सञ्ज्ञया प्रार्थिता देवी मुनिभिः श्रोतुकामिभिः ॥
तदिष्टसिद्धये तत्र देवं सैवं व्यजिज्ञपत् ॥ १ ॥
देव्युवाच ॥
श्रौतस्मार्तरता एते पृच्छन्ति मुनयः शिव ॥
एतेषां संशयं छिन्धि त्वदृतेन्यः पुमान्न हि ॥ २ ॥
ईश्वर उवाच ॥
पृच्छन्तु ऋषयस्तावद्देवा अपि मनोगतम् ॥
यावत्कालः समायाति जलन्धरवधस्य तु ॥ ३ ॥
मुनय ऊचुः ॥
अग्निः क्व क्व देवाश्च हूयन्तेग्नौ सुराः कथम् ॥
तत्प्राप्नुवन्ति तद्भेदा भिन्नाः कस्माद्वदस्व नः ॥ ४ ॥
ईश्वर उवाच ॥
न स्वर्गे न च तीर्थेषु नौषधीषु न भेषु च ॥
ऋषयो देवताः सन्ति मन्त्रा एव तु देवताः ॥ ५ ॥
साधकानां फलं दातुं तत्तद्रूपं धृतं सुरैः ॥
मुख्यं स्वरूपं तेषां तु मन्त्रा एव न चेतरत् ॥ ६ ॥
संस्कृताः सात्त्विका मन्त्राः परत्रेह च शर्मदाः ॥
जन्मान्तरे भवेयुश्च बीजरूपा न संशयः ॥ ७ ॥
तत्रापि वैदिका मन्त्राः सुवर्णाः परिकीर्तिताः ॥
न दुर्गतिमवाप्नोति तेषां संसेवनान्नरः ॥ ८ ॥
द्विजत्वं प्राप्य ये लोके सेवन्ते तान्त्रिकान्मनून् ॥
त्यक्त्वा सुवर्णं दुर्बुद्ध्या ग्राम्यवत्तारचारिणः ॥ ९ ॥
ताररूपास्तारकत्वान्मनवस्तान्त्रिका अपि ॥
फलप्रदा इहामुत्र न सद्बीजा भवान्तरे ॥ १० ॥
किञ्चिद्राजससत्त्वा ये यातनान्ते पुनस्तु ते ॥
भवन्ति फलदा यद्वद्वटोदुम्बरपिप्पलाः ॥ ११ ॥
तामसाः प्राकृता मन्त्रा इह लोके महाफलाः ॥
न परत्र यथा द्राक्षाखर्जूरपनसादयः ॥ १२ ॥
तन्मन्त्रैर्यद्धूतं वह्नौ कीदृग्दहति पावकः ॥
ग्रहश्चिनोति तच्छ्रेयो यथा नाड्योन्नजं रसम् ॥ १३ ॥
निर्दोषा तु यदा नाडी वहेदन्नरसं लघु ॥
देवयोग्यो ग्रहस्तद्वच्छ्रेयस्संवहते सुरः ॥ १४ ॥
सूर्यभात्त्रिषु भेष्वर्कनाड्यां श्रेयोभिवर्द्धते ॥
पोषयेद्दैविकान्मन्त्रानितरान्हन्ति वामवत् ॥ १५ ॥
ततस्त्रिभेषु सौरस्य नाडी बुद्धिविलासकृत् ॥
तस्मात्त्रिषु सितस्यापि वामानामपि पुष्टिदा ॥ १६ ॥
ततस्त्रिभेषु सौरस्य कुर्यान्मन्त्रे तु संशयम् ॥
चन्द्रस्य सर्वमन्त्राणां पुष्टिकृच्च ततस्त्रिषु ॥ १७ ॥
ततस्त्रिष्वारनाडी स्यात्फलानान्तु विनाशकृत् ॥
तस्मात्त्रिषु गुरोर्नाडी सत्वरं मन्त्रसिद्धिदा ॥ १८ ॥
राहुनाडी त्रिषु ततो न सत्यैह्यकरे नरे ॥
त्रिष्वतः केतुनाडी तु सद्भूते मन्त्रदेवकृत् ॥ १९ ॥
तिथिवासरसंयोगे गुणशेषे हुताशनः ॥
कौ स्वर्गे कुतले तन्त्रे प्रत्यक्षाग्निस्वरूपकम् ॥ २० ॥
