०७ सिद्धिस्थिरीकरणप्रकाशः

श्रीदेव्युवाच ॥

अस्मिन्घोरे कलियुगे स्वल्पसिद्ध्यातिदर्पिताः ॥
भविष्यन्ति जनास्तेषां स्थिरा सिद्धिः कथं भवेत् ॥ १ ॥

अग्रे वंशादिवृद्धिश्च वंशे देवकृपा तथा ॥
मोक्षः कथं साधकस्य तथा वद कृपानिधे ॥ २ ॥

ईश्वर उवाच ॥

अहङ्कारपरित्यागात्काम्यकर्मविवर्जनात् ॥
स्वधर्माचरणात्सर्वमनायासेन जायते ॥ ३ ॥

एतत्कर्तुमशक्तश्चेन्निषिद्धं तु परित्यजेत् ॥
विहितं कर्म कुर्वीत सिद्धिः स्यात्पुत्रपौत्रिकी ॥ ४ ॥

तत्रादौ कथयिष्यामि निषिद्धानि शृणु प्रिये ॥
देवस्थाने गुरुस्थाने श्मशाने च चतुष्पथे ॥
पादुकासनविण्मूत्रमैथुनादि विवर्जयेत् ॥ ५ ॥

प्रमत्तामन्त्यजां कन्यां पुष्पिताम्पतितस्तनीम् ॥
विरूपां मुक्तकेशीं च कामार्तां च न निन्दयेत् ॥ ६ ॥

कन्यायोनिं पशुक्रीडां दिग्वस्त्रां प्रकटस्तनीम् ॥
नालोकयेत्परद्रव्यं परदारांश्च वर्जयेत् ॥ ७ ॥

धान्यगोगुरुदेवाग्निकौशपुस्तकसम्मुखम् ॥
नैव प्रसारयेत्पादौ न चैतानि विलङ्घयेत् ॥ ८ ॥

आलस्यमदसम्मोहशापपैशुन्यविग्रहान् ॥
असूयामात्मसम्मानं परनिन्दां च वर्जयेत् ॥ ९ ॥

लिङ्गिनं व्रतिनं विप्रं वेदवेदाङ्गसंहिताः ॥
पुराणागमशास्त्राणि मनसापि न दूषयेत् ॥ १० ॥

युगं मुसलमश्मानं दाम चुल्लीमुलूखलम् ॥
शूर्पं सम्मार्जनीं दण्डं ध्वजं वै तुर्यमायुधम् ॥ ११ ॥

कलशं चामरं छत्रं दर्पणं भूषणं तथा ॥
भोगयोग्यानि चान्यानि यागद्रव्याणि यानि च ॥ १२ ॥

महास्थानेषु वस्तूनि यानि वा देवतालये ॥
दिव्योक्तानि च वस्तूनि भूताविष्टानि यानि वै ॥
लङ्घयेज्जातु नैतानि न चैतानि पदा स्पृशेत् ॥ १३ ॥

या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी ॥
परहिंसात्मिका या च न तामवतरेत्क्वचित् ॥ १४ ॥

प्रतिग्रहान्न गृह्णीयादात्मभोगविधित्सया ॥
देवतातिथिपूजार्थं दानतोप्यर्जयेद्धनम् 1 ॥ १५ ॥

बिभीतककरञ्जार्कस्नुहीछायां न संश्रयेत् ॥
स्तम्भदीपमनुष्याणामन्येषां प्राणिनां तथा ॥ १६ ॥

नखाग्रकेशनिर्धूतस्नानवस्त्रपटोदकम् ॥
एतत्स्पर्शं त्यजेद्दूरं खरश्वाजरजस्तथा ॥ १७ ॥

लिङ्गस्थानं च निर्माल्यं नद्यां नैव च लङ्घयेत् ॥
नद्यां प्रवाह येत्सर्वं दद्याद्वा शिवदीक्षिते ॥ १८ ॥

न लङ्घयेद्गुरोराज्ञामुत्तरं न वदेत्तथा ॥
अप्रियं च तथा काले कामं क्रोधं विशेषतः ॥ १९ ॥

नाप्रच्छन्नमुखो ब्रुयाद्गुरोरग्रे कदाचन ॥
अद्वैतं देवपूजां च गुरोरग्रे परित्यजेत् ॥ २० ॥

पादुकायोगपट्टादिगुरुचिह्नानि साधकः ॥
न लङ्घयेत्स्पृशेन्नैव तत्समक्षं न धारयेत् ॥ २१ ॥

पर्यङ्कशयनं तद्वत्तथा पादप्रसर्पणम् ॥
अङ्गभङ्गं च लीलां च न कुर्याद्दुरुसन्निधौ ॥ २२ ॥

छायां न लङ्घयेत्तस्य गच्छेन्न पुरतो गुरोः ॥
न कुर्वीत गुरोरग्रे प्रभावं स्वस्य शिष्यकः ॥ २३ ॥

अहङ्कारं न कुर्वीत नोल्बणं धारयेद्वपुः ॥
प्रगुरोः सन्निधौ नैव स्वगुरुं प्रणमेद्बुधः ॥ २४ ॥

नमस्काराय चोद्युक्तं गुरुर्दृष्ट्वा निवारयेत् ॥
न नियोगं गुरोर्दद्यात्त्वमित्यादि न वा वदेत् ॥ २५ ॥

श्रीनाथदेवस्वामीति बोधने भाषणे वदेत् ॥
जातायामापदि क्वापि शपथं गुरुसञ्ज्ञितम् ॥ २६ ॥

न कुर्याच्छिवसञ्ज्ञं वा प्रसादेन क्रियेत चेत् ॥
तदर्थं निर्वहेद्यत्नादन्ते पूजाजपाहुतीः ॥ २७ ॥

अनिर्वहंस्तु कार्यं तद्यदर्थं शपथः कृतः ॥
प्रायश्चित्तं मनोः कुर्यान्मूलस्यैव सहस्रकम् ॥ २८ ॥

लोकोद्वेगकरी या च या च मर्मनिकृन्तिनी ॥
स्थित्युद्वेगकरी या च तां गिरं नैव भाषयेत् ॥ २९ ॥

