०८ मुद्रालक्षणप्रकाशः

श्रीदेयुवाच ॥

मुद्राणां लक्षणं ब्रूहि यास्तुल्या वामदक्षिणे ॥
सर्वदेवप्रिया याश्च पूजासाफल्यदायिकाः ॥ १ ॥

श्रीशिव उवाच ॥

वक्ष्येथ नाम पूर्वाणि मुद्राणां लक्षणानि तु ॥
नित्यं यः कुरुते सर्वा देवास्स्युस्तस्य सौख्यदाः ॥ २ ॥

अङ्कुशाख्या भवेन्मुद्रा पृष्ठेनामा कनिष्ठया ॥
अङ्गुष्ठे तर्जनी वक्रा सरला चापि मध्यमा ॥ ३ ॥

सा कण्ठमुद्रा हस्ताभ्यां सर्वकाण्ठो निबध्यते ॥
यत्रैकमुष्टिरङ्गुष्ठो दक्षो वामं समाश्रितः ॥ ४ ॥

वह्निप्राकारमुद्रा तु त्रिशूलाग्रावुभौ करौ ॥
व्यत्यस्तावभितो वह्नेर्नयेदस्त्राह्वयापि च ॥ ५ ॥

अङ्गुलीन्यासमुद्रास्तु पञ्चाङ्गुल्यः स्पृशेत्क्रमात् ॥
अङ्गुष्ठेन चतस्रस्तु तर्जन्याङ्गुष्ठमेव च ॥ ६ ॥

हृदयाख्या भवेन्मुद्राङ्गुष्ठवर्ज्याः प्रसारिताः ॥
चतस्र्ॐगुलयो व्यस्ता हृदये तस्य मन्त्रतः ॥ ७ ॥

शिरोमुद्रा तु सा ज्ञेया तलं पार्श्वे प्रसारितम् ॥
चतस्र्ॐगुलयश्चापि प्रसार्य शिरसा धृताः ॥ ८ ॥

शिखामुद्रा तु सा ज्ञेया मुष्टिं चाङ्गुष्ठपल्लवम् ॥
बद्ध्वा तेन शिखां स्पृष्ट्वा शिखामन्त्रेण साधकैः ॥ ९ ॥

कवचाख्या त्वियं मुद्रा ह्यङ्गुल्यः कृतनालिकाः ॥
स्कन्धादानाभिपर्यन्तं पाण्योस्तु प्रक्रमो भवेत् ॥ १० ॥

त्रिनेत्रमुद्रा ख्यातेयं तर्जनीदक्षनेत्रगा ॥
भाले मध्या त्वनामा तु वामे त्र्यक्षदिवौकसाम् ॥ ११ ॥

द्विनेत्रमुद्रा ख्यातेयं तर्जनीदक्षनेत्रगा ॥
मध्यमावामनेत्रे च सूर्यविष्ण्वादिभेदयोः ॥ १२ ॥

अष्टमुद्राः समाख्याताः सर्वारिष्टनिवारिणीः 1 अङ्गुष्ठ तर्जन्यग्राभ्यां हस्तयोरभिशब्दिताः ॥ १३ ॥

नित्ये नैमित्तिके चैता अङ्गषट्कस्य मुद्रिकाः ॥
अथ काम्येषु वक्ष्यामि षण्मुद्राणान्तु लक्षणम् ॥ १४ ॥

अङ्गुष्ठयोः पार्श्वयोगस्तर्जन्यौ सरले युते ॥
मध्यमेऽन्योन्यकरयोः पृष्ठलग्ने परे तथा ॥ १५ ॥

अन्योन्यान्तर्गते केचिदुच्चे च करपृष्ठतः ॥
एषा नमस्कारमुद्रा ललितायाः प्रकीर्तिता ॥ १६ ॥

तर्जन्यौ सरले कृत्वा शेषाङ्गुल्यो नखैर्युताः ॥
कनिष्ठामध्यपर्वस्थावङ्गुष्ठौ क्षोभिणी मता ॥ १७ ॥

सरले तर्जनीमध्ये कनिष्ठानामिके युते ॥
अग्रयोश्च कनिष्ठास्थावङ्गुष्ठौ द्राविणी भवेत् ॥ १८ ॥

कनिष्ठामध्यमाङ्गुष्ठौ तर्जन्यौ विनतेर्धतः ॥
मध्यमे सरले शेषा मुखयुक्तानुकर्षिणी ॥ १९ ॥

हृन्मुद्रा स्यादियं काम्ये तथा शैवागमेषु च ॥
कृतमुष्टिपदौ हस्तौ कृत्वाङ्गुष्ठौ हृदि न्यसेत् ॥ २० ॥