मारयेत्साधकं स्वर्गे हरते भूतले धनम् ॥
प्रत्यक्षाग्निः फलं धत्ते भूमौ वै विश्वरूपकः ॥ २१ ॥
वह्नेस्तु स्थापनं कुर्याद्वैदिकः कल्पमार्गतः ॥
तान्त्रिकः कुण्डसंस्कारानष्टादश समाचरेत् ॥ २२ ॥
मूलमन्त्रेण सम्पश्येत्प्रोक्षयेदस्त्रमन्त्रतः ॥
कुशैस्सन्ताडयेत्कुण्डमस्त्रमन्त्रं पठंस्त्रिधा ॥ २३ ॥
ततः कवचमन्त्रेण कुण्डस्याभ्युक्षणं मतम् ॥
अस्त्रमन्त्रेण खननं कुण्डस्याङ्गुलमात्रतः ॥ २४ ॥
अङ्गुष्ठानामिकाभ्यां तां मृदमस्त्रेण चोद्धरेत् ॥
पुनः शुद्धमृदा तं च पूरयेद्धृदयाणुना ॥ २५ ॥
समीकुर्यात्ततोस्त्रेण सेचयेत्कवचेन तु ॥
काष्ठादिना कुट्टयेत्तन्मन्त्रेण स्यात्तथा दृढम् ॥ २६ ॥
कुशैस्सम्मार्जयेत्कुण्डं ततस्तु कवचाणुना ॥
विलेपनं गोमयाद्भिः कवचेनैव कारयेत् ॥ २७ ॥
कवचे नाग्निसूर्येन्दुकलाः कुण्डे विचिन्तयेत् ॥
त्रिसूत्रीकृतसूत्रेण वेष्टयेत्प्रतिमेखलम् ॥ २८ ॥
त्रिवारं वर्ममन्त्रेण कुण्डपूजां समाचरेत् ॥
तारश्चामुककुण्डाय आसनाय नमस्त्विति ॥ २९ ॥
एषोर्घ्य इत्याद्यूहैश्च सकलं पूजनं चरेत् ॥
नाभेश्च मेखलानां च कुर्यादेवं प्रपूजनम् ॥ ३० ॥
सञ्चिन्तयेत्ततोस्त्रेण तत्कुण्डं वज्रवद् दृढम् ॥
वह्नेर्ज्वालानिरासाय हृन्मन्त्रेण कुशैस्ततः ॥ ३१ ॥
कण्डस्य तु चतुर्दिक्षु कुर्यान्मार्गचतुष्टयम् ॥
अच्छिन्नाग्रैः कुशैरस्त्रमन्त्रितैः कुण्डभित्तिषु ॥ ३२ ॥
भूतप्रेतादिदृष्टीनामस्त्रादीनां समाचरेत् ॥
उच्चानन इमे प्रोक्ताः संस्कारा धृतिसम्मिताः ॥ ३३ ॥
भवेदनेन विधिना कुण्डस्याष्यक्षपाटनम् ॥
वामहोमे तु संस्कारा आद्याश्चत्वार एव हि ॥ ३४ ॥
त्र्यस्रात्र्यस्रा भवेद्रेखा प्रागुदक् च हृदाणुना ॥
स्मृताश्च प्राङ्मुखाग्राणां देवा विष्ण्वीशवासवाः ॥ ३५ ॥
उदङ्मुखाग्ररेखाणां ब्रह्मसूर्येन्दवः क्रमात् ॥
विलिखेद्दर्भकाण्डेन वाममार्गेस्त्रमन्त्रतः ॥ ३६ ॥
त्रिकोणे परिषट्कोणन्त्रिकोणद्वितयस्य तु ॥
विष्ण्वीशवासवादीनां षण्णां तत्र तु पूजनम् ॥ ३७ ॥
वाममार्गे त्विष्टदेव्यास्त्रिकोणे पूजनं भवेत् ॥
सम्प्रोक्ष्य प्रणवेनाथ योगपीठं समर्चयेत् ॥ ३८ ॥
तद्विधिं सम्प्रवक्ष्यामि मण्डलं चिन्तयेत्तले ॥
कालाग्निरुद्रं तस्योर्ध्वं शक्तियुक्तं विचिन्तयेत् ॥ ३९ ॥
तदूर्ध्वं चिन्तयेत्कूर्मं तस्य पृष्ठे वसुन्धराम् ॥
श्वेतद्वीपं तत्र चिन्त्यं सुधासिन्धुसुवेष्टितम् ॥ ४० ॥