अरण्यमुज्ज्वलमपि मनसापि समीप्सितम् ॥
लोकविद्वेषणं वेषं न गृह्णीयात्कदाचन ॥ ३० ॥

तन्त्रोक्तान्यसमाचारानैहिकामुष्मिकांश्च तान् ॥
आचरन्नादराच्छान्तिं दीक्षितः सोधिगच्छति ॥ ३१ ॥

सामान्यसिद्धौ रक्षार्थं परेषां न कदाचन ॥
प्रयोक्तव्यः स्वस्य मन्त्रो महापद्यपि साधकैः ॥ ३२ ॥

गुरोरुद्भूतवाक्येन भयात्स्वार्थेन वा पुनः ॥
कृपया परया कुर्यादनाथेषु दयां सदा ॥ ३३ ॥

यत्रयत्र पुरीष्वेव मात्सर्यं श्रूयते गुरोः ॥
तत्रत्र न वस्तव्यं प्रयायात्संस्मरन्हृदि ॥ ३४ ॥

विष्णोः शिवस्य शास्त्रस्य वेदस्यार्कगणेशयोः ॥
भवान्या यत्र निन्दा तु तस्मिन्स्थाने न वै वसेत् ॥ ३५ ॥

कर्मणां मनसा वाचा नहीच्छेत्परदारकान् ॥
वक्तव्यं च वचः सत्यं सौशील्यं समतां धृतिम् ॥ ३६ ॥

शक्तिं दयामवस्थां च दिव्यां शक्तिं च सर्वदा ॥
गमनागमने कुर्यात्प्रणम्य गुरुपादुके ॥ ३७ ॥

पश्चात्पादेन निर्गच्छेत्प्रणम्य च गुरोर्गृहात् ॥
मलयुक्तादिरहितः केशश्मश्रुविलुञ्चनात् ॥ ३८ ॥

सोमसूर्योत्तरस्थां च गवाश्वत्थादिमध्यगाम् ॥
भावयेद्देवतां विष्णुं गुरुविप्रशरीरगाम् ॥ ३९ ॥

सेवेत मातापितरौ विष्णुं तद्वत्प्रियाअतिथिम् ॥
ज्ञेयो विश्वाश्रयो विष्णुरात्मा ज्ञेयश्च विष्णुवत् ॥ ४० ॥

स्वानुष्ठाने तु यत्कर्म सर्वं सर्वस्य गोपयेत् ॥
मन्त्रगुप्तिश्च कर्तव्या सततं मन्त्रसिद्धये ॥ ४१ ॥

गुरोर्नाम न गृह्णियाद्वदेदावश्यके त्विति ॥
ॐ श्रीपूर्वं गुरोर्नाम देवनाम तदुत्तरम् ॥ ४२ ॥

पादशब्दसमेतं तु कृत्वा मूर्ध्न्यञ्जलिं पुनः ॥
नमोऽन्तं च वदेन्नाम तिथ्यर्णं च हरेर्मम ॥ ४३ ॥

नित्यं नैमित्तिकं काम्यं सापेक्षं पूर्वपूर्वतः ॥
अन्यथा भजनं देवि करोत्यापत्परम्पराम् ॥ ४४ ॥

प्रत्यहं क्रियते पूजा सा तु नित्या प्रकीर्तिता ॥
नैमित्तिकापि तत्सङ्ख्या पञ्चतुल्या परे दिने ॥ ४५ ॥

अभावेपि कदाचित्स्यान्नित्ये नैमित्तिका त्वियम् ॥
शुद्धा नैमित्तिका पूजा प्रोक्ता विंशतिभेदिका ॥ ४६ ॥

पर्वाणि च महायोगा व्यतीपातः सवैधृतिः ॥
मन्वादयो युगाद्याश्च यदङ्गं देवताभवम् ॥ ४७ ॥

पुष्यश्च रविवारश्च त्रिगुरूणां स्वकीयकम् ॥
जन्माहश्चापि दीक्षाया दिवसं नवरात्रकम् ॥ ४८ ॥

गन्डान्तान्यथ पूजाया आवश्यकदिनं शृणु ॥
विशेषेण कृता पूजा यस्मिन्भवति निष्फला ॥ ४९ ॥

दशिकागमने चैव वीरस्वजनदर्शने ॥
चन्द्रसूर्योपरागे च लाभे होमे महोत्सवे ॥ ५० ॥

पीठे पीठगमे पुण्ये तीर्थदैवतदर्शने ॥
रोगेष्वापत्सु दोषेषु दुस्सङ्गे दुर्निमित्तके ॥ ५१ ॥

यथा कालो यथा श्रद्धा यथा द्रव्यं यथोचितम् ॥
यथाबलं यथा देशस्तथा पूजां समाचरेत् ॥ ५२ ॥

नैमित्तिकार्चने कालाः प्रातर्मध्याह्नसम्भवाः ॥
प्रदोषे चापि विघ्नेशरविविष्ण्वीशशक्तयः ॥ ५३ ॥

दमनेन च यो देवं वर्षमध्ये न पूजयेत् ॥
तस्य वर्षकृतापूजाफलं गृह्णाति कामराट् ॥ ५४ ॥

चैत्रादयस्त्रयो मासाः प्रशस्ताः पूर्वपूर्वतः ॥
अष्टमी नवमी पौर्णमास्यमा च चतुर्दशी ॥ ५५ ॥

एतन्मध्ये तु कस्मिंश्चित्प्राग्दिने तु प्रदोषके ॥
कृतनित्यक्रियश्शुद्धो युक्तः सामयिकैर्जनैः ॥ ५६ ॥

दमनस्य समीपन्तु गत्वासन उपाविशेत् ॥
प्राणायामत्रयं कृत्वा ऋष्यादीन्विन्यसेत्ततः ॥ ५७ ॥

कामभस्मसमुद्भूत रविपोष्य जलोद्भव ॥
ऋषिगन्धर्वदेवादिमोहनाय नमोस्तु ते ॥ ५८ ॥

सांवत्सरिकपूजायाः परिपूर्णत्वसिद्धये ॥
दमन त्वं समायाहि क्षमस्व च नमोस्तु ते ॥ ५९ ॥