शिरोमुद्रा ललाटाग्रे कृतौ मुष्टियुतौ करौ ॥
कुर्यादूर्ध्वप्रसक्ताग्रे तर्जन्यौ ज्येष्ठया युते ॥ २१ ॥

शिखामुद्रा करौ मुक्तौ कृतमुष्टियुताकृती ॥
ज्येष्ठाङ्गुल्यौ प्रसक्ताग्रे कनिष्ठे तूर्ध्वतः स्थिते ॥ २२ ॥

कवचाख्या प्रसक्ताख्यावङ्गुष्ठौ च त्रिकोणवत् ॥
तर्जन्यावानयेन्मूर्ध्नि मुखे पार्श्वे करे हृदि ॥ २३ ॥

नेत्रमुद्रा तु सरला मध्या तर्जन्यनामिके ॥
धनुषालाभे संयुताग्रे अङ्गुष्ठककनिष्ठिके ॥ २४ ॥

अस्त्रमुद्रा करद्वन्द्वस्फोटे चापि तदुत्तरम् ॥
तर्जन्या शब्दयेत्तभ्यां ज्येष्ठाग्रवलिताग्रया ॥ २५ ॥

गालिनी तु कनिष्ठाङ्गुष्ठौ युतावितरेतरम् ॥
करयोस्तर्जनीमध्या नामायुक्ता न वक्रिताः ॥ २६ ॥

धनुर्मुद्रा कनिष्ठानामिके चान्योन्यहस्तयोः ॥
तर्जनीमध्यमे चापि दक्षस्कन्धे प्रदर्शयेत् ॥ २७ ॥

शङ्खमुद्रा तु वामाख्यमङ्गुष्ठं दक्षमुष्टिगम् ॥
वामाङ्गुल्यग्रदक्षाङ्गुष्ठस्य योगे प्रजायते ॥ २८ ॥

योनिमुद्रान्योन्यकरकनिष्ठातर्जनीयुतिः ॥
व्यस्ते तले तु शेषाङ्गुल्यावङ्गुष्ठावनामिके ॥ २९ ॥

मत्स्यमुद्राधोमुखन्तु वामहस्त तदूर्ध्वतः ॥
तादृशं दक्षिणं न्यस्याङ्गुष्ठकौ चालयेदिति ॥ ३० ॥

आवाहनी तु मुद्रा स्यात्कराभ्यामञ्जलिं चरेत् ॥
अनामयोर्मूलपर्वण्यङ्गुष्ठौ निक्षिपेत्तदा ॥ ३१ ॥

स्थापनी सा तु मुद्रा स्यादेषावाहनमुद्रिका ॥
अधोमुखीकृता सा चेत्सर्वसंस्थापने क्षमा ॥ ३२ ॥

सम्मुखीकरणी मुद्रा सा ज्ञेया मुष्टियुग्मकम् ॥
देवानां स्थापने या स्यादङ्गुष्ठद्वयमुक्तकम् ॥ ३३ ॥

सकलीकरणीमुद्रा सा प्रोक्ता यः षडङ्गके ॥
देवानां क्रियते न्यासो ह्यङ्गानामङ्गिने सकृत् ॥ ३४ ॥

अवगुण्ठनमुद्रा तु दीर्घाधोमुखतर्जनी ॥
मुष्टिबद्धस्य हस्तस्य सव्यस्य भ्रामयेच्च ताम् ॥ ३५ ॥

महामुद्रा समुद्दिष्टा परमीकरणे तु या ॥
अन्योन्यग्रथिताङ्गुष्ठप्रसारितकराङ्गुली ॥ ३६ ॥

सन्निद्धापनमुद्रा स्याद्योगो मुष्टिद्वयस्य तु ॥
सम्यक्कृतावुभौ जातौ त्वङ्गुष्ठावुच्छ्रितौ यदि ॥ ३७ ॥

संरोधिनी तु सा मुद्रा मुष्ट्योरन्तः प्रवेशितौ ॥
द्वावङ्गुष्ठौ मुष्टियोगो निश्छिद्रश्च भवेद्यदि ॥ ३८ ॥

दन्तमुद्रा गणेशस्य वल्लभा दक्षहस्तजा ॥
उत्तानोर्ध्वमुखी मध्यसरलाबद्धमुष्टिका ॥ ३९ ॥

पाशाह्वया तु वामस्य तर्जन्यां दक्षतर्जनीम् ॥
क्षिप्त्वा बद्धा मुष्टियुगं तर्जन्यङ्गुष्ठयोर्युतिः ॥ ४० ॥

