०९ पार्थिव-पूजाविधिः

शीदेव्युवाच ॥

प्रयोगात्परलोकेन परार्थी नेह सौख्यकृत् ॥
सिद्ध्यर्थी च कलौ शिष्यो धनार्थी गुरुरेव च ॥ १ ॥

पूजार्थिनस्तथा देवा विषयार्थि तथा मनः ॥
दूरेस्माद्दैहिकी सिद्धिः पारकीया कथं भवेत् ॥ २ ॥

तस्मात्कश्चिदुपायश्चेत्पुरश्चर्यादिकं विना ॥
परत्रेह च सिद्धिः स्याद्विना निन्दां वदस्व तत् ॥ ३ ॥

ईश्वर उवाच ॥

आयान्ति यान्ति न पुनर्मन्यन्ते सर्वजन्तुभिः ॥
ते मदंशकृता ग्रन्था आगमाख्याः प्रसारिताः ॥ ४ ॥

कलेः सहस्रद्वितयं सार्द्धं देवा यदा गतम् ॥
सर्वदेवगणैस्त्यक्तं तदा तु पृथिवीतलम् ॥ ५ ॥

वेदो नारायणः साक्षात्संस्थास्यत्ययुतावधि ॥
आगमैर्भासिते देशे सोप्यगम्यो भविष्यति ॥ ६ ॥

उद्धाराय च साधूनां महाकालाज्ञया मया ॥
कथितं चिरजीविभ्यः पार्थिवं लिङ्गपूजनम् ॥ ७ ॥

तद्विधिं सम्प्रवक्ष्यामि देवाः शृण्वन्तु सादरम् ॥
इहलोके परत्रापि सिद्धिः करतले स्थिता ॥ ८ ॥

तत्र पार्थिवलिङ्गानां पूजने स्यादयं विधिः ॥
स्नात्वा नित्यं विधायादौ गच्छेच्छुद्धां भुवं सुधीः ॥ ९ ॥

स्थानाष्टके स्थिता या मृत्साच सर्वार्थसिद्धिदा ॥
शमीगर्भाश्वत्थमूले नदीकूले च निर्जने ॥ १० ॥

पर्वताग्रे च तीर्थे च गोष्ठे वा तुलसीवने ॥
वटाधस्तात्तत्र भूमिं मन्त्रयेत्प्रार्थयेदिति ॥ ११ ॥

ह्रीं पृथिव्यै नम इति मन्त्रः प्रोक्तः षडक्षरः ॥
अनेन पूजयित्वा तु धरणीं प्रार्थयेदिति ॥ १२ ॥

सर्वाधारा धरा त्वं हि पाहि मां मृत्तिकामिमाम् ॥
ग्रहीष्यामि प्रसन्ना त्वं लिङ्गार्थं भव मे सदा ॥ १३ ॥

ततो मृदमुपादाय सम्यङ्निःशर्करां चरेत् ॥
पात्रे निदध्यात्संशुद्धे प्रत्यहं पूजनाय ताम् ॥ १४ ॥

सद्दिने सद्गुरोर्वाथ सूर्याद्वा देवतान्तरात् ॥
गृह्णीयात्सप्तपूजायास्तथा गुहगणेशयोः ॥ १५ ॥

मृत्तिकाहरणे तारो हराय नम इत्ययम् ॥
तारो महेश्वरायेति नमः सङ्घट्टनं भवेत् ॥ १६ ॥

तारो ङेन्तः शूलपाणिर्नमः प्रस्थापने भवेत् ॥
वस्त्राद्याच्छादिते पीठे ॐ पिनाकधृते नमः ॥ १७ ॥

स्थापयेदिति मन्त्रेण शिवाकान्तं शिवप्रदम् ॥
कामनायास्तु भेदेन तत्र ध्यायेच्छिवं प्रभुम् ॥ १८ ॥

ॐ पशुपतये नमः स्नापयेदिति मन्त्रतः ॥
ॐ शिवाय नम इति पूज्यः पञ्चोपचारकैः ॥ १९ ॥

ॐ महादेवाय नमो मन्त्रेणेति विसर्जयेत् ॥
ह्रीं गं ग्ल्ॐ गणतये ग्लौं गं ह्रीं च भवाक्षरः ॥ २० ॥

ऐं हुं क्षं क्लीं कुमाराय नमोन्तः स्याद्दशाक्षरः ॥
इमान्मनून् गृहीत्वा तु जपेदष्टसहस्रकम् ॥ २१ ॥

दत्त्वा धूपं हृदि ध्यात्वा गुरुं तन्मन्त्रसिद्धये ॥
अथार्चनं शुभे घस्रे प्रारभेतेष्टसिद्धये ॥
कृतनित्यक्रियः शुद्धः प्रदायार्घ्यं विवस्वते ॥ २२ ॥

मृदमादाय तोयञ्च वम्बीजेनाभिमन्त्रयेत् ॥
आसिच्य पिण्डयेत्स्वेष्टमानं पात्रे निधापयेत् ॥ २३ ॥

ततः कालमनुस्मृत्य कामनामपि हृद्गताम् ॥
लिङ्गानि पार्थिवानीह पूजयेमुकसख्यया ॥ २४ ॥

सङ्कल्प्यैवं मृदः पिण्डादादायाल्पां मृदं सुधीः ॥
गणेश्वरस्य मन्त्रेण कुर्याद्द्वारगणेश्वरम् ॥ २५ ॥

फलाभयलसत्पाणिं तुन्दिलं चोन्दुरुस्थितम् ॥
निर्माय स्थापयेत्पीठे ततो विप्रस्समाचरेत् ॥ २६ ॥

न्यासं रुद्रस्य विधिवत्सम्पुटीकरणान्वितम् ॥
अविप्राणाञ्छृणु न्यासं गोप्यं पार्थिवपूजने ॥ २७ ॥

