्ति मध्यमः ॥ ४९ ॥

ताभ्यां दत्तोऽभाग्यवशात्तान्त्रिकः कोपि चेन्मनुः ॥
सद्यः फलति चाद्यस्य क्रियया चापरस्य तु ॥ ५० ॥

लक्षण त्रययुक्तो यस्तस्य वैदिकतान्त्रिके ॥
यथोक्ताचरणादेव फलदे स्तो न वामके ॥ ५१ ॥

लक्षणद्वयसंयुक्तस्तस्य वामश्च दक्षिणः ॥
मन तुल्यफलौ स्यातां न कदाचन वैदिकः ॥ ५२ ॥

एकलक्षणसंयुक्तो वामस्तस्य फलप्रदः ॥
शूद्रादियवनान्तानां सिद्धिर्वामपथे स्थिता ॥ ५३ ॥

वाममार्गस्थितो विप्रस्तुलसीं न स्पृशेत्क्वचित् ॥
न स्पृशेद्वैष्णवं विप्रं प्रणमेन्न च वैदिकम् ॥ ५४ ॥

हीनो विप्रः क्षत्त्रियाद्या वाममार्गरता अपि ॥
तद्वर्त्मत्वाद्व्रतैर्विष्णोः पूता निष्किल्विषास्तथा ॥ ५५ ॥

वक्ष्येथ प्रकटं धर्मं वामगानां सुखावहम् ॥
सत्सङ्गश्च विवेकश्च निश्चलं नयनद्वयम् ॥ ५६ ॥

यस्य नास्तीतरस्सोपि कथं वामे सुखं लभेत् ॥
सांसारिकसुखासक्तं ब्रह्मज्ञोस्मीति वादिनम् ॥ ५७ ॥

कर्मब्रह्मोभयान्नष्टं त्यजेदुत्पथगं यथा ॥
मद्यं मांसं सुरापानं मत्स्यस्त्रीबान्धवास्तथा ॥ ५८ ॥

अनेके यत्र जायन्ते तत्र वामो गतिप्रदः ॥
स्थित्वा तु दक्षिणे मार्गे गुप्तं भुक्तं पलादिकम् ॥ ५९ ॥

स याति नरकं घोरं विष्ठार्या जायते कृमिः ॥
अतो द्विजैः सदा सेव्यो वैदिको धर्मसञ्चयः ॥ ६० ॥

विना बलिं पलं योत्ति विना पूजां सुरां पिबेत् ॥
दूतीयज्ञं विनान्यस्य स्त्रीगो वापि स नारकी ॥ ६१ ॥

अबुद्धा समयाचारं कुलधर्मं 4 चरेद्यदि ॥
स गुरुश्चैव शिष्यश्च योगिनीनां भवेत्पशुः ॥ ६२ ॥

वाममार्गमजानन्योधिकारी मोक्षमिच्छति ॥
पारावारमपारं स बाहुभ्यां तर्तुमिच्छति ॥ ६३ ॥

सर्वकर्मविहीना ये वर्णाश्रमविवर्जिताः ॥
कौले वा वाममार्गे ते भुक्तिमुक्त्योश्च भाजनम् ॥ ६४ ॥

निन्दन्तु बान्धवास्सर्वे त्यजन्तु तु सुतादयः ॥
जना हसन्तु मां दृष्ट्वा राजानो दण्डयन्तु वा ॥ ६५ ॥

रोगदारिद्र्यदुःखाद्यैः पीडितोप्यनिशं त्वहम् ॥
लक्ष्मीस्तिष्ठतु वा यातु न मुञ्चामि पथस्त्विमान् ॥ ६६ ॥

एवं यस्य दृढा भक्तिस्स वामे सिद्धिमाप्नुयात् ॥
नार्थलोभान्न च क्रोधान्न द्वेषान्न च मत्सरात् ॥ ६७ ॥

न कामान्न भयाद्वापि मार्गं प्राप्तं परित्यजेत् ॥
प्रत्यहं नार्चयेद्देवीं मार्गेस्मिन्विघ्नमाप्नुयात् ॥ ६८ ॥

गुरुकारुण्यपूतो हि देहनिर्घूतकल्मषः ॥
कुलपूजारतो यस्तु सोयं कौलो न चेतरः ॥ ६९ ॥

परोक्षे कोनुजानीते कस्य किञ्च भविष्यति ॥
यद्वा प्रत्यक्षफलदन्तदेवोत्तमदर्शनम् ॥ ७० ॥

गुरूपदेशरहिता महान्त इति केचन ॥
मोहयन्ति जनान्केचित्स्वयं पूर्वविमोहिताः ॥ ७१ ॥

पेयं मद्यं पलं खाद्यं समालोक्यं प्रियासुखम् ॥
इत्येवाचरणं प्रोक्तं पामराः प्रवदन्ति च ॥ ७२ ॥

मद्यपानेन मुनयो यदि सिद्धिं लभन्ति चेत् ॥
मद्यपानरताः सर्वे किं सिद्धा न भवन्त्विमे ॥ ७३ ॥

मांसभक्षणमात्रेण यदि पुण्या गतिर्भवेत् ॥
क्रव्यादानां तदा मोक्षो मांसादन्यन्न भुञ्जते ॥ ७४ ॥

स्त्रीसम्भोगेन भो देवा यदि मुक्तिः प्रजायते ॥
तदा सर्वेपि मुक्तास्स्युः कस्य जन्म भविष्यति ॥ ७५ ॥

कृपाणधारागमनं व्याघ्रकर्णावलम्बनम् ॥
भुजङ्गावरणं नूनं शक्यं वै कुलवर्त्मतः ॥ ७६ ॥

वृथापानं तु देवेशि सुरापानमिहोच्यते ॥
तन्महापातकं ज्ञेयं वेदादिषु निरूपितम् ॥ ७७ ॥

अनाघ्रेयमनालोक्यमवश्यं चाप्यपेयकम् ॥
मद्यं मांसं पशूनां तु कौलिकानां महत्फलम् ॥ ७८ ॥

अमेध्यानि द्विजातीनां मद्यान्येकादशैव व हि ॥
द्वादशं तु सुरामद्यं सर्वेषामुत्तमं स्मृतम् ॥ ७९ ॥

तस्माद्विप्रो हि राजन्यो वैश्यश्च न सुरा पिबेत् ॥
सुरादर्शनमात्रेण कुर्यात्सूर्यावलोकनम् ॥ ८० ॥

तस्य 5 संसर्गमात्रेण प्राणायामत्रयं चरेत् ॥
आजानुभ्यां भवेत्स्नानं नाभ्यामुपवसेदहः ॥ ८१ ॥

ऊर्ध्वं नाभेस्त्रिरात्रं तु मद्यस्य स्पर्शने विधिः ॥
सुरापाने कृते वह्निज्वलद्दण्डं प्रवेशयेत् ॥ ८२ ॥

मुखे तेन विनिर्दग्धे तच्छुद्धिं समवाप्नुयात् ॥
अभिघातेन यो हन्यादात्मार्थं प्राणिनः प्रिये ॥ ८३ ॥

निवसेन्नरके घोरे दिनानि पशुरोमभिः ॥
सम्मितानि दुराचारस्तिर्यग्योनिषु जायते ॥ ८४ ॥

अनुमन्ता विभक्ता च निहन्ता क्रयविक्रयी ॥
संस्कर्ता चोपभोक्ता च खादत्यष्टौ च ते समाः ॥ ८५ ॥

धनेनाक्रीय तं हन्ति खादिता चोपभोगकः ॥
घातको वधबन्धाद्यरित्येकस्त्रिविधो मतः ॥ ८६ ॥

तृणं चाप्यविधानेन छेदयेन्न कदाचन ॥
विधिवद्गां द्विजं वापि हत्वा पापैर्न लिप्यते ॥ ८७ ॥

सर्वेभ्यः कौलिकः श्रेष्ठ ऊर्ध्वाम्नायी च वामगः ॥
अधिकारी भक्तियुक्तो यो भवेद्गुरुसेवकः ॥ ८८ ॥

संहारः पश्चिमाम्नाये उत्तरेनुग्रहो भवेत् ॥
मन्त्रयोगं विदुः पूर्वं भक्तियोगं तु दक्षिणम् ॥ ८९ ॥

पश्चिमं कर्मयोगं तु ज्ञानयोगं तथोत्तरम् ॥
मातृकान्याससंस्थाने वामे कौलिकवर्त्मनि ॥ ९० ॥

प्रपञ्चयोगनामानं न्यासं कुर्यात्स उच्यते ॥
श्रीप्रपञ्चे द्विपमाये कमलाजलधी तथा ॥ ९१ ॥

गिरिविष्णुवल्लभे च पट्टनं पद्मधरिणी ॥
समुद्रतनयापीठे क्षेत्रयुग्लोकमातृका ॥ ९२ ॥

वनं कमलवासिन्यपीन्दिरा चाश्रमस्तथा ॥
मागुहौ तु रमागुह्यौ पद्माचरणकौ तथा ॥ ९३ ॥

नारायणप्रियोद्भिज्जौ द्विलक्ष्मीः स्वेदजान्विता ॥
अण्डजाश्च महालक्ष्मीस्तु जरायुजलक्ष्मिका ॥ ९४ ॥

स्वरस्थाने षोडशैव युग्मानि स्पर्शकेष्वथ ॥
आर्यालवौ त्रुट्यमे च चण्डिका च कलान्विता ॥ ९५ ॥

काष्ठादुर्गे निमेषाख्यशिवे श्वासो ह्यपर्णिका ॥
अम्बिकाघटिके चेव मुहूर्तश्च सतीयुतः ॥ ९६ ॥

ईश्वरीप्रहरौ चैव शाङ्करी दिवसान्विता ॥
ईशानी चापि सन्ध्या च पार्वती रात्रिसंयुता ॥ ९७ ॥

सर्वमङ्गलया युक्तां स्थितिं न्यस्येत्ततः परम् ॥
दाक्षायण्या तथा वारं हैमवत्यायुतं न्यसेत् ॥ ९८ ॥

नक्षत्रं च महामायायुक्तं योगं न्यसेत्ततः ॥
माहेश्वर्या च करणं मृडान्या पक्षमेव च ॥ ९९ ॥

रुद्राणी माससंयुक्ता शर्वाणी राशिसंयुता ॥
अथर्तुपरमेश्वर्यौ काली चायनसंयुता ॥ १०० ॥

कात्यायनी वत्सरयुग्गौरी युगसमन्विता ॥
भवानीप्रलयौ चाथ यादिस्थानेषु विन्यसेत् ॥ १०१ ॥

पञ्चभूतयुता ब्राह्मी पञ्चतन्मात्रसंयुता ॥
वागीश्वरी ततो वाणी पञ्चकर्मेन्द्रियान्विता ॥ १०२ ॥

सुज्ञानेन्द्रियसावित्री सानिला च सरस्वती ॥
गायत्री गुणयुक्ता च वागन्तःकरणान्विता ॥ १०३ ॥

अवस्थायुक् शारदा च धातुयुक्ता च भारती ॥
दोषयुक्ता प्रिया चेति व्यापकं विद्यया न्यसेत् ॥ १०४ ॥

त्रितारमूलविद्यान्ते मातृकाक्षरतः परम् ॥
वदेत्प्रपञ्चरूपायै श्रियै नम इति क्रमात् ॥ १०५ ॥

प्रपञ्चादिभिराढ्यान्त्यवर्णयुक्तिं तु योजयेत् ॥
मातृकान्याससम्प्रोक्तस्थानेषु तदनन्तरम् ॥ १०६ ॥

त्रितारमूलकस्यैव प्रपञ्चस्य स्वरूपतः ॥
आर्या पराम्बादेव्यै च नमोक्त्या व्यापकं न्यसेत् ॥ १०७ ॥

प्रपञ्चन्यास एवं स्याद्भुवनन्यास उच्यते ॥
त्रितारमूलमन्त्रान्ते विभागेनाक्षराणि च ॥ १०८ ॥

सानुस्वाराणि चोच्चार्य भूतलादिकनाम च ॥
लोकानीह शतान्ते तु कोटि गुह्यपदं वदेत् ॥ १०९ ॥

योगिनीमूलदेव्यास्तु नामाथाधारशक्ति च ॥
देव्यै नम इति प्रोच्य प्रोक्ताङ्गेषु प्रविन्यसेत् ॥ ११० ॥

अक्षराणां विघागस्तु अकारादित्रयं त्रयम् ॥
अर्धेन्दुयुक् ततः स्थाने स्थानयुग्मे द्वयं द्वयम् ॥ १११ ॥

कादिकास्सप्तवर्गाश्च लक्षं चापि चतुर्दश ॥
अथ नामानि लोकानामतलं वितल तथा ॥ ११२ ॥

सुतलाख्यं महातलं तलातलरसातले ॥
पातालं भूर्भुवः स्वश्च महर्जनस्तपस्तथा ॥ ११३ ॥

सत्यं चेत्यथ गुह्यादिस्थाने यत्र तदुच्यते ॥
गुह्यान्तरं द्वितीयेथ चातिगुह्यमचिन्त्यकम् ॥ ११४ ॥

महागुह्यं स्वतन्त्रं च परमं गुह्यमग्रतः ॥
ॐकारं योगिनीस्थाने रहस्यं ज्ञानमग्रतः ॥ ११५ ॥

रहस्यं च क्रियामुक्त्वाथाष्टमे विनियुज्यते ॥
रहस्यं डाकिनीं चाथ महारहस्यहाकिनी ॥ ११६ ॥

महागुप्तं काकिनीं च गुप्ततरं च शाकिनी ॥
गुप्तं श्रीहाकिनीं पश्चान्महाकायं च याकिनीम् ॥ ११७ ॥

न्यसेद्वामी क्रमान्न्यस्यौ गुल्फौ जघनजानुनी ॥
ऊरुगुल्फौ च मलाधारं स्वाधिष्ठाननाभिकम् ॥ ११८ ॥

हृदंसकण्ठभालानि ब्रह्मरन्ध्रमिति क्रमात् ॥
त्रितारमूलमन्त्रान्ते चतुर्दश तु वं वदेत् ॥ ११९ ॥

अधिपायै पराम्बायै देव्य हृद्व्यापकं न्यसेत् ॥
मूर्तिन्यासं प्रवक्ष्यामि तत्रादौ प्रणवत्रयम् ॥ १२० ॥

मूलमन्त्रं समुच्चार्य न्यासं कुर्यात्तदुच्यते ॥
चतुर्थीनमसा युक्तान्प्रोक्ताङ्गेषु प्रविन्यसेत् ॥ १२१ ॥

मानादौ प्रिया चान्ते मस्तके केशवाक्षये ॥
मुखे नारायणौष्ठे 6 च दक्षस्कन्धे च माधवः ॥ १२२ ॥

ईशान्या सहितो वामे गोविन्दश्चोग्रयान्वितः ॥
विष्णूर्ध्वनयने दक्षपार्श्वे तु मधुसूदनः ॥ १२३ ॥

ऋद्धिश्च वामवार्श्वेऽथ दक्षकट्यां त्रिविक्रमः ॥
रुक्मिणीयुग्वामकट्यां कान्तियुक्तस्तु वामनः ॥ १२४ ॥

दक्षोरौ धीधरोद्धारौ वामे दोषाकरस्थितौ ॥
एकनासाहृषीकेशो दक्षजानुनि विन्यसेत् ॥ १२५ ॥

एकारिणी पद्मनाभौ वामे चौघवती भवेत् ॥
दामोदरोथ दक्षायां जङ्घायां वासुदेवयुक् ॥ १२६ ॥

अर्कमानाथ वामायां जङ्घायामञ्जनप्रभा ॥
सङ्कर्षणयुता दक्षपादे प्रद्युम्नसंयुता ॥ १२७ ॥

अस्थिमाला वामपादे ह्यनिरुद्धो धरायुतः ॥
एते षोडश विन्यस्याः सानुस्वारादिपूर्वकाः ॥ १२८ ॥

विष्णुभक्तियुतानान्तु न्यासोयं परिकीर्तितः ॥
शैवन्यासे दक्षपादे करभद्राभवौ मतौ ॥ १२९ ॥

वामे खगबलाशर्वौ गतिदा च फलप्रदः ॥
ऋद्धियुग्दक्ष ईशानौ जगत्स्थानसमन्वितः ॥ १३० ॥

क्रमान्न्यसेत्तथा चैव तत्पुरुषोडुवल्लभौ ॥
अघोरा ज्ञाननादी च ततष्टङ्को धरायुतः ॥ १३१ ॥

वामदेवोथ सद्याख्या जष्टङ्कधरदामिनी ॥
ब्राह्मोत्राथ भवेन्न्यासः पादे ब्रह्मा च पक्षिणी ॥ १३२ ॥

प्रजापती रञ्जनी च जङ्घयोरथ जानुनोः ॥
वेधालक्ष्म्यौ चोरुगे च स्रष्टारं हरिताननाम् ॥ १३३ ॥

ललाटे ललितां न्यस्येत्तथैव चतुराननम् ॥
क्षमां हिरण्यगर्भं च ब्रह्मरन्ध्रे प्रविन्यसेत् ॥ १३४ ॥

त्रितारमूलमन्त्रान्ते श्रीत्रिमूर्तिपदं वदेत् ॥
आर्यापराम्बादेव्यै च नमसा व्यापकं चरेत् ॥ १३५ ॥

एवं न्यासविधिं कृत्वा कुर्याद्यश्च जपादिकम् ॥
भूतप्रेतजनाद्यैश्च स जपी नैव बाध्यते ॥ १३६ ॥

वामाचारिमते वच्मि पात्रादेरथ लक्षणम् ॥
आधारेण विना अंशा न च तृप्यन्ति मातरः ॥ १३७ ॥

चतुष्पदं च त्रिपदं षट्पदं वर्तुल तथा ॥
विप्रादीनां च वर्णानां पात्रलक्षणमुच्यते ॥ १३८ ॥

नारिकेलस्वर्णतारकाचशुक्तिशिलोद्भवम् ॥
शङ्खसद्दारुकूर्मादिकपालालाबुमन्मयम् ॥ १३९ ॥

उत्तमं मध्यमं हीनं विप्रादीनां प्रकीर्तितम् ॥
नातिस्थलं नातिसूक्ष्मं छिन्नं भिन्नं विवर्जयेत् ॥ १४० ॥

ताम्रकांस्यादिमिर्लोहैः पात्रं नैव तु कारयेत् ॥
ब्रह्मसिद्धिः सुवर्णे स्याद्दुःखान्तस्तारपात्रतः ॥ १४१ ॥

शान्तिः शिलायाःस्तम्भस्तु मृन्मये नारिकेलजे ॥
वश्याद्यं कूर्मजे ज्ञानं शुक्तिर्मुक्तिप्रदायिनी ॥ १४२ ॥

पुण्यवृक्षजपात्रं तु पापघ्नं मृत्त वृत्तिकृत् ॥
कपाले वीरसंसिद्धिरलावौ योगसिद्धयः ॥ १४३ ॥

अम्भसां द्वादशप्रस्थं चतुःप्रस्थं तु तण्डुलाः ॥
प्रस्थार्धं तण्डुलं पक्त्वा तावन्मात्रांस्तु सुन्दरान् ॥ १४४ ॥

शीतादिरहिते स्थाने दिवसद्वयमास्यते ॥
पश्चादग्नौ समारोप्य जम्बालसदृशं पचेत् ॥ १४५ ॥

पादप्रस्थांस्तण्डुलांश्च तन्मात्रान्सुन्दरान्क्षिपेत् ॥
पुनर्दिनद्वयं स्थाप्य पुनरेवं प्रकल्पयेत् ॥ १४६ ॥

अर्कं तस्य समादाय तण्डुले सुविनिःक्षिपेत् ॥
पुनरेवं त्रिधा कुर्यात्ताण्डुलीया सुरा स्मृता ॥ १४७ ॥

अयमेव भवेत्सोमः सोमयागफलप्रदः ॥
दूतीयागे भवेद्योगे सोमपानं तु तत्स्मृतम् ॥ १४८ ॥

या गतिः सोमयज्ञेन कौलिकानामननेसाम् ॥
भोगः स्वर्गश्च भवति विना कष्टेन वामिनाम् ॥ १४९ ॥

एवं तु यवपिष्टोत्थो यवसोम इति स्मृतः ॥
यवतण्डुलयोगेन शक्तिसोमो निगद्यते ॥ १५० ॥

स्विन्नकुट्टितगोधूमाः समं विश्वेन 7 संयुताः ॥
स्थापिता द्वादशाहं तु वारुण्या परिवारिताः ॥ १५१ ॥

तन्मद्यं सूर्यसञ्ज्ञं स्याद्योगिनीमदवर्धनम् ॥
पीतं तच्चक्रपूजान्ते वाजपेयफलप्रदम् ॥ १५२ ॥

इदमेव त्रिधा युक्तं दलं मद्यं च साधितम् ॥
अग्निर्भवेत्तस्य पानादग्निदानफलं लभेत् ॥ १५३ ॥

अग्निर्यदा सप्तदिनं वारुणीयन्त्रगः कृतः ॥
पचेदनलनामासौ महापातकनाशनः ॥ १५४ ॥

दशप्रस्थो गुडः प्रोक्तस्तावद्बब्बूलजास्त्वचः ॥
जम्बूत्वग्घातकीपुष्पं तदर्धं नारिकेलजम् ॥ १५५ ॥

कुसुमं च तदर्धं स्यात्तदर्धा च हरीतकी ॥
तावद्विभीतकं प्रोक्तं चतुर्थांशं कटुत्रयम् ॥ १५६ ॥

तावच्च चित्रकं तस्माद्गुडो द्वादशभागकः ॥
करेण भ्रामयेत्सम्यगनुलोमविलोमतः ॥ १५७ ॥

अष्टोत्तरशतावृत्त्या त्रिसन्ध्यं प्रतिवासरम् ॥
द्वादशाहेन पाकः स्याद्वारुणीयन्त्रगं पचेत् ॥ १५८ ॥

एषा गौडीति विख्याता महामदकरी मता ॥
शिवेन निर्मिता पूर्वं स्वयं पीता तु भैरवैः ॥ १५९ ॥

द्विगुणं मकरन्दस्य वारि संयोजयेद्गुडे ॥
षोडशाहेन पाकस्स्याच्छेषमन्यत्पुरोक्तवत् ॥ १६० ॥

सर्वदेवप्रिया चेयं वशीकरणमुत्तमम् ॥
देवानां शक्तयो वश्या मानुषीणान्तु का कथा ॥ १६१ ॥

हरीतकी चित्रकं च मरिचं धातकी तथा ॥
मधूकपुष्पं क्षौद्रं च भागैकेन विवर्धितम् ॥ १६२ ॥

अशीतिगुडसम्मिश्रं शेषमन्यत्तु पूर्ववत् ॥
इदं मनोहरं मद्यं योगिनीपानमुत्तमम् ॥ १६३ ॥

माद्यभावं प्रवक्ष्यामि बिन्दुसंसाधकं सुराः ॥
माहिषं दधि सङ्ग्राह्यं चतुःशतगुणो गुडः ॥ १६४ ॥

मोचाफलस्य पक्वस्य मर्दितस्य रसस्तथा ॥
ग्राह्यो दधिचतुर्थांशस्तत्सम्मर्द्यघटे क्षिपेत् ॥ १६५ ॥

इदं सुरातोप्यधिकं ब्राह्मणानां प्रशस्यए ॥
गौडी माध्वी तथा पैष्टी त्रिविधा तु सुरा स्मृता ॥ १६६ ॥

शूद्राणामुचिता चेयं न स्यात्क्षत्त्रियवैश्ययोः ॥
ब्रह्मानन्दसुरा यैस्तु विप्रैः पीता तु कौलिकैः ॥ १६७ ॥

न चोन्मादकरी तेषां सुरा बुद्धिविवर्द्धिनी ॥
कथिता ब्रह्मचिन्तैवं नित्यमेवं मतं सताम् ॥ १६८ ॥

