श्रीदेव्युवाच ॥
पुरश्चरणशब्दस्य ब्रूह्यर्थं च विधिं प्रभो ॥
वैदिकाद्यास्सर्व मन्त्रा न सिद्ध्यन्ति च यं विना ॥ १ ॥
ईश्वर उवाच ॥
रहस्यं सर्वमन्त्राणां कथयामि तवाग्रतः ॥
कल्यर्थं 1 सर्वतन्त्रेषु यः सारः स तु गोपितः ॥ २ ॥
धर्मार्थकाममोक्षाणां साधको मन्त्र उच्यते ॥
तत्सिद्धये पुरा यच्च चर्यते तत्प्रकीर्तितम् ॥ ३ ॥
पुरश्चरणकर्माख्यं वेदादौ शाबरान्तके ॥
मन्त्रो यस्तु तथा स स्यात्तत्प्रकारं ब्रवीम्यहम् ॥ ४ ॥
जपो होमस्तर्पणं च मार्जनं विप्रभोजनम् ॥
पञ्चाङ्गकस्वरूपं तदाहुः केचन तत्र तु ॥ ५ ॥
चतुरङ्गास्त्वथ त्र्यङ्गा द्व्यङ्गा एकाङ्गिनोपि च ॥
मन्त्रास्तिष्ठन्ति वेदेषु तथा तन्त्रे च शाबरे ॥ ६ ॥
केचित्षडङ्गा मन्त्राः स्युस्तदज्ञाञ्ज्ञापयामि वै ॥
अघमर्षेण सूर्यार्घेण जपेन प्रणामकैः ॥ ७ ॥
देवार्चया पञ्चभिश्च एवं पञ्चाङ्गकाः स्मृताः ॥
हुतिर्यागस्तथा चार्चा कर्मतश्चक्रपूजनात् ॥ ८ ॥
ध्वजलिङ्गसमायोगाज्जपाच्च बलिदानतः ॥
महा बलिप्रदानाच्च भवत्येकादशाङ्गकः ॥ ९ ॥
षोडशाङ्गे कौलिकानां गणानामधिकारिता ॥
सर्वपापक्षयं कुर्यादथ वा सिद्धिबन्धकृत् ॥ १० ॥
यावत्पापं तस्य नाशं कृत्वा कुर्यात्पुरस्कृतिम् ॥
यथा प्रोक्तेन मार्गेण तस्य सिद्धिरदूरतः ॥ ११ ॥
सर्वपापक्षयस्तत्र भवेद्वैदिकवर्त्मनाम् ॥
तान्त्रिकाणां कौलिकानां वामिनां नाधिकारिता ॥ १२ ॥
तस्मिन्कर्मणि तेषान्तु नाधिकारोस्ति वैदिके ॥
ऋक्शाखाध्यायिभिः कार्यो गणको योथ तद्विधिः ॥ १३ ॥
स्नातः कृतक्रियः पत्नीसहितो दर्भसंस्तरः ॥
प्राणानायम्य सङ्कल्प्य पूजयित्वा गणेश्वरम् ॥ १४ ॥
स्वगृह्योक्तविधानेन 2 संस्थाप्याग्निं च संश्रयेत् ॥
आज्यम् विलिप्य तद्धव्यं द्विराद्य्ॐनयते ततः ॥ १५ ॥
अग्ने 3 नयेति सूक्तेन षडर्चेन हुनेत् पुनह् ॥
प्रतिमन्त्रं वदेत्त्यागेग्नये चेदं न वै मम ॥ १६ ॥
इत्यथात्र ऋचो वक्ष्ये माभूच्छाखाविपर्ययः ॥ १७ ॥
ॐ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ॥
युयोद्ध्यस्मज्जुहुराणमेनो भूयिष्ठान्ते नम उक्तिं विधेम ॥ १८ ॥
प्र वः शुक्राय भानवे भरध्वं हव्यं मनिं चाग्नये सुयुतम् ॥
यो दैव्यानि मानुषा जनुष्यन्तर्विश्वानि विद्मना जिगाति ॥ १९ ॥
अच्छा गिरो मतयो देवयन्तीरग्निं पतिर्द्रविणं भिक्षमाणाः ॥
सुसन्दृशं सुप्रतीकं स्वं च हव्यवाहमरतिं मानुषाणाम् ॥ २० ॥
अग्ने त्वमस्मद्युयोध्यमीवा अनग्नि त्वा अभ्यमन्वकृष्टीः ॥
पुनरस्मभ्यं सुवित्ताय देवा यक्षा विश्वेभिरमरेभिर्यजत्रा ॥ २१ ॥
अग्ने त्वं परया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा ॥
पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः ॥ २२ ॥
प्रकारवो मनना वच्यमाना देवद्रीचीं नयथ देवयन्तः ॥
दक्षिणावाड्राजिनिप्राचोतिहविर्भरन्त्यग्नये घृताची ॥ २३ ॥
पुनरष्टादशर्चेन पौरुषेण ततो हुनेत् ॥
जगद्बीजाय पुरुषाय न ममेति सन्त्यजेत् ॥ २४ ॥
अवैष्णवो 4 वैष्णवस्तु नारायणाय न मम ॥
देवदेवीप्रियं सूक्तं तदिदानीं निगद्यते ॥ २५ ॥
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥
स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥ २६ ॥
पुरुष एवेदं सर्वं यद्धूतं यच्च भाव्यम् ॥
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ २७ ॥
एतावानस्य महिमातो ज्यायांश्च पुरुषः ॥
पादोस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ २८ ॥
त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहाभवत्पुनः ॥
ततो विष्वङ्व्यक्रामत्साशनानशने अभि ॥ २९ ॥
तस्माद्विराडजायत विराजो अधिपूरुषः ॥
स जातो अत्यरिच्यत पश्चाद्धूमिमथो पुरः ॥ ३० ॥
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ॥
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ ३१ ॥
सप्तास्यासन्परिधयस्त्रिः सप्तसमिधः कृताः ॥
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥ ३२ ॥
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः ॥
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ ३३ ॥
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ॥
पशूंस्तांश्चक्रे वायव्यानारण्यान्ग्राम्यांश्च ये ॥ ३४ ॥
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ ३५ ॥
तस्मादश्वा अजायन्त ये केचोभयादतः ॥
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ ३६ ॥
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ॥
मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ॥ ३७ ॥
ब्राह्मणोस्य मुखमासीद्बाहू राजन्यः कृतः ॥
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ ३८ ॥
चन्द्रमा मनसो जातश्चक्षोस्सूर्यो अजायत ॥
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥ ३९ ॥
नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ॥
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकानकल्पयन् ॥ ४० ॥
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे ॥
सर्वाणि रूपाणि विचित्य धीरा नामानि कृत्वाभिवदन्यदास्ते ॥ ४१ ॥
धाता पुरस्ताद्यदुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्रः ॥
तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते ॥ ४२ ॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ॥
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ ४३ ॥
अग्नेर्मन्वेति सूक्तेन द्वाविंशत्यृचकेन तु ॥
हुनेत्तत्र त्रिषु त्यागस्त्वग्नये 5 न ममेति च ॥ ४४ ॥
तुर्ये 6 चेन्द्राय न मम त्यागः पञ्चमषष्ठयोः 7 ॥
मित्रावरुणाभ्यामिति सप्तमाष्टमयोस्तथा 8 ॥ ४५ ॥
वायुसूर्याभ्यामिति नवमे दशमे तथा ॥
अश्विभ्यां च मरुद्भ्यस्तु द्वादशैकादशे भवेत् ॥ ४६ ॥
विश्वेभ्यो देवेभ्य इति त्रयोदशचतुर्दशे ॥
अनुमत्यै हव्यवाहाग्नये च तिथि सङ्ख्यके ॥ ४७ ॥
अनुमत्यै षोडशे स्यात्तु ततः सप्तदशे भवेत् ॥
वैश्वानरायाग्नये च तथैवाष्टादशेपि च ॥ ४८ ॥
द्यावापृथिवीभ्यामिति विंशत्येकोनविंशयोः ॥
शेषयोरग्नये चेति ऋचस्ताः शृणु साम्प्रतम् ॥ ४९ ॥
अग्नेर्मन्वेति प्रथमस्य प्रचेतसोयं पाञ्चजन्यं बहवः ॥
समिन्धते विश्वस्यां विशि प्रवीविशि वास्समीमहे स नो मुञ्चत्वṁहसः ॥ ५० ॥
यस्येदं प्राणनिमिषद्यदेजति यस्य जातं जनमानं च केवलम् ॥
स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वṁहंसः ॥ ५१ ॥
इन्द्रस्य मन्ये प्रथमस्य प्रचेतसो वृत्रघ्नः स्तोमा उपमामुपागुः ॥
यो दाशुषः सुकृतो हवमुपगन्ता स नो मुञ्चत्वṁहंसः ॥ ५२ ॥
यः सङ्ग्रामं नयति संवशी युधे यः पुष्टानि सṁसृजति त्रयाणि ॥
स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वṁहंसः ॥ ५३ ॥
मन्वेवां मित्रावरुणा तस्यवित्तṁ सत्यौजसादृṁहणायन्नुदेते ॥
त्याराजानṁ सरथे पाथम् उग्रतौ नो मुञ्चतमाग सः ॥ ५४ ॥
यो वारṁथः सजूरश्मिः सत्यधर्मा मिथश्चरत्वाṁ समुपयाति दूषयन् ॥
स्तौमि मित्रावरुणौ नाथितौ जोहवीमि तौ नो मुञ्चतमागसः ॥ ५५ ॥
वायोस्सवितुर्वितथानि मन्महे यावात्मन्वद्विभृतौ यौ च रक्षतः ॥
यौ विश्वस्य परिभूबभूवतुस्तौनो मुञ्चतमागसः ॥ ५६ ॥
उपश्रेष्ठा न आशिषो देवयोर्धर्मे अस्थिरन् ॥
स्तौमि वायुṁ सवितारं नाथितो जोहवीमि तौ नो मुञ्चतमागसः ॥ ५७ ॥
रथीतमौ रथीनामह्व ऊतये शुभङ्गमिष्ठौ सुयमेभिरश्वैः ॥
ययोर्वान्देवौ देवेष्वनिशितमोजस्तौ नो मुञ्चतमागसः ॥ ५८ ॥
यदयातं वहतुṁ सूर्यायास्त्रिचक्रेण सṁसदमिच्छमानौ ॥
स्तौमि विश्वान्देवान्नाथितो जोहवीमि तौ नो मुञ्चतमागसः ॥ ५९ ॥
मरुतां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे ॥
आसून्हवे सुयमानूतये ते नो मुञ्चन्त्वेनसः ॥ ६० ॥
तिग्मायुधव्रीडितṁ सहस्वद्दिव्यः सर्वः पृतनासु विष्णुः ॥
स्तौमि देवान्मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वेनसः ॥ ६१ ॥
देवानां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे ॥
आसून्हवे सुरामानूतये ते नो मुञ्चन्त्वेनसः ॥ ६२ ॥
यदिदं माभिशोचति पौरुषेयेण दैव्येन स्तौमि ॥
विश्वान्देवान्नाथितो जोहवीमि ते नो मुञ्चन्त्वेनसः ॥ ६३ ॥
अनुनोद्यानुमतिर्यज्ञं देवेषु मन्यताम् ॥
अग्निश्च हव्यवाहनो भवतां दाशुषे मयः ॥ ६४ ॥
अन्विदनुमते त्वमन्यासैशं च नः कृधि ॥
क्रत्वे दक्षाय नो हिनु प्रण आयूंषि तारिषः ॥ ६५ ॥
वैश्वानरो न कृतं ये प्रयातु परावतः ॥
अग्निर्नः सुष्टुतेतीरुप ॥ ६६ ॥
पृष्टो दिवि पृष्टो अग्निः पृथिव्या पृष्टो विश्वा ओषधीराविवेश ॥
वैश्वानरः सहसा पृष्ठो अग्निः स नो दिवा सरिषः पातु नक्तम् ॥ ६७ ॥
ये अप्रथेता अमितेभिरोजोभिर्ये प्रतिष्ठे अभवतां वसूनाम् ॥
स्तौमि द्यावापृथिवीं नाथितो जोहवीमि ते नो मुञ्चतमंहसः ॥ ६८ ॥
उर्वीरोदसी वरिवः कृणोत्तं क्षेत्रस्य पत्नी अधिनो ब्रूयात्तं स्तौमि ॥
द्यावापृथिवीं नाथितो जोहवीमि ते नो मुञ्चतमंहसः ॥ ६९ ॥
यत्ते वयं पुरुषत्रा यविष्ठा विद्वाṁसश्चकृमाकञ्चनागः ॥
कृधास्वस्मानदितेरनागाव्येनाṁसि शिश्रथो विष्वगग्ने ॥ ७० ॥
यथाहताद्वसवो गौर्यञ्चित्पदिषिताममुञ्चतायजत्राः ॥
एवोष्वस्मन्मुञ्चतामंहः प्रतार्यग्ने प्रतरं न आयुः ॥ ७१ ॥
यावामिन्द्रावरुणेति चतुर्भिः सूक्तकैस्ततः 9 ॥
इन्द्रावरुणाभ्यामिति त्यागः सर्वत्र नान्यथा ॥ ७२ ॥
यावामित्रावरुणा यतव्या तनूस्तये ममाṁहसो मुञ्चतम् ॥ ७३ ॥
यावामिन्द्रावरुणा सहस्या तनूस्तये ममाṁहसो मुञ्चतम् ॥ ७४ ॥
यावामिन्द्रावरुणा रक्षस्या तनूस्तये ममाṁहसो मुञ्चतम् ॥ ७५ ॥
यावामिन्द्रावरुणा तेजस्या तनूस्तये ममाṁहसोमुञ्चतम् ॥ ७६ ॥
यो वामिन्द्रावरुणेति ततोष्टभिश्च होमयेत् ॥
इन्द्रावरुणाभ्यामिति त्यागः सर्वत्र नान्यथा ॥ ७७ ॥
यो वामिन्द्रावरुणावग्नौ स्नामस्तं वामेतेनावयजे ॥ ७८ ॥