मन्दारान्पारिजातांश्च सन्तानान्हरिचन्दनान् ॥
कल्पवृक्षांश्च तत्रैव चिन्तयेत्पूजयेदपि ॥ ४१ ॥
एतादृशगृहे चिन्त्यं रम्यं मणिमयं गृहम् ॥
स्वर्णपीठन्तु तन्मध्ये तस्य पादान्विचिन्तयेत् ॥ ४२ ॥
पुरुषार्थांस्तु धर्मादीन्धर्मो ज्ञानं विरागता ॥
ऐश्वर्यमपि चाङ्गानि पीठस्योक्तानि तत्र तु ॥ ४३ ॥
मध्ये विचिन्तयेत्पद्ममानन्दमयकन्दकम् ॥
संविन्नालं च तस्योक्ता विकारमयकेसराः ॥ ४४ ॥
प्रकृत्यात्मकपत्राणि पञ्चाशद्वर्णकर्णिका ॥
सूर्यस्येन्दोः पावकस्य मण्डलत्रितयं ततः ॥ ४५ ॥
ततः पूर्वादिकाष्ठासु सत्त्वं रजस्तमस्ततः ॥
अन्तरात्मयुतश्चात्मा परमात्मा ततः परम् ॥ ४६ ॥
मायातत्त्वेथ ज्ञानात्मा कलातत्त्वे प्रतिष्ठितः ॥
विद्यातत्त्वं परं तत्त्वं योगपीठमितीरितम् ॥ ४७ ॥
चित्रं
@@@
स्वाग्रादिप्रादक्षिण्येन तत्पद्म केसरेषु तु ॥
मध्यान्तं पूजयेदेता जयाञ्च विजयां तथा ॥ ४८ ॥
अजिताख्यां चापराञ्च जितां नित्यां विलासिनीम् ॥
दोग्ध्रीमघोराञ्च तथा मङ्गलामथ तत्र तु ॥ ४९ ॥
ह्रींसर्वशक्तिकमलासनाय नम उच्यते ॥
दत्त्वा पुष्पाञ्जलिं कुण्डे पूजयेद्भुवनेश्वरीम् ॥ ५० ॥
आवाहनादिपरमीकरणान्तञ्च पूजयेत् ॥
कामोन्मत्तां शिवां तत्र देवीमृतुमतीं तथा ॥ ५१ ॥
गाणेशशैवशाक्तेषु ध्यायेत्सम्पूजयेदिति ।
वैष्णवे च तथा सौरे लक्ष्मीमृतुमतीं स्मरेत् ॥ ५२ ॥
नारायणस्य संयोगाज्जातमग्निं विचिन्तयेत् ॥
आरण्यं विप्रगेहाद्वा दद्यादग्निं कुमारिका ॥ ५३ ॥
सुवासिनी वामहस्तात्कृतशौचा समाहरेत् ॥
पात्रान्तरे चापिहिते ताम्रपात्रादिके शुभे ॥ ५४ ॥
अग्निप्रणयनं कुर्याच्छरावेणथा नूतने ॥
दद्यादस्त्रेण पात्रेग्निं कवचेन विधाय च ॥ ५५ ॥
जीर्णे शरावे कापाले भिन्नपात्रे तथोल्मुके ॥
नाग्निप्रणयनं कुर्याद्व्याधिहानिभयावहम् ॥ ५६ ॥
क्रव्यादांशञ्च नैर्-ऋत्ये त्यजेदस्त्रेण वह्नितः ॥
देवांशं मूलमन्त्रेण स्थापयेदग्रतः सुधीः ॥ ५७ ॥
पश्चात्तमग्निं संस्कारैः संस्कुर्याद्वीक्षणादिभिः ॥
प्रदीपकलिकाकारं तेज आवाहयेत्ततः ॥ ५८ ॥
ऐक्यं चाथ स्वेष्टदेववह्निभ्यां पार्थिवस्य च ॥
स्मृत्वाग्निबीजन्तेनाथ चैतन्यं योजयेत्ततः ॥ ५९ ॥
ओङ्कारेणाभिमन्त्र्याथ धेनुमुद्रामृतीकृतम् ॥
संरक्ष्य च शरेणाथ कवचेनावगुण्ठयेत् ॥ ६० ॥
ततः सम्पूज्य कुण्डस्य भ्रामयेत्त्रिः प्रदक्षिणम् ॥
प्रणवेन ततः स्वस्य सम्मुखं स्वीयकुण्डले ॥ ६१ ॥