शिवप्रसादसम्भूत ह्यत्र सन्निहितो भव ॥
शिवकार्ये समुत्थेद्य नेतव्योसि शिवाज्ञया ॥ ६० ॥

एवं दमनमामन्त्र्य कामदेवं तथा रतिम् ॥
प्रीतिं च पूजयेत्तत्र तत्तन्मन्त्रेण साधकः ॥ ६१ ॥

तारः 2 क्लीं कामदेवाय नमश्चेति नवाक्षरः ॥
श्रींश्रींश्रीङ्क्रोमिति 3 प्रोच्य रत्यै हृच्चाष्टवर्णकः ॥ ६२ ॥

रतिस्थाने प्रीतिपदादयमप्यष्टवर्णकः ॥
ततः स्वगृहमागच्छेद्द्वितीये दिवसे पुनः ॥ ६३ ॥

कृतनित्यक्रियस्स्वेष्टैर्युक्तो दमनमाव्रजेत् ॥
उत्पाटयेच्छेदयेद्वा स्वमूलेनास्त्रमन्त्रतः ॥ ६४ ॥

गृहमानीय तोयेन मन्त्रेणानेन सेचयेत् ॥
ॐ अघोरे ऐं च ॐ च घोरे ह्रीमिति कीर्तयेत् ॥ ६५ ॥

घोरघोरतरे श्रीं च सर्वतः सर्वसर्वेभ्यः ॥
नमस्ते रुद्ररूपेभ्यो ह्रींश्रीमिति मनुः स्मृतः ॥ ६६ ॥

चतुस्त्रिंशदक्षरात्मा दमने तं निधापयेत् ॥
पूजास्थाने च पीठादौ नवांशांस्तस्य कारयेत् ॥ ६७ ॥

कृत्वा चाष्टदलं पद्मं तत्र भागान्प्रविन्यसेत् ॥
चन्दनागुरुकर्पूरचन्दनैर्लेपयेच्च तान् ॥ ६८ ॥

आनन्देशीबीजवर्णैर्बिन्दुपद्भिर्नमोन्तकैः ॥
पृथक्पूज्यं तु तद्बीजं जपन्निह क्षमापयेत् ॥ ६९ ॥

पूजास्थाने प्रकुर्वीत सर्वतोभद्रमण्डलम् ॥
तस्याष्टदिक्षु संस्थाप्या घटाः स्वर्णादिनिर्मिताः ॥ ७० ॥

मध्ये वा कुम्भमेवैकमशक्तः स्थापयेत्ततः ॥
तत्र स्वासनपूजादियोगपीठान्तमर्चयेत् ॥ ७१ ॥

तस्य दक्षिणदिग्भागे सिन्दूरेणाष्टपत्रकम् ॥
पद्मं कुर्याद्वृत्तयुग्मवेष्टितं भूपुरेण च ॥ ७२ ॥

पञ्चवर्णरजोभिश्च कर्णिकायामशोककम् ॥
लिखित्वा प्रार्थयित्वा तं पूजयेच्चन्दनादिभिः ॥ ७३ ॥

अशोकाय नमस्तुभ्यं कामस्त्रीशोकनाशक ॥
शोकार्ति हर मे नित्यमानन्दं जनयस्व मे ॥ ७४ ॥

तस्य दक्षिणतस्तादृङ्मण्डले पूजयेत्ततः ॥
वरखड्गधरं कालं पञ्चरङ्गैर्विचित्रितम् ॥ ७५ ॥

त्रुट्यादिप्रलयान्तो यः कालरूपो महाबलः ॥
कलयत्यपि विश्वं यस्तस्मै कालात्मने नमः ॥ ७६ ॥

अशोकस्य ततोधस्तात्त्रिकोणे मण्डले शुभे ॥
मण्डूकादिज्ञानात्मान्तां पीठपूजां समाचरेत् ॥ ७७ ॥

तद्बाह्येष्टदले प्रोक्तं शक्त्यष्टकसमर्चनम् ॥
सौभाग्यां च तथा हृद्यां वृषां चापि धृतिं रतिम् ॥ ७८ ॥

प्रीतिं वासन्तिकीं निर्वाणाख्यां मध्ये तु कामुकाम् ॥
आवाह्य कामदेवं च तद्गायत्र्या तदुत्तरम् ॥ ७९ ॥

कामदेवाय विद्महे पुष्पबाणाय धीमहि ॥
तन्नोनङ्गः प्रचोदयात् ॥ ८० ॥

कृत्वा प्राणप्रतिष्ठान्तं ततो मुद्राः प्रदर्शयेत् ॥
पाशाङ्कुशधनुर्बाणाभिधा ध्यायेत्ततः परम् ॥ ८१ ॥

रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् ।
रक्तमाल्यं च तरुणं वामदक्षिणयोर्युतम् ॥ ८२ ॥

रत्या प्रीत्येक्षुकोदण्डपुष्पबाणमधः करे ॥
ऊर्ध्वं पाशस्ततः पूज्यं पूर्वोक्तमनुभिस्त्रयम् ॥ ८३ ॥

रक्तवस्त्रपरीधानां सर्वाभरणभूषिताम् ॥
पद्मद्वयकरां गौरवर्णां ध्यायेद्रतिं शुभाम् ॥ ८४ ॥

श्यामवर्णां रक्तवस्त्रां सर्वाभरणभूषिताम् ॥
ताम्बूलास्यां भजेत्प्रीतिं घटपुष्पलसत्कराम् ॥ ८५ ॥

अग्रे तु कामदेवस्य वसन्तं परिपूजयेत् ॥
सुधाकुम्भं वामहस्ते दक्षिणे कुसुमाकरम् ॥ ८६ ॥

कदम्बवनमध्यस्थं रक्तमाल्यांशुकावृतम् ॥
ध्यायेद्वसन्तं गौराङ्गं सुरूपं लोकमोहनम् ॥ ८७ ॥