यो वामिन्द्रावरुणाद्विपात्सु पशुषु स्नामस्तं वामेतेनावयजे ॥ ७९ ॥
यो वामिन्द्रावरुणौषधीषु स्नामस्तं वामेतेनावयजे ॥ ८० ॥
यो वामिन्द्रावरुणा वनस्पतिषु स्नामस्तं वामेतेनावयजे ॥
पावमानानुवाको यः ख्यातः सप्तदशर्चकः ॥
त्रिषष्टिवाक्यैस्तत्राद्या ऋक्त्रिवाक्यात्र शाक्तकैः ॥ ८१ ॥
पावमानीभ्यो मम त्यागो वाच्यस्त्वशाक्तकैः ॥ ८२ ॥
पावमान्यै अथो शैवैः पावमानाय नान्यथा ॥ ८३ ॥
पवमानः सो अद्य पवित्रेण विचर्षणिः ॥
यः पोता स पुनातु मा ॥ ८४ ॥
द्वितीयापि त्रिवाक्यादेव जनेभ्यो मरुद्भ्यश्च ॥
विश्वेभ्यश्च तथा युञ्ज्यान्न मम त्याग ईरितः ॥ ८५ ॥
पुनन्तु मां देवजनाः पुनन्तु मनसा धियः ॥
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि माम् ॥ ८६ ॥
तृतीयापि चतुर्वाक्या अग्नये जातवेदसे ॥
इदं न मम इत्युक्त्वा त्यागः सोपि प्रकाश्यते ॥ ८७ ॥
जातवेदः पवित्रवत्पवित्रेण पुनीहि मा ॥
शुक्रेण देवदीव्यदग्ने क्रत्वाक्रतूṁरनु ॥ ८८ ॥
चतुर्थी तु त्रिवाक्या अग्नये न ममेति च ॥
त्रिवाक्या पञ्चमी त्यागः सवित्रे च उभे यथा ॥ ८९ ॥
यत्ते पवित्रमर्चिष्यग्रे विततमन्तरा ॥
ब्रह्म तेन पुनीहि नः ॥ ९० ॥
उभाभ्यां देव सवितः पवित्रेण सवेन च ॥
मां पुनीहि विश्वतः ॥ ९१ ॥
ऋचा षष्ठी चतुर्वाक्या त्यागश्चास्या निरूप्यते ॥
वैश्वदेव्यै इति वदेन्न ममेति च सा यथा ॥ ९२ ॥
वैश्वदेवी पुनन्ती देव्यागाद्यस्यामि मा वह्व्यस्तन्वो वीतपृष्ठाः ॥
तया मदन्तः सधमादेषु वयṁस्याम पतयो रयीणाम् ॥ ९३ ॥
वैश्वानराय वाताय इषिराय मयोभुवे ॥
द्यावापृथिवीभ्यां चेति सप्तम्यां त्याग इष्यते ॥ ९४ ॥
वैश्वानरो रश्मिभिर्मा पुनातु वातः प्राणेनेषिरो मयोभूः ॥
द्यावापृथिवी पयसा पयोभिः शतावरी यज्ञिये मा पुनीताम् ॥ ९५ ॥
सप्तमी तु चतुर्वाक्या त्रिवाक्या चाष्टमी मता ॥
सवित्रेग्नये न मम त्यागोष्टम्यां च सायथा ॥ ९६ ॥
बृहद्भिः सवितुस्त्रिभिर्वर्षिष्ठैर्देवमन्मभिः ॥
अग्ने दक्षैः पुनीहि मा ॥ ९७ ॥
अतः परं चतुर्वाक्या दिव्याय ब्रह्मणे त्यजेत् ॥
नवम्यां पावमानीभ्यो दशम्यादिषु ता यथा ॥ ९८ ॥
येन देवा अपुनन्त येनापो दिव्यङ्कशः ॥
तेन दिव्यं ब्रह्मणा इदं ब्रह्म पुनीहि मा ॥ ९९ ॥
यः पावमानीरध्येत्यृषिभिः सम्भृतगूंरसम् ॥
सर्वं सपूतमश्नाति स्वदितं मातरिश्वना ॥ १०० ॥
पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् ॥
तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् ॥ १०१ ॥
पावमानीः स्वस्त्ययनीः सुदुघा हि पयस्वतीः ॥
ऋषिभिः सम्हृतो रसो ब्राह्मणेष्वमृतगूंहितम् ॥ १०२ ॥
पावमानीर्दिशन्तु न इमं लोकमथो अमुम् ॥
कामान्समर्द्धयन्तु नो देवैर्देवीः समाहिताः ॥ १०३ ॥
पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः ॥
ऋषिभिः सम्भृतो रसो ब्राह्मणेष्वमृतं हितम् ॥ १०४ ॥
येन देवाः पवित्रेण आत्मानं पुनते सदा ॥
तेन सहस्रधारेण पावमान्यः पुनन्तु माम् ॥ १०५ ॥
प्राग्वत्त्यागस्तु षोडश्यां विशेषः श्रोत्रियस्य तु ॥
प्राजापत्याय पवित्राय चेति षोडशीं शृणु ॥ १०६ ॥
प्राजापत्यं पवित्रं शतोद्यामं हिरण्मयम् ॥
तेन ब्रह्मविदो वयं पूतं ब्रह्म पुनीमहे ॥ १०७ ॥
सुनीत्या सहितेन्द्राय स्वस्त्या सहितसोमाय ॥
समीच्या सहिता येति वरुणाय ततो वदेत् ॥ १०८ ॥
प्रमृणाभिः सहिताय यमाय राज्ञ ईरयेत् ॥
ऊर्जयन्त्या सहिताय जातवेदस इत्यपि ॥ १०९ ॥
न ममेति वदेत्सप्तदश्यास्त्यागेथ यैर्नरैः ॥
मार्जनं कृतमेताभिस्तैः स्नातं जाह्नवजिले ॥ ११० ॥
इन्द्रः सुनीत्या सह मा पुनातु सोमः स्वस्त्या वरुणः समीच्या ॥
यमो राजा प्रमृणाभिः पुनातु मा जातवेदा मोर्जयन्त्या पुनातु ॥ १११ ॥
यद्देवा देवहेडनं विंशत्यर्चेन होमयेत् ॥
त्यागः प्रथमके तत्र आदित्येभ्यश्च नान्यथा ॥
यद्देवा देवहेडनं देवासश्चकृमा वयम् ॥
आदित्यास्तस्मान्मा मुञ्चतर्तस्यर्तेन मामुतः ॥ ११२ ॥
अग्नये गार्हपत्याय न ममेति द्वितीयके ॥
द्यावापृथिवीभ्यां सरस्वत्यै चेति यथा ऋचि 10 ॥ ११३ ॥
देवा जीवनकाम्या यद्वाचानृतमूदिम ॥
अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि च कृम करोतु मामनेहसम् ॥ ११४ ॥
ऋतेन द्यावापृथिवी ऋतेन त्वगूंसरस्वति ॥
कृतान्नः पाह्येनसो यत्किञ्चानृतमूदिम ॥ ११५ ॥
जातवेदसे न मम चतुर्थे त्वथ पञ्चमे ॥
अग्नये गार्हपत्याय त्यागस्तद्वत्कृतो यथा ॥ ११६ ॥
सजातशगूंसादुतजामिशगूंसाज्ज्याय सः शगूंसादुत वा कनीयसः ॥
अनाज्ञातं देवकृतं यदेनस्तस्मात्त्वमस्माञ्जात वेदोमुमुग्धि ॥ ११७ ॥
यद्वाचा यन्मनसा यद्बाहुभ्यामूरुभ्यामष्ठीवद्भ्यागूंशिश्नैर्यदनृतञ्चकृम वयम् ॥
अग्निर्मा तस्मादेनसोगार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ ११८ ॥
राष्ट्रभृतेभरसेभ्यः षष्ठे त्यागोष्टसप्तमे ॥
अग्नये गार्हपत्याय नवमे चाग्नये वदेत् ॥ ११९ ॥
यद्धस्ताभ्यां चकर किल्बिषाण्य क्षाणां वसुमुपजिघ्रमानः ॥
दूरेपश्या च राष्ट्रभृच्च तान्यभरसावनुदत्तामृणानि ॥ १२० ॥
अदीव्यन्नृणां यदहं चकार यद्वा दास्यन्सञ्जगाराजनेभ्यः ॥
अग्निर्मातस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरितायानिचकृम करोतु माननेहसम् ॥ १२१ ॥
यन्मयि माता गर्भे सत्येनश्चकार यत्पिता ॥
अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि च कृम करोतु मामनेनसम् ॥ १२२ ॥
यदापिपेष मातरं पितरं पुत्रः प्रमुदितो धयन् ॥
अहिंसितौ पितरौ मया तत्तदग्ने अनृणो भवामि ॥ १२३ ॥
अग्नये गार्हपत्याय दशमैकादशे वदेत् ॥
द्वादशे त्वग्नयेथाग्रेग्नये गार्हपत्याय च ॥ १२४ ॥
यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वाजिहिंसिम् ॥
अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु माम नेनसम् ॥ १२५ ॥
यदाशसा निशसा यत्पराशसा यदेनश्चकृमा नूतनं यत्पुराणम् ॥
अग्निर्मातस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु माम नेनसम् ॥ १२६ ॥
अतिक्रामामि दुरितं यदेनो जहामि रिप्रं परमे सधस्थे ॥
यत्र यन्ति सुकृतो नापि दुष्कृतस्तमारोहामि सुकृतान्नु लोकत्रिते ॥ १२७ ॥
देवा अमृजतैतदेनस्त्रित एतन्मनुष्येषु मामृजे ॥
ततो मा यदि किञ्चिदानशेग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ १२८ ॥
चतुर्दशे तिथौ 11 त्वद्भ्यो वरुणाय ततो द्वयोः ॥
अष्टादशे चोनविंशे त्वग्नीवरुणाभ्यामिति ॥ १२९ ॥
दिवि जाता अप्सु जाता या जाता ओषधीभ्यः ॥
अथो या अग्निजा आपस्ता नः शुधन्तु शुन्धनीः ॥ १३० ॥
यदापोनक्तन्दुरितं चराम यद्वा दिवा नूतनं यत्पुराणम् ॥
हिरण्यवर्णास्तत उत्पुनीत नः ॥ १३१ ॥
इमम्मे वरुण श्रुधिहवमद्याचमृलय ॥
त्वामवस्युराचके ॥ १३२ ॥
तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ॥
अहेडमानो वरुणोहबोध्युरुशṁसमा न आयुः प्रमोषीः ॥ १३३ ॥
त्वन्नो अग्ने वरुणस्य विद्वान्देवस्य हेडो अवयासिसीष्ठाः ॥
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाṁसि प्रमुमुग्ध्यस्मत् ॥ १३४ ॥
स त्वन्नो अग्नेवमो भवोतीर्नेदिष्ठो अस्या उषसो व्युष्टौ ॥
अवयक्ष्व नो वरुणṁ रराणो वीहिमृडीकṁसुहवो न एधि ॥ १३५ ॥
अग्नये चाथ विंशे तु सूक्तं वैश्वानरं ततः ॥
अग्नये वैश्वानरायाष्टर्चान्त्यागोयमीरितः ॥ १३६ ॥
त्वमग्ने अया स्ययासन्मनसा हितः ॥
अयासन्हव्यमूहिषे या नो धेहि भेषजम् ॥ १३७ ॥
वैश्वानरो न ऊतयेवयातुपरावतः ॥
अग्निर्नः सुष्टुतीरुप ॥ १३८ ॥
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् ॥
अजस्रं धर्ममीमहे ॥ १३९ ॥
वैश्वानरस्यदṁसनाभ्यो बृहदरिणादेकः स्वपश्यया कविः ॥
उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा ॥ १४० ॥
पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवेश ॥
वैश्वानरः सहसा पृष्टो अग्निः समो नो दिवासरिपः पातु नक्तम् ॥ १४१ ॥
जातो यदग्ने भुवना व्यख्यः पशुं न गोपा-इर्यः परिज्या ॥
वैश्वानर ब्रह्मणे विन्दगातुं यूयं यात स्वस्तिभिः सदा नः ॥ १४२ ॥
त्वमग्ने शोचिषा शोशुचान आरोदसी अपृणा जायमानः ॥
त्वं देवानभिशस्तेरमुचो वैश्वानर जातवेदो महित्वा ॥ १४३ ॥
अस्माकमग्ने मघवत्सुधारयानामिक्षत्रजरगूंसुवीर्यम् ॥
वयञ्जयेम शतिनगूंसहस्त्रिणं वैश्वानरवाजमग्ने तवोतिभिः ॥ १४४ ॥
वैश्वानरस्य सुमनौस्यामनौस्यामराजाहिकम्भुवनानामभिः श्रीः ॥
इतो जातो विश्वमिदं विचष्टे वैश्वानरो यतते सूर्याय ॥ १४५ ॥
ततः स्विष्टकृतं कृत्वा परिधीन्पर्यगृह्य च ॥
पूर्णं कलशमादाय नैर्-ऋत्यान्तु चतुष्पथे ॥ १४६ ॥
पादप्रक्षालनं कृत्वाथाचम्य प्राङ्मुखस्तथा ॥
पत्नीभिः सह वीक्षेतच्छायां तस्मिञ्च्छुभाशुभाम् ॥ १४७ ॥
सिंहे मे मन्युरस्यां प्रेमेनुवाकं जपेत्ततः ॥
सुमित्रिया न आप ओषधयः सन्त्विति क्षिपेत् ॥ १४८ ॥
भूम्यां किञ्चिज्जलं पश्चादुत्तिष्ठेत्कलशान्वितः ॥
दुर्मित्रियास्तस्मै 12 सन्तु पृष्ठतः कलशं क्षिपेत् ॥ १४९ ॥
यस्यामस्य दिशि द्वेष्यो भवेत्तत्रैव निःक्षिपेत् ॥
पश्चादप उपस्पृश्य स्वगृहं प्रविशेत्ततः ॥ १५० ॥
त्रिसन्ध्यमेवं सप्ताहं कुर्याद्रूपं निरीक्षयेत् ॥
यदा पश्येत्तोयमध्ये छायामच्छान्तदा भवेत् ॥ १५१ ॥
यजमानः सुपूतोयमन्यथा पुनराचरेत् ॥
तत आशीर्वचोगृह्याद्ब्राह्मणान्भोजयेत्ततः ॥ १५२ ॥
यावत्कर्म प्रकुर्वीत तावन्मौनं समाचरेत् ॥
सकृदेव समश्नीयाद्धविष्यं ब्रह्मचर्यभाक् ॥ १५३ ॥
जितेन्द्रियो भूमिशायी पूर्वजन्मार्जितादघात् ॥
मन्त्रसिद्धेर्विघ्नकर्तुर्मुक्तो भवति नान्यथा ॥ १५४ ॥
अज्ञानाच्च प्रमादाद्वा जन्मन्यस्मिंश्च यत्कृतम् ॥
पातकं तस्य नाशार्थं कूष्माण्डीभिस्तु होमयेत् ॥ १५५ ॥
वैदिके यस्य निस्नाताः पितरोज्ञानदोषतः ॥
पतित्वा कौलिके मार्गे दारिद्र्यादिभिरर्द्दितः ॥ १५६ ॥
मनसा उपतप्तश्चेन्नित्यं सर्वसुखाप्तये ॥
लोकद्वयप्रतिष्ठार्थं सोपि गुप्तं समाचरेत् ॥ १५७ ॥