अस्य श्रीपार्थिवाख्यस्य विद्या चिन्तामणेर्मनोः ॥
निग्रहानुनुग्रहकर्ता 1 ब्रह्मा निगदितो मुनिः ॥ २८ ॥

देवता स्यात्कामदुघा गायत्री छन्द ईरितम् ॥
ॐ ह्रीं ह्रौं बीजं ह्रीं शक्तिर्नमः कीलकमुच्यते ॥ २९ ॥

अभीप्सितार्थसिद्ध्यर्थे नियोगो लिङ्गपूजने ॥
ॐ ह्रीं ह्रौं बीजपूर्वांस्तु न्यासे मन्त्रान्प्रविन्यसेत् ॥ ३० ॥

शिवायेति परं चान्ते ततोङ्गादि समुच्चरेत् ॥
सर्वज्ञाय 2 प्रथमतः सर्वतृप्ताय चोत्तरम् ॥ ३१ ॥

नित्यमलुप्तशक्तये सर्वज्ञानशक्तये च ॥
नित्यानन्दशक्तये चानन्तशक्तिशिवाय च ॥ ३२ ॥

कृत्वा चाङ्गुलिविन्यासं विन्यसेद्धृदयादिषु ॥
केवलः श्रोत्रियस्तत्र सद्योजातेन 3 मृत्तिकाम् ॥ ३३ ॥

गृहीत्वा वामदेवेन जलं दत्त्वा विमर्दयेत् ॥
लिङ्गं कुर्यादघोरेणार्चयेत्तत्पुरुषेण च ॥ ३४ ॥

संस्थाप्य रुद्रसूक्तेन ईशानेन विसर्जयेत् ॥
आदौ कृत्वा गणेशानं पीठमध्ये निवेशयेत् ॥ ३५ ॥

पश्चाल्लिङ्गानि कुर्वीत यथेष्टानि समानि 4 च ॥
अङ्गुष्ठमानादधिकं वितस्त्यवधिसुन्दरम् ॥ ३६ ॥

पार्थिवं रचयेल्लिङ्गं न न्यूनं नाधिकं क्वचित् ॥
पक्वजम्बूफलाकारं सर्वकामसमृद्धिदम् ॥ ३७ ॥

अतिपुष्टे तु दारिद्र्यं चिपिटे रोगसम्भवः ॥
मानाधिके वियोगः स्यात्स्वल्पे सिद्धिर्न जायते ॥ ३८ ॥

द्विखण्डे तु भवेन्मृत्युर्वियोनौ न सुखं भवेत् ॥
अवशिष्टमृदा कुर्यात्कुमारन्तस्य मन्त्रतः ॥ ३९ ॥

स्थापयेल्लिङ्गपर्यन्ते स्वमन्त्रेणार्चयेच्च तम् ॥
अर्च्चयन्पार्थिवं लिङ्गं यथोक्तफलभाग्भवेत् ॥ ४० ॥

तारो ह्रौं ह्रीं जूं सः इति पञ्चबीजादिकैस्तु तैः ॥
तान्त्रिको मासमन्त्रैस्तु फलार्थी शिवमर्चयेत् ॥ ४१ ॥

प्रासादबीजपूर्वैस्तु वाममार्गी समर्चयेत् ॥
पराप्रासादबीजाद्यैः पूजयेत्कौलिकैस्तु तैः ॥ ४२ ॥

आवाहनस्य समय ईदृशं शिवमागतम् ॥
लिङ्गे प्रतिष्ठितं ध्यायेत्कामनाभेदनात्तु तत् ॥ ४३ ॥

भवेन्नानाविधं ध्यानं योनिं कामं प्रपूजयेत् ॥
तत्र ध्यानमिदं ज्ञेयं नोक्तं वा यत्र तत्र च ॥ ४४ ॥

अथात्मानं शिवात्मानं पञ्चास्यं चिन्तयेद्बुधः ॥
त्रिलोचनं चतुर्बाहुं सर्वाभरणभूषितम् ॥ ४५ ॥

नीलग्रीवं शशाङ्काङ्कं शुद्धस्फटिकसन्निभम् ॥
व्याघ्रचर्मोत्तरीयं च नागयज्ञोपवीतकम् ॥ ४६ ॥

कमण्डलुधरं देवमक्षमालान्वितं प्रभुम् ॥
वरदाभयहस्तं च नमज्जनवरप्रदम् ॥ ४७ ॥

वृषपृष्ठसमारूढमुमादेहार्धधारिणम् ॥
जटिलं कपिलं दन्तनखाभिद्योतकारिणम् ॥ ४८ ॥

अमृतेनाप्लुतं दिव्यं दिव्यभोगसमन्वितम् ॥
दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् ॥ ४९ ॥

नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ॥
सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् ॥ ५० ॥

एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत् ॥
आराधितो मनुष्यैस्त्वं सिद्धैर्देवासुरादिभिः ॥ ५१ ॥

आराधयामि भक्त्या त्वां मां गृहाण महेश्वर ॥
स्वामिन्सर्वजगन्नाथ यावत्पूजावसानकम् ॥ ५२ ॥

तावत्त्वं प्रीतिभावेन लिङ्गेस्मिन्सन्निधो भव ॥
इति सम्प्रार्थ्य देवेशं पार्थिवं पूजयेत्ततः ॥ ५३ ॥

एकैकं पूजयेल्लिङ्गमेकैकं च विसर्जयेत् ॥
अन्ते पूज्यः कार्तिकेयः प्रोक्ता पूजेयमुत्तमा ॥ ५४ ॥

सर्वेषामेव लिङ्गानां शीघ्रमेकत्र पूजनात् ॥
प्रोक्ता पूजा विधिज्ञैः सा पूजेयं मध्यमा तदा ॥ ५५ ॥

प्रत्येकमाचरेद्ध्यानङ्गन्धं पुष्पं पृथक् पृथक् ॥
धूपदीपनिवेद्यादि यथांशेन निवेदयेत् ॥ ५६ ॥