देव्या योनौ तत्र जानन्स्पृष्टभूमिश्च देशिकः ॥
शिवबीजमिति ज्ञात्वा निक्षिपेदाशुशुक्षणिम् ॥ ६२ ॥
देवदेव्योराचमनं मैथुनान्ते धिया चरेत् ॥
चित्पिङ्गल 1 हनहन पचपच दहदह ॥ ६३ ॥
सर्वं ज्ञापय स्वाहेति तारादिर्जिनवर्णकः ॥
अमुं मनुं प्रभाष्यैव कृशानुं ज्वालयेत्ततः ॥ ६४ ॥
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ॥
सुवर्णवर्णममलं समिद्धं सर्वतोमुखम् ॥ ६५ ॥
अनेन ज्वलितं मन्त्रेणोपतिष्ठेद्धुताशनम् ॥
मुखेनव धमेदग्निम्मुखादेष व्यजायत ॥ ६६ ॥
कुशैः पलाशादिपर्णैर्नापवित्रेण केनचित् ॥
ततः सुविन्यसेज्जिह्वा देहे मन्त्रैर्विभावसोः ॥ ६७ ॥
भाललिङ्गोरुमूर्धास्यनासानेत्रेषु च क्रमात् ॥
सर्वाङ्गेषु च जिह्वास्ता वक्ष्यन्ते त्रिविधात्मिकाः ॥ ६८ ॥
हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा ॥
बहुरूपा चातिरक्ता जिह्वाः सप्तेति सात्त्विकाः ॥ ६९ ॥
अनलादिसबिन्द्वन्तयादिसान्ताक्षरान्विताः ॥
मन्त्री प्रविन्यसेद्भूयो वह्नेरङ्गानि वै क्रमात् ॥ ७० ॥
सहस्रार्चिस्स्वस्तिपूर्ण उत्तिष्ठपुरुषस्तथा ॥
धूमव्यापी सप्तजिह्वो धनुर्धर इतीरिताः ॥ ७१ ॥
न्यसेत्प्रदक्षिणे देहे वह्निमूर्त्यष्टकं क्रमात् ॥
मूर्द्धास्यपार्श्वकट्यङ्घ्रिकटिपार्श्वांसकेषु च ॥ ७२ ॥
प्रणवादिनमोन्तास्तु अग्नयेपदपूर्वकाः ॥
जातवेदास्सप्तजिह्वो हव्यवाहस्तृतीयकः ॥ ७३ ॥
अश्वोदरजवैश्वानराख्यकोमारतेजसः ॥
विश्वमुखो देवमुखो मूर्तयोष्टौ प्रकीर्तिताः ॥ ७४ ॥
प्रदक्षिणक्रमेणैव सञ्चिन्त्य च ततो जलैः ॥
मेखलोपरिसंशुद्धैः पुनर्दर्भचतुष्टयैः ॥ ७५ ॥
प्रागग्रैरुदगग्रैश्च हित्वा पूर्वाः परिस्तरेत् ॥
एकमेखलके कुण्डे मेखलाधः परिस्तरेत् ॥ ७६ ॥
द्विमेखले द्वितीयायां मध्यमायां त्रिमेखले ॥
स्थण्डिले सिकतानां तु बाह्यभूमौ परिस्तरेत् ॥ ७७ ॥
आत्ममेखलयोर्मध्ये परिधिस्थापनस्य च ॥
रन्ध्रं कुर्यात्तथा विद्वान्मध्यमामेखलोपरि ॥ ७८ ॥
पलाशकाश्मरि बिल्वविकङ्कतसमुद्भवान् ॥
एकवृक्षोद्भवानार्द्रान्परिधीन्बाहुमात्रकान् ॥ ७९ ॥
प्राणानायम्य विधिवत्परिस्तार्य कुशान्तरैः ॥
स्वगृह्योक्तविधानेन वायुदेशाच्च पूर्वतः ॥ ८० ॥
स्रुक्स्रुवौ च प्रणीता च प्रोक्षणीपात्रयुग्मकम् ॥
आज्यस्थालीञ्च परिधींस्तथैव कुशमुष्टयः ॥ ८१ ॥
अधोमुखानि पात्राणि होमद्रव्यं बलिं तथा ॥
गन्धपुष्पाक्षतादीनि सर्वाण्यासादयेत्ततः ॥ ८२ ॥
