श्रीदेव्युवाच
धनिनां मध्यमानां च दरिद्राणां हासिनाम् ॥
परदेशस्थितानां च कारागेहादिवासिनाम् ॥ १ ॥
कायादौ व्याहृतानां च युक्तानां सूतकादिभिः ॥
कार्याङ्गवस्त्वभावे वा वामिकानां कृपानिधे ॥ २ ॥
षडाम्नायरहस्येन कथं नित्याह्निक भवेत् ॥
लोकलज्जावतां चापि दिनचर्यां वद प्रभो ॥ ३ ॥
ईश्वर उवाच ॥
महाकालेन यत्प्रोक्तं यन्महामायया श्रुतम् ॥
रहस्यातिरहस्यं यत्सर्वतन्त्रेषु गोपितम् ॥ ४ ॥
आम्नायानां रहस्यं यदाह्निकं प्रोच्यते मया ॥
शृण्वन्तु सर्वे भो देवाः साधकानां प्रसिद्धिदम् ॥ ५ ॥
तत्र नित्यं त्रिधा प्रोक्तं गुणत्रयविभेदतः ॥
अधिकारिविभेदेन तदपि त्रिविधं भवेत् ॥ ६ ॥
शुद्धं मिश्रं च गलितं तत्तथैव फलप्रदम् ॥
अकृते प्रत्यवायो न गलिते सफलञ्जनैः ॥ ७ ॥
अहङ्कारविहीनं चेन्मानसञ्ज्ञानपूर्वकम् ॥
स्वस्थचित्तेन यतिना कृतं तच्छुद्धमिष्यते ॥ ८ ॥
तादृशं चेद् गृहस्थेन निर्द्रव्येण च वा कृतम् ॥
रुग्णेन पथिकेनापि कारागृहगतेन वा ॥ ९ ॥
भक्तितो वापि तन्मिश्रं बाह्यपूजाधिकारतः ॥
शीतादिभीत्या वा वित्तसङ्क्षयादन्यकार्यतः ॥ १० ॥
त्र्यादेर्नियोगाद्गलितं गृहिणो मानसम्मतम् ॥
बाह्य पूजादिकं यच्च एकान्ते नियमेन च ॥ ११ ॥
भक्त्या कृतं गृहस्थेन तच्छुद्धं राजसम्मतम् ॥
पूजार्थं यद्वाचयित्वा श्रद्धाभक्तिं विधाय च ॥ १२ ॥
लोकभीत्या देवभीत्या यत्तदायासमिश्रितम् ॥
प्रतारणार्थं लोकानां याचितं देवनामतः ॥ १३ ॥
द्रव्यं कृतं तदुद्देशो गलितं तत्तु राजसम् ॥
वाममार्गं समाश्रित्य कौलं धर्मं विचार्य च ॥ १४ ॥
अन्यधर्मस्य चाद्वेषात्कृतं शुद्धं तु तामसम् ॥
कृतं यत्कामतः कर्म चैहिकं पारलौकिकम् ॥ १५ ॥
वाममार्गं समाश्रित्य मिश्रितं तत्तु तामसम् ॥
जिह्वालोभेन यत्पानं भक्षणं कामतो रतम् ॥ १६ ॥
अथवा मारणाद्यर्थं गलितं तत्तु तामसम् ॥
शुद्धसत्त्वेन मोक्षः स्यात्स्वर्गः स्यान्मिश्रसत्त्वतः ॥ १७ ॥
सिद्धिर्गलितसत्त्वात्स्यादोहकी च मनुष्यता ॥
स्वर्गः स्याद्राजसाच्छुद्धात्कामः स्यान्मिश्रराजसात् ॥ १८ ॥
गलिताद्राजसात्तिर्यग्योनावपि सुखं भवेत् ॥
सात्त्विकात्तामसाद्देवयोनित्वं प्राप्नुयान्नरः ॥ १९ ॥
मिऽस्रतामसतो दुःखी नारकी चान्त्यतामसात् ॥
कर्म पञ्चविधं प्रोक्तं पञ्चधा मुक्तिदायकम् ॥ २० ॥
प्रसर्पणमुपादानमिन्याध्यायस्तथा द्युतिः ॥
सम्मार्जनोपलेपादिसंस्कारा देवमन्दिरे ॥ २१ ॥
भक्तार्जवं सर्पणं स्यादेवमारोग्यकारकम् ॥
पूजासाधनसामग्र्या मेलनं भक्तसेवनम् ॥ २२ ॥
तत्प्रीतिः स्यादुपादानं देवतारूपदायकम् ॥
पीठपूर्वाङ्गपूर्वञ्च षोडशाद्युपचारकैः ॥ २३ ॥
मूर्तौ यन्त्रेथवा पूजा सेज्या स्यादिष्टकारिका ॥
तच्छास्त्राध्ययनं सम्यक्कृत्वा मन्त्रार्थभाजनम् ॥ २४ ॥
कृत्वा जपन्तु बाध्यायो देवसायुज्यकारकः ॥
गुरुदेवात्मकालानां सम्यगैक्यविभावनम् ॥ २५ ॥
संयोगो लिङ्गदेहस्य नाशकः कालयागकृत् ॥
निशायां पश्चिमे यामे स्मरेदिष्टां च देवताम् ॥ २६ ॥
उत्थाय दक्षिणाङ्गेन वामपादं न्यसेद्भुवि ॥
ततो गृहाद्बहिर्गत्वा कृत्वावश्यकमादरात् ॥ २७ ॥
रात्रिवासः परित्यज्य वाससी परिवीय 1 च ॥
आचम्य शुद्धदेहः स्याद्देवतायोगमन्दिरे ॥ २८ ॥
निर्माल्यमपकृष्याथ दद्यात्पुष्पाञ्जलिन्तथा ।
अर्घ्यपात्रे निवेद्याथ दद्याद्वै दन्तधावनम् ॥ २९ ॥
मुखप्रक्षालनं कृत्वा दद्यादाचमनीयकम् ॥
करस्य प्र्ॐछनायाथ दद्याद्वासोऽमलं शुभम् ॥ ३० ॥
ततस्तु मस्तके चिन्त्यं सहस्रदलपद्मकम् ॥
कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम् ॥ ३१ ॥
सुप्रसन्नं लसद्भूषामण्डितं श्वतचन्दनम् ॥
वराभयज्ञानमुद्रापुस्तकैर्व्यावृतैः करैः ॥ ३२ ॥
युक्तं श्वेताम्बरं शान्तं श्वेतपुष्पविभूषितम् ॥
वामाङ्कगतया शक्त्यालिङ्गितं रक्तवर्णया ॥ ३३ ॥
रक्तवस्त्राभरणया रक्तचन्दनमालया ॥
वामलीलाकमलयालिङ्गन्त्या दक्षिणेन च ॥ ३४ ॥
ध्यायेदन्तर्मुखं शाक्तं योगिनं शिवरूपिणम् ॥
तत्पादपद्मयुगलच्युतपीयूषधारया ॥ ३५ ॥
अभिषिक्तं स्वस्य देहमेवं शिष्यो विचिन्तयेत् ॥
अर्चयेद्गन्धपुष्पाद्यैर्बाह्यस्थैर्मानसैस्तु वा ॥ ३६ ॥
नामभिस्तस्य विविधैस्संसिद्धैर्गुरुकीर्तनैः ॥
प्रणम्येत्थं हृन्मनुना भावयेत्तल्लयं हृदि ॥ ३७ ॥
ततस्तु मूलाधारादि ब्रह्मरन्ध्रान्तमुद्यताम् ॥
तेजोदण्डं सुषुम्णान्तं सहस्रविससन्निभम् ॥ ३८ ॥
तदात्मकं मूलमन्त्रं ध्यात्वा तत्तेजसावृतम् ॥
स्वशरीरं विचिन्त्याथ प्राणायामत्र यं चरेत् ॥ ३९ ॥
मूलमन्त्रेण मन्त्रस्य ऋष्यादिन्यासमाचरेत् ॥
अङ्गन्यासं विधायाऽथ हृदि देवं विचिन्तयेत् ॥ ४० ॥
त्रैलोक्यचैतन्यमयादिदेव श्रीशङ्कर त्वच्चरणाज्ञया च ॥
प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये ॥ ४१ ॥
संसारयात्रामनुवर्तमानं त्वदाज्ञया शङ्कर देवदेव ॥
स्पर्द्धातिरस्कारकलिप्रमादभयानि मां माऽभि भवन्तु नाथ ॥ ४२ ॥
इति सम्प्रार्थ्य देवेशमाज्ञामादाय तस्य तु ॥
प्रार्थयित्वा धरां श्वासयुक्तं पादं निधापयेत् ॥ ४३ ॥
समुद्रमेखले देवि पर्वतस्तनमण्डले ॥
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्वमे ॥ ४४ ॥
ततो गृहाद् बहिर्याम्यां नैर्-ऋतीं वा दिशं व्रजेत् ॥
पदे पदे स्मरेदस्त्रन्दूरे 2 यायाद् द्विजालयात् ॥ ४५ ॥
अतीत्य बाणमात्रन्तु भुवं ग्रामाद्विलोक्य च ॥
कीटयोषादिरहितं शौचस्थानमिदम्पठेत् ॥ ४६ ॥
उत्तिष्ठन्त्वृषयो देवा गन्धर्वा यक्षराक्षसाः ॥
परितस्त्यज्यतां स्थानं विण्मूत्रोत्सर्जनाय मे ॥ ४७ ॥
अनेन मनुना लोष्टात्तृणैरुद्वास्य देवताः ॥
कुर्यान्मलच्युतिं तत्र वाससा कं 3 प्रविश्य च ॥ ४८ ॥
तां दिशां च न पश्येत्तु शौचमुद्धृत्य वारिभिः ॥
एका लिङ्गे गुदे सप्त दश वामकरे तथा ॥ ४९ ॥
उभयोस्सप्त दातव्यास्तिस्रोङ्घ्र्योश्चापि 4 मृत्तिकाः ॥
मूत्रोत्सर्गे वामहस्ते लिङ्गे पञ्चैव मृत्तिकाः ॥
तिस्रः करद्वये चैका पादयोरथवा चरेत् ॥ ५० ॥
गन्धलेपक्षयकरं मनोग्लानिहरं परम् ॥
कुर्याद्द्वादश गण्डूषान्पूरीषोत्सर्जनान्तरे 5 ॥ ५१ ॥
प्रक्षाल्याग्रे तु चरणावाचमेत्त्रिस्ततः परम् ॥
आम्रन्यग्रोधखदिरकरञ्ज 6 ककुभादिजम् 7 ५२ ॥
कनीन्यग्रसमस्थूलं प्रमितं द्वादशाङ्गुलैः ॥
दन्तधावनकाष्ठं तु प्रोक्तं तन्त्रविचक्षणैः ॥ ५३ ॥
क्रीमुक्त्वा 8 कामदेवाय सर्वजनप्रियाय च ॥
नमोन्तस्तिथिवर्णोयं मन्त्रो दन्तविशोधने ॥ ५४ ॥
प्रक्षाल्य दन्तकाष्ठं च मूर्द्धदेशे पुरस्त्यजेत् ॥
वक्तुं मूलानुनो नित्यं लक्षयेत्सिद्धिहेतवे ॥ ५५ ॥
अथ पूजाहोमकर्मसिद्धये स्नानमुच्यते ॥
शङ्कुनास्त्राभिजप्तेन शुचिस्थानात्तु मृत्तिकाम् ॥
गृहीत्वास्त्रेण संसिच्य यायाज्जलनिकेतनम् ॥ ५६ ॥
तत्रादौ जलकूलं स्यात्क्षालयेदस्त्रवारिणा ॥
मृष्टं कृत्वा तटं तत्र चैकभागे विचक्षणः ॥ ५७ ॥
निधाय गोमयं दर्भांस्तिलांश्चाप्यभिमन्त्रितान् ॥
मत्तिकागोमयाभ्याञ्च कट्यन्तं स्नानमाचरेत् ॥ ५८ ॥
बहिरुद्धृत्य तोयेन मलस्नानं ततः परम् ॥
विधाय वैदिकस्नानं तदङ्गं तर्पणं तथा ॥ ५९ ॥
ततस्तान्त्रिकस्नानस्य विधिरस्त्रेण मृत्तिकाम् ॥
समादायास्त्रमन्त्रेण मन्त्रयित्वा तृणादिकम् ॥ ६० ॥
शिखामन्त्रेणापहृत्य 9 त्रिमूलेनाभिमन्त्रयेत् ॥
मूर्द्धादिपादपर्यन्तं विलिप्य प्रणमेज्जलम् ॥ ६१ ॥
आधाराः सर्वभूतानां विष्णोरतुलतेजसः ॥
तद्रूपाश्च ततो जातास्ता आपः प्रणमाम्यहम् ॥ ६२ ॥
सम्मुखीकरणीं मुद्रां बद्ध्वा प्राणान्नियम्य च ॥
निमज्य तूष्णीमुत्थाय नाभिमात्रे जले नरः ॥ ६३ ॥
तान्त्रिकस्नानसङ्कल्पं मासोल्लेखादिपूर्वकम् ॥
कृत्वा यं मूलमन्त्रेण प्राणायामत्रयं चरेत् ॥ ६४ ॥
विन्यस्य च षडङ्गानि कल्पयेत्तीर्थमग्रतः ॥
चतुरस्रे हस्तमात्रे तज्जले परिकल्पिते ॥ ६५ ॥
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे ॥
तेन सत्येन देवेश तीर्थं देहि दिवाकर ॥ ६६ ॥
इति सूर्यं प्रार्थयित्वा क्रोमित्यङ्कुशमुद्रया ॥
भित्वार्कमण्डलं तस्मात्तीर्थान्यावाहयेदिह ॥ ६७ ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ॥
नर्मदे सिन्धुकावेरि जले स्मिन्सन्निदिहिं कुरु ॥ ६८ ॥
एवमुक्त्वा तु तीर्थानि तस्मिंस्तोये नियोजयेत् ॥
मूलमन्त्रेणाथ तीर्थशक्तिं तत्र समाह्वयेत् ॥
अर्कस्य मण्डलं ध्यात्वा तन्मन्त्रेण च पूजयेत् ॥ ६९ ॥
सर्वानन्दमयीमशेषदुरितध्वंसां मृगाङ्कप्रभां त्र्यक्षामूर्ध्वकरद्वयेन दधतीं पाशं शृणि 10 वामतः ॥
अन्तश्चामृतपूर्णहस्तकलशा मुक्ताक्षमालावतीं गङ्गासिन्धुसरिद्वरादिसहितां श्रीतीर्थशक्तिं भजे ॥ ७० ॥
अथ ह्रां 11 ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सर्वानन्दमये पदम् ॥
तीर्थशक्तिं तथा हिलियुगलं वह्निगेहिनी ॥ ७१ ॥
द्वाविंशत्यक्षरः प्रोक्तस्तीर्थशक्तेर्महामनुः ॥
तज्जलं गाङ्गमन्त्रेण मन्त्रयेदष्टवारकम् ॥ ७२ ॥
तारो 12 नमो भगवति ब्रूयादम्ब ततोऽम्बिके ॥
अम्बालिके महामालिन्येह्येहि भगवत्यथ ॥ ७३ ॥
अशेषतीर्थालवाले मायाश्रीबीजमुच्चरेत् ॥
शिवजटाधिरूढे च गङ्गे गङ्गाम्बिके द्विठः ॥ ७४ ॥
गङ्गामन्त्रोयमाख्यातस्त्रिपञ्चाशद्भिरक्षरैः भुवनेश्याः 13 समालोड्यामृतीकृत्य सुधाणुना ॥ ७५ ॥
कवचेनावगुण्ठ्याथ संरक्ष्यास्त्रेण मन्त्रवित् ॥
मूलेन देवतां तत्र साङ्गां सावरणान्तथा ॥ ७६ ॥
समावाह्य जले ध्यात्वा तत्पादद्वयनिर्गतम् ॥
ध्यात्वा तीर्थं स्मरेन्मूलमन्त्रंस्नायाज्जले त्रिशः ॥ ७७ ॥
हृदि देवं स्मरेत्पश्चात्सिञ्चेत्कं कुम्भमुद्रया 14 ॥
त्रिभिर्लोकैर्मूलमन्त्रैस्तारकं बीजपूर्वकैः ॥ ७८ ॥
सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजायते ॥
मातरः सर्वभूतानामापो देव्यः पुनन्तु माम् ॥ ७९ ॥
अलक्ष्मीर्मलरूपा या सर्वभूतेषु संस्थिता ॥
क्षालयन्तु निजस्पर्शादापो देव्यः पुनन्तु माम् ॥ ८० ॥
यन्मे केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि ॥
ललाटे कर्णयोरक्ष्णोरापस्तद् घ्नन्तु वो नमः ॥ ८१ ॥
नमःस्वाहान्तमूलेन त्रिराचमनमाचरेत् ॥
त्रिधा देवं च सन्तर्प्य तोयमध्यात्तटं व्रजेत् ॥ ८२ ॥
धौतवस्त्रयुगं धृत्वा प्रक्षाल्य च करौ तथा ॥
मृदाद्भिस्तत आचम्य देवस्नानविधिस्स्मृतः ॥ ८३ ॥
मन्त्रस्नानं प्रकर्तव्यं शीतयोर्देशकालयोः ॥
तोयाभावे गते दुर्गे कायास्वास्थ्ये च वार्द्धके ॥ ८४ ॥
प्रक्षाल्य पादावाचम्य प्रोद्धृतेन तु वारिणा ॥
स्थानं दश दिशः प्राग्वत्संशोध्योपाविशेत्ततः ॥ ८५ ॥
जलं हस्ततले न्यस्य कुम्भन्यासांस्ततश्चरेत् ॥
मातृकादींस्तथा मूलमन्त्रन्यासानशेषतः ॥ ८६ ॥
न्यासान्ते संस्पृशेत्तोयं मन्त्रस्नानमिदं वरम् ॥
केवलादुदकस्नानात्संस्कारपरिवर्जितात् ॥ ८७ ॥
सुस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिम्प्रभुं स्मरेत् ॥
तत्पादोदकजां धारां निपतन्तीं स्वमूर्द्धनि ॥ ८८ ॥
चिन्तयेत्सूक्ष्मरन्ध्रेण प्रविशन्तीं स्वकान्तनुम् ॥
तस्मात्सङ्क्षालयेत्सर्वमेतद्देहगतं मलम् ॥ ८९ ॥
तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः ॥
इदं स्नानवरं मन्त्रस्नानादष्टगुणं मतम् ॥ ९० ॥
सदा शुद्धमना यस्तु स शुद्धः सर्वकर्मसु ॥
अथ मानसिकस्नानं मनसा मूलमन्त्रतः ॥ ९१ ॥
प्राणानायम्य कुर्वीत दृष्टतीर्थेषु भावतः ॥
यद्वा शिवात्मकैर्मन्त्रैः कृत्वा तीर्थं शिवात्मकम् ॥ ९२ ॥
मार्जनं संहितामन्त्रैः शिवस्नानमितीरितम् ॥
स्नानपूर्वाः क्रियाः शुद्धाः सर्वाः सिद्धिं प्रयान्ति च ॥ ९३ ॥
तस्मात्स्नानं पुरा कुर्यादेष्वेकं देहशक्तितः ॥
ततस्तु तिलकं कुर्याज्जातेर्वा दैवतस्य च ॥ ९४ ॥
यद्यच्छुभफलं तीर्थमृद्भिर्वा भक्तिभवतः ॥
ब्राह्मणस्योर्ध्वपुण्ड्रं स्यात्क्षत्रियस्य त्रिपुण्ड्रकम् ॥ ९५ ॥
अर्धचन्द्रन्तु वैश्यस्य शूद्राणां वर्तुलाकृति ॥
ऊर्ध्वपुण्ड्रं मृदा कुर्यात्त्रिपुण्ड्रं चैव भस्मना ॥ ९६ ॥
केशरेण च कस्तूर्या शेषं शीतं यथारुचि ॥
वैष्णवस्योर्ध्वपुण्ड्रं स्यात्त्रिपुण्ड्रं शिवसेवने ॥ ९७ ॥
अर्धचन्द्रं गणेशस्य देवीभक्तस्य वर्तुलम् ॥
नारायणपरो यस्तु चन्द्रं तस्य त्रिशूलकम् ॥ ९८ ॥
भाले विभूतिमान्योसौ ब्रह्मविष्णुशिवात्मकः ॥
भूतिदा तु विभूतिः स्याद्विधिना विधृता यदि ॥ ९९ ॥
यथाकथञ्चिद्विधृता भस्मसात्कुरुते जनम् ॥
शिवाग्नेर्भस्म सङ्ग्राह्यमग्नीषोमोद्भवन्तु वा ॥ १०० ॥
वैवाह्याग्न्युद्भवं वापि पक्वं शुचि सुगन्धि च ॥
कपिलायाः शकृद्वस्त्रगृहीतं गगने पतत ॥ १०१ ॥
न क्लिन्नं नापि क्वथितं न दुर्गन्धि न वोषितम् ॥
उपर्यधः परित्यज्य गृह्णीयात्पतितं हृदा 15 ॥
पिण्डीकृत्य शिवाग्नौ तु तत्क्षिपेन्मूलमन्त्रतः ॥ १०२ ॥
अपक्वमपि पक्वं च सन्त्यज्य भसितं सितम् ॥
आदाय वाससाऽलोड्य भस्माधारे विनिःक्षिपेत् ॥ १०३ ॥
भस्मसङ्ग्रहणं कुर्याद्देवेनुद्वासने सति ॥
उद्वासने कृते यस्माच्चण्डभस्म प्रजायते ॥ १०४ ॥
यद्वा द्विजातिभस्मेत्थं सद्येनानीय 16 गोमयम् ॥
वामेन 17 पात्रे संयोज्याघोरमन्त्रेण 18 निर्दहेत् ॥ १०५ ॥
पुरुषेण 19 समुद्धृत्य ईशानेन 20 विशोधयेत् ॥
इत्थन्तु संस्कृतं भस्म अग्निरित्यादिमन्त्रतः 21 २।
ॐ स्थलमिति भस्म, ३।
ॐ वायुरिति भस्म, ४।
ॐ व्योमेति भस्म, ५।
ॐ सर्वं ह वा इदं भस्म ६ ॥
] ॥ १०६ ॥
यातेरुद्रेति 22 यजुषा मन्त्रयेदुद्रसञ्ज्ञया ॥
प्रणवाद्यैश्चतुर्थीहृदन्तैर्नामभिरंशकैः 23 ॥ १०७ ॥
पञ्चवर्णाद्यक्षराद्यैर्मालांशैर्हरहृद्युतैः 24 ॥
त्रिपुण्ड्रधारणं कुर्यान्मूर्ध्नि पञ्चाक्षरेण तु ॥ १०८ ॥
एभिश्च नामभिर्धार्यं पुनर्भस्म द्विजातिभिः ॥
ब्रह्मा ललाटे विज्ञेयो हृदये हव्यवाहनः ॥ १०९ ॥
नाभौ स्कन्दो गले पूषा रुद्रा दक्षिणबाहुके ॥
आदित्यो बाहुमध्ये च शशी च मणिबन्धने ॥ ११० ॥
वामदेवो वामबाहौ बाहुमध्ये प्रभञ्जनः ॥
मणिबन्धे च वसवः पृष्ठदेशे हरिः स्मृतः ॥ १११ ॥
शम्भु ककुदि सम्प्रोक्तः परमात्मा शिवः स्मृतः ॥
कस्तूर्यादिकसंयुक्तं भस्म स्यात्तत्तु धारयेत् ॥ ११२ ॥
अद्विजैर्मूलमन्त्रेण शिवपञ्चाक्षरेण वा ॥
त्रिपुण्ड्रं कारयेद्भाले ब्रह्मविष्णुशिवात्मकम् ॥ ११३ ॥
मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रितम् ॥
अनामामध्यमाङ्गुष्ठैरथवास्यात्त्रिपुण्ड्रकम् ॥ ११४ ॥
वक्ष्येथ तान्त्रिकीं सन्ध्यां मूलेनाचमनत्रयम् ॥
शिखां बद्ध्वा तु मूलेन प्राणायामत्रयं चरेत् ॥ ११५ ॥
अङ्गानि विन्यसेद्देहे करन्यासपुरस्सरम् ॥
अमृतीकृत्य पुरतो जलं वै धेनुमुद्रया 25 ॥
अभिमन्त्र्य च मूलेन सप्तवारन्ततः परम् ॥ ११६ ॥
अकारादिक्षकारान्तैर्मातृकार्णैस्सबिन्दुभिः 26 ॥
प्रत्यर्णं प्रोक्षयेन्मूर्ध्नि कुशैर्मूलेन च त्रिधा ॥ ११७ ॥
देवं ध्यात्वा च मनुना ज्ञानमण्डलसंस्थितम् ॥
आदाय तोयमामन्त्रैर्बीजैर्भूतात्मकैस्तथा ॥ ११८ ॥
लं वं रं हम् इति च तन्मन्त्रैः सप्तधा जलम् ॥
मन्त्रयित्वा पुनः सप्तवारं मूलेन मन्त्रयेत् ॥ ११९ ॥
तज्जलं वामहस्तेन धार्यं तत्प्लुतबिन्दुभिः ॥
दक्षहस्तेन सम्प्रोक्ष्य कम्पठेन्मूलमन्त्रकम् ॥ १२० ॥
हस्तव्यत्यासतो वामाचारी सेचनमाचरेत् ॥
नासामाश्रित्य शिष्टेन तेजोरूपेण तेन तु ॥ १२१ ॥
प्रविश्यान्तर्गतो देवो मलं संशोध्य निर्गतः ॥
दक्षनासापुटेनैतत्स्मृत्वा दक्षिणहस्तकम् ॥ १२२ ॥
वामभागे वज्रशिलां ध्यात्वास्त्रेण च तत्क्षिपेत् ॥
प्रक्षाल्य हस्तावाचम्य मूलमन्त्रेण मन्त्रवित् ॥ १२३ ॥
गायत्र्या वाथ मूलेन दद्यादर्घ्यत्रयन्ततः ॥
रविमण्डलसंस्थाय स्वेष्टदेवाय तर्पयेत् ॥ १२४ ॥
जलेन मूलमन्त्रेण ह्यमुकं तर्पयामि च ॥
उक्त्वा त्रिधा तर्पणीयं वामकैः कारणेन तु ॥ १२५ ॥
इष्टदेवस्य गायत्रीमष्टाविंशतिसङ्ख्यकाम् ॥
जपेदभावे ब्राह्मीं तु वैदिकं मतमाश्रितः ॥ १२६ ॥
तान्त्रिकः शिवगायत्रीं जपेत्साथ निरूप्यते ॥
ॐ तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि ॥
तन्नः शिवः प्रचोदयात् ॥ १२७ ॥
ततः शुद्धमना मौनी मूलमष्टोत्तरं शतम् ॥
जपित्वा चार्पयेदेवं स्तुत्वा नत्वेष्टदेवताम् ॥ १२८ ॥
सूर्यमण्डलतो देवं विन्यसेद्धृदये स्वके ॥
ततो गुरूंश्च प्रणमेदिति सन्ध्या तु तान्त्रिकी ॥ १२९ ॥
त्रिकालमेवं कर्तव्या सन्ध्यालोपात्फलं नहि ॥
दैवतो यदि लोपश्च तदा मूलं शतं जपेत् ॥ १३० ॥
प्रायश्चित्ताय 27 तं कृत्वा कुर्वीत समयागताम् ॥
वैदिकं तर्पणं कृत्वा ततस्तान्त्रिकमाचरेत् ॥ १३१ ॥
प्राणात्रयामयं कृत्वा मूलेन न्यासमाचरेत् ॥
ऋष्यादित्रितयस्याथ पुरतो धेनुमुद्रया ॥ १३२ ॥
वं जपन्नमृतीकृत्य जलं तत्र सचक्रकम् ॥
साङ्गावरणकं देवं ध्यात्वा मूलं समुच्चरेत् ॥ १३३ ॥
अमुकं तर्पयामीति चोक्त्वा चाष्टोत्तरं शतम् ॥
तदर्थमथवा विंशत्यष्टयुक्तमुखाब्जके ॥ १३४ ॥
देवस्यामृतबुद्ध्या तत्तीर्थतोयैः प्रतर्पयेत् ॥
तदावरणदेवांश्च तद्वदेकैकवारकम् ॥ १३५ ॥
सन्तर्प्य देवं स्वहृदि तीर्थे सूर्यंविसर्जयेत् ॥
गुरुं दिगीशांश्च खगान्नता भाण्डं करे दधत् ॥ १३६ ॥
एकान्तं निर्जनं यायान्मनोज्ञं दोषवर्जितम् ॥
दिगन्तरं न वीक्षेत यावत्प्राप्नोति वै गृहम् ॥ १३७ ॥
प्रदक्षिणं यज्ञवाटं कृत्वा पादौ च हस्तकौ ॥
प्रक्षाल्याचम्य पूजाया गृहद्वारान्तरे स्थितः ॥ १३८ ॥
गेहे च द्वारदेशस्थः प्रणम्य मनसा गुरुम् ॥
प्रणमेदिष्टदेवं स्वं दिक्पालानपि चेतसा ॥ १३९ ॥
यत्पूर्वमर्जितं पापं तद्दिनेऽन्यदिनेपि वा ॥
तत्पापस्यापनोदार्थं मन्त्रद्वयमुदीरयेत् ॥ १४० ॥