प्रागादिवामावर्तेन दिक्ष्वष्टौ परिपूजयेत् ॥
शर्वं 5 भवं रुद्रमुग्रं भीमं पशुपतिं तथा ॥ ५७ ॥

महादेवं तथेशानं क्रमात्क्षित्यादिमूर्तकान् ॥
क्षित्यप्तेजोनिलाकाशयजमानेन्दुभास्कराः ॥ ५८ ॥

क्षित्यादयः स्युः शर्वाद्यास्तत इन्द्रादिकान् यजेत् ॥
धूपदीपनिवेद्यादिनमस्कारप्रदक्षिणैः ॥ ५९ ॥

ततो जपं प्रकुर्वीत ॐ 6 ह्रौं ह्रीं ह्रूं समुच्चरेत् ॥
ॐ नमश्च शिवो ङेन्तः प्रसन्नायेदमुच्चरेत् ॥ ६० ॥

पारिजाताय स्वाहेति एकविंशतिवर्णकः ॥
पूजान्तेष्ठोत्तरशतं जपेन्मन्त्रमनन्यधीः ॥ ६१ ॥

बिल्वं वा बिल्वपत्रं वा घृताक्तं सतिलं हुनेत् ॥
एकादशाहुतीः पश्चात्प्रणमेद्दण्डवत्क्षितौ ॥ ६२ ॥

प्रणवादिचतुर्थ्यन्तानन्तदेवनमोन्वितैः 7
षष्ठीयुक्तं 8 च तन्नाम पत्नीं ङेन्तां नमोन्विताम् ॥ ६३ ॥

पुनश्च तर्पणं कार्यं तादृशैरेव नामभिः ॥
द्वितीयान्तैस्तर्पयामि बिल्वपत्रैर्जलाक्षतैः ॥ ६४ ॥

भवः शर्वस्तथेशानस्तुर्यः पशुपतिर्मतः ॥
रुद्रोग्रभीममहतस्त्वष्टौ 9 ते परिकीर्तिताः ॥ ६५ ॥

दम्पती भोजयेन्नित्यं पार्वतीशमनीषया ॥
शैवंवा भोजयेदेकमभावे वेदवित्तमम् ॥ ६६ ॥

एवमर्चयतः पुंसः पार्थिवं लिङ्गमुत्तमम् ॥
मासमात्रेण सिद्धिस्स्यान्नात्र कार्या विचारणा ॥ ६७ ॥

अकृत्वा पार्थिवं लिङ्गं योन्यदेवं प्रपूजयेत् ॥
वृथा भवति सा पूजा स्नानदानादिकाः क्रियाः ॥ ६८ ॥

काम्यकर्मण्ययं कार्यो विधिः शृणु विशेषकम् ॥
तण्डुलोद्भवपिष्टेन विद्यार्थी तु सहस्रकम् ॥ ६९ ॥

द्वयोः पूजनमेकत्र मासमेकं करोति चेत् ॥
अवश्यं लभते विद्यां ध्यानमस्य निरूप्यते ॥ ७० ॥

अनेनैव विधानेन पूजयेन्नवनीतजम् ॥
भवेद्विद्या च सपदि चतुर्दिक्षु तथा यशः ॥ ७१ ॥

वन्दे महेशं सुरसिद्धसेव्यं विद्याप्रदं पुस्तकदत्तदृष्टिम् ॥
भक्तैर्जनैः पूजितपादपद्मं ध्याये सद कामप्रदं प्रभुं तम् ॥ ७२ ॥

इत्थं श्वेतागुरोर्लिङ्गं पूजितं बुद्धिवृद्धिकृत् ॥
एवं कृष्णागुरोर्लिङ्गं पूजितं धारणाप्रदम् ॥ ७३ ॥

चणकोद्भवपिष्टस्य प्राग्वल्लिङ्गं तु बुद्धिकृत् ॥
प्राग्वद्व्रीहिमयं लिङ्गं कृत्वा हन्यात्स्खलद्गिरम् ॥ ७४ ॥

विद्याकामैश्चिन्तनीयः परशुं हरिणं वरम् ॥
ज्ञानमुद्रां दधद्धस्तैर्वटमूलमुपाश्रितः ॥ ७५ ॥

योर्चयेत्प्रत्यहं पञ्चशतान्येकं पृथक् पृथक् ॥
पार्थिवानि तु लिङ्गानि मासात्सा सर्वतोमुखी ॥ ७६ ॥

दक्षाङ्कस्थं गजपतिमुखं प्रामृजन्दक्षदोष्णा वामोरुस्थागपतितनयाङ्के गुहं चापरेण ॥
इष्टाभीती परिकरयुगे धारयन्निन्दुकान्तिरव्यादस्मांस्त्रिभुवननतो नीलकण्ठस्त्रिनेत्रः ॥ ७७ ॥

पुंसोर्विरुद्धयोस्सन्धौ कुर्यादयुतसङ्ख्यया ॥
नदीतीरद्वयानीतमृदा तानि च पूजयेत् ॥ ७८ ॥

तत्र ध्येयो हरिहरः शङ्खपद्मादिशूलभृत् ॥
इन्द्रनीलशरच्चन्द्रनिभो भूषणपूगवान् ॥ ७९ ॥

दम्पत्योरभिधानार्थमर्धनारीश्वरः स्मृतः ॥
पीयूषपूर्णकलशं दधत्पाशाङ्कुशावपि ॥ ८० ॥

पुत्रार्थी सार्धसाहस्रं कुर्यात्तण्डुलपिष्टजम् ॥
पार्थिवान्यथ वा कुर्यादर्धलक्षमितानि तु ॥ ८१ ॥

दक्षाङ्कस्थमिति ध्यानं पूजनं च पृथक् पृथक् ॥
दधिभक्तस्तु नैवेद्ये पैष्टेनात्र यथेच्छया ॥ ८२ ॥