ब्राह्मणस्य सुरा मद्यवासना प्रभवेद्यदि ॥
चाण्डालवद्बहिष्कार्यो नासौ वामी न कौलिकः ॥ १६९ ॥

वामिनां कौलिकानान्तु मुखे तिष्ठन्ति देवताः ॥
नयन्ति ते तु तद्गन्धं स तु वन्द्यो भवेद्द्विजः ॥ १७० ॥

देवता यस्य न मुखे साक्षाच्चण्डाल एव सः ॥
सर्वसिद्धिकरी पैष्टी गौडी भोगप्रदायिनी ॥ १७१ ॥

माध्वी मुक्तिकरी ज्ञेया द्राक्षी राज्यकरी मता ॥
विद्याप्रदैक्षवी प्रोक्ता खार्जूरी रिपुनाशिनी ॥ १७२ ॥

तालजा स्तम्भने शस्ता पनसाख्या शुभप्रदा ॥
नारिकेलोद्भवा श्रीदा निम्बजा रोगनाशिनी ॥ १७३ ॥

मधूकजा ज्ञानकरि मैरेया पापनाशिनी ॥
यत्सानन्दं रुचिकरं सामोदं च मनोहरम् ॥ १७४ ॥

मद्यं तदुत्तमं देवीदेवताप्रीतिकारकम् ॥
मद्यं मांसं च विजयामष्ट गन्धैर्विमिश्रयेत् ॥
सम्मर्द्य वटिकाः प्राग्वज्जले देयास्ततोर्चयेत् ॥ १७५ ॥

धत्तूरबीजं विजया जातीपत्रं फलं तथा ॥
अकारकरभो वत्सवृक्षस्य च तु वल्कलम् ॥ १७६ ॥

मद्यं च भागवृद्धांशं मर्दयित्वा वटीकृतम् ॥
अयं बिन्दुश्चाष्टगन्धाभिधानो देवताप्रियः ॥ १७७ ॥

गुडमिश्रेण तक्रेण तथा च मधुभोजिना ॥
पूजां विप्रगणः कुर्यादेतत्कर्म न लोपयेत् ॥ १७८ ॥

प्रमादाद्यदि लोपेत देवताशापमाप्नुयात् ॥
विजयाया द्रवैर्वाथाभावे तर्पणमाचरेत् ॥ १७९ ॥

यथाहिफेनभुक् चापि तं विना व्याकुलो भवेत् ॥
तथा कौलिकवामानां मन्त्रदेवाः श्रमातुराः ॥ १८० ॥

विना मद्येन मांसेन साधकं पीडयन्ति हि ॥
ताभ्यां भोगं च भक्तेभ्यो मन्त्रा यच्छन्ति तं विना ॥ १८१ ॥

निष्फला एव जायन्ते भ्रमयन्ति च साधकम् ॥
तस्मात्पतन्ति नो वामे क्षुद्रा अपि विचारतः ॥ १८२ ॥

मांसन्तु त्रिविधं प्रोक्तं खभूजलचरोद्भवम् ॥
यथासम्भव मेकैकं तर्पणाय प्रयोजयेत् ॥ १८३ ॥

हन्यान्मन्त्रेण चानेन ह्यभिमन्त्र्य पशुन्तथा ॥
गन्धपुष्पाक्षतैः पूजा चान्यथा नरकं व्रजेत् ॥ १८४ ॥

शिवा कृतमिदं पिण्डमतस्त्वं शिवताङ्गतः ॥
उद्भुध्यस्व पशोत्वं हि नाशिवस्त्वं शिवो ह्यसि ॥ १८५ ॥

ब्रह्मा स्यात्सलिले विष्णुर्गन्धे रुद्रश्च तद्भवे ॥
परमात्मा तदानन्दे तस्मात्सेव्यमिदं प्रिये ॥ १८६ ॥

मांसाभावे तु लशुनमार्द्रकं नागरन्तु वा ॥
पलाण्डुं वाथ वटका मसूराणान्तथैव च ॥ १८७ ॥

मत्स्यमांसविहीनेन मद्येनापि च तर्पयेत् ॥
न कुर्यान्मांसमत्स्याभ्यां विना द्रव्येण पूजनम् ॥ १८८ ॥

पिशितन्तिलमान्त्रतु तिलार्धमपि बिन्दुना ॥
नराणां देवताभावोन्यथा प्रेतविभावनम् ॥ १८९ ॥

ब्राह्मणैः कौलिकैः पेयं सर्वक्षत्रै रणागमे ॥
वैश्यिर्गोलम्भने पेयं शूद्रैः स्त्रीरतिकर्मणि ॥ १९० ॥

देवान्पितॄन्समभ्यर्च्य शक्तिशास्त्रोक्तवर्त्मना ॥
गुरुं स्मरन्पिबेन्मद्यं खादेन्मासं न दोष भाक् ॥ १९१ ॥

ब्रह्मध्यानस्य स्थैर्यार्थे देवतातृप्तिहेतवे ॥
सेवेत मधुमांसानि तृप्तये चेत्स पातकी ॥ १९२ ॥

मत्स्यमासवसादीनां पदार्थानां निषेवणात् ॥
यागकालं विनान्यत्र स महापातकी भवेत् ॥ १९३ ॥

यथा क्रतुषु विप्राणां सोमपानं न दूषितम् ॥
मद्यपानं च कौलानां पूजान्ते न विगर्हितम् ॥ १९४ ॥

श्रीगुरोः कुलशास्त्रेभ्यः सम्यग्विज्ञाय वामिना ॥
पञ्चमुद्रा निषव्यन्ते चान्यथा पतितो भवेत् ॥ १९५ ॥

आवृत्तिं गुरुभक्तिं च तथा देवादिपूजनम् ॥
वीरोत्सवं विना पानाद्देवताशापमाप्नुयात् ॥ १९६ ॥

दक्षयज्ञे यदा देवि त्वया त्यक्तं कलेवरम् ॥
अहं गृहीत्वा तत्स्कन्धे चितां वेष्टुं समुद्यतः ॥ १९७ ॥

वडवाग्नेः प्रवेशार्थं यत्रयत्राभवत्स तु ॥
तत्रतत्रापि शक्रेण तूर्ण निर्वापितो जलैः ॥ १९८ ॥

एवं पर्यटतो वर्षं प्रस्वेदो मे महानभूत् ॥
तद्बिन्दुपातनिर्दग्धा धरणीयं तदाभवत् ॥ १९९ ॥

तदा सम्प्रार्थितो विष्णुर्धरणीरक्षणाय च ॥
स एव लघुभिर्बाणैस्त्वदङ्गानि समाच्छिनत् ॥ २०० ॥

चतुराशीतिखण्डानि कृत्वासौ पातयेद्भुवि ॥
वातेन पीडितश्चाहं यातो धर्मोखिलस्तदा ॥ २०१ ॥

विष्णुश्च प्रकटीभूय पादयोः पतितो मम ॥
उत्थाप्य च परिष्वक्तस्तव शोकश्च विस्मृतः ॥ २०२ ॥

तावद्ब्रह्मादयो देवा नारदाद्या महर्षयः ॥
सन्तुष्टुवुस्तदा वाक्यं विष्णुः प्रोवाच पार्वति ॥ २०३ ॥

ज्ञानदोसि महेश त्वं कथं मोहमुपागतः ॥
सत्याः शरीरेण सह प्रवेष्टुं हव्यवाहने ॥ २०४ ॥

अनुगच्छेत्पतिं नारी न पुमांस्तां च गच्छति ॥
इति शास्त्रमनादृत्य कथं देव विमोहितः ॥ २०५ ॥

एवं वदति देवेशे ब्रह्मणा मां हरिं तथा ॥
प्रोचुः श्लेषगिरोऽङ्गैस्तु सत्याश्चेदं धरातलम् ॥ २०६ ॥

स्थले स्थले शवस्पर्शाद्ब्रह्मकर्मविवर्जितम् ॥
तस्या धरायाः संशुद्धिं विप्राणां वापि शुद्धताम् ॥ २०७ ॥

ब्राह्मवाक्यस्य सत्यत्वं यथा भवति तत्कुरु ॥
ततो ध्यात्वा मया प्रोक्तं सम्मतीकृत्य विष्णुना ॥ २०८ ॥

यत्र वेदक्रिया ह्यस्ता तत्र तन्त्रं प्रवर्त्यताम् ॥
ये विप्राः शापनिर्दग्धाः शब्दब्रह्मविवर्जिताः ॥ २०९ ॥

तेषां तु कुलधर्मोयं भुक्तिमुक्त्योस्तु साधनम् ॥
ये विप्राः पीठसञ्जाताः शापनिर्दग्धविप्रताः ॥ २१० ॥

तेषां कुलेधिकारोयं मार्गस्यास्य प्रजायते ॥
तत्कुले एव पूज्यत्वात्कौलीनपथ उच्यते ॥ २११ ॥

वाममार्गस्ततो न्यूनस्तेषां यौ क्षत्रवैश्यकौ ॥
यजमानौ तयोस्तत्राधिकारः समुदाहृतः ॥ २१२ ॥

सिद्धान्तीयस्ततो न्यूनस्तत्र शूद्राधिकारता ॥
ये पारम्पर्यमज्ञात्वा कौलधर्मे विशन्ति ते ॥ २१३ ॥

निःस्वाः सन्ततिहीनाश्च रोगिणो नात्र संशयः ॥
कौलज्ञाने ह्यसिद्धो यः पलं वै भोक्तुमिच्छति ॥ २१४ ॥

स महापातकी देवि सर्वकर्मबहिष्कृतः ॥
समयाचारहीनस्य स्वैरवृत्तेर्दुरात्मनः ॥ २१५ ॥

न सिद्धयः कुलं नश्येत्तत्संसर्गं न कारयेत् ॥
यः शास्त्रविधिमुत्सृज्य वर्तते कामचारतः ॥ २१६ ॥

स सिद्धिमिह नाप्नोति परत्र च पराङ्गतिम् ॥
लोके भवति निन्द्यश्च वेदे चैव तथैव सः ॥ २१७ ॥

कुलद्रव्याणि सेवेत योन्यदर्शनमाश्रितः ॥
तदङ्गरोमसङ्ख्यातभूतयोनिषु जायते ॥ २१८ ॥

मद्येन स्फालितात्मा यो न किञ्चिदपि वेत्ति चेत् ॥
न ध्यानं न तपश्चर्या न धर्मो न च सत्क्रिया ॥ २१९ ॥

न दैवं न गुरुर्नात्मा विचारो यदि कौलिके ॥
केवलं विषयासक्तः पतत्येव न संशयः ॥ २२० ॥

लिङ्गत्रयविशेषज्ञः षडाधारविभेदकः ॥
पीठस्थानानि चागत्य महायज्ञवनं श्रयेत् ॥ २२१ ॥

आमूलाधारमाब्रह्मरन्ध्रं गत्वा पुनः पुनः ॥
चिच्चन्द्रकुण्डलीशक्तिमुद्रया स्यात्सुखाशयः ॥ २२२ ॥

व्योमपङ्कजनिस्पन्दसुधापानरतो भवेत् ॥
मधुपानमिदं प्रोक्तमितरे मद्यपायिनः ॥ २२३ ॥

पुण्यापुण्ये उभे छित्त्वा ज्ञानखड्गेन योगवित् ॥
परे लयेत्सदा चित्तं पलाशी स निगद्यते ॥ २२४ ॥

मनसा स्वेन्द्रियगणान्नियम्यात्मनि योजयेत् ॥
मत्स्याशी स जनः प्रोक्तः शेषा धीवरवृत्तयः ॥ २२५ ॥

अप्रबुद्धा तु या शक्तिः प्रबुद्धा कौलिकस्य च ॥
शक्तिं तां सेवयेद्यस्तु स भवेच्छक्तिसेवकः ॥ २२६ ॥

इत्येवं पञ्चमुद्राणां गुप्तं तत्त्वं मयोदितम् ॥
ज्ञात्वा गुरुमुखात्सम्यक् सेवते स च मुच्यते ॥ २२७ ॥

अथ पूजाप्रकारस्तु कथ्यते वामिदुर्लभः ॥
आत्मस्थानमनुद्रव्यदेवशुद्धिम्प्रकल्पयेत् ॥ २२८ ॥

स्नानं सन्ध्या भूतशुद्धिः प्राणायामः प्रतिष्ठितिः ॥
प्राणानां मातृकान्यासादिकेः स्यादात्मशोधनम् ॥ २२९ ॥

सम्मार्जनानुलेपाद्यैर्दर्पणोदरवत्कृतम् ॥
वितानधूपदीपाद्यैः स्थानशुद्धिरियं मता ॥ २३० ॥

ग्रथित्वा मातृकावर्णैर्मूलमन्त्राक्षराणि च ॥
क्रमोत्क्रमत्रिरावृत्तिर्मन्त्रशुद्धिरियम्मता ॥ २३१ ॥

पूजाद्रव्याणि सम्प्रोक्ष्य मूलास्त्रेण विधानवित् ॥
दर्शयेद्धेनुमुद्रां च द्रव्यशुद्धिरियम्मता ॥ २३२ ॥

पीठे देवं प्रतिष्ठाप्य सकलीकृत्य प्रोक्षयेत् ॥
अर्घ्योदकेन मूलेन दीपदानं प्रदर्शयेत् ॥ २३३ ॥

देवे शुद्धिं विधायेत्थं पश्चाद्यजनमाचरेत् ॥
सा पूजा फलदा ज्ञेया त्वन्यथा निष्फला भवेत् ॥ २३४ ॥

मण्डलेन विना पूजाविफला परिकीर्तिता ॥
तस्मान्मन्त्रेण विधिवल्लिखित्वा तत्र पूजयेत् ॥ २३५ ॥

अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् ॥
त्रैलोक्य मण्डितं येन मण्डलं तत्सदाशिवम् ॥ २३६ ॥

उद्यानं चतुरस्रं स्यात्कामरूपं तु वत्तुलम् ॥
जलन्धरं चार्धचन्द्रं पूर्णं पूर्णगिरिर्मतः ॥ २३७ ॥

अभ्यर्च्य मण्डलं पश्चादाधारं स्थापयेत्क्रमात् ॥
शाङ्खमर्घ्यं भोगपूजाबलिपात्राणि पञ्च च ॥ २३८ ॥

स्वदक्षिणादिवामान्तं स्थाप्याभ्यर्च्यासवेन च ॥
सम्पूर्य मन्त्रपूतेन कुलेश्वरि विधानवित् ॥ २३९ ॥

तत्र माषप्रमाणं तु मद्यं मांसं च निक्षिपेत् ॥
नष्टैः पर्युषितोच्छिष्टैर्दुर्गन्धैर्गन्धवर्जितैः ॥ २४० ॥

हेतुभिः परपात्रस्थैस्तर्पणं निष्फलं भवेत् ॥
स्वादिष्ठैश्च मदोत्सिक्तैर्द्रव्यैरमृतसन्निभैः ॥ २४१ ॥

मनोहरैश्च देवीनां तर्पणं सफलं भवेत् ॥
असंस्कृता सुरा पापा कलहव्याधिदुःखदा ॥ २४२ ॥

आयुःश्रीकीर्तिसौभाग्यधर्मविद्याविनाशिनी ॥
तस्मात्संस्कृत्य विधिवत्कुलद्रव्यं ततोर्चयेत् ॥ २४३ ॥

सुसंस्कृता सुरा रोगदुःखापदपहारिणी ॥
आयुःश्रीकीर्तिसौभाग्यधर्मविद्याविवर्धिनी ॥ २४४ ॥

अन्यथा 8 नरकं याति दाता भोक्ता न संशयः ॥
विना द्रव्याधिवासेन न स्मरेन्न जपेत्तथा ॥ २४५ ॥

ये स्मरन्ति महामूढास्तेषां दुःखं पदे पदे ॥
नाशयेन विना मन्त्रो न मन्त्रेण विनाशयः ॥ २४६ ॥

वीक्षणस्पर्शनध्यानमन्त्रमुद्राविशोधनैः ॥
द्रव्यं तर्पणयोग्यं स्याद्देवताप्रीतिकारकम् ॥ २४७ ॥

आवाहयेदग्निसूर्यचन्द्रार्णप्रणवोद्भवाः 9
चतुर्णवतिसङ्ख्याश्च कला आवाह्य पूजयेत् ॥ २४८ ॥

तत्रेष्टदेवता ध्यायञ्च्छलोकार्थं प्रविचारयेत् ॥
श्लोकानेतान्पठेत्पश्चात्तान्ब्रवीमि शृणु प्रिये ॥ २४९ ॥

अखण्डैकरसानन्दकरे परसुधात्मनि ॥
स्वच्छन्दस्फुरणाकारे निधेह्यमृतरूपिणि ॥ २५० ॥

अकुलस्थामृताकारे शुद्धिज्ञानकरे परे ॥
अमृतत्वं निधेह्यस्मिन्वस्तुनि क्लिन्नरूपिणि ॥ २५१ ॥

तद्रूपिणि करस्पर्शं कृत्वा भूतस्वरूपिणि ॥
भूत्वामृतापराकारे मयि विस्फुरणं कुरु ॥ २५२ ॥

10 क्लीं ह्रौं जूं स इत्युक्त्वा अमृते अमृतोद्भवे ॥
अमृतेश्वरि अमृतवर्षिणीतिपदं वदेत् ॥ २५३ ॥

अमृतं स्रावययुगं स्वाहान्तो द्रव्यशुद्धये ॥
अमृतेशीमनुः प्रोक्तः पञ्चत्रिंशद्भिरक्षरैः ॥ २५४ ॥

त्रिधा निमन्त्र्य प्रागुक्तं दीपनीमन्त्रतस्त्रिधा ॥
संस्पृश्यार्च्चनपात्रन्तु पूजयेद्धेनुमुद्रया ॥ २५५ ॥

ब्रह्माण्डखण्डसम्भूतागमशेषरसं भृतम् ॥
आयुरिदं महामद्यपीयूषरसमावह ॥ २५६ ॥

शुद्धद्रव्येण तेनापि गन्धपुष्पाक्षतैरपि ॥
न्यासोक्तसर्वमन्त्रैश्च स्वात्मानं प्लावयेत्तथा ॥ २५७ ॥

मूर्ध्नि श्रीगुरुपङ्क्तिं च मूलाधारे च पादुकाम् ॥
दिव्यौघं तर्पयेदादौ आदिनाथः सदाशिवः ॥ २५८ ॥

ईश्वरो रुद्रविष्णू च ब्रह्मा पत्नीयुतास्त्विमे ॥
भवन्ति द्वादश ततः सिद्धौघास्तान्प्रतर्पयेत् ॥ २५९ ॥

सनकाद्याश्च चत्वारः सुजातश्चारुभूषितः ॥
सनत्कुमारो व्यासश्च वामदेवः शुकस्तथा ॥ २६० ॥

दत्तात्रेयो रैवतको द्वादशैव तु मानवान् ॥
तर्पयेत्षण्नृसिंहं च महेशं भास्करं तथा ॥ ३६१ ॥

महेन्द्रं माधवं विष्णुं नामान्ते तु प्रयोजयेत् ॥
महाशिवं च सिद्धौघे मानवौघे सदाशिवम् ॥ २६२ ॥

शिवं तु परमं दिव्यं पीठपूजां ततश्चरेत् ॥
तत आवाहयेद्देवीं मन्त्राभ्यां पूजयेत्तथा ॥ २६३ ॥

महापद्मवनान्तस्थे कारणानन्दविग्रहे ॥
सर्वभूतहिते मातरद्यैहि परमेश्वरि ॥ २६४ ॥

देवेशि भक्तिसुलभेसर्वाभरणसंयुते ॥
यावत्त्वां पूजयामीह तावत्त्वं सुस्थिरा भव ॥ २६५ ॥

ध्यात्वा मुद्राः प्रदर्श्याथ गन्धपुष्पाक्षतादिभिः ॥
चिन्मयस्याप्रमेयस्य निर्गुणस्याशरीरिणः ॥ २६६ ॥

साधकानां हितार्थाय ब्रह्मणो रूपकल्पना ॥
लिङ्गस्थण्डिलवह्न्यप्सु फलके मूर्ध्नि मण्डले ॥ २६७ ॥

मूर्तौ कुड्ये च हृदये पूजा दशसु कीर्तिता ॥
अरूपं रूपिणं कृत्वा कर्मकाण्डे रता जनाः ॥ २६८ ॥

गवां सर्वाङ्गजम् क्षीरं स्रवेत्स्तनमुखाद्यथा ॥
तथा सर्वगतो देवः प्रतिमादौ विराजते ॥ २६९ ॥

आदिरूप्याच्च सर्वस्य पूजायाश्च विशेषतः ॥
साधकस्य च विश्वासात्सान्निध्यं देवता लभेत् ॥ २७० ॥

गवां सर्वशरीरस्थं न करोत्यात्मपोषणम् ॥
सुकर्मरचितं चाज्यं पुनस्तदपि पोषयेत् ॥ २७१ ॥

एवं सर्वशरीरस्थः सर्पिर्वत्परमेश्वरः ॥
उपासनां विना देवो न ददाति फलं नृणाम् ॥ २७२ ॥

सङ्कलीकृत्य तत्प्राणांस्तदीयानीन्द्रियाणि च ॥
प्रतिष्ठाप्यार्चयेद्देवि अन्यथा निष्फलं मतम् ॥ २७३ ॥

मन्त्रहीनं क्रियाहीनं यन्त्रहीनं च यद्भवेत् ॥
लं क्षं साधयते सर्वं हीनमङ्गं यथा तथा ॥ २७४ ॥

देवस्य मन्त्ररूपस्य यन्त्रव्याप्तिमजानताम् ॥
कृतार्चनादिकं सर्वं व्यर्थं भवति शाम्भवि ॥ २७५ ॥

वामे कौले यन्त्रपीठे मूर्तिस्थाने च दक्षिणे ॥
वैदिके तु स्वयं जातं पूजितं सुखदायकम् ॥ २७६ ॥

अनादि वैदिकं यस्मात्स्वयम्भूस्तत्र देवता ॥
गम्यत्वान्नश्वरत्वाच्च तादृक् तान्त्रिकपूजनम् ॥ २७७ ॥

कामक्रोधादिदोषोत्थसर्वदुःखनियन्त्रणात् ॥
यन्त्रमित्याहुरेतस्मिन्देवस्तु परिपूजितः ॥ २७८ ॥

दक्षिणावर्ततो लेख्यं यन्त्रं दक्षिणपूजने ॥
वामक्रमेण कौलादौ गुप्तमेतत्प्रकाशितम् ॥ २७९ ॥

षोडशैरुपचारैस्तु साङ्गं सावरणं यजेत् ॥
महान्षोढा दिनान्सर्वान् गन्धपुष्पाक्षतादिभिः ॥ २८० ॥

प्रणवादिनमोन्तेन तत्तन्नाम्ना समर्चयेत् ॥
अथागमोक्तमार्गेण तर्पयेद्दधिबिन्दुभिः ॥ २८१ ॥

अङ्गुष्ठानामिकाभ्यां तु नखैर्निश्शब्दमुत्क्षिपन् ॥
अपात्रस्येदमष्टौ च तर्पयेद्देवतामुखम् ॥ २८२ ॥

सकृत्तर्पणमुत्सृज्य जप्त्वा मूलं च पादुकाम् ॥
अन्तःशक्तिमनुस्मृत्य तर्पयेद्देहदेवताम् ॥ २८३ ॥

अङ्गुष्ठो भैरवस्थानं चण्डिकायास्त्वनामिका ॥
तस्मात्ताभ्यां तर्पणीयं यन्त्रं तत्तु तयोः प्रियम् ॥ २८४ ॥

अङ्गुष्ठमध्यमाभ्यां च वश्यकर्मणि तर्पयेत् ॥
तर्जन्यङ्गुष्ठयोगेन तर्पयेदाभिचारिके ॥ २८५ ॥