अन्योन्यान्तर्गता लग्नाः कराङ्गुल्यस्त्वधोमुखाः ॥
अङ्गुष्ठौ चोत्थितौ लग्नौ मुद्रा वशकरी मता ॥ ४१ ॥

कनिष्ठाग्रे तु चान्योन्यं सम्प्रसारितहस्तयोः ॥
मध्यमाभ्यां दृढं बद्धानामिकाग्रे तु योजयेत् ॥ ४२ ॥

तर्जन्यौ नामिकाग्रे 2 तु प्रपयेन्मध्यमोपरि ॥
अन्योन्याङ्गुष्ठकौ लग्नौ मुद्रा चोन्मादिनी मता ॥ ४३ ॥

मध्यमाभ्यां दृढं बद्धा कनिष्ठागुलयः पराः ॥
संयोज्यानामिकामुख्यौ सरलौ स्यान्महाङ्कुशा ॥ ४४ ॥

विघ्नमुद्रा दीर्घरूपा मध्यमाधोमुखी यदा ॥
तर्जनी मध्यमासन्धिनिर्गताङ्गुष्ठमुष्टिका ॥ ४५ ॥

परशोश्च भवेन्मुद्रा तिर्यक् संयोज्य चाङ्गुलीः ॥
प्रसृतासंयुता हस्ता तलं हस्ततलान्वितम् ॥ ४६ ॥

लण्ड्डुकाख्या भवेन्मुद्रा ऊर्ध्वास्यं दक्षिणं करम् ॥
अङ्गुल्यो विरला नम्रा निम्नं करतलं तथा ॥ ४७ ॥

बीजपुरणया वाममुष्टावुत्तानके सति ॥
दन्ताद्याः षड्गणेशस्याङ्कुशमुद्रा च सप्तमी ॥ ४८ ॥

वराख्या सा तु मुद्रा स्यादतिसन्निहिताङ्गुलिम् ॥
उत्तानं दक्षिणं हस्तं कृत्वाधो नामयेच्छनैः ॥ ४९ ॥

अभयस्य तु मुद्रैषा कथिता चाभयप्रदा ॥
पराङ्मुखं वामहस्तं बद्धाङ्गुष्ठकनिष्ठिकम् ॥ ५० ॥

दक्षहस्तस्य मध्या च तर्जनी प्रसृते युते ॥
चर्ममुद्रा वामहस्तन्तिर्यक्च सम्प्रसार्य हि ॥
आकुञ्चितगतिं कुर्यादियं शक्तिप्रिया मता ॥ ५१ ॥

धनुर्मुद्रा वाममध्याग्रं तर्जन्यग्रयोजितम् ॥
वामस्कन्धे कनिष्ठाग्रे दक्षिणाङ्गुष्ठपीडितम् ॥ ५२ ॥

मुसलाख्या भवेन्मुद्रा वामस्योपरि दक्षिणम् ॥
हस्तयोर्मुष्टियुगलं कुर्याद्विघ्नविनाशनम् ॥ ५३ ॥

दुर्गामुद्रा तु करयोर्मुष्टिं कृत्वा नियोजयेत् ॥
वामस्योपरि दक्षञ्च शिरसि स्थापयेदिति ॥ ५४ ॥

बाणमुद्रा दक्षमुष्टेस्तर्जन्या दीर्घया भवेत् ॥
अष्टौ वराद्याः पाशश्चाङ्कुशः शक्तेर्दश स्मृताः ॥ ५५ ॥

चक्रमुद्रा करतले विपरीते विधाय च ॥
अङ्गुष्ठौ वेशयेच्चैव कनिष्ठानामिकान्तरे ॥ ५६ ॥

गदा तु सरलौ हस्तावन्योन्यग्रन्थिताङ्गुली ॥
अङ्गुल्यौ मध्यमे भूयः सल्लṁग्ने सुप्रसारिते ॥ ५७ ॥

पद्ममुद्रा करतले त्वङ्गुष्ठौ मिलितौ यदा ॥
हस्तौ तु सम्मुखौ कुर्यात्संहता उन्नताङ्गुली ॥ ५८ ॥

वेणुमुद्रा वामदक्षकनिष्ठाङ्गुष्ठयोगतः ॥
वामाङ्गुष्ठोदरे शेषा वक्राचोर्ध्वं कनिष्ठिका ॥ ५९ ॥

श्रीवत्सम्मध्यमानामेङ्गुष्ठबद्धौ करौ युतौ ॥
कनिष्ठयोर्मूलगते तर्जन्यौ भवतो यदि ॥ ६० ॥

