श्रीदेव्युवाच ॥
वाममार्गे कथं दीक्षा दक्षिणे च कथं भवेत् ॥
किं तत्रावश्यकं कर्म चेति मे निर्णयं वद ॥ १ ॥
ईश्वर उवाच ॥
शृणु देवि प्रवक्ष्यामि सर्वतन्त्रेषु गोपितम् ॥
दीक्षाविधिं पञ्चविधं तद्राज्ञामुत्तमोत्तमम् ॥ २ ॥
उत्तमं महदाद्यानां सामान्यानां तु मध्यमम् ॥
ब्राह्मणानामल्पमुक्तं यतीनामपि चाल्पकम् ॥ ३ ॥
तस्मादादौ प्रवक्ष्यामि तुभ्यं यच्चोत्तमोत्तमम् ॥
यस्मिञ्ज्ञाते चोत्तमादिभेदानां विषयो भवेत् ॥ ४ ॥
तत्रादौ मण्डपं कुर्यादुत्तमोत्तमकर्मणि ॥
स्थलादर्काङ्गुलोच्छ्रायं मण्डपस्थलमीरितम् ॥ ५ ॥
भूमिस्तु खननाच्छोध्या स्वेष्टकुण्डादितस्त्वधः ॥
अस्थिकीटतुषाङ्गारमलहीनं शुभावहम् ॥ ६ ॥
अन्यथा तां मृदं त्यक्त्वा पूरयेच्छुभया मृदा ॥
ग्रामाद्बहिःस्थया तत्र विप्राद्यैश्च स्ववर्णया ॥ ७ ॥
तत्र तां सुसमां कृत्वा विस्तीर्णे भाजने जलम् ॥
अष्टाशेन सुरेख्या तत्पूरयित्वा प्रचालयेत् ॥ ८ ॥
तत्पात्रं यत्र लेख्याया जलमूर्द्धं समागतम् ॥
तत्पूरयेद्वा यत्रोनं निम्नयेत्तत्स्थलं बुधः ॥ ९ ॥
एवं समीकृतायां तु भूमौ दिक्साधनं चरेत् ॥
सूत्रकर्कटकीलानि गृहीत्वा वै निशान्तरे ॥ १० ॥
आद्यन्तरन्ध्रसṁय्युक्ता नलिका ध्रुववेधिका ॥
याम्योत्तराशा तन्मध्ये केन्द्राद्वत्तं समालिखेत् ॥ ११ ॥
लेखां ततो वृत्तमध्ये तेन कर्कटकेन तु ॥
धनुष्कुर्यात्ततश्चापं धनुष्कुर्यात्ततः पुनः ॥ १२ ॥
एवं चापानि षट् तत्र पद्मं भवति षड्दलम् ॥
सौम्ये याम्ये त्रयं कृत्वा दलानां मध्यदेशतः ॥ १३ ॥
दीर्घा रेखा कृता सा तु भवेत्पूर्वापरा त्रिधा ॥
याम्यपश्चिमयोस्सौम्यपूर्वयोरुपरिस्थयोः ॥ १४ ॥
चापयोरर्द्धगं सूत्रमीशानी राक्षसी भवेत् ॥
अन्ययोश्चापयोरेवमाग्नेयी वायवी भवेत् ॥ १५ ॥
विदिक्संस्थानि सूत्राणि समान्येव हि वृत्ततः ॥
यथेष्टं बहिरानीय निखनेत्तत्र कीलकान् ॥ १६ ॥
बद्धं चतुर्णां कीलानां मस्तके दृढसूत्रकम् ॥
समकर्णं दिगन्तं तच्छुद्धं स्याच्चतुरस्रकम् ॥ १७ ॥
गणेशं पूजयित्वादौ पुण्याहं वाचयेत्सुधीः ॥
ततः पञ्चनिनादैश्च मण्डपं रचयेच्छुभम् ॥ १८ ॥
मण्डपं कुलदीक्षाया कुर्याद्विंशतिहस्तकम् ॥
मद्यमांसपुरन्ध्रीणां समावेशो यथा भवेत् ॥ १९ ॥
मण्डपोऽष्टादशकरः सिद्धान्ते वाममार्गके ॥
अल्पत्वात्तत्र कुण्डानामधिकेपि सपञ्चके ॥ २० ॥
वैदिके बहुसामग्र्यां नवकुण्डे तु षोडश ॥
कुण्डाल्पतायां सामग्र्यामल्पायां वेदहस्तकः ॥ २१ ॥
दक्षिणे बहुसामग्र्यां सूर्यहस्तस्तु मण्डपः ॥
अल्पायां दशहस्तः स्यान्नवहस्तः सदा विशान् ॥ २२ ॥
शूद्राणां सप्तहस्तस्स्यात्सङ्कराणां च पञ्च च ॥
प्रोक्तं मानं मण्डपानां सर्वतन्त्रेषु गोपितम् ॥ २३ ॥
प्रोक्ता नानाविधा हस्तास्तन्निर्णयमथो शृणु ॥
यस्मिन्देशे च काले च समुत्पन्ना यथा यवाः ॥ २४ ॥
तेषामष्टोदराणां स्यादङ्गुलं तद्द्विजन्मनाम् ॥
सप्तोदरैस्तु शूद्राणां सङ्करादौ तथा रसैः ॥ २५ ॥
अवैदिकस्य विप्रादेरेतत्सङ्ख्यार्द्धशालिभिः ॥
यत्र कर्ता स्वयं तत्र मानमेतदतोन्यथा ॥ २६ ॥
आचार्यदक्षिणकरे मध्यमाङ्गुलिमध्यगम् ॥
पर्वणोरन्तरन्दीर्घमात्राङ्गुलमुदाहृतम् ॥ २७ ॥
उच्छ्रायः प्रतिमायाश्च प्रासादादेश्च निर्मितः ॥
वेदिकापीठशिबिकारथाद्येतत्प्रमाणतः ॥ २८ ॥
विनाङ्गुष्ठेन शेषाभिर्मुष्टिरङ्गुलिभिः कृतः ॥
चतुर्द्धा विभजेदेको भागो मुष्ट्यङ्गुलं तु तत् ॥ २९ ॥
होमाङ्गानि स्रुवादीनि कुण्डस्थण्डिलवेदिकाः ॥
यज्ञोपवीतमुञ्जादि कुर्यान्मुष्ट्यङ्गुलेन तु ॥ ३० ॥