आढकीपिष्टसम्भूतं कान्तार्थी शतपञ्चकम् ॥
पार्थिवान्यथवा कुर्यादर्द्धलक्षमितानि तु ॥
पृथग्द्वयं द्वयं पूज्यं ध्यानमत्र निरूप्यते ॥ ८३ ॥

कर्पूरगौरं करुणावतरं संसारसारं भुजगेन्द्रहारम् ॥
सदा रमन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ ८४ ॥

मारणार्थं सप्तशतं लिङ्गं केशास्थिसम्भवम् ॥
अथ वा लोहलिङ्गानि तुषजान्यथ वापि च ॥ ८५ ॥

सहस्त्रमिक्षुदण्डस्य लिङ्गान्युच्चाटने यजेत् ॥
श्मशानमृत्तिकायास्तु विद्वेषे युतमाचरेत् ॥ ८६ ॥

पूजयेत्कार्यवशतो लक्षावधिसहस्रतः ॥
उच्चाटे मारणे द्वेषे ध्यातव्यः पुनरीदृशः ॥ ८७ ॥

कालीहस्ताम्बुजालम्बः शूलप्रोतद्विषच्चयः 10
मुण्डमालालसत्कण्ठो राववित्रासिताखिलः ॥ ८८ ॥

विना ज्ञानेन मोक्षस्तु नराणां परिजायते ॥
तदा तु कोटिलिङ्गानि पूजयेद्ध्यानमुच्यते ॥ ८९ ॥

यो योगमायापहृतं च पुंसां ज्ञानं विधत्तेखिलवस्तुनिष्ठम् ॥
तं विश्वनाथं कलिकिल्विषघ्नं ध्याये शिवालिङ्गितमष्टदेहम् ॥ ९० ॥

भोगार्थी लक्षमेकन्तु कुर्यात्पुष्पमयानि तु ॥
दिव्यान्भोगानवाप्नोति ध्यानमत्र निरूप्यते ॥ ९१ ॥

वन्दे महेशं सुरसिद्धसेवितं कल्पद्रुमारण्यगतं प्रसन्नम् ॥
पर्यङ्कगं शैलसुतासमेतं देवाङ्गनागीतसुनृत्यतुष्टम् ॥ ९२ ॥

निर्विघ्नकाशीवासार्थं लोकद्वयजिगीषया ॥
लिङ्गान्ययुतसङ्ख्यानि धात्री फलभवानि तु ॥ ९३ ॥

सहस्रमात्रं पित्तल्या यो लिङ्गानि प्रपूजयेत् ॥
यथेष्टं लभते भूमिं त्रिसन्ध्यं त्वेकमेव वा ॥ ९४ ॥

सहस्रत्रितयं रूपकामो गोरोचनोद्भवम् ॥
तावत्सङ्ख्यं कान्तिकामः काश्मीरीसम्भवं 11 यजेत् ॥ ९५ ॥

मधुपुष्पोद्भ्वं 12 लिङ्गं वसन्ते शतमर्चयेत् ॥
प्रत्यहं जायते कामी स्त्रियां तु ध्यानमत्र तु ॥ ९६ ॥

ध्याये नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ॥
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ ९७ ॥

तीर्थार्थी द्विसहस्राणि सम्यग्लिङ्गानि पूजयेत् ॥
पृथक्पृथग्बिल्वदलैस्तत्र ध्यानमुदीर्यते ॥ ९८ ॥

विजितमदनदर्पः सर्पराजोपवीति धवलवृषभगामी यामिनीनाथमूर्द्धा ॥
विधिहरितपनाद्यैः पूजितः पूजनीयो दिशतु गिरिसुताया वल्लभो नो विभूतीः ॥ ९९ ॥

यक्षकर्दमजं 13 लिङ्गं सहस्रं प्रीतिवर्धनम् ॥
सहस्रपञ्चकं कुर्याद्गुडजं प्रीतिवृद्धये ॥ १०० ॥

लक्षन्तु गुडलिङ्गानां पूजनात्पार्थिवो भवेत् ॥
स्त्री सहस्रं पूजयित्वा भर्तुः प्रियतरा भवेत् ॥ १०१ ॥

नवनीतस्य लिङ्गानि सम्पूज्येष्टमवाप्नुयात् ॥
भस्मनो गोमयस्यापि वालुकायास्तथा फलम् ॥ १०२ ॥

त्रिसहस्रं सुहृत्कामी मासिमासि समर्चयेत् ॥
वर्षैकं निश्चलमना जगन्मित्रं स जायते ॥ १०३ ॥

प्रत्यहं यस्त्वष्टशतं मासमात्रं समर्चयेत् ॥
सशास्त्राभ्यसनादेव गुरुतोप्यधिको भवेत् ॥ १०४ ॥

प्रातर्गोमयलिङ्गानि नित्यं यस्त्रीणि पूजयेत् ॥
बृहतीबिल्वजैः पत्रैर्नैवेद्यं गुडमर्पयेत् ॥ १०५ ॥

एवं मासत्रयं कुर्वन्ननल्पं लभते धनम् ॥
एकादशैव लिङ्गानि गोमयस्यैव यो यजेत् ॥ १०६ ॥

प्रातर्मध्याह्नयोः सायं निशीथे प्रतिवासरम् ॥
स सर्वाः सम्पदो यायात्षण्मासानेवमाचरेत् ॥ १०७ ॥

यत्र कुत्रापि मोहार्थं चौराणां वापि शुल्किनाम् ॥
दुर्भूपानामष्टशतं त्रिपक्षं नित्यमर्चयेत् ॥ १०८ ॥

यो यजेत्पिचुमन्दोत्थैः 14 पत्रैर्गोमयजं शिवम् ॥
क्रुद्धं महेश्वरं ध्यायेत्सपराजयते रिपून् ॥ १०९ ॥