कनिष्ठाङ्गुष्ठयोगेन स्तम्भकर्मणि तर्पयेत् ॥
एवं सन्तर्प्य देवादीन्गुरुपङ्क्तिं प्रपूजयेत् ॥ २८६ ॥

कराभ्यां चेन्मुद्रां समधु नृकपालं च दधतीं सृतस्वर्णप्रख्यामरुणकुसुमालेपवसनाम् ॥
कृपापूर्णापाङ्गीमरुणनयनाम्बरकचामुपेतां सिद्धौघैर्यजति गुरुपङ्क्तिं कृतमतिः ॥ २८७ ॥

एवं सम्पूज्य धूपं च दीपं नैवेद्यमेव च ॥
कदल्यादिफलान्येवं ताम्बूलं च समर्पयेत् ॥ २८८ ॥

अवश्यमादौ वामादौ कुर्याद्बटुकपूजनम् ॥
मार्गेस्मिन्बटुको मुख्यः सुराद्यन्तेन निर्मितम् ॥ २८९ ॥

विना तं तु न गृह्णीत देवस्तस्मात्तदर्चनम् ॥
अपूज्य बटुकं यस्तु महादेवं प्रपूजयेत् ॥ २९० ॥

तस्य पूजाफलं नास्ति बटुकश्च प्रकुप्यति ॥
सगणं पूजयेत्तस्माद्गन्धपुष्पासवामिषैः ॥ २९१ ॥

तत्तन्मन्त्रैर्विधानेन देवता प्रीतिमाप्नुयात् ॥
ततो बलिं क्षेत्रपत्ये दद्यादस्य मनुं शृणु ॥ २९२ ॥

तारद्वयं 11 ततो देवीपुत्रोक्त्वा बटुकेति च ॥
नाथेति कपिलजटाभारभासुरपिङ्गल ॥ २९३ ॥

त्रिनेत्राग्निज्वालामुख इमं पूजाबलिं वदेत् ॥
गृह्णगृह्ण हुं फट् स्वाहा षट् चत्वारिंशदर्णकः ॥ २९४ ॥

मन्त्रमेवं समुच्चार्य ततः श्लोकं पठेदिमम् ॥
बलिदानेन सन्तुष्टो बटुकः सर्वसिद्धिदः ॥ २९५ ॥

शान्तिं करोतु मे नित्यं भूतवेतालसेवितः ॥
तारत्रयं 12 सर्वपूर्वभ्यसन्तांश्च वदेत्क्रमात् ॥ २९६ ॥

योगिनी डाकिनी शाकिनी त्रैलोक्यनिवासिनी ॥
नमश्चैव इमं पूजाबलिं गृह्णीत इत्यपि ॥ २९७ ॥

हुं फट् चैव तथा प्रोच्य चान्ते स्वाहापदं वदेत् ॥
चतुश्चत्वारिंशदर्णो मन्त्रोयं परिकीर्तितः ॥ २९८ ॥

या काचिद्योगिनी रौद्रा सौम्या घोरतरा परा ॥
खेचरी भूचरी व्योमचरीप्रीता सदास्तु मे ॥ २९९ ॥

तारत्रयं 13 वदेत्सर्वभूतेभ्यः सर्वमेव च ॥
पश्चाद्भूतपतिभ्यो हृदन्तः सप्तदशाक्षरः ॥ ३०० ॥

भूता ये विविधाकारा दिव्यभौमान्तरिक्षगाः ॥
पातालतलसंस्थाश्च शिवयोगेन भाविताः ॥ ३०१ ॥

ध्रुवाद्यास्सत्यसन्धाश्च इन्द्राद्याश्च व्यवस्थिताः ॥
तृप्यन्तु प्रीतमनसो भूता गृह्णन्त्विमं बलिम् ॥ ३०२ ॥

तारत्रयं 14 तथैह्येहि देवीपुत्र बटोधुना ॥
अथोच्छिष्टहारिणे हं हूं हं हूं वारद्वयं वदेत् ॥ ३०३ ॥

क्षेत्रपालेति शर्वेति विघ्नान्नाशय युग्मकम् ॥
सर्वोपचारसहितमिमं पूजाबलिं वदेत् ॥ ३०४ ॥

गृह्णगृह्ण हुं फट् स्वाहा चतुष्षष्ट्यक्षरो मनुः ॥
क्षेत्रपालस्य सम्प्रोक्तः सर्वसिद्धिविधायकः ॥ ३०५ ॥

वसामि तस्य क्षेत्रेस्मिन्क्षेत्रपालस्य किङ्करः ॥
प्रीतोयं बलिदानेन सर्वरक्षां करोतु मे ॥ ३०६ ॥

ॐकारत्रितयं 15 हुं श्रीं हूसौं च ह्रीं ह्रीं वदेत्ततः ॥
हुंयुगान्ते भैरवाधिष्ठितायाक्षो वदेदिति ॥ ३०७ ॥

भ्यानन्दहृदयान्मन्त्रसिद्धये वतरद्वयम् ॥
क्षेत्रपाल महाक्षेत्रपालाय वौषड् हुमिति ॥ ३०८ ॥

अयमेकोनपञ्चाशदक्षरश्च मनुस्स्मृतः ॥
श्रेष्ठस्य क्षेत्रपालस्य महाप्रीतिकरः परः ॥ ३०९ ॥

तारत्रयं वदेत्पश्चादमुकक्षेत्रपालाय ॥
राजराजेश्वर इमां पूजाबलिमतः परम् ॥ ३१० ॥

गृह्णयुग्मं द्विठान्तोयं मन्त्रः प्रोक्तो खिलेष्टदः ॥
राजराजेश्वराख्यस्य दैवतस्य समर्चने ॥ ३११ ॥

अनेन बलिदानेन बटुर्वर्गसमन्वितः ॥
राजराजेश्वरो देवो मे प्रसीदतु सर्वदा ॥ ३१२ ॥

बटुकाय बलिं पश्चादुत्तरे योगिनीबलिम् ॥
पूर्वे भूतबलिं दद्यात् क्षेत्रपालाय दक्षिणे ॥ ३१३ ॥

राजराजेश्वरं मध्ये पूजयित्वाहरेद्बलिम् ॥
अङ्गुष्ठानामिकाभ्यान्तु बटुकस्य भवेद्बलिः ॥ ३१४ ॥

तर्जनीमध्यमानामाङ्गुष्ठैः स्याद्योगिनीबलिः ॥
अङ्गुलीभिश्च सर्वाभिर्दद्याद्भूतबलिं द्विजः ॥ ३१५ ॥

अङ्गुष्ठतर्जनीभ्यां तु क्षेत्रपालबलिर्भवेत् ॥
अङ्गुष्ठमध्यमाभ्यां तु राजराजेश्वरस्य च ॥ ३१६ ॥

बटुकादीन्समर्च्यैवं कुलदीपान्प्रदर्शयेत् ॥
देवभक्तः सुपिष्टेन कुर्याद्वेदाङ्गुलोन्नतान् ॥ ३१७ ॥

दीपान्डमरुकाकारांस्त्रिकोणानतिशोभनान् ॥
कर्षाज्यग्राहिणः कुर्यान्नव सप्ताथ पञ्च च ॥ ३१८ ॥

अन्तस्तेजोबहिस्तेज एकीकृत्यामितप्रभान् ॥
त्रिधा देव्युपरि भ्राम्य कुलदीपं निवेदयेत् ॥ ३१९ ॥

समस्तचक्रैश्चक्रेशीयुते देवि नवात्मिके ॥
आरात्रिकमिदं देवि गृहाण मम सिद्धये ॥ ३२० ॥

कुलदीपान्प्रदर्श्याथ शक्तिपूजां समाचरेत् ॥
गुरुपादरजोजोषी श्रद्धाभक्तिसमन्वितः ॥ ३२१ ॥

स्वशक्तिं वीरशक्तिं च दीक्षितां गुरुरूपिणीम् ॥
पाययित्वा पिबेन्मद्यं चेति शास्त्रस्य निश्चयः ॥ ३२२ ॥

अनिवेद्य तु यः शक्त्यै कुलद्रव्यं निषेवते ॥
पूजनं निष्फलं तस्य देवता न प्रसीदति ॥ ३२३ ॥

चाण्डाली चर्मकारी च मातङ्गी पुल्कसी तथा ॥
स्वपची खटकी चैव कैवर्ती विश्वयोनिका ॥ ३२४ ॥

कुलाष्टकमिदं प्रोक्तमकुलाष्टकमुच्यते ॥
कुडुकी सौत्रिकी चापि शस्त्रीजीवा तु रञ्जकी ॥ ३२५ ॥

गायकी रजकी शिल्पी कौशिकी च तथाष्टमी ॥
स्त्रियो मन्त्रसमायुक्ताः समयाचारपालिकाः ॥ ३२६ ॥

कुर्यात्सद्यस्तु संस्कारं मन्त्रैश्चैव पृथक् पृथक् ॥
पूजयेत्कुलमार्गस्थस्तत्र शक्तिमनुस्मरन् ॥ ३२७ ॥

कुमारी वा व्रतस्था वा योगमुद्राधरापि वा ॥
पूजाकाले स्वतः प्राप्ता सा पूज्या सहसा बुधैः ॥ ३२८ ॥

उक्तजात्यङ्गनाभावे चतुर्वर्णाङ्गनां यजेत् ॥
सुरूपा तरुणी शान्तानुकूला मुदिता शुचिः ॥ ३२९ ॥

रोगहीना भक्तियुक्ता मूढशास्त्रोपजीविनी ॥
अलोलुपा सुशीला च स्मितास्या प्रियवादिनी ॥ ३३० ॥

गुरुदैवतभक्ता तु सुचित्ता कौलिकप्रिया ॥
विभत्सरा विशेषज्ञा देवताराधनोत्सुका ॥ ३३१ ॥

दुर्गन्धा दुःखिता मूर्खा वृद्धोन्मत्ता रहस्यभित् ॥
कुतर्का कुत्सिता स्तब्धा निर्लज्जा कलहप्रिया ॥ ३३२ ॥

विरूपोन्मार्गगा दुष्टा पङ्ग्वन्धा विकृतानना ॥
ईदृशीं मन्त्रयुक्तां हि स्त्रियं योगी विवर्जयेत् ॥ ३३३ ॥

ततोर्चनादिकं सर्वं मन्त्रोदकपुरःसरम् ॥
इतः पूर्वादिमनुना मन्त्री देव्यै समर्पयेत् ॥ ३३४ ॥

शेषं दक्षिणवत्कुर्यात्तदुच्छिष्टादिकं पुनः ॥
शेषं कामं ततो देयं शेषिकायै स कथ्यते ॥ ३३५ ॥

एंहृदुच्छिष्टचाण्डालिनि 16 मातङ्गि पदं वदेत् ॥
सर्ववशङ्करि स्वाहा चैकविंशतिवर्णकः ॥ ३३६ ॥

मन्त्रेणानेन निर्माल्यं शेषिकायै समर्पयेत् ॥
देवीमुच्छिष्टमातङ्गी ध्यायेल्लोकैकमोहिनीम् ॥ ३३७ ॥

वीणावाद्यविनोदगीतनिरतां नीलांशुकोल्लासिनीं बिम्बोष्ठीं नवयावकाढ्यचरणामाकर्णकेशांशुकाम् ।
हृद्याङ्गां सितशङ्खकुण्डलधरां माणिक्यभूषोज्ज्वलां मातङ्गीं प्रणतोस्मि सुस्मितमुखीं देवीं शुकश्यामलाम् ॥ ३३८ ॥

ततः श्रीगुरुरूपाय साक्षात्परशिवाय च ॥
कराभ्या पात्रमुद्धृत्य सद्वितीयं समर्पयेत् ॥ ३३९ ॥

सुसम्प्रदायसंयुक्तैर्वीरैश्च सह पूजयेत् ॥
अन्योन्यं चिह्नितं कृत्वा पिबेत्तत्तदनुज्ञया ॥ ३४० ॥

सव्यतोद्धृत्य पात्रं तु मुद्रां कृत्वापसव्यतः ॥
यथाविधि द्वितीयेन गृह्णीयान्मन्त्रमुच्चरेत् ॥ ३४१ ॥

इदं पवित्रममृतं पिबामि भवभेषजम् ॥
मद्यपानसमुच्छेदे कारणं भैरवोदितम् ॥ ३४२ ॥

वित्तस्वातन्त्र्यसारत्वात्तस्यानन्दमयत्वतः ॥
तन्मयत्वाच्च भावानां भावाश्चान्तरिता रसे ॥ २४३ ॥

स्वस्वातन्त्र्यविकाशाय सुरसस्तेन पीयते ॥
तस्मादिमां सुरां देवीं पूर्णकामः पिबाम्यहम् ॥ ३४४ ॥

मन्त्रेणानेन भो देवा मूलमन्त्रेण मन्त्रवित् ॥
अनाकुलमनाः कुर्यान्मधुपानं शनैः शनैः ॥ ३४५ ॥

पिशितं माषमात्रं तु मद्यं चुलुकसम्मितम् ॥
स्वीकार्यमादौ गुरुणा शिष्येभ्यः शेषदो भवेत् ॥ ३४६ ॥

आदाय गुरणा दत्तां सद्वितीयां सुरां पिबेत् ॥
स्त्रीगुरुज्येष्ठपूज्यानां पुरतश्चोपविश्य च ॥ ३४७ ॥

न कदाचित्पिबेन्मद्यं निर्मन्त्रं न पिबेत्तथा ॥
विना मन्त्रं पिबेन्मद्यं स सुरापो निगद्यते ॥ ३४८ ॥

स्वात्ममूलत्रिकोणस्थे कोटिसूर्यसमप्रभे ॥
कुण्डल्याकृतिचिद्रूपे हुनेद्द्रव्यं समन्त्रकम् ॥ ३४९ ॥

अनन्तपात्रभरितमिदं तत्परमामृतम् ॥
पराहन्तामये वह्नौ होमस्वीकारलक्षणम् ॥ ३५० ॥

गुरुं दैवतमन्त्राणामैक्यं सञ्चिन्तयेद्धिया ॥
यावदुल्लासपर्यन्तमुपदेशैः पिबेन्मधु ॥ ३५१ ॥

भोजनान्ते विषं मद्यं मद्यान्ते भोजनं विषम् ॥
अमृतं तद्विजानीयाद्यदनेन समं पिबेत् ॥ ३५२ ॥

चर्वणेन युतं मद्यममृतं कथितं सदा ॥
चर्वणेन विना पानं केवलं विषभक्षणम् ॥ ३५३ ॥

पानं तु त्रिविधं प्रोक्तं दिव्यवीरपशुक्रमैः ॥
दिव्यं देव्यग्रतः पानं वीरं मृद्वासने कृतम् ॥ ३५४ ॥

स्वेच्छया पशुवत्पीतं पशुपानभितीरितम् ॥
वक्ष्येथ कौलिकाचारं लोकद्वयफलप्रदम् ॥ ३५५ ॥

पात्रमेलापकं कर्म प्रोच्यते सख्यकारकम् ॥
तत्त्राता न पिता मित्रं पात्रमेलापकावृतम् ॥ ३५६ ॥

अदीक्षितैरनाचारैरमन्त्रज्ञैरदैवतैः ॥
दूषकैः समये नष्टैः प्रपञ्चपथधारिभिः 17 ब्रह्मतेजोमुखे पात्रमेलनं नैव कारयेत् ॥
त्वत्पूजानिरतैः शान्तैः परद्रव्यपराङ्मुखैः ॥ ३५८ ॥

कुलोपदेशकुशलैः कुलमार्गप्रवर्तकैः ॥
स्त्रीप्रियैः स्त्रीस्तुतैर्धन्यैः सुन्दरैर्मृदुवादिभिः ॥ ३५९ ॥

कुलमार्गेतिगुप्तैश्च विद्यावद्भिः सुरूपकैः ॥
प्रयोगसिद्धैर्द्रव्याढ्यैर्भाग्यवद्भिश्च कामुकैः ॥ ३६० ॥

ब्रह्ममुक्तैः राजमान्यैर्मिलितैर्दैवयोगतः ॥
कुर्यात्पात्रस्य मेलं च सौख्यवृद्धिर्द्वयोर्भवेत् ॥ ३६१ ॥

एकपात्रं न कुर्वीत यदि साक्षात्कुलेश्वरः ॥
मन्त्राः पराङ्मुखा यान्ति विघ्नाश्चैव पदे पदे ॥ ३६२ ॥

न दद्याद्भैरवायापि स्वपात्रं स्थितिहेतुकम् ॥
यदि दद्याच्च मोहेन देवताशापमाप्नुयात् ॥ ३६३ ॥

आसनं भोजनं पात्रमन्यच्च शयनादिकम् ॥
अनभिज्ञैरनर्हैश्च सङ्करं नैव कारयेत् ॥ ३६४ ॥

म्नायभेदेन 18 वा कुर्यात्कौलिकैः पात्रमेलनम् ॥
पूर्वदक्षिणयोरैक्यमुदक्पश्चिमयोस्तथा ॥ ३६५ ॥

योगिभिर्योगिनीभिश्च प्रदत्तं पूर्णपात्रकम् ॥
समन्त्रपादुकामूलमन्त्रजप्तं पिबेत्ततः ॥ ३६६ ॥

क्वचिद्यदृच्छया प्राप्तं मद्यपात्रं तु भक्तितः ॥
आदाय पूर्ववज्जप्त्वा पिबेत्तच्च गुरुं स्मरेत् ॥ ३६७ ॥

गुरुशक्तियुतानां च गुरुज्येष्ठकनिष्ठयोः ॥
स्वज्येष्ठस्यापि चोच्छिष्टं खादेन्नान्यस्य कर्हिचित् ॥ २६८ ॥

ज्येष्ठैः कनीयसे योज्यं न पुनर्ग्राहयेत्ततः ॥
शक्त्युच्छिष्टं पिबेन्मद्यं वीरोच्छिष्टं तु चर्वणम् ॥ ३६९ ॥

आत्मोच्छिष्टं न दातव्यं परकीयं न भक्षयेत् ॥
उच्छिष्टं 19 भक्षयेत्स्त्रीणां नाभ्यः स्वोच्छिष्टमर्पयेत् ॥ ३७० ॥

स्वस्य मेलापकस्यापि स्थापयेत्तत्र मण्डलम् ॥
पात्रं ततोर्चयेद्देवीं तर्पणादि समाचरेत् ॥ ३७१ ॥

उत्थाप्यान्योन्यपात्रे च दद्यादन्योन्यहस्तयोः ॥
द्वयोरैक्यं स्मरेद्ध्यन्योन्यमिति पात्रमेलनम् ॥ ३७२ ॥

चक्रपूजां प्रवक्ष्यामि सर्वतन्त्रेषु गोपिताम् ॥
अभीष्टसिद्धिदां नातः परं किञ्चिच्च विद्यते ॥ ३७३ ॥

सर्वेषामेव देवानां प्रिया प्रोक्तेप्सितप्रदा ॥
वैदिकैरपि कर्तव्याभीष्टसिद्ध्यै पुरोहितम् 20 ॥ ३७४ ॥

कृत्वा तु कौलिकं देवि पूर्णाः स्युस्तन्मनोरथाः ॥
लक्ष्मीः कोलासुरं हत्वाशेषात्तद्रुधिरं पपौ ॥ ३७५ ॥

पानमत्ता तदा विप्रैर्यथेच्छं हसिता तु सा ॥
ब्रह्मणा विष्णुना वापि मयापि प्रष्टुमिच्छता ॥ ३७६ ॥

तदा बुद्धा महालक्ष्मीर्भुमावन्तर्हिताभवत् ॥
निःश्रीकं सकलं जातं मुमूर्षुरिव दृश्यते ॥ ३७७ ॥

धर्मो न चलते क्वापि न च तुष्यन्ति देवताः ॥
एवं वर्षशते जाते ब्रह्माणं शरणं गताः ॥ ३७८ ॥

ब्रह्मापि तत्र निःश्रीको दरिद्र इव दृश्यते ॥
प्रोक्तवन्तस्तु मुनयो विधे विश्रीकता कुतः ॥ ३७९ ॥

तदा विप्रकृतं हास्यं ब्रह्मणा बोधितं प्रिये ॥
ब्राह्मं तेजो महदिदं विष्णुस्तूष्णीमुपस्थितः ॥ ३८० ॥

युष्मत्पक्षावरोधेन हसिता श्रीः शिवेन च ॥
तेनेयं कुपिता जाता गता तस्माद्रसातलम् ॥ ३८१ ॥

सर्वे श्रियोज्झिता विप्रा लोके निःश्रीकता ततः ॥
तस्माद्विष्णुः शिवोहं च यूयं शक्रपुरोगमाः ॥ ३८२ ॥

नागाश्च्च पितरः सिद्धा दिक्पाला यक्षराक्षसाः ॥
आराधयन्तु तां देवीं स्तुवन्तु च महास्तवैः ॥ ३८३ ॥

ततः सम्मिलिताः सर्वे गताः श्रीशैलपर्वतम् ॥
किञ्चिच्छोभां श्रियो दृष्ट्वा चक्रुराराधनं ततः ॥ ३८४ ॥

वैदिकैस्तान्त्रिकैर्मार्गैर्नानास्तोत्रेः प्रतुष्टुवुः ॥
एवं वर्षत्रयादूर्ध्वं प्रत्यक्षा श्रीर्व्यजायत ॥ ३८५ ॥

अपश्यच्च कृपादृष्ट्या सहासं वाक्यमब्रवीत् ॥
किमर्थं हासितं विप्रैर्देवैश्चाकुलितं कुतः ॥ ३८६ ॥

उपासना पुनः कस्माद्दुर्दर्शायाः कृता पुनः ॥
ततः सा तु मया प्रोक्ता सर्वं विश्वं त्वया ततम् ॥ ३८७ ॥

त्वत्सामर्थ्यं न जानन्ति हसन्ति त्वां च कर्मणा ॥
एतद्बुद्ध्वा मया हास्यं कृतं हृदयसाक्षिणी ॥ ३८८ ॥

प्रभावस्तु तवाज्ञातः सर्वैर्विप्रैः सुरासुरैः ॥
अतः परं प्रसीदेशे लोकयात्रां च निर्वह ॥ ३८९ ॥

इति श्रुत्वा मम वचस्तदा प्रोक्तं श्रिया किल ॥
इयं सुरा मे भगिनी तत्प्रधानन्तु पूजनम् ॥ ३९० ॥

ये करिष्यन्ति देवस्य स देवो मोदमेष्यति ॥
यथा मायाप्रपञ्चोयं वृथा भवति मां विना ॥ ३९१ ॥

समस्ताश्च तथा पूजाश्चक्रपूजां विना वृथा ॥
इह लोके भोगवाञ्छा देवतात्वं परत्र चेत् ॥ ३९२ ॥

अपेक्षितं तदा कार्यं मन्त्रैर्वै चक्रपूजनम् ॥
सर्वदेवप्रियं गोप्यं तद्विधिं कथयाम्यथ ॥ ३९३ ॥

समस्तचक्र पूजा सा अष्टधा परिकीर्तिता ॥
सहस्रोत्पतिते कार्ये कार्ये वा पूर्णताङ्गते ॥ ३९४ ॥

देवतोत्साहदिवसे कौलिकस्यागमेपि वा ॥
उमामाहेश्वरे योगे योगे वा शक्तिसङ्गमे ॥ ३९५ ॥

बलिराज्ये कामदिने चक्रपूजातिहर्षदा ॥
प्रदोषे वाभिजिति वा निशीथे वाष्टमीयुते ॥ ३९६ ॥

नवम्यां चेद्भवेद्योग उमामाहेश्वराभिधः ॥
भौमाष्टम्यां चतुर्दश्यां योगोयं शक्तिसङ्गमः ॥ ३९७ ॥