वंवसन्ताय हृदयं तस्य सप्ताक्षरो मनुः ॥
पूजाद्यर्थं ततोग्नीशरक्षोवायव्यमध्यतः ॥ ८८ ॥

चतुर्दिक्षु वषड्दिर्घयुगनङ्गस्य बीजकम् ॥
पठित्वा हृदयादीनि षडङ्गानि प्रपूजयेत् ॥ ८९ ॥

तदग्राष्टदले देवमुखतस्तु प्रदक्षिणम् ॥
कामं भस्मशरीरं चानङ्गमन्मथमेव च ॥ ९० ॥

वसन्तस्य सखायं च स्मरामीक्षुधनुर्धरम् ॥
पुष्पबाणं तदग्रे तु लोकपानायुधानि च ॥ ९१ ॥

ततस्तु कामगायत्र्या यथासङ्ख्यं जपं चरेत् ॥
वसन्तं कामदेवं च श्लोकाभ्यां प्रार्थयेदिति ॥ ९२ ॥

वसन्ताय नमस्तुभ्यं वृक्षगुल्मलताप्रिय ॥
सहस्रसुखसंवाह कामरूप नमोस्तु ते ॥ ९३ ॥

नमोस्तु पुष्पबाणाय जगदानन्दकारिणे ॥
मन्मथाय जगन्नेत्रे रतिप्रीतिप्रियाय च ॥ ९४ ॥

कामदेवं प्रणम्याथ मूलन्यासं समाचरेत् ॥
अवाहयेन्मध्यकुम्भे देवं साङ्गं च पूजयेत् ॥ ९५ ॥

आवाहितोसि देवश सद्यः काले मया विभो ॥
कर्तव्यं तु यथालाभं पूर्णं पर्व त्वदाज्ञया ॥ ९६ ॥

इति सावरणं देवं दमनैः पूजयेत्ततः ॥
धूपदीपादिकं कृत्वा नित्यहोमं समाचरेत् ॥ ९७ ॥

द्रव्यैस्तु देवकल्पोक्तैर्होमस्तु त्रिगुणो जपात् ॥
पूजाशेषं समाप्याथ प्रार्थयेद्देवतामिति ॥ ९८ ॥

सर्वरूप जगन्नाथ वाञ्छितार्थफलप्रद ॥
हृत्स्थान्पूरय मे देव कामान्कामेश्वरेश्वर ॥ ९९ ॥

एवं सम्प्रार्थ्य देवेशं विसृज्य च गुरुं ततः ॥
द्रव्याद्यैस्तोषयेद्विप्रान्भोजयेदिति तद्विधिः ॥ १०० ॥

पवित्रनामनागाय वरो दत्तस्तु शम्भुना ॥
पवित्रारोपणं यैस्तु न कृतं तत्फलं तव ॥ १०१ ॥

कुर्यान्मिथुनसङ्क्रान्तेस्तुलासङ्क्रमणावधि ॥
आषाढ उत्तमो मासः श्रावणो मध्यमो भवेत् ॥ १०२ ॥

हीनो भाद्रपदः पक्षः श्वेतः सन्मध्यमोसितः ॥
अष्टम्यां च चतुर्थ्यां च चतुर्दश्यां पवित्रकम् ॥ १०३ ॥

नवम्यामपि कर्तव्यं कृतादिषु यथाक्रमम् ॥
सौवर्णं राजतं ताम्रं कलौ कार्पासकं शुभम् ॥ १०४ ॥

पट्टजं तु गृहस्थानां वनस्थानां तु वाल्कलम् ॥
पद्मजातं सौगतानां शूद्राणां क्षौममिष्यते ॥ १०५ ॥

बटूनां दर्भसञ्जातं वैश्यानां तु शणोद्भवम् ॥
मुञ्जजातं व्रतस्थानामाविकं समरैषिणाम् ॥ १०६ ॥

सरस्तु नवसूत्राणां त्वष्टोत्तरशतैः सरैः ॥
पवित्रं परमं प्रोक्तं तदर्धं मध्यमं स्मृतम् ॥ १०७ ॥

कनिष्ठं सप्तविंशत्या तावदङ्गुलदीर्घकम् ॥
पूजावरणदेवानां तुल्यानि रचयेद्बुधः ॥ १०८ ॥

षट्त्रिंशाङ्गुलयः श्रेष्ठे चतुर्विंशच्च मध्यमे ॥
द्वादशैव कनिष्ठे स्युरथान्यच्च पवित्रकम् ॥ १०९ ॥

स्कन्धाच्च नाभिपर्यन्तं दशग्रन्थिसमन्वितम् ॥
क्रमज्ञानाञ्च शिष्याणां पवित्रं तदुदाहृतम् ॥ ११० ॥

अन्येषां स्वेच्छया कुर्यात्तनुग्रन्थियुतानि च ॥
ग्रन्थीनां वेष्टनं श्रेष्ठं षड्विंशद्भिश्च तन्तुभिः ॥ १११ ॥

चतुर्विंशतिभिर्मध्यमधमं भानुभिः 4 स्मृतम् ॥
ग्रन्थयो वर्ममन्त्रेण कर्तव्या प्राग्दिने ततः ॥ ११२ ॥

रात्रौ सामयिकैः सार्धं पवित्राणि समानयेत् ॥
पूजास्थानेथ सिन्दूरकुङ्कुमारक्तचन्दनैः ॥ ११३ ॥

कस्तूरीविधुलाक्षाभिर्गैरिकाद्यैर्विचित्रयेत् 5
ग्रन्थिस्थानेषु संस्थाप्य पीठे तन्नवतन्तुषु ॥ ११४ ॥

देवतानवकम्पूज्यम्ॐकारश्चन्द्रमास्तथा ॥
वह्निर्ब्रह्मा नागगुरू रविश्चापि शिवाशिवौ ॥ ११५ ॥

सर्वे देवाश्चापि पूज्याः शिरोमन्त्रेण 6 मन्त्रयेत् ॥
अभ्युक्षयेच्च हृन्मन्त्रेणास्त्रमन्त्रेण रोधयेत् ॥ ११६ ॥