हरिद्रापिष्टजं लिङ्गसहस्रं यः प्रपूजयेत् ॥
स्तम्भयेत्स सहस्राणां पञ्चकेन महीपतिम् ॥ ११० ॥

नित्यं पञ्चशतं कुर्यान्मासं निगडमोचनम् ॥
दुर्गनिर्मुक्तिकामस्तु कुर्यात्पञ्चसहस्रकम् ॥ १११ ॥

कारागृहादिमुक्त्यर्थमयुतं कारयेत्सुधीः ॥
महादुर्गनिबद्धस्तु षण्मासान्मोक्षमाप्नुयात् ॥ ११२ ॥

पूजयायुतलिङ्गानां महाराजभयं हरेत् ॥
प्रत्यहं वा पञ्चशतं पूजयेच्च त्रिपक्षकम् ॥ ११३ ॥

शतद्वयं प्रत्यहं यो मासमेकं समर्चयेत् ॥
तस्य चौरभयं नास्ति सुखेनायाति देशतः ॥ ११४ ॥

डाकिन्यादिभये सप्तसहस्रं वाथ नित्यशः ॥
षण्मासं पञ्चशतकं योर्चयेत्तु तदन्तकः ॥ ११५ ॥

सहस्रपञ्चकं मासि योर्चयेद्वर्ष पञ्चकम् ॥
पूर्वजन्मार्जिताद्वापि दारिद्र्यात्परिमुच्यते ॥ ११६ ॥

एकादश यजेन्नित्यं शालिपिष्टमयानि च ॥
लिङ्गानि मासमात्रेण सकलं कल्मषं दहेत् ॥ ११७ ॥

यः कृष्णैश्च तिलैस्सम्यग्लिङ्गं कृत्वार्चयेन्नरः ॥
वर्षत्रयं तस्य सर्वपापनाशः प्रजायते ॥ ११८ ॥

शिशिरे सर्वपुष्पोत्थं लिङ्गं योर्चति चेन्नरः ॥
निष्पापः स्यात्त्रिवर्षं वा पूजयेत्स्फाटिकं तथा ॥ ११९ ॥

बालवैधव्ययोगस्य नाशार्थमयुतत्रयम् ॥
लिङ्गानामयुतेनैव कन्यका सत्पतिं लभेत् ॥ १२० ॥

यस्त्वेकादशलिङ्गानि रजतोत्थानि पूजयेत् ॥
प्रत्यहं तं सर्वगुणा जायन्ते समुपस्थिताः ॥ १२१ ॥

लिङ्गान्ययुतसङ्ख्यानि तिलपिष्टस्य योर्चयेत् ॥
प्रत्यहं वा रुद्रसङ्ख्यं वर्षाद्ग्राम पतिर्भवेत् ॥ १२२ ॥

ब्रह्मस्वपरिहारार्थं सौवर्णं लिङ्गमर्चयेत् ॥
त्रिसन्ध्यं नक्तभोजी च रुद्रसूक्तपरायणः ॥ १२३ ॥

लवणोद्भवलिङ्गानि योयुतं च पृथक् पृथक् ॥
पूजयेत्तस्य सौभाग्यं निर्धनस्यापि वर्धते ॥ १२४ ॥

यस्त्वन्नस्य शिवं कृत्वा ऋतुमेकं प्रपूजयेत् ॥
शतमेकं प्रत्यहं चेदन्नं क्षेत्रे भवेद्बहु ॥ १२५ ॥

अयुतं शर्करालिङ्गं वर्षाकालेथ वा पुनः ॥
धत्तूरकुसुमोत्थानि लिङ्गान्येकादशार्चयेत् ॥ १२६ ॥

यवपिष्टोद्भवान्येव लिङ्गानि लवणस्य वा ॥
कृत्वा चायुतसङ्ख्यानि वशीकुर्याज्जगत्त्रयम् ॥ १२७ ॥

पृथक्छतत्रयं यस्तु गोमयोत्थानि पूजयेत् ॥
क्षुद्ररोगविनाशः स्यात्षमासाच्च महागदाः 15 ॥ १२८ ॥

फलं न जायते दृष्ट्वा यस्य कस्यापि कर्मणः ॥
फललिङ्गानि पूज्यानि तेन चायुतसङ्ख्यया ॥ १२९ ॥

दूर्वायाश्च गुडूच्या वायुतं लिङ्गानि योर्चयेत् ॥
तस्याल्पमृत्युनाशः स्यात्तथा नीवारपिष्टजात् ॥ १३० ॥

इन्द्रनीलस्य यो लिङ्गं मासषट्कं प्रपूजयेत् ॥
अथ वा ताम्रजं लिङ्गं तस्य सिद्ध्यति पौष्टिकम् ॥ १३१ ॥

स्फाटिकस्य तु यल्लिङ्गं स योगेश्वर उच्यते ॥
लक्षस्य पूजनात्तस्य बहुस्वामित्वमाप्नुयात् ॥ १३२ ॥

पितृगेहादिमोक्षार्थमथ वा पितृमुक्तये ॥
रजतस्य यदा लिङ्गमयुतं परिपूजयेत् ॥ १३३ ॥

अयुतं स्वर्णलिङ्गस्य जनं प्रकरोति यः ॥
स सत्यलोकमाप्नोति सङ्कल्पेनात्र संशयः ॥ १३४ ॥

नागस्य 16 त्रपुषश्चायुष्कामः कांस्यस्य चार्चयेत् ॥
देहसौगन्ध्यलाभाय गन्धकोत्थं समर्चयेत् ॥ १३५ ॥

आद्यकर्षणजं काष्ठजातमेकन्तु निर्धनः ॥
सहस्रं पूजयेद्यस्तु दारिद्र्यात्प्रतिमुच्यते ॥ १३६ ॥