कौस्तुभा मध्यमानामाङ्गुष्ठाश्चोर्ध्वमुखा युताः ॥
कनिष्ठातर्जनीग्रन्थिः स्थाप्यौ तिर्यङ्मुखौ करौ ॥ ६१ ॥

वनमालाह्वया मुद्रा तर्जन्यङ्गुष्ठमुष्टिका ॥
करद्वयेन मालावत्स्पृशेदाकण्ठपादकम् ॥ ६२ ॥

ज्ञानमुद्रा हृदि न्यस्तौ तर्जन्यङ्गुष्ठकौ युतौ ॥
वामहस्ताम्बुजं वा तु यदि मूर्धनि विन्यसेत् ॥ ६३ ॥

विश्वाख्या दक्षिणाङ्गुष्ठवेष्टिअं वाममुच्छ्रितम् ॥
अन्योन्यहस्ताङ्गुलयस्तन्निष्ठाः स्थापयेद्धृदि ॥ ६४ ॥

प्रकोष्ठं वेष्टयित्वा च मणिबन्धौ च कूर्परौ ॥
सम्यक्संयोज्य मध्ये च तर्जनीभ्यां सुवेष्टयेत् ॥ ६५ ॥

योगं मध्यमयोः कृत्वा द्वावङ्गुष्ठौ पराङ्गुली ॥
अन्योन्यान्तर्गते दक्षकर्णान्ते खेचरी मता ॥ ६६ ॥

आद्यपर्वणि चान्योन्यं सम्यग्योज्य कनिष्ठिके ॥
अनामिके च तदधो मध्यपर्वणि योजयेत् ॥ ६७ ॥

तासामूर्ध्वमनामे च नखाग्रे सन्नियोजयेत् ॥
सान्तरौ करभौ कृत्वा तर्जन्यङ्गुष्ठयोर्युतिः ॥ ६८ ॥

एषा तु वरयोन्याख्या मुद्रा बीजाह्वया मता ॥
बीजविद्यां बिना सर्वं वृथा पूजाजपादिकम् ॥ ६९ ॥

मुद्रा गरुडस्य हस्तकौ विपरीतौ ग्रथिते कनिस्ठिके ॥
तर्जन्यपि संयुता मिथः पदतुल्ये उभयाङ्गुली वरे ॥ ७० ॥

नृसिंहमुद्रा चिबुकाधरौ तु जान्वोस्तु मध्येथ करौ कुलग्नौ ॥
चेत्कम्पते व्यात्तमुखस्य जिह्वा संलेलिहाना नयने तु भीमे ॥ ७१ ॥

मुद्रा नरहरेः सर्वा अङ्गुल्यश्चेदधोमुखाः ॥
अङ्गुष्ठाभ्यां च करयोराक्रमेत कनिस्ठिके ॥ ७२ ॥

वाराही दक्षमुत्तानं न्युब्जं वामं तदूर्ध्वतः ॥
अङ्गुल्यग्राणि संयोज्याधस्तात्सन्नमयेदिति ॥ ७३ ॥

हयग्रीवा वामहस्ते तुल्याङ्गुल्यस्त्वधोमुखा ॥
रुद्ध्वा मध्यमया मध्यां नामयेदिति सा भवेत् ॥ ७४ ॥

काअमाख्या सम्पुटौ हस्तौ मध्यमे पृष्ठगे यदा ॥
तर्जन्यौ मध्यमासंस्थमङ्गुष्ठयुगलं यदि ॥ ७५ ॥

त्रैलोक्यमोहिनी मुद्रा मूर्ध्नि साङ्गुष्ठमुष्टिकैः ॥
चक्राद्याश्च धनुर्बाणपर्यन्ताश्च हरेरिमाः ॥ ७६ ॥

विधुमुद्रा करौ पद्मनिभौ श्लिष्टे च मध्यमे ॥
अङ्गुल्यौ धारयेत्तस्मिंश्चन्द्राग्रे सम्प्रदर्शयेत् ॥ ७७ ॥

सौरमुद्रा वामहस्तमधश्चोत्तानमूर्द्धतः ॥
कमलाकृतिमुद्रा स्यादुभे स्तो भास्करप्रिये ॥ ७८ ॥

लिङ्गमुद्रा दक्षिणाख्यं वामाङ्गुष्ठेन वेष्टयेत् ॥
वामाङ्गुल्यौ दक्षिणाभिर्वेष्टयेत्सा शिवप्रिया ॥ ७९ ॥