यं कञ्चित्पौरुषायामं विभज्य दशधा पुनः ॥
एकं द्वादशभागन्तु कृत्वा तेष्वेकमङ्गुलम् ॥ ३१ ॥
देहलब्धाङ्गुलं नाम जानीयात्तस्य तत्पुनः ॥
एभिश्चतुर्विंशतिभिर्हस्तः स्यादङ्गुलैः पुनः ॥ ३२ ॥
अनेन प्रतिमाङ्गानां मानमुन्मानमेव च ॥
नराणां चापि नारीणां कुर्याद्गोप्यं प्रकाशितम् ॥ ३३ ॥
चतुर्दशकरं कोटिहोमे सम्पत्तिसंयुते ॥
अन्यथा द्वादशकरं लक्षहोमेषु दिक्करम् ॥ ३४ ॥
मण्डपं नवधा कृत्वा मध्ये भागेऽस्य वेदिका ॥
स्तम्भास्तु वेदिकाकोणे मण्डपार्धोच्छिता वहिः ॥ ३५ ॥
पञ्चमांशं न्यसेद् भूमौ पुष्टाऽशांशसूत्रतः ॥
मस्तके कलशाकारं तद्दशांशेन कारयेत् ॥ ३६ ॥
स्वायामोच्चा भवेद्वेदी नवकाष्ठोत्थसन्धिषु ॥
मण्डपस्य तृतीयांशदीर्घान्स्तम्भान्सुविन्यसेत् ॥ ३७ ॥
द्वादशैवं तु पञ्चांशभूमौ कूटं दशांशतः ॥
मध्यस्तम्भस्थितं कूटं मृदङ्गाभं प्रकल्पयेत् ॥ ३८ ॥
बाह्यस्तम्भार्धतो देया बलयो द्वादशैव हि ॥
दक्षदीक्षाविधौ पद्मनिभं कूटं तु कारयेत् ॥ ३९ ॥
त्रिधारं वामदीक्षायां शङ्खाभं वैष्णवे मुखे ॥
चतुर्स्रा चतुष्कोणा वेदी सर्वफलप्रदा ॥ ४० ॥
तथाङ्गादिप्रतिष्ठायां पद्मिनी पद्मसन्निभा ॥
राज्ञां स्यात्सर्वतोभद्रा चतुर्भद्राभिषेचने ॥ ४१ ॥
विवाहे श्रीधरा वेदी विंशत्यस्रसमन्विता ॥
वाममार्गेण दीक्षायां गुप्ता त्र्यस्रा तु वेदिका ॥ ४२ ॥
स्तम्भानामुपरि स्थाप्यान्यव्रणानि सजूंषि च ॥
एकजातीनि पत्राणि बद्धा स्तम्भगले न्यसेत् ॥ ४३ ॥
नारिकेलदलैर्वंशैश्छादयेत्तत्समन्ततः ॥
झञ्झामारुतवृष्ट्यादिभयं न स्याद्यथा तथा ॥ ४४ ॥
पूर्वोक्तसंसाधितदिक्षु कुर्याद्द्वाराणि चत्वारि तु मण्डपस्य ॥
पञ्चांशमाना खलु देहली स्याद्द्विधोच्छ्रिते तत्र कपाटशाखे ॥ ४५ ॥
वाममार्गे द्वारमिदं दक्षिणे श्रेष्ठमण्डपे ॥
कुर्याद्देहलिकां रम्यां साष्टाङ्गुलकरद्वयाम् ॥ ४६ ॥
मध्यमे मण्डपे कुर्यात्सार्द्धाङ्गुलकरद्वयम् ॥ ४७ ॥
हीने करद्वयं तस्य चोच्चता द्विगुणा मता ॥
पूर्वद्वाराद्बहिर्हस्तमात्रं त्यक्त्वा तु वेश्मतः ॥ ४८ ॥
श्रेष्ठे मध्ये कनिष्ठे तु सप्तषट्पञ्चहस्तकम् ॥
उच्छ्रितं फलकं कुर्याद्विस्तृतं तद्गुणाङ्गुलम् ॥ ४९ ॥
तथा पँचाङ्गुलं स्थूलं विषमं चतुरस्रकम् ॥
वितस्त्या चोन्नतशिखं द्वारस्योभयपार्श्वयोः ॥ ५० ॥
स्थापयेत्फलकौ द्वौ तु श्रेष्ठे मध्ये कनिष्ठिके ॥
मण्डपे तौ दीर्घतायां क्रमात्सार्द्धकरद्वयम् ॥ ५१ ॥
सपादद्वितयं युग्महस्तं पञ्चाङ्गकं भुवि ॥
निखनेदग्निमीडेति गायत्र्या पार्श्वयोर्द्वयोः ॥ ५२ ॥
तत्सजातीयकाष्ठेन तावद्विस्तारगर्भकम् ॥
चतुरस्रं तु विषमं द्वयोरुपरि कीलयेत् ॥ ५३ ॥
दर्भमालाञ्च बध्नीयात्पूर्वद्वारे विधिस्त्वयम् ॥
एवं तु दक्षिणे द्वारे तद्द्वारं प्लक्षकाष्ठजम् ॥ ५४ ॥
इषेत्वेति न्यसेन्मालां बन्धयेत्पूर्ववत्ततः ॥
औदुम्बरमयं कुर्यात्पश्चिमद्वारतस्त्विदम् ॥ ५५ ॥
अग्न आयाहि मन्त्रेण प्लक्षजं वैदिके मखे ॥
प्राग्वदेवं प्रकुर्वीत वटवृक्षमयं तथा ॥ ५६ ॥
शन्नो देवीति मन्त्रेण सौम्यदिग्द्वारतो न्यसेत् ॥
तेषामुपरि तिर्यक्स्थकाष्ठानां मध्यतो बिलम् ॥ ५७ ॥
कृत्वा तोरणजातीयकाष्ठेन रचयेच्छुभम् ॥
श्रेष्ठमध्यजघन्येषु शैवयागे त्रिशूलकम् ॥ ५८ ॥
विश्वेशाङ्गाङ्गुलं दीर्घं तच्चतुर्थांशविस्तृतम् ॥
वैष्णवे द्वादशांशेन शङ्खचक्रगदाम्बुजम् ॥ ५९ ॥
प्रागादिक्रमयोगेन न्यसेत्सौरोपि वैष्णवः ॥
ऋजु वै मध्यमं शृङ्गं किञ्चिद्वक्रन्तु पार्श्वयोः ॥ ६० ॥