स्वर्णचौर्ये सुरापाने गोवधे ब्रह्मघातने ॥
गुरुतल्पगमे वर्षं व्रतमेतत्समाचरेत् ॥ १५८ ॥
चौर्ये च भ्रूणहत्यायामयोनौ 13 वीर्यसेचने ॥
विश्वासघातने न्यासहरणे 14 त्वयुतं चरेत् ॥ १५९ ॥
इष्टाप्राप्तौ ग्रहे घोरे ग्रहणे चन्द्रसूर्ययोः ॥
जले शिवालये दानं गृहीत्वायुतमेककम् ॥ १६० ॥
कूटसाक्ष्ये 15 वार्द्धुषिके 16 वृत्तिहारे करग्रहे ॥
देवविप्राधिकारे चापदन्ते लक्षमाचरेत् ॥ १६१ ॥
संस्कारभोजने वेश्यागमने पशुघातने ॥
देवाद्यर्थाशने 17 लक्षं त्रिसन्ध्यालोपने त्वहः ॥ १६२ ॥
केशश्मश्रून्वापयित्वा स्नात्वा पुण्ये जलाशये ॥
आज्यभागानन्तरं च कूष्माण्डीभिस्तु होमयेत् ॥ १६३ ॥
सावित्रीं च जपेन्नित्यं पवित्राणि 18 च शक्तितः ॥
ब्राह्मणो दुग्धपायी स्यात्क्षत्त्रियस्तु यवागुलेट् 19 ॥ १६४ ॥
आमिक्षां 20 भक्षयेद्वैश्यो यदा शक्तो भवेत्तदा ॥
ओदनं सक्तवो धाना घृतं वापि समाश्रयेत् ॥ १६५ ॥
एतद्भिन्नं न भोक्तव्यं ब्रह्मचर्यादिपूर्ववत् ॥
होमस्तु गोघृतेनैव तदभावे तु माहिषम् ॥ १६६ ॥
प्रथमा मन्त्रिका तत्र यद्देवा 21 देवहेडनम् ॥
देवेभ्य आदित्येभ्यश्च त्यागस्तत्र समीरितः ॥ १६७ ॥
विश्वेभ्यो 22 देवेभ्य इति द्वितीयायाश्च सोच्यते ॥
प्राग्वत्त्यागस्तृतीयाया 23 ऋग्भिन्ना सा च कथ्यते ॥ १६८ ॥
यद्देवा देवहेडनं देवासश्चकृमा वयम् ॥
आदित्यास्तस्मान्मामुञ्चतर्तस्यर्तेन मामुतः ॥ १६९ ॥
देवा जीवनकाम्या यद्वाचानृतमूदिम ॥
तस्मान्न इह मुञ्चत विश्वेदेवाः सजोषसः ॥ १७० ॥
ऋतेन द्यावापृथिवी ऋतेन त्वगूंसरस्वति ॥
कृतान्नः पाह्येनसो यत्किञ्चानृतमूदिम ॥ १७१ ॥
इन्द्राग्निमित्रावरुणसोमधातृबृहस्पतिभ्यस्त्यागस्तु ॥
चतुर्थी या अधुना सा ऋगुच्यते ॥ १७२ ॥
इन्द्राग्नी मित्रावरुणौ सोमो धाता बृहस्पतिः ॥
तेनो मुञ्चन्त्वेनसो यत्किञ्चानृतमूदिम ॥ १७३ ॥
सजातसगूंसादिति 24 पूर्वोक्ता पञ्चमी मता ॥
यद्वाचा यन्मनसा षष्ठी पूर्वमुदीरिता ॥ १७४ ॥
ज्योतिषे न मम त्यागः सप्तम्यां सा च कथ्यते ॥
अग्नये न मम त्यागस्तथाष्टम्याथ सोच्यते ॥ १७५ ॥
येन त्रितो अर्णवाभिर्बभूव येन सूर्यं तमसन्निर्मुमोच ॥
येनेन्द्रो विश्वा अजहादरातींस्तेनाहं ज्योतिषां ज्योतिरानशा न आक्षि ॥ १७६ ॥
यत्कुसीदमप्रतीतं मयेह येन यमस्य निधिना चरामि ॥
एतत्तदग्ने अनृणो भवामि जीवन्नेव प्रति तत्ते दधामि ॥ १७७ ॥
यन्मयि मातेति पूर्वोक्ता प्राग्वत्सा नवमाहुतिः ॥
यदायियेष मातरं प्राक्प्रोक्ता दशमाहुतिः ॥ १७८ ॥
यदन्तरिक्षं पृथिवी प्राक्प्रोक्तैकादशाहुतिः ॥
यदाशसानिशसाप्राक्प्रोक्तात्र द्वादशाहुतिः ॥ १७९ ॥
तदग्रे तु ऋचस्तिस्र एवं पञ्चदशाहुतीः ॥
यदापो नक्तमिति पूर्वोक्ताषोडशी भवेत् ॥ १८० ॥
अद्भ्यो हिरण्यवर्णाभ्यस्तस्यां त्यागो भिधीयते ॥
इमम्मे वरुणेत्यादि पञ्चर्चः पूर्वमीरिताः ॥ १८१ ॥
सत्यागास्तेनैकविंशदाहुतयःसमीरिताः ॥
इन्द्राग्निभ्यां च द्वाविंशे त्यागः सा ऋगथोच्यते ॥ १८२ ॥
उग्रम्पश्ये राष्ट्रभृत्किल्विषाणि यदक्षवृत्तमनुदत्तमेतत् ॥
तेन ऋणानृणव इत्समानो यमस्य लोके अधिरज्जुराय ॥ १८३ ॥
अदीव्यं नृणं यदहमित्याद्याः षट् च पूर्ववत् ॥
ततो द्वयोरिह त्यागो वरुणाय न वै मम ॥ १८४ ॥
अवते हेलो वरुण नमो भिखयज्ञेभिरीमहे हविर्भिः ॥
क्षयं नस्मभ्यमसुरप्रचेतो राजन्नेताṁ सिशिश्रथःकृतानि ॥ १८५ ॥
उदुत्तमं वरुणपाशमस्मद वाधमं विमध्यमं श्रथाय ॥
अथावयमादित्यव्रते तवानागसो अदितये स्याम ॥ १८६ ॥
एकत्रिंशे शङ्कुशुकौ विकुशुकौ च निर्-ऋथेः निःस्वनेभ्यस्त्याग उक्तः सा ऋचा प्रोच्यते धुना ॥
शङ्कुशुको विकुशुको निर्-ऋथो यश्च निःस्वनः ते येस्मद्यक्ष्ममनागसो दूराद्दूरमवीवतम् ॥ १८७ ॥
ततो द्वयोरग्नये च त्वष्ट्रे त्यागस्तदग्रिमे ॥
आयुष्मतेऽग्नये त्यागः पञ्चत्रिंशत्तमे मतः ॥ १८८ ॥
निर्यक्ष्म मवीव ते कृत्या निर्-ऋतिञ्च ॥
तेन योस्मत्समृच्छाते तस्मै प्रसुवामसि ॥ १८९ ॥
दुःशगूं सानुशगूं साभ्यां घणेनानुघणेन च ॥
तेनात्योरस्मत्समृच्छाते तस्मै सुप्रसवामसि ॥ १९० ॥
संवर्चसा यशसा सन्तनूभिरगन्महि मनसा शगूंशिवेन ॥
त्वष्टा नो अत्र विदधातु रायो नु मार्ष्टतन्वो यद्विलिष्टम् ॥ १९१ ॥
आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः ॥
पुनस्ते प्राण आयाति परा यक्ष्मगूं सुवामि ते ॥ १९२ ॥
आयुर्दायाग्नये त्यागः षट्त्रिंशेथ तदग्रिमे ॥ १९३ ॥
अग्नये वरुणायादित्यै विश्वेभ्यो देवेभ्यश्च ॥ १९४ ॥
आयुर्दा अग्नये हविषो युषाणो घृतप्रतीको घृतेयोनिरेधि ॥
घृतं पीत्वा मधु चारुगव्यं पितेव पुत्रमभिरक्षतादिमम् ॥ १९५ ॥
इमग्न आयुषे वर्चसे कृधि तिग्ममोजो वरुण सगूं शि शाधि ॥
माते मातेवास्मा आदिते शर्म यच्छ विश्वे देवा जरदष्टियथासत् ॥ १९६ ॥
अग्नये पवमामाय त्यागोष्टत्रिंशतस्त्रिषु ॥
ततो द्वयोर्जातवेदसेग्नये त्याग उच्यते ॥ १९७ ॥
अग्न आयूगूंषि यदस आसुवोर्जामिषं च नः ॥
आरे बाधस्वदुच्छनाम् ॥ १९८ ॥
अग्ने पवस्व स्वया अस्मै वर्चः सुवीर्य ॥
दधत्योषगूं रयिं मयि ॥ १९९ ॥
अग्न ऋषिः पवमानः पाञ्चजन्यः पुरोहित्ः ॥
तमीमहे महागयम् ॥ २०० ॥
अग्ने जातान् प्रणुदानः सप्त्नान्प्रत्यजाताञ्जातवेदो नुदस्व ॥
अस्मेदीदिह सुमना अहेडं शर्मन्तेस्यामत्रिवरूथ उद्भौ ॥ २०१ ॥
सुवीर्यसहसा जातान्प्रणुदानः सपत्नान्प्रत्यजाताज्जातवेदो नुदस्व ॥
अधिनो ब्रूहि सुमनस्यामानो वयगूं स्याम प्रणुदानः सपत्नान् ॥ २०२ ॥
अग्नये वृत्रघ्नायेति त्रिचत्वारिंशके पुनः ॥
अग्नये इति तस्मात्तु उषसे निमुचे भवेत् ॥ २०३ ॥
अग्नेयो नोभितो जनो वृको वारा जिघागूंसति ॥
तां त्वं वृत्रहञ्जहि वस्वस्मभ्यमाभर ॥ २०४ ॥
अग्ने यो नो भिदा समानो यश्च निष्ट्यः ॥
तं वयṁ समिधं कृत्वा तुभ्यमग्ने पिदध्मसि ॥ २०५ ॥
यो नः शपादशपतो यश्च न शपतः शपात् ॥
उषाश्च तस्मै निम्रुक् च सर्वपापगूंसमूहताम् ॥ २०६ ॥
षट् चत्वारिंशके त्यागो देवेभ्यश्च तदग्रिमे ॥
जातवेदसेऽग्नये च ततस्त्यागोग्नये भवेत् ॥ २०७ ॥
यो नः सपत्नो यो रणोमर्तीभिदासति देवाः ॥
इध्मस्येव प्रक्षायतो मातस्योच्छेषि किञ्चन ॥ २०८ ॥
यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् ॥
सर्वागूंस्तानग्ने सन्दह यागूं श्चाहं द्वेष्मि ये च माम् ॥ २०९ ॥
यो अस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः ॥
निन्दाद्यो अस्मान्दिशाश्च सर्वागूं स्तान्मप्यपाकुरु ॥ २१० ॥
श्रोत्रियाय ब्राह्मणे चाग्नये पञ्चाशके मतः ॥
तदग्रिमेपि च तथान्तिमे वैश्वानराय च ॥ २११ ॥
सगूं शितं मे ब्रह्म सगूंशितं वीर्यबलम् ॥
सगूं शितं क्षत्रं मे जिष्णु यस्याहमस्मि पुरोहितः ॥ २१२ ॥
उदेषां बाहू अतिरमुद्वर्चो अथो बलम् ॥
क्षिणोमि ब्रह्मणामित्रानुन्नुयामि स्वाम् अहम् ॥ २१३ ॥
पुनर्मनः पुनरायुर्म अगात्पुनश्चक्षुः पुनःश्रोत्रं म अगात्पुनः ॥
प्राणः पुनराकूतं म आगात्पुनश्चित्तं पुनराधीतं म अगात् ॥ २१४ ॥
वैश्वानरो मे दध्वस्तनूया अवभाधतां दुरितानि विश्वा ॥ २१५ ॥
एवं हुत्वा ततस्तिष्ठेत्समित्पाणिरुदङ्मुखः ॥
अग्नेर्दक्षिणतो वह्निंस्तुवीत द्वादशर्चभिः ॥ २१६ ॥
वैश्वानराय प्रतिवेदयामो यदीनृण गूंसङ्गरो देवतासु ॥
स एतान्पाशान्प्रमुञ्चन्वेद स नो मुञ्चतु दुरितादवद्यात् ॥ २१७ ॥
वैश्वानरः पवयान्नः पवित्रैर्यत्सङ्गरमभिधावाम्याशाम् ॥
अनाजानन्मनसा याचमानो यदत्रैनो अव तत्सुवामि ॥ २१८ ॥
अमी ये सुभगे दिवि वृत्तौ नाम तारकी प्रेहामृतस्य यच्छतामेतद्बद्धकामोचनम् ॥ २१९ ॥
विजिहीर्ष्व लोकान्कृधि बन्धान्मुञ्चासिबद्धकम् ॥
योनेरिव प्रच्युतो गर्भः सर्वान्यथो अनुष्व ॥ २२० ॥
स प्रजानन्प्रतिगृणीत विद्वान्प्रजापतिः प्रथमजा ऋतस्य ॥
अस्माभिर्दत्तं जरसः परस्तादच्छिनं तन्तुमनुसञ्चरेत् ॥ २२१ ॥
न तं तन्तुमन्वेके अनुसञ्चरन्ति येषां दत्तं पित्र्यमायनवत् ॥
अबन्ध्वेके ददतः प्रयच्छद्दातुं चेच्छक्नवागूम्स स्वर्ग एषाम् ॥ २२२ ॥
आरभेथामनुसगूंरभेथागूंसमानं पन्थामवथो घृतेन ॥
यद्वां पूर्तं परिविष्टं यदग्नौ तस्मै येह जायापरीक्षगूंरभेथाः ॥ २२३ ॥
यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वाव जिहिगूंसिम् ॥
अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेहसम् ॥ २२४ ॥
भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्तरा नः ॥
द्यौर्नः पिता पितृयाच्छम्भवासि जामिति त्वा मा विवित्सि लोकात् ॥ २२५ ॥
यत्र सुहार्दः सुकृतो मदन्ते विहाय रोगं तन्वा स्वया ॥
अश्लोणाङ्गरद्भुताः स्वर्गे तत्र पश्येम पितरं च पुत्रम् ॥ २२६ ॥
यदन्नमद्म्यनृते देवा दास्यन्नदास्यन्नु त वा करिष्यन् ॥
यद्देवानां चक्षुष्यागो अस्ति यदेव किञ्च प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु ॥ २२७ ॥
यदन्नमपि बहुधा विरूपवासो हिरण्यमुत गामजामवियद्देवानां चक्षुष्यागो अस्ति यदेव किञ्च प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु ॥ २२८ ॥
एवमग्निमुपस्थाय करस्थां समिधं हुनेत् ॥
वक्ष्यमाणेन मन्त्रेण त्यागो वैश्वानराय च ॥ २२९ ॥
यन्मया मनसा वाचा कृतमेनः कदाचन ॥
सर्वस्मात्तस्मान्मेलितो मोग्धि त्वगूंहि वेत्थ यथातथगूंस्वाहा ॥ २३० ॥
जपादिहोमं च ततः कुर्यादेतन्निरूपितम् ॥
इह जन्मकृताघानां प्रायश्चित्तं निवारणम् ॥ २३१ ॥
इदमुक्तं द्विजातीनां शूद्राणामथ चोच्यते ॥
मार्गशीषे सिताष्टम्यां कृतनित्यक्रियः शुचिः ॥ २३२ ॥
एकभक्तं हविष्येण नवम्यामेवमाचरेत् ॥
अयाचितं दशम्यां च एकादश्यामुपोषणम् ॥ २३३ ॥
द्वादश्यां वपनं कृत्वा पूजयेद्विप्रदेवताः ॥
नमो नारायणायेति स्वेष्टबीजादिकं मनुम् ॥ २३४ ॥
अष्टाक्षरं गुरुमुखाद्गृहीत्वा जपमाचरेत् ॥
अष्टलक्षं द्विजोच्छिष्टभोजी तत्सेवने रतः ॥ २३५ ॥
आमध्याह्नं जपं कुर्याद्भूशायी ब्रह्मचर्यकृत् ॥
निष्पापो जायते पूर्णे जपे नो चेत्पुनश्चरेत् ॥ २३६ ॥