कर्पूरजं शक्तिकामो गोर्थं गोधूमपिष्टजम् ॥
मुद्गपिष्टान्मुदे नित्यं लिङ्गं पूज्यं त्रयं द्विजैः ॥ १३७ ॥

कस्तूरीसम्भवं नित्यं सहस्रगन्धकामुकः ॥
माषपिष्टमयं लिङ्गं नित्यपिष्टान्नसिद्धिदम् ॥ १३८ ॥

यवधान्यमयं लिङ्गं यमलोकनिवारणम् ॥
प्रियङ्गुपिष्टजं 16 लिङ्गं प्रियदं सर्वदेहिनाम् ॥ १३९ ॥

यः करोति तिलैः श्वेतैः श्वेतद्वीपमहीपतिः ॥
यस्य यच्च प्रियं तस्य लिङ्गं कृत्वा तदाप्नुयात् ॥ १४० ॥

ग्रीष्मे तु मल्लिकापुष्पसम्भवानि सहस्रतः ॥
अयुतं पूजयेद्यस्तु तस्य स्याद्द्विगुणाकृतिः ॥ १४१ ॥

नीलोत्पलमयं लिङ्गं कृत्वा शरदि मानवः ॥
यस्य कस्यापि कार्यस्य सिद्धिं प्राप्नोत्यसंशयः ॥ १४२ ॥

हेमन्ते जातिकुसुमैर्लिङ्गं कृत्वा मनोहरम् ॥
भक्त्या समर्च्य मतिमाञ्छिवेन सह मोदते ॥ १४३ ॥

कोमलेषु तु लिङ्गेषु पार्थिवं श्रेष्ठमुच्यते ॥
कठिनेषु तु पाषाणं पाषाणात्स्फाटिकं परम् ॥ १४४ ॥

स्फाटिकात्पद्मरागं च काश्मीरं पद्मरागतः ॥
काश्मीरात्पुष्परागोत्थमिन्द्रनीलोद्भवं ततः ॥ १४५ ॥

इन्द्रनीलात्तु गोमेदं गोमेदाद्विद्रुमोद्भवम् ॥
विद्रुमान्मौक्तिकं श्रेष्ठं तस्माच्छ्रेष्ठं तु राजतम् ॥ १४६ ॥

हैरण्यं राजताच्छ्रेष्ठं हैरण्याद्धीरकं वरम् ॥
हीरकात्पारदं श्रेष्ठं बाणलिङ्गं ततः परम् ॥ १४७ ॥

नर्मदाजलमध्यस्थं बाणलिङ्गमिति स्मृतम् ॥
बाणासुरार्चितं लिङ्गं बाणलिङ्गमितीरितम् ॥ १४८ ॥

बाणलिङ्गे स्वयम्भूते चन्द्रकान्ते हृदि स्थिते ॥
चान्द्रायणसमं ज्ञेयं शम्भोर्नैवेद्यभक्षणम् ॥ १४९ ॥

ग्राह्याग्राह्यविभागोयं बाणलिङ्गे न विद्यते ॥
तदर्पितं जलं चान्नं ग्राह्यं प्रासादसञ्ज्ञया ॥ १५० ॥

शिवनाममयं लिङ्गं सदा पूज्यं महर्षिभिः ॥
यतश्च सर्वलिङ्गेभ्यस्तद्धि पज्यतमं मतम् ॥ १५१ ॥

चतुरङ्गुलमुच्छ्रायं रम्यं वेदिकया युतम् ॥
उत्तमं लिङ्गमाख्यातं पञ्चसूत्रैः सुसाधितम् ॥ १५२ ॥

तदर्धमधमं प्रोक्तं तदर्धमवरं स्मृतम् ॥
तस्मान्न्यूनं पूजनीयं न कदापि न सत्फलम् ॥ १५३ ॥

रुद्राक्षं शिवलिङ्गं च स्थूलंस्थूलं प्रशस्यते ॥
शालग्रामो नार्मदश्च सूक्ष्मः सूक्ष्मो विशिष्यते ॥ १५४ ॥

ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रो वाप्यनुलोमजः ॥
पूजयेत्सततं लिङ्गं तत्तन्मन्त्रेण सादरम् ॥ १५५ ॥

विप्राणां वैदिकेनैव मन्त्रेणाराधनं वरम् ॥
तन्त्रोक्तं दीक्षितानां च तन्त्रोक्तेन विधानतः ॥
स्मृतमाराधनं शम्भोर्नचावैदिकवर्त्मना ॥ १५६ ॥

दधीचिगौतमादीनां शापनिर्दग्धचेतसाम् ॥
न जायेत तथा श्रद्धा पूते वैदिककर्मणि ॥ १५७ ॥

यो वैदिकमनादृत्य स्मार्तकर्म तथैव च ॥
अन्यत्समाचरेन्मर्त्यो न स कर्मफलं लभेत् ॥
बहवः सिद्धिमेष्यन्ति कलौ पार्थिवलिङ्गतः ॥ १५८ ॥

कृते रत्नमयं लिङ्गं त्रेताया हेमसम्भवम् ॥
द्वापरे पारदं श्रेष्ठं पार्थिवं तु कलौ युगे ॥ १५९ ॥

यथालब्धोपचारैश्च भक्तिश्रद्धासमन्वितः ॥
पूजयेत्पार्थिवं लिङ्गं शास्त्रोक्तविधिना नरः ॥ १६० ॥

पञ्चसूत्रविचारं च पार्थिवे न विचारयेत् ॥
यथाकथञ्चिद्विधिना रमणीयं प्रकल्पयेत् ॥ १६१ ॥

द्विखण्डं तु प्रकुर्वाणो नैव पूजाफलं लभेत् ॥
रत्नहेमधरासूतपिष्टस्फटिकसम्भवम् ॥ १६२ ॥