आश्विनस्यासिते पक्षे त्रयोदश्यादिपञ्च च ॥
बलिराज्यमिदं प्रोक्तं यथेच्छाक्राडनाय तु ॥ ३९८ ॥

तत्कामदिनमित्याहुस्सोमवारे त्रयोदशी ॥
पूर्वस्मिन्दिवसे स्नात्वा देवीमभ्यर्च्य कामनाम् ॥ ३९९ ॥

कृत्वा सङ्कल्पयेच्चक्रपूजां दद्याद्बलिं पशोः ॥
तद्विधिं सम्प्रवक्ष्यामि चानुकल्पं प्रकल्पयेत् ॥ ४०० ॥

बलिस्तु त्रिविधः प्रोक्तस्तान्त्रिकः स्मार्त एव च ॥
वैदिकश्चेति तत्रादौ तान्त्रिकोष्टविधः स्मृतः ॥ ४०१ ॥

नरश्च महिषः कोलश्छागोऽविः सारसस्तथा ॥
कपोतः कुक्कुटश्चेति सामान्यं पूर्वपूर्वतः ॥ ४०२ ॥

श्रेष्ठस्तत्र कलौ देवी महापीठे नरो बलिः ॥
कर्तव्यः साधकेन्द्रेण सद्यो योति च सुन्दरः ॥ ४०३ ॥

धातुबद्धः कृष्णकूर्चोऽक्षेत्रादिरनुलोमजः ॥
मूल्याद्गृहीतो वापीष्टो दैवतः स्वयमागतः ॥ ४०४ ॥

वर्षं षण्मासमथ वा यथेच्छाचारपालितः ॥
स भवेद्बलियोग्यश्च नान्यश्चौरादिकाहृतः ॥ ४०५ ॥

महिषः पञ्चमादूर्ध्वं दशाधस्ताद्बनोद्भवः ॥
ग्रामजोपि महाक्रूरो निरुक्कृष्णैकवर्णकः ॥ ४०६ ॥

आरक्ताक्षश्चोर्ध्वशृङ्गो दीर्घपुच्छस्तु मांसलः ॥
एकवर्णो देवताया वर्णरूपो गदोञ्झितः ॥ ४०७ ॥

साण्डः सशृङ्गो यूथेशो गन्धिमानौषधादिभिः ॥
विगन्धीकृत्य बलये योग्यः सर्वोत्तमस्त्वयम् ॥ ४०८ ॥

सर्वेषामेव वर्णानां देवतानां तथैव च ॥
अधिकारः प्रीतिदश्च यज्ञेष्येष विशिष्यते ॥ ४०९ ॥

मेषः सशृङ्गस्त्वजवच्छृङ्गहीनोपि कुत्रचित् ॥
अङ्गहीनो विहीनाण्डो बालो वृद्धो न शस्यते ॥ ४१० ॥

वर्षद्वयोर्ध्वं च गृहे पालितो बलवत्तरः ॥
मांसभारात्तथानेन समो वै सारसो वरः ॥ ४११ ॥

नीलकण्ठच्छविः कण्ठे कपोतः पुष्टकन्धरः ॥
वर्षादूर्ध्वं गृहे पुष्टो बल्यर्थं योग्य उच्यते ॥ ४१२ ॥

सर्वेषामग्रतो रौति यः प्रातर्बहुवर्णकः ॥
मांसलस्त्वेकवर्णो वा ताम्रचूडो विशिष्यते ॥ ४१३ ॥

नरो द्विजैर्न हन्तव्यो विप्रेण महिषस्तथा ॥
शूकरैः समतां नीताः कुक्कुटा बलयोखिलैः ॥ ४१४ ॥

कूष्माण्डं नारिकेलञ्च श्रीफलं चेक्षुमेव च ॥
वस्त्रसंवेष्टितं कृत्वा छेदयेच्छुरिकादिभिः ॥ ४१५ ॥

एष स्मार्तो बलिः प्रोक्तः धर्मशास्त्रानुगामिभिः ॥
पूर्वपूर्वत्रापि चोक्तो विशिष्टो देवतोषकः ॥ ४१६ ॥

यस्य यत्राधिका भक्तिस्तेन तुष्यति देवता ॥
नियमैश्च यमैर्युक्तः सकलैर्मूर्तिरात्मन ॥ ४१७ ॥

वैदिकं तु बलिं दद्यादोदनं स्विन्नमाषवत् ॥
सरोचनमतिक्रूरदैवते वटकान्वितम् ॥ ४१८ ॥

बलिं सम्पूज्य विधिवद्गन्धपुष्पाक्षतादिभिः ॥
तारं कालियुगं यज्ञेश्वरि लोहपदम् वदेत् ॥ ४१९ ॥

दण्डायै नम इत्येष मन्त्रः षोडशवर्णकः ॥
अष्टोत्तरशतं जप्त्वा तत उत्थाय साधकः ॥ ४२० ॥

देवीरूपं पशुं ध्यात्वा पुष्पं तस्मिन्विनिक्षिपेत् ॥
मन्त्रितं मूलमन्त्रेण सपुष्पाक्षतचन्दनम् ॥ ४२१ ॥

यदा स चालयेद्गात्रं गृहीतस्तु तदेच्छया ॥
यावन्न चालयेद्गात्रं पशुस्तावन्न हन्यते ॥ ४२२ ॥

उत्तराभिमुखो भूत्वा बलिं पूर्वमुखं तथा ॥
निरीक्ष्य साधकः पश्चादिमं मन्त्रमुदीरयेत् ॥ ४२३ ॥

पशुस्त्वं बलिरूपेण मम भाग्यादुपस्थितः ॥
प्रणमामि ततः सर्वरूपिणं बलिरूपिणम् ॥ ४२४ ॥

चण्डिकाप्रीतिदानेन दातुरापद्विनाशनम् ॥
चामुण्डाबलिरूपार्थं बले तुभ्यं नमोस्तु ते ॥ ४२५ ॥

यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा ॥
अतस्त्वां घातयाम्यद्य तस्माद्यज्ञे बन्धोवधः ॥ ४२५ ॥

ॐ श्रीं ह्रीं श्रीमिति मन्त्रेण बलिं मत्स्वरूपिणम् ॥
चिन्तयित्वा न्यसेत्पुष्पं म्भकेनास्य मस्तके ॥ ४२७ ॥

असे च त्वं चण्डिकायाः सुरलोकप्रसाधकः ॥
ह्रीं ह्रीं खड्गेति मन्त्रेण तं खड्गं परिपूजयेत् ॥ ४२८ ॥

मां ह्रूं फडिति मन्त्रं तु जपन्सञ्छेदयेद्बलिम् ॥
एकेनैव प्रहारेण च्छिन्नो दैवततुष्टये ॥ ४२९ ॥

प्रहारे पतिते शब्दः क्रियते यदि नापदि ॥
वर्षस्याभ्यन्तरेवश्यं राज्यनाशः प्रजायते ॥ ४३० ॥

एवं दत्त्वा बलिं सम्यङ्त्यिकर्म विधाय च ॥
तृतीये प्रहरे रामा नराश्चोर्ध्वं निमन्त्रयेत् ॥ ४३१ ॥

अमुष्याः प्रीतये देव्या मन्मनोरथसिद्धये ॥
चक्रपूजोत्सवार्थं त्वं श्वो मयामन्त्रितो ह्यसि ॥ ४३२ ॥

अष्टाधिका निमन्त्र्यास्तु स्त्रियो न्यूनास्तु मत्कृते ॥
स्त्रीभ्यश्च पुरुषा न्यूना अधिकास्ते तु हानिदाः ॥ ४३३ ॥

सर्वकौलव्रतस्थाः प्राग्दक्षिणाम्नायवर्जिताः ॥
भवन्ति दीक्षानिरता निमन्त्र्याश्चक्रपूजने ॥ ४३४ ॥

तस्यां रात्रौ तु सम्पूज्य देवं स्वयमतन्द्रितः ॥
कुलशब्दं 21 द्विधा प्रोच्य कुलजेति पिशाचिनी ॥ ४३५ ॥

त्रयोदशार्णं स्वाहान्तमष्टोत्तरसहस्रकम् ॥
जपेन्निशि ततः पश्येच्चक्रविघ्नं तथा शुभम् ॥ ४३६ ॥

विघ्ने दृष्टे न कर्तव्यं कार्यं वा शान्तिपूर्वकम् ॥
शान्तिर्गाणेश्वरो होमो ग्रहाणां भैरवस्य च ॥ ४३७ ॥

ततो बहिर्बलिन्दद्यादिमं मन्त्रमुदीरयेत् ॥
22 नमश्च त्रिरुच्चार्य अमुकक्षेत्रपालक ॥ ४३८ ॥

एह्येहि भगवन्पूजां गृह्ण युग्मं बलिं तथा ॥
भक्षयुग्मं चक्रविघ्नकरांस्तम्भययुग्मकम् ॥ ४३९ ॥

हुं फट् स्वाहा सप्तचतुर्वर्णो मन्त्रः प्रकीर्तितः ॥
दिनस्य कृत्यं निर्वर्त्य सायं चक्रं प्रपूजयेत् ॥ ४४० ॥

अर्वाक्चक्रं स्वविद्यायास्तन्मध्ये स्थापयेद्घटम् ॥
मद्यपूर्णं तत्र देवीमावाह्यार्चनमाचरेत् ॥ ४४१ ॥

नानाविधानि मांसानि ह्यनेका मत्स्यजातयः ॥
चतुर्विधानि भक्ष्याणि योजयेत्सोपदंशकैः ॥ ४४२ ॥

साङ्गां सावरणां सम्यक्पूजयित्वा सुरीं बुधाः ॥
शक्तयश्च तथा वीराः पूज्याः पुष्पाक्षतादिभिः ॥ ४४३ ॥

पूजागृहस्यान्तरतस्त्रिकोणे भूगृहान्तरे ॥
उच्छिष्टभैरवं चोग्रगन्धपुष्पादिभिर्यजेत् ॥ ४४४ ॥

उच्छिष्टदोषो भविता चक्रपूजामहोत्सवे ॥
तद्दोषपरिहारार्थं भैरवं पूजयाम्यहम् ॥ ४४५ ॥

तारत्रयं तथोच्छिष्टभैरवैहि द्वयं तथा ॥
बलिं गृह्णयुगं हुं फट् स्वाहा द्वाविंशदक्षरः ॥ ३३६ ॥

अनेन बलिदानं तु पूजान्तेस्य प्रकल्पयेत् ॥
पूजागारं समागत्य प्रणमेच्चक्रसंस्थितान् ॥ ४४७ ॥

गुरुः पात्रं समादाय मद्यामृतयुतं करे ॥
परिषिञ्चेत्सामयिकानर्थशान्तिस्तवं पठेत् ॥ ४४८ ॥

जपन्ति देव्यो हरपादपङ्कजं प्रसन्नवामामृतमोक्षदायकम् ॥
अनन्तसिद्धान्तमतिप्रबोधकं नमामि सान्तुष्टिकयोगिनीगणम् ॥ ४४९ ॥

योगिनीचक्रमध्यस्थं मातृमण्डलवेष्टितम् ॥
नमामि शिरसा नाथं भैरवं भैरवीप्रियम् ॥ ४५० ॥

अनादिघोरसंसारध्वान्तविध्वंसकारिणे ॥
नमः श्रीनाथवैद्याय कुलौषधिविधायिने ॥ ४५१ ॥

आपदो दुरितं रोगाः समयाचारलङ्घनात् ॥
ये सर्वे ते विनश्यन्तु दिव्यचक्रस्य मेलनात् ॥ ४५२ ॥

आयुरारोग्यमैश्वर्यं कीर्तिर्लाभः शुभं जयः ॥
कान्तिर्मनोरथश्चास्तु पान्तु सर्वाश्च देवताः ॥ ४५३ ॥

सम्पूजकानां प्रतिपालकानां यमीन्द्रयोगीन्द्रतपोधनानाम् ॥
विश्वस्य राष्ट्रस्य परस्य राज्ञः करोतु शान्तिम्भगवान्कुलेशः ॥ ४५४ ॥

नन्दन्तु साधककुलान्यपि दर्शकाये सृष्ट्या जना अथ गुरूक्तमहान्वया ये ॥
नन्दन्तु सर्वकुलकौलरताः परा ये त्वन्ये विशेषपदभेदकशाम्भवा ये ॥ ४५५ ॥

नन्दन्तु सिद्धगुरवस्तदनुक्रमौघा ज्येष्ठानुजास्समयिनो बटुकाः कुमार्यः ॥
षड्योगिनीप्रवरवीरकुले प्रसूता नन्दन्तु भूमिपतिगोद्विजसाधुलोकाः ॥ ४५६ ॥

नन्दन्तु नीतिनिपुणा निरवद्यनिष्ठा नर्मत्सरा निरुपमा निरुपद्रवाश्च ॥
नित्यं निरञ्जनरता गुरवो नितान्तशान्ता गुणान्तमनसो हृतशोकशङ्काः ॥ ४५७ ॥

नन्दन्तु योगनिरताः कुलयोगयुक्ता आचार्यसामयिकसाधकपुत्रकाश्च ॥
गावो द्विजा युवतयो यतयः कुमार्यो नन्दन्तु भावनिरता गुरुभक्तियुक्ताः ॥ ४५८ ॥

नन्दन्तु साधककुलान्यणिमाद्यनिष्ठाः शापाः पतन्तु समये द्विषि योगिनीनाम् ॥
सा शाम्भवी स्फुरतु कापि समाप्यवस्था यस्यां गुरोश्चरणपङ्कजमेव लभ्यम् ॥ ४५९ ॥

याश्चक्रक्रमभूमिका वसतयो नाडिषु यास्संस्थिता याः कामद्रुमरोमकूपनिलया यास्संस्थिता धातुषु ॥
उच्छ्वासामितहृत्तरङ्गनिलया विःश्वासवासाश्च यास्ता देव्यो रिपुपक्षभक्षणपरास्तृप्यन्तु कौलार्चिताः ॥ ४६० ॥

या देव्यः कुलसम्भवाः क्षितिगता या देवतास्तोयगा या नित्यं प्रथितप्रभाः शिखिगता या मातरः स्वाश्रयाः ॥
या व्योमामृतमण्डलामृतमया याः सर्वगाः सर्वदा तास्सर्वाः कुलमार्गपालनपराः शान्तिं प्रयच्छन्तु मे ॥ ४६१ ॥

ऊर्ध्वं ब्रह्माण्डके वा पुरि गगनतले भूतले निष्कले वा पाताले वानले वा सलिलपवनयोर्यत्र तत्र 23 स्थिता वा ॥
क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिमासैः प्रीता देव्यः सदा नः कृतबलिविधयः पान्तु वीरेन्द्रवन्द्या ॥ ४६२ ॥

ब्रह्मश्रीशेषदुर्गा गुहबटुकगणा भैरवाः क्षेत्रपाला वेतालादित्यरुद्रा ग्रहवसुमुनयः सिद्धयो गुह्यकाद्याः ॥
भूता गन्धर्वविद्याधर-ऋषिपितरः किन्नरा यक्षनागा योगीशाश्चारणाद्याः पुरुषमुनिसुराश्चक्रगाः पान्तु सर्वे ॥ ४६३ ॥

देहस्थाखिलदेवता गजमुखाः क्षेत्राधिपा भैरवा योगिन्यो बटुकाश्च यक्षपितरो भूताः पिशाचा ग्रहाः ॥
अन्ये भूचरदिक्चराश्च खचरा वेतालकाश्चेटकास्तृप्ताः स्युः कुलपुत्रकस्य पिबतः पानम्मदीयं वरम् ॥ ४६४ ॥

सत्यं वै गुरुदेवदेवपितरो वेदागमा योगिनी प्रीताश्चेत्परदेवता यदि भवेद्वेदाः प्रमाणं हि चेत् ॥
शाक्तेयम्परिदर्शनं भवति चेदाज्ञाप्य मोधास्ति चेत्सत्यं वापि च कौलिको यदि तदा स्यान्मे जयः सर्वदा ॥ ४६५ ॥

तृप्यन्तु साधकास्सर्वे समुद्राः सगणाधिपाः ॥
योगिन्यः क्षेत्रपालाश्च मम देहे व्यवस्थिताः ॥ ४६६ ॥

शिवाद्यनिलपर्यन्तम्ब्रह्मादिस्तम्बसंयुतम् ॥
कालाज्ञादिशिवान्तञ्च पानयज्ञेन तृप्यताम् ॥ ४६७ ॥

तत्पात्रन्तु समुत्थाप्य समुद्वास्य गुरुस्ततः ॥
दद्याच्छिष्याय कुम्भस्थं योगिनीभ्यः पृथक् पृथक् ॥ ४६८ ॥

पात्रे तथैव वीरेभ्यश्चेतरेभ्यः स्वयं पिबेत् ॥
स्त्रीणामन्यतमं स्थानं पुंसामन्यतमं पृथक् ॥ ४६९ ॥

अथ वा मिथुनं कृत्वा क्रमात्समुपवेशयेत् ॥
पङ्क्त्याकारेण वा सम्यक्चक्राकारेण वापुनः ॥ ४७० ॥

शिवशक्तिधिया सर्वाश्चक्रमध्ये समर्चयेत् ॥
तत्र मन्त्रेषु वीरेषु कार्याकार्यं न विद्यते ॥ ४७१ ॥

तत्र यद्यत्कृतं कर्म शुभं वा यदि वाशुभम् ॥
तत्सर्वं देवताप्रीत्यै जायते नात्र संशयः ॥ ४७२ ॥

जल्पो जपफलं तन्द्रा समाधिरभिधीयते ॥
विक्रिया पूजनं प्रोक्तं छर्दितं भैरवो बलिः ॥ ४७३ ॥

मुक्तिस्स्याच्छक्तिसंयोगः स्तोत्रं तत्कालभाषणम् ॥
न्यासोऽवयवसंस्पर्शो भोजनं हवनक्रिया ॥ ४७४ ॥

ध्यानं तु वीक्षणं प्रोक्तं शयनं चन्दनं भवेत् ॥
तदुल्लासकृतानां च या चेष्टा सा च सत्क्रिया ॥ ४७५ ॥

कार्याकार्यविचारन्तु यः करोति स पातकी ॥
एतच्चक्रगता देवि विज्ञेयाः परयोगिनः ॥ ४७६ ॥

येनाप्नुवन्ति मनुजाः साक्षाद्गौरवरूपताम् ॥
सम्मोदं कोपशमनं पतनं गायनं तथा ॥ ४७७ ॥

वेणुवीणादिवाद्यं च कवितारचनादिकम् ॥
रोदनं भाषणं चैव समुत्थानं विजृम्भणम् ॥ ४७८ ॥

गमनं विक्रिया देवि योग इत्यभिधीयते ॥
विकृतिं मनसो हित्वा यदोल्लासः प्रवर्तते ॥ ४७९ ॥

तदा तु देवताभावं भजन्ते योगिपुङ्गवाः ॥
कौलिकान्भैरवावेशान्यो विनिन्दति मूढधीः ॥ ४८० ॥

तं नाशयन्त्यसन्देहाद्योगिन्यो नात्र संशयः ॥
यद्यद्भक्तिसमावेशादद्भतं कौलिके जने ॥ ४८१ ॥

तत्तद्भवत्यसन्दिग्धं शुभं वा यदि वाशुभम् ॥
देवतासक्तमनसः शुद्धा देवि सदा हि ते ॥ ४८२ ॥

तारो नमो भगवति मद्यमांसविहारिणि ॥
रतिप्रिये चक्रदेवि वद कौलिकवल्लभे ॥ ४८३ ॥

सत्यं मनोगतं मेद्येत्युक्त्वा मद्यं पलान्वितम् ॥
प्रदद्याच्च कौलिकेभ्यस्तन्मन्त्रान्प्रब्रुवन्ति ते ॥ ४८४ ॥

तत्र कश्चिदकौलश्चेन्न सा स्फुरति भारती ॥
न निन्देन्न हसेत्कुप्येच्चक्रे मधुमदाकुलान् ॥ ४८५ ॥

एतच्चक्रगतां वार्तां बहिर्नैव प्रकाशयेत् ॥
तेभ्यो द्रोहं न कुर्वीतनाहितं च समाचरेत् ॥ ४८६ ॥

रक्ष्यां संरक्षयेत्तां वै गोपयेच्च प्रयत्नतः ॥
चक्रे मदाकुलान्दृष्ट्वा चिन्तयेद्देवताधिया ॥ ४८७ ॥

न निन्देन्न हसेद्भक्त्या स गच्छेद्योगिनीपदम् ॥
प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजातयः ॥ ४८८ ॥

निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक्पृथक् ॥
एवं चक्रस्य माहात्म्यं देवीपूजोपयोगतः ॥ ४८९ ॥

स्त्रियोथ पुरुषः षण्ढश्चाण्डालो वा द्विजोत्तमः ॥
चक्रमध्ये न भेदोस्ति सर्वे देवसमाः स्मृताः ॥ ४९० ॥

चक्रमध्यगताः सर्वे पुरुषाः शिवरूपिणः ॥
स्त्रियः सर्वाश्च पार्वत्यस्तस्माद्भेदं न कारयेत् ॥ ४९१ ॥

मद्यकुम्भसहस्रैस्तु मांसभारशतैरपि ॥
न तुष्यति महामाया भगलिङ्गामृतं विना ॥ ४९२ ॥

कामुको न स्त्रियं गच्छेदनिच्छन्तीमदीक्षिताम् ॥
सद्यः संस्कारसंशुद्धां विहितत्वाद्ब्रजेत्स्त्रियम् ॥ ४९३ ॥

सहस्रचक्रपूजातो राज्यभ्रष्टो नृपो भवेत् ॥
पञ्चाशद्भिश्च पुत्राप्तिर्नीरोगो दशभिर्भवेत् ॥ ४९४ ॥

यस्य चक्रस्य पूजायां रतिः स्खलति योगतः ॥
अवश्यं सार्वभौमोसौ वर्षमध्ये भविष्यति ॥ ४९५ ॥

यथेप्सितप्रियाप्राप्त्यै पञ्चधा पूजनं चरेत् ॥
सप्तभिः स्याद्धनप्राप्तिश्चक्रपूजा विधिस्त्वयम् ॥ ४९६ ॥

भगिनीं वा सुतां भार्यां यो दद्यात्कुलयोगिने ॥
मधुमत्ताय चक्रे वाचक्रे वा पुण्यभाक्स तु ॥ ४९७ ॥

उत्तमा नित्यपूजा स्यान्मध्यमं पर्वपूजनम् ॥
मासपूजाधमा प्रोक्ता मासादूर्ध्वन्तु निष्फला ॥ ४९८ ॥

मासेथ वाधिमासे वा षण्मासे वत्सरेपि वा ॥
श्रीगुरुं पूजयेद्भक्त्या प्राप्तौ तत्स्त्रीसुतादिकान् ॥
तदभावे तत्कुलीनं तच्छिष्यं चान्ययोगिनम् ॥
सन्तोषयेक्तुलद्रव्यैश्चक्रपूजापुरःसरम् ॥ ४९९ ॥

रोगेष्वापत्सु दोषेषु दुःसङ्गे दुर्निमित्तके ॥
पूजयेद्योगिनीवृन्दं देवि तद्दोषशान्तये ॥ ५०० ॥

वक्ष्येथ नवरात्रस्य विधिं सर्वेष्टदायकम् ॥
आश्विनस्य सिते पक्षे प्रतिपद्येकवार्षिकीम् ॥ ५०१ ॥

द्विवर्षीणा द्वितीयायामेवमग्रे प्रवर्धयेत् ॥
नवम्यां नववर्षा च सुरूपा व्यङ्गवर्जिता ॥ ५०२ ॥

शुद्धा बाला च ललिता मालिनी च वसुन्धरा ॥
सरस्वती रमा गौरी दुर्गा च नव कीर्तिताः ॥ ५०३ ॥