तान्यभ्युक्ष्य पवित्रेण चासनानि विधाय च ॥
प्रोक्षणीपात्रयुगलं परिपूर्य शुभाम्बुना ॥ ८३ ॥
दत्त्वा तत्र पवित्रांश्च परिपूर्य निधापयेत् ॥
दिश्युत्तरस्यां तत्पात्रं प्रणीतेत्युच्यते बुधैः ॥ ८४ ॥
ततः किञ्चित्प्रणीताम्बु प्रोक्षण्याधाय तज्जलैः ॥
यज्ञसाधनसम्भारान् प्रोक्षयेन्मूलमन्त्रतः ॥ ८५ ॥
वृणुयाद्ब्राह्मणं शाक्तं देवतामन्त्रदीक्षितम् ॥
कुण्डस्य दक्षिणे भागे वेशयेत्तं कुशासने ॥ ८६ ॥
अमुकामुकगोत्रोहममुकामुकगोत्रिणम् ॥
दीक्षाङ्गभूतहोमेस्मिन्ब्राह्मणं त्वां वृणे त्विति ॥ ८७ ॥
वस्त्रालङ्कारदिकेन वृत्वा तं परिपूजयेत् ॥
कुर्यात्कुशबटुं चापि लभ्यते ब्राह्मणो न चेत् ॥ ८८ ॥
कुण्डमध्ये तु षट्कोणे वर्णितं स्वर्णकर्णिकम् ॥
नानाकेशरसंयुक्तं चतुर्द्वारसमावृतम् ॥ ८९ ॥
चिन्तयेदष्टदलकं चतुरस्रतयावृतम् ॥
पूजापीठन्तु तद्वह्नेस्तत्र मण्डलकादिना ॥ ९० ॥
ज्ञानात्मानं योगपीठं सम्पूज्याष्टदलेषु च ॥
प्रादक्षिण्येन मध्यान्तं पीतां श्वेतां तथारुणाम् ॥ ९१ ॥
कृष्णां धूम्रां च तीव्रां च पूजयेद्विस्फुलिङ्गिनीम् ॥
रुचिरां ज्वालिनीञ्चेति सर्वपीठम्प्रपूजयेत् ॥ ९२ ॥
सर्वशक्ति कमलासनाय हृद्द्वादशाक्षरः ॥
समस्तपीठपूजायां वह्निमन्त्र उदाहृतः ॥ ९३ ॥
ततो हुताशनन्ध्यायेद्वरस्वस्तिकशक्तितः ॥
अभयेन च संयुक्तैर्भुजैः सम्यग्विराजितम् ॥ ९४ ॥
सिन्दूरवर्णं पद्मस्थं स्वर्णालङ्कारभूषितम् ॥
त्रिनेत्रञ्च जटामौलिम्पीतवस्त्रारुणस्रजम् ॥ ९५ ॥
ध्यात्वैवं मनुनानेन पूजयेदुपचारकैः 2 ॥
चित्रं
वैश्वानर जातवेद इहावह लोहिताक्ष ॥ ९६ ॥
सर्वकर्माणि साधय स्वाहान्तः प्रणवादितः ॥
सप्तविंशत्यक्षरोयं मन्त्रः स्याद्वह्निपूजने ॥ ९७ ॥
ततः षट्कोणमध्ये च जिह्वाध्यानं च पूजनम् ॥
जिह्वाज्वालारुचः सर्वा वराभयकरास्तथा ॥ ९८ ॥
ऐश्यां हिरण्या स्वर्णाभा शान्तिपौष्टिककर्मणि ॥
वैडूर्यवर्णा कनका प्राच्यां स्तम्भनकार्यवृत् ॥ ९९ ॥
विद्वेषे तरुणादित्यनिभा रक्ताग्निकोणके ॥
कृष्णाञ्जनचयप्रख्या नैर्-ऋत्यां मारणक्षमा ॥ १०० ॥
सुप्रभा पद्मरागाभा वारुण्यां धनदायिका ॥
अतिरक्ता जयाभासा वश्ये वायुदिशङ्गता ॥ १०१ ॥
बहुरूपा तु षट्कोणमध्ये षड्वर्णसंयुता ॥
अनेककार्यसंसिद्धिर्नाशकर्त्री च सा मता ॥ १०२ ॥
यथाकार्यं तथा जिह्वा दृश्यते चेत्स्वदिग्गता ॥
ज्वालारूपा तथा सिद्धिर्विपरीते विपर्ययः ॥ १०३ ॥