एवं शूलो गणपतिः शिवाद्याः शिववन्मताः ॥
ततस्तु मण्डपस्याग्रे भूम्यूर्द्धदशहस्तकः ॥ ६१ ॥
भूमौ करद्वये वंशः स्वच्छवस्त्रावगुण्ठितः ॥
विस्तृतश्चैकहस्तेन दीर्घः पञ्चकरैर्ध्वजः ॥ ६२ ॥
मन्त्रदेवं लिखेत्तत्र सायुधञ्च सवाहनम् ॥
घण्टाचामरसंयुक्तं देवतावर्णवर्णकम् ॥ ६३ ॥
स्थापयित्वा ध्वजं पश्चाद्दशदिक्षु प्रकल्पयेत् ॥
दिगीशानां पताकाश्च ध्वजस्यार्धप्रमाणतः ॥ ६४ ॥
तत्र वेदोक्तमन्त्रेण तत्तद्वर्णाश्च तद्दिशि ॥
त्रातारमिन्द्रमिति च पीतवर्णां हरेर्दिशि ॥ ६५ ॥
आग्नेय्यां पिङ्गला त्वन्नो अग्नेर्वरणमन्त्रतः ॥
सुगन्नः पन्थामनुना कृष्णवर्णा यमे स्मृता ॥ ६६ ॥
असुन्वन्तेतिमनुना नैर्-ऋत्यां धूम्रवर्णिका ॥
तत्त्वायामि ब्रह्मणेतिवारुण्यां सितवर्णिका ॥ ६७ ॥
आनोनियुद्भिरिति च वायव्यां हरिता भवेत् ॥
वयं सोमव्रत इति सौम्यायां चन्द्रवर्णिका ॥ ६८ ॥
तमीशानमितीशान्यामतिश्वेता पताकिका ॥
ईशानपूर्वयोर्मध्ये शेषं रक्तपताकिनम् ॥ ६९ ॥
तोयनैर्-ऋत्ययोर्मध्ये विधिं रक्तपताकिनम् ॥
वाममार्गे वेदमन्त्रो वज्रपातसमस्स्मृतः ॥ ७० ॥
ब्राह्मणानां वाममार्गो नरकायैव जायते ॥
मन्त्राभावे नाममन्त्रान्प्रणवाद्यान्हृदन्तकान् ॥ ७१ ॥
पठेद्दक्षिणमार्गे तु वामे प्रणववर्जितान् ॥
मण्डपोपरि बध्नीयादतिश्वेतं वितानकम् ॥ ७२ ॥
अलङ्कुर्यात्पुष्पमालादिभिरेवं तु वेष्टयेत् ॥
आम्राश्वत्थदलोत्पन्नयुक्तया दीर्घमालया ॥ ७३ ॥
स्तम्भान्दुकूलैस्संवेष्ट्य मध्ये कुर्याच्च वेदिकाम् ॥
इष्टिकाभिरपक्वाभिर्हस्तविस्तृतपिण्डिकाम् ॥ ७४ ॥
मण्डपायामरुद्रांशनवसप्तेषुरामकैः ॥
अंशैः समुन्नतां वापि तारतम्यं विलोक्य च ॥ ७५ ॥
सामग्र्यादेः समावेशो यथा स्यादिति मण्डपः ॥
अयुताहुतिहोमस्तु विधेयः स्थण्डिलोपरि ॥ ७६ ॥
एकहस्तमितं कुण्डं दशलक्षावधि स्मृतम् ॥
लक्षाणां दशकेनैकं हस्तंहस्तं विवर्द्धयेत् ॥ ७७ ॥
दशहस्तकोटिहोमे वैदिकानामितीरितम् ॥
मद्यमांसादिहोमस्तु कुण्ड एव विधीयते ॥ ७८ ॥
पञ्चाशत्प्रमिते होमे प्रकोष्ठं कृतमुष्टिकम् ॥
कुण्डस्य मानं भवति शतेऽरत्निसमं भवेत् ॥ ७९ ॥
सहस्रे हस्तमात्रं स्याद्द्विहस्तमयुते मतम् ॥
चतुर्हस्तमितं लक्षे षट्करं दशलक्षके ॥ ८० ॥
कोटिहोमे चाष्टहस्तं कुण्डं वामे विधीयते ॥
एककुण्डविधाने तु चतुरस्रं विधीयते ॥ ८१ ॥
ब्राह्मणानां विशेषेण स्तम्भने चापि पूर्वगम् ॥
नवकुण्डविधाने तु वह्निभागे भगाकृति ॥ ८२ ॥
भोगार्थं चापि पुत्रार्थं वामिनां चतुरस्रवत् ॥
अर्धचन्द्रनिभं याम्ये वैश्यानां सर्वकर्मणि ॥ ८३ ॥
अन्येषां मारणे प्रोक्तं चतुष्कुण्डेष्वपीष्यते ॥
त्रिकोणकुण्डं नैर्-ऋत्ये रिपुघातकरं स्मृतम् ॥ ८४ ॥
विद्वेषकारकं चैतच्छद्राणाञ्च विशिष्यते ॥
वृत्तं मुख्यं क्षत्त्रियाणां सर्वेषां शाक्तकर्मणि ॥ ८५ ॥
पश्चिमायां तु तत्कार्यं बौद्धादीनां च सिद्धिदम् ॥
षट्कोणमुच्चाय्यति तच्छेदेषु च विशिष्यते ॥ ८६ ॥
वायव्यां कारयेत्तच्च सङ्कराणां विशिष्यते ॥
उदीच्यां पौष्टिके कुण्डं वृत्तिदं तुष्टिदं तथा ॥ ८७ ॥
सर्वप्रयोगेष्वनया परप्रीतिकरं स्मृतम् ॥
अष्टकोणं मुक्तिकरमैशान्यां तद्विधीयते ॥ ८८ ॥
कारागृहात्तथा रोगाच्चिन्तादेर्मोक्षमाप्नुयात् ॥
अष्टकुण्डीविधाने तु क्रमोऽयं नवकुण्डके ॥ ८९ ॥
नवमं चतुरस्रं स्यात्पूर्वेशानदिगन्तरे ॥
विधाने पञ्चकुण्डीनामीशाने पञ्चमं भवेत् ॥ ९० ॥
समकुण्डविधाने तु न खातो वैदिके बहिः ॥
अन्यदेकं पञ्चकोणमभिचारविनाशनम् ॥ ९१ ॥