त्रिशूलाख्या भवेन्मुद्रा अङ्गुष्ठेन कनिष्ठिकाम् ॥
बद्ध्वा प्रसारयेच्छेषमङ्गुलीनां त्रयं तदा ॥ ८० ॥

मालामुद्राङ्गुष्ठतर्जन्यग्रं तु ग्रन्थयेद्दृढम् ॥
प्रसारयेदङ्गुलीनां त्रयं जपसुसिद्धये ॥ ८१ ॥

मृगमुद्रा तर्जनी च कनिष्ठा चोच्छ्रिताग्र्का ॥
अनामिकागुष्ठमध्याग्राणि तिर्यग्युतानि च ॥ ८२ ॥

खटाङ्गमुद्रा षडक्त्रा शिवस्यातिप्रिया भवेत् ॥
पञ्चाङ्गुल्यो दक्षिणाश्चेन्मिलिता ऊर्ध्वमुच्छ्रिताः ॥ ८३ ॥

कपालिनी भवेन्मुद्रा वामांसे वामहस्तकम् ॥
स्थापयित्वा पात्रवच्च कुर्यात्सा भैरवप्रिया ॥ ८४ ॥

डमरुः शिथिलां मुष्टिं कृत्वा मध्यां समुन्नताम् ॥
प्रचालयेत्कर्णपार्श्वे दशैताः शूलिना मताः ॥ ८५ ॥

आसनाख्या पद्ममुद्रा सूपविष्टः सुखासने ॥
स्वस्वजानुस्थितौ हस्तौ कलिकाभावधोमुखौ ॥ ८६ ॥

कुशलाख्या भवेन्मुद्रा करावुन्नामितौ यदि ॥
आन्दोलितौ फणाकारौ स्वस्वदिग्भागसंस्थितौ ॥ ८७ ॥

वाममुष्टिं दृधं बद्ध्वा तर्जनीं सम्प्रसारयेत् ॥
आनयेद्वामकर्णे तां मुद्रा सौभाग्यदायिनी ॥ ८८ ॥

अङ्गुष्ठगुम्फितां मुष्टिं बध्नीयाद्दक्षपाणिना ॥
रिपुजिह्वाग्रहाख्येयं मुद्रिका शत्रुनाशिनी ॥ ८९ ॥

सागताख्या भवेन्मुद्रा वितस्त्यन्तरगौ करौ ॥
उत्तानावूरुदेशस्यासन्नौ नम्रस्तथा पुमान् ॥ ९० ॥

अर्घ्यमुद्रा तु सा ज्ञेया दृढो निश्छिद्र एव च ॥
अञ्जलिस्तु यदा बद्धौ मुष्टी कर्णवदाश्रितौ ॥ ९१ ॥

पाद्यमुद्रा त्वर्घ्यमुद्रासमायन्तु विशेषकः ॥
अङ्गुष्ठतर्जनीयोगः कर्तयो हस्तयोर्द्वयोः ॥ ९२ ॥

मुद्राचमनसञ्ज्ञा तु निम्ने करतले युताः ॥
हीनाः कनिष्ठजास्तिस्रोऽङ्गुष्ठाग्रं तर्जनीयुतम् ॥ ९३ ॥

मधुपर्कस्य मुद्रा स्यादियं चाधोमुखी यदि ॥
अनामिकाङ्गुष्ठयोश्चेदग्रयोगः प्रजायते ॥ ९४ ॥

स्नानमुद्रा दक्षहस्तमुष्टिः स्याच्चेदधोमुखी ॥
कनिष्ठयापि युक्तासास्नानेनन्तफलप्रदा ॥ ९५ ॥

वस्त्रमुद्रा दक्षहस्तं कृत्वोत्तानाञ्च मध्यमाम् ॥
अङ्गुष्ठेन स्पृशेदेषा दाने वस्त्रस्य धारणे ॥ ९६ ॥

आभूषणस्य मुद्रा स्यादियं चाधोमुखी यदि ॥
अनामिकाङ्गुष्ठयोश्चेदग्रयोगः प्रजायते ॥ ९७ ॥

स्नानमुद्रा समाख्याता कनिष्ठागुष्ठयोगतः ॥
उपवीतस्य करणादिके स्खलितधारणे ॥ ९८ ॥

गन्धस्य मुद्रा विज्ञेयाथोत्तानं हस्तमाचरेत् ॥
श्रेष्ठाग्रेण कनिष्ठाग्रे स्पृशेत्स्याद्गन्धधारणे ॥ ९९ ॥

पुष्पाख्या च भवेन्मुद्रा हस्तं चाधोमुखं कुरु ॥
तर्जन्यग्रे तथाङ्गुष्ठाग्रं संयोज्येति पूजने ॥ १०० ॥