प्रभा दीप्तिः प्रकाशा च मरीचिस्तापिनी तथा ॥
कराला लेलिहा चेति जिह्वा वैष्णवकर्मणि ॥ १०४ ॥
ईशप्राग्वह्निनैर्-ऋत्यपश्चाद्वायव्यमध्यतः ॥
संस्थिताः सकला जिह्वा वरदाभयसत्कराः ॥ १०५ ॥
एवं पूजां विधायाशु देवाग्रे चापि दिक्षु च ॥
पूजयेच्च षडङ्गानि पत्रेष्वावृत्तिदेवताः ॥ १०६ ॥
इन्द्रादीन्सायुधान्पश्चात्सम्पूर्णाग्निं पुनर्यजेत् ॥
ततश्चाधोमुखौ कृत्वास्रुक्स्रुवौ च प्रतापयेत् ॥ १०७ ॥
कुशाग्रैस्तु तयोरग्रं मध्यं मध्यैश्चमार्जयेत् ॥
मूले मूलैस्त्रिधा चैव मार्जयित्वा प्रतापयेत् ॥ १०८ ॥
धृत्वा तौ वामहस्तेन प्रोक्षयेत्प्रोक्षणीजलैः ॥
दक्षिणेन कराग्रेण पुनः सन्तापयेच्चतौ ॥ १०९ ॥
कुशान् क्ष्प्त्वा ततो वह्नौ स्वदक्षे तु कुशास्तरे ॥
संस्थाप्य स्रुक्स्रुवौ पश्चाद्धृतसंस्कारमाचरेत् ॥ ११० ॥
समादाय घृतस्थालीं मन्त्रेण सेचये ततः ॥
घृतं तत्र समापूर्य वीक्षणादिसुसंस्कृतम् ॥ १११ ॥
वायव्ये बाह्यतोङ्गारान्कृत्वा तेषु हृदा न्यसेत् ॥
तापनं तु समुद्दिष्टं कुशद्वयमत क्षिपेत् ॥ ११२ ॥
अभिद्योतनमेतत्स्यादुद्योतनमथोच्यते ॥
कुशं प्रज्वलितं चोह्य दर्शयेत्तं हृदा क्षिपेत् ॥ ११३ ॥
वह्नावुद्वास्य च घृतमङ्गाराग्निषु निक्षिपेत् ॥
अपसंस्पृश्य मन्त्रज्ञः कुर्यादुत्प्लवनं ततः ॥ ११४ ॥
अस्त्रमन्त्रं जपेन्मन्त्री कुशौ प्रादेशमात्रकौ ॥
अङ्गुष्ठानामिकाभ्यां च गृहीत्वा घृतमुत्प्लवेत् ॥ ११५ ॥
ततो दृढं कुशाभ्यान्तु स्वाभिमुख्येन सम्प्लवेत् ॥
घृतं तत्स्यात्सम्प्लवनं षट् संस्कारा इतीरिताः ॥ ११६ ॥
उत्तमं गोघृतं प्रोक्तं मध्यमं महिषीभवम् ॥
अधमं छागलीजातं निषिद्धं त्वेडकादिजम् ॥ ११७ ॥
क्रीतं यदापणे चाज्यं स्वादु चेद्गव्यवच्च तत् ॥
कुशद्वयं घृते न्यस्य ततः प्रादेशसम्मितम् ॥ ११८ ॥
ग्रन्थिं कृत्वा कुशाग्रौ द्वौ शुक्लकृष्णौ विचिन्तयेत् ॥
पक्षौ वाम इडां दक्षे पिङ्गलां मध्यतस्ततः ॥ ११९ ॥
सुषुम्णां संस्मरेन्मन्त्री ततो होमं समाचरेत् ॥
दक्षभागात्स्रुवेणाज्यं प्रगृह्णीयाद्धृदाणुना ॥ १२० ॥
दक्षे नेत्रे हुताशस्याग्नये स्वाहेति होमयेत् ॥
गृहीत्वाज्यं वामभागात्तद्वद्वामेग्निलोचने ॥ १२१ ॥
हुनेत्सोमाय स्वाहेति त्यागः सर्वत्रतो मम ॥
हृन्मन्त्रेण गृहीत्वाज्यं मध्यतो मध्यलोचने ॥ १२२ ॥
हुनेत्तस्याग्नीषोमाभ्यां स्वाहेति च तृतीयिकाम् ॥