तथान्यत्सप्तकोणञ्च कुण्डं भूतनिकर्तनम् ॥
अथादौ चतुरस्रस्य कुण्डस्य विधिरुच्यते ॥ ९२ ॥
नाभियोनिसमायुक्तं श्रेष्ठं कुण्डं त्रिमेखलम् ॥
द्विमेखलं तु शूद्राणां सङ्कराणां कुमेखलम् ॥ ९३ ॥
यावान्कुण्डस्य विस्तारः खननं तावदेव हि ॥
यावत्कुण्डमिहेष्टं स्यात्तावद्दिक्सधने कृते ॥ ९४ ॥
चतुरस्रं समं कुर्यात्समकर्णञ्च शिल्पवित् ॥
एकहस्तस्य यत्कर्णो भुजा तस्य करद्वयी ॥ ९५ ॥
द्विहस्तस्य तु कर्णस्य त्रिहस्ता भुजसम्मितिः ॥
चतुर्हस्तादिकेप्येवं कुण्डः सर्वत्र भूसमः ॥ ९६ ॥
जिनभागसमास्तस्य बहिः कार्यास्तु मेखलाः ॥
द्वादशाङ्गुलविस्तारा चोत्सेधा चतुरङ्गुला ॥ ९७ ॥
तदूर्ध्वमपरादीर्घाष्टाङ्गुलाष्टाङ्गुलोच्चका ॥
चतुर्भिरङ्गुलैर्दीर्घा तावदुच्चा तदर्धतः ॥ ९८ ॥
दैर्घ्यात्सूर्याङ्गुला योनिस्त्र्यंशोना विस्तरेण तु ॥
एकाङ्गुलोच्छ्रिता सा तु प्रविष्टाभ्यन्तरे तथा ॥ ९९ ॥
कुम्भद्वयसमायुक्ता चाश्वत्थदलवन्मता ॥
अङ्गुष्ठमेखलायुक्ता मध्ये बाह्ये धृतिः क्षमा ॥ १०० ॥
योन्यास्तु पश्चिमे भागे मेखलात्रितयाद्बहिः ॥
चतुरस्रं भवेत्पीठं कुण्डमष्टांशविस्तृतम् ॥ १०१ ॥
तावद्दीर्घं तथोच्चं च नालं तन्मध्यतो भवेत् ॥
योनिमध्ये तु तद्वृत्तं कुण्डषष्ठंशमानतः ॥ १०२ ॥
प्रागग्नियाम्यकुण्डानां प्रोक्ता योनिरुदङ्मुखी ॥
शेषा पूर्वमुखा योनिः कुण्डयोनिञ्च वर्जयेत् ॥ १०३ ॥
कुण्डमध्यस्थकेन्द्रात्तु कुर्यात्कर्कटकेन तु ॥
प्रसारितेन व्यासार्कभागतुल्येन तत्परम् ॥ १०४ ॥
षष्ठांशेन तु वृत्तं स्यात्पूर्ववृत्तं तु कर्णिका ॥
कर्णिकाग्रे बाह्यवृत्ताभ्यन्तरेष्टदलानि तु ॥ १०५ ॥
एवं षडङ्गुलोच्चा स्यान्नाभिर्वेदास्रमीरितम् ॥
इष्टस्य चतुरस्रस्य जिनांशो भाग उच्यते ॥ १०६ ॥
सपादैः पञ्चभिर्भागैर्मध्यसूत्रं विवर्धयेत् ॥
प्राच्यामथ प्रकुर्याच्च चतुर्धा चतुरस्रकम् ॥ १०७ ॥
मध्यतो भ्रामयेत्कर्कटकं पश्चिमसंस्थयोः ॥
अर्धचापाकृतिं रुद्रबहिर्दिक्षु तदग्रतः वह्न्यन्तं पातयेत्सूत्रं द्वयोरपि तदा भवेत् ॥ १०८ ॥
अश्वत्थपत्रसङ्काशं योनिकुण्डमुदङ्मुखे ॥
प्राग्मानाश्चात्र बोद्धव्या योनिरूपाः सुमेखलाः ॥
चतुरस्रीकृतं क्षेत्रं दशधा विभजेद्बुधः ॥ १०९ ॥
एकमेकं त्यजेदंशमध ऊर्ध्वं च तन्त्रवित् ॥
ज्यासूत्रं पातयेदग्रे तन्मानाद् भ्रामयेत्ततः ॥
अर्धचन्द्रनिभं कुण्डं रमणीयमिदं भवेत् ॥ ११० ॥
अत्र तद्याम्यपृष्ठं स्यादेवं तन्मारणाय वै ॥
सौम्यपृष्ठं ततो न्यत्त्र योनिः पश्चिमदिग्मता ॥ १११ ॥
अग्रं प्राक् त्रिभुजं कार्यं लम्बास्तुल्यास्त्रयोपि च ॥
सान्तरं सर्वतन्त्रेषु प्रोक्तमत्र निरन्तरम् ॥ ११२ ॥
एक हस्ते तु हस्ताद्या भुजाभूद्वादशोच्चया ॥
द्विहस्तादौ त्रयः पञ्च त्रिहस्तेह्यर्कभूमयः ॥ ११३ ॥
चतुर्हस्ते त्रयं चन्द्रः पञ्चहस्ते त्रिगोचराः ॥
षड्ढस्ते त्र्यब्दरामाश्च नगे त्रिकृतिसागराः ॥ ११४ ॥
अष्टहस्ते कृतागक्ष्मादैवीविश्वामयाग्नयः ॥
वेदाग्निधृतियुग्मानि दशहस्तभुजा स्मृता ॥ ११६ ॥
व्यासार्धं चतुरस्रस्य स्वस्याष्टादशभागयुक् ॥
तावत्कर्कटकाद् वृत्तं वृत्तकुण्डमिहोच्यते ॥ ११६ ॥
रचयेच्चतुरस्रस्य व्यासार्धं नृपभागयुक् ॥
तावत्कर्कटकेनापि कुर्याद् वृत्तं मनोहरम् ॥ ११७ ॥
तेन कर्कटमानेन चिह्नषट्कञ्च पूर्ववत् ॥
कृत्वा तत्त्रिभुजां दत्त्वा कुडमेवं षडस्रवत् ॥ ११८ ॥
इष्टस्य चतुरस्रस्य चतुर्विंशांशकल्पना ॥
कृत्वा तन्मध्यतः सूर्यभागं कर्कटकेन तु ॥ ११९ ॥