धूपमुद्रा तु देवादिधूपने सम्प्रसारिता ॥
अङ्गुष्ठाग्रेण तर्जन्याः स्पृशेदग्रं च पूर्ववत् ॥ १०१ ॥

दीपमुद्रा प्रोच्यतेथ दीपे सर्वप्रियङ्करा ॥
ज्यष्ठाग्रेण स्पृशेदग्रं मध्यमायाश्च पूर्ववत् ॥ १०२ ॥

नैवेद्यमुद्रा देवानां पूर्ववत्परिकीर्तिता ॥
विशेषोनामिकाग्रन्तु ज्यष्ठाग्रेण तु योजयेत् ॥ १०३ ॥

ग्रासमुद्रा सव्यहस्तं प्रफुल्लकमलाकृतिम् ॥
दर्शयेत्पञ्चवायूनामुच्यन्ते पञ्चमुद्रिकाः ॥ १०४ ॥

प्राणमुद्रामथो वक्ष्ये भोजनादौ प्रदर्शयेत् ॥
कनिष्ठानामिके सम्यगङ्गुष्ठाग्रेण योजयेत् ॥ १०५ ॥

मुद्रापानस्य विज्ञेया तर्जनीमध्ययोर्युतौ ॥
एतद्दर्शनतो वायुरोधाद्योगी विमुच्यते ॥ १०६ ॥

व्यानमुद्रा तु सा ज्ञेया मध्यमानामिके युते ॥
समस्तदेहगो वायुर्दृष्ट्वा तां सुप्रसीदति ॥ १०७ ॥

उदानवायोर्मुद्रा स्यादङ्गुष्ठेन समन्विता ॥
तर्जनीमध्यमानामास्सर्वरोगापनोदिनी ॥ १०८ ॥

समानवायोर्मुद्रा स्याद्यदा पञ्चाङ्गुलीयुतिः ॥
प्रणवादिचतुर्थ्यन्ता नमोऽन्तानाममन्त्रकाः ॥ १०९ ॥

कनिष्ठाङ्गुष्ठसंयोगे सरलं चाङ्गुलीत्र्यम् ॥
महायोन्यभिधा मुद्रा सुन्दर्यानन्ददायिनी ॥ ११० ॥

करौ संवलितौ कृत्वा चान्योन्यासक्तकाङ्गुली ॥
अन्तर्वलितमुत्थाप्य तर्जन्यौ सरले कृते ॥ १११ ॥

कुर्याअन्नमस्कृतिम्पश्चाच्छक्त्युत्थापनमुद्रिका ॥
आनीता शक्तिरनया स्वस्थाने वरदा व्रजेत् ॥ ११२ ॥

सप्तजिह्वाख्यमुद्रा तु प्रसृताङ्गुलिकौ करौ ॥
कनिष्ठाङ्गुष्ठयुगलं मणिबन्धौ च संयुतौ ॥ ११३ ॥

मुद्रा भूतबलेः प्रोक्ता सर्वाङ्गुलिसमागमः ॥
अन्तश्च शुषिरे हस्ते काकतुण्डनिभे मुखे ॥ ११४ ॥

नाराचाग्रे वामहस्तं पृष्ठे दक्षं समानयेत् ॥
शनैः शनैश्च सरले तर्जन्यो मुद्रिताः पराः ॥ ११५ ॥

संहाराख्याधोमुखो वामहस्तो दक्षस्योर्ध्वं ग्रन्थितागुल्य एवम् ॥
पर्यस्तौ बद्धौ करौ स्याद्विसर्गे बल्यादीनां देवता तुष्टित्क्र्त्री ॥ ११६ ॥

अशनिर्नाम सा मुद्रा ऊर्ध्वास्या वामतर्जनी ॥
अधोवक्त्रा परा तत्र संयुक्तारिविनाशिनी ॥ ११७ ॥

विधुमुद्राङ्गुलीभिश्चेन्मुद्रा बद्धा तु मुष्टिका ॥
तर्जन्यङ्गुष्ठसंयोगः पूर्णकर्मणि योजयेत् ॥ ११८ ॥

कालकर्णी भवेन्मुष्ट्योरङ्गुष्ठावुन्नतौ यदा ॥
पार्श्वयोश्चापि सलग्नौ द्वावेवाभिमुखौ तदा ॥ ११९ ॥

मुद्रा विस्मयसञ्ज्ञा स्याद्विस्मयावेशकारिणी ॥
दक्षिणानिविडा मुष्टिर्नासिकार्पिततर्जनी ॥ १२० ॥