हे देव प्राकृतं चित्तं पापाक्रान्तमिदम्मनः ॥
तन्निस्सारय चित्तान्मे पापं फट् हुं च ते नमः ॥ १४१ ॥
सूर्यः सोमो यमः कालो महाभूतानि पञ्च च ॥
एते शुभाशुभस्येह कर्मणो नृषु साक्षिकाः ॥ १४२ ॥
हुम्फडिति बूयात्क्रोधदृष्ट्या पश्येच्च पार्श्वयोः ॥
एवङ्कृते प्रथमतः पापोत्सादनकर्मणि ॥ १४३ ॥
यत्स्याद्दृढतरं पापं तद् दूरे चात्र तिष्ठतु ॥
अतीते पूजनं स्थानं स्वं प्रयातु पुनश्चतत् ॥ १४४ ॥
यत्स्यादल्पतरं पापं तन्नाशमुपगच्छतु ॥
पूजां त्यक्त्वास्य पापास्यकाममिष्टं क्षणाद्भवेत् ॥ १४५ ॥
ततः प्रक्षाल्य पादौ च हस्तावाचम्य यत्नतः ॥
दद्यादर्घ्यं दिनेशाय तत्प्रकार इहोच्यते ॥ १४६ ॥
गोमयेनोपलिप्तायां भूमौ कृत्वा तु मण्डलम् ॥
सिन्दूरेण ततः पश्चादुपविश्य निजासने ॥ १४७ ॥
प्राङ्मुखः प्रणमेदिष्टदेवतां भक्तितत्परः ॥
प्राणायामत्रयं कृत्वा सूर्यमन्त्रेण मन्त्रवित् ॥ १४८ ॥
ह्रीं ह्रीं स इतिसूर्यस्य त्र्यक्षरो मन्त्र ईरितः ॥
विन्यस्य च तथेन्द्रादीन्ध्यात्वा सूर्यमनन्यधीः ॥ १४९ ॥
पद्मद्वयाभयवरान्दधतं कराब्जैर्माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम् ॥
रक्ताम्बुजासनमशेषगुणैकसिन्धुं भानुं समस्तजगतामधिपं भजामि ॥ १५० ॥
तत्कल्पोक्तविधानेन पूजयेदुपचारकैः ॥
पुरतो मण्डलं कृत्वा जलेन चतुरस्रकम् ॥ १५१ ॥
निधाय तत्र साधारं सजलं ताम्रपात्रकम् ॥
गन्धपुष्पाक्षतान्दर्भदूर्वासर्षपसंयुतान् ॥ १५२ ॥
सतिलान्युक्तपुष्पाणि यवांश्चापि प्रविन्यसेत् ॥
सूर्यं मन्त्रेण तत्पात्रं स्पृशन्नष्टोत्तरं शतम् ॥ १५३ ॥
अभिमन्त्र्य च तत्पात्रं समुत्थाय करद्वयात् ॥
मूर्द्धान्तं सूर्यमन्त्रेण दद्यादर्घ्यं विचक्षणः ॥ १५४ ॥
ह्रीं 28 ह्रीं सः सग्रहराशिनक्षत्रपदमुच्च्रेत् ॥
ततश्चयोगकरणे परिवृत्तासनेति च ॥ १५५ ॥
संस्थितः श्रीसूर्यायैष तेर्घ्यः स्वाहा मनुस्स्मृतः ॥
चतुस्त्रिंशदक्षरोयं सूर्यस्यार्घ्यनिवेदने ॥ १५६ ॥
जपेत्तत्तु यथाशक्ति सूर्यमन्त्रमनन्यधीः ॥
तदर्घ्याम्बु तं सूर्यं ध्यायेद्देशिकसत्तमः ॥ १५७ ॥
स्तुत्वा प्रणम्य विसृजेन्मण्डलात्तं दिवाकरम् ॥
तत उत्थाय विधिवद्द्वारपूजां समाचरेत् ॥ १५८ ॥
द्वारमर्घ्याम्बुना प्रोक्ष्य तन्मध्ये विघ्नपं यजेत् ॥
तद्दक्षिणे महालक्ष्मीं वामे चापि सरस्वतीम् ॥ १५९ ॥
द्वारश्रियं च तन्मध्ये शाखयोर्दक्षिणान्ययोः ॥
ऊर्ध्वभागोत्तरं यावत्पञ्चपञ्चविभागके ॥ १६० ॥
नाम्नश्चाद्याक्षरं 29 बिन्दुनामयुक्तं च ङेन्तकम् ॥
समुच्चार्य हृदन्तं च देवानेतान्प्रपूजयेत् ॥ १६१ ॥
गणपतिं क्षेत्रपालं ततश्च वसुधारया ॥
युक्तं शङ्खनिधिं दक्षे वामे वसुमतीयुतम् ॥ १६२ ॥
पूजयित्वा पद्मनिधिं तदधो दक्षवामतः ॥
मायाशक्तिं च हृच्छक्तिं गङ्गां च यमुनां तथा ॥ १६३ ॥
धातारं च विधातारं दं देहल्यै नमोनमः ॥
आदौ तु पश्चिमद्वारपूजा चेयम्प्रकाशिता ॥ १६४ ॥
नन्दी चापि महाकालो द्वारयोर्दक्षवामयोः ॥
सम्पूज्यैवमुदग्द्वारं प्राग्याम्ये च प्रपूजयेत् ॥ १६५ ॥
द्वारपालौ क्रमात्तेषु गणेशवृषभावपि ॥
भृङ्गिरीटि तथा स्कन्द उमाचण्डेश्वरौ तथा ॥ १६६ ॥
विष्णोर्नन्दः सुनन्दश्च चण्डश्चापि प्रचण्डकः ॥
वलश्च प्रबलश्चैव भद्रश्चापि सुभद्रकः ॥ १६७ ॥
वक्रतुण्डश्चैकदन्तो 30 महोदरगजा ननौ ॥
लम्बोदरश्च विकटो गाणेशा द्वारपालकाः ॥ १६८ ॥
विघ्नराजो धूम्रवर्णः क्रमात्पश्चिमद्वारतः ॥
देव्याश्चैव तु योगिन्योष्टावेता द्वारपालिकाः ॥ १६९ ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराही च तथेन्द्राणी चामुण्डा च श्रिया सह ॥ १७० ॥
अथ वक्ष्ये द्वारदेवध्यानं तन्त्रेषु गोपितम् ॥
देवद्वारं द्वारदेवाः स्वयमुद्घाटयन्ति यत् ॥ १७१ ॥
पाशाङ्कुशफलाम्भोजपर्णपाणिञ्च तुन्दिलम् ॥
वीरं विघ्नेश्वरं वन्दे गजवक्त्रं त्रिलोचनम् ॥ १७२ ॥
पद्मद्वयवराभीतिलसत्पाणिचतुष्टयाम् ॥
निर्दग्धहेमगौराङ्गीं महालक्ष्मीं त्रिलोचनाम् ॥ १७३ ॥
अक्षस्रक्पुस्तकाभीतिवरहस्तां त्रिलोचनाम् ॥
श्वेतपद्मासनां शुक्लां श्वेतवस्त्रां सरस्वतीम् ॥ १७४ ॥
कपालशूलविलसत्कृपाणं कृष्णविग्रहम् ॥
त्र्यक्षं तीक्ष्णं भावयामि क्षेत्रेऽस्मिन् क्षेत्रनायकम् ॥ १७५ ॥
वसुन्धरान्दक्षभुजेनालिङ्ग्य तु सुभाण्डिनम् ।
वामे शङ्खधरं मुक्तानिभं शङ्खनिधिम्भजे ॥ १७६ ॥
आलिङ्गन्तं वसुमतीं ललाटे पद्मचिह्नितम् ॥
भजे पद्मनिधिं नित्यं वामेनोत्पलधारिणम् ॥ १७७ ॥
वराङ्कुशामीतिपाशहस्तां संसारमूलिकाम् ॥
त्रिनेत्रां श्यामवर्णान्तां श्यामां मायामहं भजे ॥ १७८ ॥
पाशाङ्कुशवराभीतिं दधानामरुणप्रभाम् ॥
ग्राहारूढामहं वन्दे गङ्गां सर्वसरिद्वराम् ॥ १७९ ॥
कृष्णकच्छपमारूढां कण्ठे नीलोत्पलस्रजम् ॥
वराभयकरां वन्दे कालिन्दीं कालविग्रहाम् ॥ १८० ॥
कर्तारं जगतां वन्दे शङ्खचक्रगदाम्बुजम् ॥
बिभ्राणं गरुडारूढं धातारं कृष्णविग्रहम् ॥ १८१ ॥
रक्तं रक्तारविन्दाक्षं वराभयकमण्डलुम् ॥
हंसारूढं विधातारं वन्दे त्र्यक्षसमन्वितम् ॥ १८२ ॥
सिंहारूढां श्यामवर्णां खड्गखेटकधारिणीम् ॥
अधःस्थां देहलिं वन्दे पश्चिमास्यां सुदक्षिणाम् ॥ १८३ ॥
पश्चिमद्वारमासाद्य तालत्रितयपूर्वकम् ॥
द्वारमुद्घाट्य चास्त्रेण मन्त्रितान्सर्षपाक्षतान् ॥ १८४ ॥
पुष्पयुक्तांस्तु विकिरेन्मण्डपाभ्यन्तरे बुधः ॥
नाराचमुद्रया 31 सम्यगस्त्रमन्त्रेण देशिकः ॥ १८५ ॥
अपक्रामन्तु भूतानि पिशाचाः सर्वतोदिशम् ॥
याश्चात्रनिवसन्त्यन्यदेवता भुवि संस्थिताः ॥ १८६ ॥
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ॥
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ १८७ ॥
श्लोकयोरन्ततश्चास्त्रं पठन्नाराचमुद्रया ॥
जह्यात्तान्मण्डपस्यान्तस्ततो विघ्नांस्तु निर्गतान् ॥ १८८ ॥
स्ववामाङ्गस्य सङ्कोचान्मार्गन्दत्त्वापसारयेत् ॥
अस्त्रमन्त्रं स्मरन्वामपार्ष्णिघातत्रयेण च ॥ १८९ ॥
भौमानुत्सादयेत्तालत्रितयेनान्तरिक्षगान् ॥
तिर्यग्दृष्ट्यवलोकेन दिव्यान्विघ्नान्निवारयेत् ॥ १९० ॥
दक्षपादम्पुरस्कृत्य प्रविशेद्देवमन्दिरम् ॥
शाक्तस्तु वामपादेन द्वारमाच्छाद्य वाससा ॥ १९१ ॥
पञ्चगव्यार्घ्यतोयाभ्यां प्रोक्षयन्मण्डपान्तरम् ॥
सम्मार्जनोपलेपाद्यैर्दर्पणोदरवत्कृतम् ॥ १९२ ॥
विमलं धूपदीपादिपुष्पदामाभिशोभितम् ॥
पञ्चवर्णरजश्चित्रं स्थानशुद्धिरियं मता ॥ १९३ ॥
नैर्-ऋत्यामर्चयेद्वास्तुपुरुषं चन्दनादिभिः ॥
तत्रैव वास्त्वधीशं च ब्रह्मणे नम इत्यपि ॥ १९४ ॥
रक्तवर्णं रक्तवर्णशक्तिद्वादशसंयुतम् ॥
पूजयित्वा दीपनाथं भैरवं प्रार्थयेदिति ॥ १९५ ॥
अतितीक्ष्ण महाकाय कल्पान्तदहनोपम् ॥
भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ १९६ ॥
ॐ फडिति च मन्त्रेण पूजावेदीं ततो विशेत् ॥
संस्कुर्यादासनस्थानं चतुर्भिर्वीक्षणादिभिः ॥ १९७ ॥
संस्कारे तत्र सम्पूज्या वेद्यन्ताः पीठदेवताः ॥
आधारशक्तिमारभ्य स्वासनं तत्र विन्यसेत् ॥ १९८ ॥
पूजासनमथात्मीयं चैलाजिनकुशोत्तरम् ॥
तत्रोपविश्य विधिवत्स्मरेद्विष्णुं गुरुं तथा ॥ १९९ ॥
मेरुपृष्ठ ऋषिः प्रोक्तः सावित्रीछन्द ईरितम् ॥
पृथिवी देवता प्रोक्ता विनियोगो निजासने ॥ २०० ॥
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ॥
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥ २०१ ॥
आसनस्य चतुष्कोणे गणेशं च सरस्वतीम् ॥
दुर्गां क्षेत्रपतिञ्चापि वह्न्यादिषु 32 समर्चयेत् ॥ २०२ ॥
उदङ्मुखः प्राङ्मुखो वा स्वस्तिकासनमास्थितः 33 ॥
पद्मासनगतो 34 वापि ऋजुकायो मनस्स्थिरः ॥ २०३ ॥
स्थापयेद्दक्षिणे भागे पूजाद्रव्याणि चात्मनः ॥
सुवासिताम्बुसम्पूर्णं सव्ये कुम्भं सुशोभनम् ॥ २०४ ॥
प्रक्षालनाय करयोः पात्रे पृष्ठे निवेशयेत् ॥
घृतादिज्वलितान्दीपान्स्थापयेत्परितः शुभान् ॥ २०५ ॥
दर्पणं चामरं छत्रं तालवृन्तञ्च पादुके ॥
यथायथन्तु संस्थाप्य संस्कुर्यात्तानि चात्मवान् ॥ २०६ ॥
पुष्पनैवेद्यगन्धादीन् ह्रीं ह्रूं फडिति मन्त्रतः ॥
नाराचमुद्रया दृष्ट्वा समयांश्च विलोकयन् ॥ २०७ ॥
दृष्टं वाचात्मविज्ञातं सम्यक् पुष्पादिदूषणम् ॥
अस्पृश्यस्पर्शनं वापि यदन्यायार्जितञ्च वा ॥ २०८ ॥
तथा निर्माल्यसंस्पृष्टं कीटाद्यारोहणञ्च यत् ॥
तत्पूर्वन्नाशमायाति नैवेद्याद्यवलोकनात् ॥ २०९ ॥
ततो रमिति मन्त्रेण शिखां दीपस्य संस्पृशेत् ॥
स तु स्याच्छुभदो दीपो निष्क्रव्यादः सुखप्रदः ॥ २१० ॥
पतङ्गकीटकेशादिदाहात्क्रव्यादसञ्ज्ञितः ॥
वसामज्जादिसम्भूतैर्घृताद्यैरुपयोजितम् ॥ २११ ॥
अज्ञानरूपं तत्सर्वं दोषं स्पर्शाद्विनश्यति ॥
क्षौम्बीजमुच्चरेन्मन्त्री देवतीर्थेन 35 संस्पृशेत् ॥ २१२ ॥
पानीयं घटमध्यस्थं दृष्ट्वा सम्यक् च साधकः ॥
वामेन पाणिना धृत्वा वामपार्श्वस्थितं घटम् ॥ २१३ ॥
पात्राधारे न्यसेन्न्यूनं यदत्राज्ञानतो भवेत् ॥
जलाशयशवस्पर्शाज्जलं स्थाने च सङ्गतम् ॥ २१४ ॥
इत्यादि दूषणं नश्येत्तत्प्रियं देवपूजने ॥
ततः कृताञ्जलिः पूतो वामदक्षिणपार्श्वयोः ॥ २१५ ॥
गुरुं गणपतिं नत्वा पुरतः स्वेष्टदेवताम् ॥
सुगन्धपुष्पाण्यादाय चन्दनाक्तानि मन्त्रवित् ॥ २१६ ॥
हौं मन्त्रेणाथ करयोरस्त्रमन्त्रेण मर्दयेत् ॥
तत्पुष्पं वामहस्तेन समादाय च मस्तकम् ॥ २१७ ॥
भ्रामयेत् 36 परितस्तारं 37 जपन्नाघ्राय तत्पुनः ॥
हौं ॐ 38 पूर्वम्पठेच्छोकमिमं साधकसत्तमः ॥ २१८ ॥
सर्वत्र विलयं यान्तु ये मां हिंसन्ति हिंसकाः ॥
मृत्युरोगभयक्लेशाः पतन्तु रिपुमस्तके ॥ २१९ ॥
अस्त्रमन्त्रेण 39 नाराचमुद्रयेशदिशि त्यजेत् ॥
करशुद्धिं ततोस्त्रेण कुर्यात्तालत्रयं ततः ॥ २२० ॥
ऊर्ध्वोर्ध्वमस्त्रमन्त्रेण दिग्बन्धमपि तेन च ॥
तेन सम्पतितं तेजो वह्निप्राकारमुद्रया ॥ २२१ ॥
रक्षेदात्मनि शूलेन प्राणायामत्रयं चरेत् ॥
भूतशुद्धिं ततः कुर्यात्तत्प्रकारमथ ब्रुवे ॥ २२२ ॥
पादतो जानुपर्यतं चतुरस्रं सचक्रकम् ॥
लंयुतं पीतवर्णं च भूस्थानं ब्रह्मदैवतम् ॥ २२३ ॥
अधिष्ठितं निवृत्त्याख्यकलया स्थानमुच्यते ॥
समुत्पत्तेस्तु जीवानामेवं रूपं विचिन्तयेत् ॥ २२४ ॥
जान्वोरानाभिपर्यन्तमपां स्थानं सितप्रभम् ॥
अर्धचन्द्रनिभं शृङ्गद्वयं तत्पद्मलाञ्छितम् ॥ २२५ ॥
षट्कोणं बिन्दुभिः षट्कैर्युतं वम्बीजसंयुतम् ॥
प्रतिष्ठाकलया युक्तं ध्यायेत्तद्विष्णुदैवतम् ॥ २२६ ॥
नाभ्यादिकण्ठपर्यन्तमारक्तं रुद्रदैवतम् ॥
रम्बीजयुक्तं कलया युतं विद्याख्यया तथा ॥ २२७ ॥
दीप्तिमत्स्वस्तिकोपेतं त्रिकोणाकारतां गतम् ॥
महाप्रलयवत्स्थानं वह्नितत्त्वं विचिन्तयेत् ॥ २२८ ॥
कण्ठाद्भ्रूमध्यपर्यन्तं षट्कोणाकारतां गतम् ॥
षड्बिन्दुलाञ्छितं वृत्तं कृष्णवर्णकम् ॥ २२९ ॥
वायुस्थानं शान्तिकलाधिष्ठितं शिवदैवतम् ॥
यम्बीजरूपं ध्यात्वेत्थं प्राणरूपं विचिन्तयेत् ॥ २३० ॥
भ्रूमध्याद्ब्रह्मरन्ध्रान्तमाकाशस्थानमुच्यते ॥
वृत्ताकारन्धूम्रवर्णं महोच्चध्वजलाञ्छितम् ॥ २३१ ॥
शान्त्यतीताख्यकलयाधिष्ठितं शिवदैवतम् ॥
हम्बीजयुक्तं ध्यात्वेत्थं देहे भूतानि विन्यसेत् ॥ २३२ ॥
धर्मकन्दसमुद्भूतं ज्ञाननालसुशोभितम् ॥
कृत्वा तत्कर्णिकासंस्थं प्रदीपकलिकानिभम् ॥ २३३ ॥
सुषुम्णावर्त्मना जीवं परमात्मनि योजयेत् ॥
योगयुक्तेन विधिना सोहम्मन्त्रेण साधकः ॥ २३४ ॥
तेनैव सर्वभूतानि विलीनानि विचिन्तयेत् ॥
शरीरे वामकुक्षौ तु चिन्तयेत्पापपूरुषम् ॥ २३५ ॥
वामकुक्षिस्थितं पापपूरुषं कज्जलप्रभम् ॥
ब्रह्महत्याशिरस्कन्धं स्वर्णस्तेयभुजद्वयम् ॥ २३६ ॥
सुरापानहृदायुक्तं गुरुतल्पकटिद्वयम् ॥
तत्संसर्गपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ॥ २३७ ॥
उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ॥
खड्गचर्मधरं क्रूरं रुष्टं पापं विचिन्तयेत् ॥ २३८ ॥
तथा संशोषयेदेनं पूरकादिक्रमेण वै ॥
विधाय प्राणसंरोधं वायुबीजेन वायुना ॥ २३९ ॥
मूलाधारोत्थितेनैव वह्निना निर्दहेच्च तत् ॥
एवं सन्दह्य परितो द्वात्रिंशन्मात्रया ततः ॥ २४० ॥
भस्मना सहितं मन्त्री रेचयेदिडया पुनः ॥
वामनाड्यां चन्द्रबीजं कुन्देन्द्वयुतसुप्रभम् ॥ २४१ ॥
भालेन्दुराजे संयोज्य ततः षोडशमात्रया ॥
सुषुम्णया चतुष्षष्टिमात्रया तोयबीजकम् ॥ २४२ ॥
ध्यात्वामृतमयीं सृष्टिं पञ्चाशद्वर्णरूपिणीम् ॥
तया देहं विचिन्त्यैवं मनसा पिङ्गलाध्वना ॥ २४३ ॥
द्वात्रिंशन्मात्रया मन्त्री लम्बीजेन दृढं नयेत् ॥
सञ्जाते सकले देहे देवतोपासनक्षमे ॥ २४४ ॥
आत्मलीनानि तत्त्वानि स्वस्थानं प्रापयेत्ततः ॥
आत्मानं हृदयाम्भोजादानयेत्परमात्मनः ॥ २४५ ॥
हंसमन्त्रेण विधिवत्तेजोरूपं कलेवरम् ॥
देवताराधने योग्यमुत्पन्नमिति भावयेत् ॥ २४६ ॥
भूतशुद्धिविहीनेन कृता पूजाभिचारवत् ॥
विपरीतफलं दद्यादभक्त्या पूजनं यथा ॥ २४७ ॥
भूतशुधिं विधायेत्थं प्राणस्थापनमाचरेत् ॥
प्राणप्रतिष्ठामन्त्रस्य 40 मुनयोजेशपद्मजाः ॥ २४८ ॥
ऋग्युजुस्सामच्छन्दांसि प्राणशक्तिस्तु देवता ॥
ऋषीञ्च्छिरसि वक्रे तुच्छन्दांसि हृदि देवताम् ॥ २४९ ॥
आम्बीजाय नमो गुह्ये पादे ह्रीं शक्तये नमः ॥
नाभौ नमः क्र्ॐ कीलाय नियोगोऽसुस्थिताविति ॥ २५० ॥
ॐ आं ह्लीं क्र्ॐ अङ्कवर्गं सानुस्वारं नमो हृदि ॥
पञ्चतत्त्वं समुच्चार्य दीर्घाकारं तथैव च ॥ २५१ ॥
इञ्चवर्गञ्च शब्दादिशिरसे वह्निगेहिनी ॥
तानि बीजानि उं तादृक्टवर्गं श्रोत्रकादि च ॥ २५२ ॥
प्रोक्त्वा तदात्मनेत्रैव शिखायै च वषड्वदेत् ॥
तानि बीजानि एं तुं च वागादीनि तदात्मने ॥ २५३ ॥
ऐमुक्त्वा कवाअयेति हुं वदेत्तदनन्तरम् ॥
चतुर्बीजं च पूर्वोक्तम्ॐ पवर्गं च तादृशम् ॥ २५४ ॥
वाण्याद्यात्मन औं नेत्राय वौषट् च तथा वदेत् ॥
चतुर्बीजं च अन्तादृग्यवर्गं मन-आदि च ॥ २५५ ॥
तदात्मने स्वरश्चान्त्योस्त्राय फट् चेति संवदेत् ॥
अङ्गुष्ठादौ हस्ततलान्ते न्यसेदेवमेव हि ॥ २५६ ॥
नाभ्यधश्चापि कण्ठाधो मूर्द्धाधोथ तदन्तकम् ॥
आं ह्रीं क्र्ॐ क्रमतो न्यस्य हृत्पद्माष्टदलेषु च ॥ २५७ ॥
पूर्वतः क्रमतो वर्णान् कर्णिकायां हृदन्तकान् ॥
लं रं हं षं यं च वं च सं शं क्षम् इति वर्गतः ॥ २५८ ॥
दिक्षु न्यसेत्ततो ध्यायेत्प्राणशक्तिं हृदि स्थिताम् ॥
तस्या ध्यानं यदत्रैव तद्ब्रवीमि शृणु प्रिये ॥ २५९ ॥
रक्ताब्धिपोतारुणपद्मसंस्थां पाशाङ्कुशेष्वासवरासिबाणान् ॥
शूलं कपालं दधतीं कराब्जै रक्तां त्रिनेत्राम्प्रणमामि देवीम् ॥ २६० ॥
इति प्राणशक्तिध्यानम् ॥
हस्तं निधाय हृदये प्राग्बीजं 41 यादिकाष्टकम् ॥
हंसः सोहं मम प्राणा वदेदिह द्विरुक्तितः ॥ २६२ ॥
उक्त्वा तथैव च पिनर्मम जीव इह स्थितः ॥
पुनस्तदुक्त्वामम तु वाङ्मनश्चक्षुरुच्चरेत् ॥ २६३ ॥
श्रोत्रं घ्राणः प्राण इहागत्य सुखं चिरन्ततः ॥
तिष्ठन्तु वह्निजायान्तमुक्त्वा तारं ततो जपेत् ॥ २६४ ॥
वपुर्ज्योतिर्मयं ध्यायेदिति स्यात्प्राणसंस्थितिः ॥
प्राणायामत्रयं कृत्वा मातृकान्यासमाचरत् ॥ २६५ ॥
प्राणायामास्त्रिधा प्रोक्तास्तान्त्रवैदिकयौक्तिताः ॥
संसिद्धिः पापनाशाय योगसिद्धिः फलं क्रमात् ॥ २६६ ॥
मातृकाख्यश्च मन्त्राख्यस्तान्त्रिको द्विविधो मतः ॥
मातृकाख्यो जपस्यादौ जपस्यान्ते कृतो यदि ॥ २६७ ॥
वर्णव्यत्यासादिदोषानशेषान्हन्ति तं शृणु ॥
वामया 42 पूरयेद्वायुं स्वरैः काद्यैश्च कुम्भके ॥ २६८ ॥
रेचयेद्यादिभिर्दक्षनासायां मातृकादिभिः यावच्छक्तोनियम्यासुं मनसैव मनुं जपेत् ॥ २६९ ॥
कनिष्ठानामिकाङ्गुष्ठैर्नासां धृत्वा तु मान्त्रिकः ॥
प्राणायामत्रयं प्रोक्तं यदन्यन्मनसा कृतम् ॥ २७० ॥
जपपूजादिकं तस्य दोषमेष व्यपोहति ॥
गायत्रीं शिरसा सार्द्धं सप्तव्याहृतिपूर्विकाम् ॥ २७१ ॥
प्रतिप्रणवसंयुक्तां त्रिर्जपेत्स इहोत्तमः ॥
मध्यमूलाद्यावदग्रमङ्गुष्ठेन निपीड्यते ॥ २७२ ॥
मात्रा सा प्रोच्यते सद्भिर्योगेभीष्टं प्रयच्छति ॥
जानुप्रदक्षिणी कुर्याद्यावत्कालेन हस्तकः ॥ २७३ ॥
तावत्कालमिता मात्रा स्वनिश्वाससमापि च ॥
जघन्यो रविमात्रः स्याज्जिनमात्रस्तु मध्यमः ॥ २७४ ॥
श्रेष्ठः षड्वर्गमात्रः स्याद्योगत्रयसुसाधकः ॥
केवले कुम्भके सिद्धे सिद्धिस्स्याद्राजयोगजा ॥ २७५ ॥
वीर्यस्तम्भश्च वह्वायुर्वलीपलितनाशनम् ॥
पूरके कुम्भके सिद्धे क्रियायोगस्य सिद्धयः ॥ २७६ ॥
पूर्वोक्तान च न शीतोष्णबाधाक्षुत्तृड्भवापि च ॥
पूरकः कुम्भको रेचो यदा तुल्यः प्रजायते ॥ २७७ ॥
हठयोगस्तदा सिद्धो ह्यणिमाद्यष्टसिद्धये ॥
ईषत्फलं जघन्ये तु मध्यं मध्ये परेखिलम् ॥ २७८ ॥
निरन्तराब्दत्रितयाभ्यासात्सर्वं भवेत्फलम् ॥
प्राणायामविधिः प्रोक्तो मया तुभ्यं वरानने ॥ २७९ ॥
ऋषिर्गुरुत्वाच्छिरसि वर्णत्वाच्छन्द आनने ॥
चित्तज्ञादेवतायास्तु हृदये धारणं मतम् ॥ २८० ॥
ऋगताविति धातुस्तु ऋवर्णः प्रापको मतः ॥
षिः षणार्थस्तु विज्ञानमतस्तत्प्रापकस्तु सः ॥ २८१ ॥
छदिर्धातुरितीच्छायामत्र यस्मात्प्रवर्तते ॥
मुखमिच्छाप्रदं छन्दो मन्त्रार्थच्छादनात्तु वा ॥ २८२ ॥
क्रीडार्थको दिविर्धातुः सम्पूर्णं देवतापदम् ॥
साधकेष्टं ददातीति देवता परिकीर्तिता ॥ २८३ ॥
रक्षमाणो यदात्मीय हृदयेस्ति चिदात्मकः ॥
तस्मात्तं च नमस्कुर्यान्मुख्याङ्गुष्ठेन संस्पृशेत् ॥ २८४ ॥
स्वाहया क्रियते सम्यग्विष्टपाहरणं यतः ॥
अनामातर्जनीभ्यां सा चाकृष्टाभ्यामिहेष्यते ॥ २८५ ॥
शिखा वषट्पदं यच्च शिखयात्मतनुर्ग्रहः ॥
यस्मात्तस्माद्वषडिति क्रियतेङ्गुलिमध्यया ॥ २८६ ॥