वृत्तं कुर्यात्पुनः सूर्यतिथिभागैर्द्वितीयकम् ॥
दिग्विदिगन्तराले च सूत्राण्यष्टौ प्रपातयेत् ॥ १२० ॥
ततोन्तर्वृत्तरेखाया ईशसूत्राग्रसूत्रतः ॥
रेखां नयेद्बाह्यवृत्तपूर्वसूत्रस्य मूर्द्धनि ॥ १२१ ॥
ततो दक्षिणरेखायामन्तर्वृत्तस्य मूर्द्धनि ॥
तमानयेद्दलं तस्मादेवमष्टदलानि तु ॥ १२२ ॥
अंशव्यासार्द्धकेनापि यद्वृत्तं सा तु कर्णिका ॥
ततः षडङ्गव्यासार्धवृत्तं तत्केशराणि च ॥ १२३ ॥
व्यासषष्ठांशमानोच्चा कर्णिका केशराणि च ॥
गुरूक्तयुक्त्या निखनेद्यथा पद्माकृतिर्भवेत् ॥ १२४ ॥
पद्माकृतिम्प्रकुर्वीत कण्ठं मेखलया सह ॥
कार्यं तथा वालुकाभिश्चतुरस्रसमं यथा ॥ १२५ ॥
अथेष्टचतुरस्रस्य व्यासः स द्वादशांशयुक् ॥
तेनैव भ्रामयेद् वृत्तं चिह्नान्यत्र दिगष्टके ॥ १२६ ॥
क्रमान्न्यसेत्तदुपरि भुजां दद्यात्समामिति ॥
अष्टास्रं जायते कुण्डं तद्वत्कण्ठश्च मेखलाः ॥ १२७ ॥
इष्टस्य चतुरस्रस्य व्यासार्धं स्वनगांशयुक् ॥
तद्व्यासार्धेन वृत्तं स्यात्तत्र चिह्नानि पञ्च तु ॥ १२८ ॥
समभागेन देयानि तेषु सूत्राणि दापयेत् ॥
ज्यारूपाणि धनुर्लोपात्कुण्डं पञ्चास्रकं भवेत् ॥ १२९ ॥
इष्टस्य चतुरस्रस्य व्यासार्धः पञ्चमांशयुक् ॥
भ्रामयेत्तत्र वृत्तं तु सप्तधा सकलं तु तत् ॥ १३० ॥
ख्यातान्यन्यानि कुण्डानि तान्त्रिकस्मार्तकर्मणि ॥
अनाभिकानि कुण्डानि वियोनीति श्रुतीरितम् ॥ १३१ ॥
आचर्यकुण्डं नवमं चतुरस्रन्तु वैदिकम् ॥
अष्टाशक्तौ तु चत्वारि दिक्षु कुण्डानि तान्त्रिके ॥ १३२ ॥
तदशक्तावेकमेव चतुरस्रं प्रकल्पयेत् ॥
शक्त्या उपासने वामपथ्यकं योनिकुण्डकम् ॥ १३३ ॥
अनेकदोषदं कुण्डं मानं हि चाधिकं यदि ॥
तस्मात्सम्यक्परीक्ष्येदं कर्तव्यं शुभमिच्छता ॥ १३४ ॥
खाताधिके भवेद्रोगी हीने धेनुधनक्षयः ॥
वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले ॥ १३५ ॥
मेखलारहिते शोकोऽथाधिके वित्तसङ्क्षयः ॥
भार्याविनाशकं कुण्डं प्रोक्तं योन्या विना कृतम् ॥ १३६ ॥
अपत्यध्वंसनं प्रोक्तं कुण्डं यत्कण्ठवर्जितम् ॥
शृङ्गाररहितं यच्च कुण्डं जर्जरमेखलम् ॥ १३७ ॥
यजमानविनाशाय प्रोद्घातः स्फुटिते भवेत् ॥
सूत्राधिके सुहृद्द्वेषः सूत्रहीने दरिद्रता ॥ १३८ ॥
अनाले जठरे रोगश्छिद्रे कुण्डे तु वाच्यता ॥
यथोक्तकुण्डेप्युत्पातादेवं जाते फलं त्विदम् ॥ १३९ ॥
षड्गुणाब्धिवह्निनेत्रमितास्स्युः पञ्च मेखलाः ॥
धर्मभेदे जातिभेदे चाचार्ययजमानयोः ॥ १४० ॥
षष्ठांशेनाष्टमांशेन मेखलाद्वितयं मतम् ॥
कौलिके वाममार्गे च बौद्धे जैने च शाबरे ॥ १४१ ॥
एवं कृते मण्डपे तु वास्तुपूजां समारभेत् ॥
नूतने तु गृहे कुर्यादन्यथोपद्रवो महान् ॥ १४२ ॥
स्मार्ती च तान्त्रिकी पूजा द्विविधा सा निगद्यते ॥
वास्तुनामा पुरा कश्चिद्बभूव त्वसुरोत्तमः ॥ १४३ ॥
त्रैलोक्यं निर्जितं तेन त्रिपञ्चाशच्च देवताः ॥
ये रणे सम्मुखे यातास्तेन तेतिनिपीडिताः ॥ १४४ ॥
पुनः पुनर्जिता युद्धे स एवासीत्प्रजापतिः ॥
दिव्यवर्षसहस्रान्ते देवाः शरणमागताः ॥ १४५ ॥
विष्णोर्मम च पार्वत्या दैत्येन्द्रेणापि तच्छ्रुतम् ॥
योद्धुकामः सोभ्यधावन्नारदेन प्रचोदितः ॥ १४६ ॥
कृतं युद्धं तेन सार्द्धमस्माभिर्वर्षपञ्चकम् ॥
ततो दैत्यो मदोत्सिक्तो विष्णुमायाविमोहितः ॥ १४७ ॥
उवाच वचनं तुष्टो व्रियतांव्रियतामिति ॥ १४८ ॥
नेन्द्रेण च कुबेरेण मम तोषकरं कृतम् ॥
ससैन्येनापि तद्युद्धं त्वया तु जटिलेन हि ॥ १४९ ॥
कृतं विष्णुसहायेन पार्वत्यर्द्धाङ्गधारिणा ॥