तेषां दशग्रन्थिषु च सम्पूज्या दशशक्तयः ॥
क्रिया च पौरुषी वीरा गायत्री चापराजिता ॥ ११७ ॥

विजया च जया मुक्तिः सदाशिवमनोन्मनी ॥
पवित्रेषु ततः पूज्यं मूलमन्त्रैः षडङ्गकम् ॥ ११८ ॥

घटे च विन्यसेदाद्यं पवित्रं च महत्तथा ॥
कृत्वा न्यासादिकं तत्र प्राग्वत्पूजां प्रकल्पयेत् ॥ ११९ ॥

कुम्भे देवं समावाह्य यजेदावरणैः सह ॥
देवस्य मूलमन्त्रेण पवित्रस्य समर्पणम् ॥ १२० ॥

दैवतेभ्यः पवित्राणि दीनानाथांश्च तर्पयेत् ॥
दत्त्वा च भूयसीं पश्चात्स्वयम्भूञ्जीत वाग्यतः ॥ १२१ ॥

अतिस्पष्टोत्र सम्प्रोक्तः पवित्रारोपणे विधिः ॥
काम्यकर्माणि वक्ष्यामि तत्रादौ शान्तिरुच्यते ॥ १२२ ॥

शान्तिर्नाम मनुष्याणां रोगकृत्यादिनाशनम् ॥
विभज्य षोढाहोरात्रं पञ्चमेंशे तु शान्तिकम् ॥ १२३ ॥

हेमन्ते च प्रकर्तव्यं नासाधश्च यदा चलेत् ॥
वायुस्तदा त्वपस्तत्त्वं तस्मिञ्छान्तिकमाचरेत् ॥ १२४ ॥

श्वेतवर्णेन निर्माय चतुरस्रं तु मण्डलम् ॥
पूजयेच्चन्दनाद्यैर्वम्बीजेन शत्रुशान्तिके ॥ १२५ ॥

उत्तराभिमुखो भूत्वा शान्तिकन्तु समाचरेत् ॥
शान्तिकादौ रतिःपूज्या पद्ममुद्रां 7 च दर्शयेत् ॥ १२६ ॥

बद्ध्वा 8 पद्मासनं स्थेयं नमोन्तः शान्तिके मनुः ॥
शान्तौ कुशानं 9 ग्राह्यं होमयेन्मृगमुद्रया ॥ १२७ ॥

मुक्त्वा कनिष्ठिकां यत्र हूयते सा मृगी भवेत् ॥
त्रिषूत्तरासु पर्वासु शान्तिकं स्याद्द्विजन्मसु ॥ १२८ ॥

अथ वश्यं प्रवक्ष्यामि स्वायत्तीकरणं तु तत् ॥
देवरक्षोराजलोकसर्पस्त्रीहयहस्तिनाम् ॥ १२९ ॥

प्रथमेंशे 10 वश्यकर्म वसन्ते च प्रसिध्यति ॥
नासोर्ध्वं वहते वायुरग्नितत्त्वं वहेत्तदा ॥ १३० ॥

वश्यं कर्म त्रिकोणेन रम्बीजेनाग्निपूजनम् ॥
रक्तवर्णेन निर्माय वश्यम्पूर्वमुखश्चरेत् ॥ १३१ ॥

वाणीं सम्पूजयेद्वश्ये पाशमुद्राम्प्रदर्शयेत् 11
स्वस्तिकासनमारुह्य स्वाहान्तं मन्त्रमुच्चरेत् ॥ १३२ ॥

छागलं 12 चर्म वश्ये स्याद्धोमयेन्मृगमुद्रया ॥
रक्तद्रव्यैरत्र होमो ध्यानमारक्तकं मतम् ॥ १३३ ॥

मृगान्त्यचित्रामित्रर्क्षविशाखाकृत्तिकासु तु ॥
अथ स्तम्भम्प्रवक्ष्यामि तदुद्योगनिवारणम् ॥ १३४ ॥

शिशिरे स्तम्भनम्प्रोक्तं षष्ठाङ्गे तु दिनस्य तत् ॥
अग्नेरपां च सैन्यस्य क्रुद्धस्य विषदंष्ट्रिणः ॥ १३५ ॥

तर्पणार्थं मेषरक्तमिश्रितन्तोयमावहेत् ॥
जानुभ्यामवनीं गत्वा स्तम्भनस्य क्रियां चरेत् ॥ १३६ ॥

जारबौद्धरुजां स्तम्भो धर्मः प्रेतादिरक्षसाम् ॥
नासादण्डेन संलग्नो वायुश्चेद्भूदयो भवेत् ॥ १३७ ॥

स्तम्भकर्म तदा कुर्याल्लम्बीजेन वसुन्धराम् ॥
अष्टकोणयुते पीते मण्डले तां समर्चयेत् ॥ १३८ ॥

प्राङ्मुखः स्तम्भनं कुर्याद्रमान्तत्र प्रपूजयेत् ॥
विकटासनगो 13 देव्यै गदामुद्रां 14 प्रदर्शयेत् ॥ १३९ ॥

स्तम्भने वषडन्तश्च होमे मन्त्रः प्रकीर्तितः ॥
गजचर्मासनं स्तम्भे गदामुद्राहुतौ तथा ॥ १४० ॥

पीतद्रव्यैश्चात्र होमः पीतवत्रादिधृक्स्वयम् ॥
स्तम्भने भरणी चित्रा रोहिणी चोत्तरात्रयम् ॥ १४१ ॥

अथ विद्वेषणं वक्ष्ये प्रीतिनाशस्स तु द्वयोः ॥
ग्रीष्मे विद्वेषणं घस्रस्यांशके तु द्वितीयके ॥ १४२ ॥

नासायां मध्यगे वायौ खोदये 15 द्वेषणं मतम् ॥
वर्तुले धूम्रवर्णे तु मण्डले खं समर्चयेत् ॥ १४३ ॥

हम्बीजेनाथ विद्वेषं नैर्-ऋत्याभिमुखश्चरेत् ॥
पूज्या धूमावती 16 द्वेषे मुद्रा तु मुसला 17 भवेत् ॥ १४४ ॥