निष्पापचिह्नं वक्ष्येत्र तथा पूर्वोक्तहोमयोः ॥
होमाद्यारम्भदिवसे मृन्मयं न्र्व्रणं दृढम् ॥ २३७ ॥
आनयेच्छुद्धकलशं स्थापयेन्निर्मले स्थले ॥
तस्मिंस्तीर्थादिजं तोयं निःक्षिपेत्कलशोन्मितम् ॥ २३८ ॥
शृङ्गलद्वीपगोमूत्रं काचपात्रे निधापयेत् ॥
पलमात्रं द्वयोश्चैव कुर्याद्धरिहरार्चनम् ॥ २३९ ॥
परीक्षादिवसे पूजां कृत्वा तत्प्रार्थयेज्जलम् ॥
आपो नारायणः साक्षादप्सु सर्वं प्रतिष्ठितम् ॥ २४० ॥
तेन सत्येन मत्पापं ज्ञानं सत्यं ममास्तु ते ॥
इति तोयं सम्प्रार्थ्य दद्यात्पुष्पाञ्जलिं ततः ॥ २४१ ॥
पश्येत्स्वस्य शरीरस्यच्छायां तोये तथा रसे ॥
यथा रसे तथा तोये दृष्टा चेत्पातकं गतम् ॥ २४२ ॥
म्लाना तोये यदाच्छाया तदा पापं गतं न हि ॥
प्रायश्चित्तं ततः कुर्याद्यदिच्छायातिनिर्मला ॥ २४३ ॥
नष्टपापो भवेदेवं पुरश्चरणसिद्धिभाक् ॥
यः कश्चिद्वैदिको मन्त्रो जप्तश्चेदर्बुदाक्षरम् ॥ २४४ ॥
एकजन्मकृतं पापं नाशयेन्नाममन्त्रकः ॥
विष्णोर्मम गणेशस्य रवेस्तव तदर्धकम् ॥ २४५ ॥
हन्ति पापं तान्त्रिकस्तु तदर्धं प्राकृतो दलम् ॥
अपदंशस्तदर्धं चेत्येतत्सर्वत्र गोपितम् ॥ २४६ ॥
जपस्थानानि वक्ष्यामि कृत्रिमाकृत्रिमाणि च ॥
गुप्तानि सर्वतन्त्रेषु देवतानां पृथक्पृथक् ॥ २४७ ॥
महागणपतिक्षेत्रं मापुरं नर्मदा तटे ॥
महाश्मशानं मापूरं गणेशमनुसिद्धिदम् ॥ २४८ ॥
प्रभासं च कुरुक्षेत्रं पुष्करं भृगुपर्वतम् ॥
यमुनायास्तटं काश्यां दिनेशमनुसिद्धिदम् ॥ २४९ ॥
अयोध्या मथुरा माया काशी बदरिकाश्रमः ॥
गया च गण्डकीतीरं द्वारका विष्णुसिद्धिदा ॥ २५० ॥
केदारस्त्र्यम्बकं काशी काञ्च्यवन्त्यौ वनानि च ॥
गङ्गातीरं वैद्यनाथं रामेशः शिवसिद्धिकृत् ॥ २५१ ॥
ज्वालामुखी प्रयागश्च कामिनी मालिकापदम् ॥
सरस्वत्यास्तथातीरं शाक्तम्मन्त्रस्य सिद्धिकृत् ॥ २५२ ॥
तीरञ्च कमलेश्वर्यामेकलो यक्षपर्वतः ॥
अङ्गवङ्गकलिङ्गाश्च क्षुद्रदैवतसिद्धिदाः ॥ २५३ ॥
कामरूपञ्च तत्स्थानं हिङ्गुला विन्ध्यवासिनी ॥
जालन्धरं पूर्णगिरिर्वाममार्गस्य सिद्धिदाः ॥ २५४ ॥
तीरं पद्माकराणां च कदलीक्ष्वर्कवाटिकाः ॥
विद्रुमाकुलितो देशो गणेशस्यातिवल्लभः ॥ २५५ ॥
पद्माकरं तदारण्यं करवीरार्कवाटिकाः ॥
गोधूमदूर्वाक्षेत्राणि शिला भानुमतः प्रिया ॥ २५६ ॥
तुलस्यश्वत्थधात्रीक्षुशालग्रामादिसन्निधौ ॥
गोष्ठे श्रोत्रिययुग्ग्रामे हरेर्मुद्वैदिकान्तिके ॥ २५७ ॥
पश्चिमाभिमुखे लिङ्गे नन्दिवर्जे शिवालये ॥
शिवतीरे वटस्यारात्सङ्गमे विपिने ह्रदे ॥ २५८ ॥
कदलीचूतसुमने सेवन्तीचर्चरीवने ॥
ग्रन्थाख्यातनदीतीरे शक्तेः प्रीतिश्च निर्जने ॥ २५९ ॥
पल्वलाग्रे निम्बकोलशाखोटमधुकाकुले ॥
वल्मीके शुष्कनद्यां च मोदन्ते क्षुद्रदेवताः ॥ २६० ॥
पितृगृहे श्मशाने च त्रिपथे च चतुष्पथे ॥
शून्यालये शवाकीर्णे स्थाने तुष्यन्ति वामकाः ॥ २६१ ॥
गृहे गोष्ठे तथोद्याने तथा पर्वतमस्तके ॥
नद्यां तत्सङ्गमे देवालये स्याद्वैदिकोधिकः ॥ २६२ ॥
यस्मिन्देशे न गोहत्या नापि ब्रह्मवधो भवेत् ॥
न श्रावयन्ति शूद्राश्च सिद्धिस्तत्र तु वैदिकी ॥ २६३ ॥
म्लेच्छाः पाखण्डिनो धूर्ता राजानः सचिवादयः ॥
युवत्यश्च न वर्तन्ते तत्र सिद्धिरदूरतः ॥ २६४ ॥
जीर्णदेवालयोद्यानगृहवृक्षनदीषु च ॥
नदीकूलाद्रिकूलेषु भूछिद्रादिषु नो वसेत् ॥ २६५ ॥
एवमाचार्यमतिमान्कुर्याद्भूमिपरिग्रहम् ॥
पृथ्वीं वराहं सम्पूज्य भूसुतस्य बलेन च ॥ २६६ ॥
ब्रूयादमुकमन्त्रस्य पुरश्चरणसिद्धये ॥
मयेयं गृह्यते भूमिर्मन्त्रोयं सिद्ध्यतामिति ॥ २६७ ॥
न्यग्रोधदुग्धसस्यस्थवृक्षान्यतरवृक्षजान् ॥
वितस्तिप्रमितान्वृत्तान्गृह्णीयात्कीलकान्दश ॥ २६८ ॥
अष्टौ निखातयेदष्टदिशास्वीशानपूर्वयोः ॥
मध्ये निखन्योनवम ऊर्ध्वबुद्ध्या तथाप्यधः ॥
पश्चान्नैर्-ऋत्ययोर्मध्ये यन्त्रमस्त्रेण कीलयेत् ॥ २६९ ॥
पूजा तथास्त्रमन्त्रेण तेष्वस्त्रं च प्रपूजयेत् ॥
क्षेत्रे च कीलिते मन्त्री न विघ्नैः परिभूयते ॥ २७० ॥
दिक्पालेभ्यो माषभक्तबलिं दिक्षु प्रकल्पयेत् ॥
क्षेत्रन्ध्ये क्षेत्रपालं पूजयेच्च गणेश्वरम् ॥ २७१ ॥
तृतीयं वास्तुपुरुषन्तेभ्यो दद्याद्बलि त्रयम् ॥
क्षेत्रमध्ये समाश्रित्य कूर्मचक्रं विचारयेत् ॥ २७२ ॥
कूर्मचक्रानभिज्ञस्य महाविघ्नोभिजायते ॥
परदेशग्रामगृहभेदात्कूर्मश्चतुर्विधः ॥ २७३ ॥
वृत्तद्वयं प्रकुर्वीत नवकोष्ठकभेदितम् ॥
कवर्गाद्याः सप्त लेख्याः पूर्वाशादिषु लक्षकौ ॥ २७४ ॥
ऐशान्यां विलिखेन्मध्यवृत्ते कोष्ठे द्वयन्द्वयम् ॥
स्वराश्च पूर्वतो लेख्याः श्रीबीजं मध्यकोष्ठके ॥ २७५ ॥
प्राङ्मुखः परकूर्मस्तु सर्वदैव प्रजायते ॥
देशानामग्रिमो वर्णो यस्यां दिशि व्यवस्थितः ॥ २७६ ॥
देशकूर्ममुखं तस्यां दिशि स्याद्ग्रामकूर्मके ॥
मुखद्वयं तु विज्ञेयं स्वराद्व्यञ्जनतस्तथा ॥ २७७ ॥
गृहकूर्मस्य वदनं यद्दिग्द्वारं गृहं भवेत् ॥
मुखस्य पार्श्वयोः पाणी कुक्षी पादौ ततस्ततः ॥ २७८ ॥
पुच्छमेकमथो मध्ये पृष्ठमेकं षडङ्गवान् ॥
महारित्वे जीवनाशो वैरे स्याद्धननाशनम् ॥ २७९ ॥
किञ्चिद्वैरे सुखाल्पत्वं तदिदानीं निगद्यते ॥
अगौ ऋच्छौ ऌपौ जाहौ पषौ एनौ इरौ उलौ ॥ २८० ॥
फधौ भरौ यसौ चेति महारी परिकीर्तितौ ॥
जछौ ओटू यडौ गादौ जटौ राखौ बुधौ रलौ ॥ २८१ ॥
वैरन्तु पञ्चमे वर्गे तत्किञ्चित्करयोर्भवेत् ॥
चटयोः पचयोश्चापि तरयो रलयोरपि ॥ २८२ ॥
एकवर्गे परा प्रीतिः स्वं वर्गं द्विगुणं कुरु ॥
स्थानवर्गयुतं तष्टमष्टभिश्चापि उच्यते ॥ २८३ ॥
स्थानवर्गो द्विगुणितः स्ववर्गाढ्योष्टशेषितः ॥
स्थानाय उभयोः कार्यमधिकं यस्य शेषकम् ॥ २८४ ॥
यावत्स्थितं सोर्थदःस्यात्साधकोऽर्थप्रदो न सत् ॥
मुखे सर्वार्थसिद्धिः स्यात्करयो रल्पसिद्धयः ॥
कटौ न किञ्चिद्दासत्वं पादयोः पुच्छतो मृतिः ॥ २८५ ॥
कुरुक्षेत्रे प्रयागे च गङ्गासागरसङ्गमे ॥
महाकाले च काश्यां च कूर्मस्थानं न चिन्तयेत् ॥ २८६ ॥
क्षेत्रसाधकमन्त्राणामेकमेवाद्यमक्षरम् ॥
यदि स्यात्स ध्रुवं मन्त्रः सर्वसिद्धिफलप्रदः ॥ २८७ ॥
अमृतो वृषभः शैलराजो वासुकिरेव च ॥
अर्थकृच्छक्तिकृत्पूर्वकाष्ठादौ बलिनार्चयेत् ॥ २८८ ॥
पद्मयोनिं महाशङ्खं छायाख्यं चापि मध्यमे ॥
कूर्मपृष्ठे गृहं कृत्वा गृहस्थो जपमाचरेत् ॥ २८९ ॥
अथ मालां प्रवक्ष्यामि द्विविधा सा स्थिरा चरा ॥
स्थिरा तु स्थ्रचित्तानां चञ्चला चलचेतसाम् ॥ २९० ॥
अकारादिक्षकारान्तैर्बिन्दुवन्मातृकाक्षरैः ॥
अनुलोमविलोमस्थैः कॢप्तया वर्णमालया ॥
प्रत्येकमन्त्रयुग्मन्त्रा जप्तव्याः सर्वसिद्धिदाः ॥ २९१ ॥
ऋगाद्या अपि किञ्चान्यैः प्रोक्ता च स्थिरमालिका ॥
अकारादिक्षकारान्ता प्रोक्ता चाक्षरमालिका ॥
जपे चाष्टोत्तरशतं पुनर्वर्णस्य योजनम् ॥ २९२ ॥
चराथ कथ्यते मालाभिचारे तिथिसङ्ख्यकैः ॥
मुक्त्यर्थं पञ्चविंशत्या भसङ्ख्यैः सर्वदा जपेत् ॥ २९३ ॥
त्रिंशद्भ्र्धर्मवृद्धिः स्याच्चतुष्पञ्चाशतेप्सितम् ॥
शतात्साम्यं तथाष्टाधिशतात्सकलसिद्धयः ॥ २९४ ॥
समस्तसिद्ध्यै रुद्राक्षा मणयो धनदा मताः ॥
गतस्वाप्तिकरः 25 शङ्खो भोगकृत्स्फटिको मतः ॥ २९५ ॥
पुत्रप्रदाः पुत्रजीवाः पद्माक्षाः पुष्टिवर्द्धनाः ॥
विद्रुमोत्था वश्यकरा मौक्तिका मुक्तिदा मताः ॥ २९६ ॥
पापापहाः कुशमयास्स्वर्णजाः कामदायकाः ॥
कामवृद्धिस्तारजातैरिन्द्राक्षैः 26 स्वागतम्पदम् ॥ २९७ ॥
स्त्रीवश्यार्थं च हारिद्रा दार्व्या पुरुषवश्यकृत् ॥
ज्वरहन्त्री तु लाक्षायाः शङ्खस्य पितृतृप्तिकृत् ॥ २९८ ॥
अर्कजोच्चाटने कार्या श्रीफलैर्ज्ञानसाधने ॥
पद्मकाष्ठोद्भवा तुष्टौ देवदारूद्भवा निरुक् ॥ २९९ ॥
कृष्णकाष्ठसमुद्भूतैस्तामसं कर्म सिध्यति ॥
गजदन्तस्य सर्वार्थं मोहने ताम्रजा मता ॥ ३०० ॥
मारणे चायसी प्रोक्ता धनार्थं श्वेतपद्मजा ॥
विषान्तरे चन्दनोत्था शक्तिकृच्छ्वेतकाष्ठजा ॥ ३०१ ॥
रक्तचन्दनबीजोत्था यक्षिण्यादिकसाधने ॥ ३०२ ॥
भूतस्तम्भे निम्बजाता जनस्तम्भे शमीभवा ॥
महानिम्बेन 27 डाकिन्या भूनिम्बैः 28 स्तम्भनं रुजाम् ॥ ३०३ ॥
इन्द्रवृक्षादृणस्तम्भोऽभिचारो वानरास्थितः ॥
ऋक्षास्थितो वन्यसिद्धिः शार्दूलात्तस्य देवताः ॥ ३०४ ॥
नरास्थ्ना राक्षसा वश्या वीरा वश्या हयास्थिभिः ॥
रासभास्थ्ना क्षुद्रसिद्धिर्मान्यता तु गजास्थिभिः ॥ ३०५ ॥
मृत्तिकाभृष्टमणिजा माला शाबरसिद्धिकृत् ॥
कुशग्रन्थ्या जपेद्विप्रः सुवर्णमणिभिर्नृपः ॥ ३०६ ॥
पुत्रजीवैर्जपेद्वैश्यः पद्माक्षैः सर्व एव हि ॥
रुद्राक्षस्फटिकेन्द्राक्षमध्ये किञ्चिन्न दापयेत् ॥ ३०७ ॥
मध्ये दत्त्वा जपं कुर्वन्काममोक्षौ विनाशयेत् ॥
चतुर्थ्यां प्रोतयेन्मालां गणनाथस्य मन्त्रकैः ॥ ३०८ ॥
मध्याह्नेऽर्कस्य सप्तम्यां रवौ वा तस्य मन्त्रकैः ॥
द्वादश्यां वैष्णवी माला प्रोतव्या विष्णुमन्त्रतः ॥ ३०९ ॥
त्रयोदश्यां तु सन्ध्यायां तन्मन्त्रैः शिवमालिका ॥
अष्टम्यां वा चतुर्दश्यां नवम्यां भूमिनन्दने ॥ ३१० ॥
शक्तीनामपि कर्तव्या शुक्लरात्रौ यथाविधि ॥
ग्रन्थिता पट्टसूत्रेण देव्याः प्रीत्यै तु मालिका ॥ ३११ ॥
कार्या सा वैष्णवी माला पट्टसूत्रैरथापि वा ॥
ऊर्णाभिर्वा वाल्कलैर्वा शैवी कार्पाससूत्रकैः ॥ ३१२ ॥
प्रायशः सर्वदेवानां सूत्रोत्पत्तिविधिं शृणु ॥
सूत्रं द्विजेन्द्रपुण्यस्त्रीनिर्मित्तं ग्रन्थिवर्जितम् ॥ ३१३ ॥
त्रिगुणं त्रिगुणीकृत्य ग्राह्यं प्रक्षाल्य यत्नतः ॥ ३१४ ॥
एकवक्त्रैर्द्विवक्त्रैश्च चतुर्वक्त्रैश्च पञ्चभिः ॥
षड्वक्त्रैर्वाथ कर्तव्या मिथो मिश्रांस्तु वर्जयेत् ॥ ३१५ ॥
मुखं मुखेन संयोज्य पृष्ठं योजयेत् ॥
रुद्राक्षस्योन्नतं प्रोक्तं मुखं पृष्ठं तु निम्नकम् ॥ ३१६ ॥
धात्रीफलसमः श्रेष्ठो मध्यो बदरसन्निभः ॥
अधमश्चणकाभः स्यात्ततो हीनो विपत्तिकृत् ॥ ३१७ ॥
एको मेरुस्तत्र देयः सर्वत्रस्थोऽल्पयुक् च यः ॥
आद्यं स्थूलं ततस्तस्मान्न्यूनं न्यूनतरं ततः ॥ ३१८ ॥