तेनाहं तुष्टिमापन्नस्त्रैलोक्यपरमेश्वरः ॥ १५० ॥
अदेयं नास्ति मे किञ्चिद्याचयन्तु त्रयोपि च ॥
इत्याकर्ण्य वचस्तस्य शिवयोर्भ्रूप्रचोदितः ॥ १५१ ॥
हरिः प्राह महाधन्यो दैत्येन्द्र त्वं ममोक्तितः ॥
सत्यं त्रिवारं कुरुष्व तदा वाच्यो वरो मया ॥
शिवेनापि च पार्वत्या देव एवापरो न हि ॥ १५२ ॥
त्रिरुवाच तथा दैत्यस्तदा विष्णुर्व्यजिज्ञपत् ॥
यथा ते त्वरितो मृत्युः स उपायः प्रदर्श्यताम् ॥
विष्णोश्छलमिति ज्ञात्वा दैत्येन्द्रस्तमभाषत ॥ १५३ ॥
अवश्यमेव गन्तव्यं सर्वैः कालमुखे हरे ॥
तथापि स्वप्रतिज्ञार्थं यो गच्छति स जीवति ॥ १५४ ॥
परं त्वेको न मे वंशो येन मत्सेवनं कृतम् ॥
तस्य मार्गं दर्शयित्वा देहोयं विनिपात्यताम् ॥ १५५ ॥
काले तस्मिंश्च भो देवा वागुवाचाशरीरिणी ॥
देत्यन्द्रै कुरु मा शोकं भुवो जन्म तवाभवत् ॥ १५६ ॥
तत्रैव त्वं लयं याहि त्वत्तो पार्थं वरं शृणु ॥
ये वर्णाः स्वस्य भोगार्थं करिष्यन्ति नवं गृहम् ॥ १५७ ॥
तत्र त्वदुत्सवमृते नानादुःखैरुपद्रुताः ॥
कालकर्ण्यादिका दास्यो विनायकमुखाश्च ते ॥ १५८ ॥
सेवकाः पीडयिष्यन्ति चेत्याज्ञा पारमेश्वरी ॥
इत्याकर्ण्य वचस्सोपि गर्तं कृत्वा महाबिलम् ॥ १५९ ॥
प्रविवेश ततो देवैर्मृत्पाषाणैः प्रपूरितम् ॥
तेन ये निर्जिताः देवाः पुनरुद्गमशङ्कया ॥ १६० ॥
तस्योर्ध्वन्तु त्रिपञ्चाशन्निवासं चकुरुद्यताः ॥
तस्मादवश्यं ते पूज्या गृहवाससुखेच्छया ॥ १६१ ॥
शृण्वन्तु तद्विधिन्देवा वामदक्षिणमार्गतः ॥
पाषाणे प्रतिमायां वा कुर्याद्वास्तोष्पते तथा ॥ १६२ ॥
प्रतिजानीति मन्त्रेण तस्यावाहनपूजनम् ॥
नाममन्त्रेण चान्येषां पूजां कृत्वा प्रपूरयेत् ॥ १६३ ॥
नैर्-ऋत्यकोणे गेहस्य चतुरस्राकृतिं शुभाम् ॥
कृत्वा समतलां भूमिं वितस्त्युच्चां च वेदिकाम् ॥ १६४ ॥
विस्तारायामतो हस्त मात्रां तत्र लिखेद् बुधः ॥
एकाशीतिपदं चक्रं वैदिक्यस्तत्र देवताः ॥ १६५ ॥
मध्यकोष्ठेषु नवसु त्वादौ ब्रह्माणमर्चयेत् ॥
आपवत्सन्तदीशाने प्रागर्यम्णं त्रिकोष्ठके ॥ १६६ ॥
आग्नेये सवितारं च विवस्वन्तमपां त्रिषु ॥
इन्द्रं नैर्-ऋत्यदिग्भागे मित्रं पश्चिमगं त्रिषु ॥ १६७ ॥
वायव्ये राजयक्ष्माण सुमेरुं चोत्तरे त्रये ॥
वेदकोष्ठेषु चैशान्यामीशं कोणाच्च दवतोः ॥ १६८ ॥
शिखी पर्जन्य आपश्च दितिः प्रोक्ताष्टयोर्द्वयोः ॥
क्रमादेते पञ्च देवा ज्ञातव्याः सव्यमार्गतः ॥ १६९ ॥
जयन्तेन्द्रौ सूर्यसत्यवृषा आग्नेयकोणके ॥
अन्तरिक्षं तथा वातः पूषा सावित्र एव च ॥ १७० ॥
चतुष्क ईशतो देवास्ततो दक्षिणपञ्चके ॥
युग्मे क्रमाच्च वितथो गृहरक्षयमौ तथा ॥ १७१ ॥
गन्धर्वा भृङ्गराजश्च नैर्-ऋतीस्थं चतुष्कके ॥
ईशानीतो जयमृगौ पितृदौवारिकौ तथा ॥ १७२ ॥
ततः पश्चाद्द्विके पञ्च सुग्रीवः पुष्पदन्तकः ॥
वरुणासुरशेषाश्च वायव्ये ईशतस्त्वहिः ॥ १७३ ॥
रुद्रश्च पापयक्षाश्च रोगश्चोत्तरपञ्चसु ॥
मुख्यो भल्लाटसोमौ च भुजङ्गश्चादितिस्तथा ॥ १७४ ॥
देवा एते पञ्चचत्वारिंशदर्च्याश्च भक्तितः ॥
अथ तान्त्रिकमार्गे तु चतुष्षष्टिपदे तथा ॥ १७५ ॥
कोणयोः सूत्रयुगलं मध्ये ब्रह्माणमर्चयेत् ॥
चतुष्कोष्ठेषु तत्पूर्वात्तत्र कोष्ठे द्विकेद्विके ॥ १७६ ॥
आर्यकं च विवस्वन्तं मित्त्रमन्यं महीधरम् ॥
सावित्रः सविता शक्र इन्द्रजिद्रुद्रतज्जयौ ॥ १७७ ॥
आपवत्सुरकौ वेति शैव्याः कोणार्धकोष्ठयोः ॥
शर्वं गुहं चार्यमणं जम्भकं पिलिपिच्छकम् ॥ १७८ ॥
चरकीं च विदारीं च पूतनां पूर्वतो यजेत् ॥