दक्षभागात्पुनस्त्वाज्यं हृन्मन्त्रेण समाहरेत् ॥ १२३ ॥
अग्निवक्रेऽग्नये स्विष्टकृते स्वाहेति होमयेत् ॥
सताराभिर्व्याहृतिभिराज्येन जुहुयात्पुनः ॥ १२४ ॥
जुहुयादग्निमन्त्रेण त्रिवारं देशिकोत्तमः ॥
गर्भाधानादिकां वह्नेस्समुद्वाहावसानिकाः ॥ १२५ ॥
शुभे कर्मणि कर्तव्या आज्याहुत्यष्टकैः प्रियाः ॥
प्रणवं पूर्वमुच्चार्य कर्मनाम समुच्चरेत् ॥ १२६ ॥
सम्पादयामि स्वाहेति सर्वकर्मस्वयं विधिः ॥
गर्भाधानं पुंसवनं सीमन्तं जातकर्म च ॥ १२७ ॥
निष्कासनञ्च कथितं प्राशनञ्च तथा बुधैः ॥
चौलोपनयनं वह्नेर्महानामव्रतं तथा ॥ १२८ ॥
महाव्रतञ्चोपनिषद्व्रतङ्गोदानमेव च ॥
समावर्तसमुद्वाहौ शाक्ते वाग्भवपूर्वकाः ॥ १२९ ॥
ततश्च वह्नेः पितरौ देवदेव्यादिकौ तथा ॥
पूजयित्वा विसृज्याथ मूलाग्रेषु घृतप्लुताः ॥ १३० ॥
समिधोऽग्नौ क्षिपेत्पञ्च वह्नावथ च पूर्ववत् ॥
सबीजस्वस्वनाम्ना वै चैकैकामाहुतिं हुनेत् ॥ १३१ ॥
ततश्चाङ्गानि 3 जुहुयाद्वह्नेर्मूर्त्यष्टकं तथा ॥ १३२ ॥
इन्द्रादिलोकपालांश्च 4 आयुधानि ततः परम् ॥
पूर्वोक्तेनाग्निमन्त्रेण वौषडन्तेन वै ततः ॥ १३३ ॥
ताराद्यैर्दशभिर्भेदैः 5 पूर्वपूर्वसमन्वितैः ॥
मनुना गाणपत्येन हुनेत्पूर्वं दशाहुतीः ॥ १३४ ॥
जुहुयाच्च 6 चतुर्वारं समस्तेनैव तेन तु ॥
सम्पूज्य 7 देवतापीठं वह्नौ सम्यक् ततो गुरुः ॥ १३५ ॥
अग्निरूपधरां तत्र पूजयेदिष्टदेवताम् ॥
अज्येन चाग्निमनुना 8 पञ्चविंशतिसङ्ख्यकम् ॥ १३६ ॥
हुनेन्मन्त्री चाग्निमुखे वक्त्रैकीकरणं त्विदम् ॥
आत्माग्निदेवतानां च चिन्तयन्नैक्यमात्मवित् ॥ १३७ ॥
एकादशाथ मूलेन हुनेदाज्येन चाहुतीः ॥
नाडीसन्धानमेतद्धि प्रोक्तं देशिकस्त्तमैः ॥ १३८ ॥
अङ्गप्रभृत्यावृत्तीनामेकैकामाहुतिं हुनेत् ॥
पूर्वादिदिक्षु सर्वासुकुण्डेषु च यथाविधि ॥ १३९ ॥
गुरुर्वह्निं प्रविहरेत्संस्कृतं तूक्तवर्त्मना ॥
सर्वर्त्विजश्चन्दनाद्यैस्सम्पूज्य प्रोक्तदेवताम् ॥ १४० ॥
सर्वावरणसंयुक्तां मूलेन जुहुयुस्ततः ॥
पञ्चविंशतिधा सर्पिस्संयुतेन प्रियान्धसा ॥ १४१ ॥
स्रुवेणाज्यं समित्पाण्या स्रुचा शेषं करेण तु ॥
तत्र दिव्येन होतव्यं तीर्थेणार्षेण वा तथा ॥ १४२ ॥
यो नार्चिषि जुहोत्यग्नौ व्यङ्गाग्नौचैव मानवः ॥
मन्दाग्न्यामयसंयुक्तो दरिद्रश्चापि जायते ॥ १४३ ॥
दद्याद्बलिं गन्धपुष्पधूपपूर्वकमादरात् ॥
नक्षत्राणां च वाराणां राशीनां च पृथक् पृथक् ॥ १४४ ॥