सर्पाकारं प्रकुर्वीत ब्रह्मग्रन्थिमणिं प्रति ॥
अथ वा ग्रन्थिरहितां दृढचक्रसमन्विताम् ॥ ३१९ ॥
त्रिरावृत्त्याथ मध्येन चाधार्वृत्त्या तु देशतः ॥
गन्थिः प्रदक्षिणावर्तः स ब्रह्मग्रन्थिरुच्यते ॥ ३२० ॥
एकभक्तं विधायादौ साधको ग्रन्थयेत्स्वयम् ॥
कृतनित्यक्रियः शुद्ध उक्तेष्वक्षेष्वतन्द्रितः ॥ ३२१ ॥
श्वेता रक्ता सुवर्णाभा कृष्णा चैव द्विजादितः ॥
एतेषु ब्राह्मणश्रेष्ठो जपमालाकृते भृशम् ॥ ३२२ ॥
अलाभे तु द्विजातीनामपि वा स्वस्वजातयः ॥
कलौ तु दुर्लभो विप्रो यथा विप्राः स्वधर्मगाः ॥ ३२३ ॥
अतिस्थूलोतिसूक्ष्मश्च स्फुटितो भङ्गुरो लघुः ॥
भिन्नः पुराधृतो जीर्णो रुद्राक्षो न शुभः स्मृतः ॥ ३२४ ॥
अन्योन्यघर्षणादेव जपहानिर्भवेद्ध्रुवम् ॥
मध्यतो ग्रन्थयः कार्या नात्र मुक्तादि विन्यसेत् ॥ ३२५ ॥
एकवक्त्रःशिवस्तस्य माला तु जपतो हरेत् ॥
ब्रह्महत्यादिपापानि तथा भक्तादिकेष्टदः ॥ ३२६ ॥
उमाशङ्करनामाख्यो द्विमुखोयं व्यपोहति ॥
गोहत्यादिकपापानि गृहस्थाश्रमसौख्यदः ॥ ३२७ ॥
त्रिमुखस्त्वग्निरूपः स्यात्स्त्रीहत्यादिकपापहा ॥
धर्मार्थकामाः सिद्ध्यन्ति धारणात्तज्जपादपि ॥ ३२८ ॥
चतुर्मुखो भवेद्ब्रह्मा गुरुहत्यादिनाशकः ॥
स्फुरन्ति सकला विद्या वाक्सिद्धिश्चापि जायते ॥ ३२९ ॥
पञ्चवक्त्रः शिवः साक्षात्सर्वपापापहारकः ॥
शैवगाणेशशाक्तानां हुतसिद्धिस्तु तज्जपात् ॥ ३३० ॥
कार्तिकेयस्तु षड्वक्त्रः स्खलितव्रतपापहा ॥
विधितो दक्षिणे बाहौ धारणात्समरे जयः ॥ ३३१ ॥
सप्तवक्त्रो महानागोनन्तोनामाथ तज्जपात् ॥
अनन्ताः सिद्धयः सर्पविषमृत्युर्न जायते ॥ ३३२ ॥
अष्टवक्त्रो गणेशः स्यात्सर्वविघ्ननिवारकः ॥
नश्यन्ति तज्जपात्सर्वे कामक्रोधादिशत्रवः ॥ ३३३ ॥
नववक्त्रो भैरवः स्याद्वाममार्गस्थदेवताः ॥
जपादेव प्रसीदन्ति वामबाहौ स्थितोघहा ॥ ३३४ ॥
जनार्दनो दशमुखो जपान्नश्यन्ति धारणात् ॥
पिशाचग्रहवेतालब्रह्मराक्षसपन्नगाः ॥ ३३५ ॥
एकादशमुखः साक्षाद्रुद्र एवास्य धारणात् ॥
जपाच्च हयमेधादियज्ञानां फलभाग्भवेत् ॥ ३३६ ॥
द्वादशास्यो भास्करः स्याद्धारणात्तज्जपादपि ॥
तेजस्वी च प्रतापी च गोमेधफलभाग्भवेत् ॥ ३३७ ॥
त्रयोदशमुखः साक्षाद्विश्वदेवात्मकः स्मृतः ॥
श्राद्धकाले धृतो दद्यात्पितॄणामक्षयाङ्गतिम् ॥ ३३८ ॥
चतुर्दशमुखैर्जप्तं तदानन्त्याय जायते ॥
पूज्यते देवमनुजैरक्षयां लभते गतिम् ॥ ३३९ ॥
अथ मालाकृतिं वक्ष्ये क्षालयेत्पञ्चगव्यकैः ॥
दुग्धं काञ्चनवर्णायाः श्वेतायाश्चैव गोमयम् ॥ ३४० ॥
गोमूत्रं ताम्रवर्णाया नीलायाश्च भवेद्दधि ॥
घृतन्तु कृष्णवर्णाया एवं पञ्चामृतेपि च ॥ ३४१ ॥
गवां वर्णास्तु सुलभाः सन्ति देशेषु कुत्र च ॥
तत्र वर्णविभागेन पञ्चगव्यानि चाहरेत् ॥ ३४२ ॥
वर्णालाभे न दोषोस्ति मात्राहीनन्तु वर्ज्जयेत् ॥
गोशकृद्द्विगुणं मूत्रं सर्पिर्दद्याच्चतुर्गुणम् ॥ ३४३ ॥
क्षीरमष्टगुणं प्रोक्तं पञ्चगव्यं तथा दधि ॥
गायत्र्यादाय 29 गोमूत्रं गन्धद्वारेति 30 गोमयम् ॥ ३४४ ॥
आप्यायस्वेति 31 च क्षीरं दधि काव्णेति वै दधि ॥
तेजोसि 32 शुक्रमित्याज्यं देवस्य 33 त्वा कुशोदकम् ॥ ३४५ ॥
क्षालयेत्पञ्चगव्याद्यैः सद्योजातादिमन्त्रतः 34 चन्दनागुरुगन्धाद्यैर्वामदेवेन 35 घर्षयेत् ॥ ३४६ ॥
धूपयेदप्यघोरेण 36 चासितागुरुगुग्गुलैः ॥
तत्पुरुषाख्यमन्त्रेण 37 लेपयेच्चन्दनादिभिः ॥ ३४७ ॥
ईशानः 38 सर्वमिति च प्रत्येकं मन्त्रयेच्छतम् ॥
तेनैव मन्त्रयेन्मेरुमघोरेण च मन्त्रयेत् ॥ ३४८ ॥
अथान्यमालासंस्कारं वक्ष्येश्वत्थस्य पत्रकैः ॥
पद्माकारेण नवमिः स्थापिते तत्र विन्यसेत् ॥ ३४९ ॥
मणिन्सूत्रं च गन्धोदैः क्षालयित्वाथ मन्त्रयेत् ॥
ॐ ह्रीम्पूर्वैर्मातृकार्णैः क्रमादेकैकशो मणिम् ॥ ३५० ॥
सूत्रं च तत्र विन्यस्य पूजयित्वा हुनेत्ततः ॥
तिलाद्यैः केवलाज्यैर्वा सद्योजातादिभिः पृथक् ॥ ३५१ ॥
पञ्चमन्त्रैः शतं चाष्टावष्टाविंशतिमेव वा ॥
होमाभावे जपः प्रोक्तः प्रोतयेन्मालिकां ततः ॥ ३५२ ॥
गोपुच्छसदृशी कार्या एकाग्रा वा समेरुका ॥
आवाहनादिमुद्राणामष्टकं दर्शयेत्ततः ॥
सद्योजातादिभिर्मन्त्रैः पूर्ववत्क्षालनादिकम् ॥ ३५३ ॥
कौलिकादौ विशेषोयं सुरया मणितर्पणम् ॥
शिरोमाला तु षट्त्रिंशद्द्वात्रिंशत्कण्ठमालिका ॥ ३५४ ॥
कूर्परे षोडश प्रोक्ता द्वात्रिंशन्मणिबन्धयोः ॥
अष्टोत्तरशतैर्युक्तमुपवीतं विधीयते ॥ ३५५ ॥
तदर्धमुरसो माला शिखायामेक उच्यते ॥
कर्णयोश्चापि षट्सङ्ख्या धारणक्रम ईरितः ॥ ३५६ ॥
सङ्ख्याहीनं न कर्तव्यमधिकं नैव दुष्यति ॥
रुद्राक्षं धारयन्नेवं देहान्ते स शिवो भवेत् ॥ ३५७ ॥
बहुलं लभते पुण्यं भाग्यवानिह जायते ॥
स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने ॥ ३५८ ॥
प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः ॥
रुद्राक्षधारी भूत्वा च यत्किञ्चित्कर्म वैदिकम् ॥ ३५९ ॥
यो विप्रः सततं कुर्यात्तत्कर्म सफलं भवेत् ॥
कण्ठे शिरसि हस्ते च कर्णयोरुपवीतके ॥ ३६० ॥
रुद्राक्षधारणादेव रुद्रो भवति मानवः ॥
खादन्मांसं पिबन्मद्यं सङ्गच्छन्नन्त्यजादिषु ॥ ३६१ ॥
सद्यो भवति पूतात्मा रुद्राक्षं मूर्ध्नि धारयन् ॥
देवान्पुष्णन्ति ये देवाः पशवस्तेत्र वैदिकाः ॥ ३६२ ॥
तान्घातयन्ति ये कौले तेषां शास्तास्त्ययं यमः ॥
तेषां संरक्षणार्थाय नान्यो रुद्राक्षतो भुवि ॥ ३६३ ॥
रुद्राक्षाः सर्वदेवानां मन्त्रसिद्धिविधायकाः ॥
रुद्राक्षं कण्ठमाश्रित्य शूकरो म्रियते यदि ॥ ३६४ ॥
सोपि रुद्रमवाप्नोति किं पुनर्मानुषादयः ॥
उच्छिष्टो वा विकर्मस्थो योक्तो वा सर्वपातकैः ॥
मुच्यते सर्वपापेभ्यो नरो रुद्राक्षधारणात् ॥ ३६५ ॥
रुद्राक्षमालिकां कण्ठे धारयेद्भक्तिवर्जितः ॥
पापकर्मापि यो नित्यं रुद्रलोके महीयते ॥ ३६६ ॥
अरुद्राक्षधरो भूत्वा यत्किञ्चित्कर्म वैदिकम् ॥
कुर्याद्विप्रोपि यो मौड्यान्नासावाप्नोति तत्फलम् ॥ ३६७ ॥
शूद्रार्थं योषितामर्थे मालासंस्कार उच्यते ॥
गणेशसूर्यविष्ण्वीशदुर्गाः सम्पूज्य भक्तितः ॥ ३६८ ॥
मालां तामथ तां मालां क्रोम्बीजेनाभिमन्त्रिताम् ॥
अष्टोत्तरशतं पञ्चगव्ये तां स्थापयेत्र्यहम् ॥ ३६९ ॥
चतुर्थे तु समृद्धृत्य क्षालयेदस्त्रमन्त्रतः ॥
हृन्मन्त्रेण ग्रन्थयित्वा स्थण्डिले तां निधापयेत् ॥ ३७० ॥
तत्र प्रक्षालितां मालां स्थापयेद्धेमपात्रके ॥
पञ्चामृतेन संस्नाप्य शीतलेन जलेन च ॥ ३७१ ॥
चन्दनेन सुगन्धेन कस्तूरीकुङ्कुमादिभिः ॥
अभिषेकं ततः कुर्याद्धसौम्मन्त्रेण साधकः ॥ ३७२ ॥
नवग्रहान्पूजयित्वा दिक्पालांश्चापि पूजयेत् ॥ ३७३ ॥
तिलेन घृतयुक्तेन शक्तितो होमयेत्ततः ॥
स्वर्णन्तु दक्षिणां दद्याद्गुरवे मणिसङ्ख्यकम् ॥ ३७४ ॥
तन्मन्त्रजापिनो विप्रान्भोजयेद्वापि वैदिकान् ॥
अभावे स्वर्णपत्रस्य ग्राह्यमश्वत्थपत्रकम् ॥ ३७५ ॥
मालासंस्कार इत्युक्तो जपः स्यात्सिद्धिदायकः ॥
कीकसादिकमालानां कौलिकानाञ्च वामिनाम् ॥ ३७६ ॥
सिद्ध्यै वक्ष्यामि संस्कारं सर्वतन्त्रेषु गोपितम् ॥
शिल्पिनं पूजयेदादौ वस्त्रगन्धानुलेपनैः ॥ ३७७ ॥
संहृष्टः कारयेन्मालां मन्त्रपूतं पिबेन्मधु ॥
पञ्चाशन्मणिभिः कार्या ऋतुमत्या भगे क्षिपेत् ॥ ३७८ ॥
निशामेकां समुद्धृत्य तन्मणीन्क्षालयेत्ततः ॥
शुद्धोदैर्मूलमन्त्रेणाभिषिञ्चेद्विजयारसैः ॥ ३७९ ॥
प्रक्षाल्य धूपयेत्पश्चात्प्रोतयेदिष्टसूत्रकैः ॥
सूत्रं स्वेष्टजपे नीलं कृष्णं मारणकर्मणि ॥ ३८० ॥
मोहने हरितं स्तम्भे धूमाभं द्विषितालभम् ॥
शान्तौ पुष्टौ सितं द्वेषे रक्तमुच्चाटने भवेत् ॥
वश्ये पीतं कषायन्तु विक्षेपकरणे मतम् ॥ ३८१ ॥
चक्रपूजां ततः कृत्वा त्वष्टोत्तरसहस्रकम् ॥
हुनेन्मद्यपलाभ्यां च मूलमन्त्रेण साधकः ॥ ३८२ ॥
ततो बलिं यथान्यायं महिषादेः प्रदापयेत् ॥
शिल्पिनः साधकांश्चापि भोजयेन्मणिसङ्ख्यकान् ॥ ३८३ ॥
एवं सम्माजितां मालां गुरवे तां प्रदर्शयेत् ॥
येन मन्त्रेण या माला कृता तन्तु जपेत्तया ॥ ३८४ ॥
अन्यमन्त्रजपाच्छापो देवतायाः प्रजायते ॥
दृढं सूत्रं नियुञ्जीत जपेत्तु स्थगितो यथा ॥ ३८५ ॥
जीर्णे सूत्रे पुनः सूत्रं ग्रन्थयित्वा शतं जपेत् ॥
तर्जन्या न स्पृशेत्सूत्रं कम्पयेन्नैव धूनयेत् ॥ ३८६ ॥
न स्पृशेद्वामहस्तेन करस्रस्तन्न कारयेत् ॥
अक्षाणां चालनेङ्गुष्ठश्चान्यमक्षम्न संस्पृशेत् ॥ ३८७ ॥
जपकाले तदा विद्वान्मन्त्रं नैव विलङ्घयेत् ॥
परिवर्तनकाले तु सङ्घट्टं नैव कारयेत् ॥ ३८८ ॥
कलिः खटखटाशब्दे दोलने च चलन्मृतिः ॥
चलिते चैव विद्वेषः स्फुटिते व्याधिसम्भवः ॥ ३८९ ॥
हस्तच्युते महाविघ्नः सूत्रच्छेदे विनाशनम् ॥
अथ वाङ्गुलिमालाभिर्जपं कुर्यात्तदुच्यते ॥ ३९० ॥
अनामामध्यमारभ्य कनिष्ठानुक्रमेण तु ॥
मध्यमा मूलपर्यन्ता करमाला प्रकीर्तिता ॥ ३९१ ॥
मध्यमानामिकामध्यपर्वयुग्मं प्रकल्पयेत् ॥
मेरुं चानामिकामूलात्कनिष्ठानुक्रमेण च ॥ ३९२ ॥
तर्जन्यग्रादितो मध्यामूलान्तं दशसङ्ख्यकाः ॥
अथ वा कल्पयेन्मेरुं मध्यानामादिपर्वकम् ॥ ३९३ ॥
अनामामध्यमे तत्र तर्जनीमूलकावपि ॥
जपसङ्ख्याजपः प्रोक्तस्तथायन्त्रिविधोमतः ॥ ३९४ ॥
तत्रादौ त्रिविधः प्रोक्तः पूर्वोक्तोऽयं जपो मया ॥
अङ्गुल्याख्यो जपः प्रोक्तो मतोन्यो न ममैव च ॥ ३९५ ॥
अङ्गुलीगतलेखाभिर्जपो लेखाजपो भवेत् ॥
अङ्गुलीं न वियुञ्जीत जपकाले कदाचन ॥ ३९६ ॥
अङ्गुलीनां वियोगेन च्छिद्रेषु स्रवते जपः ॥
नोल्लङ्घयेच्च गुणवान्किञ्चित्सङ्कोचयेत्तलम् ॥ ३९७ ॥
न 39 दर्शयेत्करं नोचेत्फलं गृह्णन्ति राक्षसाः ॥
त्यजेविंशद्विकर्माणि सिद्धिविघ्नकराणि च ॥ ३९८ ॥
कुर्याद्विंशतिकर्माणि जपसिद्धिकराणि च ॥
लोभं क्रोधं च मात्सर्यं कामं द्वेषञ्च ताडनम् ॥ ३९९ ॥
दम्भमुच्चाटनाभ्यङ्गौ प्रियं मिथ्यावचस्तथा ॥
गीतं वाद्यं मधु च्छायां विभीतककरञ्जयोः ॥ ४०० ॥
मांसं प्रातग्रहं माल्यं ताम्बुलं पापिभाषणम् ॥
एतानि वर्जयेद्विद्वान्कर्तव्यान्यथ मे शृणु ॥ ४०१ ॥