ईशानश्चाथ पर्जन्यो जयन्तः शक्रभास्करौ ॥ १७९ ॥
सत्यो वृषोऽन्तकश्चैव पूर्वाशाकोष्ठगाः क्रमात् ॥
अग्निः पूषा च वितथो यमोथ गृहरक्षकः ॥ १८० ॥
गन्धर्वा भृङ्गराजश्च मृगा दक्षिणदिग्गताः ॥
निर्-ऋतिश्चाथ दौवारिकश्च सुग्रीवकस्तथा ॥ १८१ ॥
वरुणः पुष्पदन्तश्च सुरशेषाख्यरोगकाः ॥
पश्चादथोत्तरे वायुर्नागमुख्यास्ततः परम् ॥ १८२ ॥
सोमभल्लाटार्गलाख्या अदितिर्दितिरुत्तरे ॥
ब्रह्मस्थानं रक्तवर्णं दिशः पीतैर्विदिक्सितैः ॥ १८३ ॥
ततो दिशस्तु हरितैर्विदिशः कृष्णवर्णकैः ॥
अरुणः परिधिः कार्यः सुन्दरं मण्डलं भवेत् ॥ १८४ ॥
व्रीहिमुद्गयवैः क्षौद्रघृतदुग्धप्लुतैः क्रमात् ॥
अष्टोत्तरशतञ्चाष्टोत्तरविंशतिमेव च ॥ १८५ ॥
प्रत्येकं तैर्हुनेद्द्रव्यैरर्चयेच्च यथाविधि ॥
बलिं च तेषां कुर्वीत पायसैर्व्यञ्जनान्वितैः ॥ १८६ ॥
एवं सिंहगते भानौ पूर्णायां प्रतिवत्सरम् ॥
स्वगेहे वास्तुपूजां च मण्डपेषु समाचरेत् ॥
नाकालमरणं व्याधिर्भूतप्रेतादिभीर्न च ॥ १८७ ॥
न सर्पपीडा नान्योन्यकलहाद्यशुभानि च ॥
पुत्रपौत्रधनारोग्यपशुदासीसमृद्धिभाक् ॥
अरोगी विजयी ख्यातश्चिरञ्जीवति तद्गृहे ॥ १८८ ॥
राजवेश्मसु सर्वत्र तथा च महिषीगृहे ॥
सचिवामात्यसेनानीभवनेषु पुरे तथा ॥
विदध्यात्प्रतिवर्षं तु प्रोक्तसिद्ध्यै सुदेशिकः ॥ १८९ ॥
न चेदुक्तान्यथारूपं फलैः क्लेशश्च सम्भवेत् ॥
भैरवक्षेत्रपालानां योगिनीनां विशेषतः ॥ १९० ॥
वामाचारैर्बलिः कार्यो महिषैर्वापि कुक्कुटैः ॥
आराधितास्तु वामेन जायन्तेतिबुभुक्षिताः ॥ १९१ ॥
देवता बलिमिच्छन्ति तद्धीनं घ्नन्ति साधकम् ॥
मद्यमांसप्रमत्तास्ते प्राक्तनेन प्रचोदिताः ॥ १९२ ॥
कदाचिच्छुभमिच्छन्ति तस्मात्सद्भिर्न वामतः ॥
क्रियतेभ्यर्चनं तासां प्रातस्तु निकटे यतः ॥ १९३ ॥
शुभं भवति वा नो वा यथा शास्त्रे तथा जने ॥
यावन्न मद्यमांसाशी जनस्तावदलोलुपः ॥
भुङ्क्ते तस्मिंस्तन्मनाः स्यात्क जपः क्व च देवताः ॥ १९४ ॥
मद्यमांसादिकत्यागात्तस्य वातिनिषेवणात् ॥
दृश्यते तुल्यरूपो यः स सिद्धोऽन्यस्तु पातकी ॥ १९५ ॥
एवं परीक्ष्य कर्तव्या सिद्धानामपि सङ्गतिः ॥
अत्र किं बहुनोक्तेन सर्वनाशस्तु वामतः ॥ १९६ ॥
इति सञ्चिन्त्य भो देवाः स्वधर्मः श्रेयसे भवेत् ॥
वास्तु शान्तिं विधायैवं सदसज्ज्ञानहेतवे ॥ १९७ ॥
सप्तभिर्नवभिर्वापि दिनैर्दीक्षादिनात्पुरा ॥
बीजारोपणकर्मेदं कर्तव्यं सर्वकामदम् ॥ १९८ ॥
मण्डपोत्तरदिग्भागे सुसंवृत्तान्तरे परे ॥
भवने मण्डपं कुर्याद्दक्षः प्राग्वरुणायनम् ॥ १९९ ॥
याम्योदीच्यायतं वामदीक्षायां सम्प्रशस्यते ॥
गोमयेनोपलिप्तायां भूमौ दक्षेऽथ वामके ॥ २०० ॥
सतैलतण्डुलेनैव सतैलविजयाद्रवैः ॥
तत्र रेखाः पञ्चकरा दीर्घाः कार्याश्च पञ्च च ॥ २०१ ॥
वितस्त्यन्तरिता रुद्ररेखाः कार्यास्तथायताः ॥
चत्वारिंशत्कोष्ठकास्स्युश्चतुर्विंशतिकोष्ठकैः ॥ २०२ ॥
वाय्वङ्गैस्तत्र वीथी स्यात्पूरयेद्रक्तचूर्णकैः ॥
पश्चात्कोष्ठचतुष्कं यद्ब्रह्मस्थानं तदीरितम् ॥ २०३ ॥
आग्नेयकोष्ठमारभ्य ईशानान्तं प्रपूरयेत् ॥
पीतै रक्तैश्च कृष्णैश्च रजोभिस्सृष्टिमार्गतः ॥ २०४ ॥
कोष्ठद्वयं ततो वीथी रक्तेनैव प्रपूरयेत् ॥
विष्णुस्थानं तदग्रे तु ज्ञेयं कोष्ठचतुष्टयम् ॥ २०५ ॥
प्राग्वद्रजोभिरापूर्य तदग्रेपि च वीथिकाः ॥
कार्या डमरुकाकाराश्चतस्रो विष्णुदेवताः ॥ २०६ ॥
दूर्वाम्रपल्लवाश्वत्थदलोपेताश्च वेष्टिताः ॥
सूत्रेण विष्णुस्थानस्य चतुष्कोष्ठे निवेशयेत् ॥ २०७ ॥