एकखण्डम्भवेल्लिङ्गमितरे च चराचरे ॥
कुर्यात्तदेकखण्डं तु द्विखण्डं तु स्थिरं स्मृतम् ॥ १६३ ॥

विप्राणां मृत्तिका श्वेता क्षत्त्रियाणां तथारुणा ॥
विशा पीता च शूद्राणां कृष्णा वा लभ्यते यथा ॥ १६४ ॥

भवाय भवनाशाय महादेवाय धीमहि ॥
उग्राय चोग्रनाशाय शर्वाय शशिमौलिने ॥ १६५ ॥

विलोमानां पूजनार्थं मन्त्रोयं परिकीर्तितः ॥
ततः पूजासमाप्तौ तु दद्यात्पुष्पाञ्जलित्रयम् ॥ १६६ ॥

जपं पञ्चाक्षरस्यापि कुर्यादष्टोत्तरं शतम् ॥
वक्ष्यमाणां स्तुतिं पश्चात्पठेद्देवस्य तुष्टये ॥ १६७ ॥

नमोङ्कारस्वरूपय 17 नमोक्षरवपुर्धृते ॥
नमो नादात्मने तुभ्यं नमो बिन्दुकलात्मने ॥ १६८ ॥

अलिङ्गलिङ्गरूपाय रूपातीताय वै नमः ॥
त्वं माता सर्वलोकानां त्वमेव जगतः पिता ॥ १६९ ॥

त्वं त्राता त्वं सुहृन्मित्रं त्वं प्रियः शिवरूपधृक् ॥
त्वं गुरुस्त्वं गतिः साक्षी त्वं पिता त्वं पितामहः ॥ १७० ॥

नमस्ते भगवन्रुद्र भास्करामिततेजसे ॥
नमो भवाय देवाय धर्मरूपहिताय च ॥ १७१ ॥

शिवाय क्षितिपालाय सदासुरभिदे नमः ॥
पशूनां पतये चैव पावकामिततेजसे ॥ १७२ ॥

भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥
महादेवाय सोमाय अमृताय नमोस्तु ते ॥ १७३ ॥

उग्राय यजमानाय नमस्ते कर्मयोगिने ॥
ओङ्काराय नमस्तुभ्यं धर्मगोवाहनाय च ॥ १७४ ॥

पार्थिवस्य च लिङ्गस्य यन्मया पूजनं कृतम् ॥
अनेन भगवान्रुद्रो वाञ्छितार्थं प्रयच्छतु ॥ १७५ ॥

इति स्तुत्वा जपं कृत्वा प्रणिपत्य विसर्जयेत् ॥
अथैकादशलिङ्गानां विधानमभिधीयते ॥ १७६ ॥

एकं लिङ्गं प्रतिदिनं षोडशैरुपचारकैः ॥
पूजयेद्वै द्रोणपुष्पैर्घृतमेव समर्पयेत् ॥ १७७ ॥

एवं शतदिनं सर्व-ऋणान्मुक्तिः प्रजायते ॥
लिङ्गद्वयं प्रतिदिनं षोडशैरुपचारकैः ॥
पुष्पाणि मल्लिकायास्तु नैवेद्यार्थं गुडस्स्मृतः ॥ १७८ ॥

दिनानां त्रिशतं कुर्यादयुतं पुत्रमाप्नुयात् ॥
दिनं प्रति त्रयं कृत्वा षोडशैरुपचारकैः ॥ १७९ ॥

करञ्जपुस्पैः कर्पूरं नैवेद्यं सम्प्रदर्शयेत् ॥
दिनानां पञ्चशतकं कन्या भवति शोभना ॥ १८० ॥

चतुष्टयं प्रतिदिनं षोडशैरुपचारकैः ॥
पूजयेद्यवनैवेद्यं पुष्पाणि चम्पकस्य तु ॥ १८१ ॥

दिनं पञ्चशतं कृत्वा विवाहो जायते ध्रुवम् ॥
षट्षड्बकुलपुष्पैश्च नैवेद्यं क्षौद्रमेव च ॥ १८२ ॥

महतः कलहान्मुक्तिर्दिनानां स्याच्छतत्रयात् ॥
सप्त प्रतिदिनं पुष्पैः शतपत्रैः प्रपूजयेत् ॥ १८३ ॥

दध्योदनं च नैवेद्यं दिनपञ्चशतैर्युतम् ॥
उद्दिष्टं मनसि यत्तीर्थं तद्भवेद्देवतापि च ॥ १८४ ॥

यस्तु प्रतिदिनं चाष्टबिल्वपत्रैः समर्चयेत् ॥
नैवेद्यं तत्र लड्डुका उपचाराश्च षोडश ॥ १८५ ॥

शतत्रयदिनं कृत्वा महाविद्यागमो भवेत् ॥
नवप्रतिदिनं कृत्वा नैवेद्यं पञ्चमासकम् ॥ १८६ ॥

बन्धुपुष्पैश्च 18 पूजा स्यादृणमुक्तो धनी भवेत् ॥
दश प्रतिदिनं वर्षमेकं काञ्चनपुष्पकैः ॥ १८७ ॥

नैवेद्यार्थमपूपास्स्युर्दूरदेशागमो भवेत् ॥
एकादश प्रतिदिनं नैवेद्यं पञ्चखाद्यकम् ॥ १८८ ॥

पुष्पाणि करवीरस्य काञ्चनं रजतादिकम् ॥
मुक्ताफलप्रवालादि यदिष्टं प्राप्नुयाच्च तत् ॥ १८९ ॥

उद्यापनविधिं वक्ष्ये समाप्तौ तत्समाचरेत् ॥
लिङ्गार्चने च सम्पूर्णे सञ्जाते च मनोरथे ॥ १९० ॥

कुर्याल्लिङ्गं तु सौवर्णं रौप्यं ताम्रमथापि वा ॥
वित्तशाठ्यं न कुर्वीत तत्प्रमाणेन निर्मितम् ॥ १९१ ॥