ग्रहणार्थः कवचधातुर्हुंहस्तेन गृह्यते ॥
शरीरतस्तु कवचं तर्जन्यानामयाऽपि तत् ॥ २८७ ॥
यथार्थज्ञानकृद्वौषट् तन्नेत्राभ्यां प्रजायते ॥
तस्मात्तदुक्तं तत्र वौषट् तर्जन्याद्यैस्तु तत्स्मृतम् ॥ २८८ ॥
एकाक्षत्वात्कुबेरादिदेवेष्वेकं तमुच्चरेत् ॥
भ्यान्तं विष्ण्वादिके रुद्रादौ तु नेत्रत्रयात्मकम् ॥ २८९ ॥
आध्यात्मिकादिरूपं यत्साधकस्य विनीयते ॥
अविद्याजातमस्त्रं तत्फट् कराभ्यां प्रपञ्च्यते ॥ २९० ॥
प्राणायामं मातृकायाः कृत्वा न्यासान्समाचरेत् ॥
ते चैकविंशतिः प्रोक्ताः कामनाभेदतोपि च ॥ २९१ ॥
अधिकारिविभेदेन नित्यत्वेनापि केनचित् ॥
देवताभेदतो वापि तद्रहस्यन्निरूप्यते ॥ २९२ ॥
पुरुषे दैवते नित्या केवलं स्वरमातृका ॥
यन्न्यासादुपचर्याद्या धर्माः सिद्धान्तिसाधके ॥ २९३ ॥
ऋषिर्ब्रह्मा 43 देवता तु मातृकाख्या सरस्वती ॥
हलो बीजानि गायत्री छन्दः शक्तिः स्वरास्स्मृताः ॥ २९४ ॥
अव्यक्तं कलिमुद्दिष्टं नियोगोभीष्टसिद्धये ॥
दक्से 44 करतले तस्य पृष्ठे च करभे तथा ॥ २९५ ॥
अङ्गुष्ठादिष्वथो वामे विपर्यासेन विन्यसेत् ॥
बिन्दुयुक्तान्क्रमेणैव स्वरान्न्यासोऽयमादिमः ॥ २९६ ॥
अयं 45 चेन्न्यासतो वामः संहारन्यास उच्यते ॥
पापशत्रुक्षयाद्यर्थं क्रमेणादौ समाचरेत् ॥ २९७ ॥
सविसर्गैः 46 स्वरैर्यस्तु केवलं न्यासवत्कृतः ॥
सृष्टिन्यासः प्रयोगादौ कर्तव्यस्तस्य सिद्धये ॥ २९८ ॥
वामात्करतलात्तत्तु कनिष्ठान्तं तु विन्यसेत् ॥
अष्टौ स्वराṁलॢकारादींस्तथा दक्षतलादपि ॥ २९९ ॥
अकाराद्यान्बिन्दुसर्गयुक्तान्न्यासोयमीरितः ॥
स्थित्यादौ मुनिदेवादिप्राग्वत्कायस्थितावयम् ॥ ३०० ॥
ककारादिणकारान्तान्वर्णान्पञ्च दशैव हि ॥
अङ्गुष्ठादिकनिष्ठान्तं दक्षहस्तस्य पर्व ॥ ३०१ ॥
न्यसेद्बिन्दुयुतान्सर्वान्वामेप्येवं तु तादिकान् ॥
अङ्गुष्ठादिकनिष्ठान्तं 47 हस्तयुग्मेपि विन्यसेत् ॥ ३०२ ॥
युगपत्पादिकान्वर्णान्ब्रूयात्पञ्च नमोन्तकान् ॥
तत्तत्स्थने करं दत्त्वा करशुद्धिकरस्त्वयम् ॥ ३०३ ॥
अं-आम्मध्ये 48 कवर्गः स्यादि ईं मध्ये चवर्गकः ॥
उम् ऊं मध्ये टवर्गस्तु एम् ऐं मध्ये तवर्गकः ॥ ३०४ ॥
ॐ औं मध्ये पवर्गः स्यादम् अः मध्ये तु यादिकाः ॥
एभिः सबिन्दुकैरङ्गुल्यादिन्यासो हृदादिकः ॥ ३०५ ॥
कर्तव्योस्यापि ऋष्यादिविनियोगस्य सिद्धये ॥
49 षडङ्गशुद्ध्यै क्रोधादिजातपापनिवृत्तये ॥ ३०६ ॥
तालत्रयेण दिग्बन्धं प्रकुर्यादस्त्रमन्त्रतः ॥
ततो ध्यायेत्पद्मवर्णं श्वेतं शिरसि संस्थितम् ॥ ३०७ ॥
कर्णिकाया 50 निजं मन्त्रं संस्मरेत्केशराष्टके ॥
स्वरयुग्मं तथा पत्रेष्वपि सप्तसु कादिकान् ॥ ३०८ ॥
सप्तवर्गानष्टमेऽत्र लङ्क्षमेवं विचिन्तयेत् ॥
एवं चिन्तयतो रोगो ह्यपमृत्युर्विनश्यति ॥ ३०९ ॥
अथान्तर्मातृकान्यासं 51 वक्ष्येऽन्तःसिद्धिकारकम् ॥
यं कृत्वा योगिनां चित्तं पातके न प्रवर्तते ॥ ३१० ॥
मूलाधारे ध्वनिं श्रुत्वा प्रबुद्धा शक्तिकुण्डली ॥
क्वचित्पावकसङ्काशा सूक्ष्मतेजस्स्वरूपिणी ॥ ३११ ॥
बहिर्न्यासमथो वक्ष्ये पूर्वोक्तब्रह्मरन्ध्रके ॥
वर्णारविन्दे सन्ध्यायेन्मातृकाख्यसरस्वतीम् ॥ ३१२ ॥
पञ्चाशद्वर्णभेदैर्निजसुवदनदोःपादयुक्कुक्षिवक्षोदेशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् ॥
अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्थामक्षाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥ ३१३ ॥
गुणशतनागसङ्ख्याकश्लोकाद्रामशतदशसङ्ख्यापूरकपर्यं त-मेतच्चक्रवर्णान् ।
मूलादिब्रह्मरन्ध्रान्तं बिन्दुं चिदात्मकं ध्यात्वा तत्स्रुतसुधासारैर्मातृकां तर्पयेत् ।
तन्त्रान्तरेषु हंसः-इत्येतन्मनुस्थाने हसो लिखेत् ॥
भूपूरे पूर्वोक्तदिक्पालानां चायुधानां पूजा ।
एवं विभाव्यम् ॥
चित्रम्
ललाटे 52 मुखवृत्तेक्षिश्रवोनासासु गण्डयोः ॥
ओष्ठयोर्दन्त पङ्क्त्योश्च मूर्ध्नि वक्त्रे न्यसेत्स्वरान् ॥ ३१४ ॥
बाहुसन्धिषु साग्रेषु कचवर्गौ न्यसेत्सुधीः ॥
टतवर्गौ पदोदस्त द्वत्पार्श्वयोः पृष्ठदेशतः ॥ ३१५ ॥
नाभौ कुक्षौ पवर्गं च हृदं सककुततः ॥
न्यस्य यादि चतुर्वर्णाञ्छादिषट्कं ततो न्यसेत् ॥ ३१६ ॥
हृदादिकरयोरन्ध्र्योर्जठरे वदने तथा ॥
न्यासस्त्वयं वर्णमात्राहीनपाठप्रपूरकः ॥ ३१७ ॥
क्षमारभ्य अकारान्तो न्यासश्चेत्क्रियते तदा ॥
संहारन्यासनामासौ बिन्दुन्यास इतीरितः ॥ ३१८ ॥
वाममार्गे प्रवृत्तानां शक्तिसेवनकारिणाम् ॥
अन्तर्न्यासात्परं बिन्दुन्यासे स्याच्छुक्रधारणम् ॥ ३१९ ॥
यावत्क्लिन्ना भवेच्छक्तिस्तावद्भोगो विधीयते ॥
वामदक्षिणमार्गेण देवताध्यानमुच्यते ॥ ३२० ॥
अक्षस्रजं हरिणपोतमुदग्रण्टकं विद्यां करैरविरतं दधतीं त्रिनेत्राम् ॥
अर्धेन्दुमौलिमरुणामरविन्दवासां वर्णेश्वरीं प्रणमत स्तनभारनम्राम् ॥ ३२१ ॥
शाक्तो मनोरथः पूर्णो विसर्गन्यासमाचरेत् ॥
ततो बिन्दुः पतेत्तस्मादतो बिन्दुविसर्गकौ ॥ ३२२ ॥
न्यासौ प्रोक्तौ यदा शाक्तवामिनः कौलिकस्य वा ॥
शाक्तैस्तृप्तिं बिना सर्वं न्यासेनापि विमुच्यते ॥ ३२३ ॥
तदासौ निरयं याति यावच्चन्द्रदिवाकरौ ॥
इह लोकेप्यवंशस्स्याद्विहीनो ब्रह्मतेजसा ॥ ३२४ ॥
भोगमोक्षधिया वामे पतितुं ये समुद्यताः ॥
विना मन्त्रं सर्पमणिं ते ग्रहीतुं समुद्यताः ॥ ३२५ ॥
विसर्गमातृकान्यासो भवेत्केवलमातृवत् ॥
विशेषस्तु विसर्गान्तो वर्णोच्चारो भवेदिति ॥ ३२६ ॥
बिन्दुसर्गयुताण्डादि ठान्तान्वणान्स्थितौ न्यसेत् ॥
पूर्वोक्ता एव मन्त्राद्याः षडङ्गध्यानमुच्यते ॥ ३२७ ॥
सिन्दूरकान्तिममिताभरणान्त्रिनेत्रां विद्याक्षसूत्रमृगपोतवरान्दधानाम् ॥
पार्श्वस्थितां भगवतीमपि काञ्चनाभा ध्यायेत्कराब्जधृतपुस्तकवर्णमालाम् ॥ ३२८ ॥
न्यासाः कार्यास्तु वटुभिस्स्थितिसंहारसृष्टयः ॥
संहारसृष्टिस्थितयो न्यस्यन्ते गृहसेविभिः ॥ ३२९ ॥
वानप्रस्थाश्च यतयो सृष्टिस्थितिलयान्त्रमात् ॥ ३३० ॥
न्यासान्कुर्युरिति प्रोक्तो मातृकान्यासविस्तरः ॥
वक्ष्ये कलामातृकाया न्यासं तस्य ऋषिः स्मृतः ॥ ३३१ ॥
प्रजापतिश्च गायत्त्री छन्दः स्यादत्र देवता ॥
सरस्वती मातृकाख्या नियोगोभीष्टसिद्धये ॥ ३३२ ॥
तारैः 53 षडङ्गं कुर्वीत ह्रस्वदीर्घान्तरस्थितैः ॥
ध्यानं कलामातृकाया न्यासे वक्ष्ये शृणु प्रिये ॥ ३३३ ॥
हस्तैः पद्मं रथाङ्गं गुणमथ हरिणं पुस्तकं वर्णमालां टङ्कं शुभ्रं कपालं स्रवदमृतलसद्धेमकुम्भं वहन्तीम् ॥
मुक्ता विद्युत्पयोदस्फटिकमणिजपाबन्धुरैः पञ्चवक्रैस्त्र्यक्षैर्वक्षोजनम्रां सकलशशिनिभां शारदां तां नमामि ॥ ३३४ ॥
ध्यात्वैवं तारपूर्वान्तामकाराद्यां 54 च मातृकाम् ॥
बिन्दुयुक्तां ङेन्तकलानामाढ्यां नमसान्विताम् ॥ ३३५ ॥
पूर्वोक्तशुद्धमात्राणां न्यासस्थानेषु विन्यसेत् ॥
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथर्द्धिका ॥ ३३६ ॥
दीपिका रेचिका चापि मोचिका चापराभिधा ॥
सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायिनी ततः ॥ ३३७ ॥
व्यापिनी व्योमरूपा चानन्ता सृष्टिः समृद्धिका ॥
स्मृतिर्मेधा ततः कान्तिर्द्युतिर्लक्ष्मीः स्थिरा स्थितिः ॥ ३३८ ॥
सिद्धिर्जरा पालिनी च क्षान्तिरीश्वरिका रतिः ॥
कामिका वरदा चान्या ह्लादिनी प्रीतिसंयुता ॥ ३३९ ॥
दीर्घा तीक्ष्णा तथा रौद्री माया 55 निद्रा च तन्द्रिका ॥
क्षुधा स्यात्क्रोधिनी पश्चात्क्रियोत्कारी समृत्युका ॥ ३४० ॥
पीता श्वेताऽरुणा पश्चादसिता नतयान्विता ॥
उक्ता कलामातृकेयं स्थानेऽकारादिके न्यसेत् ॥ ३४१ ॥
तत्र नादात्मनो जाताः स्वरजास्तु सदाशिवात् ॥
अक्षमालाम्पुस्तकं च पाशञ्चापिकपालकम् ॥ ३४२ ॥
हस्तैर्दधत्यो ध्येयास्ताः पीतगन्धानुलेपनाः ॥
विष्णोरुकारात्सञ्जाताः कचवर्गकला दश ॥ ३४३ ॥
पद्महस्तास्तथा रक्ता अक्षमालाधरा वराः ॥
विष्णोरुकारात्सञ्जाताष्टतवर्गकला दश ॥ ३४४ ॥
श्यामा अभयशङ्खाब्जवरहस्तास्समीरिताः ॥
मकारा रुद्रतो जाताः पयवर्गकला नव ॥ ३४५ ॥
शरच्चन्द्रनिभा हस्तैरभयं शूलमेव च ॥
कपालं च वरन्धेया दधत्य इति साधकैः ॥ ३४६ ॥
शकारादिकपञ्चानामीश्वरो बिन्दुतो भवेत् ॥
अभयं हरिणं टङ्कं वरं च करपल्लवैः ॥ ३४७ ॥
दधत्यो रक्तवर्णाश्च ध्येया न्यासे कलात्मके ॥
केशवादिमातृकायाः साध्यो नारायणो मुनिः ॥ ३४८ ॥
अमृताद्या तु गायत्रीच्छन्दोलक्ष्मीर्हरिः सुरः ॥
द्विरुक्तैः 56 शक्तिश्रीकामैः षडङ्गानि समाचरेत् ॥ ३४९ ॥
शङ्खचक्रगदापद्मकुम्भादर्शाब्जपुस्तकम् ॥
बिभ्रतं मेघचपलावर्णं लक्ष्मीहरिं भजे ॥ ३५० ॥
शक्त्यस्तु प्रियाङ्केषु निषण्णाः सस्मिताननाः ॥
एवं ध्यात्वा न्यसेच्छक्तिश्रीकामपुटिताक्षराम् ॥ ३५१ ॥
57
तारादिहृदयान्ताश्च केशवाद्याश्च शक्तयः ॥
भ्यान्ता नमोन्ता उच्चार्याः स्थानेऽकारादिके न्यसेत् ॥ ३५२ ॥
कलामात्रा तु शाक्तानां नित्योयं विष्णुसेवने ॥
केशवः कीर्तिसंयुक्तः कान्तिर्नारायणान्विता ॥ ३५३ ॥
माधवस्तुष्टिसंयुक्तो गोविन्दः पुष्टिसंयुतः ॥
विष्णुश्च धृतिसंयुक्तः शान्तियुङ्मधुसूदनः ॥ ३५४ ॥
त्रिविक्रमः क्रियायुक्तो वामनो दययान्वितः ॥
श्रीधरो मेधया युक्तो हृषीकेशश्च हर्षया ॥ ३५५ ॥
पद्मनाभयुता श्रद्धा लज्जा दामोदरान्विता ॥
वासुदेवश्च लक्ष्मी युङ्म धुसूऽनसरस्वती ॥ ३५६ ॥
प्रद्युम्नः प्रीतिसंयुक्तोऽनिरुद्धो रतिसंयुतः ॥
चक्री जया गदी दुर्गा शाङ्गीं तु प्रभयान्वितः ॥ ३५७ ॥
खड्गी तु समया युक्तः सङ्खी चण्डासमन्वितः ॥
हली वाणीसमायुक्तो मुशली च विलासिनी ॥ ३५८ ॥
शूली विजयया 58 युक्तः पाशी विरजयान्वितः ॥
अङ्कुशी विश्वया युक्तो मुकुन्दो विनयान्वितः ॥ ३५९ ॥
नन्दजः सुनदायुक्तो नन्दी सत्यासमन्वितः ॥
नर ऋद्ध्या नरकजित्समद्ध्या शुद्धियुग्घरिः ॥ ३६० ॥
कृष्णो बुद्ध्या भूत्या सत्यो मत्या युक् सात्वतस्स्मृतः ॥
भूधरः क्लेदिनीयुक्तो विश्वमूर्तिश्च क्लिन्नया ॥ ३६१ ॥
वैकुण्ठो वसुधायुक्तो वसुदापुरुषोत्तमौ ॥
बली तु परया युक्तो बलानुजपरायणे ॥ ३६२ ॥
बालसूक्ष्मे वृषघ्नस्तु सन्ध्यायुक्प्रज्ञया वृषः ॥
हंसः प्रभासमायुक्तो वराहो निशयान्वितः ॥ ३६३ ॥
विमलो मेधया युक्तो नृसिंहो विद्युतान्वितः ॥
केशवाद्या मातृकोक्ता यादियोगश्च पूर्ववत् ॥ ३६४ ॥
वक्ष्येथ शिवभक्तानां श्रीकण्ठादिकमातृकाम् ॥
मुनिः स्याद्दक्षिणामूर्तिर्गायत्रं छन्द ईरितम् ॥ ३६५ ॥
अर्धाद्रिजो हरो देवो नियोगः सर्वसिद्धये ॥
हलो बीजानि गुह्ये तु स्वराञ्छक्तीः पदोर्न्यसेत् ॥ ३६६ ॥
ह्रस्वदीर्घान्तरे कृत्वा प्राग्वद्वर्गान्ह्रसौं तथा ॥
षड्दिर्घसंयुतं कृत्वा षडङ्गानि न्यसेत्तनौ ॥ ३६७ ॥
बन्धूककाञ्चननिभं रुधिराक्षमालाः पाशाङ्कुशौ च वरदं निजबाहुदण्डैः ॥
बिभ्राणमिन्दुशकलाभरणं त्रिनेत्रमर्धाम्बिकेशमनिशं वपुराश्रयामः ॥ ३६८ ॥
ह्रसौं ते मातृकामुक्त्वा देवान्ते च समुच्चरेत् ॥
ङेन्तफेन्तकतच्छक्तिं नमोन्ता मातृकास्थले ॥ ३६९ ॥
त्वगसृङ्मांसमेदोस्थिमज्जशुक्राण्यसून्वदेत् ॥
शक्तिं क्रोधन्तथात्मानं ङेन्तं यादिदशस्वपि ॥ ३७० ॥
श्रीकण्ठपूर्णोदर्यौ चानन्तो विरजयान्वितः ॥
सूक्ष्मेशः शाल्मल्ली युक्तो लोलाक्षी युक् त्रिमूर्तिकः ॥ ३७१ ॥
अमरेशो वर्तुलाक्ष्या वर्षीशो दीर्घगोणया ॥
भारभूतिर्दीर्घमुख्या तिथीशो गोमुखीयुतः ॥ ३७२ ॥
स्थाण्वीशो दीर्घजिह्वायुग्-हरः कुण्डोदरीयुतः ॥
झिण्टीशश्चोर्ध्वकेशी च भौतिको विकृतास्यया ॥ ३७३ ॥
सद्यो ज्वालामुखी चानुग्रहश्चोल्कामुखीयुतः ॥
अक्रूरः श्रीमुखी महासेनो विद्यामुखीयुतः ॥ ३७४ ॥
क्रोधनश्च महाकाल्या चण्डेशश्च सरस्वती ॥
पञ्चान्तकः सर्वसिद्धिगौरीयुक्तः प्रकीर्तितः ॥ ३७५ ॥
शिवोत्तमेशो विन्यस्यो युक्तस्त्रैलोक्यविद्यया ॥
एकरुद्रो मन्त्रशक्त्या कूर्मेशश्चाष्टशक्तियुक् ॥ ३७६ ॥
एकनेत्रो भूतमात्रायुक्तः स्याच्चतुराननः ॥
लम्बोदर्या युतः प्रोक्तस्त्वजेशो द्राविणीयुतः ॥ ३७७ ॥
सर्वेशो नागरीयुक्तः सोमेशः खेचरीयुतः ॥
लाङ्गलीशश्च मञ्जर्या दारुकेशश्च रूपिणी ॥ ३७८ ॥
वारिण्या चार्धनारीशो ह्युमाकान्तः पुनर्युतः ॥
काकोदर्या तथाषाढी पूतनायुक्त ईरितः ॥ ३७९ ॥
चण्डीशो भद्रकालीयुगत्रीशो योगिनीयुतः ॥
मीनेशः शङ्खिनीयुक्तो मेषेशस्तर्जनीयुतः ॥ ३८० ॥
लोहितः कालरात्र्या च शिखीशः कुब्जिनीयुतः ॥
छगलण्डः कपर्दिन्या द्विदण्डीशश्च वज्रया ॥ ३८१ ॥
महाकालो जयायुक्तो बालीशः सुमुखेश्वरी ॥
भुजङ्गो रेचनीयुक्तः पिनाकी माधवीयुतः ॥ ३८२ ॥
खड्गीशो वारुणीयुक्तो बकेशो वायवीयुतः ॥
श्वेतो रक्षोविदारिण्या भगुः सहजया युतः ॥ ३८३ ॥
नकुलीशश्च लक्ष्मीयुक् शिवेशो व्यपिनीयुतः ॥
संवर्तको महामायायुक्त एतास्तु मातृकाः ॥ ३८४ ॥
श्रीकण्ठाख्यादिमहेशान्तं पदं ङेन्तं प्रयोजयेत् ॥
सर्वे रुद्राः स्मृता रक्ता धृतशूलकपालकाः ॥ ३८५ ॥
शक्तयो रुद्रपीठस्थाः सिन्दूरारुणविग्रहाः ॥
रक्तोत्पलकपालाभ्यामलङ्कृतकराम्बुजाः ॥ ३८६ ॥
येनोपास्या महाविद्या दश तस्याधिकारिता ॥
भुवनेशी बीजपूर्वमातृकान्यसने सुराः ॥ ३८७ ॥
ऋषिः शक्तिस्तु गायत्री छन्दस्स्यान्मातृकामयी ॥
भुवनेशी देवताथ नियोगोभीष्टसिद्धये ॥ ३८८ ॥
ह्रस्वदीर्घान्तरगतैः षड्वर्गैर्दीर्घसंयुतैः ॥
प्राग्वद्धरे षडङ्गं स्यादङ्गुष्ठादि तथैव च ॥ ३८९ ॥
उद्यत्कोटिदिवाकरप्रतिनिभोत्तुङ्गोरुपीनस्तनी बद्धार्धेन्दुकिरीटहाररशनामञ्जीरसंशोभिता ॥
बिभ्राणा करपङ्कजैर्जपवटीं पाशाङ्कुशौ पुस्तकं दिश्यान्नो जगदीश्वरी त्रिनयना पद्मे निषण्णा सुखम् ॥ ३९० ॥
लज्जाबीजं पूर्वमुक्त्वा मातृकान्यास एव हि ॥
भुवनेशी मातृकाणां न्यासो नार्पत्यसाधने ॥ ३९१ ॥
श्रीबीजपूर्वकः कार्यो लक्ष्मीकामैर्गृहस्थितैः ॥
ऋषिर्भृगुश्च गायत्रीछन्दो मातृस्वरूपिणी ॥ ३९२ ॥
लक्ष्मीस्तु देवता प्रोक्ता हरस्थाने शरौ कुरु ॥
न्यासार्थं तु षडङ्गादि शेषं श्रीबीजपूर्वकम् ॥ ३९३ ॥
बिद्युद्दामसमप्रभां हिमगिरिप्रख्यैश्चतुर्भिर्भुजैः शुण्डादण्डसमुद्धृतामृतघटैरासिच्यमानामिमाम् ॥
बिभ्राणां करपङ्कजैर्जपवटीं पद्मद्वयं पुस्तकं भास्वद्रत्नसमुज्ज्वलां कुचनतां ध्यायेज्जगत्स्वामिनीम् ॥ ३९४ ॥
कामिनीमात्रसिद्ध्यर्थं कामबीजादिपूर्वकम् ॥
कुर्याच्च मातृकान्यासं मुनिः सम्मोहनः स्मृतः ॥ ३९५ ॥
गायत्रीच्छन्द उद्दिष्टं देवता मातृकामयी ॥
सम्मोहनी महादेवी पूर्वयुक्त्या षडङ्गकम् ॥ ३९६ ॥
बालार्ककोटिरुचिरां स्फटिकाक्षमालां कोदण्डमिक्षुजनितं स्मर, पञ्चबाणान् ॥
विद्यां च हस्तकमलैर्दधतीं त्रिनेत्रां ध्यायेत्समस्तजननीं नवचन्न्द्रचूडाम् ॥ ३९७ ॥
शक्तिश्रीकामबीजानां मातृकान्यासतो नृणाम् ॥
शत्रुत्वाद्या मन्त्रदोषा नश्यन्ति बहुवर्णिताः ॥ ३९८ ॥
महासम्मोहन ऋषिर्गायत्रीछन्द ईरितम् ॥
सम्मोहनीनाम देवी न्यासः प्राङ्मातृकासमः ॥ ३९९ ॥
ध्यायेयमक्षबलयेक्षुशरासपाशपद्मद्वयाङ्कुशवरान्नव पुस्तकं च ॥
आबिबिभ्रतीं नवभजैररुणां कुचार्तां सम्मोहनीं त्रिनयनां नवचन्द्रदूडाम् ॥ ४०० ॥
सर्वविघ्ननिरासार्थमवश्यं न्यासमाचरेत् ॥
गणेशमातृकायास्तु मुनिर्गणक ईरितः ॥ ४०१ ॥
निवृद्गायत्रिकाछन्दो देवः शक्तिविनायकः ॥
स्मृत्या दीर्घाद्यया चाङ्गं कृत्वा ध्यायेद्गजाननम् ॥ ४०२ ॥
शूलाङ्कुशवराभीतिपाणिं रक्ताब्जहस्तया ॥
प्रियया लिङ्गितं रक्तं त्रिनेत्रं गणपं भजे ॥ ४०३ ॥
विघ्नेशो ह्रीसमायुक्तो विघ्नराजः श्रियायुतः ॥
विनायकः पुष्टियुतः शान्तियुक्तः शिवोत्तमः ॥ ४०४ ॥
विघ्नकृत्स्वस्तिसंयुक्तो विघ्नहर्ता सरस्वती ॥
गणस्तु स्वाहया युक्त एकदन्तः सुमेधया ॥ ४०५ ॥
द्विदन्तः कान्तिसंयुक्तो गजवक्त्रश्च कामिनी ॥
निरञ्जनो मोहिनीयुक्कपर्दी तु नटीयुतः ॥ ४०५ ॥
दीर्घजिह्वः पार्वतीयुक्छं कुकर्णश्च ज्वालिनी ॥
वृषध्वजो नन्दयायुक्सुयशागणनायकौ 59 ॥ ४०७ ॥
गजेन्द्रः कामरूपिण्या शूर्पकर्णस्तथोमया ॥
त्रिलोचनस्तेजोवत्या लम्बोदरस्तु सत्यया ॥ ४०८ ॥
महानन्दश्च विघ्नेश्या चतुर्मूर्तिः स्वरूपया ॥
सदाशिवः कामदायुगामोदो मदजिह्वया ॥ ४०९ ॥
दुर्मुखो भूतिसंयुक्तः सुमुखो भौतिकायुतः ॥
प्रमोदः सितया युक्त एकपादो रमायुतः ॥ ४१० ॥
द्विजिह्वो महिषीयुक्तः शूरश्चापि तु जम्भिनी ॥
वीरो विकर्णया युक्तःषण्मुखो भ्रुकुटीयुतः ॥ ४११ ॥
वरदो लज्जया वामदेवः स्याद्दीर्घघोणया ।
धनुर्धरो वक्रतुण्डो द्विरदो यामिनीयुतः ॥ ४१२ ॥
सिनीशो रात्रिसंयुक्तः कामान्धो ग्रामणीयुतः ॥
मत्तः शशिप्रभायुक्तो विमत्तो लोललोचनः ॥ ४१३ ॥
मत्तवाहनचञ्चलो जटी दीप्तिसमन्वितः ॥
मुण्डी सुभगया युक्तः खड्गी दुर्भगया तथा ॥ ४१४ ॥
वरेण्यश्च शिवायुक्तो भगायुग्वृषकेतनः ॥
भक्तप्रियश्च भगिनी गणेशो भोगिनीयुतः ॥ ४१५ ॥
मेघनादस्सुभगया व्यापी स्यात्कालरात्रियुक् ॥
गणेश्वरः कालिकेति प्रोक्ता विघ्नेशमातृका ॥ ४१६ ॥
त्वगादियोगो यादीनां पूर्ववत्परिकीर्तितः ॥
प्रपञ्चयागन्यासोयं वक्ष्यते भुक्तिमुक्तिदः ॥ ४१७ ॥
महागणेशमन्त्रेण प्राणायामत्रयं चरेत् ॥
ऋषिः प्रपञ्चयागस्य गणकश्छन्द ईरितम् ॥ ४१८ ॥
गायत्री तु निवृत्पूर्वा महागणपतिः सुरः ॥
शीर्षादिषु न्यसेत्तांश्च गम्बीजं चापि गुह्यके ॥ ४१९ ॥
स्वाहाशक्तिं पादयोस्तु नियोगोभीष्टसिद्धये ॥
ॐ श्रीं ह्रीं क्लीं ग्लौं गमिति पूर्वषड्दीर्घयुग्मकम् ॥ ४२० ॥
उच्चार्य कुर्यादङ्गानि 60 तथाङ्गुष्ठादिषु न्यसेत् ॥
तलद्वयं तथास्त्रेण कृत्वा दिग्बन्धमाचरेत् ॥ ४२१ ॥
तर्जन्यङ्गुष्ठशब्देन दशदिक्ष्वथ चिन्तयेत् ॥
ततो ध्यानं प्रकुर्वीत गणपस्येष्टसिद्धये ॥ ४२२ ॥
हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसादाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया सन्तम् ॥
बीजापूरगदाधरं त्रिशिरयुक्चक्राब्जपाशोत्पलब्रीह्यग्रस्वविषाणरत्न-कलशान्हस्त् ऐर्वहन्तं भजे ॥ ४२३ ॥
महागणपतेर्मन्त्रमष्टवारं जपेत्ततः ॥
गमित्येकाक्षरं बीजं गणकोस्य मुनिर्मतः ॥ ४२६ ॥
देवो विघ्नेश्वरश्छन्दो निवृद्गायत्रिकाभिधा ॥
प्रपञ्चाख्यस्य यागस्य साङ्गतासिद्धिहेतवे ॥ ४२५ ॥
चतुश्चत्वारिंशत्सङ्ख्यजपार्थं विनियोजनम् ॥
अथ षड्दीर्घयुक्तेन कुर्यादङ्गानि गेन तु ॥ ४२६ ॥
गदापाशाङ्कुशकरं त्र्यक्षं च तुन्दिलं वरम् ॥
सिन्दूराभं चन्द्रमौलिं सर्पभूषं गलन्मदम् ॥ ४२७ ॥
एकवारं जपेत्पश्चाद्गणानान्त्वेति वैदिकम् ॥
गणेशमालामन्त्रस्य मुनिस्तु गणकः स्मृतः ॥
छन्दो मितं गणपतिर्देवता परिकीर्तितः ॥ ४२८ ॥
ह्रीङ्क्र्ॐ तारो नमः सर्वं ङेन्तं विद्याधिपं ततः ॥
सर्वार्थसिद्धिदायेति सर्वदुःखप्रशेति च ॥ ४२९ ॥
ततो मनाय एह्येहि भगवन् बादयेति च ॥
स्तम्भयेतिद्व्यं ह्रीं गं गां नमो वह्निगेहिनी ॥ ४३० ॥
क्र्ॐहीमित्थं पञ्चपञ्चाशद्वर्णो मन्त्र उच्यते ॥
जपेदिमं चतुर्वारं मुन्यादिसहितन्न्यसेत् ॥ ४३१ ॥
न्यासपूर्वत्रिवारं तु मातृकाध्यानपूर्वकम् ॥
स्वरादिसप्तवर्गैस्तु ग्रहान्सप्त प्रविन्यसेत् ॥ ४३२ ॥
मुखे बाह्वोः पादयोश्च जठरे हृदये क्रमात् ॥
तारो माया च हंसश्च सोहं स्वाहेति वै पुनः ॥ ४३३ ॥
प्रपञ्चयागमन्त्रोयमष्टार्णः समुदीरितः ॥
प्रपञ्चयागमन्त्रस्य मुनिर्ब्रह्मा समीरितः ॥ ४३४ ॥
परमाद्या समाख्याता गायत्री छन्द उत्तमम् ॥
महः परं समाख्यातं देवताचिन्मयात्मिकम् ॥ ४३५ ॥
त्रयन्तेऽबाधितं नित्यं सर्वव्यापि निरञ्जनम् ॥
विलोमगैः पञ्चवर्णैः प्रपञ्चमनुसंस्थितैः ॥ ४३६ ॥
ह्रस्वदीर्घान्तस्थकादिवर्गैः पूर्वसमन्वितैः ॥
तारमायादिकैरेतैर्युक्तैर्हरिहराक्षरैः ॥ ४३७ ॥
षडङ्गानि प्रकुर्वीत जातियुक्तानि देशिकः ॥
वेदादिपञ्चमनुभिः परिचीयमानं निरस्य मुनिभिर्जगदेकमूलम् ॥
सच्चित्समस्तगमनश्वरमच्युतं तत्तेजः परं भजत पूर्णकृपाम्बुराशि ॥ ४३८ ॥
वेदादिमाययोरन्ते 61 क्षकारान्तान्सबिन्दुकान् ॥
पृथगुच्चार्य हंसोहं स्वाहेति च वदन्हृदि ॥ ४३९ ॥
विभावयेदिमान्वर्णानात्मवह्नौ जुहोम्यहम् ॥
एवं हुत्वा क्षकारान्तानकारान्तान्पुनर्हुनेत् ॥ ४४० ॥
सविसर्गान्क्षकारान्तान्विन्यसन्मातृकास्थले ॥
एवं प्रपञ्चयागाख्यमातृकान्यास ईरितः ॥ ४४१ ॥
एकविंशन्ततो योगपीठाख्यं न्यासमाचरेत् ॥
तत्पूर्वमूक्तं च ततः स्वेष्टमन्त्रस्य सञ्चरेत् ॥ ४४२ ॥
तत्तत्कल्पोदितान्पश्चात्तत्तन्मुद्राः प्रदर्शयेत् ॥
आगमोक्तेन मार्गेण न्यासान्नित्यं करोति यः ॥ ४४३ ॥
देवताभावमाप्नोति मन्त्रसिद्धिः प्रजायते ॥
यो न्यासकवचच्छन्नो मन्त्रजापपरप्रियः ॥ ४४४ ॥
दृष्ट्वा विघ्नाः पलायन्ते सिम्ह दृष्ट्वा यथा गजाः ॥
अकृत्वा न्यासजालं यो मूढात्मा कुरुते जपम् ॥ ४४५ ॥
विघ्नैस्स बाध्यते नूनं व्याघ्रैर्मृगशिशुर्यथा ॥
न्यासानां प्रचरत्वेन फलानामपि भूरिता ॥ ४४६ ॥
उक्तन्यासो न हि त्याज्यः कामतस्त्वधिकं चरेत् ॥
ॐ क्लीमिति तु बीजाभ्यां मुद्राया बन्धनं चरेत् ॥
दर्शयेन्मूलमन्त्रेण हसौं बीजेन सन्न्यसेत् ॥ ४४७ ॥
ध्यानं कुर्यात्ततो मन्त्री तत्तत्कल्पोक्त वर्त्मना ॥
तदपि द्विविधं प्रोक्तं सगुणं निर्गुणं तथा ॥ ४४८ ॥
आत्मनो हृदयाम्भोजे कर्णिकाकेशरोज्ज्वले ॥
प्रफुल्ले सोमसूर्याग्निमण्डले न विराजिते ॥ ४४९ ॥
स्वस्येष्टदेवतां तत्र यजेदागमबोधिताम् ॥
एवं यद्वेदनं तद्धिसगुणं ध्यानमीरितम् ॥ ४५० ॥
यज्जीवब्रह्मणोरैक्यं सोहं स्यामिति वेदनम् ॥
तदेवं निर्गुणं ध्यानमिति वेदविदो विदुः ॥ ४५१ ॥
अथान्तर्यतनं वक्ष्ये यथावदवधारय ॥
वामनाडीं समाकृष्य किञ्चिदाकुञ्चयेद्गुदम् ॥
रेचयेत्सममार्गेण जिह्वा तालुगतां चरेत् ॥ ४५२ ॥
शक्तिं शिवे परे युक्त्वा किञ्चिदाकुञ्चयेदधः ॥
कृत्वेत्थं तु यजेत्पीठे न्यासमार्गेण मन्त्रवित् ॥ ४५३ ॥
तस्मिन्पीठे स्थितामिष्टदेवतां मूर्तिविग्रहाम् ॥
ध्यात्वा यजेच्चन्दनाद्यैर्मानसैर्भोजनान्तकैः ॥ ४५४ ॥
भोजनावसरे त्वन्तर्वैश्वदेवं समाचरेत् ॥
मूलाधारे स्मरेत्कुण्डं कुण्डल्यग्निसमुज्ज्वलम् ॥ ४५५ ॥
आत्मान्तरात्मपरमज्ञानात्मचतुरस्रके ॥
धर्माधर्मान्विते त्र्यस्रे मूलमन्त्रपुरःसरम् ॥ ४५६ ॥
अहं जुहोमि स्वाहेति प्रत्येकं जुहुयात्ततः ॥
अहन्ताऽसत्यपैशुन्यकामक्रोद्धादिकं हविः ॥ ४५७ ॥
मन एव स्रुवः प्रोक्तास्सुषुम्णादि गुदीरिता ॥
तदन्ते तन्मयो भूत्वा जपेदष्टोतरं शतम् ॥ ४५८ ॥
मूलं तत्सर्वसम्पत्त्यै देवतायै निवेदयेत् ॥
ततः प्रणम्य च गुरुं पूजाचक्रं समुद्धरेत् ॥ ४५९ ॥
सुवर्णरचिते पीठे भूपाला वशवर्तिनः ॥
रजतालङ्कृतं यन्त्रं सर्वैश्वर्यप्रदं मतम् ॥ ४६० ॥
यन्त्रन्तु स्फाटिकं स्वच्छं मनोभिलषितं ददेत् ॥
माणिक्यरचितं चेदं राज्यदं भुक्तिमुक्तिदम् ॥ ४६१ ॥
कृतं मरकतैर्यन्त्रं सर्वशत्रुविनाशनम् ॥
लोहत्रयोद्भवं यन्त्रं सर्वसिद्धिकरं मतम् ॥ ४६२ ॥
श्रीखण्डं शक्तिदं ज्ञेयं पौष्टिकं रक्तचन्दनम् ॥
श्रीपर्णीपीठमुद्दिष्टं पूजार्थं धनराज्यदम् ॥ ४६३ ॥
बैल्वके बहुलासम्पद्भूर्जपत्रे चतुष्पदाः ॥
गण्डकीभवपाषाणे भुक्तिमुक्तिरदूरतः ॥ ४६४ ॥
भूमौ सिन्दूररजसा रचितं सर्वकामदम् ॥
सीसकांस्यकृतं यन्त्रं सम्पत्तिं सन्ततिं हरेत् ॥ ४६५ ॥
फलकायां परे मित्तौ स्थापयेन्न कदाचन ॥
स्थापितं यदि मोहेन नाशयेत्तस्य तत्कुलम् ॥ ४६६ ॥
अरत्न्यङ्गुलविस्तारं प्राक्प्रत्यग्दक्षिणोत्तरे ॥
पलप्रमाणं कर्तव्यमर्चापीठं मनोहरम् ॥ ४६७ ॥
पूर्वार्धोच्चं प्रकुर्वीत चतुरस्रं समन्ततः ॥
तस्मिन्पीठे तु निर्माणं पूजाचक्रस्य कारयेत् ॥ ४६८ ॥
माणिक्यादिकपीठेषु मानं न्यूनं न दोषयेत् ॥
श्रीपर्णीचन्दनादीनामधिकं चेन्न दोषकृत् ॥ ४६९ ॥
अग्रे शुभग्रहौघेष्वनुकूलगुणवत्सु च ॥
नवार्चां कारयेदेषां सति तिथ्यादिकेक्षणे ॥ ४७० ॥
क्षौद्राज्यदुग्धैः प्रथमं नारिकेराम्भसा ततः ॥
अभिषिच्याथ तोयेन क्वथितेन वरौषधैः ॥ ४७१ ॥
आवाह्याभ्यर्च्य तल्लग्ने चक्रे संस्थाप्य पूजयेत् ॥
गन्धपुष्पैर्नवैर्धूपैर्दीपैर्नैवेद्यदर्पणौ ॥ ४७२ ॥
त्रिरात्त्रं पूजयेद्देवि त्रिसन्ध्यं च ततो निशि ॥
मकारैः पञ्चभिर्युक्ताश्चरेयुर्वामिनोर्चनम् ॥ ४७३ ॥
निशायां शक्तिपूजां च द्वितीयायां च कौलिकः ॥
एवं दिनत्रयं कृत्वा ततो नित्यक्रमं भजेत् ॥ ४७४ ॥
एवं देवीप्रतिष्ठायां क्रमस्सान्निध्यकारकः ॥
स्त्रीशूद्राणां वामिनां च कौलिकानामयं विधिः ॥ ४७५ ॥
महापापं न कुर्वन्ति पशुवद्वेदमार्गतः ॥
आख्यानदैश्च 62 रघुभिः सन्ध्यावन्दननाशितैः ॥ ४७६ ॥
पातकैस्ते न लिप्यन्ते तस्मात्तेऽपशवः स्मृताः ॥
वामिनोपासितं यन्त्रं तेषां दृष्टिपथं गतम् ॥ ४७७ ॥
तद्देवताक्षोभकरं विक्षिप्तः साधको भवेत् ॥
दक्षिणोपासितं यन्त्रं सूर्याग्निसमतेजसम् ॥ ४७८ ॥
पापिनो नैव पश्यन्ति यथोलूकास्तमोदृशः ॥
यथा नृभिर्दिनकरोदयः सर्वैरिहेष्यते ॥ ४७९ ॥
दक्षसंस्थापितं यन्त्रं तथा पुण्यात्मनां मतम् ॥
सर्वेषामेव भूतानां तुल्यदुःखसुखावुभौ ॥ ४८० ॥
वामदक्षिणमार्गौ तु तद्वन्मार्गौ दिवौकसाम् ॥
प्राधान्यं तु पुरन्ध्रीणां वामाङ्गे दक्षिणाङ्गके ॥ ४८१ ॥
पुंसां तथैव मार्गोपि कार्याकार्यविभेदतः ॥
कुण्डाश्च 63 गोलका जातिविच्युता ये द्विजादयः ॥ ४८२ ॥
असंस्कृताश्च ये विप्रास्ते व्रात्याः परिकीर्तिताः ॥
ब्राह्मण्यहानिकृत्तेषां 64 मद्यं मांसं च मैथुनम् ॥ ४८३ ॥
अब्राह्मणा वाममार्गे प्रवृत्तास्तैस्तु सेवितम् ॥
कौलेन वाथ वामेन सिद्ध्यत्येव न संशयः ॥ ४८४ ॥
सिद्धिः सञ्जायते न्येषां नरकायैव केवलम् ॥
आदौ वेदोदितैर्मन्त्त्रैविप्रोग्न्युत्तारणं चरेत् ॥ ४८५ ॥
अग्निः 65 सप्तिं वाजमिति सप्तर्चं सूक्तमुच्यते ॥
मुनिस्त्रिष्टुप्छन्द उक्तं देवताग्निः प्रकीर्तितः ॥ ४८६ ॥
अग्निशब्देन सहितं सूक्तमेतच्छतं जपेत् ॥
अभिषिञ्चेद्गन्धतोयैस्ततः सम्पूर्णसूक्तकैः ॥ ४८७ ॥
अभिषिञ्चेच्छतावृत्त्याग्न्युत्तारणमिदं स्मृतम् ॥
क्षालयेद्धातुजं यन्त्रं मृदा चाद्भिस्तु नित्यशः ॥ ४८८ ॥
पिष्टान्तकाद्यैः काष्ठस्य मण्यादेः केवलं जलात् ॥
एवं प्रक्षालितं यन्त्रं मण्डयेच्चन्दनादिना ॥ ४८९ ॥
पुरतः स्थापयेत्पीठे दद्यात्पुष्पाञ्जलिं ततः ॥
मूलमन्त्रेणाथ तेषां स्वस्य देवाङ्गतश्चरेत् ॥ ४९० ॥
वृत्तेन वेष्टितं सम्यक् त्रिकोणं चन्दनाम्भसा ॥
तद्बहिश्चतुरस्रं च विदध्यान्मत्स्यमुद्रया ॥ ४९१ ॥
सम्पूज्य गन्धैर्देवाद्यमण्डलाय नमोणुना ॥
अङ्गानि चतुरग्न्यादिकोणेषु पुरतस्तस्था ॥ ४९२ ॥
पठंश्चास्त्रं सम्भ्युक्ष्य शङ्खाधारं प्रविन्यसेत् ॥
उक्त्वा शङ्खादि चाधारं मण्डले स्थापयेत्त्वथ ॥ ४९३ ॥
मं रं धर्मप्रदेत्युक्त्वावदेद्दशकलात्मकम् ॥
ङेन्तं वह्नेर्मण्डलं च देवनाम च कीर्तयेत् ॥ ४९४ ॥
ततोर्घ्यपात्राधाराय नमः शङ्खं स्वमन्त्रतः ॥
प्रक्षाल्यामुकदेवार्घ्यपात्रं संस्थपयाम्यहम् ॥ ४९५ ॥
एवमुक्त्वा तदाधारे संस्थाप्यैनं च तत्र हि ॥
अं सूर्यमण्डलं प्रोच्य ङेन्तं देवस्य नाम तु ॥
अर्घ्यपात्राय च नमो मनुनानेन पूजयेत् ॥ ४९६ ॥
तत्पात्रमपि तत्रैव भावयेद्भूमिमण्डलम् ॥
षट्कोणं तत्र चाङ्गानि पूजयेत्पूर्ववत्ततः ॥ ४९७ ॥
कला द्वादश सूर्यस्य प्रोक्तास्तत्र प्रदक्षिणम् ॥
ततः सुधामयैस्तोयैर्मूलान्ते मातृकां जपेत् ॥ ४९८ ॥
विलोमां पूरयेत्तस्मिन्पूजको मनुनामुना ॥
ॐ सोममण्डलायेति षोडशेति कलात्मने ॥ ४९९ ॥
अमुकार्घ्यामृतायेत् नमः शङ्खप्रपूरणे ॥
गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपाः ॥ ५०० ॥
दूर्वा इत्यर्घ्यपात्रस्य प्रोक्तं द्रव्याष्टकं सुराः ॥
तत्तोयं गन्धपुष्पाद्यैः पूजयित्वा समर्चयेत् ॥ ५०१ ॥
कलाषोडशकं चान्द्रं पश्चात्सर्वकलासु च ॥
प्राणप्रतिष्ठां कुर्वीत पूजान्ते साधकस्ततः ॥ ५०२ ॥
प्राग्वत्तीर्थं स्मावाह्य मूलमन्त्रेण तत्र तु ॥
संयोज्य मूलमन्त्रेण पुष्पं न्यस्य शराणुना ॥ ५०३ ॥
प्रदर्श्य गालिनीं मुद्रां मुद्रया धेनुसञ्ज्ञया ॥
अमृतीकृत्य विधिवत्स्वधाबीजेन साधकः ॥ ५०४ ॥
ध्यात्वेष्टदेवतां तत्र सकलीकरणं चरेत् ॥
अङ्गन्यासेन चास्त्रेण कल्पयेच्च दिशो दश ॥ ५०५ ॥
तत्र मन्त्रेण संवीक्ष्य मुद्रया शङ्खसञ्ज्ञया ॥
अवष्टभ्य ततो दीप्य मुद्रया योनिरूपया ॥ ५०६ ॥
गन्धपुष्पादिभिस्तत्र पूजयेदिष्टदेवताम् ॥
षडङ्गानि च सम्पूज्य मन्त्रयेन्मूलमन्त्रतः ॥ ५०७ ॥
अष्टकृत्वस्ततश्चार्घ्यं दापयेन्मत्स्यमुद्रया ॥
तच्छङ्खस्थं जलं किञ्चित्कुम्भतोये विनिक्षिपेत् ॥ ५०८ ॥
अर्घ्यस्योत्तरदिग्भागे पाद्यमाचमनीयकम् ॥
मधुपर्कं च संस्थाप्य त्रिकोणेषु यथाक्रमम् ॥ ५०९ ॥
एकैकपात्रं मूलेन ह्यष्टकृत्वोभिमन्त्रयेत् ॥
मधुपर्कस्तु सक्षौद्रो दधि तत्र न लभ्यते ॥ ५१० ॥
दधि दुग्धं गुडक्षौद्रे घृतप्रतिनिधिर्न हि ॥
परमं तत्पदं देवि मधुसञ्ज्ञं यदुच्यते ॥ ५११ ॥
तदाप्यायनं यत्कर्म तत्प्रोक्तं मधुपर्ककम् ॥
कांस्यस्य वाथ रौप्यस्य शैवः शङ्खवरो हरौ ॥ ५१२ ॥
महाशङ्खो वाममार्गे स्फाटिको ग्रहनायके ॥
दक्षिणे प्रोक्षणीपात्रमाधायाद्भिः प्रपूरयेत् ॥ ५१३ ॥
किञ्चिदर्घ्याम्बु सङ्गृह्य प्रोक्षण्यम्भसि योजयेत् ॥
पुनराचमनीयार्थं पात्रं संस्थापयेत्ततः ॥ ५१४ ॥
पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते ॥
जातीलवङ्गकङ्कोलैर्मतमाचमनीयकम् ॥ ५१८ ॥
कुशपुष्पयवव्रीहिबहुमूलतमालकम् 66 ॥
पातयेत्प्रोक्षणीपात्रे ललितं प्रणवेन च ॥ ५१६ ॥
शुद्धाभिरद्भिर्विहितं पुनराचमनीयकम् ॥
द्रव्याभावे प्रदातव्याः क्षालितास्तण्डुलाः शुभाः ॥ ५१७ ॥
अथार्घ्यादिकपात्राणा फलं वक्ष्ये शुभाशुभम् ॥
सर्वकामप्रदं स्वार्णं रौप्यमायुःसुतप्रदम् ॥ ५१८ ॥
सौभाग्यं ताम्रपात्रेण धर्मवृद्धिस्तु मृन्मये ॥
नारिकेले देवतुष्टिर्भवेत्पात्रे तथैव च ॥ ५१९ ॥
लक्ष्मीप्राप्तिर्बिल्वपात्रे ब्राह्मण्यं ब्रह्मवृक्षजे 67 ॥
मारणोच्चाटने लौहं स्तम्भे पाषाणजं भवेत् ॥ ५२० ॥
मन्त्रस्याराधने काष्ठं वाममार्गे तु तौम्बिकम् ॥
रत्नादीनां तु पात्राणि शुभलेखाङ्कितानि च ॥ ५२१ ॥
अर्घ्यनैवेद्यपूजार्थेञ्जलिदाने प्रपूजयेत् ॥
पात्राणामादरः कार्यः पात्राण्येवोत्तमानि च ॥ ५२२ ॥
बलिहोमक्रियाद्यं च विनापात्रं न सिद्ध्यति ॥
षट्त्रिंशदङ्गुलं पात्रमुत्तमं परिकीर्तितम् ॥ ५२३ ॥
मध्यमं तत्त्रिभागोनं कनिष्ठं द्वादशाङ्गुलम् ॥
वस्वङ्गुलविहीनं 68 च न पात्रं कारयेत्क्वचित् ॥ ५२४ ॥
नाभीविवररूपाणिपुण्डरीकाकृतीनि 69 च ॥
शङ्खनीलोत्पलाभानि पात्राणि परिकल्पयेत् ॥ ५२५ ॥
श्वेतादीन्यतिशस्तानि विप्रादीनां क्रमेण च ॥
सेचयेत्प्रोक्षणीपात्रतोयैर्मूलं समुच्चरेत् ॥ ५२६ ॥
आत्मानं यागवस्तूनि पूजाद्रव्यादिमण्डलम् ॥
दर्शयेद्धेनुमुद्रां 70 च द्रव्यशुद्धिरियं मता ॥ ५२७ ॥
योगपीठे न्यासदेवांस्तत्तत्स्थानेषु पूजयेत् ॥
मणिपीठे भावनया ततः पूज्या स्वदेवता ॥ ५२८ ॥
आत्मानं देवतारूपं ध्यायेन्मूलेन पञ्च तु ॥
पुष्पस्याञ्जलयो देया मस्तके हृदये गुदे ॥ ५२९ ॥
पादयोः सर्वगात्रे च पूजयेच्चन्दनादिभिः ॥
चतुर्भिरुपचारैश्च नैवेद्यं विनिवेदयेत् ॥ ५३० ॥
गुरूपदिष्टविधिना शेषमन्यत्समापयेत् ॥
प्रोक्षण्यद्भिः प्रयुञ्जीत सर्वमेतत्समाहितः ॥ ५३१ ॥
ततश्चार्घ्यकरं कार्यं यज्ञकार्यमथोच्यते ॥
मूलाधारे चतुष्कोणमग्निकुण्डं विचिन्तयेत् ॥ ५३२ ॥
तत्राग्निं कुण्डलीरूपं ध्यायेन्मूलं समुच्चरन् ॥
धर्माधर्महविर्दीप्त आत्माग्नौ मनसा तु वै ॥ ५३३ ॥
सुषुम्णावर्त्मना नित्यमष्टावृत्तिर्जुहोम्यहम् ॥
पुण्यं जुहोमि स्वाहेति श्लोकान्ते प्रोच्चरेत्पुनः ॥ ५३४ ॥
पुनर्मूलं पुनः श्लोकः पुनः पापं जुहोमि च ॥
कृत्याकृत्येति सङ्कल्पो विकल्पो धर्म एव च ॥ ५३४ ॥
उक्त्वा पृथक् च स्वाहान्तं पुनः श्लोकमिमं पठेत् ॥
प्रकाशामर्शहस्ताभ्यामवलम्ब्योन्मनीषु च ॥ ५३६ ॥
धर्माधर्मकलास्नेहपूर्ण वह्नौ जुहोम्यहम् ॥
स्वाहान्तेनाहुतिं दत्त्वा प्राणायामनिरोधतः ॥ ५३७ ॥
निरस्तनिखिलोषाधिमात्मानं चिन्मयं स्मरेत् ॥
प्राणायामत्रयं कृत्वा ऋष्यादिन्यासमाचरेत् ॥ ५३८ ॥
पूजापीठं विनिर्माय पूजयेत्पीठदेवताः ॥
गुरुपङ्क्तिरुदक्पूज्या महागणपतिस्त्ववाक् ॥ ५३९ ॥
पूजयेदनलादीनि देवस्याधस्तु सप्त च ॥
मण्डूकश्चापि तस्योर्ध्वं रुद्रः कालानलस्तथा ॥ ५४० ॥
मूलप्रकृतिमाधारशक्तिं कूर्मं तथान्तकम् ॥
वराहं तस्य दंष्ट्राग्रे पृथिवीमर्चयेत्पुनः ॥ ५४१ ॥
तस्यां सुधार्णवं तस्मिन्दीपञ्च नवरत्नकम् ॥
स्वर्णशैलं च तन्मध्ये तदूर्ध्वं नन्दनं वनम् ॥ ५४२ ॥
तन्मध्ये कल्पवृक्षांश्च तन्मध्ये रत्नभूमिकाम् ॥
स्वर्णप्राकारमस्यान्ते तन्मध्ये रत्नमण्डपम् ॥ ५४३ ॥
तस्यान्तः स्वर्णवेदी च रत्नसिंहासनं पुनः ॥
वेदीमध्ये भावनीयं पूजयेच्चन्दनादिना ॥ ५४४ ॥
पूजाचक्राधारपीठं सिंहासनमिति स्मरेत् ॥
तत्पादेषु यजेत्सम्यगाग्नेयादिशिवान्तकम् ॥ ५४५ ॥
धर्मं वृषतनुं चित्रं ज्ञानं कृष्णं च सिंहवत् ॥
वैराग्यं भूतवत्पीतमैश्वर्यं कृष्णहस्तिवत् ॥ ४५६ ॥
अधर्मादींश्चित्रवर्णान्पीठस्याधः समर्चयेत् ॥
मायाविद्ये च तन्मध्येऽनन्तं तत्त्वाकृतिं यजेत् ॥ ५४७ ॥
तस्य मूर्ध्नि यजेत्पद्ममष्टप्रकृतिपत्रकम् ॥
आनन्दकन्दकं संविन्नालं विकारकेशरम् ॥ ५४८ ॥
मातृकाकर्णिकोपेतं तत्पत्रेषु क्रमाद्यजेत् ॥
सिद्ध्यष्टकं चाणिमाद्यं तन्नामानि ब्रवीम्यहम् ॥ ५४९ ॥
अणिमा महिमा चैव गरिमा लघिमा तथा ॥
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥ ५५० ॥
अधोधः कर्णिकायास्तु सूर्यस्सोमस्तथानलः ॥
गुणान्सत्त्वादिकांस्तत्र तद्वदग्रे त्रयं यजेत् ॥ ५५१ ॥
ब्रह्मविष्णुमहेशांश्च ततो दिक्षु च मध्यतः ॥
ज्ञानं माया कला विद्या परपूर्वं च तत्त्वकम् ॥ ५५२ ॥
केशरेषु तथा मध्ये पूर्वादिषु यथाक्रमम् ॥
तत्तन्मत्रोक्तपीठस्य नव शक्तीः प्रपूजयेत् ॥ ५५३ ॥
पीठमन्त्रेण गन्धाद्यैः पीठं समन्ततोर्चयेत् ॥
चतुर्थीनमसा युक्तैः स्वस्वदैवतनामभिः ॥ ५५४ ॥
मध्ये पुष्पाञ्जलिं दद्यात्पीठमन्त्रेण साधकः ॥
मूलमन्त्रं समुच्चार्य षष्ठ्यन्तं पीठनाम च ॥ ५५५ ॥
मूर्ति च कल्पयामीति मूर्तिमध्ये विनिक्षिपेत् ॥
पुनर्मूलं समुच्चार्य देवनाम ततः परम् ॥ ५५६ ॥
मूर्ति च पूजयामीति तां पुष्पेण समर्चयेत् ॥
एकपीठेन्यपूजां च विना यन्त्रं करोति यः ॥ ५५७ ॥
देवताशापमाप्नोति रौरवं नरकं व्रजेत् ॥
तन्त्रेण पूजयेद्यन्त्रं देवताशापमाप्नुयात् ॥ ५५८ ॥
आवाह्य देवतामेकामर्चयेच्चान्यदेवताम् ॥
अन्ययन्त्रेन्यपूजा वा देवता शापकारिणी ॥ ५५९ ॥
पूजनं बहुमूर्तीनामेकपीठे भवेद्यदि ॥
पृथक्चन्दनपुष्पाणि धूपदीपादि मन्त्रतः ॥ ५६० ॥
खण्डिते स्फुटिते दग्धे भ्रष्टे मानविवर्जिते ॥
व्यङ्गेनर्हपशुस्पृष्टे पतिते दुष्टभूमिषु ॥ ५६१ ॥
अन्यमन्त्रार्चिते चैव पतितस्पर्शदषिते ॥
देशेष्वेतेषु नो कुर्युः सन्निधानं दिवौकसः ॥ २६२ ॥
गणेशसूर्यविष्ण्वीशदेवीनां पूजनं क्रमात् ॥
दशस्थानानि देवानां पूजने कल्पितानित् च ॥ ५६३ ॥
सान्निध्यं सर्वदेवानामवश्यं मन्त्रतो भवेत् ॥
मन्त्रस्तु जीववत्प्रोक्तः प्रतिमाद्यं शरीरवत् ॥ ५६४ ॥
सिद्धायामपि सामग्र्यां विना मन्त्रं फलं न हि ॥