प्रातर्निमन्त्रितां भक्त्या देवतार्चां समाप्य च ॥
अभ्यङ्गस्नानशुद्धं तां पूजायतनमानयेत् ॥ ५०४ ॥

देवतासन्निधौ बालामुपवेश्य समर्चयेत् ॥
गन्धपुष्पाक्षतैर्धूपदीपैश्च कुलदीपकैः ॥ ५०५ ॥

भक्ष्यभोज्यान्नपानाद्यैः क्षीराज्यमधुमांसकैः ॥
कदलीनारिकेरादिफलैस्तां परितोषयेत् ॥ ५०६ ॥

सशक्तिकः स्वयं देवि यौवनोल्लाससंयुतः ॥
यथाशक्ति जपेदेकोत्तरवृद्ध्या स्वकं मनुम् ॥ ५०७ ॥

बालामलङ्कृतां पश्चाच्चिन्तयेत् स्वेष्टदेवताम् ॥
ततस्ता देवताबुद्ध्या नमस्कृत्य विसर्जयेत् ॥ ५०८ ॥

त्रिताराद्यैर्नमोन्तैश्च देवतापदपश्चिमैः ॥
नामभिः सचतुर्थ्यन्तैः पूजयेत्ताः पृथक्पृथक् ॥ ५०९ ॥

बटुकं पञ्चवर्षं च नववर्षं गणेश्वरम् ॥
क्रमादन्ते तथादौ च गन्धाद्यैः परिपूजयेत् ॥ ५१० ॥

नवरात्रकृतां पूजां ततो देव्यै समर्पयेत् ॥
ताम्बूलं दक्षिणां दत्त्वा कुमारीं तां विसर्जयेत् ॥ ५११ ॥

एवं नवकुमारीणां पूजनं प्रतिवत्सरम् ॥
यः करोति सुखी चात्र मृतो देवो भवेत्स तु ॥ ५१२ ॥

अथ वा यौवनारूढाः प्रमदा नव सुन्दरीः ॥
मनोज्ञाः पूजयेद्भक्त्या नवमातृषु मन्त्रवित् ॥ ५१३ ॥

हृल्लेखामङ्गनां रक्तां महोच्छुष्मां करालिकाम् ॥
इच्छाज्ञानां क्रियां दुर्गां बटुकं च गणेश्वरम् ॥ ५१४ ॥

पूर्ववत्पूज्य मद्याद्यैः पदार्थैः परितोषयेत् ॥
सर्वैश्वर्यसमृद्धात्मा स भवेदावयोः प्रियः ॥ ५१५ ॥

भृगुवारे तु वारेन्द्रे कान्तामारूढयौवनाम् ॥
सर्वलक्षणसम्पन्नामनुकूलां मनोहराम् ॥ ५१६ ॥

कुलाकुलाङ्गनां वापि निमन्त्र्याहूय पुष्पिणीम् ॥
अभ्यङ्गस्नानशुद्धाङ्गीमासने चोपवेशयेत् ॥ ५१७ ॥

गन्धपुष्पैरलङ्कारैरलङ्कृत्यविधानतः ॥
आत्मानं गन्धपुष्पाद्यैरलङ्कुर्याच्च साधकः ॥ ५१८ ॥

आवाह्य देवतां तस्यां यजेन्मासक्रमेण च ॥
कृत्वा कर्मार्चनं धूपं दीपांश्च कुलदीपकान् ॥ ५१९ ॥

प्रदर्श्य देवताबुद्ध्या पदार्थैः षड्रसान्वितैः ॥
मांसादिभक्ष्यभोज्याद्यैस्तोषयेदतिभक्तितः ॥ ५२० ॥

प्रौढान्तूल्लाससहितां पश्येच्च प्रजपेन्मनुम् ॥
यौवनोल्लाससहितः स्वयं तद्ध्यानतत्परः ॥ ५२१ ॥

निर्विकारेण चित्तेन अष्टोत्तरसहस्रकम् ॥
जपादिकं समर्प्याथ तया सह निशां नयेत् ॥ ५२२ ॥

कृत्वेदं भृगुवारेषु ब्रह्मस्वात्परिमुच्यते ॥
दारिद्र्यस्य तु नाशः स्यात्पञ्चभिर्भृगुवासरैः ॥ ५२३ ॥

सन्ततिश्चाक्षता तस्य सम्पत्तिर्भृगुसप्तभिः ॥
नवभिर्भृगुवारैस्तु देवसायुज्यमाप्नुयात् ॥ ५२४ ॥

वक्ष्येथ सर्वकामानां साधनं मिथुनार्चनम् ॥
सङ्क्रान्तौ विषुवत्यां वायने वा तत्समाचरेत् ॥ ५२५ ॥

गौरीशिवौ रमाविष्णू वाणीसरसिजासनौ ॥
शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च तथैव च ॥ ५२६ ॥

भद्रकाली वीरभद्रौ भैरवीभैरवावपि ॥
मिथुनानि नवाभ्यर्च्य पूर्वोक्तेनैव वर्त्मना ॥ ५२७ ॥

त्रितारादिनमोन्तेन 24 तत्तन्नाम्ना विधानवित् ॥
सम्पूज्य गन्धपुष्पाद्यैर्मद्याद्यैः परितोषयेत् ॥ ५२८ ॥

प्रौढान्तोल्लासयुक्तानि कुर्वीत मिथुनानि च ॥
एवं कृते न सन्देहस्तुष्टाः स्युर्नव देवताः ॥ ५२९ ॥

वर्षेवर्षेतु यः कुर्यान्न स दुःखमवाप्नुयात् ॥
पुत्रार्थं नववारन्तु धनार्थं प्रतिमासकम् ॥ ५३० ॥

अयेने विषुवे चैव कारागृहविमुक्तये ॥
नपुंसकस्य पुंस्त्वार्थमष्टवारान्समाचरेत् ॥ ५३१ ॥

अथ कौलिकमार्गाणां देवता सापि वक्ष्यते ॥
पापनाशे सुखोत्पत्तिस्तद्वर्षेपक्षपूजनम् ॥ ५३२ ॥

माघशुक्लप्रतिपदि दिवा चाहारवर्जितः ॥
स्नात्वा शुक्लाम्बरधरः सायं सन्ध्यामुपास्य च ॥ ५३३ ॥

सूर्यार्चनं तु मार्गेण सर्वद्रव्यसमन्वितः ॥
चन्द्रास्तमानपर्यन्तं जपेन्मन्त्रमनन्यधीः ॥ ५३४ ॥

एवं प्रतिदिनं शुक्लचतुर्दश्यां समर्चयेत् ॥
पूर्णमास्यां यथाशक्ति पूजयेच्छक्तिकौलिकान् ॥ ५३५ ॥

यौवनोल्लाससहितश्चन्द्रस्थां देवतां स्मरेत् ॥
एवं शुक्लार्चनं कृत्वा रात्रिपापैः प्रमुच्यते ॥ ५३६ ॥

शुक्लपक्षार्चनं यद्वत्तद्वत्पक्षे सितेतरे ॥
यः करोति विधानेन सर्वान्कामान्समश्नुते ॥ ५३७ ॥

अथ वैशाखमासस्य शुक्लप्रतिपदीश्वरी ॥
ब्राह्मे मुहूर्ते चोत्थाय स्नानं सन्ध्यामुपास्य च ॥ ५३८ ॥

मनोज्ञे रहसि स्थाने पूर्वाशाभिमुखः स्थितः ॥
आत्मानं गन्धपुष्पाद्यैरलङ्कृत्य च वर्तयेत् ॥ ५३९ ॥

सन्ध्याद्यमुद्गते सूर्यमण्डले त्विष्टदेवताम् ॥
ध्यात्वा सावरणां सर्वैरुपचारैः प्रपूजयेत् ॥ ५४० ॥

चक्रपूजां ततः कृत्वा कुलदीपान्प्रदर्शयेत् ॥
शिवाय गुरुरूपाय मत्स्यमांसादिभक्ष्यकम् ॥ ५४१ ॥

देव्यै निवेद्य तच्छेषं पिबेच्छक्त्या युतः स्वयम् ॥
यौवनोल्लास सहितो निर्विकल्पेन चेतसा ॥ ५४२ ॥

ध्यायेत्तां मण्डले देवीमष्टोत्तरसहस्रकम् ॥
जप्त्वा समर्प्य तां पूजां देवताश्च समुद्वसेत् ॥ ५४३ ॥

एवं शुक्लप्रतिपदं समारभ्य दिनेदिने ॥
कुर्याज्जपार्चनं कृष्णचतुर्दश्यां च सुस्थिरः ॥ ५४४ ॥

अमावास्यादिने पूज्यास्त्र्याद्याविषमकौलिकाः ॥
युग्मीभूतास्तदाघस्रकृतं पापं व्यपोहति ॥ ५४५ ॥

एवं मध्याह्नवेलायामर्चयित्वा प्रतापवान् ॥
सायाह्ने तु सम्भ्यर्च्य कीर्तिर्याति 25 दिगन्तरम् ॥ ५४६ ॥

सन्ध्ययोरर्चयेद्यस्तु तस्य श्रीः सर्वतोमुखी ॥
पूजयेद्यस्त्रिसन्ध्यासु योगिन्यस्तस्य वश्यगाः ॥ ५४७ ॥

श्रीकण्ठादीनि पञ्चाशन्मिथुनानि समर्चयेत् ॥
पूर्वोक्तेन विधानेन धनलोभविवर्जितः ॥ ५४८ ॥

प्रौढान्तोल्लासयुक्तानि मिथुनान्यत्र कारयेत् ॥
सन्तुष्टाय प्रयच्छन्ति साधकायेप्सितं फलम् ॥ ५४९ ॥

केशवादिगणेशादिकामपीठादिकानि च ॥
श्रीकण्ठादिवदभ्यर्च्य तत्तल्लोके महीयते ॥ १५० ॥

खभूमिदिग्जलगिरिव्योमसर्वचरास्तु याः ॥
सहस्रकोटियोगिन्यस्तावन्तो भैरवा अपि ॥ ५५१ ॥

नियुक्ताः सर्व एवैते कुलसंरक्षणाय च ॥
दिवसेषु विशेषेषु सर्वे मुदितमानसाः ॥ ५५२ ॥

साधकान्नैव पीड्यन्ति 26 स्वस्वपूजानुलिप्सया ॥
अपूजितास्तु विघ्नन्ति प्रसीदन्ति हि पूजिताः ॥ ५५३ ॥

गुरुभक्तान्सदाचारान्गुप्तधर्मानवन्ति च ॥
भक्तिहीनान्दुराचारान्नाशयन्ति प्रकाशकान् ॥ ५५४ ॥

अथ वक्ष्ये कुलाचारमार्गशास्त्रार्थनिर्णयम् ॥
कौलिकानां कुले जातो ज्येष्ठो यदि न दीक्षितः ॥ ५५५ ॥

कनिष्ठो दीक्षितश्चेत्स्यात्स कुर्यात्कुलपूजनम् ॥
पूजान्ते शेषमादाय ज्येष्ठे तत्तु निवेदयेत् ॥ ५५६ ॥

तस्योच्छिष्टन्तु गृह्णीयात्कनिष्ठ इति निर्णयः ॥
पूजामध्ये गुरौ ज्येष्ठे पूज्ये वापि समागते ॥ ५५७ ॥

नत्वा ब्रूयात्स्थितिं शेषमाचरेत्तदनुज्ञया ॥
नित्यार्चनं दिवा कुर्याद्रात्रौ नैमित्तिकार्चनम् ॥ ५५८ ॥

काम्यार्चनं प्रोक्तकाले बहवो यत्र सङ्गताः ॥
नत्वा स्वस्वगुरून्मन्त्रं स्वस्वमार्गेण तर्पयेत् ॥ ५५९ ॥

विनासनं विना स्नानं गन्धपुष्पाक्षतान्विना ॥
विना मद्यं विना मांसं कुलपूजां न कारयेत् ॥ ५६० ॥

न कुर्यात्प्रलपन्वापि विना मन्त्रेण पूजनम् ॥
शक्त्या विना तथा पानमेकहस्तेन नार्चयेत् ॥ ५६१ ॥

न पिबेदेकहस्तेन चक्रे निष्ठीवनं चरेत् ॥
प्रणम्य प्रविशेच्चक्रं विनिर्गच्छेत्प्रणम्य च ॥ ५६२ ॥

श्रीचक्रे नासने तिष्ठेन्न च वीरासने क्वचित् ॥
श्रीचक्रमेकतः कुर्यादेकपात्रे च नार्चयेत् ॥ ५६३ ॥

श्रीचक्रदर्शनन्नॄणां नेत्रयोः पापहारकम् ॥
तन्नास्ति चेद्व्रणद्वन्द्वं कौलिकस्याक्षियुग्मकम् ॥ ५६४ ॥

अनाचारान्सदाचारांश्चक्रस्थाञ्छक्तिकौलिकान् ॥
शिवगौरीधिया सर्वान्भावयेन्नावमानयेत् ॥ ५६५ ॥

कुलाचार्यगृहं गत्वा भक्त्या पापविशुद्धये ॥
याचयेदमृतं चान्नं तदभावे जलं पिबेत् ॥ ५६६ ॥

कुलाचार्येण चेच्छक्त्या दत्तं पात्रं तु भक्तितः ॥
नमस्कृत्य प्रगृह्णीयादन्यथा नरकं व्रजेत् ॥ ५६७ ॥

उष्णीषी कञ्चुकी नग्नो मुक्तकेशश्च भुक्तवान् ॥
अस्नातो नातिभक्तश्च विवादे च पराङ्मुखः ॥ ५६८ ॥

नेदं यस्य कुले जातं यश्च संस्कारवान्द्विजः ॥
वेदाध्यायी कुलद्रव्यसेवनान्निर्धनो भवेत् ॥ ५६९ ॥

योगामृतस्य निष्ठीवान्मद्यभाण्डपरिक्रमात् ॥
ऊर्ध्वं गलेन पानाच्च देवताशापमाप्नुयात् ॥ ५७० ॥

एकासने निविष्टा ये भुञ्जानाश्चैकभाजने ॥
एकपात्रे पिबन्तो ये ते यान्ति निरयं ध्रुवम् ॥ ५७१ ॥

ये सेवन्ते कुलद्रव्यमेकग्रामे स्थिते गुरौ ॥
तत्कुलजे च तत्पुत्रे स्वज्येष्ठे कुलदेशिके ॥ ५७२ ॥

विनानुज्ञां स पापात्मा रौरवं निरयं व्रजेत् ॥
उच्छिष्टो न स्पशेच्चक्रं कुलद्रव्यं तथा गुरुम् ॥ ५७३ ॥

बहिःप्रक्षाल्य च जलैः कुलद्रव्याणि दापयेत् ॥
मद्यभाण्डं समुद्धृत्य न पात्रं परिपूजयेत् ॥ ५७४ ॥

भोगपात्रं सुराकुम्भं निक्षिपेन्न कदाचन ॥
चक्रमध्ये शुचिधिया करास्यक्षालनादिकम् ॥ ५७५ ॥

यः करोति च मूढात्मा स भवेदापदां पदम् ॥
निष्ठीवनं मलं मूत्रमधोवायुविसर्जनम् ॥ ५७६ ॥

श्रीचक्रमध्ये यः कुर्यात्स भवेद्योगिनीपशुः ॥
चक्रमध्ये घटे भिन्ने पात्रे वा स्खलिते तथा ॥ ५७७ ॥

दीपनाशे राष्ट्रपीडा गच्छेद्वै चक्रपूजनम् ॥
परिहासं प्रलापं च विडम्बम्बहुभाषणम् ॥ ५७८ ॥

औदासीन्यं भयं क्रोधं चक्रमध्ये विवर्जयेत् ॥
पात्रहस्तश्चक्रमध्ये न नमेत्पूर्णपात्रकम् ॥ ५७९ ॥

चिरं न स्थापयेद्धस्ते नालभेत्पात्रपाणिकः ॥
पादाभ्यां न स्पृशेत्पात्रं न च भिन्द्यात्कदाचन ॥ ५८० ॥

नैकहस्तेन दातव्यं न बिन्दुम्पातयेदधः ॥
पात्रं न चालयेत्स्थान्न मुद्रावर्जितं पिबेत् ॥ ५८१ ॥

जल्पन्नापि पिबेन्मद्यं न कुर्यात्पात्रसङ्करम् ॥
पात्रस्यांशद्वयं मद्यपूर्णं त्र्यंशन्तु रिक्तकम् ॥ ५८२ ॥

नान्योन्यं ताडयेत्पात्रं न पात्रं ताडयेदधः ॥
साधारं नोद्धरेत्पात्रमनाधारे न निक्षिपेत् ॥ ५८३ ॥

रिक्तं पात्रं न कुर्वीत न पात्रं लङ्घयेत्तथा ॥
प्रक्षाल्य गोमये पात्रं नमोन्ते विप्रमीक्षयेत् ॥ ५८४ ॥

कथनं धर्मशास्त्रस्य ह्यकुलस्त्रीनिषेवणम् ॥
श्रोत्रियाणां च सङ्गस्तु करणं श्रौतकर्मणाम् ॥ ५८५ ॥

कामार्थायुर्यशोलाभज्ञानसौख्यादिनाशकम् ॥
तस्मात्कौलपथे गच्छन्न कुर्वीत कदाचन ॥ ५८६ ॥

श्रीचक्रस्थकुलद्रव्यं दद्याद्यो वाऽकुले जने ॥
स महापातकी ज्ञेयो रौरवं नरकं व्रजेत् ॥ ५८७ ॥

रिपुणापि न कर्तव्यो वाग्वादश्चक्रमध्यतः ॥
पितृमातृसमं पश्येत्तेनोक्तं परुषं सहेत् ॥ ५८८ ॥

श्रिगुरुं कुलशास्त्राणि पूज्यस्थानानि यानि च ॥
भक्त्या श्रीपूर्वकं विद्वान्प्रणम्य परिकीर्तयेत् ॥ ५८९ ॥

पारम्पर्यं समास्थाय मन्त्राचारादिकं पुनः ॥
सर्वं गुरुमुखाल्लब्धं सफलं स्यान्न चान्यथा ॥ ५९० ॥

श्रीशास्त्रं पूजयेन्नित्यं पशुगेहे न निक्षिपेत् ॥
स्वदारवन्निषेवेत कलशास्त्राणि तान्त्रिकः ॥ ५९१ ॥

पशुशास्त्राणि सर्वाणि वर्जयेत्परदारवत् ॥
संस्कारार्थं छिन्नभिन्नान्व्यस्तवर्णांश्च वैदिकान् ॥ ५९२ ॥

मन्त्रान्पठेत्सम्प्रदायात्तैः स्यादत्र व्यवस्थितिः ॥
धर्मशास्त्रविरुद्धो य आचारः स तु कौलिकः ॥ ५९३ ॥

चक्रे नाकारयेदेता देवीवत्ताः प्रपूजयेत् ॥
गमनं नैव कुर्वीत कृत्वा निरयमाप्नुयात् ॥ ५९४ ॥

मातरं गुरुपत्नीं च भगिनीं भगिनीसुताम् ॥
भ्रातृजायां वीरभार्यां कुमारीं व्रतधारिणीम् ॥ ५९५ ॥

व्यङ्गाङ्गीं विकृताङ्गीं च क्षुब्धां प्रीतां समाहृताम् ॥
स्नुषां सकृत्कामगता वृद्धां नैवामनोहराम् ॥ ५९६ ॥

मनोहरा यौवनस्थां सुवेशां चारुहासिनीम् ॥
रक्तान्तनयनां श्यामां पूजयेत्कौलिकाङ्गनाम् ॥ ५९७ ॥

अकस्माच्च न सेवेत बलेन कुलयोगिनीम् ॥
चक्रमध्ये स्वयं क्षुब्धां वा स्वतः प्रार्थिनीं यभेत् ॥ ५९८ ॥

आममांसं सुराकुम्भं मत्तेभं सिद्धदर्शनम् ॥
सहकारमशोकं च क्रीडालुब्धाः कुमारिकाः ॥ ५९९ ॥

एकवृक्षं श्मशानं च समूहं योषितामपि ॥
नारीं च रक्तवसनां दृष्ट्वा वन्देत भक्तितः ॥ ६०० ॥

गुरुशक्तिमुतज्येष्ठं कनिष्ठं कुलदेशिकान् ॥
कुलदर्शनशास्त्राणि कुलद्रव्याणि कौलिकान् ॥ ६०१ ॥

प्रेरकान्सूचकांश्चापि वाचकान्दर्शकांस्तथा ॥
शिक्षकान्बोधकान्योगियोगिनीसिद्धपूरुषान् ॥ ६०२ ॥

कन्यां कुमारिकां नग्नामुन्मत्ता नापि योषितः ॥
न निन्देन्न जुगुप्सेत न हसेन्नापमानयेत् ॥ ६०३ ॥

नाप्रियं नानृतं ब्रूयात्कस्यापि कुलयोगिनः ॥
कुरूपेत्यतिकृष्णेति न वदेत्कुलयोषितम् ॥ ६०४ ॥

परीक्षयेन्न भक्तानां वीराणां च कृताकृते ॥
न पश्येत्पतितां नग्नामुन्मत्तां प्रकटस्तनीम् ॥ ६०५ ॥

न दिवा सेवयेन्नारीं तद्योनिं न निरीक्षयेत् ॥
स्त्रियं शतापराधां वा पुष्पेणापि न ताडयेत् ॥ ६०६ ॥

दोषान्न गणयेत्स्त्रीणां गुणानेव प्रकाशयेत् ॥
तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा ॥ ६०७ ॥

तत्पत्रेषु न भोक्तव्यमर्कपत्रे विशेषतः ॥
न स्वप्यात्कुलवृक्षाधो न चोपद्रवमाचरेत् ॥ ६०८ ॥

दृष्ट्वा भक्त्या नमस्कुर्याच्छेदयेन्न कदाचन ॥
श्लेष्मान्तककरञ्जाक्षनिम्बाश्वत्थकदम्बकाः ॥ ६०९ ॥

बिल्वो वटोदुम्बरौ च चिञ्चा चेति दश स्मृताः ॥
प्रायश्चित्तं भृगोः प्रोक्तं सन्न्यासं व्रतधारणम् ॥ ६१० ॥

तीर्थयात्रादिगमनं कौलिकस्तु विवर्जयेत् ॥
एकाक्षरप्रदातारं यो गुरुं चावमन्यते ॥ ६११ ॥

स श्वयोनिशतं गत्वा चाण्डालत्वमवाप्नुयात् ॥
एकस्य हननात्क्षेमं बहूनां चेच्छुभा गतिः ॥ ६१२ ॥

अन्तः कौलं बहिः शैवं जनमध्ये तु वैष्णवम् ॥
कौलं तु गोपयेद्देवि नारिकेलफलाम्बुवत् ॥ ६१३ ॥

गुरुं प्रकाशयेद्धीमान्मन्त्रं यत्नेन गोपयेत् ॥
अप्रकाशप्रकाशाभ्यां क्षीयन्ते सम्पदायुषः ॥ ६१४ ॥

सर्वाचारपरिभ्रष्टः कुलाचारं समाश्रयेत् ॥
कुलाचारपरिभ्रष्टो रौरवं नरकं व्रजेत् ॥ ६१५ ॥

वामाचारं न कथयेदकुलीनाय सद्गुरुः ॥
आचारात्पतिते शिष्ये पातकी स गुरुर्भवेत् ॥ ६१६ ॥

इष्टः कश्चित्कौलिकस्य महोपद्रवमास्थितः ॥
तस्य दुःखापहाराय कुर्यादष्टाष्टपूजनम् ॥ ६१७ ॥

एकस्मिन्दिवसे वाष्टदिनं वा षोडशाहकम् ॥
दन्ताहं 27 वा चतुष्षष्टिदिनं कार्यं गुरुत्वतः ॥ ६१८ ॥