नादमुद्रा तु तर्जन्या मुष्टावङ्गुष्टको यदि ॥
निबद्धो यमिनां सेव्या ब्रह्माभिव्यक्तिकारिणी ॥ १२१ ॥

प्रार्थनाख्या भवेन्मुद्रा हस्तौ कुर्याद्धदि स्वके ॥
प्रसृताङ्गुलिकौ दृश्यौ मिथः श्लिष्टौ च सम्मुखौ ॥ १२२ ॥

लक्ष्मीमुद्रा परा ह्येषा सर्वसम्पत्प्रदायिनी ॥
हस्तौ तु संयुतौ कृत्वा प्रसृताङ्गुलिकौ तथा ॥ १२३ ॥

अन्नाख्यमुद्रिका हस्तौ नाभिदेशे प्रसार्य च ॥
अधोमुखं स्पृशेत्तस्य तर्जनीभ्यां तदान्नदा ॥ १२४ ॥

दंष्ट्रामुद्रा चक्रमुद्रामादौ कृत्वा प्रपीडयेत् ॥
मध्यमे तर्जनीभ्यान्तु सर्वपातकनाशिनी ॥ १२५ ॥

भवेत्पृष्ठकमुद्रा च दक्षहस्तः प्रसारितः ॥
नाभ्यग्रे चान्तरिक्षे च स्थापितश्च निरीक्षितः ॥ १२६ ॥

गजकर्णाख्यमुद्रा तु हस्तयोः पृष्ठमेलनम् ॥
कृत्वा चोर्ध्वमुखौ हस्तौ ग्रन्थिरङ्गुष्ठयोर्भवेत् ॥ १२७ ॥

वस्त्रस्फालनमुद्रा तु कनिष्ठा वामतर्जनी ॥
मध्यमानामयोरग्रे मूले पृष्ठे च तद्द्वयम् ॥ १२८ ॥

वापीमुद्रा दक्षहस्तानामार्धं वामजे ततः ॥
ज्येष्ठा कनिष्ठा दक्षा स्यात्तयोरूर्ध्वन्तु वामजे ॥ १२९ ॥

शकटाख्या भवेन्मुद्रा तर्जनीभ्यामनामिके ॥
अन्योन्यमध्ययोः पृष्ठान्मध्यापरिनिपीडिते ॥ १३० ॥

गायत्र्या अथ वक्ष्यन्ते चतुर्विंशतिमुद्रिकाः ॥
जपादौ दर्शयेत्तासां देवताश्च तथा फलम् ॥ १३१ ॥

सुमुखे संहतौ हस्तावुक्तावाकुञ्चिताङ्गुली ॥
प्रह्लादिनी तत्र शक्तिः सुमुखानन्ददायिनी ॥ १३२ ॥

सम्पुटं पद्मकोशाभौ करावन्योन्यसंहतौ ॥
तस्य शक्तिर्नित्यविश्वा विश्वस्यातिप्रियङ्करा ॥ १३३ ॥

विततं संहतौ हस्तावुक्तं चानायताङ्गुली ॥
हृदया नाम तच्छक्तिः सर्वेषां हृदयङ्गमा ॥ १३४ ॥

विस्तीर्णं संहतौ पाणी मिथो मुक्ताङ्गुलीद्वयम् ॥
शक्तिस्तु विमला तस्याः प्रभावादमलो भवेत् ॥ १३५ ॥

द्विमुखाख्या हस्तयोस्तु सम्मुखं सक्तयोर्द्वयोः ॥
कनिष्ठयोरेव योगः शक्तिस्तस्यास्सदाभिधा ॥ १३६ ॥

त्रिमुखाख्या हस्तयुग्मे सुसक्तेनामिकाद्वयम् ॥
संयुक्तं शेषमङ्गुल्यो भिन्नाः शक्तिः प्रभावती ॥ १३७ ॥

चतुर्मुखं हस्तयुग्मं संसक्तं मध्यमायुतिः ॥
शेषाङ्गुल्यस्तु सम्भिन्ना लीला शक्तिप्रकीर्तिता ॥ १३८ ॥

मुद्रा पञ्चमुखी तद्वत्तर्जन्योर्यत्र संयुतिः ॥
अपराङ्गुलयो भिन्नाः शक्तिः शान्तिश्च शान्तिकृत् ॥ १३९ ॥

भवेत्षण्मुखमुद्रासा सम्पूर्णाङ्गुलियोजनम् ॥
कनिष्ठाद्वितयं हित्वा शक्तिर्दुर्गा प्रकीर्तिता ॥ १४० ॥