मन्त्रो निरोधो मन्त्रार्थचिन्तनं नित्यकर्म च ॥
नैमित्तिकं श्रौतमौने परसङ्गस्य वर्जनम् ॥ ४०२ ॥
भूमिशय्या त्रिषवणस्नानं प्रात्यहिकार्चनम् ॥
नित्यदानं गुरोः पादपूजाहारनिमन्त्रणे ॥ ४०३ ॥
स्नानञ्च पञ्चगव्येन पवित्रकरधारणम् ॥
त्रिसन्ध्यं वन्दनं पञ्चयज्ञास्तर्पणमेव च ॥ ४०४ ॥
यथोक्तवस्त्रधरणं प्रायश्चित्तमथोच्यते ॥
सकृदुच्चरिते शब्दे प्रणवं समुदीरयेत् ॥ ४०५ ॥
प्रोक्ते पामरशब्देपि प्राणायामं सकृच्चरेत् ॥
बहुप्रलापे चावश्यं न्यस्याङ्गानि ततो जपेत् ॥ ४०६ ॥
क्षुतेप्येवं तथास्पृश्यस्थानानां स्पर्शनेपि च ॥
मौनत्यागे जपेन्मन्त्रं वैष्णवं वा स्मरेद्धरिम् ॥ ४०७ ॥
पतितान्त्यजसन्दर्शे तेजोवन्तं निरीक्षयेत् ॥
सूर्योग्निश्चन्द्रमाः खेटा मुनयो भानि तारकाः ॥ ४०८ ॥
विद्वांसो ब्राह्मणाश्चेति तेजोहीनास्ततः परे ॥
क्षुतेधोवायुगमने पतितादिकभाषणे ॥ ४०९ ॥
त्यक्त्वा जपं तथाचम्य प्राणायामं षडङ्गकम् ॥
कृत्वा पश्चाज्जपेन्मन्त्रमम्भोऽलाभे हरिं स्मरेत् ॥ ४१० ॥
मार्जारं कुक्कुटं क्रौञ्चं श्वानं गृध्रं खगं कपिम् ॥
दृष्ट्वाचम्य चरेत्कर्म स्पृष्ट्वा स्नानं विधीयते ॥ ४११ ॥
दैवादसत्यभाषी चेत्स रौद्रं पौरुषं जपेत् ॥
बहुवस्त्रैकवस्त्रो वा मुक्तकेशो गलावृतः ॥ ४१२ ॥
उष्णीषी कञ्चुकी नग्नः शिरसि प्रावृतोपि वा ॥
चिन्ताद्याकुलचित्तो वा क्रुद्धो वान्तः क्षुधान्वितः ॥ ४१३ ॥
जङ्घानिगूढपादो वा यानशय्यागतस्तथा ॥
शयानो वा धौतपादः पश्चाद्वा दक्षिणामुखः ॥ ४१४ ॥
म्लानवस्त्रोर्धवस्त्रश्च तथा द्विगुणवस्त्रकः ॥
च्युतवस्त्रो रक्तवस्त्रःस्निग्धवस्त्रो द्विकच्छकः ॥ ४१५ ॥
बहिष्कच्छो नुत्तरीयो विकच्छश्चैककच्छकः ॥
कौपीनी प्रौढपादश्च तथैव स्यूतवस्त्रवान् 40 ॥ ४१६ ॥
जपेशक्तः प्रमादाच्च राक्षसैर्गृह्यतेफलम् ॥
तत्कारणं परित्यज्य तज्जपं पुनरा चरेत् ॥ ४१७ ॥
स्वभार्यायां प्रमादेन स्खलितश्चेत्तदोषसि ॥
स्नात्वार्द्रवासा मौनेन दशकुम्भमितैर्जलैः ॥ ४१८ ॥
श्रोत्रियस्य गृहे दद्यात्परनार्यां सहस्रकम् ॥
जपः स्यादक्षरावृत्तिः स त्रेधा परिकीर्तितः ॥ ४१९ ॥
हीनो वाग्जः कायिकस्तु मध्यः श्रेष्ठस्तु मानसः ॥
य उच्चनीचैः स्वरितैः शब्दैः स्पष्टपदाक्षरैः ॥ ४२० ॥
मन्त्र उच्चार्यते हीनोऽसौ जपो वाचिकः स्मृतः ॥
शनैरुच्चारयेन्मन्त्रमीपदोष्टौ प्रचारयेत् ॥ ४२१ ॥
कस्यचिच्छ्रवणायोग्यः कायिकः स तु मध्यमः ॥
बुद्ध्या यदाक्षरश्रेणीं यथास्थानेषु चोच्चरेत् ॥ ४२२ ॥
अर्थस्मरणपूर्वन्तु स श्रेष्ठो मानसो जपः ॥
षट्कर्मकृद्वाचिकः स्यात्कायिकः सर्वसिद्धिकृत् ॥ ४२३ ॥
मानसः साधयेन्मोक्षं ततोन्यः क्षुद्रकर्मकृत् ॥
जपेन देवता नित्यं स्तूयमाना प्रसीदति ॥ ४२४ ॥
जपात्सिद्धिर्जपात्सिद्धिर्जपात्सिद्धिरदूरतः ॥
यथा धनेन सन्तुष्टो जायते क्षुल्लको नरः ॥ ४२५ ॥
तथैव बलिदानेन पूजया क्षुद्रदेवताः ॥
यथा महागुणैर्वश्यो जायते गुणवान्प्रभुः ॥ ४२६ ॥
तथाहं त्वं च 41 विष्ण्वर्कौ जपा देव फलप्रदाः ॥
आसनन्तु द्विधा प्रोक्तं नित्यकामिकभेदतः ॥ ४२७ ॥
कुशाजिनोत्तरैर्युक्तं चतुरङ्गुलमूर्ध्वतः ॥
चतुरस्रं द्विहस्तञ्च सुन्दरं मृदु निर्मलम् ॥ ४२८ ॥
इदं सुखासनं नित्यं जपसिद्धिविधायकम् ॥
अथ काम्यानि वक्ष्यन्ते ज्ञानसिद्ध्यायिहाजिनम् ॥ ४२९ ॥
सर्वसिद्ध्यै व्याघ्रचर्म त्वाविकं 42 रोगनाशनम् ॥
कौशेयं पौष्टिकं प्रोक्तं वेत्रजं श्रीविवर्द्धनम् ॥ ४३० ॥
श्वेते तु कम्बले धर्मसिद्धिरुक्तेर्थसिद्धयः ॥
पीते कामो द्विजान्येषां 43 मोक्षदः कृष्णकम्बलः ॥ ४३१ ॥
दुःखमुक्त्यै रञ्जितस्तु नीलरङ्गो न शोभनः ॥
त्यजेन्निषिद्धं मतिमांस्त्वनिषिद्धेषु संविशेत् ॥ ४३२ ॥
निषिद्धान्यथ वक्ष्यन्ते शोकः स्याद्दारुकासने ॥
वंशासने दरिद्रः स्याद्वस्त्रे स्थानविनाशनम् ॥ ४३३ ॥
पाषाणे च तथोच्चाटो ज्वरः स्यान्मृण्मयासने 44 ॥ ४३४ ॥
क्षित्यासने भवेत्पीडा पल्लवे चित्तविभ्रमः ॥
तृणासने भवेत्पीडा निषिद्धं त्विष्टकासनम् ॥ ४३५ ॥
चित्तक्षोभो गृहस्थस्य कृष्णसाराजिने भवेत् ॥
बटुर्वनस्थः सन्न्यासी स्नातकः सिद्धिमाप्नुयात् ॥ ४३६ ॥
शुभे मुहूर्ते नक्षत्रे तिथौ स्नात्वा यथाविधि ॥
विप्रान्सन्तर्प्य यत्नेन भोजनाच्छादनादिभिः ॥ ४३७ ॥
भूवित्तवस्त्रभूषाद्यैः सन्तोष्य गुरुमात्मनः ॥
आरभेच्च जपं पश्चात्तदनुज्ञापुरस्सरम् ॥ ४३८ ॥
जपस्थाने ततः कुर्यात्त्रिकोणं वर्तुलं बहिः ॥
तद्बहिश्चतुरस्रं च तत्र क्षेत्रे समर्चयेत् ॥ ४३९ ॥
इहागच्छेत्यादिवाक्यैस्त्रिकोणादग्रतः पुनः ॥
अन्नोदकादिसम्पूर्णं बलिपात्रं निधापयेत् ॥ ४४० ॥
वामिभिर्महिषो देयः कौलिकैर्बर्करस्तथा ॥
अविः सिद्धान्तिभिस्तत्र निवेद्यो मनुना सुराः ॥ ४४१ ॥
एह्येहि 45 विद्रषीत्युक्त्वा पुरुषं जययुग्मकम् ॥
नर्तयद्वितयं पश्चाद्विघ्नविघ्न महेति च ॥ ४४२ ॥
भैरवपदपूर्वन्तु क्षेत्रेशमिति चोच्चरेत् ॥
क्षेत्रपालबलिं गृह्णगृह्णस्वाहेति वै वदेत् ॥ ४४३ ॥
त्रिचत्वारिंशदर्णोयं क्षेत्रपालबलेर्मनुः ॥
तस्मै सपरिवाराय बलिं दद्यान्न भक्षयेत् ॥ ४४४ ॥
प्रारभेत पुरश्चर्यां दीक्षोक्तदिवसे शुभे ॥
प्रणम्यादौ गुरून्विप्रान्गणेशं परिपूज्य च ॥ ४४५ ॥
पुण्याहवाचनं कृत्वा कुशहस्तो वदेदिति ॥
सूर्यः सोमो यमः कालः सन्ध्ये भूतान्यहः क्षपा ॥ ४४६ ॥
पवनो दिक्पतिर्भूमिराकाशं खेचरामराः ॥
ब्रह्मशासनमास्थाय कल्पध्वमिह सन्निधिम् ॥ ४४७ ॥
पठित्वेदं ताम्रपात्रे कृत्वा कुशतिलाक्षतान् ॥
उदङ्मुखस्तु सङ्कल्पं कुर्यात्संवत्सरादिकान् ॥ ४४८ ॥
कामनान्तानुच्चरेच्च तत्र विंशतिसङ्ख्यकान् ॥
संवत्सरमृतुं मासं पक्षं पञ्चाङ्गमेव च ॥ ४४९ ॥
नवग्रहस्थितिं घस्रभागमुहूर्तके त्विति ॥
स्वदेशभेदानुच्चार्य कामनासहितान्वदेत् ॥ ४५० ॥
द्वीपेमुके मुके खण्डे गोत्रं प्रवरमुच्चरेत् ॥
स्वनाम जातिनामान्तं पुनः शर्म च वर्म च ॥ ४५१ ॥
गुप्तो दासोथामुकस्य मन्त्रस्य सिद्धिकामकः ॥
करिष्येहं पुरश्चर्यामेतत्सङ्ख्यजपात्मिकाम् ॥ ४५२ ॥
अथवेयद्दिनैरेतैरसति प्रतिबाधके ॥
करिष्य इति सङ्कल्पं मनसैव प्रकल्पयेत् ॥ ४५३ ॥
वदेद्वाचाभिलाषं च कर्मणा चोपपादयन् ॥
गुरुं गणपतिं दुर्गां मह्यं नत्वा च पूजनम् ॥ ४५४ ॥
कृत्वा स्वमूलमन्त्रेण प्राणायामत्रयं चरेत् ॥
कृत्वा ऋष्यादिविन्यासमङ्गन्यासं तथैव च ॥ ४५५ ॥
ध्यायेच्च हृदये देवं पात्रे संस्थाप्य मालिकाम् ॥
अर्घ्योदकेन सम्प्रोक्ष्य ततस्तां प्रार्थयेदिति ॥ ४५६ ॥
ॐ मालेमाले माहामाये सर्वशक्तिस्वरूपिणी ॥
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ ४५७ ॥
पूजयित्वा ततो मालां गृह्णीयाद्दक्षिणे करे ॥
बीजं 46 गणपतेः पूर्वमुच्चार्य तदनन्तरम् ॥ ४५८ ॥
अविघ्नं कुरु माले त्वं गृह्णीयात्तदनन्तरम् ॥
हस्तेथ दक्षिणे पश्चाच्चिन्तयेन्मनसा शिवम् ॥ ५५९ ॥
चिन्तयेच्च गुरुं मूर्ध्नि यथावर्णादिकं भवेत् ॥
मन्त्रं ध्यायेत्कण्ठमध्ये पीतवर्णं हिरण्मयम ॥ ४६० ॥
महामायां 47 च हृदये स्वात्मानं गुरुपादयोः ॥
आज्ञाचक्रे ततः पश्चाद्गुरोर्मन्त्रस्य चात्मनः ॥ ४६१ ॥
देव्याश्चाप्येकतां नीत्वा सुषुम्णावर्त्मना ततः ॥
गुरुस्वरूपमेकं तं षट्चक्रं प्रति लङ्घयेत् ॥ ४६२ ॥
षट्चक्रेपि महामायां क्षणं ध्यात्वा प्रयत्नतः ॥
लम्बयेन्मूलमन्त्रेण चादिषोडशचक्रकम् ॥ ४६३ ॥
आदिषोडशचक्रे तां साधकानन्ददायिनीम् ॥
चिन्तयेत्साधको देवीं जातकर्मसमारभेत् ॥ ४६४ ॥
भ्रुवोरुपरि नाडीनां तिसृणां प्रान्त उच्यते ॥
तत्प्रान्तं त्रिपथस्थानं षट्कोणं चतुरङ्गुलम् ॥ ४६५ ॥
चक्रं च कुलयोगज्ञैराज्ञाचक्रमितीरितम् ॥
कण्ठे त्रयाणां नाडीनां वेष्टनं विद्यते नृणाम् ॥ ४६६ ॥
सुषुम्णेडापिङ्गलानां षट्कोणं तत्षडङ्गुलम् ॥
तत्त्वचक्रमिति प्रोक्तं शुक्लं कण्ठस्य मध्यगम् ॥ ४६७ ॥
त्रयाणामपि देवानां हृदये चैकता भवेत् ॥
तत्स्थाने षोडशारं स्यात्सप्ताङ्गुलप्रमाणतः ॥ ४६८ ॥
तत्पूर्वमुक्तयोगानामादिषोडशचक्रगम् ॥
ध्येयानामथ मन्त्राणां चिन्तितस्य जपस्य च ॥ ४६९ ॥
यस्मादाद्यं तु हृदयं तस्मादादिर्निगद्यते ॥
तत्र प्रणव उत्पन्नः पूर्वमादिसुतस्य तु ॥ ४७० ॥
निस्सेतुकं यथा तोयं क्षणान्निम्नं प्रसर्पति ॥
मन्त्रस्तथैव निस्सेतुः क्षणात्क्षरति यज्वनाम् ॥ ४७१ ॥
तस्मात्सर्वप्रयत्नेषु चतुर्वर्णादिजातयः ॥
पार्श्वयोः सेतुमादाय जपकर्म समारभन् ॥ ४७२ ॥
मन्त्राणां प्रणवः सेतुर्द्विजानां परिकीर्तितः ॥
चतुर्दशस्वरोन्येषां चन्द्रानुस्वारसंयुतः ॥ ४७३ ॥
एवं विचिन्त्य मध्याया 48 मध्ये भागे तु मालिकाम् ॥
अस्पृशंस्तर्जनीं मालामङ्गुष्ठाग्रेण चालयेत् ॥ ४७४ ॥
पूर्वं मन्त्रं जपन्यस्तु संस्पृशेदपरं मणिम् ॥
अङ्गुष्ठेन भवेत्तस्य स जपो निष्फलः सदा ॥ ४७५ ॥
मालां स्वहृदयासन्नां धृत्वा दक्षिणपाणिना ॥
मालामन्त्रस्तु ह्रीं सिद्ध्यै नमः सम्प्रार्थयेदिति ॥ ४७६ ॥
त्वं माले सर्वदेवानां प्रीतिदा शुभदा भव ॥
शिवं कुरुष्व मे भद्रे यशो वीर्यं च वर्धय ॥ ४७७ ॥
इह प्रार्थनपूजायां प्रोक्तोयं मालिकामनुः ॥
पञ्चाक्षरस्ततो देवं स्वेष्टं सम्प्रार्थयेदिति ॥ ४७८ ॥
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ॥
सिद्धिर्भवतु मे देव त्वत्प्रसादाज्जगत्पते ॥ ४७९ ॥
मूलमन्त्रं समुच्चार्य देवहस्ते निवेदयेत् ॥
तं जपं चार्घ्यतोयेन मध्याह्नसमये त्विदम् ॥ ४८० ॥
तदर्थं पूर्ववत्स्नात्वा विशेषेण विधानवित् ॥
न्यासावसानमखिलं कर्म कुर्यात्पुरोदितम् ॥ ४८१ ॥
पूजाग्निहोमपर्यन्तं ततश्च जपमारभेत् ॥
यावद्दिनावसानं तु भूयः स्नात्वा ततो द्विजः ॥ ४८२ ॥
उपास्य पूर्ववत्सन्ध्यां देवं सम्पूजयेत्पुनः ॥
विसृज्य भोजनं कुर्यात्सततं तारकोदये ॥ ४८३ ॥
सत्कन्दफलमूलाशी सद्भिक्षाशी हविष्यभुक् ॥
पयोव्रती भवेच्छ्रेष्ठस्तेषां लक्षणमुच्यते ॥ ४८४ ॥
आयुष्करं पद्ममूलं पिण्डारककसेरुकम् ॥