कारयेद्वा स्वयं कुर्याद्वित्तशाठ्यविवर्जितः ॥
तत्रोपोष्य विशुद्धात्मा कृत्वा न्यासान्पुरोदितान् ॥ ६१९ ॥

प्रसुप्ते जीवलोके तु मुदितात्मा महामनाः ॥
ब्राह्मी माहेश्वरी चैव कौमारि वैष्णवी तथा ॥ ६२० ॥

वाराही च तथेन्द्राणी चामुण्डा महती रमा ॥
एता एव समाख्याता मया ते चाष्टमातरः ॥ ६२१ ॥

असिताङ्गो गुरुश्चण्डः क्रोधोन्मत्तकपालिनः ॥
भीषणश्चाथ संहार एतेष्टौ भैरवा मताः ॥ ६२२ ॥

आचम्य मिथुनेष्टौ तान्परमैः पूर्ववद्यजेत् ॥
प्रौढान्तोल्लासपर्यन्तं कार्यं सिद्ध्यत्यसंशयम् ॥ ६२३ ॥

कृता चेद्देवतोषाय पुरश्चर्याविशिष्यते ॥
गुरुभक्तिविहीनस्य तपोविद्याव्रतं कुलम् ॥ ६२४ ॥

व्यर्थं सर्वं शवस्येव नानालङ्कारभूषणम् ॥
तस्माद्गुरुः सदा सेव्यो मनोवाक्कायकर्मभिः ॥ ६२५ ॥

गुरौ मनुष्यबुद्धिं च मन्त्रे वाक्षरशेमुषीम् ॥
प्रतिमासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेत् ॥
कुलागमत्वमार्गोयं गुरुणा सम्प्रदर्शितः ॥ ६२६ ॥

सम्यगाचरितश्चेत्स्याद्भुक्तिमुक्त्योस्तु साधनम् ॥ ६२७ ॥

विप्रोपि गुणयुक्तोपि न भक्तश्चेन्न शस्यते ॥
म्लेच्छोपि गुणहीनोपि भक्तिमाञ्छिष्य उच्यते ॥ ६२८ ॥

गुरोर्हितं हि कर्तव्यं वाङ्मनःकायकर्मभिः ॥
अहिताचरणाच्छिष्यो विष्ठायां जायते कृमिः ॥ ६२९ ॥

गुरुत्यागाद्भवेन्मृत्युर्मन्त्रत्यागाद्दरिद्रता ॥
गुरुमन्त्रपरित्यागाद्रौरवं नरकं व्रजेत् ॥ ६३० ॥

गुरूक्तं पुरुषं वाक्यमाशिषं चिन्तयेद्धृदि ॥
नमेत्सन्ताडितो वापि प्रसादमिति संस्मरेत् ॥ ६३१ ॥

भोगभोज्यानि वस्तूनि गुरवे सर्वमर्पयेत् ॥
तच्छेषमिति सञ्चिन्त्य ग्राह्यं तस्याज्ञया मुदा ॥ ६३२ ॥

ऋणादानं तथा दानं वस्तूनां क्रयविक्रये ॥
न कुर्यादगुरुभिः सार्द्धं नोद्वहेत्तत्कुलोद्भवाम् ॥ ६३३ ॥

समासोक्तं रहस्यार्थं नवदेद्यस्य कस्यचित् ॥
यदि ब्रूयात्स उभयच्युत एव न संशयः ॥ ६३४ ॥

सर्वस्वमपि यो दद्याद्गुरौ भक्तिविवर्जितः ॥
शिष्यो न फलमाप्नोति भक्तिरेव हि कारणम् ॥ ६३५ ॥

यस्मिन्द्रव्ये गुरोरस्ति स्पृहा नानुभवेच्च तत् ॥
अवश्यं यदि वापि स्यादनुभूयात्तदाज्ञया ॥ ६३६ ॥

अत्यल्पं हि गुरोर्द्रव्यमदत्तं स्वीकरोति यः ॥
तिरश्चां योनिमापन्नः क्रव्यादैः स भक्ष्यते ॥ ६३७ ॥

आज्ञाभङ्गोऽर्थहरणं गुरोर्विप्रियवर्तनम् ॥
गुरुद्रोहमिमं प्राहुर्यः कुर्यात्स तु पातकी ॥
गुरुमित्रसुहृद्दासदास्यादीन्नावमानयेत् ॥ ६३८ ॥

न निन्देदन्यसमयान्वेदशास्त्रागमादिकान् ॥
पादुकासनं च वस्त्रं वाहनं चामरादिकम् ॥
दृष्ट्वा गुरुं नमस्कुर्यान्नानाभोगाय कामयेत् ॥ ६३९ ॥

सदसद्यद्गुरुर्ब्रूयात्तत्कार्यमवशश्चरेत् ॥
निग्रहेनुग्रहे वापि गुरुः सर्वस्य कारणम् ॥ ६४० ॥

निर्गतं यद्गुरोर्वक्त्रात्सर्वं शास्त्रं तदुच्यते ॥
गुरुकार्ये स्वयं शक्तो नापरं प्रेषयेत्क्वचित् ॥ ६४१ ॥

बहुकृत्यं परैः कुर्यात्सहितोप्यतिभक्तिमान् ॥
तिष्ठञ्जाग्रत्स्वपन्खादन्प्रपिबंश्चिन्तयेद्गुरुम् ॥ ६४२ ॥

गुर्वाज्ञामेव कुर्वीत तद्गतेनान्तरात्मना ॥
अभिमानो न कर्तव्यो जातिविद्याधनादिभिः ॥ ६४३ ॥

तत्पापं समवाप्नोति गुर्वग्रेऽनृतभाषणात् ॥
गोब्राह्मणवधं कृत्वा न यत्पापमवाप्नुयात् ॥ ६४४ ॥

गुरोः सिंहासनं देयं ज्येष्ठानामुत्तमासनम् ॥
विध्यासनं कनिष्ठानामितरेषां समासनम् ॥ ६४५ ॥

जातिविद्याधनाढ्यो वा दूराद्दृष्ट्वा गुरुं मुदा ॥
दण्डप्रणामं कृत्वैकं त्रिः प्रदक्षिणमाचरेत् ॥ ६४६ ॥

गुरुतो गुरुयोगे तु वन्देत्तत्र स्वकं गुरुम् ॥
ततो वन्देद्गुरुं सोपि ततः शिष्यः प्रवादयेत् ॥ ६४७ ॥

गुरोः प्रणामत्रितयं ज्येष्ठानामेक एव च ॥
पूज्यानामञ्जलिस्तद्वदन्येषां बाह्यवन्दनम् ॥ ६४८ ॥

देवान्गुरून्कुलाचार्याञ्ज्येष्ठान्वृद्धांस्तपोधनान् ॥
विद्याधिकान्स्वकर्मस्थाञ्छ्रोत्रियान्प्रणमेत्सदा ॥ ६४९ ॥

स्त्रीदिष्टं गुरुशप्तं च पाखण्डं पतितं शठम् ॥
विकर्मिणं कृतघ्नं चानाश्रमस्थं नमेन्न च ॥ ६५० ॥

भूङ्क्ते निवेद्य गुरवे यस्त्वेकग्रामसंस्थितः ॥
तेन भुक्तममेध्यं स्यान्मृतो जायेत सूकरः ॥ ६५१ ॥

एकग्रामे स्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद्गुरुम् ॥
क्रोशमात्रस्थितो भक्त्या गुरुं प्रतिदिनं नमेत् ॥ ६५२ ॥

अर्धयोजनतः शिष्यः प्रणमेत्पञ्चपर्वसु ॥
एकयोजनमारभ्य योजनद्वादशावधि ॥ ६५३ ॥

दूरदेशे स्थितः शिष्यो भक्त्या तत्सन्निधिं गतः ॥
तत्तद्योजनसङ्ख्याकमासेषु प्रणमेद्गुरुम् ॥ ६५४ ॥

अति दूरस्थितं शिष्यो यदेच्छा स्यात्तदा व्रजेत् ॥
रिक्तहस्तो न पश्येच्च राजानन्देवतां गुरुम् ॥ ६५५ ॥

फलपुष्पाम्बरार्थादीन्यथाशक्ति समर्पयेत् ॥
एवं यो नार्चयेद्विप्रो ब्रह्मराक्षसतां व्रजेत् ॥ ६५६ ॥

गुरुशक्तिश्च तत्पुत्रा ज्येष्ठभ्राता गुरोः समाः ॥
आत्मवच्च कनिष्ठानां पुत्रवत्परिपालकः ॥ ६५७ ॥

स्वविद्यानुष्ठानतपोधर्माणामप्रकाशकः ॥
वर्णाश्रमज्ञानतपोधर्माणां च प्रकाशकः ॥ ६५८ ॥

षट्कर्मसु सुसिद्धो यो दाता भोक्ता न याचकः ॥
स एव कौलिकाचार्यस्त्वन्यः कुलविडम्बकः ॥ ६५९ ॥

पिण्डं पदं तथा रूपं रूपातीतं निरञ्जनम् ॥
यस्तु सम्यग्विजानाति स गुरुश्चोद्धरेत्परम् ॥ ६६० ॥

पाशस्तम्भं वेददीक्षां पशुग्रहणमेव च ॥
त्रिविधं योविजानाति स गुरुः कथितः प्रिये ॥ ६६१ ॥

पशुपाशपशूनाञ्च रहस्यार्थविधानवित् ॥
यो जानाति वरारोहे स गुरुः परिकीर्तितः ॥ ६६२ ॥

घृणा शङ्काभयं लज्जा जुगुप्सा चेति पञ्चमी ॥
कुलं शीलं तथा शक्तिरष्टौ पाशाः प्रकीर्तिताः ॥ ६६३ ॥

पाशबद्धः प्रशुः प्रोक्तः पाशमुक्तो महेश्वरः ॥
तस्मात्पाशहरो योत्र स गुरुर्नान्य उच्यते ॥ ६६४ ॥

मूलादिब्रह्मरन्ध्रान्तं सप्ताम्भोजदलेषु यः ॥
जीवचालफलं वेत्ति स गुरुर्नापरः प्रिये ॥ ६६५ ॥

संसारभयभीतस्य शिष्यस्य गुरुरादरात् ॥
व्रतोपवासनियमैर्भियो हन्ता गुरुर्मतः ॥ ६६६ ॥

यः क्षणेनात्मसामर्थ्यं स्वशिष्याय ददाति हि ॥
क्रियाया आदिरहितं स गुरुर्दुर्लभः कलौ ॥ ६६७ ॥

गुरोर्यस्यैव सम्पर्कात्परानन्दोभिजायते ॥
गुरुं तमेव वृणुयान्नापरं मतिमान्नरः ॥ ६६८ ॥

शङ्कया भिक्षितं सर्वं त्रैलोक्यं सचराचरम् ॥
सा शङ्का भक्षिता येन स गुरुर्दुर्लभः क्षितौ ॥ ६६९ ॥

मधुभुक्च यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ॥
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ॥ ६७० ॥

गुरुः शिष्याधिकारार्थं विरक्तोपि शिवाज्ञया ॥
कञ्चित्कालं प्रतीक्ष्यैव पश्चाच्छिष्ये समर्पयेत् ॥ ६७१ ॥

सम्प्रदायमविछिन्नं कौलं कुर्यान्न कुत्रचित् ॥
यावच्च सम्प्रदायोस्ति तावत्स्याद्योगिनीपदम् ॥ ६७२ ॥

गुरुशिष्यावुभौ मोहादपरीक्ष्य परस्परम् ॥
उपदेशं ददद्गृह्णन्प्राप्नुयातां पिशाचताम् ॥ ६७३ ॥

असंस्कृत्योपदेशं तु यः करोति स मूढधीः ॥
विनश्यत्येव तन्मन्त्रः सैकते शालिबीजवत् ॥ ६७४ ॥

धनेच्छाभयलोभाद्यैरयोग्यं यदि दीक्षयेत् ॥
देवताशापमाप्नोति कृतं च विफलं भवेत् ॥ ६७५ ॥

कुलद्रव्यैः समभ्यर्च्य कुलचक्रं विधानतः ॥
शिष्याय दर्शयेत्सम्यग्दीक्षैषा कौलिकी मता ॥ ६७६ ॥

सिद्धद्रव्यं मुखे पूर्य पञ्चगव्यामृतान्वितम् ॥
अभिषिञ्चेत्प्रियं शिष्यं गण्डुषाख्येयमीरिता ॥ ६७७ ॥

सञ्जीवमीनयुक्तेन सुरया पूरितेन च ॥
पञ्चामृतैः सुसम्पूर्णशङ्खेन कलशेन वा ॥ ६७८ ॥

अभिषेकं ततः कुर्यात्कुलवृक्षोत्थपल्लवैः ॥
अयं पूर्णाभिषेकोत्र कुलमार्गे प्रकीर्तितः ॥ ६७९ ॥

पूर्णाभिषेकहीनाश्चेन्म्रियन्ते यदि कौलिकाः ॥
प्राप्नुवन्ति पिशाचत्वं यावदाभूतसम्प्लवम् ॥ ६८० ॥

उपपातकलक्षाणि महापातककोटयः ॥
क्षणाद्दहति दीक्षेयं विधिना गुरुणा कृता ॥ ६८१ ॥

रसेन्द्रेण 28 यथाविद्धमयः सौवर्णतां व्रजेत् ॥
दीक्षाविद्धस्तथा ह्यात्मा शिवत्वं लभते द्रुतम् ॥ ६८२ ॥

दीक्षाग्निदग्धकर्मासौ मायाविच्छिन्नबन्धनः ॥
यातः परां ज्ञानकाष्ठां निर्विण्णः स शिवो भवेत् ॥ ६८३ ॥

गतं शूद्रस्य शूद्रत्वं गता विप्रस्य विप्रता ॥
दीक्षासंस्कारसम्पन्ने जातिभेदो न विद्यते ॥ ६८४ ॥

दार्वश्म 29 लोहमृद्रत्नजातिलिङ्गं प्रतिष्ठितम् ॥
यथोच्यते महादेवस्तथा वर्णास्तु दीक्षिताः ॥ ६८५ ॥

अन्त्यजो दीक्षितः पूर्वं द्विजः पश्चाच्च दीक्षितः ॥
तदा ज्येष्ठोऽन्त्यजः प्रोक्तः कुलशास्त्रविनिश्चये ॥ ६८६ ॥

गुरुशक्तिसुतानां च यो भवेत्पूर्वदीक्षितः ॥
गुरुवत्तेन ते पूज्या नावमान्याः कदाचन ॥ ६८७ ॥

कौलिके वाममार्गे च वेधदीक्षा फलप्रदा ॥
अन्यास्ता दक्षिणे मार्गेन्यथा तु पतितो भवेत् ॥ ६८८ ॥

दीक्षापूर्वं गुरोः सिद्धं पारम्पर्यक्रमागतम् ॥
योग्यं योग्येन यल्लब्धं तच्च सिद्ध्यत्यसंशयम् ॥ ६८९ ॥

मासमात्रं जपेन्मत्रं भूतलिप्या तु सम्पुटम् ॥
क्रमोत्क्रमत्सहस्रन्तु तस्य सिद्धो भवेन्मनुः ॥ ६९० ॥

मण्डलं पूजयेन्मन्त्री मातृकाक्षरसंयुतम् ॥
अनुलोमविलोमाभ्यां षण्मासात्सिद्ध्यते मनुः ॥ ६९१ ॥

त्रितत्त्वाक्षरपूर्वं तु मातृकाक्षरपूर्वकम् ॥
क्रमोत्क्रमाच्छतं जप्त्वा मासात्सिद्धो भवेन्मनुः ॥ ६९२ ॥

मातृकाजपमात्रेण मन्त्राणां कोटिकोटयः ॥
जपिताः स्युर्न सन्देहस्तत्त्वं सर्वं तदुद्भवम् ॥ ६९३ ॥

जातसूतकमादौ स्यादन्ते च मृतसूतकम् ॥
न पुरश्चरणं यस्य स मन्त्रो नैव सिद्ध्यति ॥ ६९४ ॥

यस्यान्नपानपुष्टाङ्गः कुरुते धर्मसञ्चयम् ॥
अन्नदातुः फलं चार्धं कर्तुश्चार्धं न संशयः ॥ ६९५ ॥

सुगन्धपुष्पाभरणगन्धादिभिरलङ्कृतः ॥
तस्य हस्तगता सिद्धिर्नान्यथा जन्मकोटिभिः ॥ ६९६ ॥

तन्निष्ठस्तद्गतप्राणस्तच्चित्तस्तत्परायणः ॥
तत्परार्थानुसन्धानं कुर्वन्मन्त्रं शनैर्जपेत् ॥ ६९७ ॥

जपाच्छ्रान्तः पुनर्ध्यायेद्ध्यानाच्छ्रान्तः पुनर्जपेत् ॥
जपध्यानादियुक्तस्य क्षिप्रं मन्त्रः प्रसिद्ध्यति ॥ ६९८ ॥

अथ मन्त्री प्रयोगार्थं शुद्धहृन्नियमान्वितः ॥
शापप्रसाददं मन्त्रं तत्त्वलक्षमितं जपेत् ॥ ६९९ ॥

मधुरत्रयसंयुक्तैः सतिलैः शालितण्डुलैः ॥
दशाम्श जुहुयात्पश्चात्संस्कृते हव्यवाहने ॥ ७०० ॥

गन्धपुष्पाक्षताकल्पनववस्त्रादिभिः पुनः ॥
भक्ष्यभोज्यान्नपानाद्यैः कुलद्रव्यैर्मनोहरैः ॥
तोषयेद्योगिनीचक्रं यथाविधि सविस्तरम् ॥ ७०१ ॥

एवं न्यासं जपं ध्यानं सहोमार्चनतर्पणम् ॥
कृत्वा प्रयोगान्कुर्वीत तस्य सिद्धिर्न संशयः ॥ ७०२ ॥

प्रयोगान्ते चक्रपूजां विधिनैव समाचरेत् ॥
एकलक्षं जपेन्मन्त्रं ध्यानन्याससमन्वितम् ॥ ७०३ ॥

प्रयोगदोषशान्त्यर्थमात्मनोर्थार्थमेव च ॥
स्वरवर्णपदद्वित्वबिन्दुचैतन्यसूचकम् ॥ ७०४ ॥

ह्रस्वदीर्घप्लुताद्यांश्च ज्ञात्वा कर्माणि साधयेत् ॥
मूलं प्रासादबीजं तु तरुणादित्यसुप्रभम् ॥ ७०५ ॥

उत्तमाङ्गे पराबीजं चन्द्रायुतसमप्रभम् ॥
परस्परकरस्पर्शमिलितानन्दनिर्भरैः ॥ ७०६ ॥

मूलादिब्रह्मरन्ध्रान्तमनवच्छिन्नदीप्तिभिः ॥
परामृतरसासक्तैः सिक्तमापादमस्तकम् ॥
आत्मानं भावयेन्नित्यं स प्रयोगैर्न बाध्यते ॥ ७०७ ॥

अथ लोकोपकाराय वक्ष्ये ध्यानजपादिकम् ॥
स्वस्य रोगादिके जाते शान्तिर्येनाभिजायते ॥ ७०८ ॥

स्थिस्वा मृद्वासने ध्यायेद्गुरुवन्दनपूर्वकम् ॥
मस्तकान्तं च सम्पूर्णचन्द्रमण्डलमध्यकम् ॥ ७०९ ॥

श्रीप्रासादपराबीजं षोडशस्वरसंयुतम् ॥
मुक्तास्फटिककर्पूरकुन्देन्दुधवलं शुभम् ॥ ७१० ॥

सचन्द्रबीजसञ्जातसुधाप्लावितविग्रहम् ॥
आत्मानं भावयेदेवं परस्यात्मानमेव वा ॥ ७११ ॥

श्रीप्रासादपरामन्त्रमष्टोत्तरसहस्रकम् ॥
तरुणोल्लाससहितो मण्डलं पूजयेद्यदा ॥ ७१२ ॥

अपमृत्युमहारोगजरामरणजं भयम् ॥
ग्रहापस्मारवेतालभूतोन्मादादिसम्भवम् ॥
तस्य नो जायते देवाः कदाचिदिति निश्चयः ॥ ७१३ ॥

जराधिव्याधिरहितः पुत्रपौत्रादिसंयुतः ॥
जीवेद्वर्षशतं साग्रं पूजितः सर्वमानवैः ॥ ७१४ ॥

ज्वरोन्मादादिरोगेषु जपेच्छिरसि चिन्तयन् ॥
मूले वा ब्रह्मणो ग्रन्थौ तत्तत्स्थाने विचिन्तयेत् ॥ ७१५ ॥

पूर्ववत्तां महारोगे सर्वाङ्गव्यापिनीं स्मरेत् ॥
तत्क्षणाच्छान्तिमायान्ति सर्वरोगा न संशयः ॥ ७१६ ॥

दशेन्द्रियेषु यो ध्यायेल्लभेदिन्द्रियसौष्ठवम् ॥
सदा सञ्चिन्तयेन्मूर्ध्निं स भवेदजरामरः ॥ ७१७ ॥

हृत्पद्मकर्णिकामध्ये सूर्यमण्डलसंस्थितम् ॥
पराप्रासादबीजं तत्तरुणादित्यसन्निभम् ॥ ७१८ ॥

जपाबन्धूकसिन्दूरपद्मरागाम्बुजप्रभम् ॥
एवं विंशतिभिः स्पर्शाक्षरैः संवीतमन्त्रतः ॥ ७१९ ॥

तत्प्रभापटलच्छायारत्नीकृतजगत्त्रयम् ॥
आत्मानं संस्मरेदित्थं यौवनोल्लाससंयुतः ॥ ७२० ॥

अष्टोत्तरसहस्रं तु मण्डलं प्रजपेत्सदा ॥
देवदानवगन्धर्वसिद्धचारणगुह्यकान् ॥ ७२१ ॥

विद्याधरान्मुनीन्यक्षान्नागानप्सरसः स्त्रियः ॥
सिंहव्याघ्रोरगैणादीनन्यान्दुष्टमृगानपि ॥
वशीकरोत्यसन्देहः किम्पुनर्मानवादिकान् ॥ ७२२ ॥

स ईहैश्वर्यमाप्नोति स्वर्गभोगादिकं तथा ॥
यस्य मूर्ध्नि स्मरञ्जप्यात्स वश्यो जायतेऽचिरम् ॥ ७२३ ॥

मूलाधारसरोजान्तवह्निमण्डलमध्यगम् ॥
पराप्रासादबीजं तत्कल्पाग्निसदृशं स्मरेत् ॥ ७२४ ॥

प्रतिलोमैस्तु संवीतं दशभिर्व्यापकाक्षरैः ॥
स्वयं कालानलसमः सर्वभूतभयङ्करः ॥ ७२५ ॥

दक्षिणैशान्यभिमुखो यौवनोल्लाससंयुतः ॥
मन्त्रन्तु मण्डलं जप्यादष्टोत्तरसहस्रकम् ॥ ७२६ ॥

अनिष्टकारिणः क्रूरान्वृथा विद्वेषकारिणः ॥
भूतोग्रग्रहवेतालपिशाचान्ब्रह्मराक्षसान् ॥ ७२७ ॥

तद्वह्निमध्यपतितानग्निदग्धांश्च चिन्तयेत् ॥
क्षणेन नाशमायान्ति शलभा इव सर्वतः ॥
यस्य मूर्ध्नि स्मरेद्बीजं स मृत्युमधिगच्छति ॥ ७२८ ॥

खदिरश्वेतमन्दारामृताभानुसमिद्वरैः ॥
पनसोदुम्बराश्वत्थप्लक्षापामार्गजैश्च वा ॥ ७२९ ॥

नन्द्यावर्तसिताम्भोजहयारिकुसुमैश्च वा ॥
एकेन वार्धश्लोकोक्तैस्तिलतण्डुलसंयुतैः ॥ ७३० ॥