शिवलिङ्गे मणौ यन्त्रे शालग्रामे घटे रवौ ॥ ५६५ ॥
स्थण्डिलेग्नौ मूर्ध्नि हृदि स्थानेष्वेतेषु पूजयेत् ॥
भूमौ चैव कृता पूजा पुत्रायुर्धननाशिनी ॥ ५६६ ॥
दशाङ्गुलप्रमाणा वा तिथ्यङ्गुलमिता पुनः ॥
अभ्यर्चा प्रथमा दिष्णोर्गृहेषु गृहमेधिभिः ॥ ५६७ ॥
पञ्चसूत्रसमायुक्तं शिवलिङ्गं समर्चयेत् ॥
गृहस्थानां भुक्तिमुक्तिधनारोग्यप्रदं तु तत् ॥ ५६८ ॥
लिङ्गमस्तकविस्तारोपचितावथ दीर्घतः ॥
लिङ्गस्य लिङ्गशालक्या जलाहार्यास्तथैव च ॥ ५६९ ॥
लिङ्गपीठस्य पञ्चानां समता पञ्चसूत्रिका ॥
शालग्रामसमुत्पत्तिं शृण्वन्तु परमाद्भुताम् ॥ ५७० ॥
गण्डक्या प्राक् तपस्तप्तं भवन्तु मम देवताः ॥
सर्वे पुत्राः सुखं दातुं जनानामिति ते सुराः ॥ ५७१ ॥
तस्यास्तु तपसा हृष्टा ब्रह्मविष्णुमहेश्वराः ॥
वरं दातुं समुद्युक्ता वव्रे सापि स्वपुत्त्रताम् ॥
अशक्तास्तं वरं दातुं तदा शप्तास्तया क्रुधा ॥ ५७२ ॥
प्रतारणं मम सुराः कृतं यस्मात्पुनः पुनः ॥
कीटयोनिं प्रपद्यध्वं क्रुद्धास्तेप्यशपंश्च ताम् ॥ ५७३ ॥
अविच्चार्य वयं शप्तास्त्वया यत्तपसोद्धते ॥
तेन कर्मविपाकेन त्वं वै कृष्णा नदी भव ॥ ५७४ ॥
अन्योन्यशापं श्रुत्वेत्थं महान्कोलाहलोभवत् ॥
प्रकम्पिताः सुरा याता ब्रह्माणं ते व्यजिज्ञपन् ॥ ५७५ ॥
ब्रह्मंस्त्राहि महाशापादन्योन्यपतितान्क्रुधा ॥
इति देववचः श्रूत्वा ब्रह्मा शङ्करमब्रवीत् ॥ ५७६ ॥
शिवः प्रोवाच धातारमहं संहारकारकः ॥
त्वं सृष्टिकर्ता विष्णुस्तु पालको बुद्धिमत्तरः ॥ ५७७ ॥
स प्रष्टव्यो यथासङ्ख्यमुभयोः शम्भवेदिति ॥
तत्र माहेश्वरं श्रुत्वा वचनं विष्णुरब्रवीत् ॥ ५७८ ॥
शृणु ब्रह्मन्महादेव शृणु देवि गजानन ॥
मद्गणौ ब्राह्मणौ ग्राहमातङ्गौ शापतो यदा ॥ ५७९ ॥
भविष्यतस्तयोर्मोक्षं करिष्यामि कलेवरम् ॥
शीर्णं भविष्यति यदा तन्मेदोमज्जसम्भवाः ॥ ५८० ॥
पाषाणान्तर्गताः कीटा वज्राख्याः प्रभविष्यथ ॥
अद्यैव गण्डकी पुण्या गङ्गातुल्या महानदी ॥ ५८१ ॥
गण्डक्यां गिरिराजस्य दक्षिणे दशयोजनम् ॥
विस्तीर्णं तन्मनुक्षेत्रम्पुण्यं क्षेत्रं महीतले ॥ ५८२ ॥
चक्रतीर्थमिदं ख्यातं त्रिषु लोकेषु विश्रुतम् ॥
शालग्रामशिला यत्र यत्र द्वारवती शिला ॥ ५८३ ॥
उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥
सर्वदेवप्रीतिकरा भुक्तिमुक्तिप्रदायिनी ॥ ५८४ ॥
नद्यां तस्यान्तु पाषाणा ये तदन्तर्गताः सुराः ॥
पार्थिवांशं विना सर्वे वज्रकीटा भवन्त्विति ॥ ५८५ ॥
अनेनैव तु गण्डक्याः पुत्रत्वं भवतामपि ॥
प्रीताः सुरा न मूर्तेश्च न वृक्षस्यापि पूजनात् ॥ ५८६ ॥
सन्तोषो जायते तेषां गण्डक्यश्मार्चनाद्यथा ॥
इति विष्णुवचः श्रुत्वा ब्रह्मा वचनमब्रवीत् ॥ ५८७ ॥
कीदृक्पूज्या शिला विष्णो किंस्वित्कस्य च वल्लभा ॥
किं फलं कोधिकारि च केन मार्गेण तद्वद ॥ ५८८ ॥
इति ब्रह्मवचः श्रुत्वा विष्णुर्वचनमब्रवीत् ॥
स्वीयवर्णशिला पूज्या ब्राह्मणाद्यैः सुखाप्तये ॥ ५८९ ॥
स्निग्धा शिला मन्त्रसिद्धिं रूक्षाऽसिद्ध करोति न ॥
पाण्डुरा पापशमनी मलिना पापधीकरा ॥ ५९० ॥
पीता पुत्रफलं दद्यादाम्रवर्णा सुतान्हरेत् ॥
नीला सन्दिशते लक्ष्मीं धूमाभा हरते मतिम् ॥ ५९१ ॥
रोगप्रदा रक्तवर्णा सिन्दूराभा महाकलिम् ॥
दारिद्र्यकारिणीवक्रा समा सर्वार्थसाधिका ॥ ५९२ ॥
स्थूला निहन्ति चैवायुः सूक्ष्मास्वल्पमतिं हरेत् ॥
पूजाफलं लाञ्छितया निष्फलं लाञ्छनं विना ॥ ५९३ ॥
कपिला चित्तवैकल्यं नेत्ररोगञ्च कर्बुरा ॥
लग्ना भङ्गकलिं दद्याद्बहुचक्रा प्रधानताम् ॥ ५९४ ॥
लक्षणान्तरहीना चेदचक्रा विविधापदम् ॥
विकृतावर्तनाभिश्च वित्तान्नं कुरुते बहु ॥ ५९५ ॥
वंशच्छेदो गृहस्थानां नारसिंह्यां प्रजायते ॥
रेखावर्ता दुःखदात्री यथा सूक्ष्मा तथामृतम् ॥ ५९६ ॥
यथा स्निग्धा तथा लक्ष्मीस्तद्विभेदानतः शृणु ॥
लक्ष्मीहरिः स विज्ञेयो यत्र पद्मं सचक्रकम् ॥ ५९७ ॥
केवला वनमाला वा गृहस्थानामभीष्टदः ॥
वासुदेवः स विज्ञेयो यद्द्वारे चक्रयुग्मकम् ॥ ५९८ ॥
निरन्तरं समं चापि स श्वेतः पापनाशनः ॥
सङ्कर्षणः स विज्ञेयः प्राक्पश्चाच्चक्रयुग्मकम् ॥ ५९९ ॥
संलग्नं पूर्वभागस्थं महद्रत्नसुशोभनम् ॥
प्रद्युम्ने सूक्ष्मचक्रं स्याच्छिद्रं दीर्घं विचिन्तयेत् ॥ ६०० ॥
शुषिरान्तर्बहुच्छिद्रं पीतमिष्टप्रदायकम् ॥
अनिरुद्धस्तु नीलाभो वर्तुलश्चातिशोभनः ॥ ६०१ ॥
रेखाद्वयं तु तद्द्वारि पृष्ठं पद्मेन लाञ्छितम् ॥
केशवः स तु विज्ञेय एकं वा द्वयमेव च ॥ ६०२ ॥
प्राग्वापश्चाच्च चक्रं स्याच्चतुष्।
कोणस्स भाग्यकृत् ॥
नारायणः श्यामवर्णो नाभौ चक्रं तथोन्नतम् ॥ ६०३ ॥
दीर्घरेखासमायुक्तं दक्षिणे सुकरं पृथु ॥
हरिरूपा शिला सा स्याद्यस्या ऊर्ध्वं मुखं भवेत् ॥ ६०४ ॥
हरिवद्दृश्यते द्वारं भुक्तिमुक्तिप्रदा तु सा ॥
परमेष्ठी स विज्ञेयः पद्मचक्रान्वितस्तु यः ॥ ६०५ ॥
बिल्वाकृतिश्च शुक्लाभः पृष्ठे च शुषिरं महत् ॥
विष्णुस्तु कृष्णवर्णः स्यात्स्थूलचक्रे शुभानने ॥ ६०६ ॥
द्वारोपरि तथा रेखा दृश्यते मध्यदेशतः ॥
नरसिंहस्तु कपिलः पृथग्वक्त्रो बृहन्मुखः ॥ ६०७ ॥
त्रयो वा पञ्च वा तत्र बिन्दवो गृहिणां न सन् ॥
कपिलो नरसिंहस्तु गुडलाक्षानिभो भवेत् ॥ ६०८ ॥
स्थूलचक्रद्वयं मध्ये द्वारे रेखा सुशोभना ॥
महानृसिंहो विज्ञेयः पूर्वोक्तैर्लक्षणैर्युतः ॥ ६०९ ॥
रेखाश्च केशराकारा मुखं दीर्घं भयानकम् ॥
लक्ष्मीनृसिंहो विज्ञेयश्चतुश्चक्रस्सबिन्दुकः ॥ ६१० ॥
पूर्वोक्तलक्षणैर्युक्तो वनमालाविराजितः ॥
वराहोसौ शक्तिलिङ्गचक्रे च विषमे तथा ॥ ६११ ॥
इन्द्रनीलनिभःस्थूलस्त्रिरेखालाञ्छितो भवेत् ॥
पृथ्वी वराहनाम्नी सा या वराहाकृतिः शिला ॥ ६१२ ॥
अभुग्ना नैव रेखैका गतराज्यप्रदायिका ॥
मत्स्याख्या सा शिला ज्ञेया बिन्दुत्रयविभूषिता ॥ ६१३ ॥
कांस्योद्भवा स्वर्णनिभा दीर्घा सा भुक्तिमुक्तिदा ॥
कूर्माख्या तु शिला पृष्ठे वर्तुला चोन्नता भवेत् ॥ ६१४ ॥
हरितं वर्णमाधत्ते कौस्तुभेन च चिह्निता ॥
शिला कूर्मस्य विज्ञेया कूर्माकारा तु या भवेत् ॥ ६१५ ॥
चक्राङ्किता तथा वृत्ता पूजिता सा पदप्रदा ॥
हयग्रीव्ॐकुशाकारा रेखा चक्रसमीपगा ॥ ६१६ ॥
बहुबिन्दुसमायुक्तं पृष्ठं नीरदनीलकम् ॥
ज्ञेयः सौम्यो हयग्रीवो हयग्रीवसमा शिला ॥ ६१७ ॥
दीर्घया रेखया युक्ता रेखा वा तादृशी भवेत् ॥ ६१८ ॥
हयशीर्षः स विज्ञेयो मुखं यस्य हयाकृति ॥
पद्माकृति भवेद्वापि साक्षमालं शिरस्तथा ॥ ६१९ ॥
वैकुण्ठस्तिलवर्णाभश्चक्रमेकन्तथा ध्वजः ॥
द्वारोपरि तथा रेखा पूजकाय सुशोभनः ॥ ६२० ॥
श्रीधरस्तु तथा देवश्चिह्नितो वनमालया ॥
कदम्बकुसुमाकारो रेखापञ्चकभूषितः ॥ ६२१ ॥
वामनः स तु विज्ञेयो योतिह्रस्वश्च वर्तुलः ॥
अतसीकुसुमप्रख्यो बिन्दुनोपरि शोभितः ॥ ६२२ ॥
दधिवामननामा च ऊर्ध्वाधश्चक्रसंयुतः ॥
महाद्युतिश्च ह्रस्वश्च सुभिक्षक्षेमदायकः ॥ ६२३ ॥
सुदुर्शनस्तथा देवश्श्यामवर्णो महाद्युतिः ॥
वामपार्श्वे तथाचक्रं रेखैकैव तु दक्षिणे ॥ ६२४ ॥
सहस्रार्जुननामासौ नानारेखामयो भवेत् ॥
बकाकारा यत्र पङ्क्तिः स नष्टद्रव्यदायकः ॥ ६२५ ॥
स्थूलो दामोदरो यस्य मध्ये चक्रं प्रतिष्ठितम् ॥
दूर्वाभो द्वारसङ्कीर्णपीतरेखो धनप्रदः ॥ ६२६ ॥
राधादामोदरो ज्ञेय ऊर्ध्वाधश्चक्रसंयुतम् ॥
नातिदीर्घमुखं मध्ये लम्बरेखः स भोगदः ॥ ६२७ ॥
दामोदरः स विज्ञेयो यश्चक्रद्वयलाञ्छितः ॥
सूक्ष्मं भवेच्च विवरं पूजितस्सुखदस्सदा ॥ ६२८ ॥
अनन्तो बहुवर्णः स्यान्नागभोगेन चिह्नितः ॥
अनेकचक्रसम्भिन्नः सर्वकामफलप्रदः ॥ ६२९ ॥
पुरुषोत्तमनामासौ यस्य दिक्षु विदिक्षु च ॥
ऊर्द्ध्वान्यास्यानि दृश्यन्ते पुरुषार्थफलप्रदः ॥ ६३० ॥
योगेश्वरः स विज्ञेयो लिङ्गं यस्य शिरोगतम् ॥
ब्रह्महत्यादिपापानां नाशको योगसिद्धिदः ॥ ६३१ ॥
पद्मनाभस्तथा रक्तः पङ्कजच्छत्रसंयुतः ॥
तलस्या पूजयित्वा तं दरिद्रोपीश्वरो भवेत् ॥ ६३२ ॥
रश्मिज्वालो हिरण्याक्षश्चन्द्राभः स्फटिकोपमः ॥
अथवा जायते नानास्वर्णरेखाभिरन्वितः ॥ ६३३ ॥
गरुडः स विभुर्ज्ञेयो मध्ये पक्षद्वयान्विते ॥
सुदीर्घा दृश्यते रेखा स सर्पविषनाशकः ॥ ६३४ ॥
जनार्दनः स विज्ञेयः केवलानि स्फुटानि च ॥
यस्योदरे तु चक्राणि चत्वारि पितृतृप्तिकृत् ॥ ६३५ ॥
लक्ष्मीनारायणो ज्ञेयो वनमालाङ्कितोदरः ॥
सूक्ष्मद्वारश्चतुश्चक्रो भुक्तिमुक्तिप्रदायकः ॥ ६३६ ॥
हृषिकेशः स विज्ञेयो योर्धचन्द्राकृतिर्भवेत् ॥
तमभ्यर्च्यामुयात्स्वर्गं विषयांश्च समीहितान् ॥ ६३७ ॥
लक्ष्मीनरहरिर्ज्ञेयः कृष्णवर्णः सबिन्दुकः ॥
वामपार्श्वे समे चक्रे गृहस्थाभीष्टदायकः ॥ ६३८ ॥
त्रिविक्रमः स विज्ञेयः श्यामवर्णो महाद्युतिः ॥
वामपार्श्वे चक्रयुग्ममेकरेखा तु दक्षिणे ॥ ६३९ ॥
कृष्णो ज्ञेयः शिला कृष्णा सचक्रो वा विचक्रकः ॥
प्रदक्षिणावर्तकृतो वनमालाविभूषितः ॥ ६४० ॥
चतुर्मुखः स विज्ञेयो द्वे चक्रे मध्यदेशतः ॥
चतस्रः पार्श्वगा रेखा वेदशास्त्रागमप्रदः ॥ ६४१ ॥
विष्णोर्भेदा इमे प्रोक्ता अत्रैवावाहयेद्धरिम् ॥
विसर्जयेच्च पूजान्ते प्रतिष्ठां नात्र कारयेत् ॥ ६४२ ॥
शालग्रामाः समाः पूज्याः समेषु द्वितयं न हि ॥
असमा नैव पुज्यन्ते सर्वकामफलार्थिभिः ॥ ६४३ ॥
शिला द्वादश यो नित्यं भक्त्या सम्पूजयेन्नरः ॥
दिनेदिने धर्मवृद्धिः पापनाशो भवेदिह ॥ ६४४ ॥
शिवनामा स विज्ञेयो यो लिङ्गाकारताङ्गतः ॥
स्वयन्तुलिङ्गाकृतिमान्मन्त्रसिद्धिविधायकः ॥ ६४५ ॥
त्र्यम्बकः स तु विज्ञेयो यो बिन्दुत्रयभूषितः ॥
शूलाकारा तथा रेखा गतायुष्ट्वप्रदायकः ॥ ६४६ ॥
धूर्जटिस्स तु विज्ञेयो यत्र रेखा जटासमाः ॥
तिस्रो यत्र प्रदृश्यन्ते सोचितो ज्ञानदायकः ॥ ६४७ ॥
शम्भुस्तु पाण्डुरो ज्ञेयो बिन्दुः कृष्णस्तु मस्तके ॥
बिल्वप्रमाणस्तेजस्वी पूजितः स्त्रीवशङ्करः ॥ ६४८ ॥
ईश्वरस्स तु विज्ञेयो रक्तो बिन्दुस्तु मस्तके ॥
एकचक्रो द्विचक्रो वा ह्यन्तरेऽधश्च गोपदम् ॥ ६४९ ॥
मृत्युञ्जयस्स विज्ञेयो ह्यपमृत्युविनाशकः ॥
अधश्चक्रं तदूर्ध्वञ्च श्वेता रेखा त्रिशूलभाक् ॥ ६५० ॥
चन्द्रशेखरनामासावर्धचन्द्रोस्ति मस्तके ॥
मध्ये चक्रद्वयं तस्य सेवनाद्रोगनाशनम् ॥ ६५१ ॥
चन्द्रः स एव विज्ञेयः कपिलो मूर्ध्नि रूक्षितः ॥
चक्रमध्ये भवेद्रेखा मारयेद्रिपुसन्ततिम् ॥ ६५२ ॥
शालग्रामानथो वक्ष्ये शाक्तान्कीटसमुद्भवान् ॥
येषां पूजनतो देवी भवानी सुप्रसीदति ॥ ६५३ ॥
श्रीविद्या सा तले चक्रमूर्ध्वं छत्रं प्रदृश्यते ॥
बाह्ये घण्टाङ्कितो मूर्द्धा स्निग्धा सेव्याखिलैस्तदा ॥ ६५४ ॥
महाकाली तु सा ज्ञेया योक्तचिह्नसमन्विता ॥
द्विच्छिद्राद्यास्सर्वशिलास्त्रिकोणेनाङ्कितास्तु याः ॥ ६५५ ॥
यदायुधाकृतिश्चान्तर्देवी तत्र विनिर्दिशेत् ॥
देवीशिला सचक्रा या दक्षमार्गेण तां यजेत् ॥ ६५६ ॥
सार्चिता वाममार्गेण लोकद्वयसुखावहा ॥
या चक्ररहिता देवी शिला तां वामतोर्चयेत् ॥ ६५७ ॥
स्पर्शः कार्यो न विप्राणां तस्या या क्षोभकृद्भवेत् ॥
सौरी शिला दुर्लभैव प्रायः कलियुगे सुराः ॥ ६५८ ॥
स्फटिकाभा भवेत्सा तु धर्मे मुक्ता विमुञ्चति ॥
सूर्यस्योर्ध्वस्थितं वह्निं साभिषिक्ता प्रवर्षणम् ॥ ६५९ ॥
कुरुते शपथे मिथ्याकृते स्यात्कुष्ठकारिका ॥
इत्यादिलक्षणैर्युक्ता शिला सूर्यस्य सम्मता ॥ ६६० ॥
गणेशः स तु विज्ञेयो यस्तु शुण्डाङ्कितो भवेत् ॥
शुण्डाकारा शिला वापि गजाननसमापि वा ॥ ६६१ ॥
यस्या मध्ये महच्चक्रं सूक्ष्मचक्रं च यद्दिशि ॥
सा शिला तस्य दिक्पस्य सेव्या तद्दिशि राज्यदा ॥ ६६२ ॥
अर्धचन्द्राकृतिर्यत्र दृश्यते शकलद्वयम् ॥
सा तु चन्द्रशिला त्र्यस्रयुक्ता भौमशिला मता ॥ ६६३ ॥
बाणाकारेण चिह्नेन ज्ञेया बुधशिला सुराः ॥
दीर्घेण चतुरस्रेण युक्ता गुरुशिला मता ॥ ६६४ ॥
पञ्चकोणा तु शुक्रस्य चापाकारा शनेर्मता ॥
शूर्पाकारा तु राहोः स्यात्केतोस्तु ध्वजरूपिणी ॥ ६६५ ॥
प्राप्ते कलियुगे घोरे वामाचारविमिश्रिते ॥
भक्ष्याभक्ष्यविचारादिरहिते म्लेच्छसङ्कुले ॥ ६६६ ॥
कामक्रोधादिभिर्व्याप्ते जने स्त्रीभिर्विनिर्जिते ॥
क्व शिष्यः क्व गुरुर्मन्त्रः क्व जपः क्व च सिद्धयः ॥ ६६७ ॥
अयुताब्दे कलेर्याते त्यजेद्विष्णुशिला महीम् ॥
तदर्धञ्जाह्नवीतोयं तदर्धन्देवताशिला ॥ ६६८ ॥
जप एव कलौ श्रेयाञ्च्छालग्रामार्चनं तथा ॥
सूर्यार्घ्यदानसमये दानं विभवतः परम् ॥ ६६९ ॥
आवाहनादिकं कार्यं मूर्त्यादौ त्रिविधं तु तत् ॥
आदावावाहनं कार्यं त्रिर्जपेन्मूलमन्त्रकम् ॥ ६७० ॥
स्वाल्लोकात्सूक्ष्मरूपेण देव आगत्य मूर्तिषु ॥
स्थित एवं भावयित्वा सुषुम्णावर्त्मना सुधीः ॥ ६७१ ॥
आनीय तेजः स्वस्थानान्नासिकारन्ध्रनिर्गतम् ॥
करपुष्पाञ्जलौ स्थाप्य तद्दद्याद्देवमूर्द्धनि ॥ ६७२ ॥
देवस्य तेजस्तन्मूर्तौ आवाहन्याख्यमुर्दया 71 ॥
स्थापयेदुच्चरेन्मूलमेतदावाहनं मतम् ॥ ६७३ ॥
विभोर्निवेशनं यन्त्रं स्थापनं कथितं बुधैः ॥
ततः संस्थापनं कुर्यादिह तिष्ठेति तिष्ठ च ॥ ६७४ ॥
मूलान्ते देवतानाम तस्यान्ते च पठेदिति ॥
आस्थापनीयमुद्रां 72 च दर्शयित्वा विभावयेत् ॥ ६७५ ॥
या तु स्थिरा देवतेति पश्चात्सप्रार्थयेदिति ॥
देवेश भक्तिसुलभ सर्वावरणसंयुत ॥ ६७६ ॥
यावत्त्वां पूजयिष्यामि तावत्त्वं सुस्थितो भव ॥
एवं सम्प्रार्थ्य देवेशं सन्निधापनमाचरेत् ॥ ६७७ ॥
मूलमन्त्रं समुच्चार्य सम्बुध्येत्तां च देवताम् ॥
इह त्वं सन्निधेहीति द्विरुक्त्वा स्वस्य सन्निधौ ॥ ६७८ ॥
स्थितं देवं तोषयेच्च सन्निधापनमुद्रया 73 ॥
देवतायास्ततः कुर्यान्मूलमुच्चर्यसन्निधिम् ॥ ६७९ ॥
सम्बुध्य तां वदेत्पश्चात्सन्निरुद्धो 74 भवेति च ॥
द्विरुच्चरेत्कृपापूर्णां भक्तिभावनिरोधिताम् ॥ ६८० ॥
प्रतिमायां स्थिरं यातां देवतामिति चिन्तयेत् ॥
देवतां सम्मुखी कुर्यान्मूलमुच्चार्य देशिकः ॥ ६८१ ॥
सम्बुध्य तां वदेत्पश्चात्सम्मुखो भव इत्यपि ॥
ध्यायेत्स्वसम्मुखं देवं सुप्रसन्नाननाम्बुजम् ॥ ६८२ ॥
सम्मुखी करणीं मुद्रां दर्शयेदिति तत्स्मृतम् ॥
देवावगुण्ठनं कार्यं मूलमुच्चार्य मन्त्रवित् ॥ ६८३ ॥
सम्बुध्य तामवगुण्ठितो भवेदिति प्रदर्शयेत् ॥
अवगुण्ठनमुद्राञ्च 75 दर्शयेच्चिन्तयेदिति ॥ ६८४ ॥
भक्त्यासम्मोहितं देवं विस्मयोत्फुल्ललोचनम् ॥
सकलीकरणं चैव देवस्य हृदयादिषु ॥ ६८५ ॥
षडङ्गमन्त्रान्विन्यस्य मूलमुच्चार्य देवताम् ॥
सम्बुध्य तां च सकलीकृतो भव वदेत्ततः ॥ ६८६ ॥
ध्यायेदङ्गानि देवे तु प्रतिष्ठाप्याङ्गदेवताः ॥
यस्माद्भिन्नस्वभावानां यदभिन्नं प्रयोजनम् ॥ ६८७ ॥
अङ्गानामङ्गिना सार्द्धं सकलीकरणाद्भवेत् ॥
अमृतीकरणं वक्ष्ये पीठे संस्थाप्य देवताम् ॥ ६८८ ॥
बद्ध्वा सम्यग्धेनुमुद्रां देवमूर्ध्नि प्रवर्षणम् ॥
जायते चामृतश्चैति ध्यायन्नर्घ्योदकेन च ॥ ६८९ ॥
त्रिः सिञ्चेन्मूलमन्त्रेण दीपिनीमन्त्रमन्त्रितम् ॥
अकारादिक्षकारान्तमातृकाभिस्त्रिधा पुनः ॥ ६९० ॥
वाग्भवं वदयुग्मं च वाग्वादिनी च वाग्भवम् ॥
क्लीङ्क्लिन्ने क्लेदिनि क्लेदय महाक्षोभमित्याप ॥ ६९१ ॥
कुरु युग्मं कामबीजम्ॐ मोक्षं कुरु युग्मकम् ॥
प्रासादश्च पुनः प्रासादः सप्तत्रिंशदक्षरः ॥ ६९२ ॥
दीपिनीमनुराख्यातो देवताया हि वृद्धिकृत् ॥
मूलं 76 सम्बोधनान्तं च देवनामामृतीकृतः ॥
भवेति च वदेदित्थममृती करणं त्विदम् ॥ ६९३ ॥
परमीकरणं वक्ष्ये महामुद्रां 77 च बन्धयेत् ॥
उच्चार्य मूलं देवं च पूर्ववत्परमीकृतिः ॥
कृतो भवेति च प्रोच्य ध्यायेद्देवस्य मस्तके परमामृतवृद्धिं च देवस्य हृदयं स्पृशन् ॥ ६९४ ॥
कुर्यात्प्राणप्रतिष्ठां 78 च मम स्थाने वदेत्तथा ॥
द्रेवतानामशेषं च सर्वं प्राग्वत्तदेव हि ॥ ६९५ ॥
तत्तद्दैवतकल्पोक्तास्ततो मुद्राः प्रदर्शयेत् ॥
मुदं स्वं पूरयन्त्यद्धा देहद्वारेण चात्मनः ॥ ६९६ ॥
या अर्पयन्त्ययत्नेन मुद्रास्ताः शक्तयो मताः ॥
मोदयन्ति ग्रहादिभ्यःपापौघं द्रावयन्ति च ॥ ६९७ ॥
मोदनं द्रावणं यस्मादतो मुद्गाः प्रकीर्तिताः ॥
ततः सम्पूजयेद्देवं शक्त्यालभ्योपचारकैः ॥ ६९८ ॥
तत्रादौ पूजनं कार्यं षोडशैरुपचारकैः ॥
आसनं स्वागतं चार्घ्यं पाद्यमाचमनीयकम् ॥ ६९९ ॥
मधुपर्कमाचमनं स्नानं वस्त्रमलङ्कृतिम् ॥
गन्धपुष्पाणि धूपं च दीपनैवेद्यवन्दनम् ॥ ७०० ॥
प्रयोजयेदर्चनायामुपचारान्हि षोडश ॥
दशोपचारा मध्या स्यात्सा गृहस्थैर्विधीयते ॥ ७०१ ॥
अर्घ्यं पाद्यं तथाचामो मधुपर्कस्तथाचमः ॥
गन्धादयो निवेद्यान्ताः उपचारा दश स्मृताः ॥ ७२० ॥
गन्धादयो निवेद्यान्ताः पूजा पञ्चोपचारिका ॥
अगृहस्थैर्गृहस्थैर्वा कर्तव्या कार्यतत्परैः ॥ ७०३ ॥
आदौ कुर्याद्देशिकस्तु वेदमन्त्रेण पूजनम् ॥
ततश्च तान्त्रिकैर्मन्त्रैर्वामी शूद्रश्च तन्त्रतः ॥ ७०४ ॥
ॐ 79 अं हं ह मिदमिदं गृहाण ठद्वयम् ॥
योज्यः सर्वोपचारेषु मन्त्रः पञ्चदशाक्षरः ॥ ७०५ ॥
पठेद्वा वैदिकस्यान्ते तत्र तन्त्रं तु वैदिकः ॥
सर्वत्र वह्निजायायाः स्थाने शूद्रो नमः पठेत् ॥ ७०६ ॥
देवस्य वामभागे तु दद्यान्मूलेन चासनम् ॥
पौष्पं दारुमयं वास्त्रं चार्मं कौशं च तैजसम् ॥ ७०७ ॥
पौष्पं पुष्पादिरचितं कुशदूर्वादिसंयुतम् ॥
नानावर्णसुगन्धं च कोमलं सर्वकामदम् ॥ ७०८ ॥
यस्य यानि निषिद्धानि पुष्पाण्युक्तानि तैः कृतम् ॥
केवलैरासनं हन्ति साधकस्य मनोरथान् ॥ ७०९ ॥
यज्ञदारुसमुद्भूतं बैल्वं वा चन्दनोद्भवम् ॥
गम्भार्या वा समाख्यातं श्रीपर्णस्येप्सितप्रदम् ॥ ७१० ॥
सकण्टकक्षीरयुततालशालविवर्जितम् ॥