महाशैवाख्ययोगोयमार्द्रा सोमश्चतुर्दशी ॥
द्वयोर्योगे शैवयोग एकस्मिंस्तु दिनं शिवम् ॥ १९२ ॥

महायोगेनन्तफलं बहुलं शैवयोगके ॥
यथोक्तं शिवयोगे तु फलं प्राप्नोति मानवः ॥ १९३ ॥

उपोष्य प्रथमे चाह्नि सम्पूज्य परमेश्वरम् ॥
आचार्यं ब्राह्मणांश्चापि होमार्थं वृणुयात्ततः ॥ १९४ ॥

गणेशमम्बां सम्पूज्य शिवं संस्थाप्य पूजयेत् ॥
प्राणप्रतिष्ठापूर्वन्तु वह्निस्थापनमाचरेत् ॥ १९५ ॥

आचार्यमृत्विजश्चापि वरयेद्दक्षिणादिना ॥
यत्सङ्ख्याकं यजेल्लिङ्गं तन्मितं होममाचरेत् ॥ १९६ ॥

आयुष्कामो घृतैस्तत्र धनार्थी वापि पायसैः ॥
तिलाज्याभ्यां चरेद्धोममेतद्भिन्नं यदर्थयेत् ॥ १९७ ॥

रात्रौ जागरणं कुर्याद्गीतवाद्यपुरस्सरम् ॥
तर्पणं मार्जनं कुर्यात्ततो ब्राह्मणभोजनम् ॥ १९८ ॥

बटुकानां कुमारीणां गणं साम्बिकतुष्टये ॥
पुनर्लिङ्गं पूजयित्वा दद्यात्तं गुरवे पुनः ॥ १९९ ॥

वस्त्रालङ्करणाद्यैश्च गुरुं यत्नेन तोषयेत् ॥
दक्षिणां भूयसीं दत्त्वा सुहृद्भिस्सह भोजनम् ॥ २०० ॥

यथा कुर्यादिति प्रोक्तं लिङ्गस्योद्यापनम्परम् ॥
विधिः प्रोक्तः पार्थिवानां सर्वकामप्रपूरकः ॥ २०१ ॥

उद्यापनेन सहितः किमन्यच्छ्रोतुमिच्छसि ॥ २०२ ॥

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते पार्थिव-पूजाविधिः वर्णनन्नाम नवमः प्रकाशः ॥ ९ ॥


  1. ॐ ब्रह्मणे ऋषये नमः शिरसि, ॐ गायत्रीछन्दसे नमो मुखे, ॐ कामदुघायै देवतायै नमो हृदये, ॐ ह्रीं ह्रौं बीजाय नमो गुह्ये, ॐ ह्रीं शक्तये नमः पादयोः, ॐ नमः कीलकाय नमो नाभौ । ↩︎

  2. ॐ ह्रीं ह्रौमिति बीजत्रयं मन्त्रन्यासेभ्यः पूर्वं संयोज्यम् ॐ शिवाय सर्वज्ञाय अङ्गुष्ठाभ्यां नमः, ॐ शिवाय सर्वतृप्ताय तर्जनीभ्यां नमः, ॐ शिवाय नित्यमलुप्तशक्तयै मध्यमाभ्यां नमः, ॐ शिवाय सर्वज्ञानशक्तये अनामिकाभ्यां नमः, ॐ शिवाय नित्यानन्दशक्तये कनिष्ठिकाभ्यां नमः, ॐ शिवायानन्तशक्तिशिवाय करतलकरपृष्ठाभ्यां नमः पुनरेतैरेव मन्त्रैर्हृदयादिन्यासान् कुर्वीत ॥ ↩︎

  3. सद्योजातादयः पञ्च मन्त्रा बहुस्थलेषु गदिता अतोत्र नोक्ताः । ↩︎

  4. ह्रौम् । ↩︎

  5. ॐ शर्वाय क्षितिमूर्तये नमः पूर्वे, ॐ भवाय जलमूर्तये नमः ईशानकोणे, ॐ रुद्रायाग्निमूर्तये नमः उत्तरे, ॐ उग्राय वायुमूर्तये नमः वायव्यकोणे, ॐ भीमायाकाशमूर्तये नमः पश्चिमे, ॐ पशुपतये यजमानमूर्तयेनमः नैर्-ऋत्यकोणे, ॐ महादेवायेन्दुमूर्तये नमः दक्षिणे, ॐ ईशानाय सूर्य मूर्तये नमः आग्नेयकोणे, एवमष्टदिक्षु । ↩︎

  6. ॐ ह्रौं ह्रीं ह्रूं ॐ नमः शिवाय प्रसन्नाय पारिजाताय स्वाहा । ↩︎

  7. ॐ अनन्तदेवाय नमः ॥ ↩︎

  8. ॐ अनन्तदेवस्य पत्न्यै नमः ↩︎

  9. महान्तः ॥ ↩︎

  10. वैरिसमूहः ॥ ↩︎

  11. कुसुमसम्भूतम् ॥ ↩︎

  12. मत्तमधुकुसुमोद्भवम् । ↩︎

  13. कुङ्कुमागुरुकस्तूरीकर्पूरं चन्दनं तथा ।
    महासुगन्धमित्युक्तो नामतो यक्षकर्दमः ॥
    इति धन्वन्तरिः । ↩︎

  14. निम्बदलोत्थैः ॥ ↩︎

  15. नश्येयुरिति शेषः ↩︎

  16. सीसकस्य ॥ ↩︎ ↩︎

  17. यस्य लोपश्शाकल्येति लोपेपि पूर्वत्रेति नासिद्धत्वं छान्दसत्वात्तेनोमाङोरिति पररूपम् । ↩︎

  18. बधुर्बन्धूकपुष्पे स्यादित्याभिधानाद्बन्धुजीवकपुष्पमित्यर्थः ↩︎