मधुरत्रययुक्तैर्वा भक्ष्यैर्वा पायसैरपि ॥
सहस्रादयुतान्तं च यथाकार्यं तथाचरेत् ॥ ७३१ ॥

पूर्वोक्तस्य जपस्यात्र सिद्धये सात्त्विकस्य तु ॥
शान्तिकं पौष्टिकं सन्धिरुपकारश्च सात्त्विके ॥ ७३२ ॥

कदम्बाशोकबकुलपुन्नागाम्रमधूकजैः ॥
चम्पकद्वयपालाशपाटलश्रीकपित्थजैः ॥ ७३३ ॥

मालतीमल्लिकाजातिबन्धूकारुणपङ्कजैः ॥
कुमार्यरुणमन्दारजातीकुन्दजपादिभिः ॥ ७३४ ॥

सनारिकेलकदलीद्राक्षेक्षुपृथुकैरपि ॥
चन्दनागुरुकर्पूररोचनाकुङ्कुमादिभिः ॥ ७३५ ॥

युक्तैरन्यैः शुभद्रव्यैः शमीपत्रफलाम्बुना ॥
पृथक्छ्लोकार्धसम्प्रोक्तैः प्राग्वद्धोमस्तु राजसे ॥ ७३६ ॥

कुर्यात्कार्यस्य वशतः सहस्राद्ययुतान्तकम् ॥
स्तम्भो वश्यं मोहनं च कौतुकं राजसं मतम् ॥ ७३७ ॥

निम्बाक्षभास्करोन्मत्तकरवीरविषदण्डिभिः ॥
कुटजैः कृष्णवर्णैश्च ह्यग्निकुन्दर्क्षवृक्षकैः ॥ ७३८ ॥

गृहधूमाचिताङ्गारविषोपविषसंयुतैः ॥
उन्मत्तरससम्पिष्टैश्चिताभस्मान्वितैस्तथा ॥
मध्यपादरजोभिश्च शत्रोः प्रतिकृतिं चरेत् ॥ ७३९ ॥

यद्वा तन्मनसः क्षेत्रवृक्षकाष्ठभवामपि ॥
सम्यक्प्रतिष्ठितप्राणां कुण्डस्योपरि लम्बयेत् ॥ ७४० ॥

खनेन्मृत्प्रतिमाम्मन्त्री कुण्डस्याधो यथाविधि ॥
मलीमसेन मनसात्युग्रदृष्टिरमर्षणः ॥ ७४१ ॥

चित्रमाले विषतरूद्भवकाष्ठसमेधिते ॥
जुहुयात्तमसं कर्म सिद्ध्यत्यत्र न संशयः ॥
मारणोच्चाटनद्वेषं 30 तामसं स्यात्पिशाचता ॥ ७४२ ॥

राजीलवणहोमेन स्त्रीणामाकर्षणं भवेत् ॥
आत्मरक्षां पुरस्कृत्य पश्चात्कर्माणि साधयेत् ॥ ७४३ ॥

लिखेत्त्रिकोणं षट्कोणमष्टारं च महीपुरम् ॥

चित्र

मूलमन्त्रं लिखेन्मध्ये साध्यनामसमन्वितम् ॥ ७४४ ॥

षडङ्गानि च षट्कोणे स्वरान्वै केशरेषु च ॥
वर्गान्पत्रेषु भूगेहे चतुष्कोणेषु मन्त्रकम् ॥ ७४५ ॥

पञ्चवर्णरजोभिश्च लिखेद्दृष्टिमनोहरम् ॥
एकत्रिषड्वसुचतुष्कलशान्स्थापयेत्क्रमात् ॥ ७४६ ॥

मध्यादिचतुरस्रान्तं द्वाविंशतिघटान्क्रमात् ॥
अथ वाष्टादश दश सप्त वा चतुरेककम् ॥ ७४७ ॥

अस्थिरत्नं शिरातन्त्रं मृन्मांसं रुधिरं जलम् ॥
चर्म वस्त्रं शिखा कूर्चं नारिकेरफलं शिरः ॥ ७४८ ॥

मन्त्रप्राणसमायुक्तां यजेत्कलशदेवताम् ॥
सा च त्रिमूर्तिरंशादिमातरो भैरवान्विताः ॥ ७४९ ॥

विदिक्षु गुरुविघ्नेशदुर्गाक्षेत्रपतीनपि ॥
कलशेषु समभ्यर्च्य विधिवन्मन्त्रवित्तमः ॥ ७५० ॥

अभिषिञ्चेत्प्रियं शिष्यं सर्वपापप्रशान्तये ॥
आयुःश्रीकान्तिसौभाग्यविद्यारोग्यादिकं भवेत् ॥ ७५१ ॥

राजाभिषिक्तो लभते चतुःसागरगां महीम् ॥
अकिञ्चनोऽभिषिक्तस्तु महदैश्वर्यमाप्नुयात् ॥ ७५२ ॥

वन्ध्याभिषिक्ता लभते पुत्रं सर्वगुणान्वितम् ॥
भूतापमृत्युरोगाद्या विनश्यन्ति न संशयः ॥ ७५३ ॥

त्रिलोहे वापि भूर्जे वा लिखित्वा यन्त्रमुत्तमम् ॥
विधृतं पूजितं देवि सर्वरक्षाकरं भवेत् ॥ ७५४ ॥

अकुलं शिव इत्युक्तः कुलं शक्तिः प्रकीर्तिता ॥
कुलाकुलानुसन्धाननिपुणाः कौलिकाः प्रिये ॥ ७५५ ॥

आदित्वात्सर्वमार्गाणां मनोल्लासप्रवर्तनात् 31
यज्ञादिसर्वहेतुत्वादाम्नाय इति कीर्तितः ॥ ७५६ ॥

इति कौलिकमार्गस्य प्रपञ्चोयं प्रदर्शितः ॥
वेदधर्मविहीना ये तेत्र धर्मेधिकारिणः ॥ ७५७ ॥

इन्द्रियाणामधृष्यत्वात्कामलोभादिसम्भवात् ॥
प्रायः कलौ कौलिकोयं पन्था नरकहेतवे ॥ ७५८ ॥

धर्मनाशः कौलिकेन रसेनार्थविनाशनम् ॥
कामनाशः फिरङ्गेन मोक्षनाशो जनेर्ष्यया ॥
भविष्यति कलौ देवा दम्भः पापं गृहे गृहे ॥ ७५९ ॥

पुरुषेण 32 विना किञ्चित्प्रकृत्या क्रियते न हि ॥
तथा शक्तिं विना देवो न किञ्चित्कर्तुमहति ॥ ७६० ॥

विना शक्तिं फलं देवो दातुं नैव क्षमो ह्यतः ॥
तस्मात्पुंशत्किसंयोगं कृत्वा मन्त्रं प्रसाधयेत् ॥ ७६१ ॥

कौलिके वाममार्गे च पुमान्देवो न सिद्ध्यति ॥
आत्मानं तु शिवं ध्यायेद्देवता शक्तिरूपिणीम् ॥ ७६२ ॥

क्रीडेत्पञ्चमकारैश्च सुप्रीता तस्य देवता ॥
दक्षमार्गे मातृबुद्धिः स्त्रीबुद्धिः कौलिके पथि ॥ ७६३ ॥

यस्य जाता दृढतरा तस्य तुष्टा तु देवता ॥
एतद्रहस्यमाख्यातं गोप्यं मातरि जारवत् ॥ ७६४ ॥

अन्यद्गुह्यतमं वक्ष्ये सर्वतन्त्रेषु गोपितम् ॥
यथा दद्याद्देवतैव मन्त्रं तत्प्रब्रवीम्यहम् ॥ ७६५ ॥

वर्णानाम्नायपठितान्विद्धि चन्द्रादिवाचकान् ॥
युक्तान्स्वरचतुष्केणाथोत्तरोत्तरसङ्ख्यकान् ॥ ७६६ ॥

पूर्वदैवतसङ्केतो मयायं समुदीरितः ॥
अनामाद्याश्चात्रवर्णा ग्राह्याश्चाङ्कयुतौ 33 तथा ॥ ७६७ ॥

अङ्कास्तु दक्षिणाम्नाये त्वनामाद्यर्णवर्जिताः ॥
द्वौद्वावेकः पुनर्द्वौ च वर्गौ सङ्केतवाचकौ ॥ ७६८ ॥

आम्नायक्रमतो वर्णा मन्त्रादिक्रमतस्तथा ॥
अचः स्वरास्तत्क्रमेण पश्चिमोत्तरदेवयोः ॥ ७६९ ॥

चतुराम्नायसङ्केताद्वर्णैर्वगैक्ययोजनम् ॥
ऊर्ध्वाम्नाये प्रकर्तव्यं वैदिकेन तु किञ्चन ॥ ७७० ॥

येन क्रमेण यद्देशे ये वर्णाः परिकीर्तिताः ॥
तेन क्रमेण ते ग्राह्या वर्णा एकादिसङ्ख्यकाः ॥ ७७१ ॥

मन्त्रवर्णाङ्कसंयोगः स्वनामाङ्केन संयुतः ॥
तस्य मूलं यदायाति तदा स्वप्नः प्रजायते ॥ ७७२ ॥

मूलाभावे देवताया नामाङ्कान्योजयेत्पुनः ॥
ग्राह्यं मूलं नैव यदा पीठेनामाङ्कयोजनम् ॥ ७७३ ॥

पुनर्मूलं नैति यदा तदा स्वप्नो न जायते ॥
गुरोरपि गृहीतश्चेत्स मन्त्रो नाशको भवेत् ॥ ७७४ ॥

याम्योत्तरं प्रागपरं मूलाङ्कसमकोष्ठकान् ॥
लिखित्वैकादिकोल्लेखेद्वर्णान्स्याद्गणना 34 यथा ॥ ७७५ ॥

सर्वतः समसङ्ख्याकांस्तद्युक्तिरधुनोच्यते ॥
पश्चिमः प्रथमो लेख्य उदङ्मध्ये तथान्तिकम् ॥ ७७६ ॥

अश्वगत्या द्वितीयः स्यान्मन्त्रिगत्या ततः परम् ॥
आदिगन्तं लिखेत्पश्चादश्वगत्येव पूर्ववत् ॥ ७७७ ॥

मन्त्रिगत्याथ तद्रोधे नृपस्य गमनं भवेत् ॥
पुनर्मन्त्रिगतिं कुर्यात्प्राग्वदश्वगतिं पुनः ॥ ७७८ ॥

एवं पुनः पुनः कार्यं गुरुदर्शितवर्त्मना ॥
अङ्गानां जायते पूर्तिः सर्वतः सम्मता क्रमात् ॥ ७७९ ॥

चतुर्णां वर्गकोष्ठेषु लिखेन्मन्त्रान्समानिति ॥
एतन्मध्यं प्रकल्प्याथ माहेश्यामन्तिमं न्यसेत् ॥ ७८० ॥

उपान्तिमं तथाग्नेय्या नैर्-ऋत्यां प्रथमं न्यसेत् ॥
वायव्यां तु द्वितीयं स्यात्ततः सङ्ख्या यथा भवेत् ॥ ७८१ ॥

पूर्णास्तथैव सन्धार्याः काष्ठायामम्बिकेङ्ककाः ॥
तत्प्रतिस्पर्द्धिनः स्थाप्यास्तत्स्पर्धिन्यां तथा दिशि ॥ ७८२ ॥

एवं तु समपत्राणां परिपूर्तिः प्रकीर्तिता ॥
भाज्यभाजकपत्राणामथ वा लेखयेत्क्रमम् ॥ ७८३ ॥

प्रज्ञायते विनाचार्यं यथा दिव्यं विनाखिलम् ॥
आदित्यवासरे स्नात्वा प्राक्सूर्योदयतस्ततः ॥ ७८४ ॥

सूर्योदये तदर्घ्याणि दत्त्वा नत्वा गृहं विशेत् ॥
स्वतो नीचं तु नेक्षेत शब्दं नैव प्रयोजयेत् ॥ ७८५ ॥

सुमुहूर्तेखिलं यन्त्रं भूर्जे वा ताम्रपत्रके ॥
तत्तद्देवाष्टगन्धेन दले वा मण्डले लिखेत् ॥ ७८६ ॥

आदौ गणेशं सम्पूज्य ततः खेटांश्च दिक्पतीन् ॥
एकान्ते च लिखेद्यन्त्रं तद्दिने मौनमाचरेत् ॥ ७८७ ॥

न पश्येन्निन्दितं द्रव्यं ब्रह्मचारी हविष्यभुक् ॥
यन्त्रोर्ध्वं विलिखेन्मन्त्रं तदुदग्वाथ ठद्वयम् ॥ ७८८ ॥

ङेन्ते साध्यतले दक्षे ठद्वयं विलिखेदिति ॥
कौसुम्भे पीतवसने चक्रं कृष्णे सिते तथा ॥ ७८९ ॥

नीले प्रादेशमात्रे तु प्रासाद्याम्नायदैवतम् ॥
यन्त्रं संवेष्टयेत्तत्र स्नेहः कुडवसम्भवः ॥ ७९० ॥

तिलतैलं महिष्याज्यमेतस्याः खाखसं तथा ॥
गोघृतं च वसा चेति पूर्वादिष्वेव कल्पयेत् ॥ ७९१ ॥

अक्षतैर्विलिखेद्भूमौ पद्ममष्टदलं तथा ॥
कर्णिकायामुत्तरतोथ विघ्नगणपं यजेत् ॥ ७९२ ॥

इष्टदेवं तथा मध्येक्षेत्रपालं च दक्षिणे ॥
अष्टौ दिगीशान्पत्त्रेषु पूजयित्वा विसर्जयेत् ॥ ७९३ ॥

ततः पश्चात्कर्णिकायां स्थापयेद्दीपिकां शुभाम् ॥
तत्र दीपं प्रतिष्ठाप्य ज्वालयेत्पूजयेत्ततः ॥ ७९४ ॥

सावधानः स्वपेत्तत्र 35 ह्याम्नायामरदिक्छिराः ॥
तस्मिन्नहनि निष्पापः प्राप्नुयाद्देवतागणम् ॥ ७९५ ॥

तन्मन्त्रं येन रूपेण देवता सम्प्रयच्छति ॥
तद्रूपं च गुरोर्ध्यायेत्तज्जातीयांश्च मानयेत् ॥ ७९६ ॥

आद्येर्के मध्यपापोथ द्वितीये बहुपातकी ॥
तृतीयेर्के मर्त्यगणो निष्पापः प्राप्नुयान्मनुम् ॥ ७९७ ॥

मध्यपापश्चतुर्थे तु पञ्चमे बहुपातकी ॥
सप्तमे राक्षोऽपापो मध्यः षष्ठे स पापकः ॥ ७९८ ॥

अवश्यमेव प्राप्नोति मन्त्रं सप्तमभास्करे ॥
एतद्गुह्यतमं प्रोक्तं सर्वतन्त्रेषु गोपितम् ॥ ७९९ ॥

म्लेच्छायापि प्रदातव्यं स्वधर्मे तत्पराय च ॥
विप्रायापि न दातव्यं स्वधर्मत्यागिने सुराः ॥
लोभात्कामात्प्रदद्याद्यस्स लोकद्वयतश्च्युतः ॥ ८०० ॥

अथ गुह्यतमं वक्ष्ये रहस्यं पीठसम्भवम् ॥
यज्ज्ञात्वा साधकाः सर्वे सिद्धिं यान्ति न चान्यथा ॥ ८०१ ॥

पीठानि चैकपञ्चाशत्पञ्चाम्नायस्थदेवताः ॥
तत्र तिष्ठन्ति भो देवास्त्रयस्त्रिंशन्मितानि च ॥ ८०२ ॥

उपपीठानि यत्प्रोक्ताः षष्ठाम्नाये तु देवताः ॥
तत्तेषां तु समुद्दिष्टं तत्राथ हृदयोर्ध्वतः ॥ ८०३ ॥

तेङ्गपाते यत्र जातस्तत्र तिष्ठन्ति वैदिकाः ॥
तथा दक्षिणमार्गश्च सिद्धयेन्यत्र वामकः ॥ ८०४ ॥

अकारः कामरूपाख्यमादिपीठं तदुच्यते ॥
यस्मिन्पीठे मया देवि कुलमार्गः प्रवर्तितः ॥ ८०५ ॥

तत्र ते पतिता योनिस्तां दृष्ट्वा तत्प्रियं कृतम् ॥
कुलशास्त्रं तु कौलानां ज्ञानिनां मुक्तिदायकम् ॥ ८०६ ॥

पञ्चमानां द्रुतं सिद्धिरन्येषां नैव जायते ॥
तद्द्रष्टुं ह्यणिमा दीनां सिद्धिकामैश्च गम्यताम् ॥ ८०७ ॥

श्रीविद्यायास्तु तन्मूलं मासिमासिक्षरेद्रजः ॥
कुलसिद्धस्य लोपे तु रजस्तम्भः प्रजायते ॥ ८०८ ॥

अस्योपपीठद्वितयं समन्तात्तव सूचनात् ॥
वंशाख्यं लोमतो जातं सिद्धिः शाबरचेरकी ॥ ८०९ ॥

आकारः काशिकापीठस्त्वद्दत्तो भेदतां गतः ॥
प्रलयेपि न नाशोस्य यत्प्रोक्तस्स महेश्वरः ॥ ८१० ॥

न पापं यत्र पुण्यं न देहत्यागात्परं पदम् ॥
द्वयमेव फलं तत्र मुक्तिस्तस्योपपीठके ॥ ८११ ॥

यातना भैरवी याया तत्र पीठे पदे पदे ॥
मया न शक्यते पातुं तत्र ते स्तनकुम्भतः ॥
निःसृतं धारयोर्युग्मं सासिश्च वरुणाभवत् ॥ ८१२ ॥

काश्यां बहिर्योजनैकं देवभूमिरिति स्मृत ॥
तत्र चाराधिता मन्त्रास्तत्कालं फलदायकाः ॥ ८१३ ॥

यथास्थानं चतुर्दिक्षु तत्र ह्याम्नायदेवताः ॥
तिष्ठन्ति देवास्तत्सिद्धिः पुरश्चरणमात्रतः ॥ ८१४ ॥

गङ्गायाः परपारीणः काशीभागो पवित्रतः ॥
व्यासशापेन तज्जातं गर्दभक्षेत्रमद्भुतम् ॥ ८१५ ॥

तत्कालं तत्र संसिद्धिस्तत्राम्नायस्य जायते ॥
उपपीठमसेस्तीरे सारनाथस्तु दक्षिणः ॥
तत्र दक्षिणमार्गस्य मन्त्राः सिद्धिप्रदायकाः ॥ ८१६ ॥

वरुणायाः सौम्यभागे सारनाथस्तथोत्तरः ॥
तच्चोपपीठं वामस्य मार्गस्यातीव सिद्धिकृत् ॥ ८१७ ॥

नेपालं तु इकारस्स्याद्गुह्यं तत्र तु पार्वति ॥
तस्माद्वामस्य मार्गस्य मूलस्थानं तदुच्यते ॥ ८१८ ॥

षट्पञ्चाशल्लक्षमिता भैरव्यो भैरवास्तथा ॥
शक्तीनां च सहस्रे द्वे पीठानां च शतत्रयम् ॥ ८१९ ॥

चतुर्दश श्मशानानि तत्र सन्निहितानि च ॥
दक्षमार्गे सिद्धिदानि पीठान्यष्टौ च तत्र तु ॥ ८२० ॥

सिद्धिर्वैदिकमन्त्राणां तत्र पीठचतुष्टये ॥
तन्मलं यत्र पतितं जातं तदुपपीठकम् ॥ ८२१ ॥

नेपालात्पूर्वदेशे तत्किरातैरुपवेष्टितम् ॥
त्रिंशत्तत्र सहस्राणि देवयोनीनि सन्ति हि ॥ ८२२ ॥

ईकारस्य समुत्पत्तिस्थानं स्याद्रौद्रपर्वतम् ॥
पतितं वामनेत्रं ते महत्पीठं तदुच्यते ॥ ८२३ ॥

यस्य कस्यापि मन्त्रस्य जपात्सिद्धिः प्रजायते ॥
वामाचारात्तत्र देवा देवतादर्"अनं भवेत् ॥ ८२४ ॥

उकारस्य समुत्पत्तिस्थानं काश्मीरमीरितम् ॥
कर्णो निपतितो वामस्तस्मात्पीठोत्तमं तु तत् ॥ ८२५ ॥

यस्य कस्यापि देवस्य तं तं मन्त्रं जपेन्नरः ॥
विद्यानां पारदर्शी स्यात्तत्त्वज्ञानी भवेत्तथा ॥ ८२६ ॥

वैदिकाद्वा कौलिकाद्वा स्मार्ताद्वा दक्षमार्गतः ॥
च्युतानां तत्र देवेशि प्रायश्चित्तकराणि च ॥ ८२७ ॥

मया कृतानि तीर्थानि सद्यः प्रत्ययदान्यपि ॥
करिष्याम्यतिगुप्तानि कलौ म्लेच्छावृतानि च ॥ ८२८ ॥

ऊकारस्य समुत्पतिस्थानं स्यात्कान्यकुब्जकम् ॥
तत्र ते दक्षकर्णस्तु पतितोतीवशोभनः ॥ ८२९ ॥

गङ्गायमुनयोर्मध्ये तदन्तर्वेदिसञ्ज्ञितम् ॥
तत्क्षेत्रं सोम पानां हि निवासायोपकल्पितम् ॥ ८३० ॥

तत्र ब्रह्मादयो देवाः स्वस्वतीर्थानि चक्रिरे ॥
तत्र वैदिकमन्त्राणां सिद्धिर्देवाः पदे पदे ॥ ८३१ ॥

तस्य देवि मलाज्जातं यमुनातटमास्थितम् ॥
इन्द्रप्रस्थं नाम लोके प्रसिद्धमुपपीठकम् ॥ ८३२ ॥

ब्रह्मणा विस्मृता वेदा यत्पीठस्य प्रभावतः ॥
पुनर्लब्धास्ततो जातं तीर्थं निगमबोधकम् ॥ ८३३ ॥

तत्र काली तपस्तेपे तोषयिष्यन्ति ये च माम् ॥
पञ्चमैस्तदयुक्ता वा तद्भवेद्यद्वरेच्छया ॥ ८३४ ॥

सा तु तत्र वरं प्राप्य महाकालाज्जगत्तदा ॥
पञ्चमे प्रेरयामास सिद्धिं च प्रकटा ददौ ॥ ८३५ ॥

ऋकारोभूत्पूर्णगिरौ पतिता तत्र नासिका ॥
अतो योगस्य संसिद्धिस्तत्र पूर्णा प्रजायते ॥
तत्र प्रत्यक्षतां यान्ति मन्त्राधिष्ठानदेवताः ॥ ८३६ ॥

ऋकारस्य समुत्पत्तिस्थानं स्यादर्बुदाचलः ॥
वामस्ततो निपतितस्त्वत एव च वल्लभः ॥ ८३७ ॥

शक्तिस्तत्राम्बिका नाम स्वस्वाचारप्रिया सदा ॥
पुरश्चर्या यदैकापि भोगङ्काले प्रजायते ॥
तस्मिन्पीठे भवेन्मुक्तिस्सहस्रभगसङ्गमात् ॥ ८३८ ॥

दिव्यस्त्रीणां तु तत्स्थानं तेवतारस्य पार्वति ॥
प्रतिज्ञा महती जाता तया देव्या मया सह ॥ ८३९ ॥

निर्वाहयेन्मम क्षेत्रे ब्रह्मचर्यन्तु यः पुमान् ॥
द्वादशाब्दन्तु मद्भर्ता स एवैको भविष्यति ॥ ८४० ॥

बौद्धोपि स्खलितस्तत्र त्रिदिनोनैकवत्सरे ॥
निर्वाहस्तत्र वामस्य दक्षे विघ्ना भवन्ति हि ॥ ८४१ ॥