चैत्ये श्मशाने सम्भूतं वर्जयेच्च बिभीतकम् ॥ ७११ ॥
रोमजं वाल्कलं कौशजातं कर्पाससम्भवम् ॥
वस्त्रं चतुर्विधं श्रेष्ठं पूर्वम्पूर्वमुदाहृतम् ॥ ७१२ ॥
सिंहव्याघ्रतरक्षूणां छागस्य महिषस्य च ॥
गजानां तुरगाणां च कृष्णसारस्य चर्मणः ॥ ७१३ ॥
आसनं निर्मितं श्रेष्ठं निषिद्धं खारकौक्कुरम् ॥
शृगालस्य वृकस्यापि गोः शशस्य कपेस्तथा ॥ ७१४ ॥
कुशः काशः शरो ग्रन्थिर्यवो दूर्वाश्च बल्वजाः ॥
वीरणं च नडो गुन्द्रः पूर्वाभावे परः परः ॥
योगपीठस्य सदृशमेतेषामासनं स्मृतम् ॥
पूर्वम्पूर्वं श्रेष्ठतमं कौशं दशविधं स्मृतम् ॥ ७१५ ॥
सुवर्णतारताम्राणां 80 सवङ्गानां 81 परम्परम् ॥
हीनं निषिद्धं लोहं तु कांस्यं सैसं च पैत्तलम् ॥ ७१६ ॥
साङ्गं सावरणं देवं पूजार्थमह चागतम् ॥
इति ध्यात्वा तु मूलान्ते स्वागतं परिकीर्तयेत् ॥ ७१७ ॥
ततोर्घ्यं मूर्ध्नि दद्याच्च कालोस्य त्रिविधो मतः ॥
आगताय तथार्चायां स्नातुमासनगाय च ॥ ७१८ ॥
पूजान्ते गन्तुकामाय देवायार्घ्यं प्रदापयेत् ॥
अर्घ्यद्रव्ययुतैस्तोयैरुपचारमनुं पठन् ॥ ७१९ ॥
आगते स्नानकाले च नैवेद्योपक्रमेपि च ॥
त्रिविधः पाद्यकालः स्यात्पाद्यं स्यात्पादधावनम् ॥ ७२० ॥
पाद्ये च मधुपर्के च स्नाने वस्त्रोपवीतयोः ॥
भोजने चाचमः शुद्धतोयैः षोढा प्रकीर्तितः ॥ ७२१ ॥
क्षौद्रं कृत्वा कांस्यपात्रे दद्याद्देवमुखाम्बुजे ॥
दिवसे दधिसंयुक्तमुपचारमनुं पठन् ॥ ७२२ ॥
जातीफललवङ्गैलाचन्द्रकङ्कोलचूर्णयुक् ॥
82 पुनराचमनीयार्थं तोयं देवमुखेऽर्पयेत् ॥ ७२३ ॥
सुगन्धतैलैरभ्यज्य सुगन्धामलकादिभिः ॥
उद्वर्तनं 83 विधायाथ स्नापयेदुष्णवारिणा ॥ ७२४ ॥
गन्धोदकैश्च मूलेन यथाशक्त्यभिषेचयेत् ॥
दुग्धदध्याज्यमधुभिः 84 खण्डेन च पृथक्पृथक् ॥ ७२५ ॥
नारिकेलोदकेनापि तथा तालफलाम्बुना ॥
गन्धद्रव्यैश्च बहुभिस्तथा गन्धोदकेन च ॥ ७२६ ॥
ऐक्षवेणोदकेनापि 85 सकर्पूरादिगन्धिना ॥
शुद्धोदकैश्च मूलेन यथाशक्त्यभिषेचयेत् ॥ ७२७ ॥
कदलीपनसाश्वत्थरसेनापि सुगन्धिना ॥
शतं सहस्रमयुतं 86 शक्त्यावाथाभिषेचयेत् ॥ ७२८ ॥
शङ्खं सम्पूज्य तेनैव स्नापयेत्तमनन्यधीः ॥
सर्वेषां प्रीतिदः शङ्खो न सूर्यस्य कदाचन ॥ ७२९ ॥
पञ्चामृतैस्तीर्थतोयैरभिषिक्तः शिवो मुदम् ॥
लभते नाथ शङ्खोदैस्ततः शुद्धोदकेन च ॥ ७३० ॥
स्नानं पुरुषसूक्तेन कार्यं मूलेन वा त्रिभिः 87 ॥
प्रदेयं विष्णवे मुख्यं पीतं कौशेयमम्बरम् ॥ ७३१ ॥
शिवाय च सरस्वत्यै पार्श्वनाथाय शुभ्रकम् 88 ॥
रक्तं शक्त्यर्कविघ्नानां 89 भौमसौगतयोरपि 90 ७३२ ॥
कृष्णं भैरवकाल्यादेराधादेर्नीलमम्बरम् ॥
अच्छिद्रं मलहीनं च सद्यदनन्यधारितम् ॥ ७३३ ॥
कार्पासजं वा कौशेयं राङ्कवं वा विशिष्यते ॥
तैलादिदूषिताद्रोगः सच्छिद्राद्व्रात्यता 91 भवेत् ॥ ७३४ ॥
परकीयाच्च दारिद्र्यं जीर्णादायुःक्षयो भवेत् ॥
दग्धाद्विपद्भवेद्दास्यं दत्ते गात्रावलम्बिते ॥ ७३५ ॥
सूचीविद्धात्स्फोटकादि मलिनात्कान्तिहीनता ॥
उप्तकेशे पुत्रनाशः पूजनादौ प्रयोजिते ॥ ७३६ ॥
तानि नानाविधानि स्युर्मुकुटादिप्रभेदतः ॥
स्त्रीपुम्प्रभेदतश्चापि विज्ञेयानि विचक्षणैः ॥ ७३७ ॥
चूर्णं घृष्टं धूमसारः सम्मर्दः प्राणिसम्भवः ॥
गन्धः पञ्चविधो ज्ञेयो मोददः स्वर्गवासिनाम् ॥ ७३८ ॥
प्रशस्तगन्धयुक्तानां पत्रचूर्णानि यानि च ॥
तानि गन्धाह्वयानि स्युश्चूर्णाद्यः प्रथमः स्मृतः ॥ ७३९ ॥
घृष्टो मलयजो गन्धस्सरलो 92 देवदारु च ॥
कृष्णागुरुः कदम्बश्च द्वितीयोयं प्रकीर्तितः ॥ ७४० ॥
शतपत्रीरसे 93 मग्नाच्चन्दनागुरुकादिकात् ॥
पिप्पलीयन्त्रतः काचकुप्यां सिद्धस्तृतीयकः ॥ ७४१ ॥
कृष्णागुरुश्चन्दनदेवदारु कालीयकं 94 बालकभद्रमुस्तम् 95 ॥
शिलारसः कुन्दरकोलकं 96 च सेवन्ति 97 काकं तुरगाभिधानम् 98 ॥ ७४२ ॥
मृत्कर्पटैः संयुतकाचकुप्यां दत्त्वा मुखे लोहमलोहसूत्रैः ॥
निष्कासितो धूमरसस्तु तस्य सौगन्धिकैः काचकठोरकेयः ॥ ७४३ ॥
महामोदनामा सुरामोदकारी तथा भूतयक्षोरगातङ्ककारी ॥
ज्वरारोचकच्छर्दिशङ्कापहारी ललाटे स्थितो दृष्टिदोषापहारी ॥ ७४४ ॥
यथाभागमनेके तु सुगन्धागन्धवारिभिः ॥
मर्दितास्स चतुर्थस्तु सम्मर्द इति कीर्त्यते ॥ ७४५ ॥
कस्तूरिका चैकभागा द्वौ भागौ मुस्तकस्य च ॥
तदर्धैलाजटामांसी त्वक्कुष्ठं च शिलारसः ॥ ७४६ ॥
चतुर्भागं बालकं च घृतभृष्टा तथा नखी ॥
सुगन्धकोकिला 99 लोहबाणो 100 राजवचा तथा ॥ ७४७ ॥
अष्टौ भागाः केशरस्य मुरायाश्चैव षोडश ॥
कृष्णागुरुश्च कालीयं तद्भागाष्टकमुच्यते ॥ ७४८ ॥
तथा सेवन्तिकाकस्य भागानेकत्र मर्दयेत् ॥
कामोदनामा सम्मर्दो देवताराजतोषकृत् ॥ ७४९ ॥
कास्तूरिकश्चौतुमदः प्राणजात इतीर्यते ॥
पञ्चमोयं सुगन्धस्तु देवदानवताषेकृत् ॥ ७५० ॥
पुष्पं पञ्चविधं प्रोक्तं परं चापरमेव च ॥
उत्तमं मध्यमं हीनन्तेषां वक्ष्यामि लक्षणम् ॥ ७५१ ॥
परं सुवर्णपुष्पं स्यात्तत्सदा योग्यमेव हि ॥
अभ्यङ्गपूर्वकं देयमर्चनार्हं सदा भवेत् ॥
अपरं राजतं पुष्पं ताम्रजं च प्रकीर्तितम् ॥ ७५२ ॥
सदायोग्यञ्चेदमपि त्रिवर्षं चैकवर्षकम् ॥
तुलसीकेतकी पद्मं करवीरञ्च 101 मालती ॥ ७५३ ॥
पञ्चैतान्युत्तमान्याहुर्मध्यमानि तथा दश ॥
मल्लिका 102 कुन्दमन्दारबकुलार्जुनकिंशुकाः 103 ७५४ ॥
पारिजातमशोकं च बिल्वं चम्पकमेव च ॥
एतद्भिन्नं सुवर्णं च सुगन्धहतमुच्यते ॥ ७५५ ॥
तत्तन्मन्त्रविधानेषु विहितानि समर्चयेत् ॥
नार्पयेद्भूमिपतितं कोष्णकं 104 कृमिभक्षितम् ॥ ७५६ ॥
अङ्गलग्नं समाघ्रातं म्लानं पर्युषितं 105 तथा ॥
उग्रगन्धमगन्धं च मध्याह्नस्नानतस्तथा ॥ ७५७ ॥
पत्रं वा यदि वा पुष्पं फलं नेष्टमधोमुखम् ॥
दुःखदन्तु समाख्यातं यथोत्पन्नं तथार्पणम् ॥ ७५८ ॥
चित्रपूजासु सर्वासु न विरुद्धस्य दूषणम् ॥
अधोमुखार्पणं नेष्टं पुष्पाञ्जलिविधौ न तत् ॥ ७५९ ॥
न पर्युषितदोषोस्ति तुलसीबिल्वचम्पके ॥
जलजे बकुलेगस्त्ये मालाकारगृहेषु 106 च ॥ ७६० ॥
केतकीकुटजैर्नेशं 107 नार्चयेदक्षतैर्हरिम् ॥
न दूर्वया यजेद्दुर्गां बिल्वपत्रैर्दिवाकरम् ॥ ७६१ ॥
लम्बोदरन्तुलस्या च एतद्धीनैः समर्चयेत् ॥
नार्कपुष्पैर्यजेद्देवीमादित्यं तगरेण च ॥ ७६२ ॥
गणेशाय च सूर्याय रक्तपुष्पमतिप्रियम् ॥
पुष्पाभावे प्रवालैर्वा तदभावे च कोरकैः 108 ॥ ७६३ ॥
तदभावे फलैः पत्रैस्तदभावे तृणैः कुशैः ॥
कपित्थं दाडिमं कोलं 109 जम्बुचिञ्चामलाम्रकम् 110 ॥ ७६४ ॥
मातलुगं 111 च जम्बीरं पनसं 112 श्रेष्ठमुच्यते ॥
अथ पुष्पोपचारान्ते कुर्यादावरणार्चनम् ॥ ७६५ ॥
मन्त्रसम्पुटितैर्वर्णैर्मातृकायाः सबिन्दुकैः ॥
क्रमेण गन्धपुष्पाद्यैर्देवस्याङ्गं समर्चयेत् ॥ ७६६ ॥
लयाङ्गत्वेन मातॄणां स्थानाङ्गेषु ततः परम् ॥
आदावावरणं पूज्यं तदन्ते देवतां यजेत् ॥ ७६७ ॥
एवमभ्यर्च्य सर्वास्ता यथोक्ता वृत्तिदेवताः ॥
केशरेष्वग्निकोणादौ हृदयादीनि पूजयेत् ॥ ७६८ ॥
नेत्रं मध्ये दिशास्वस्त्रं ध्यातव्याश्चाङ्गदेवताः ॥
तुषारस्फटिकश्यामनीलकृष्णारुणार्चिषः ॥ ७६९ ॥
वरदाभयदारिण्यः प्रधानतनवः स्त्रियः अग्नीशासुरवायव्यमध्यदिक्षुक्रमात्स्थिताः ॥ ७७० ॥
देवस्य 113 पुरतः प्राची ज्ञेयावरणपूजने ॥
तदादिपरिवाराणां प्रादक्षिण्येन पूजनम् ॥ ७७१ ॥
अङ्गमन्त्रास्तु पूजायामोन्ताश्चान्ताहुतौ 114 तथा ॥
स्वाहान्ता अथ देवस्याभिमुखं तास्समास्थिताः ॥ ७७२ ॥
ततो यजेल्लोकपालान्स्वस्वदिक्षु व्यवस्थितान् ॥
आयुधानि तदग्रे च तेषां ध्यानमथोच्यते ॥ ७७३ ॥
इन्द्रं सुराधिपं पीठमैरावतगतं विभुम् ॥
सहस्रनेत्रं द्विभुजं पीठवज्रधरं भजे ॥ ७७४ ॥
अग्निं तेजोधिपं रक्तं श्वेतशक्तिकरं प्रभुम् ॥
सभूषणं मेषवाहं देवरं कान्तलोचनम् ॥ ७७५ ॥
यमं प्रेताधिपं कृष्णं महिषो परिसंस्थितम् ॥
कालदण्डकरं क्रूरं वृतं दूतैर्भयानकैः ॥ ७७६ ॥
रक्षोधिपं च निर्-ऋतिं शवासनसमास्थितम् ॥
धूमाभं खड्गहस्तञ्च पिङ्गलश्मश्रुकूर्चकम् ॥ ७७७ ॥
मकरे संस्थितं विद्युन्निभं पाशकराम्बुजम् ॥
शुभ्राङ्गं तुन्दिलं वन्दे वरुणं यादसां पतिम् ॥ ७७८ ॥
वायुं प्राणप्रियं धूम्रं रक्ताङ्कुशकरं परम् ॥
वानप्रस्थसमारूढं धावन्तं वेगतो भजे ॥ ७७९ ॥
यक्षाधिपं कुबेरं च शुक्लं शुक्लगदाधरम् ॥
नारसिंहासनारूढं पानपात्रयुतं भजे ॥ ७८० ॥
विद्याधिपं नीलशूलधरं वृषभवाहनम् ॥
त्रिनेत्रं भालचन्द्रं च जटाजूटधरं सितम् ॥ ७८१ ॥
गौरं नागाधिपं मूर्ध्नि फणामण्डलभूषितम् ॥
पीनोत्तुङ्गं चक्रधरमनन्तं विश्वलं भजे ॥ ७८२ ॥
लोकाधिपं विधातारं रक्तं पद्मकरं शुभम् ॥
हंसारूढं वेदपाठं कुर्वन्तं तमहं भजे ॥ ७८३ ॥
पुनर्मूलं 115 समुच्चार्य साङ्गायै सपरीति च ॥
वारायै च नामदेव्याश्चतुर्थ्यन्तमुदीरयेत् ॥ ७८४ ॥
नम इत्यर्चयेद्गन्धपुष्पाद्यैस्साधकस्त्रिधा ॥
धूपपात्रं ततोस्त्रेण लक्षयेत्पूजयेत्ततः ॥ ७८५ ॥
हृदाणुनाथ 116 चास्त्रेण घण्टां सम्पूज्य वादयेत् ॥
धूपो देयो गणेशस्य प्रियः प्रोक्तस्तु गुग्गुलुः ॥ ७८६ ॥
सर्जं 117 देव्या महेशस्य निर्यासो देवदारुजः ॥
विष्णोः कृष्णागुरुः सिंह्लं 118 भास्करस्य प्रियं मतम् ॥ ७८७ ॥
शक्तेर्दशाङ्गं वक्ष्यामि शैलेयं मलयोद्भवम् 119 ॥
नखं कुष्ठं सर्जरसमेकैकांशं प्रकल्पयेत् ॥ ७८८ ॥
शिलारसागुरुजटामांसीभागद्वयं मतम् ॥
षण्माक्षिकं 120 सिता चाष्टौ धूपोयं शक्तिमोहनः ॥ ७८९ ॥
हरीतकीसर्जरसमुरामांस्यः कुभागिकाः 121 ॥
लाक्षा त्रिभागा चत्वारो भागाः शैलजमुस्तयोः ॥ ७९० ॥
पञ्चभागं नखं प्रोक्तं षड्भागं कुष्ठमुच्यते ॥
द्वादशां शोगुरुः केशविघ्नोविष्णुदशाङ्गकः 122 ॥ ७९१ ॥
मधु मुस्ता घृतं गन्धो गुग्गुल्वगुरुशैलजम् ॥
सरलं सिह्लसिद्धार्थैः शेषदेवदशाङ्गकः ॥ ७९२ ॥
वामेन तु तथा धूपमग्रे वा न तु दक्षिणे ॥
न धूपं वितरेद्भूमौ नासने न पटे तथा ॥ ७९३ ॥
यथा तथाधारगतं कृत्वा तं विनिवेदयेत् ॥
मेदोमज्जायु तो नेष्टो विष्णवे दारुसम्भवः ॥ ७९४ ॥
पूजयित्वा स्वमन्त्रेण घण्टावादनपूर्वकम् ॥
दीपं दद्यात्तु विभवैर्नानावाद्यपुरस्सरम् ॥ ७९५ ॥
तारो 123 जयध्वनिपदं मन्त्रमानेग्निगेहिनी ॥
एकादशाक्षरो मन्त्रो घण्टायास्सर्वसिद्धिदः ॥ ७९६ ॥
आवाहनार्घ्यधूपेषु पुष्पे नैवेद्यदीपयोः ॥
घण्टानादं प्रकुर्वीत विशेषाद्धूपदीपयोः ॥ ७९७ ॥
पूजाकालं विनान्यत्र कुर्यात्तस्या न वादनम् ॥
नानया च विना पूजां कारयेत्सिद्धिलालसः ॥ ७९८ ॥
गोसर्पिषा वा तैलेन वर्त्त्या च लघुगर्भया ॥
उच्चैः प्रदर्शयेद्दीपं न च मेदादिना क्वचित् ॥ ७९९ ॥
न मिश्रीकृत्य दद्यात्तु दीपं स्नेहाद्घृतादिकान् ॥
दत्त्वा मिश्रीकृतस्नेहात्तामिस्रं नरकं व्रजेत् ॥ ८०० ॥
पारावतभ्रमाकारं 124 भ्रामयेच्च प्रदर्शयेत् ॥
देवस्य सर्वावयवाञ्छ्लोकमेकं ततः पठेत् ॥ ८०१ ॥
सुप्रकाशो महादीपः सर्वत्र तिमिरापहः ॥
सबाह्याभ्यन्तरं ज्योतिर्दीपोयं प्रतिगृह्यताम् ॥ ८०२ ॥
दक्षिणे सार्षपं तैलं तिलतैलस्य वामतः ॥
सितावर्तिर्दक्षिणतो वामतो रक्तवर्तिका ॥ ८०३ ॥
पात्रेषु दीपो दातव्यो न तु भूमौ कदाचन ॥
कृत्वा तु पृथिवी भागे दीपमुत्सृजते नरः ॥
स तापपापं नरकं प्राप्नोति च शतं समाः ॥ ८०४ ॥
नैव निर्वापयेद्दीपं लक्ष्मीनाशकरो यतः ॥
पाद्यमाचमनीयं च दत्त्वा नैवेद्यमर्पयेत् ॥ ८०५ ॥
निधाय स्वर्णकं पात्रं साधारं मण्डले त्विह ॥
संस्थाप्य चतुरसं च संस्कुर्याच्छास्त्रमार्गतः ॥ ८०६ ॥
अस्त्रमन्त्रेण सम्प्रोक्ष्य चक्रमुद्राभिरक्षितम् 125 ॥
स्पर्शदृष्ट्यादिदोषांश्च वायुबीजेन 126 शोषयेत् ॥ ८०७ ॥
स्पृशन्दक्षकराग्रेण वह्निबीजेन 127 निर्दहेत् ॥
वम्बीजेनामृतीकृत्य मूलमन्त्रेण तत्पुनः 128 ॥ ८०८ ॥
स्पृशेत्कराभ्यां विधिवदष्टवाराभिमन्त्रितम् ॥
धेनुमुद्रां प्रदर्श्याथ गन्धपुष्पैः समर्चयेत् ॥ ८०९ ॥
देवमभ्यर्च्य कुर्याच्च पुष्पाञ्जलिमनन्यधीः ॥
हेमपात्रस्थितं दिव्यं परमान्नं सुसंस्कृतम् ॥ ८१० ॥
पञ्चधा षड्रसोपेतं गृहाण मम सिद्धये ॥
मूलमन्त्रं समुच्चार्य स्वाहान्तं जलमर्पयेत् ॥ ८११ ॥
कराभ्यां संस्पृशन्पात्रं नैवेद्यान्ते नमो वदेत् ॥
देवस्य दक्षिणे हस्ते जलं दत्त्वा पठेदिदम् ॥ ८१२ ॥
अमृतोपस्तरणमसि स्वाहेति भवाक्षरः 129 ॥
दर्शयेद्दक्षहस्तेन विकचोत्पलसन्निभाम् ॥ ८१३ ॥
दर्शयित्वा ग्रासमुद्रां 130 पञ्च प्राणाहुतीश्चरेत् ॥
कनिष्ठानामिकाङ्गुष्ठयोगः प्राणस्य मुद्रिका ॥ ८१४ ॥
तया ग्रासं गृहीत्वा प्राणाय स्वाहेति संवदेत् ॥
तर्जनीमध्यमाङ्गुष्ठयोगेपानपदं वदेत् ॥
ङेन्तं स्वाहान्तमथ च व्यानाय च ततो वदेत् ॥ ८१५ ॥
स्वाहान्तमध्यमानामाङ्गुष्ठयोगेन निर्वपेत् ॥
हित्वा कनिष्ठां सर्वाभिरुदानायाग्निगेहिनी ॥ ८१६ ॥
सर्वाभिस्तु समानाय स्वाहोक्त्वा ग्रासमर्पयेत् ॥
ततः स्वर्णादिजे पात्रे सुतोयं धेनुमुद्रया ॥ ८१७ ॥
अमृतीकृत्य देवाय देयं मन्त्रमिमं पठेत् ॥
नमस्ते देवदेवेश सर्वतृप्तिकरं परम् ॥
अन्नं निवेदितं शुद्धं प्रकृतिस्थं सुशीतलम् ॥ ८१८ ॥
परमानन्दसम्पूर्णो गृहाण जलमुत्तमम् ॥
उक्त्वैवं देवतावामे जलपात्रं निवेशयेत् ॥ ८१९ ॥
त्रिभिर्वर्णैः प्रदातव्यं देवार्थं पाकभोजनम् ॥
घृतपक्वं दुग्धसिद्धं साधितं केवलाग्निना ॥ ८२० ॥
युक्तमैक्षवपङ्केन तच्छूद्रस्य प्रशस्यते ॥
ततः पुष्पाञ्जलिं दद्यादस्त्रमन्त्रेण बन्धनम् ॥ ८२१ ॥
दिशां कृत्वा जवनिकां 131 देवस्य परितो न्यसेत् ॥
अमृतात्मकनैवेद्यं नम इत्युच्चरेत्पुनः ॥ ८२२ ॥
धेनुमुद्रां प्रदर्श्याथ भुञ्जानां देवतां स्मरेत् ॥
अष्टोत्तरशतं जप्त्वा मूलमन्त्रं ददेज्जलम् ॥ ८२३ ॥
नैवेद्यान्ते त्वाचमनं दत्त्वा होमविधिं चरेत् ॥
पूर्ववत्संस्कृते वह्नौ देवमावाह्य मन्त्रवित् ॥ ८२४ ॥
सम्पूज्य मूलमनुना पञ्चविंशतिमाहुतीः ॥
हुनेदाज्येन हविषा तिलैर्वा पायसैः शुभैः ॥ ८२५ ॥
तण्डुलैस्तिलमिश्रैर्वा केवलैर्वापि पुष्पकैः ॥
अङ्गावरणदेवानामेकैकामाहुतिं हुनेत् ॥ ८२६ ॥
उद्वास्य देवं वह्निं च पूजास्था नं व्रजेत्ततः ॥
उपविश्यासने मन्त्रैर्दद्याद्भूतबलिं ततः ॥ ८२७ ॥
ईशाने मण्डलं कृत्वा साधारं तत्र निक्षिपेत् ॥
अन्नं व्यञ्जनतोयाढ्यं पात्रं पुष्पादिपूरितम् ॥
तत्र भूतानि सम्पूज्य ततस्तेभ्यो बलिं हरेत् ॥ ८२८ ॥
ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ॥
योगिन्योप्यग्निरूपाश्च गणानामधिपाश्चये ॥ ८२९ ॥
भूचराः खेचराश्चैव ये तिष्ठन्त्यन्तरिक्षगाः ॥
सर्वतः प्रीतमनसो भूता गृह्णन्त्विमं बलिम् ॥ ८३० ॥
वामहस्तेन तत्पात्रे जल धारां समर्पयेत् ॥
पूष्पाञ्जलिं स्मादाय भूतानि प्रार्थयेदिति ॥ ८३१ ॥
भूतानि यानीह वसन्ति भूमौ बलिं गृहीत्वा विधिवत्प्रयुक्तम् ॥
सन्तोषमानत्वा व्रजन्तु सर्वे समन्ततोन्यत्र नमोस्तु तेभ्यः ॥ ८३२ ॥
दत्त्वा पुष्पाञ्जलिं नत्वा विहरन्तु यथासुखम् ॥
भूतादीनि च नाराचमुद्रया विसृजेत्ततः ॥ ८३३ ॥
देवं तृप्तमिति ध्यात्वा नैवेद्यं गतसारकम् ॥
सञ्चिन्त्य रक्षोदिग्भागे पात्रं तत्स्थापयेत्ततः ॥ ८३४ ॥
गोमयाद्भिस्तदस्त्रेण नैवेद्यं स्थापयेत्ततः ॥
देवोच्छिष्टं गृहीत्वा तु निर्माल्यभोजिने नमः ॥ ८३५ ॥
ऐशान्यां तु विनिक्षिप्य हस्तं प्रक्षालयेत्ततः ॥
पुनरामचमनं दद्यात्करोद्वर्तनमे वच ॥ ८३६ ॥
शुद्धमाचमनं दत्त्वा सुगन्धैर्गन्धयेत्करौ ॥
ततो दद्याच्च ताम्बूलं विष्णवे द्वादशाङ्गकम् ॥ ८३७ ॥
खादिरैलालवङ्गेन्दुचूर्णपर्णतमालकम् ॥
जातीफलं च जावित्रीकस्तूरिकेशरैर्युतम् ॥ ८३८ ॥
पौगं फलमथ प्रोक्तं दशाङ्गं भस्करस्य तु ॥
मृगनाभितमालाभ्यां हीनं विधेश्वरस्य तु ॥ ८३९ ॥
पञ्चाङ्गं चूर्णखदिरपर्णपूगफलेन्दुकम् ॥
शैवं देव्या जातिकोशयुतं तच्च महेशितुः ॥ ८४० ॥
ततश्च मुकुटादीनि दद्याद्भूषणकानि च ॥
दर्शयेच्च तथादर्शं कल्पयेच्छत्रचामरे ॥ ८४१ ॥
शिरस्यारोप्य देवस्य दूर्वाक्षतपवित्रकम् ॥
आरात्रिकं ततः कुर्याद्धर्मकामार्थसिद्धये ॥ ८४२ ॥
सौवर्णे राजते कांस्ये लोकनेत्रमनोहरे ॥
कुङ्कुमेन लिखेत्पद्ममष्टपत्रं सुशोभनम् ॥ ८४३ ॥
कर्णिकायां महादीपं तत्पत्रेष्वष्टदीपकान् ॥
यवगोधूमरचिताञ्च्छर्करादुग्धसंयुतान् वलयाञ्चितशोभाभिः शोभितान्घृतपूरितान् ॥ ८४४ ॥
अभिमन्त्र्य ततो मन्त्री रत्नेश्वर्या नवार्णतः ॥
श्रीं 132 ह्रीं ग्लूं स्तूं त्वथ प्राग्वत्ततः श्रीं ह्रीमिति क्रमात् ॥ ८४५ ॥
रत्नेश्वर्यास्समुद्दिष्टस्ततो मूलेन तां यजेत् ॥
ततस्तत्पात्रमुद्धृत्य मस्तकान्तं पुनः पुनः ॥ ८४६ ॥
नववारं भ्रामयेच्च चक्रमुद्रां प्रदर्शयेत् ॥
देवं प्रणम्य च ततः प्राणायामत्रयं चरेत् ॥ ८४७ ॥
मूलमन्त्रेणाथ पूरं न्यासपूर्वान्समाचरेत् ॥
अष्टोत्तरसहस्रं तु नव द्वे त्रिशतं तु वा ॥ ८४८ ॥
अष्टोत्तरशतं चापि जपेन्मूलमतन्द्रितः ॥
समाप्ते तु जपे मालां निदद्यान्मस्तकोपरि ॥
अर्घ्यपात्राज्जलं चैव गृहीत्वेदं पठेत्पुनः ॥ ८४९ ॥
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ॥
सिधिर्भवतु मे देव त्वत्प्रसादाज्जगत्पते ॥ ८५० ॥
देवस्य दक्षिणेहस्ते तोयं दत्त्वा समर्पयेत् ॥
जपश्च जपमाला च स्थाप्या रहसि वेष्टिता ॥
ततस्तु गीतस्तुतिभिर्घण्टावादनपूर्वकम् ॥ ८५१ ॥
ब्राह्मणो वेदमन्त्राद्यैः क्षत्त्रियः संहितादिभिः ॥
पौराणिकाद्यैर्वैश्यस्तु शूद्रस्तु प्राकृतादिभिः ॥ ८५२ ॥
वामिनस्तूपचारान्ते कुर्युर्मद्येन तर्पणम् ॥
तेषामनित्यो होमस्तु नित्यं तर्पणसेवनम् ॥ ८५३ ॥
कौलिकैः शक्तिसहितैस्तदुच्छिष्टञ्च सेचयेत् ॥
मोहाद्वा कामतः शूद्रः पुराणं वा स्मृतिं पठेत् ॥