रक्तहस्तीशङ्खमधुशालुकं श्रेष्ठमुच्यते ॥ ४८५ ॥
द्राक्षाम्रजम्बूपनसं कपित्थं खर्जूरिकादडिमनारिकेरम् ॥
परूषकं क्षीरिणिकाकदल्योः फलं तु धात्र्याश्च भवेत्पवित्रम् ॥ ४८६ ॥
पत्रमूलं त्वचामूलं विमूलं पञ्चमी जटी ॥
अकवाकुः कुवाकुश्च मूले पावित्र्यकारकम् ॥ ४८७ ॥
वैदिकाचारयुक्तानां शुचीनां श्रीमतां सताम् ॥
सत्कुलस्थानजातानां भिक्षाशी चाग्रजन्मनाम् ॥ ४८८ ॥
चरुमूलफलक्षीरदधिभिक्षान्नसक्तवः ॥
एतत्सप्तविधं भिक्षालब्धं भक्ष्यं व्रतस्थितैः ॥ ४८९ ॥
हविष्याणि तु पञ्चाशच्छ्वेताः स्विन्ना हिमोद्भवाः ॥
तण्डुलाः षष्ठिनीवारशालिजास्त्रिविधा मताः ॥ ४९० ॥
मुद्गा यवास्तिलाः कृष्णाः कुल्माषास्त्रिपुटा अपि ॥
कङ्गवश्च मकुष्ठाश्च यावन्नालकणशिका ॥ ४९१ ॥
कालकंशो ववास्तूकं करम्बुर्हिलमोचिका ॥
चक्रवती चक्रमर्दः पलङ्कः शतपुष्पिका ॥ ४९२ ॥
मूलं हेमन्तजं श्वेतं राजिकां माष।
जं तिलम् ॥
मृणालमुसली घोण्टा शतमूली विदारिका ॥ ४९३ ॥
सर्वे पिण्डालवश्चैव पद्मो वारवु षातथा ॥
आयुष्करः कञ्च्युकश्च शृङ्गाटककसेरुकौ ॥ ४९४ ॥
सामुद्रं सैन्धवं चैव दध्याज्यं गोजमाहिषम् ॥
दुग्धं ससारं मधुरं पयोन्यत्त्वलपबीजकम् ॥ ४९५ ॥
पनसाम्रामलं चिञ्चा विफाणितगुडैक्षवम् ॥
हविष्यं भेषजं सर्वं हित्वा मीनान्सुरां पलम् ॥ ४९६ ॥
श्रेष्ठं गवां दुग्धमुक्तं मध्यमं सुरभीभवम् ॥
अधमं माहिषं चान्यद्व्रतस्थानां निषिध्यते ॥ ४९७ ॥
त्यजन्निषिद्धमन्नाद्यं मध्यो सौ शास्त्रतश्च यः ॥
निषिद्धं देशकुलतः प्रशस्तं सोधमः स्मृतः ॥ ४९८ ॥
निषिद्धान्यथ कथ्यन्ते सप्तविंशमितानि तु ॥
श्वेतमुद्रा मसूराश्च कोद्रवाश्चणकास्त्रिधा ॥ ४९९ ॥
माषाश्च भूमिलवणं यत्र जातं रसान्तरम् ॥
क्षौद्रं क्षारं पलाण्डुश्च गृञ्जनं काचभोजनम् ॥ ५०० ॥
मांसं च स्विन्नलवणं रामठं चैव नालकम् ॥
अन्नं पर्युषितं तैलं ताम्बूलं क्षुद्रधान्यकम् ॥ ५०१ ॥
पटोलं चापि वृन्ताकं मूलकं च कलिञ्जकम् ॥
दग्धान्नं च द्विपक्वं च गुडान्नं तालजं फलम् ॥ ५०२ ॥
देवा विशेषं शृण्वन्तु वर्णाश्रमविभेदतः ॥
तिलतैलं मन्त्रपूतं पावनं देवदुर्लभम् ॥ ५०३ ॥
मर्दयित्वा गृहस्थेन स्नानं कार्यं तु सर्वदा ॥
द्विजैस्तु भोजनं कार्यमुपस्तीर्याविधार्य च ॥ ५०४ ॥
पावयेद्वैदिकैर्मन्त्रैः प्रोक्षणादिककर्मणा ॥
पुनर्मूलेन सम्मन्त्र्य भुञ्जीयाद्धृदयाणुना ॥ ५०५ ॥
मूलाभिमन्त्रितं तोयं भोजने तृषि सम्पिबेत् ॥
पलाशपत्रे भुञ्जीत त्वन्यत्पत्रं विवर्जितम् ॥ ५०६ ॥
तदभावे कदल्यां वा मधूके सर्जकेपि च ॥
भुक्त्वा शयीत शयने सुशुद्धे वसुधातले ॥ ५०७ ॥
अहतास्तरणास्तीर्णे सन्दर्भेणायने शुचौ ॥
मन्त्रिते मूलमन्त्रेण जितक्रोधो जितेन्द्रियः ॥ ५०८ ॥
अभीष्टदेवतां ध्यायन्प्राक्शिरस्को निशि स्वपेत् ॥
अर्धरात्रे समुत्थाय पादशौचं विधाय च ॥ ५०९ ॥
आचम्य देवं सम्पूज्य शीघ्रं संस्पृश्य पूर्ववत् ॥
जपं कुर्याद्यथाशक्ति त्वर्पयेच्च तथेश्वरे ॥ ५१० ॥
स्वपेत्ततस्तु यो दृष्टः स्वप्नं तं गुरवे वदेत् ॥
जपश्चायं वनस्थानां प्रोक्तो वै ब्रह्मवादिनाम् ॥ ५११ ॥
देशाद्युपद्रवत्रासात्स्वैरं यावत्समापनम् ॥
कर्तव्यं चेदयं कालः प्रोक्तोत्यावश्यकेपि च ॥ ५१२ ॥
आमध्याह्नं जपः श्रेष्ठो मध्यमप्रहरत्रयम् ॥
सार्धयामत्रयं हीनोऽवश्यके प्रोक्तलक्षणः ॥ ५१३ ॥
पञ्चधा तु विधिः प्रोक्तो जपसम्पूर्णकारकः ॥
आद्यः कल्पः प्रतिदिनमामध्याह्नं जपं चरेत् ॥ ५१४ ॥
तद्दशांशेन कल्पोक्तद्रव्यैर्होमं प्रकल्पयेत् ॥
तर्पणं मार्जनं कृत्वा तथा ब्राह्मणभोजनम् ॥ ५१५ ॥
तस्य दशांशतश्चायं प्रथमः कल्प ईरितः ॥
अयं द्वितीयः कल्पस्तु लक्षमेकं जपं चरेत् ॥ ५१६ ॥
होमादिकं तस्य कृत्वाग्रिमलक्षं समारभेत् ॥
अयं तृतीयः कल्पस्तु सम्पूर्णं जपमाचरेत् ॥ ५१७ ॥
पूर्णे होमे तर्पणादि पूर्वमेवाचरेदिति ॥
चतुर्थस्तु तथा कल्पो दरिद्रैर्द्विगुणो जपः 49 ॥ ५१८ ॥
होमाद्यभावे कर्तव्यस्त्र्यादिनिघ्नो नृपादिकैः ॥
पञ्चमस्तु तथा कल्पो यस्य देवस्य यत्प्रियम् ॥ ५१९ ॥
तदेव द्विगुणं कार्यं शीघ्रं दैवततुष्टये ॥
जपप्रियास्सर्वदेव्यो वाममार्गे बलिप्रियाः ॥ ५२० ॥
होमप्रियो महादेवो भास्करस्तर्पणप्रियः ॥
मार्जनं तु गणेशस्य विष्णोर्ब्राह्मणभोजनम् ॥ ५२१ ॥
प्रायश्चित्तं तु न कृतं तदा शुद्धो भवेद् द्विजः ॥
पुरश्चर्याचतुष्केण त्रिद्व्याद्यैः क्षत्त्रियादयः ॥ ५२२ ॥
अथवान्यप्रकारेण पुरश्चरणमुच्यते ॥
गृहणेर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः ॥ ५२३ ॥
नद्यां समुद्रगामिन्यां नाभिमात्रे जले स्थितः ॥
स्पर्शादिमुक्तिपर्यन्तं जपेन्मन्त्रं समाहितः ॥ ५२४ ॥
तावत्कालं जपेदित्थं ततो होमादिकं चरेत् ॥
ब्राह्मणान्भोजयेत्पश्चात्पुरश्चर्यासमन्त्विदम् ॥ ५२५ ॥
प्रायश्चित्तं प्रयोगस्य प्रत्यवायस्य नाशनम् ॥
येषां जपे च होमे च सङ्ख्या तन्त्रेषु नोदिता ॥ ५२६ ॥
तत्र चेयं पुरश्चर्या सर्वतन्त्रेषु गोपिता ॥
वाममार्गाय मन्त्राणामेवमेवान्यदुच्यते ॥ ५२७ ॥
कृष्णाष्टमीं समारभ्य यावत्कृष्णचतुर्दशी ॥
देवं ध्यात्वा जपेन्मन्त्रमयुतानां चतुष्टयम् ॥ ५२८ ॥
दशांशं होमयेत्पश्चात्तर्पयेदभिषेचयेत् ॥
असिद्धत्वाद्गुरोर्देवाः शिष्यसिद्धिर्न जायते ॥ ५२९ ॥
तदोपायं प्रकुर्याद्यत्तद्गोप्यमधुनोच्यते ॥
अनुलोमविलोमेन बिन्दुमन्मातृकाक्षरैः ॥ ५३० ॥
जपेत्सम्पुटितं मन्त्रं प्रत्यहं शतसङ्ख्यया ॥
एकमासं ततो होमादिकात्सिद्धो भवेन्मनुः ॥ ५३१ ॥
पुरश्चर्योक्तमखिलमाह्निकं च समाचरेत् ॥
एवं वैदिकमन्त्रस्य सिद्धयेत्र च सस्वराः ॥ ५३२ ॥
वर्णा देया बिन्दुयुक्ताः क्रमतश्चोत्क्रमेण च ॥
ह्रस्वदीर्घप्लुतैर्भेदैर इ उ ऋ त्रिधा मताः ॥ ५३३ ॥
ह्रस्व प्लुतो ऌद्विविध एचापि द्विविधो मतः ॥
दीर्घप्लुतविभेदेन ह्यनुस्वारविसर्गकैः ॥ ५३४ ॥
चतुर्विंशतिराख्याताः स्वरा एवं ञमैः स ह ॥
चत्वारः कादिका वर्णा जिह्वामूलीययुक्च कः ॥ ५३५ ॥
एवं कवर्गो दशधा चाद्याः पञ्चदश स्मृताः ॥
उपध्मानीयसंयुक्तं पकारस्तेन तत्र षट् ॥ ५३६ ॥
याद्यष्टावपि सम्प्रोक्ता यज्ञे वेदे तु मातृकाः ॥
ऌक्षौ द्वावधिकौ ऋक्षु 50 क्षोधिकोऽथर्वणि 51 स्मृतः ॥ ५३७ ॥
जपश्चाष्टोत्तरशतं प्रत्यहं मासमात्रकम् ॥
अनध्यायान्वर्जयित्वा चत्वारिंशद्दिनं तथा ॥ ५३८ ॥
होमादिसकलं प्राप्य नित्यमेव प्रकल्पयेत् ॥
क्षुद्रदैवतमन्त्रं तु भूतलिप्या पुटीकुरु ॥ ५३९ ॥
क्रमोत्क्रमाच्छतावृत्तिं कुर्यात्सिद्धिस्तु मासतः ॥
अचो 52 हयवरला आद्यन्तिमद्विचतुर्थकम् ॥ ५४० ॥
तृतीयं च क्रमेणैव वर्गाणामक्षरं पठेत् ॥
ऊष्मत्रयं ततश्चैवं द्विचत्वारिंशदक्षरैः ॥ ५४१ ॥
इत्युग्रदैवते जाप्य स्त्वष्टोत्तरसहस्रकः ॥
त्रिकालं गन्धपुष्पाद्यैर्निशीथे परतः पुनः ॥ ५४२ ॥
षण्ंआसं कौलिकाद्यैश्चेदर्चिता सुप्रसीदति ॥
अयोग्यैर्गुरुतो लब्धाचार्यादिस्थानमाश्रितैः ॥ ५४३ ॥
उद्दशाद्वा पुरश्चर्या कर्तव्येत्युच्यते न हि ॥
राज्ञां भाग्यवतो वापि सुकुमारस्य वा यथा ॥ ५४४ ॥
सिद्धिर्भवेत्तथा वक्ष्ये वर्णोषधिपुरस्क्रियाम् ॥
सप्तधा सा परिज्ञेया वर्णमासैस्तु सिद्धिदा ॥ ५४५ ॥
मन्त्रवर्णौषधीकाष्ठैरचयेद्गुटिकाः शुभाः ॥
वर्णक्रमेण ताः प्रोक्ता अनुलोमविलोमतः ॥ ५४६ ॥
मूलादिभ्यश्च बहुशः कर्तव्या मणयो यथा ॥
सर्पद्वयाकृतिर्माला भवेन्नित्यं ततो जपेत् ॥ ५४७ ॥
मालाया मणिसङ्ख्याकः प्रथमोयं जपः स्मृतः ॥
सर्वे समाना मणयः प्रोतव्या सार्णसूत्रकैः ॥ ५४८ ॥
कण्ठे धार्या कण्ठमाला नित्यमेष द्वितीयकः ॥
तथैव राजते सूत्रे ये ह्यताः परिपूजयेत् ॥ ५४९ ॥
तद्देवकल्पमार्गेण प्रक्रमोयं तृतीयकः ॥
वर्णौषधीनां क्वाथेन नित्यं स्नानं चतुर्थकः ॥ ५५० ॥
वर्णोषधिजलादिभ्यो गोघृतेन तु पञ्चमः ॥
तच्चूर्णो द्वर्तनङ्कुर्यादेष षष्ठः प्रकीर्तितः ॥ ५५१ ॥
तद्भस्मधारणं नित्यं कुर्यादिति तु सप्तमः ॥
ब्रह्मद्वेषाद्गुरोर्द्वेषात्स्त्रीद्वेषाच्चेन्न 53 जायते ॥ ५५२ ॥
शापतो वा कीलितत्वात्तत्रोपायाष्टकं भवेत् ॥
सन्तापाप्यायने द्रावो बोधनं च वशीकृतिः ॥ ५५३ ॥
पीडनं पोषशोषौ च दहनं तत्क्रियोच्यते ॥
भूर्जपत्रं समानीय पद्ममष्टदलं लिखेत् ॥ ५५४ ॥
अष्टगन्धेन देवस्य रोचनाचन्दनेन वा ॥
साधकस्य तु नामार्णैर्मन्त्रं सन्दर्भितं लिखेत् ॥ ५५५ ॥
यावद्द्वयोः समाप्तिः स्यात्तस्य चाद्यन्तयोर्लिखेत् ॥
तारादिकं साधकस्य नामाथाष्टदलेषु च ॥ ५५६ ॥
द्वौ द्वौ लेख्यौ स्वरौ तत्र सम्यग्ध्यायन्सुधात्मकम् 54 ॥
तत्संवेष्ट्य मृदा सम्यग्वेष्टयेद्ब्राह्मणादिकः ॥ ५५७ ॥
शुक्लादिवर्णया पश्चात्सद्वस्त्रेण च वेष्टयेत् ॥
क्षिपेत्त्रिमधुरे तत्तु मृण्मये लघुभाजने ॥ ५५८ ॥
क्षीरपूर्णे नवे कुम्भे तत्क्षिपेल्लघुभाजनम् ॥
अग्निसंस्थापनं कृत्वा सन्निधौ तस्य तङ्घटम् ॥ ५५९ ॥
संस्थापयेत्त्रिमधुरैर्मूलमन्त्रेण होमयेत् ॥
अष्टाधिकसहस्रं तु सम्यक्तं कलशं क्षिपेत् ॥ ५६० ॥
होमं समाप्य तं कुम्भं निःक्षिप्य च जलाशये ॥
स्वगुरुं ब्राह्मणांश्चान्नैस्तोषयेद्दक्षिणादिभिः ॥ ५६१ ॥
सन्तापाप्यायनं चैतदुक्तं सिद्धिर्न चेद्भवेत् ॥
द्रावणं तु तदा कुर्यात्तत्प्रकार इहोच्यते ॥ ५६२ ॥
वम्बीजेन ग्रन्थयित्वा भूर्जपत्रे लिखेन्मनुम् ॥
उशीररोचनाभ्याञ्च शिलाकर्पूरकुङ्कुमैः ॥ ५६३ ॥
क्षीराज्यमधुतोयानां मध्ये तं लिखितं क्षिपेत् ॥
पूजनाच्च जपाद्धोमाद्द्रावितः फलदो भवेत् ॥ ५६४ ॥
द्रावितोपि न सिद्धश्चेद्बोधनं तस्य कारयेत् ॥
वाग्भवेन 55 च बीजेन सम्पुटीकृत्य तं जपेत् ॥ ५६५ ॥
एवं बुद्धो भवेत्सिद्धो नोचेत्कुर्याद्वशीकृतिम् ॥
कुचन्दनं महादारु हरिद्रा च मनःशिला ॥ ५६६ ॥
एतैस्तु लिखितो मन्त्रो भूर्जपत्रे सुशोभने ॥
कण्ठे धृतो भवेद्वश्यो नो चेत्कुर्यात्प्रपीडनम् ॥ ५६७ ॥
अनुदात्तस्वरेणाद्यमुदात्तेन द्वितीयकम् ॥
तृतीयमनुदात्तेन पठेत्तुर्यमुदात्ततः ॥ ५६८ ॥