देवताभ्यं पदं प्रोक्ता दिवा नक्तं वदेत्ततः ॥
वारेभ्यश्चाथ सर्वेभ्यो भूतेभ्यश्च नमो वदेत् ॥ १४५ ॥
इत्येष तान्त्रिको होमविधिः प्रोक्तो मया सुराः ॥
पृच्छन्त्वन्यद् गूढमपि वक्ष्यामि शरणागतान् ॥ १४६ ॥
इति श्रीमहामायामहाकालानुमते मेरूतन्त्रे शिवप्रणीते होमविधि-प्रकाशश्चतुर्थः ॥ ४ ॥
-
चित्पिङ्गल हनहन पचपच दहदह सर्वं ज्ञापय स्वाहा अयं चतुर्विंशत्यक्षरोऽग्निमन्त्रः ।
नालमेखलयोरित्यपि पाठः । ↩︎ -
चक्रे त्रिकोणं वह्नियन्त्रं लिखितमस्ति पुनरग्निपूजासमये न्यासानपि कुर्यात् स यथा ।
ॐ सहस्रार्चिर्षे अङ्गुष्ठाभ्यां नमः ॥
ॐ स्वस्तिपूर्णाय तर्जनीभ्यां नमः ॥
ॐ उत्तिष्ठपुरुषाय मध्यमाभ्यां नमः ॥
ॐ धूमव्यापिने अनामिकाभ्यां नमः ॥
ॐ सप्तजिह्वाय कनिष्ठिकाभ्यां नमः ॥
ॐ धनुर्धराय करतलकरपृष्ठाभ्यां नमः ॥
इति करन्यासः ॥
ॐ सहस्रार्चिषे हृदयाय नमः ॥
ॐ स्वस्तिपूर्णाय शिरसे स्वाहा ॥
ॐ उतिष्ठपुरुषाय शिखायै वष्ऽत् ॥
ॐ धूमव्यापिने कवचाय हुम् ॥
ॐ धनुर्धराय अस्त्राय फट् ॥
इति हृदयादिन्यासः ॥
एतन्न्यासद्वयकरणान्ते यन्त्रपूजनम् ॥ ↩︎ -
ॐ सहस्रार्चिषे स्वाहा ॐ स्वस्तिपूर्णाय स्वाहा ॐ उत्तिष्ठपुरुषाय स्वाहा ॐ धूमव्यापिने स्वाहा ॐ सप्तजिह्वाय स्वाहा ॐ धनुर्धराय स्वाहा ॐ अग्नये जातवेदसे स्वाहा ॐ अग्नये सप्तजिह्वाय स्वाहा ॐ अग्नये हव्यवाहाय स्वाहा ॐ अग्नये अश्वोदरजाय स्वाहा ॐ अग्नये वैश्वानराय स्वाहा ॐ अग्नये कौमारतेजसे स्वाहा ॐ अग्नये विश्वमुखाय स्वाहा ॐ अग्नये देवमुखाय स्वाहा ॥ ↩︎
-
इन्द्रादीनां तदायुधानां च चक्रभूपुरे मन्त्रा लिखिताः ॥ ↩︎
-
ॐ ॐ स्वाहा १ ॐ श्रींस्वाहा २ ॐ श्रींह्रीं स्वाहा ३ ॐ श्रींह्रीङ्क्लीं स्वाहा ४ ॐ श्रींह्रीङ्क्लीङ्ग्लौं स्वाहा ५ ॐ श्रींह्रीङ्क्लीङ्ग्लौङ्गं स्वाहा ६ ॐ श्रींह्रीङ्क्लीङ्ग्लौङ्गङ्गणपतये स्वाहा ७ ॐ श्रींह्रीङ्क्लीङ्ग्लौङ्गं गणपतयेवरवरद ८ ॐ श्रींह्रीङ्क्लीङ्ग्लौङ्गङ्गणपतये वरवरद सर्वजनं मे वशं स्वाहा ९ ॐ श्रींह्रीङ्क्लीङ्ग्लौङ्गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाया १० ॥ ↩︎
-
पुनः समस्तेन गणेशमन्त्रेण चतुरो वाराञ्जुहुयात् ॥ ↩︎
-
अग्नौ देवपीठभावनया देवतामग्नीरूपं विज्ञाय मानसीं पूजां विदधीत ॥ ↩︎
-
पूर्वमुक्तोग्निमन्त्रः ॐ विश्वानर जातवेद इहावहेत्यादि ॥ ↩︎