अधोमुखं नाम मुद्रा न्युब्जौ हस्तौ त्वधोमुखौ ॥
आकुञ्चिताग्रौ संयुक्तौ शक्तिरस्याः सरस्वती ॥ १४१ ॥

व्यापकाञ्जलिकं नाम मुद्रा हस्तौ तु तादृशौ ॥
विशेषोत्र तु चोत्तानौ विश्वरूपास्ति देवता ॥ १४२ ॥

शकटं नाम मुद्रा सा बद्धाग्राङ्गुलिकौ करौ ॥
अधोमुखौ बद्धमुष्टी विशाख्या शक्तिरत्र तु ॥ १४३ ॥

यमपाशं बद्धमुष्ट्योः करयोर्ग्रथिते यदा ॥
तर्जन्यौ तत्र संलग्नौ वामा लोपात्र देवता ॥ १४४ ॥

ग्रन्थिताख्यान्योन्यसन्धिलग्नाश्चागुलयो यदि ॥
उत्तानौ चोच्छ्रिताङ्गुष्ठौ वामा शक्तिः समीरिताः ॥ १४५ ॥

सम्मुखोन्मुखमुद्रा तु सम्बद्धाध्ॐगुलीकरौ ॥
दक्षिणोधोमुखो वाम ऊर्ध्वमाप्यायिनी भवेत् ॥ १४६ ॥

विलम्बं नाम मुद्रा सा चोत्तानोन्नतिकोटिकौ ॥
यस्यां करौ तु विमला तस्याः शक्तिः प्रकीर्तिता ॥ १४७ ॥

मुष्टिकन्तु यदा मुष्टी भवतोन्योन्यसंयुते ॥
उत्तानौ तु करौ तत्र शक्तिः प्रोक्ता तमोमयी ॥ १४८ ॥

मत्स्यस्तु सम्मुखी भूते युक्तानामाकनिष्ठिके ॥
अङ्गुल्यश्चोर्ध्वयुक्ताग्राः शेषाः शक्तिर्हिरण्मयी ॥ १४९ ॥

कूर्मस्त्वधोमुखो वामो ग्रस्तो दक्षेण पृष्ठके ॥
समाक्रान्तस्तु तच्छक्तिः सूक्ष्मा सूक्ष्मार्थसाधिका ॥ १५० ॥

वाराही दक्षिणस्योर्ध्वं वाममुत्तानकङ्करम् ॥
स्थापयित्वाधोमुखं तन्नामयेद्विश्वयोनिका ॥ १५१ ॥

सिंहाक्रान्तं नाम मुद्रात्वङ्गुल्यः पल्लवीकृताः ॥
देव्यग्रे दर्शयेच्छक्तिर्गदारूपा प्रकीर्त्यते ॥ १५२ ॥

न जातु दर्शयेन्मुद्रां महाजनसमागमे ॥
क्षुभ्यन्ति दवतास्तस्य विफलन्तु कृतं भवेत् ॥ १५३ ॥

यथा बालस्याभिनयं दृष्ट्वा हृष्यन्ति मातरः ॥
तथा भक्तकृता मुद्रा दृष्ट्वा हृष्यन्ति देवताः ॥ १५४ ॥

उत्तराम्नायसम्प्रोक्ता देवास्तुष्यन्ति पञ्चमैः ॥
छिन्नः पदार्थ एकश्चेत्साधकन्ते शपन्ति च ॥ १५५ ॥

पश्चिमाम्नायदेवानां सुरापानं कृताकृतम् ॥
मचतुष्टयमिच्छन्ति तं विना प्रशपन्ति च ॥ १५६ ॥

पूर्वाम्नायोक्तदेवानां तन्मांसञ्च कृताकृतम् ॥
आवश्यकमन्त्र पञ्च तं विना प्रशपन्ति च ॥ १५७ ॥

दक्षिणाम्नायदेवानां निषिद्धं मचतुष्टयम् ॥
मेनैकेन विना तेपि प्रशपन्ति च साधकम् ॥ १५८ ॥

तस्मान्मुद्राः शिक्षणीन्याः सम्प्रदायानुसारतः ॥
सर्वत्र मोक्षं लभते मुद्राविन्नात्र संशयः ॥ १५९ ॥

इति ते सर्वमाख्यातं सर्वतन्त्रेषु गोपितम् ॥
मुद्राणां परमं तत्त्वं किमन्यच्छ्रोतुमिच्छसि ॥ १६० ॥

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते मुद्रालक्षणप्रकाशोऽष्टमः ॥ ८ ॥


  1. प्रथमार्थे द्वितीया । ↩︎

  2. अकारलोपः । ↩︎