ऌकारस्य समुत्पत्तिर्यत्र चाम्रातकेश्वरः ॥
दक्षो गण्डो निपतितस्तत्पीठे महदद्भुतम् ॥ ८४२ ॥

धनदाद्यास्तत्र यक्षा यक्षिण्यो धनदादिकाः ॥
वसन्ति तत्र जपतस्तेषां सिद्धिः प्रजायते ॥ ८४३ ॥

ऌकारस्य समुत्पत्तिरेकाम्रे तु पुराभवत् ॥
नखास्ते गलितास्तत्र तप्तं विद्याधरैर्बहु ॥ ८४४ ॥

विद्यार्थिनान्तु तत्पीठमिष्टविद्याविधायकम् ॥
अश्रुतो बुध्यते ग्रन्थस्तत्र सारस्वताज्जपात् ॥ ८४५ ॥

एकारजन्म त्रिस्रोते 36 पातिता त्रिवली तव ॥
त्रिवाते वसनं जातं प्राक्पश्चाद्दक्षिणेपतत् ॥ ८४६ ॥

त्रीणि तान्युपपीठानि गृहस्थस्तत्र सिद्ध्यति ॥
द्विजश्च नेतरो वर्णो मनवः पौष्टिके स्थिताः ॥ ८४७ ॥

ऐकारोभूत्कामकोटे नाभिस्तत्र तु ते पतत् ॥
तत्र सर्वेपि सिद्ध्यन्ति काममन्त्रा न संशयः ॥ ८४८ ॥

कामनीं त्वां समाराध्य च्छाछिकातीरसङ्गताम् ॥
षोडशस्त्रीसहस्राणां भोगे सामर्थ्यवान्भवेत् ॥ ८४९ ॥

चतुर्दिक्षूपपीठानि तत्र जातानि पार्वति ॥
स्थानमप्सरसां तत्र ये मन्त्राः स्त्रीप्रसङ्गिकाः ॥ ८५० ॥

सर्वे ते तत्र सिद्ध्यन्ति क्षिप्रमेव न संशयः ॥
दर्शनेनापि लभते सिद्धिमिष्टां मनोरमाम् ॥ ८५१ ॥

ओकारोभूच्च कैलासे हिमाचलनगोदरे ॥
अङ्गुल्यः पतितास्तत्र पर्वभिर्लिङ्गताङ्गताः ॥ ८५२ ॥

करमालिकया तत्र यं यं मन्त्रं जपेद्द्विजः ॥
पुरश्चरणमात्रेण तुष्टा भवति देवता ॥ ८५३ ॥

औकारस्य समुत्पत्तिर्भृगुपीठेऽभवत्पुरा ॥
तत्र ते पतिता दन्तास्तत्पीठं महदद्भुतम् ॥ ८५४ ॥

समस्ता वैदिका मन्त्राः कल्पोक्ताश्च स्वरूपतः ॥
तत्र तिष्ठन्ति सेवातस्सद्यः सिद्धा भवन्ति हि ॥ ८५५ ॥

अन्तु केदारसम्भूतं दक्षं करतलं तव ॥
पतितं तत्र पीठे तु सिद्धयः करसंस्थिताः ॥ ८५६ ॥

तस्य दक्षे चोपपीठमगस्त्याश्रमसञ्ज्ञितम् ॥
कङ्कणं पतितं तत्र सर्वसिद्धिविधायकम् ॥ ८५७ ॥

तत्पश्चान्मुद्रिकायास्ते जातं तत्पीठमद्भुतम् ॥
इन्द्राक्षी नाम यत्तत्र सेन्द्रेणोपासिता पुरा ॥ ८५८ ॥

तत्पश्चाद्रेवतीतीरे पतिता वलयस्तव ॥
पतितोपि विमुच्येत राजराजेश्वरीति च ॥ ८५९ ॥

वामाचरेण तत्त्रापि सिद्धिस्तूर्णं प्रजायते ॥
जपादेव तु यक्षिण्यास्तत्र स्युर्दृष्टिगोचराः ॥ ८६० ॥

अःकारोभूच्चन्द्रपुरे पतितो वामगण्डकः ॥
तत्र सर्वेपि मनवस्सिद्ध्यन्त्यत्र न संशयः ॥ ८६१ ॥

श्रीपीठे तु ककारो भून्मस्तकं पतितं तव ॥
प्रायस्तत्त्र सपापानां गमनं दुर्लभं कलौ ॥ ८६२ ॥

समस्ताः शक्तयो यत्र रमन्ते निशि चेच्छया ॥
अप्रमत्तं न बाधन्ते विधर्मं भक्षयन्ति च ॥ ८६३ ॥

कर्णाभरणमतो जातमुपपीठं तु पूर्वतः ॥
ब्राह्मी तत्र स्थिता शक्तिर्ब्रह्मविद्याप्रकाशिका ॥ ८६४ ॥

कर्णार्धाभरणाद्वह्निकोणेभूदुपपीठकम् ॥
माहेश्वरी तत्र शक्तिर्मुखशुद्धकरा मता ॥ ८६५ ॥

पत्रवल्यस्तु तद्दक्षे पतितास्ते तदाभवत् ॥
उपपीठं तत्र शक्तिः कौमारी जयकारिणी ॥ ८६६ ॥

कण्ठमाला तु नैर्-ऋत्यां पतिता चोपपीठकम् ॥
वैष्णव्यावस्थितं जातमिन्द्रजाले सुसिद्धिदम् ॥ ८६७ ॥

नासा मुक्ता तु तत्पश्चात्पतिता चोपपीठकम् ॥
वाराह्यधिष्ठितं जातं शत्रुमर्दनकारकम् ॥ ८६८ ॥

मस्तकाभरणं वायौ पतितं चोपपीठकम् ॥
चामुण्डाधिष्ठितं जातं क्षुद्रदैवतसिद्धिदम् ॥ ८६९ ॥

केशाभरणतस्तेभूदैशान्यामुपपीठकम् ॥
अधिष्ठितं महालक्ष्म्या सूक्तानां तत्र सिद्धये ॥ ८७० ॥

खकारोभूत्तथोङ्कारे क्षेत्रे चामरकण्टके ॥
त्वद्बाहुपतनात्पीठो नर्मदाधिष्ठितोऽभवत् ॥ ८७१ ॥

तत्र सर्वैर्मुनिवरैः प्रणतैः समुपासकैः ॥
कृतं महत्तपो जाता जीवन्मुक्ता महर्षयः ॥ ८७२ ॥

तदुत्तरे चोपपीठं कञ्चुकीपतनादभूत् ॥
ज्योतिष्मत्या निवासोसौ ज्योतिर्मन्त्रप्रकाशतः ॥ ८७३ ॥

वक्षो निपतितं यत्र जातं पीठं महाद्भुतम् ॥
विख्यातो ज्वालया तत्र वह्निना च तपः कृतम् ॥ ८७४ ॥

स देवमुखतां प्राप्तः स्थितस्तस्योपपीठके ॥
ज्वालामुखीति विख्यातं स वह्निर्देवतामुखम् ॥ ८७५ ॥

पुरश्चर्योक्तद्रव्यस्य पुरश्चरणसङ्ख्यया ॥
तत्र होमः प्रकर्तव्यो मन्त्रसिद्धिः प्रजायते ॥ ८७६ ॥

गोरक्षेण तु तत्रैव प्राप्तं सिद्ध्यष्टकं पुरा ॥
दर्शनादेव तन्नॄणां सर्वसिद्धिविधायकम् ॥ ८७७ ॥

मालवं तु घकारस्य वामस्कन्धोत्र संस्थितः ॥
उपासितं तु गन्धर्वैरागज्ञानकसञ्ज्ञितम् ॥ ८७८ ॥

कुलान्तके ङकारोभूत्कक्षो निपतितस्तव ॥
द्वेषोच्चाटनमृत्यूनां प्रयोगास्तत्र सिद्धिदाः ॥ ८७९ ॥

कोट्टके च चकारोभूद्वामकक्षः प्रतिष्ठितः ॥
लब्धा तु राक्षसैस्तत्र सिद्धिर्देवजयाभिधा ॥ ८८० ॥

छकारस्य समुत्पत्तिर्गोकर्णे परिकीर्तिता ॥
जठरं पतितं यत्र तच्च पीठं महाद्भुतम् ॥ ८८१ ॥

मातुरेश्वरसञ्ज्ञो यो जकारस्तत्र ते बलिः ॥
प्रथमा पतिता पीठं शिवमन्त्रप्रकाशकम् ॥ ८८२ ॥

अट्टहासं झकारस्य स्थानं तत्र परा बलिः ॥
पतिता तद्गणेशस्य मन्त्रसिद्धिकरं मतम् ॥ ८८३ ॥

विरजस्तु जकारस्य स्थानं तत्र परा बलिः ॥
समस्तविष्णुमन्त्राणां तत्र सिद्धिरदूरतः ॥ ८८४ ॥

तस्योत्पत्ति राजगृहे बस्तिपातस्तु तत्र ते ॥
तदधस्तात्क्षुद्रघण्टा पतिता चोपपीठकम् ॥ ८८५ ॥

तद्घण्टिकाभिधं प्रोक्तमिन्द्रजालं प्रसिद्ध्यति ॥
उपवेदार्थनिष्पतिर्भवेद्राजगृहे तथा ॥ ८८६ ॥

महापथे ठकारोहून्नितम्बः पतितस्तव ॥
जातिदुष्टैर्द्विजैस्तत्र स्वशरीरं समर्पितम् ॥ ८८७ ॥

पाप्य जन्मान्तरं तैस्तु वेदमार्गप्रलुम्पकाः ॥
अघोराद्याः कलौ मार्गाश्चालिता देहसौख्यदाः ॥ ८८८ ॥

डकारोऽभूत्कोल्लगिरौऽजघनं पतितं तव ॥
समस्तवनदेवानां तत्र सिद्धिरदूरतः ॥ ८८९ ॥

एलापुरे ढकारोभूद्दक्षोरुः पतितस्तव ॥ ८९० ॥

कालेश्वरे णकारोभूद्वामोरुः पतितस्तव ॥
मृत्युञ्जयायुष्करणमन्त्राः सिद्ध्यन्ति तत्र तु ॥ ८९१ ॥

जयन्ती तु तकारस्य स्थानं जानु निपातितम् ॥
तत्र दक्षो जपात्सिद्ध्येर्द्धनुर्वेदो न संशयः ॥ ८९२ ॥

उज्जयिन्यां 37 थकारोभूद्वामं जानु तु तत्र ते ॥
सिद्ध्यै कवचमन्त्राणामवन्तीति निगद्यते ॥ ८९३ ॥

दस्योत्पत्तिस्तु योगिन्यां तत्र जङ्घा निपातिता ॥
कौलिका वामका मन्त्रास्तत्र सिद्ध्यन्ति नेतरे ॥ ८९४ ॥

धकारोभूत्क्षीरिकायां वामजङ्घा तु तत्र ते ॥
तत्र वैतालिका मन्त्राः सिद्धिं यान्ति च शाबराः ॥ ८९५ ॥

हस्तिनापुर उत्पत्तिर्नकारस्य प्रकीर्त्यते ॥
दक्षस्ते पतितो गुल्फो नूपुरश्चैव तत्र हि ॥ ८९६ ॥

उपपीठन्तु तज्जातं यत्ख्यातं नूपुरार्णवम् ॥
पीठोपपीठयोस्तत्र मन्त्राः सिद्ध्यन्ति भास्कराः ॥ ८९७ ॥

उड्डीशाख्यं पकारस्य पीठं तत्र तु वामकः ॥
गुल्फो निपतितस्तत्र कृतसाधकसिद्धिदम् ॥ ८९८ ॥

उड्डीशाख्यं महातन्त्रं सिद्धम्भवति तत्र तु ॥
नूपुरः पतितो यत्र डामरञ्चोपपीठकम् ॥ ८९९ ॥

प्रयागस्तु फकारस्य स्थानं देहरसोत्र तु ॥
यत्रैव पतितस्तत्र दृश्यते श्वेतमृत्तिका ॥ ९०० ॥

गङ्गायमुनयोर्मध्ये पारावारे तथैव च ॥
एवं स्थानेषु तेस्थीनि पतितानि द्विजोत्तमैः ॥ ९०१ ॥

कृतानि तानि भूम्यन्तस्तत्र पीठानि जज्ञिरे ॥
गङ्गायाः प्राक् च बगलाद्युपपीठं महाद्भुतम् ॥ ९०२ ॥

उत्तरेस्यास्तु चामुण्डाद्युपपीठं महाद्भुतम् ॥
गङ्गायमुनयोर्मध्ये राजराजेश्वरीश्वरम् ॥ ९०३ ॥

यमुनादक्षिणे कूले भुवनेशी समाश्रिता ॥
प्रयागोतस्तीर्थराजः पीठराजश्च कथ्यते ॥ ९०४ ॥

षष्ठीशस्तु बकारस्य स्थानं पृष्णिस्तु तत्र ते ॥
दक्षिणः पतितो देवि पादुकासिद्धिरत्र तु ॥ ९०५ ॥

मायापुरे वामपार्ष्णिः पतितो भस्थलन्तु तत् ॥
देवदानवगन्धर्वमायाः सिद्ध्यन्ति तत्र तु ॥ ९०६ ॥

मलयाख्ये मकारोभूत्पीठेऽसृग्यत्र तेपतत् ॥
रक्ताम्बरादिबौधानां मन्त्रसिद्धिस्थलन्तु तत् ॥ ९०७ ॥

श्रीशैले तु यकारोहूत्तत्र पित्तं तवाम्बिके ॥
सर्वमन्त्रास्तत्र सिद्धा वैष्णवास्तु विशेषतः ॥ ९०८ ॥

रस्थानन्तु हिमागस्य मेरुनामकशृङ्गकम् ॥
त्वन्मेदः पतितं सिद्धेत्स्वर्णाकर्षणभैरवः ॥ ९०९ ॥

लकारस्य समुत्पत्तिर्गिरिपीठे तु यत्र ते ॥
जिह्वाग्रं पतितन्तत्र जपाद्वाक्सिद्ध्यति ध्रुवम् ॥ ९१० ॥

माहेन्द्रस्तु वकारस्य स्थानं मज्जापतत्तव ॥
सर्वेषां शक्तिमन्त्राणां सिद्धिस्तत्र न संशयः ॥ ९११ ॥

वामनन्तु शकारस्य स्थानमङ्गुष्ठतोभवत् ॥
जपात्तत्र तु मुख्यत्वं मन्त्रिषु प्राप्नुयादपि ॥ ९१२ ॥

हिरण्यपुरसम्भूतः षकारो वामतोभवम् ॥
अङ्गुष्ठादेव तत्पीठो वाममार्गेधिकोभवत् ॥ ९१३ ॥

पीठे चापि महालक्ष्म्याः सकारोभूद्रुचिस्तव ॥
शरीरात्पतिता तत्र सर्वसिद्धिः प्रजायते ॥ ९१४ ॥

हकारश्चात्रिस्थानेभूद्धमनी तत्र तेपतत् ॥
दृग्गोचरास्तु यावन्त्यः सिद्धयस्तत्र संस्थिताः ॥ ९१५ ॥

छायापीठे लकारोभूद्दृष्टा छाया मया तव ॥
सतीवेषं तु लब्ध्वाभूच्छायापीठमतस्तु तत् ॥ ९१६ ॥

छत्रपीठे समुत्पन्नः क्षकारः केशपाशकः ॥
यत्र ते पतितो देवि तत्र सिद्धिरदूरतः ॥ ९१७ ॥

एतद्देवि मया प्रोक्तं रहस्यं पीठसम्भवम् ॥
अथान्यत्सम्प्रवक्ष्यामि रहस्यं परमाद्भुतम् ॥ ९१८ ॥

कलौ लुब्धास्तु गुरवः शिष्याः सिद्ध्यभिलाषिणः ॥
तस्मान्न सिद्धिः कुत्रापि नाश एव दिनेदिने ॥ ९१९ ॥

वक्ष्यामि सिद्धये तस्मात्सर्वतन्त्रेषु गोपितम् ॥
सुभक्ताय सुशिष्याय देयं नान्यत्र कुत्रचित् ॥ ९२० ॥

तारमायारमाकामबीजपूर्वं 38 तु रामकम् ॥
विप्राद्यैश्च चतुर्थ्यन्तं नमोन्तं प्रजपेदिति ॥ ९२१ ॥

वृद्धाद्विप्राद्ग्राह्यमेतदेकदा तन्तु तोषयेत् ॥
सिद्धोयं मन्त्र उद्दिष्टो गोप्यं मातरि जारवत् ॥ ९२२ ॥

षडङ्गन्यासमाद्येन बीजेन रचयेत्पुनः ॥
पूर्वोक्तमातृकाणां तु न्यासमादौ समाचरेत् ॥ ९२३ ॥

गजानने देवयोनौ गणेशस्य च मातृकाः ॥
शाक्तके लघुमात्राणां श्रीकण्ठाद्याः शिवादिषु ॥ ९२४ ॥

केशवाद्या विष्णुसूर्यग्रहादौ परिकीर्तिताः ॥
पीठन्यासस्तु 39 सर्वत्र कर्तव्यो देहशुद्धये ॥ ९२५ ॥

पूजादिकन्तु प्राग्वत्स्यात्पुरश्चर्या तथैव हि ॥
षट्कर्माणि तु तत्स्तोत्रं भक्तस्थाने स्वयं भवेत् ॥ ९२६ ॥

नाश्यस्थाने तथा शत्रुं स्वस्थाने देवतां स्मरेत् ॥
सर्वे प्रयोगाः सिद्ध्यन्ति मोक्षमन्ते लभेतसः ॥ ९२७ ॥

नैव त्याज्यस्स्वस्य धर्मः पोष्यवर्गान्प्रपूजयेत् ॥
अप्रियं नैव कुर्वीत मातरम्पिरं तथा ॥ ९२८ ॥

देववत्सेवयेदेतद्रहस्यं सम्प्रकाशितम् ॥
मन्त्रप्रदः सदा दुःखी मन्त्रग्राही च निर्धनः ॥ ६२९ ॥

भविष्यति कलौ प्रायोऽविवेकाद्गुरुशिष्ययोः ॥
ज्ञात्वा शास्त्रं गुरुं कुर्यात्तदा सुखमवाप्नुयात् ॥ ९३० ॥

इति दीक्षाविधिः प्रोक्तः कुलाचारसमन्वितः ॥
अर्थवादं विना देवि किमन्याच्छ्रोतुमिच्छसि ॥ ९३१ ॥

मेरौ शिवप्रणीतेस्मिन्मेरुणा प्रकटीकृते ॥
मेरुभूते च तन्त्राणां पुरश्चर्यादिनिर्णयः ॥ ९३२ ॥

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते पुरश्चर्याकौलिकाचारप्रकाशो दशमः ॥ १० ॥


  1. ब्रह्मबीजादुत्पन्नः ॥ ↩︎

  2. तन्माता ब्राह्मणी ॥ ↩︎

  3. ब्राह्मणसंस्कारसंस्कृतश्च ॥ ↩︎

  4. कौलधर्मम् । ↩︎

  5. मद्यस्य । ↩︎

  6. वृद्धिरार्षी । ↩︎

  7. शुण्ठ्या । ↩︎

  8. द्रव्याण्यसंस्कृत्य । ↩︎

  9. ह्रीम् अग्निसूर्यचन्द्ररूपवर्णप्रणवोद्भवाभ्यश्चतुर्णवतिकलाभ्योनम् अः ।
    इति पूजामन्त्रः ॥ ↩︎

  10. ॐṁ क्लीं ह्रौं जूंसः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावयस्रावय स्वाहा । ↩︎

  11. ॐ ॐ देवीपुत्रबटुकनाथकपिलजटाभारभासुर पिङ्गलत्रिनेत्रोग्निज्वाला मुख इमं पूजाबलिं गृह्णगृह्ण हुं फट् स्वाहा ॥ ↩︎

  12. ॐ ॐ ॐ सर्वयोगिनीभ्यः सर्वडाकिनीभ्यः सर्वशाकिनीभ्यस्त्रैलोक्यनिवासिनीभ्यो नमः इमं पूजाबलिं गृह्णीत हुं फट् स्वाहा ॥ ↩︎

  13. ॐ ॐ ॐ सर्वभूतेभ्यः सर्वभूतपतिभ्यो नमः ॥ ↩︎

  14. ॐ ॐ ॐ एह्येहि देवीपुत्रबटुकनाथोच्छिष्टहारिन् हं हूं हं हूं हं हूं हं हूं क्षेत्रपालसर्वविघ्नान्नाशयनाशयसर्वोपचारसहितामिमं पूजाबलिङ्गृह्णगृह्ण हुम्फट् स्वाहा । ↩︎

  15. ॐ ॐ ॐ हुं श्रींह्सौ ह्रीं ह्रीं हुं हुं भैरवाधिष्ठितायाक्षोभ्यानन्दहृदयान्मन्त्रसिद्धयेऽवतराव तर-क्षेत्रपालमहाक्षेत्रपालायवाषैट्रहुम् । ↩︎

  16. एन्नमः उच्छिष्टचाण्डालिनि मातङ्गि सर्ववशङ्करि स्वाहा ।
    इति मन्त्रः । ↩︎

  17. प्रपञ्चत्रयधारिभिः ↩︎

  18. आलोप आर्षः । ↩︎

  19. स्त्रीणाम्मुच्छिष्टं भूञ्जीतात्मनश्च स्त्रीभ्यो न दद्यात् । ↩︎

  20. पुरा ऊहितम् इतिच्छेदः । ↩︎

  21. कुलकुलकुलजे पिशाचिनि स्वाहा ↩︎

  22. ॐ ॐ ॐ नमः अमुकक्षेत्रपालक एह्येहि भगवन्पूजां गृह्णगृह्ण बलिं भक्षभक्ष चक्रविघ्नकरांस्तम्भयस्तम्भय हुं फट् स्वाहा ॥ ↩︎

  23. कुत्रेति । ↩︎

  24. ॐ ॐ ॐ गौर्यै नमः ॐ ॐ ॐ शिवाय नमः ॐ ॐ ॐ रमायै नमः ॐ ॐ ॐ विष्णवे नमः ॐ ॐ ॐ वाण्यै नमः ॐ ॐ ॐ ब्रह्मणे नमः । ↩︎

  25. तस्येति शेषः । ↩︎

  26. दैवादिकत्वमाषम् । ↩︎

  27. द्वात्रिंशद्दिननि । ↩︎

  28. पारदेन ↩︎

  29. प्रस्थः । ↩︎

  30. मारणं चोच्चाटनं द्वेषश्चेति समाहारद्वन्द्वः । ↩︎

  31. गुण आर्षः । ↩︎

  32. अत्र यथेत्यध्याहार्यम् । ↩︎

  33. अङ्कयोगे । ↩︎

  34. भौवादिकत्वमस्यार्षम् । ↩︎

  35. अस्य भौवादिकत्वमार्षम् । ↩︎

  36. अदन्तत्वमार्षम् ॥ ↩︎

  37. पतितमिति शेषः । ↩︎

  38. ॐ ह्रीं श्रीं क्लीं रामाय नमः, अयं मन्त्रश्चातुर्वर्ण्येन जपितः शीघ्रसिद्धिदः अथवा ॐ रामाय नमः ब्राह्मणेन ह्रीं रामाय नमः, क्षत्रियेण तथा श्रींरामाय नमः, वैश्येन क्लीं रामाय नमः, शूद्रेण जपितव्यः । ↩︎

  39. अङ्कामपीठाय नमः, शिरसि, आं काशिकापीठाय नमः मुखे, इन्नेपालपीठाय नमः दक्षनेत्रे, ईं रौद्रपर्वतपीठाय नमः वामनेत्रे उं काश्मीरपीठाय नमः दक्षकर्णे ।
    ॐ कान्यकुब्जकपीठाय नमः वामकर्णे । ↩︎