एवं पदानि सर्वाणि पठेन्मन्त्रस्य साधकः ॥
अनुदात्तपदोच्चारे देवं ध्यायेदधःस्थितम् ॥ ५६९ ॥
ऊर्ध्वस्थितमुदात्तस्योच्चारेष्टाधिसहस्रकम् ॥
जपेन्मन्त्रं ततो भूर्जे भानुदुग्धेन लेखयेत् ॥ ५७० ॥
मन्त्रं तमाक्रमेद्वामपादेनाथ च होमयेत् ॥
अष्टोत्तरशतं मन्त्रः पीडितः स प्रसीदति ॥ ५७१ ॥
न सिद्धश्चेत्तदा पोष्यः प्रोच्यते तत्क्रियाधुना ॥
सोम्बीजपुटितं मन्त्रं लिखेद्भूर्जस्य पत्रके ॥ ५७२ ॥
रोचनाकुङ्कुमाभ्याञ्च धारयेद्दधिदुग्धयोः ॥
इदं पोषणमित्युक्तमथ शोषणमुच्यते ॥ ५७३ ॥
यज्ञस्य भस्मनालेख्य वायुबीजविदर्भितम् ॥
भूर्जपत्रे स्वेष्टमन्त्रं तत्कण्ठे धारयेदिति ॥ ५७४ ॥
एतच्छोषणमित्युक्तं दहनं प्रोच्यतेऽधुना ॥
पृथक्पृथक्च मन्त्राणां चतुर्दिक्षु समावृतान् ॥ ५७५ ॥
रम्बीजेन पलाशस्य बीजतैलेन संलिखेत् ॥
भूर्जपत्रेथ तद्धार्यं कण्ठे दाहक्रिया त्वियम् ॥ ५७६ ॥
अथ शाबरमन्त्राणां पुरश्चरणमुच्यते ॥
कामरूपाख्यदेशे तु कामाक्षा यत्र देवता ॥ ५७७ ॥
कामशलोस्ति यत्रासौ कामपीठस्स उच्यते ॥
तत्र संलेख्य मन्त्रं हि वंशोपरि यथाक्रमम् ॥ ५७८ ॥
गुरुणा वाचनीयः स स्वयं पश्चात्पठेन्मनुम् ॥
गुरोरभावे तस्यैव मूले शैलस्य पर्वणि ॥ ५७९ ॥
लिखित्वा प्रपठेन्मन्त्रं कामपीठं गुरुर्मतः ॥
अथ वा योगिनीशैले दक्षिणस्यां दिशि ध्रुवम् ॥ ५८० ॥
योगाम्बा यत्र देवी सा लिखित्वात्र पठेन्मनुम् ॥
ज्वालामुखीसमीपे वा हिङ्गुलाजसमापतः ॥ ५८१ ॥
लिखित्वा प्रपठेन्मन्त्रं नान्यथैव प्रसिद्ध्यति ॥
मुख्यतः स्त्रीसमीपे तु कामपीठे मनोर्ग्रहः ॥ ५८२ ॥
अथवा सर्वदेशेषु मन्त्रग्रहणमुच्यते ॥
तालपत्रे लिखेन्मन्त्रं पूर्णकुम्भे निधापयेत् ॥ ५८३ ॥
भास्करन्तु गुरुन्ध्यात्वा वाचयेत्त्रिर्गुरू रविः ॥
अथ तान्त्रिकमन्त्राणां दीक्षां शृणु गुरुं विना ॥ ५८४ ॥
शुक्लपक्षे त्रयोदश्यां चन्द्रताराबलान्विते ॥
गत्वा च दक्षिणामूर्तेः सन्निधौ पूजयेच्च तम् ॥ ५८५ ॥
कलशस्थापनं कृत्वा तदग्रे तु परिक्षिपेत् ॥
तालपत्रे लिखित्वाथ मन्त्रं देवं च पूजयेत् ॥ ५८६ ॥
देवो गुरुरिति ध्यात्वा मन्त्रं व्यक्तं तु वाचयेत् ॥
अष्टोत्तरशतं चैव मन्त्रग्रहणमुच्यते ॥ ५८७ ॥
एतत्तत्वं समाख्यातं गोप्यं मातरि जारवत् ॥
गुरौ लोभादयो दोषास्तस्मादुद्विजते जनः ॥
अतः शास्त्रं गुरुं कृत्वा दक्षिणामूर्तितो मनुः ॥ ५८८ ॥
एवं सिद्धे मनौ देवि मोक्षमार्गनिबन्धकाः ॥
तपःक्षयकराश्चैव जायन्ते नैकसिद्धयः ॥ ५८९ ॥
स्वल्पसिद्धौ निमग्नश्चेन्न जायन्ते णिमादयः ॥
अणिमादिषु मग्नश्चेन्मोक्षवार्तातिदुर्लभा ॥ ५९० ॥
अल्पं तपः क्षणान्नश्येन्मध्यमं चापि गर्वतः ॥
सिद्धिद्वारमिदं तस्य मया लक्षणमुच्यते ॥ ५९१ ॥
स्वप्ने वाक्षिसमक्षं वा आश्चर्यमतिहर्षदम् ॥
अकास्माद्यदि जायेत न ख्यातव्यं गुरुं विना ॥ ५९२ ॥
प्रकाशनीयं न क्वापि ऐहिकीं सिद्धिमिच्छता ॥
प्रकाशयति यो मोहादौत्सुक्यान्मन्त्रजं सुखम् ॥
निकटस्थाश्च तास्तस्य सिद्धयो यान्ति दूरतः ॥ ५९३ ॥
आभवन्ति च दुःखानि शोकाश्च विविधा अपि ॥
अल्पाशनं स्वल्पनिद्रा सदा चित्तप्रसन्नता ॥ ५९४ ॥
प्रकाशयुक्शरीरं च वाक्यं सत्यं प्रजायते ॥
मन्त्रा राधनशक्तस्य प्रथमं वत्सरत्रयम् ॥ ५९५ ॥
जायन्ते बहवो विघ्ना नियमत्यागहेतवः ॥
नोद्वेगं साधको याति कर्मणा मनसा यदि ॥ ५९६ ॥
ततो वर्षत्रयादूर्ध्वं राजानश्च महीभृतः ॥
प्रार्थयन्तेनुरोधेन गर्विता अपि मानिनः ॥ ५९७ ॥
प्रसादः क्रियतां नाथ ममोद्धरणकारणम् ॥
प्रज्वलन्तं प्रपश्यन्ति तेजसा विभवेन च ॥ ५९८ ॥
अतस्ते मुनिशार्दूलं विस्तरं वक्तुमक्षमाः ॥
नवमाद्वत्सरादूर्ध्वं स्वयं सिद्ध्यति मन्त्रराट् ॥ ५९९ ॥
वाङ्मनोरथसंसिद्धो दाता भोक्ता ह्ययाचकः ॥
अथ वक्ष्ये दरिद्रस्य मन्त्रसिद्धिर्यथा भवेत् ॥ ६०० ॥
होमकर्मण्यशक्तस्य विप्रस्य द्विगुणो जपः ॥
इतरेषान्तु वर्णानां त्रिगुणादिर्विधीयते ॥ ६०१ ॥
होमद्विगुणजाप्येन सम्पूर्णं तर्पणं भवेत् ॥
अकृते मार्जने प्रोक्तस्तर्पणाद्द्विगुणो जपः ॥ ६०२ ॥
प्रत्याम्नायो ब्रह्मभोज्ये न कुत्रापि श्रुतौ श्रुतः ॥
सर्वथा भोजयेद्विप्रान्कृतसाङ्गत्वसिद्धये ॥ ६०३ ॥
विप्राराधनमात्रेण व्यङ्गं साङ्गं प्रजायते ॥
यानि यानि च कर्माणि हीयन्ते द्विजभोजनैः ॥
निरर्थकानि तानि स्युर्बीजान्यू षरगानि च ॥ ६०४ ॥
गुरुं सन्तोषयेत्पश्चाद्रोहिर्ण्याम्बरादिभिः ॥
गुरौ तुष्टे हि सन्तुष्टो मन्त्रः सिद्ध्यति मन्त्रिणः ॥ ६०५ ॥
यदृच्छया श्रुतो मन्त्रश्च्छद्मनापि बलेनवा ॥
परेरितोवा गाथावा तज्जपो नैव चार्थकृत् ॥ ६०६ ॥
पुस्तके लिखितान्मन्त्रानालोक्य प्रजपन्ति ये ॥
ब्रह्महत्यासमं तेषां पातकं परिकीर्तितम् ॥ ६०७ ॥
अनेककोटिम् मन्त्राणां चिन्तयन्नाकुलः कविः ॥
मन्त्रो गुरुमुखात्प्राप्त एकः स्यात्सर्वसिद्धिदः ॥ ६०८ ॥
कुलप्राप्तः कुलाचारो मानितः सर्वसाधकैः ॥
सिद्धिलक्षणसम्पूर्णः प्राणिमात्रस्य यस्समः ॥ ६०९ ॥
मित्रं न शत्रवो यस्य सर्वमार्गप्रदर्शकः ॥
स एव तु गुरुः कार्यो नान्यो वामे कदाचन ॥ ६१० ॥
इह लोके परत्रापि कौलः पतति चान्यथा ॥
सिद्धेरभावे दक्षे तु पापहानिः प्रजायते ॥ ६११ ॥
सेवनान्मचतुष्कस्य 56 वामे तु निरयः पुरः ॥
इत्थं प्रोक्ता पुरश्चर्या किमन्यच्छ्रोतुमिच्छथ ॥ ६१२ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते पुरश्चर्याप्रकाशः षष्ठः ॥ ६ ॥
-
कलावुत्पन्नजनानां भुक्तिमुक्तिप्रयोजनम् । ↩︎
-
स्वगृह्यसूत्रषु कीर्तितविधानेन ↩︎
-
अग्ने नय इत्यादि एकमेक पठित्वा स्वाहा देया ।
अग्ने अग्नये चेदं न वै मम इदं वचनं स्वाहान्ते पठेत् । ↩︎ -
अवैष्णवः प्रत्येकमन्त्रान्ते स्वाहादानसमये जगद्बीजाय चेदं न वै मम अस्य वचनस्य वैष्णवस्तु नारायणाय चेदं न वै मम अस्योच्चारणं कुर्वीत । ↩︎
-
अग्नये चेदं न मम एतन्मन्त्रेण स्वाहा देयैतद्रीत्यैव अल्पनामसु वाक्यं विरचय्य संयुज्य जुहुयात् । ↩︎
-
चतुर्थे (इन्द्राय चेदं न मम)। ↩︎
-
पञ्चमषष्ठयोः (इन्द्रावरुणाभ्यां न मम)। ↩︎
-
सप्तमाष्टमयोः (वायुसूर्याभ्यां न मम अग्नेनयैव रीता ↩︎
-
सूक्तकैः सूक्तप्रोक्तमन्त्रैः । ↩︎
-
तृतीयर्चि द्यावापृथिवीभ्यां सरस्वत्यै न मम वाक्यमुच्चरेत् ॥ ↩︎
-
तिथौ पञ्चदशे अर्थात् चतुर्द्दशे पञ्चदशे (अद्भ्यश्चेदं न वै मम) इदं वाक्यमस्ति । ↩︎
-
दुर्मित्रियास्तस्मै सन्तु योस्मान्द्वेष्टि यच्च वयं द्विष्मः । ↩︎
-
गर्भमारणायाम् । ↩︎
-
निःक्षेपे । ↩︎
-
मिथ्यासाक्ष्ये । ↩︎
-
कुसीदे । ↩︎
-
देवार्थसञ्चितद्रव्यभक्षणे । ↩︎
-
सव्याहृतिर्वातत्सवितुरिति गायत्री ।
पुनन्तु मां देवजनाः पुनन्तु मनसाधियः ॥
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि माम् ॥
इत्यादिपवित्रमन्त्राः । ↩︎ -
यवागूः षड्गुणे तोये संसिद्धाघनसिक्थका ।
पृथग्द्रवैस्तु विरलैः संयुक्ता ज्वरिणे हिता ↩︎ -
तप्तक्षीरे दधिप्रक्षेपेण आभिक्षा भवति ॥ ↩︎
-
प्रथमं यद्देवा इति मन्त्रेण जुहुयात् ।
ततः परम् ।
देवेभ्य आदितेभ्य इति पठेत् पुनरनयैव रीत्या अग्ने पठितमन्त्रेषु देवानां नाम्ना वचनं योजनीयम् ॥ ↩︎ -
द्वितीयमन्त्रे विश्वेभ्यो देवेभ्यः इति ॥ ↩︎
-
तृतीये द्यावापृथिवीभ्यां सरस्वत्यै च इदं न वै ममेति वाक्यस्य सर्वत्र योजना ॥ ↩︎
-
सजातसṁसादत जामिशṁसा ज्यायसः शṁसादत वा कनीयसः ॥
आना अनाज्ञातं देवकृतं यदेनस्तस्मात्वमस्माज्जातवेदो मुग्धि जातवेदसे चेदं न वै मम । ↩︎ -
गतद्रव्यलाभकृत् ॥ ↩︎
-
रजतेन लषितवस्तुसिद्धिः ॥ ↩︎
-
बकैनेति भाषायाम् ॥ ↩︎
-
तिक्तकः ॥ ↩︎
-
ॐ तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि ।
धीयो यो नः प्रचोदयात् ॥ ↩︎ -
गन्धद्वारान्दुराधर्षां नित्यपुष्टां करीषिणीम् ॥
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ↩︎ -
आप्यायस्व समेतु ते विश्वतः सो मवृष्ण्यम् ॥
भवा वाजस्य सङ्गथे । ↩︎ -
तेजोसि शुक्रमस्यमृतमस्यायुर्मे पाहि । ↩︎
-
देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्याम् ।
अविनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभिषिञ्चामीन्द्रस्येन्द्रियेण बलाय श्रियै यशसेभिषिञ्चामि । ↩︎ -
सद्योजातं प्रपद्यामि सद्योजाताय वै नमोनमः ।
भवेभवे नातिभवे भवस्व मां भवोद्भवाय नमः । ↩︎ -
वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः । ↩︎
-
अघोरेभ्योथ घोरेभ्यो घोरघोरतरेभ्यः ।
सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ↩︎ -
तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् । ↩︎ -
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणो धिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् । ↩︎
-
जपकाले करेण न दर्शयेद्यदि दर्शयेत् तर्हि राक्षसास्तत्फलमाददति ॥ ↩︎
-
षिवु तन्तुसन्ताने ॥ ↩︎
-
अत्र चकारोनुक्तसमुच्चयार्थस्तेन गणेशो बोध्यः ॥ ↩︎
-
मेषोर्णावासः ॥ ↩︎
-
द्विजत्त्वं त्रयाणां तदितरत्वं शूद्रे तदुक्तं मनौ- ब्राह्मणक्षत्रियविशस्त्रयो वर्णा द्विजातयः ॥
चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ॥ ↩︎ -
मृण्मयशब्देन सामान्यस्य ।
पाषाणेष्टकयोः पृथगुपादानात् ॥ ↩︎ -
एह्येहि विद्रषीपुरुष जयजय नर्तय विघ्नविघ्न महाभैरव क्षेत्रेश क्षेत्रपाल बलिं गृह्णगृह्ण स्वाहा ॥ ↩︎
-
गमिति बीजम् ॥ ↩︎
-
अत्र मन्त्रे ॐ मामिति पूर्वं पठेत् ॥
छन्दो भङ्गभयादिह तदनुक्तिः ॥ ↩︎ -
मध्यमाङ्गुलेर्मध्यपर्वणि । ↩︎
-
कार्य इति शेषः ॥ ↩︎
-
ऋग्वेदेषु । ↩︎
-
अथर्वणि । ↩︎
-
अम् इम् उम् ऋम् ऌṁ एम् ऐं ॐ औं हं यं वं रं लं कं ङं खं घं गं चं ञं छं झं जं टं णं ठं ढं डं तं नं थं धं दं पं मं फं भं बं शं षं सम् । ↩︎
-
सिद्धिरिति शेषः । ↩︎
-
वम्बीजम् । ↩︎
-
ऐṁबीजेन । ↩︎
-
चतुर्मकारादिसेवनात् ॥ ↩︎