होममन्त्रं फडन्तोत्र विशेत्कुक्कुटकासने 18
विद्वेषे जाम्बुकञ्चर्म लोहासनमथापि वा ॥ १४५ ॥

धूम्रवर्णैश्च होतव्यं तादृग्वस्त्रादि साधकैः ॥
आर्द्राचतुष्टयं मूलं ज्येष्ठा विद्वेषणे मता ॥ १४६ ॥

उच्चाटनमथो वक्ष्ये तदरीणां प्रवासनम् ॥
प्रावृडुच्चाटने शस्ता तृतीयाशे दिनस्य तत् ॥ १४७ ॥

तिर्यग्गते समीरे तु वायुर्वहति 19 तत्र तु ॥
शत्रोरुच्चाटनं कुर्याद्यं बीजेन तमर्चयेत् ॥ १४८ ॥

षट्कोणं मण्डलं वायोः कृष्ऽन्ं षड्बिन्दुलाञ्छितम् ॥
मृगचर्मादिकं तत्र वायव्यस्य च कर्मणि ॥ १४९ ॥

दुर्गां सम्पूजयेन्मुद्रामशनिन्तु 20 प्रदर्शयेत् ॥
वज्रासनसमारूढः 21 फडन्तश्चाहुतौ मनुः ॥ १५० ॥

धुम्रमुच्चाटने ध्यानं कृष्णद्रव्यैस्तथा हुनेत् ॥
उच्चाटनं तथा कर्म क्षिप्रभेषु 22 प्रशस्यते ॥ १५१ ॥

मारणं प्राणहरणं शत्रूणामीरितं तु तत् ॥
मारणे वर्जयेद्विप्रानन्यांश्चापि सुधार्मिकान् ॥ १५२ ॥

स्त्रीबालव्यतिरिक्तेषु राजवैरिषु योजयेत् ॥
सरोषतो वा लोकाना रक्षार्थं तु तदा हरेत् ॥ १५३ ॥

न तु लोभाद्भयान्मन्त्री कुर्याच्चैव तु मारणम् ॥
प्रायश्चित्तं च कर्तव्यं देवि तद्दोषशान्तये ॥ १५४ ॥

अयुतं प्रजपेन्मन्त्रं जहुयात्तावदेव हि ॥
सघृतैः पायसैः कृष्णतिलैर्वा घृतसंयुतैः ॥ १५५ ॥

आत्मरक्षा प्रकर्तव्या कर्मकाले सदा बुधैः ॥
अह्नश्चतुर्थः षष्ठ्ॐशः 23 शरन्मारणकर्मणि ॥ १५६ ॥

वश्यवन्मारणे कार्यं पूजाद्यं वह्निमण्डले ॥
दक्षिणाभिमुखः कुर्याद्भद्रकालीं समर्चयेत् ॥ १५७ ॥

दर्शयेत्खड्गमुद्राञ्च 24 विशेद्भद्रासने 25 हुनेत् ॥
हुङ्कारान्तेन मन्त्रेण माहिषं वाथ लोहजम् ॥ १५८ ॥

आसनं शूकरीमुद्रा करसङ्कोचतो भवेत् ॥
ध्यानं कुर्यात्कृष्णवर्णं कृष्णद्रव्यैश्च पूजनम् ॥ १५९ ॥

उग्रतीक्ष्णोडुषु 26 स्वस्य चन्द्रताराबलादिके ॥
शत्रोश्चैव बलाभावे चैकपादोपरि स्थितः ॥ १६० ॥

उष्णोदकं समरिचं तर्पणार्थन्तु मारणे ॥
तिष्ठन्कुर्यान्मारणं वा भूमौ पादं निवेशयेत् ॥ १६१ ॥

वामपादनिविष्टः स चरेत्तत्र तु तर्पणम् ॥
प्रकीर्णान्यथ वक्ष्यन्ते त्वभिचाराश्च तत्र च ॥ १६२ ॥

दक्षिणाभिमुखः कुर्यान्मेषीचर्मणि संस्थितः ॥
लोहासनगतो वापि शूकर्यां मुद्रया हुनेत् ॥ १६३ ॥

धनसिद्धिकरं कर्म पश्चिमाभिमुखश्चरेत् ॥
मृगान्त्यचित्रामैत्रेषु देवध्यानन्तु राजसम् ॥ १६४ ॥

गोचर्मणासनं मोहे स्वाहान्तं मन्त्रमुच्चरेत् ॥
हरिद्रामिश्रितन्तोयं तर्पणार्थं प्रयोजयेत् ॥ १६५ ॥

स्वाती च रोहिणी तत्र श्रेष्ठा चापि सुखासनम् ॥
अथ सर्वाणि कर्माणि रौद्रभे तु प्रसाधयेत् ॥ १६६ ॥

नानाविधेषु कार्येषु व्याघ्रचर्म समीरितम् ॥
सर्वरक्षमिभाकारं ध्यायेन्निश्चलमानसः ॥ १६७ ॥

पीयूषवर्षसंयुक्तं पूर्णचन्द्रसमप्रभम् ॥
ध्यायेदेवंविधं वापि सर्वकार्यषु साधकः ॥ १६८ ॥

आयुष्करस्तु श्रवणे ध्यायेद्देवं च राजसम् ॥
अपमृत्युजये प्रोक्तं पूर्वा चैवोत्तरात्रयम् ॥ १६९ ॥

वषडन्तो होममन्त्रो ध्यायेद्राजसदैवतम् ॥
आकर्षणं वह्निकोणसम्मुखस्तु समाचरेत् ॥ १७० ॥

वश्योक्तमखिलं ज्ञेयमाकर्षे कार्यसिद्धये ॥
सर्वज्ञानप्रसिद्ध्यर्थमीशानाभिमुखो भवेत् ॥ १७१ ॥

सर्वविज्ञानकार्येषु श्वेतकम्बलमासनम् ॥
पुष्ट्यादिसाधने मन्त्रो वौषट्पल्लवसंयुतः ॥ १७२ ॥