संहितां नरक याति पितृभिस्सह पापकृत् ॥ ८५४ ॥
यः शूद्रो बुद्धिपूर्वन्तु शृणुयाच्छ्रावयेद्द्विजान् ॥
वेदांस्तौ दुःखितावस्मिन्भवेन्यत्र च नारकौ ॥ ८५५ ॥
अधिकारमदाद्यस्तु धनस्य मदतोपि वा ॥
शूद्रस्तु शृणुयाद्वेदं स निर्वंशस्तु निर्धनः ॥ ८५६ ॥
अज्ञानाच्चेच्छ्रुतो वेदः श्रावितो वा द्विजन्मना ॥
प्राजापत्यत्रयं कृत्वा तौ संशुद्धौ भविष्यतः ॥ ८५७ ॥
ततोर्घ्यपात्रमादाय मूलमुच्चार्य मन्त्रतः ॥
साधु वा साधु वा कर्म यद्यदाचरितं मया ॥
तत्सर्वं भगवन्देव गृहाणाराधनं वरम् ॥ ८५८ ॥
इत्यर्घ्योदकमुत्सृज्य किञ्चिद्देवस्य दक्षिणे ॥
करे समर्पयेद्विद्वान्कृतमाराधनं ततः ॥
भक्त्या प्रणम्य देवेशं श्लोकैरेभिः समर्पयेत् ॥ ८५९ ॥
यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् ॥
निवेदितं च नैवेद्यं तद्गृहाणानुकम्पया ॥ ८६० ॥
आवाहनं न जानामि न जानामि विसर्जनम् ॥
पूजां चैव न जानामि त्वं गतिः परमेश्वर ॥ ८६१ ॥
कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम ॥
अन्तश्चारेण भूतानां द्रष्टा त्वं परमेश्वर ॥ ८६२ ॥
नाथ योनिसहस्रेषु येषुयेषु व्रजाम्यहम् ॥
तेषुतेष्वचला भक्तिरव्ययास्तु सदा त्वयि ॥ ८६३ ॥
देवो दाता च भोक्ता च देवस्सर्वमिदं जगत् ॥
देवो जयति सर्वत्र यो देवः सोहमेव हि ॥ ८६४ ॥
ततोर्घ्यपात्रतोयेन कुर्यादाराधनार्पणम् ॥
ब्रह्मार्पणस्य 133 मनुना कुर्याद्ब्रह्मार्पणं ततः ॥ ८६५ ॥
तारस्तत्सत्पूर्वमिति प्राणबुद्धीति संवदेत् ॥
देहधर्माधिकारेति जाग्रत्स्वप्नसुषुप्त्यवस्थासूक्त्वा मनसा वाचा कर्मणाभ्यन्तरा ततः ॥ ८६६ ॥
यच्छब्दश्चोदरेणेति शिष्ण्वा यच्च स्मृतं च यत् ॥
उक्तं यच्च कृतं तच्च सर्वं ब्रह्मार्पणं भवेत् ॥ ८६७ ॥
भूस्स्वाहेति च मन्त्रोयं षट्षष्ट्यर्णः समीरितः ॥
उद्वासयेत्ततो देवं परिवारगणैस्सह ॥ ८६८ ॥
इति पुष्पाञ्जलिं दत्त्वा प्रणम्य परिभावयेत् ॥
देवस्याग्रे विलीनं तु रश्मिवृन्दमशेषतः ॥ ८६९ ॥
तेजोरूपं शिवं ध्यात्वा क्षमस्वेति पुनः पुनः ॥
क्षमयारोपयेत्स्वीये हृदम्भोजे तु देवताम् ॥ ८७० ॥
गच्छगच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर ॥
यत्ते ब्रह्मादयो देवा न विदुः परमं पदम् ॥ ८७१ ॥
विसृज्यानेन मन्त्रेण ततः पूरकवायुना ॥
ध्यायेच्च मन्त्रेणानेन ध्यात्वा तां स्थापयेद्धृदि ॥ ८७२ ॥
तिष्ठतिष्ठ परस्थाने स्वस्थाने परमेश्वर ॥
यत्र ब्रह्मादयः सर्वे सुरास्तिष्ठन्ति मे हृदि ॥ ८७३ ॥
इति संस्थाप्य सम्पूज्य स्वात्मानं तन्मयं स्मरेत् ॥
ऐशान्यां मण्डलं कुर्याद्द्वारि पद्मविवर्जित्म् ॥ ८७४ ॥
निर्माल्ये भोक्तुं पूजार्थं पञ्चायतनपूजने ॥
कर्तव्यानि तु पञ्चैव ईशानाद्यं समर्चयेत् ॥ ८७५ ॥
लम्बोदरो गणेशस्य तेजश्चन्द्रो विवस्वतः ॥
विष्वक्सेनो हरेः प्रोक्त ईश्वरी च महेशितुः ॥ ८७६ ॥
चण्डेश्वरो भवान्याश्च मन्त्रैरेतादृशं चरेत् ॥
लेह्यचोष्यान्नपानादि निर्माल्यं प्रविलेपनम् ॥ ८७७ ॥
निर्माल्यभोजिने तुभ्यं ददामि श्रीशिवाज्ञया ॥
इति नैवेद्यशेषं तु दत्त्वा नत्वा विसर्जयेत् ॥ ८७८ ॥
अथ ह्रीं ह्रीं सः बीजैस्तु सहितैर्नमसा पुनः ॥
मन्त्रेण भास्करायार्चामच्छिद्रार्थं निवेदयेत् ॥ ८७९ ॥
नमो विवस्वते तुभ्यं भास्वते विष्णुतेजसे ॥
जगत्सवित्रे शुचये सवित्रे कर्मदायिने ॥ ८८० ॥
ततः कृताञ्जलिश्चित्तं स्थिरीकृत्य पठेदिति ॥
यज्ञच्छिद्रं तपश्चिद्रं यच्छिद्रं पूजने मम ॥
सर्वं तदच्छिद्रमस्तु भास्करस्य प्रसादतः ॥ ८८१ ॥
अर्घ्यतोयेन च ततो गन्धपूजावशेषितम् ॥
आलोड्य किञ्चिन्मूलेन मन्त्रयेदष्टधा पुनः ॥ ८८२ ॥
प्रोक्षयेत्तेन तोयेन तत्स्थानं मूलमन्त्रतः ॥
निर्माल्यं मस्तके धार्यं मूलमन्त्रेण मन्त्रिणा ॥ ८८३ ॥
प्राश्य पादोदकं पश्चान्नैवेद्यं विभजेत्ततः ॥
तद्भक्तेभ्यः स्वयं भुक्त्वा तन्मयो हि वसेत्सुखम् ॥ ८८४ ॥
शैवस्तु शिवनिर्माल्यप्रसादस्याधिकारवान् ॥
अन्यो निरयमाप्नोति न दोषः पञ्चसङ्गमे ॥ ८८५ ॥
स्वयं तु लिङ्ग तीर्थं वा प्रसादं वापि भक्तितः ॥
कृत्वा शैवा ह्यशैवा वा मुच्यन्ते पापराशितः ॥ ८८६ ॥
शूद्रसंस्थापितं लिङ्गं पूजयेद्वा नमेत्तदा ॥
तत्सम्बन्धिप्रसादादि गृह्णन्निरयमाप्नुयात् ॥ ८८७ ॥
प्रातरुत्थाय गुर्वादि स्मृत्वासम्यक्समाचरेत् ॥
स्नानं सन्ध्यां तर्पणं च वैदिकं तान्त्रिकं तथा ॥ ८८८ ॥
आगत्य च गृहे पश्चात्प्राणायामत्रयं चरेत् ॥
कुर्याच्च मातृकान्यासं तथा छन्दर्षिदैवतम् ॥ ८८९ ॥
तन्मन्त्रस्य कराङ्गाख्यं न्यासं कृत्वा तथा स्थितिम् ॥
मन्त्रस्नानं देवतायाः पूजां पञ्चोपचारिकाम् ॥ ८९० ॥
वैश्वदेवान्तरे तत्र दद्यादाहुतिपञ्चकम् ॥
मूलेन होमयेत्तत्र जपेच्चाष्टोत्तरं शतम् ॥ ८९१ ॥
वैदिकीकाकबल्यन्ता पूजा चोच्छिष्टभोजनम् ॥
ततः सम्प्रार्थयेद्देवं सायं सन्ध्यां समाचरेत् ॥ ८९२ ॥
देवागारे दीप्यमाने प्रोक्तः सङ्क्षेप आह्निकः ॥
अथापराह्निकं वक्ष्ये तत्स्थानदशके भवेत् ॥ ८९३ ॥
मार्गे प्रवासे दुर्गे च रोगप्राप्तौ महाभये ॥
कारागृहेऽशुभे स्थाने सर्पव्याघ्रादिजे भये ॥ ८९४ ॥
परचक्रागमे 134 कुर्यात्कराद्यन्तु यथातथा ॥
तत्र स्नानादिकं चिन्त्यं कृत्वा मानसपूजनम् ॥ ८९५ ॥
मनसा हृदये तच्च ध्यात्वा योगाख्यपीठकम् ॥
तत्रैव पृथिवीमध्ये पूजा देवस्य चाचरेत् ॥ ८९६ ॥
यथापुष्पादिभिः पूजा बहिर्देशे विधीयते ॥
तथा हृद्यपि कर्तव्या सर्वाशाप्रतिपत्तये ॥ ८९७ ॥
मनसा च चरेद्धोममेतद्विपदि चाह्निकम् ॥
अथातश्चाह्निकं वक्ष्ये नित्यं स्वास्थ्याधिकस्य तत् ॥ ८९८ ॥
यदि लङ्घनपर्यन्ते व्याधिरात्मनि दृश्यते ॥
तदा पूजा न कर्तव्या स्थण्डिले प्रतिमासु च ॥ ८९९ ॥
न स्नानं दन्तकाष्ठं वा कुर्याद्धोममथापि वा ॥
रविमण्डलमालोक्य प्रतिमामथवा पुनः ॥ ९०० ॥
मूलमन्त्रं सकृज्जप्त्वा पुष्पं साक्षतमुत्सृजेत् ॥
क्रान्तो व्याधि भिरत्युग्रैर्जरया चेन्द्रियैस्तथा ॥
निजसामयिकैर्वापि स्वकर्तव्यं समापयेत् ॥ ९०१ ॥
रुग्निवृत्तस्ततस्स्नात्वा पूजयित्वाग्निदेवताः ॥
गुरून्विप्रांस्तदग्रे च वाक्यमेतदुदीरयेत् ॥ ९०२ ॥
एतावत्कालविच्छिन्ना पूजा युष्मत्प्रसादतः ॥
न दोषोस्त्विति सम्प्रार्थ्य पुनः पूर्ववदाचरेत् ॥ ९०३ ॥
यस्तु रोगवशाद्दोषो यतस्तत्क्षालनं चरेत् ॥
जपेन चाथ ध्यानेन होमेन दानतोपि वा ॥ ९०४ ॥
अथ सूतकिनां नित्यं वैदिकन्तु श्रुतीरितम् ॥
कृत्वा तान्त्रिकपूजादि मनसैव समाचरेत् ॥ ९०५ ॥
कामनार्थप्रयोगश्चेत्तदा पूर्ववदाचरेत् ॥
मृतगेहं परित्यज्य वामाचारे न सूतकम् ॥ ९०६ ॥
स्पृहां हित्वा ज्ञानपूर्वं कुलतो धर्ममार्गतः ॥
यथा लभेद्ध्यानधर्मं भक्त्या वामे करोति यः ॥
शास्त्रतत्त्वं देवतत्त्वं नो वेत्ति स तु गुह्यकः ॥ ९०७ ॥
ज्ञानं वामेन भजते सुखार्थी तत्र जायते ॥
क्षुत्तृड्भ्यामर्दितः प्रेतस्तस्माद्धर्मं विचारयेत् ॥ ९०८ ॥
पूजोदकेन कर्तव्या तद्यन्त्रं नैव विद्यते ॥
तदा सम्पूजयेद्देवं भावनाकुसुमादिभिः ॥ ९०९ ॥
भक्तिः श्रद्धा भावना च पूजानां जीव उच्यते ॥
जडानामाह्निकं वक्ष्ये तथा सङ्क्षेपकर्मणि ॥ ९१० ॥
रत्नमण्डपधर्मादिचतुष्कमरुणाम्बुजम् ॥
मूलमूर्तिषडङ्गानि तेषां पूजाभिधीयते ॥ ९११ ॥
सर्वेषामपि 135 वस्तूनामलाभे भाव नैव हि ॥
निर्मलेनोदकेनैव पूजयेत्स्थिरमानसः ॥ ९१२ ॥
सामान्यत स्त्रिधा पूजा चोत्तमाधममध्यतः ॥
अधिकारिनिमित्ताभ्यां भिद्यते शतधा पुनः ॥ ९१३ ॥
या सोपकरणा पूजा क्रियमाणोत्तमा मता ॥
यथालब्धैर्विनिष्पाद्या द्रव्यैः पूजा तु मध्यमा ॥ ९१४ ॥
पत्रपुष्पाम्बुनिष्पाद्या पूजा साधमसञ्ज्ञिका ॥
विहिताखिलवेदोक्तैर्ब्रह्मर्षिभिरकल्मषैः ॥ ९१५ ॥
क्रियमाणा 136 तु या पूजा सात्विकी सा विमुक्तिदा ॥
राजर्षिभिस्तपोनिष्ठैर्भगवत्तत्त्ववेदिभिः ॥ ९१६ ॥
या पूजा क्रियते सम्यग्राजसी सा सुखप्रदा ॥
स्त्रीबालवृद्धमुख्याद्यैर्भक्तैरक्षुण्णमानसैः ॥ ९१७ ॥
या पूजा क्रियते नित्यं तामसी सा प्रकीर्तिता ॥
वेदे कर्तुं तु नो शक्तास्तन्त्राणि तु युगे युगे ॥ ९१८ ॥
कल्यंशसम्भवैर्विप्रैर्यैर्नाम्ना कीर्तितानि तु ॥
कलिना प्रेरिता विप्रास्तत्तन्त्रपथगामिनः ॥ ९१९ ॥
कामलोभादिभिर्ग्रस्ता ब्राह्मण्यरहिता नराः ॥
म्लेच्छास्ते तु भविष्यन्ति क्षीणपुण्याश्च रौरवे ॥ ९२० ॥
पतिष्यन्तीति विज्ञाय न वै वैदिकमुत्सृजेत् ॥
उल्लासै रहितं गोपं पटलैर्विष्णुगोपनम् ॥ ९२१ ॥
अध्यायैर्ये कृता ग्रन्थास्स्वाध्यायास्ते द्विजन्मनाम् ॥
यमुद्दिश्य कृतं तन्त्रं तस्य तत्र प्रधानता ॥ ९२२ ॥
मेरुतन्त्रे तु यत्प्रोक्तं तत्स्थिरं नान्यथा भवेत् ॥
इति देवाः समाख्यातो युष्मत्प्रश्नविनिर्णयः ॥ ९२३ ॥
यद्विचार्य कृतं कर्म न दुःखाय प्रवर्तते ॥
अतो वेदोदितं कर्म कार्यं निःश्रेयसाय वै ॥ ९२४ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीत आह्निकप्रकाशः पञ्चमः ॥ ५ ॥
-
परिधाय चेत्यपि ↩︎
-
फट् इति मन्त्रम् । ↩︎
-
जलम् । ↩︎
-
चरणयोः । ↩︎
-
विष्ठात्यगे । ↩︎
-
वटः । ↩︎
-
अर्जुनवृक्ष । ↩︎
-
क्रीं कामदेवाय सर्वप्रियाय नमः । ↩︎
-
वषण्मन्त्रेण ↩︎
-
अङ्कुशः । ↩︎
-
ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सर्वानन्दमये तीर्थशक्ते हिलि हिलि स्वाहा । ↩︎
-
ॐ नमो भगवति अम्बे अम्बिके अम्बालिके महामालिनि एह्येहि भगवति अशेषतीर्थालवाले ह्रीं श्रीं शिवजटाधिरूढे गङ्गे गङ्गाम्बिके स्वाहा । ↩︎
-
ॐ वं भूर्भुवः स्वः इत्यादि मन्त्रैः ह्रीं मन्त्रेण सुधाणुना वं बीजेन ॥ ↩︎
-
पाणिभ्यां कलशाकारनिर्माणं कुम्भमुद्रोच्यते ॥ ↩︎
-
नमोमन्त्रेण ॥ ↩︎
-
ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः भवेभवेनातिभवे भवस्व मां भवोद्भवाय नमः ॥ ↩︎
-
ॐ वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कालविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमो नमस्सर्वभूतदमनाय नमो मनोन्मथनाय नमः ॥ ↩︎
-
ॐ अघोरेभ्योथघोरेभ्यो घोरघोरतरेभ्यः सर्वतस्सर्वसर्वेभ्यो नमस्तेस्तु रुद्ररूपेभ्यः ॥ ↩︎
-
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॥ ↩︎
-
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ॥
ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् ॥ ↩︎ -
१।
ॐ अग्निरिति भस्म, ॐ जलमिति भस्म, ↩︎ -
ॐ या ते रुद्रशिवा तनूरघोरां पापकाशिनी ।
तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि ॥ ↩︎ -
ॐ भवाय नमः, ॐ शर्वाय नमः, ॐ पशुपतये नमः, ॐ उग्राय नमः, ॐ महादेवाय नमः, ॐ भीमाय नमः, ॐ ईशानाय नमः ↩︎
-
ॐ नमः शिवाय इत्यादिमन्त्रैः ॥ ↩︎
-
अṁ आṁ इम् ईम् उṁ ऊṁ ऋṁ ॠṁ ऌं ॡम् एम् ऐं ॐ औम् अम् अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं लं क्षमिति मातृकार्णाः ॥ ↩︎
-
कं जलम् । ↩︎
-
तं मूलमन्त्रं सन्ध्याकरणप्रायश्चित्ताय जपेत् । ↩︎
-
ह्रीं ह्रीं सः सग्रहराशिनक्षत्रयोगकरणपरिवृत्तासनसंस्थितश्रीसूर्याय इष तेर्घ्यः स्वाह ↩︎
-
नाम्नः प्रथमाक्षरेषु सानुस्वारेषु चतुर्थ्यन्तेषु नमोन्तेषु तत्तद्देवतापूजामन्त्रः स्यात् यथा गङ्गणपतये नमः ॥
क्षें क्षेत्रपालाय नमः ॥
वसुन्धरासंयुताय शंशङ्खनिधये नमः ॥
वसुमत्यासंयुताय पं पद्मनिधये नमः ॥
मां मायाशक्तयै नमः ॥
हृं हृच्छक्तयै नमः ॥
गं गङ्गायै नमः ॥
यं यमुनायै नमः ॥
धां धात्रे नमः ॥
विं विधात्रे नमः ॥ ↩︎ -
वक्रतुण्डादयः षड्गणेशद्वारपास्तेषां नामानि मूले स्पष्टानि । ↩︎
-
बाणमुद्रया ॥
बाणमुद्रा दक्षमुष्टेस्तर्जन्या दीर्घया भवेत् ॥ ↩︎ -
आग्नेये गं गणेशाय नमः नैर्-ऋत्यकोणे सं सरस्वत्यै नमः वायव्ये दुं दुर्गायैनमः ईशाने क्षं क्षेत्रपतये नमः । ↩︎
-
जानूर्वोरन्तरे सम्यग्धृत्वा पादतले उभे ।
समकायं सुखासीनं स्वस्तिकं तम्प्रचक्षते । ↩︎ -
वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ॥
अङ्गुष्ठे हृदये निधाय चिबुकं नासाग्रमालोकयेदेतद्व्याधिकलापनाशनकरं पद्मासनं चोच्यते । ↩︎ -
अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम् ।
मध्येङ्गुष्ठाङ्गुल्योः पैत्रं मूले ह्यङ्गुष्ठस्य ब्राह्मम् ।
बाणमुद्रा दक्षमुष्टेस्तर्जन्या दीर्घया भवेत् ॥ ↩︎ -
तत्पूर्वमस्तकोपरि परितो भ्रामयन् ॥ ↩︎
-
ॐ मन्त्रं जपन् ॥ ↩︎
-
हौं ॐ सर्वत्र विलयं यान्तु इति श्लोकं पठेत् फट्मन्त्रेण बाणमुद्रां विधाय तत्पुष्पमीशानकोणे क्षिपेत् ↩︎
-
वह्निप्रकारमुद्रा तु त्रिशूलाग्रावुभौ करौ ।
व्यत्यस्तावभितो वह्नेर्नयेदस्त्राह्वयापि च ॥
द्विपाण्योस्तिस्रोङ्कलीरुत्थाय व्यत्यासने भ्रामणाद्वह्निप्राकारमुद्रा भवति ॥
अस्या एवास्त्रमुद्रानाम ॥
त्रिशूलाख्या भवेन्मुद्रा अङ्गुष्ठेन कनिष्ठिकाम् ।
बद्धा प्रसादयेच्छेषमङ्गुलीनां त्रयं तदा ॥
अङ्गुष्ठाभ्यां कनिष्ठागुल्यौ परिपीड्यं शेषाङ्गुलीस्तिस्रः प्रसारयेत्तस्मात्रिशूलमुद्रा भवति ॥ ↩︎ -
ॐ अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः ऋग्यजुस्सामानिच्छन्दांसि चैतन्यरूपा प्राणशक्तिर्देवता प्राणस्थापने विनियोगः ॥
ब्रह्मविष्णुमहेश्वरेभ्यः ऋषिभ्यो नमः शिरंसि, ऋग्यजुस्सामच्छन्दोभ्यो नमो मुखे, प्राणशक्त्यै देवतायै नमो हृदि ॥ २५० ॥
आं बीजाय नमो गुह्ये, ह्रीं शक्तये नमः पादयोः क्र्ॐ कीलकाय नमः सर्वाङ्गे ॥ २५१ ॥
अथ हृदयादिन्यासः ॥
आं ह्रीं क्र्ॐ अं कं खं गं घं ङम् आकाशवायुवह्निजलपृथिव्यात्मने आं हृदयाय नमः ॥
ॐ आं ह्रीं क्र्ॐ ईं चं छं जं झं ञं शब्दस्पर्शरूपरसगन्धात्मने ईं शिरसे स्वाहा ॥
ॐ आं ह्रीं क्र्ॐ उं टं ठं डं ढं णं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने ऊं शिखायै वषट् ॥
ॐ आं ह्रीं क्र्ॐ एं तं थं दं धं नं वाक् पाणिपादपायूपस्थात्मने ऐं कवचाय हुम् ॥
ॐ आं ह्रीं क्र्ॐ व्ॐ पं फं बं भं मं वक्तव्यादानगमनविसर्गानन्दात्मने औं नेत्रत्रयाय वौषट् ॥
ॐ आं ह्रीं क्र्ॐ अं यं रं लं वं शं षं सं हं क्षं मनोबुद्ध्यहङ्कारचित्तात्मने अः अस्त्राय फट् ॥
अथ करन्यासः ॥
ॐ आं ह्रीं क्र्ॐ अं कं खं गं घं ङम् आकाशवायुवह्निजलात्मने आम् अङ्गुष्ठाभ्यां नमः ॥
ॐ आं ह्रीं क्र्ॐ इं चं छं जं झं ञं शब्दस्पर्शरूपरसगन्धात्मने आं तर्जनीभ्यां स्वाहा ॥
ॐ आं ह्रीं क्र्ॐ उं टं ठं डं ढं णं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने ऊं मध्यमाभ्यां वषट् ॥
ॐ आं ह्रीं क्र्ॐ एं तं थं दं धं नं वाक्पाणिपादपायूपस्थात्मने ऐम् अनामिकाभ्यां हुम् ॥
ॐ आं ह्रीं क्र्ॐ ॐ पं फं बं भं मं वक्तव्यादानगमनविसर्गानन्दात्मने औं कनिष्ठिकाभ्यां वौषट् ॥
ॐ आं ह्रीं क्र्ॐ अं यं रं लं वं शं षं सं हं क्षं मनोबुद्ध्यहङ्कारचित्तात्मने अः करतलकरपृष्ठाभ्यां फट् ॥ २५७ ॥
आं नमो नाभेरारभ्य पादान्तम् ॥
ह्रीं नमो नाभितः हृदयपर्यन्तम् ॥
क्र्ॐ नमो हृदयान्मस्तकान्तम् ॥ २५८ ॥
अधुनाङ्गन्यासविधिरन्यतो गृहीत्वोच्यते ॥
यथा यं त्वगात्मने नमो हृदि, रम् असृगात्मने नमो दक्षिणांसे, लं मांसात्मने नमः ककुदि ॥
वं मेद आत्मने नमो वामस्कन्धे, शम् अस्थ्यात्मने नमो हृदयाद्दक्षिणभुजाग्रान्तम् ॥
षं मज्जात्मने नमो हृदयाद्वामभुजाग्रान्तम् ॥
सं शुक्रात्मने नमो हृदयाद्दक्षिणपादाग्रान्तम् ॥
हौम् ओज आत्मने नमो हृदयाद्वामपादाग्रान्तम् ॥
हं प्राणात्मने नमो हृदयान्नाभ्यन्तम् ॥
सञ्जीवात्मने नमो हृदयान्मस्तकान्तम् ॥
इत्थमुक्तन्यासान्विधाय हृत्कमलस्य अष्टदलेषु कर्णिकायां च पूर्वादिक्रमेण लम्, रम्, हम्, षम्, वम्, सम्, शं छं क्षम् इमान्वर्णान्विन्यस्य तदनन्तरं ध्यानं विदधीत् ॥ ↩︎ -
आङ्क्रीङ्क्र्ॐ यं रं लं वं शं षं हं हंसः सोहं मम प्राणा इह प्राणा मम जीव इह स्थितः मम वाङ्मनश्चक्षुः श्रोत्रं घ्राणः प्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॐ ।
त्रिभिर्मुलोक्तश्लौकैरयं मन्त्र उद्धृतो भवति परन्तु मन्त्रमहोदध्युक्तः प्राणप्रतिष्ठामन्त्रोस्माच्छ्रेष्ठतरोस्तीति ज्ञेयम् ।
यथा पाशं माया शृणिं प्रोच्य यादीन्सप्तेन्दुसंयुतान् ॥
तारान्वितं नभस्सप्तवर्णमन्त्रं ततो जपन् ॥
मम प्राणा इह प्राणा मम जीव इह स्थितः ।
मम सर्वेन्द्रियाण्युक्त्वा मम वाङ्मन ईरयेत् ॥
चक्षुः श्रोत्रं घ्राणपदं प्राणा इह समीर्य च ॥
आगत्य सुखमुच्चार्य चिरं तिष्ठन्त्विदं पठेत् ॥
वह्निजायां च सप्तार्णम्मन्त्रमेतं पुनर्वदेत् ।
प्राणप्रतिष्ठामन्त्रोयं स्मृतः प्राणनिधापने ।
सबिन्दवो मेरुहंसाकाशाः सर्गी भृगुः पुनः ।
मायेतिताररुद्धोयं मन्त्रः सप्ताक्षरो मतः ।
एवं प्राणान्प्रतिष्ठाप्य मातृकान्यासमाचरेत् ।
एतेभ्यः श्लोकेभ्यः उद्धृतः यथा-आंह्रीङ्क्र्ॐयं रं लं वंशंषंसंह्ॐ ॐक्षंसंहंसः ह्रीं ॐ सोहं मम प्राणा इह प्राणा मम जीव इह स्थितः ।
मम सर्वेन्द्रियाणि वाङ्मनश्चक्षुः श्रोत्रं घ्राणं प्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॐक्षं संहंसः ह्रीं ॐ । ↩︎ -
शेषः नाशयेति ॥ ↩︎
-
ॐ अस्य श्रीमातृकान्यासस्य ब्रह्मा ऋषिर्गायत्री छन्दः मातृकाख्या सरस्वती देवता हलो बीजानि स्वराः शक्तयः अव्यक्त कीलकम्, अभीष्टसिद्धये विनियोगः ।
ब्रह्मर्षये नमः शिरसि, गायत्रीछन्दसे नमो मुखे, मातृकासरस्वत्यै देवतायै नमो हृदि, हल्भ्यो बीजेभ्यो नमो गुह्ये, स्वरेभ्यः शक्तिभ्यो नमः पादयो ।