हंसी स्यात्तर्जनीमुक्ता मुद्रा होमस्तु पौष्टिके ॥
यथोक्तदेवताध्यानं कुर्यात्पौष्टिककर्मणि ॥ १७३ ॥

सर्वत्र भयनाशाय वषडन्तो हुतौ मनुः ॥
महासुखसमायुक्तध्यानं वै निर्भयम्भवेत् ॥ १७४ ॥

मन्त्रभञ्जनकार्येषु वषडन्तो हुतौ मनुः ॥
खण्डने तु फडन्तः स्याद्धोमो ध्यानन्तु तामसम् ॥ १७५ ॥

सौख्यायोदङ्मुखः कुर्याज्जपञ्च रुरुचर्मणि ॥
कल्पान्ताग्निसमं युद्धे ध्यायेद्देवं च तामसम् ॥ १७६ ॥

अथ वक्ष्यामि काम्यादौ सम्पूज्या याश्च देवताः ॥
नित्यं समर्चयेद्विघ्नं वारेशांश्च तिथीश्वरम् ॥ १७७ ॥

नक्षत्रेशास्ततः पूज्यास्तत्तत्कर्माधिदेवताः ॥
ततोर्चयेदिष्टदेवन्ततो होमं समाचरेत् ॥ १७८ ॥

क्रमाद्वारेश्वरौ सूर्यशिवौ सोमाम्बिके तथा ॥
गुहाङ्गारौ ज्ञविष्णू च चतुर्वक्त्रबृहस्पती ॥ १७९ ॥

शुक्रेन्द्रौ शनिकालौ च सूर्यादौ पूज्यदेवताः ॥
प्रोक्ता वारेश्वरा देवि तिथीशांस्त्वमथो शृणु ॥ १८० ॥

ब्रह्मा विधाता विष्णुश्च यमः शीतकरो गुहः ॥
इन्द्रश्च वसवो नागा धर्मः शिवदिवाकरौ ॥ १८१ ॥

कन्दर्पश्च कलिर्विश्वेदेवाश्च पितरस्तथा ॥
आश्विनेयौ यमो वह्निर्ब्रह्मा चन्द्रः शिवोऽदितिः ॥ १८२ ॥

गुरुः सर्पाश्च पितरो भगोर्यमदिवाकरौ ॥
त्वष्टा वायुरथेन्द्राग्नी मित्रश्चैव सुरेश्वरः ॥ १८३ ॥

निर्-ऋतिश्च जलं विश्वेदेवाश्चापि विधिर्हरिः ॥
वसवो वरुणोऽजैकपादहिर्बुध्न्यपूषकौ ॥ १८४ ॥

नक्षत्रेशा इमे साभिजित्का अष्टौ च विंशतिः ॥
प्रणवादिचतुर्थ्यन्ता 27 नमसा च समन्विताः ॥ १८५ ॥

एतेषां नाममन्त्रास्तु ग्राह्याः पूजादिसाधने ॥ १८६ ॥

सिद्धमन्त्रः प्रकुर्वीत काम्यकर्माणि नान्यथा ॥
कृतानि विपरीतानि कृत्वा निरयमाप्नुयात् ॥ १८७ ॥

गुरुभक्तः शुचिः स्नातः काम्यकर्मविधानवित् ॥
आत्मनश्च परस्यापि काम्यकर्माणि चाचरेत् ॥ १८८ ॥

षट्कर्माणि परार्थञ्च कुर्यान्मन्त्रविदुत्तमः ॥
एतेषामेव कुर्वीत नान्येषान्तु कदाचन ॥ १८९ ॥

राज्ञो वा राजपुत्रस्य धनाढ्यस्येतरस्य वा ॥
आस्तिकस्यापि भक्तस्य न्यायार्जितधनस्य च ॥ १९० ॥

कृतज्ञस्य वदान्यस्य गुरुदेवार्चकस्य च ॥
सुशीलस्य सुभक्तस्य कार्यं कुर्याच्च देशिकः ॥ १९१ ॥

राजा कारयितान्यो वा प्रणिपत्य च साधकम् ॥
वृणुयात्कर्मकर्तारं दीक्षोक्तविधिना ततः ॥ १९२ ॥

साधकः प्रयतो भूयाद्द्विजः सन्तोषवाञ्छुचिः ॥
जितेन्द्रियो जितक्रोधो मानक्षोभविवर्जितः ॥ १९३ ॥

नित्ये नैमित्तिके रक्तः कुर्यात्कामाननेकधा ॥
कूरकर्म यथोक्तन्तु कृत्वाभ्यङ्गं समाचरेत् ॥ १९४ ॥

स्नात्वा सावरणा साङ्गां पूजयेदिष्टदेवताम् ॥
अष्टोत्तरसहस्रञ्च रक्षार्थं प्रजपेन्मनुम् ॥ १९५ ॥

मां रक्षरक्षेत्युक्त्वा च नत्वा देवं समुत्सृजेत् ॥
अन्यैः सुहृद्भिः सुस्निग्धैरात्मरक्षान्तु कारयेत् ॥ १९६ ॥

मृत्युञ्जयादिभिर्मन्त्रैः सूर्यसेवार्घ्यदानकैः ॥
जपहोमार्चनाद्यैश्च ब्राह्मणाराधनादिभिः ॥ १९७ ॥

प्रयोगकरणं सम्यग्गुरुतः शास्त्रतस्तथा ॥
ज्ञात्वा प्रयोगान्कुर्वीत ह्यन्यथा दुःखमाप्नुयात् ॥ १९८ ॥

ततः कारयिता राजा तोषयेत्साधकन्धनैः ॥
प्रणिपत्य मुहुश्चापि यथा स्यात्तुष्टिमास्तथा ॥ १९९ ॥

सिद्धमन्त्रस्य सिद्ध्यन्ति षट् कर्माणि न संशयः ॥
नैव सिद्ध्यन्त्यसिद्धस्य देवताशापमाप्नुयात् ॥ २०० ॥

काम्यप्रयोगकाराणां परलोको न विद्यते ॥
प्रयोगसिद्धिरेवैषां फलमन्यन्न विद्यते ॥ २०१ ॥