अव्यक्ताय कीलकाय नमो नाभौ ॥ ↩︎ -
दक्षिणहस्तस्य करतलकरपृष्ठयोः पुनः करभ अर्थान्मणिबन्धात्कनिष्ठिकामूलपर्यन्तं हस्तबहिर्भागः पुनरङ्गुष्ठाद्यङ्गुलीषु अम् आम् इम् ईम् उम् ऊम् ऋं ॠम् एता अष्टमातृकाः पुनः वामहस्तस्य कनिष्ठानामिकामध्यमातर्जन्यङ्गुष्ठकरभकरतलेषु न्यसेत् ॥
ऌं ॡम् एम् ऐं ॐ औम् अम् अः, एता अष्टमातृकाः क्रमतो न्यसेत् ॥
अं नमो दक्षिणहस्तस्य करतले, आं नमो दक्षिणकरपृष्ठे, इं नमो दक्षिणकरभे, ईं नमो दक्षिणाङ्गुष्ठे, उं नमो दक्षिणतर्जन्याम्, ऊं नमो दक्षिणमध्यमाङ्गुल्याम्, ऋं नमो दक्षिणानामिकायाम्, ऋ नमो दक्षिणकनिष्ठिकाङ्गुल्याम्, ऌं नमो वामहस्तस्य कनिष्ठिकाङ्गुल्याम्, ऌं नमो वामानामिकायाम् एं नमो वाममध्यमायाम्, ऐं नमो वामतर्जन्याम्, ॐ नमो वामाङ्गुष्ठे, ॐ नमो वामकरभे, अं नमो वामकरपृष्ठे, अः नमो वामकरतले ॥
इति स्थितिन्यासः । ↩︎ -
पुनः एतस्येवविपर्यये न्यासस्य करणं संहारन्यासं ब्रुवते ।
पुनर्यः स्थितिन्यासस्यैव क्रममातृकासु विसर्गं मेलयित्वान्यासः क्रियते स सृष्टिन्यासः प्रोच्यते ॥
यथा अः नमो दक्षिणकरतले, आः नमो दक्षिणकरपृष्ठे, इः नमो दक्षिणकरभे एतद्रीत्या ज्ञेयम् । ↩︎ -
ककाराण्णपर्यन्तं पञ्चदशाक्षराणि दक्षिणहस्तपञ्चदशपर्वसु पुनः तकाराच्छकारपर्यन्तं तान्येवाक्षराणि वामपाणिपर्वसु न्यसेत् ॥
यथा कं नमः दक्षाङ्गुष्ठमूले, खं नमः अङ्गुष्ठमध्ये, गं नमः अङ्गुष्ठाग्रे, घं नमः तर्जनीमूले, ङं नमः तर्जनीमध्ये, चं नमः तर्जन्यग्रे, छं नमः मध्यमामूले, जं नमः मध्यमामध्ये झम्, नमः मध्यमाग्रे, ञं नमः अनामिकामूले, टं नमः अनामिकामध्ये, ठं नमः अनामिकाग्रे, डं नमः कनिष्ठामूले, ढं नमः कनिष्ठामध्ये, णं नमः कनिष्ठाग्रे ॥
इत्थमेव वामपाणिपर्वसु ताद्यक्षराणि न्यसेत् ॥
यथा तं नमः वामाङ्गुष्ठमूले, थं नमः वामाङ्गुष्ठमध्ये, ढ नमः वामाङ्गुष्ठाग्रे इत्यादि न्यासं विधाय ॥ ↩︎ -
पुनः षं सं हं लं क्षं नमो दक्षहस्ते षं सं हं लं क्षं नमो वामहस्ते ↩︎
-
यथा- अं कं खं गं घं ङम् आम् अङ्गुष्ठाभ्यां नमः, ईं चं छं जं झं ञम् ईं तर्जनीभ्यां नमः, उं टं ठं डं ढं णम् ऊं मध्यमाभ्यां नमः, एं तं थं दं धं नम् ऐम् अनामिकाभ्यां नमः, ॐ पं फं बं भं मम् औं कनिष्ठिकाभ्यां नमः अं यं रं लं वं शं षं सं हं लं क्षम् अः करतलकरपृष्ठाभ्यां नमः ॥
इत्थमेव हृदयादिन्यासानामपि करणमुचितम् । ↩︎ -
जैसे यथ अस्य श्रीमातृकान्यासस्य ब्रह्मा ऋषिर्गायत्री छन्दः मातृकाख्या सरस्वती देवता हलो बीजानि इत्यादि सर्व प्रथममेव लिखितम् तद्रीस्यैव न्यासः क्रियेत । ↩︎
-
पुनरेतन्न्यासर्ष्यादिस्मरणम्प्रथमं कृत्वान्यन्यासकरणं योग्यम् ।
शिरसि अष्टदलकमलस्य ध्यानं विधाय तत्कर्णिकामध्ये यत्फलं भवति तत्र (हंसः) पुनः केशरादर्वागर्थादेकदलादुत्तरं यद्वितीयमस्ति तयोर्द्वयोर्मध्ये द्विद्विस्वराणां पुनः सप्तमदले कादिसप्तवर्गाणां त्वष्टमे दले (लङ्क्षम्) अस्य मन्त्रस्य ध्यानं क्रियेत ।
अस्य चक्रं लिख्यते ॥ ↩︎ -
पुनर्यन्मूले अथान्तर्मातृकान्यासं वक्ष्येऽन्तःसिद्धिकारकम् ॥
इदमुक्तं परन्तु एतन्मातृकान्यासप्रकारो न प्रकटीकृतः ।
तद्विधिस्तन्त्रान्तरादाहृत्य लिख्यते ॥
अम् इम् उम् ऋम् ऌम् एम् ऐं ॐ औं नमः इति कण्ठदेशस्थे धूम्राभे षोडशदले विशुद्धचक्रे ॥
कं खं गं घं ङं चं छं जं झं ञं टं ठं नमः इति हृदयस्थे प्रवालवर्णे द्वादशदले अनागतचक्रे ॥
डं ढं णं तं थं दं धं नं पं फं नमः इति नाभ्युपरिस्थे नीलवर्णेदशमदले मणिपूरकचक्रे ॥
बं भं मं यं रं लं नमः इति नाभ्यधोभागस्थे विद्युद्वर्णे षड्दलेस्वाधिष्ठानचक्रे ॥
वं शं षं सं नमः इति सुवर्णाभे चतुर्थदले मूलाधारचक्रे ॥
हं क्षं नमः इति भ्रूमध्यदेशस्थे चन्द्राभे द्विदले आज्ञाचक्रे ॥
सहस्रारे हिमनिभे सर्ववर्णविभूषिते ॥
अकखादित्रिरेखासु आलक्षत्रयभूषिते ॥
परबिन्दुभ्यो नमः ॥ ↩︎ -
त्रिशतभूतपरिच्छेदपूरकश्लोकान्त्रिशताष्टादशश्लोकपर्यन् तन्-मातृकान्यासविधिर्मूलमनौ वर्तते ।
यथ- अं ललाटे, आं नमो मुखे, इं नमो दक्षनेत्रे, ईं नमो वामनेत्रे, उं नमो दक्षकर्णे, ऊं नमो वामकर्णे, ऋं नमो दक्षनासायाम, ॠ नमो वामनासायाम्, ऌं नमो दक्षकपोले ॡं नमो वामकपोले, एं नमः ओष्ठे, ऐं नमः अधरे, ॐ नमः ऊर्ध्वदन्तपङ्क्तौ औं नमः अधोदन्तपङ्क्तौ, अं नमः मूर्ध्नि, अः नमो मुखे, अं पुनः अः एतद्द्वयमातृकान्यासस्थानमत्र ग्रन्थे शिरः मुखञ्च कथितम् ।
परन्तु वीरचूडामण्यादिष्वन्यतन्त्रेषु अः नमो जिह्वाग्रे एवं न्यासदर्शनं तदप्युचितम् ।
कं नमो दक्षिणबाहुमूले, खं नमः कर्पूरे, गं नमो मणिबन्धे, घम्, नमः अङ्गुलिमूले, ङं नमः अङ्गुल्यग्रे, चं नमो वामबाहुमूले, छं नमः कर्पूरे, जं नमः मणिबन्धे, झं नमः अङ्गुलिमूले, ञं नमः अङ्गुल्यग्रे, टं नमः दक्षपादमूले, ठं नमः जानुनि, डं नमः गुल्फे, ढं नमो दक्षपादाङ्गुलिमूले णं नमः अङ्गुल्यग्रे तं नमः वामपादमूले थं नमः जानुनि दं नमः गुल्फे धं नमः वामपादाङ्गुलिमूले, नं नमः वामपादाङ्गुल्यग्रे, पं नमः दक्षपार्श्वे, फं नमः वामपार्श्वे, बं नमः पृष्ठे, भं नमो नाभौ, मं नमो जठरे, यं त्वगात्मने नमो हृदये रम् असृगात्मने नमः दक्षांसे, लं मांसात्मने नमः ककुदि, वं मेद आत्मने नमः वामांसे, शम् अस्थ्यात्मने नमः हृदयाद्दक्षभुजाग्रान्तम्, षं मज्जात्मने नमो हृदयाद्वामभुजाग्रान्तम् सं शुक्रात्मने नमः हृदयाद्दक्षिणपादाग्रान्तम् ॥
हम् आत्मने नमः हृदयाद्वामपादाग्रान्तम् ॥
लम् अन्तरात्मने नमः हृदयान्मस्तकान्तम्, पुनः अन्यत्र ग्रन्थान्तरे दृश्यते लं नमः हृदयादुदरपर्यन्तम्, इति सृष्टिक्रममातृकान्यासः ॥
क्षं परमात्मने नमः हृदयान्मुखपर्यन्तम् ॥
एभिरेव मातृकावर्णैर्बिन्दुरहितैस्सविसर्गैर्मातृकान्यास उक्तस्थानेषु जायते ।
यथा- अः नमः ललाटे आः नमः मुखे, इः नमः दक्षनेत्रे ईः नमः वामनेत्रे इत्यादि ॥
पुनर्बिन्दुप्रयुक्तोयमेव न्यासो विपरीतः संहारन्यासः प्रचक्ष्यते ।
अयं क्षकारमारभ्याकारपर्यन्तम्, पूर्णो भवति यथा क्षं परमात्मने नमः हृदयान्मुखपर्यन्तम् लम् अन्तरात्मने नमः हृदयादुदरपर्यन्तम् हम् आत्मने नमः हृदादिवामपादपर्यन्तम्, सं शुक्रात्मने नमः हृदादिदक्षपादपर्यन्तम्, षं मज्जात्मने नमः हृदयाद्वामबाहुपर्यन्तम्, शम् अस्थ्यात्मने नमः हृदयादक्षबाहुपर्यन्तम्, वं मेदात्मने नमः वामस्कन्धे लं मांसात्मने नमः ककुदि, रम् असृगात्मने नमः दक्षांसे, यं त्वगात्मने नमः हृदये, मं नमः उदरे, भं नमो नाभौ, बं नमः पृष्ठे, फं नमो वामपादे, पं नमः दक्षपादे, नं नमः वामपादाङ्गुल्यग्रे, धं नमः वामपादाङ्गुलिमूले, दं नमः वामपादगुल्फे, थं नमः वामपादजानुनि तं नमः वामपादमूले, णं नमः दक्षपादाङ्गुल्यग्रे, ढं नमः दक्षपादाङ्गुलिमूले, डं नमः दक्षपादगुल्फे, ठं नमः दक्षपादजानुनि, टं नमः दक्षपादमूले, ञं नमो वामकराङ्गुल्यग्रे, झं नमो वामकराङ्गुलिमूले, जं नमः वामकरमणिबन्धे, छं नमः वामबाहुकूर्परे, चं नमः वामबाहुमूले, ङं नमो दक्षकराङ्गुल्यग्रे, घं नमः दक्षकराङ्गुलिमूले, गं नमः दक्षकरमणिबन्धे, खं नमः दक्षबाहुकूर्परे, कं नमः दक्षबाहुमूले, अः नमः मुखे, अं नमः मूर्ध्नि, औं नमः अधोदन्तपङ्क्ती, औं नमः ऊर्ध्वदन्तपङ्क्तौ, ऐं नमः अधरे, एं नमः ऊर्ध्वोष्ठे, ऌं नमः वामकपोले, ऌं नमः दक्षकपोले, ॠं नमः वामनासापुटे, ऊं नमः वामकर्णे, उं नमः दक्षकर्णे ईं नमः वाम नेत्रे, इं नमः दक्षनेत्रे, आं नमः मुखवृत्तै, अं नमः ललाटे, इति संहारमातृकान्यासः ॥
पुनर्डकारमारभ्य ठकारपर्यतं स्थितिमातृकान्यासो विधातुमुचितः ।
तथाहि डं नमः दक्षपादगुल्फे, ढं नमः दक्षपादाङ्गुलिमूले, णं नमः दक्षपादाङ्गुल्यग्रे तं नमः वामपादमूले, थं नमः जानुनि, दं नमः गुल्फे, धं नमः वामपादाङ्गुलिमूले, नं नमः वामपादाङ्गुल्यग्रे, पं नमः दक्षपार्श्वे, फं नमः वामपार्श्वे, वं नमः पृष्ठे, भं नमः नाभौ, मं नमः जठरे, यं स्वगात्मने नमः हृदि, रम् असृगात्मने नमः दक्षांसे लं मांसात्मने नमः ककुदि वं मेदात्मने नमः वामांसे, शम् अस्थ्यात्मने नमः हृदयाद्दक्षिणबाहुपर्यन्तम् षं मज्जात्मने नमः हृदयाद्वामबाहुपर्यन्तम् ॥
सं शुक्रात्मने नमः हृदयाद्दक्षिणपादपर्यन्तम् हम् आत्मने नमः हृदयाद्वामपादपर्यन्तम् लम् अन्तरात्मने नमः हृदयादुदरपर्यन्तम् ज्ञं परमात्मने नमः हृदयान्मुखपर्यन्तम् अं नमः शिरसि, आं नमः मुखवृत्ते इं नमः दक्षनेत्रे ईं नमः वामनेत्रे उं नमः दक्षकर्णे ऋ नमः दक्षनासापुटे ऋं नमः वामनासापुटेः ऌं नमः दक्षकपोले ऌं नमः वामकपोले एं नमः ऊर्ध्वोष्ठे ऐं नमः अधरोष्टे ॐ नमः ऊर्ध्वदन्तपङ्क्तौ, औं नमः अधोदन्तपङ्क्तौ, अं नमः मूर्ध्नि अः नमः मुखे कैं नमः दक्षबाहुमूले, खं नमः कूर्परे, गं नमः मणिबन्धे, घं नमः अङ्गुलिमूले डं नमः अङ्गुल्यग्रे ऋं नमः वामबाहुमूले छं नमः कूर्यारे जं नमः मणिबन्धे झं नमः अङ्गुल्यग्रे, टं नमः दक्षपादमूले, टं नमः दक्षपादजानुनि इति स्थितिन्यासः ॥
सृष्टिस्थितिन्यासौ सेन्दुभिर्वासविसर्गैर्मातृकावर्णैर्जायेत संहारन्यासस्तु केवलं बिन्दुयुङ्मातृकावर्णैर्भवतीति ज्ञेयम् । ↩︎ -
अं ॐ आम् अङ्गुष्ठाभ्यां नमः, इं ॐ ईं तर्जनीभ्यां नमः, उं ॐ ऊं मध्यमाभ्यां नमः, एं ॐ ऐम् अनामिकाभ्यां नमः ॐ ॐ औं कनिष्ठिकाभ्यां नमः, अं ॐ अः करतलकरपृष्ठाभ्यां नम इति करन्यासः एवं हृदयादिन्यासः उक्तरीत्या हृदयादिन्यासः करणीयः ↩︎
-
ॐकार ॐकारबिन्दुभ्यां चाकारादिमातृकार्णैः सहितनिवृत्त्यादिकलानां चतुर्थ्यन्तानां नामान्ते नमः पदं संयोज्यपूर्वोक्तललाटादिस्थानेषु न्यासो विधेयः ।
यथा ॐ अं निवृत्त्यै नमः ललाटे, ॐ आं प्रतिष्ठायै नमः मुखवृत्ते, ॐ इं विद्यायै नमः दक्षनेत्रे, ॐ ईं शान्त्यै नमः वामनेत्रे, ॐ उम् ऋद्धिकायै नमः दक्षकर्णे, ॐ ऊं दीपिकायै नमः वामकर्णे इत्यादि ॥ ↩︎ -
मया इति पाठान्तरम् । ↩︎
-
ह्रीं हृदयाय नमः श्रीं शिरसे स्वाहा क्लीं शिखायै वषट् ह्रीं कवचाय हुम् श्रीं नेत्राभ्यां वाषैट् क्लीम् अस्त्राय फट् । ↩︎
-
ॐ ह्रीं श्रीं क्लीम् अं क्लीं श्रीं ह्रीं केशवकीर्तिभ्यां नमः ललाटे ॐ ह्रीं श्रीं क्लीम् आं क्लीं श्रीं ह्रीं नारायणकान्तिभ्यां नमः मुखवृत्ते ॐ ह्रीं श्रीं क्लीम् इं क्लीं श्रीं ह्रीं माधवतुष्ठिभ्यां नमः दक्षनेत्रे ॐ ह्रीं श्रीम् ईं क्लीं श्रीं ह्रीं गोविन्दपुष्टिभ्यां नमः वामनेत्रे । ↩︎
-
विनोदया इति पाठान्तरम् ॥ ↩︎
-
सुरेशा इति ↩︎
-
ॐ गांहृदयाय नमः, श्रीं गीं शिरसे स्वाहा, ह्रीं गूं शिखा वै वषट्, क्लीं गैं कवचाय हुम्, ग्लौं गौं नेत्रत्रयाय वौषट्, गङ्गः अस्त्राय ।
फट् एवमङ्गुष्ठादि न्यासानपि विदध्यात् ॥ ↩︎ -
ॐ ह्रीम् अम् आम् इम् ईम् उम् ऊम् ऋं ॠम् ऌं ॡम् एम् ऐं ॐ औम् अम् अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं लं क्षं हंसः सोहं स्वाहा ↩︎
-
पापानामेवाख्यानदत्वं यतः पापकरणादेव जनुर्भवति जनुषा जीवानां नामकरणं तत आख्यानदानि इति पापविशेषणम् ॥ ↩︎
-
२-लोकाल्लोकान्तरं जीवानां प्रापकत्वादेव तेषां रघुत्वम् । ३- अमृते जारजः कुण्डो मृते भर्तरि गोलकः ॥ ↩︎
-
नीचानां पतितानां च वाममार्गे प्रवृत्तिर्भवति ।
मद्यमांसादिसेवनं कुर्वन्तोपि देवानां पूजाजपादिकरणाद्बहुभिर्दिनैर्निजकर्माणि भुक्त्वा पुनर्मुक्ता भवन्ति तेषां वेदानधिकारित्वाद्दक्षिणमार्गद्वारा शीघ्रमेव संसारान्मुक्ता जायन्ते ॥ ↩︎ -
अथाग्निसूक्तम् ॥
अग्निः सप्तिंवा जम्भरं ददात्यग्निवीरश्रुत्यं कर्मनिष्ठाम् ॥
अग्नी रोदसी विचरत्समज्जन्नग्निर्नारीं वीरकुक्षिं पुरन्ध्रिम् ॥ १ ॥
अग्ने रेभमसः सदिस्तु भद्राग्निर्मही रोदसी आविवेश ॥
अग्निरेकं चोदयत्समत्स्वग्निर्वृत्राणि दयते पुरूणि ॥ २ ॥
अग्निर्हत्यञ्जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम् ॥
अग्निरत्रिं धर्म उरुष्यदन्तरग्निर्नृमेधं प्रजया सृजत्वम् ॥ ३ ॥
अग्निर्दाद्रविणं वरिपेशा अग्निर्-ऋषिं यः सहस्रासनोति ॥
अग्निर्दिवि हव्यमाततानाग्नेर्धामानि बिभृतापुरुत्रा ॥ ४ ॥
अग्निमुक्थैर्-ऋषयो विह्नयन्तेग्निं नरो यामनिबाधतासः अग्निवर्यो-अन्तरिक्षे पतन्तोग्निः सहस्रा परियाति गोनाम् ॥ ५ ॥
अग्नि विश ईलेत मानुषीर्या अग्निं मनुषो बहुषो विजाताः ॥
अग्निर्गान्धर्वी पथ्यामृतस्याग्नेर्गत्र्यूतिर्घृत आग्निषत्ता ॥ ६ ॥
अग्नये ब्रह्म ऋभवस्ततक्षुरग्निं महा तवोचामासुवृक्तिम् ॥
अग्ने प्रावजरितारं थविष्ठाग्ने महि द्रविणमायजस्व ॥ ७ ॥
वाम दक्षिपाणिपृष्टदशे वामपाणितलं न्यसेत् ॥
अङ्गुष्ठौ चालयेत्सम्यङ्मुद्रेयं मत्स्यरूपिणीति मं पुचतुरेस्रम्बिदध्यात् ॥ ↩︎ -
१- उशीरम् । २- चन्दनम् । ↩︎
-
पलाशे । ↩︎
-
अष्टाङ्गुलहीनम् । ↩︎
-
श्वेतकमलाकाराणि । ↩︎
-
अन्योन्याभिमुखाश्लिष्टा कनिष्ठानामिका पुनः ।
तथा च तर्जनी मध्या धेनुमुद्रा प्रकीर्तिता । ↩︎ -
सम्यक् सम्पूरिता पुष्पैः कराभ्यां कलिताञ्जलिः ॥
आवाहनी समाख्याता मुद्रा देशिकसत्तमैः । ↩︎ -
अधोमुखीकृता सैव प्रोक्ता स्थापनकर्मणि । ↩︎
-
आश्लिष्टमुष्टियुगला प्रोन्नताङ्गुष्ठयुग्मका ॥
सन्निधाने समुद्दिष्टा मुद्रेयं तन्त्रवेदिभिः ॥ ↩︎ -
अङ्गुष्ठगर्भिणी सैव सन्निरोधे समीरिता ॥
देवताङ्गे षडङ्गानां न्यासः स्यात्सकलीकृता । ↩︎ -
सव्यहस्तकृता मुष्टिर्दीर्घाधोमुखतर्जनी ॥
अवगुण्ठनमुद्रेयमभितां भ्रामितो मता ॥
अन्योन्याभिमुखाश्लिष्टा कनिष्ठानामिकापुनः ॥
तथा च तर्जनीमध्या धेनुमुद्रा प्रकीर्तिता ॥
अमृतीकरणं कुर्यात्तया देशिकसत्तमः ॥
अन्योन्यग्रथिताङ्गुष्ठप्रसारितकराङ्गुलिः महामुद्रेयमुदिता परमीकरणे बुधैः ॥
सम्मुखीकरणीमुद्रा सा ज्ञेया मुष्टियुग्मकम् ॥
देवता स्थाप्यते यस्यामङ्गुष्ठद्वयमुक्तकम् । ↩︎ -
मूलमन्त्रपूर्वकसम्बोधनान्तदेवनाम अर्थात् हे अमुकदेव ! अमृतीकृतो भव एतयारीत्या परमी करणम् । ↩︎
-
ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु कुरु क्लीं ॐ मोक्षं कुरु कुरु हौं हौम् ॥
इति दीपिनीमन्त्रः ॥ ↩︎ -
पूर्वोक्त प्राणप्रतिष्ठामन्त्रेण प्राणप्रतिष्ठान्भवति परन्तु मम स्थाने अमुकदेवस्य इदं पदं योजयेत् ॥ ↩︎
-
ॐ अं हं हम् इदमिदमिदं गृहाण स्वाहा । ↩︎
-
रजतम् । ↩︎
-
वङ्गः प्रसिद्ध एव । ↩︎
-
कर्पूरम् । ↩︎
-
अभ्यङ्गः । ↩︎
-
घृतम् ↩︎
-
इक्षुरसः । ↩︎
-
दशसहस्राणि । ↩︎
-
पुरुषसूक्तमूलमन्त्रस्नानमन्त्रैः । ↩︎
-
शुक्लम् । ↩︎
-
८- देवी । ९- गणेशः । ↩︎
-
बुद्धः । ↩︎
-
संस्कारहीनो वा सङ्करः ↩︎
-
देवदारुभेदः ↩︎
-
शतावरी ↩︎
-
पीतचन्दनम्ः । ↩︎
-
हीवेरम् काला गुरुवा ।
शतमूली । ↩︎ -
वारिवाह । ↩︎
-
सेवन्ती । ↩︎
-
अश्वकर्णः । ↩︎
-
अश्वगन्धः । ↩︎
-
तत्तन्नाम्नैव प्रसिद्धम् । ↩︎
-
१- करवीरम्प्रसिद्धमेव । २- जाती वा मालती प्रसिद्धैव । ↩︎
-
बेला प्रसिद्धैव ↩︎
-
४- मौलसिरीति भाषायाम् । ५- पलासः । ↩︎
-
तप्तम् । ↩︎
-
पूर्वदिवससञ्चितम् । ↩︎
-
मालाकारागारे । ↩︎
-
कुरैयेतिभाषायाम् ↩︎
-
मुकुलम् । ↩︎
-
बेरफलम् । ↩︎
-
१२- चिञ्चिनी । १३- धात्री । १४- रसालः । ↩︎
-
जम्बीरभेदश्चकोतरेति भाषायाम् । ↩︎
-
कण्टकिफलम् । ↩︎
-
मध्ये पूज्यदेवता तिष्ठति तस्याः स्वस्य चान्तरालं पूर्वा दिक्प्रदेष्टव्या । ↩︎
-
ओमन्तोऽन्तावयवोयेषाम् ↩︎
-
लोकपालानां पूजायाः पश्चान्मूलमन्त्रमुच्चार्य साङ्गायै सपरिवारायै देव्यै नमः एतन्मन्त्रेन पूजाविधेया । ↩︎
-
नमोमन्त्रेणः । ↩︎
-
धूप इति प्रसिद्धः । ↩︎
-
मनःशिला ↩︎
-
चन्दनम् ↩︎
-
षद्धागम्माक्षिकम् ↩︎
-
एकभागाः ↩︎
-
सर्द्धषः ↩︎
-
ॐ जयध्वनि मन्त्रमाने स्वाहा ↩︎
-
कपोतभ्रमणवद्दीपभ्रमणम् । ↩︎
-
हस्तौ तु सम्मुखौ कृत्वा संलग्नौ सुप्रसारितौ ॥
कनिष्ठाङ्गुष्ठकौ लग्नौ मुद्रैषा चक्रसञ्ज्ञिता ॥
पाणिद्वयं निबध्य कनिष्ठाङ्गुष्ठयोः अनामिकाकनिस्ठिकयोः प्रवेशेन चक्रमुद्रा भवति ↩︎ -
यमिति मन्त्रेण ↩︎
-
रमिति मन्त्रेण ↩︎
-
पुनरष्टौ वारान्मूलमन्त्रं पठित्वा अभिमन्त्रितं पात्रं हस्ताभ्यां स्पृशेत् । ↩︎
-
एकादशाक्षरो मन्त्रः । ↩︎
-
विकसितकमलाकृतिदक्षिणहस्ताङ्गुलिभिन्नकरणेन ग्रासमुद्रा भवति ॥ ↩︎
-
तिरस्करिणी ↩︎
-
श्रीं ह्रीं ग्लूं स्तूं श्रीं ह्रीं ग्लूं स्तूं ह्रीम् ॥
इति नवाक्षरः रत्नेश्वरीमन्त्रः ॥ ↩︎ -
ॐ तत्सत्प्राणबुद्धिदेहधर्माधिकारजाग्रत्स्वप्न-सुषुप्त्यवस्थासु मनसा वाचा कर्मणाभ्यन्तरा यच्चोदरेण शिष्ण्वा यच्च स्मृतं यदुक्तं यच्च कृतं तत्सर्वं ब्रह्मार्पणं भवेत् भूस्स्वाहा । ↩︎
-
स्वदेशे अन्यदेशीयराज्ञां सेनागमःपरचक्रागम उच्यते ॥ ↩︎
-
पूजायां यद्यद्वस्तु न लभ्येत तद्दाने भावना मनस्येव कर्तव्या । ↩︎
-
कामक्रोधादिकलिदोषैर्युक्ताऽजितेन्द्रियपुंसां वैदिकधर्मानधिकारं विज्ञाय पूर्वाचार्यैस्तन्त्राणिरचितानि तत्र ये वैदिका धर्मास्ते सर्वे सेव्याः पुनः ये बलिवाममार्गादयो वेदविरुद्धास्ते केवलं केनाप्युपायेन मूर्खशूद्रादीनां देवभक्तौ प्रवृत्तये उक्ताः तन्त्राचार्याणामाशयमभिज्ञाय ये तानेव वेदविरुद्धचर्मान् मुख्यान्मत्वा कुर्वते कारयन्ति च ते ब्रह्मतेजसो भ्रष्टा भूत्वा निरये पतन्ति ॥ ↩︎