होमतर्पणमन्त्राद्यैर्नानाध्यानविशेषकैः ॥
आत्मनश्च परस्यापि षट् कर्माणि सुसाधयेत् ॥ २०२ ॥

एकलक्षं जपेन्मन्त्री ध्यानविन्यासयोगतः ॥
प्रयोगदोषशान्त्यर्थमात्मरक्षार्थमेव च ॥ २०३ ॥

न चेन्न फलमाप्नोति देवताशापमाप्नुयात् ॥
अग्निप्रभाधूमवर्णध्वनिगन्धशिखाकृति ॥
दूतचेष्टादिकं सर्वं कथयेत शुभाशुभम् ॥ २०४ ॥

मन्त्रयित्वानुसन्धानं देहावेशादिलक्षणम् ॥
गुरुभक्तिः सदा कार्या कर्मकाले विशेषतः ॥ २०५ ॥

ऐहिकामष्मिकानान्तु गुरुरेव परायणम् ॥
मारणोच्चाटनादीनि क्षुद्राणां वाममार्गिणाम् ॥ २०६ ॥

क्षुद्रदेवास्साधयति सुखं दातुं न ते क्षमाः ॥
परनिष्ठापराणान्तु वामिनां परमा गतिः ॥ २०७ ॥

यावद्दिष्टं तावदेव प्रतिष्ठा च धनादिकम् ॥
दाक्षिणात्या न कुर्वन्ति कदाचिदिह निन्दितम् ॥ २०८ ॥

तेषां प्रभावसंसिद्धिः परलोकश्च शाश्वतः ॥
ये नराः कुलसंशुद्धाः कल्पोक्तेनैव संस्कृताः ॥ २०९ ॥

ते चेन्निपतिता वामे पातकं किमतः परम् ॥
इयं प्रोक्तोत्तरा चर्या किमन्य च्छ्रोतुमिच्छसि ॥ २१० ॥

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते सिद्धिस्थिरीकरणप्रकाशः सप्तमः ॥ ७ ॥


  1. यत्नत ↩︎

  2. ॐ क्लीङ्कामदेवाय नमः ॥ ↩︎

  3. श्रीं श्रीं श्रीं क्र्ॐ रत्यै नमः ॥ ↩︎

  4. द्वादशसङ्ख्याभिः ॥ ↩︎

  5. कर्पूरः ॥ ↩︎

  6. स्वाहेति मन्त्रेण । ↩︎

  7. पद्ममुद्रा करतले त्वङ्गुष्ठौ मिलितौ यदा ।
    हस्तौ तु सम्मुखौ कुर्यात्संहता उन्नताङ्गुलीः ॥ ↩︎

  8. पद्मासनलक्षणं प्रथममुक्तम् ॥
    वामजानुनिदक्षिणपदं दक्षिणजानुनि वामपदं निदध्यादिति ॥ ↩︎

  9. शान्तिकर्मणि गोचर्मासनं ग्रन्थान्तराज्ज्ञेयम् ।
    पुना रतिपूजनं तन्त्रविधेयम् । ↩︎

  10. दिवसप्रथमभागे ॥ ↩︎

  11. तर्जनीमध्यमे वामे ह्यूर्ध्वमुख्यौ विधाय च ॥
    दक्षिणे द्वे अधो मुख्यौ सुमुख्यौ च परस्परम् ॥
    पाशमुद्रा भवेदेषा मिथः सम्पीडने तयोः । ↩︎

  12. ग्रन्थान्तरे खड्गचर्म ॥ ↩︎

  13. जानुजङ्घान्तराले च भुजयुग्मं प्रकल्पयेत् ।
    विकटासनमेतत्स्यान्मुनिभिः परिभाषितम् ॥ ↩︎

  14. गदा तु सरलौ स्तौ त्वन्योन्यग्रन्थिताङ्गुली ।
    अङ्गुष्ठौ मध्यमे भूयः संलग्ने सुप्रसारिते ॥ ↩︎

  15. आकाशतत्त्वोदये ॥ ↩︎

  16. ज्येष्ठा देवी ॥ ↩︎

  17. मुसलाख्या भवेन्मुद्रा वामस्योपरि दक्षिणम् ।
    हस्तयोर्मुष्टियुगलं कुर्यात्सा विघ्ननाशिनी ॥ ↩︎

  18. कृत्वोत्कटासनं पूर्वं समपादद्वयं ततः अन्तर्जानुकरद्वन्द्वं कुक्कुटासनमीरितम् ॥ ↩︎

  19. वायुतत्त्वम् ॥ ↩︎

  20. कनिष्ःआगुष्ठयुङ्मुद्रा त्रिकोणा त्वशनिर्मता । ↩︎

  21. ऊर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखाङ्गुली ।
    करौ निदध्यादाख्यातं वज्रासनमनुत्तमम् ॥ ↩︎

  22. हस्ताश्विनीपुष्याभिजित्सु । ↩︎

  23. वेति शेषः । ↩︎

  24. ऊर्ध्वस्य वामहस्तस्य तर्जन्याद्यङ्गुलित्रयम् ।
    प्रसार्य योजयेदन्ये मिथ्ॐगुष्ठकनिष्ठिके ।
    खड्गमुद्रेयमुदिना सर्वशत्रुनिकृन्तनी ↩︎

  25. सीविन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चलम् ।
    वृषणाधः पादपार्ष्णी पाणिभ्यां परिबन्धयेत् ।
    गुदलिङ्गयोर्मध्ये या नाडी सीविनीत्युच्यते तत्र गुल्फो निधाय वृषणयोरधः प्रपदे कृत्वा हस्ताभ्यां प्रपद बन्धनं भद्रासनम् ↩︎

  26. २- पूर्वाफाल्गुनीपूर्वाषाढापूर्वाभाद्रपदाभरणीमघा उग्राः । ३- आर्द्राश्लेषामूलयेष्ठास्तीक्ष्णाः । ↩︎

  27. ॐ ब्रह्मणे नमः ॐ विधात्रे नमः इत्यादि । ↩︎