वैरिञ्च्यः पञ्च मुख्यास्ताः काष्ठजाः षोडशाङ्गुलैः ॥
आयामोच्छ्रायदीर्घाख्यैर्युक्ताः पश्चान्निवेशयेत् ॥ २०८ ॥
ब्रह्मस्थाने पल्लवादिसूत्रैः प्राग्वच्च योजिताः ॥
शैवाः शरावाश्चत्वारो भान्वङ्गुलसमुच्छ्रयाः ॥ २०९ ॥
प्रक्षाल्य सूत्रैः संवेष्ट्य प्राग्वदग्न्यादिषु न्यसेत् ॥
शालिपुञ्जेषु गन्धादिदर्भकूर्चायनेषु च ॥ २१० ॥
पूरयेत्तानि पात्राणि वालुकामृत्करीषकैः ॥
शङ्खस्वनेन नादैश्च पञ्चभिर्ब्राह्मणाशिषा ॥ २११ ॥
ततः स्वर्णादिके पात्रे दश बीजानि वापयेत् ॥
वम्बीजं प्रजपेन्मन्त्री दुग्धेन क्षालयेत्पुनः ॥ २१२ ॥
तानि प्रियङ्गुश्यामाकतिलसर्षपशालयः ॥
मुद्गाढक्यस्तुनिष्पावा खल्वा माषाः प्रकीर्तिताः ॥ २१३ ॥
ब्रह्मपात्रे तु विकिरेत्प्रथमं वैष्णवे ततः ॥
ततः शैवे पञ्चवाद्यब्रह्मघोषपुरस्सरम् ॥ २१४ ॥
हरिद्राद्यैश्च संसिच्य वस्त्रैराच्छादयेत्ततः ॥
सन्ध्ययोरुयोश्चैव रात्रौ चापि बलिं हरेत् ॥ २१५ ॥
गुरूपदिष्टमार्गेण सम्यक्पात्रत्रयाग्रतः ॥
नवाहं तु बलिं दद्यात्तत्तद्युद्दिश्य दैवतम् ॥ २१६ ॥
शाल्योदनं तिला लाजाः सक्तवः प्रथमे दिने ॥
हरिद्राचूर्णसंयुक्तो भूतेभ्योयं बलिर्मतः ॥ २१७ ॥
एवं द्वितीयदिवसे पितृभ्यस्तिलमण्डलैः ॥
तृतीये सक्तवो लाजा यक्षेभ्यो दधिसंयुताः ॥ २१८ ॥
नागेभ्यः सक्तवस्तुर्ये नारिकेलजलप्लुताः ॥
दद्यात्पद्माक्षतबलिं पञ्चमे ब्रह्मणे मुदा ॥ २१९ ॥
षष्ठे शिवाय चापूपयुक्तं भक्तं प्रशस्यते ॥
तत्रौदनं सप्तमेह्नि विष्णवे विनिवेदयेत् ॥ २२० ॥
ब्रह्मस्थाने तु वेतालो मेषस्तस्य बलिः सुराः ॥
विष्णुस्थाने भैरवी स्यादजस्तस्या बलिर्मतः ॥ २२१ ॥
भैरवस्तु शिवस्थाने महिषं बलिमिच्छति ॥
गौडी माध्वी च पैष्टी च सुरास्तत्र क्रमान्मताः ॥ २२२ ॥
मत्स्यमांसं मद्ययुक्तं भूतेभ्यो बलिरिष्यते ॥
पितृभ्यः शशमांसं च यक्षेभ्यः कुक्कुटं मधु ॥ २२३ ॥
भेकोन्दुरबलिर्नागान्वाममार्गबलिस्त्वयम् ॥
एवं गतेषु नवसु दिनेषु च विलोकयेत् ॥ २२४ ॥
सम्यक् तस्योद्गमो जातः किं नष्टं मध्यमं च किम् ॥
सम्यगभ्युद्गमे सिद्धिः कुण्ठिते विघ्नमाप्नुयात् ॥ २२५ ॥
कीटभुक्तेनास्य फलं स्फुटिते सर्वनाशनम् ॥
सिद्धिः प्रियङ्गुभिर्ज्ञेया श्यामाकैःस्त्रीसुखं भवेत् ॥ २२६ ॥
तिलैः पूज्यजनोल्लासः सर्षपैर्नाभिचारके ॥
शालिभिः सर्वसम्मानो मुद्गैर्देवकृपा भवेत् ॥ २२७ ॥
चतुष्पादास्तथाढक्यां निष्पावैः क्षेत्रमन्दिरे ॥
खल्वैः सत्कर्मसिद्धिः स्यान्माषैः शान्ती रणे भवेत् ॥ २२८ ॥
सर्वैस्समुद्गतैर्वामे सिद्धिः पातस्ततोन्यथा ॥
चैत्राद्दीक्षाफलं दुःखं प्रतिष्ठारत्नसिद्धये ॥ २२९ ॥
हीनता मरणं बन्धुनाशो दुःखं ततः क्रमात् ॥
आनन्दो वृद्धिदुःखेथाक्षेपा निन्दा इति क्रमात् ॥ २३० ॥
दारिद्र्यं सर्वज्ञानं च शुभोत्कृष्टत्वसौख्यता ॥
ज्ञानं मेधाविनाशश्च स्वर्णाप्तिर्ज्ञानवर्द्धनम् ॥ २३१ ॥
समृद्धिसिद्धिः श्रेष्ठत्वं मलमासक्षयं त्यजेत् ॥
मनस्तापः श्रियः सौख्यं सौख्यं मन्त्रस्य सिद्धयः ॥ २३२ ॥
क्षुद्रदैवतसंसिद्धिः शीघ्रं सिद्धिः शुभा मतिः ॥
देवमैत्री सर्वहानिः कलहश्च महाभयम् ॥ २३३ ॥
सम्पद्रोगो जपात्सिद्धिः सन्तापस्ताप ईशिता ॥
सर्वसिद्धिः फलं भानां क्रमाद्दक्षे थ वामके ॥ २३४ ॥
तिथेः फलं बुद्धिनाशः क्रमाज्ज्ञेयाः सुसिद्धयः ॥
अगौरीमान्त्रिका भ्रष्टा विगणेशाश्च दुःखिताः ॥ २३५ ॥
सिद्ध्यन्ति मन्त्राः सर्वेपि न सिद्ध्यन्ति कदाचन ॥
समृद्धिर्दुःखसिद्धिश्च मूर्खता गुरुनाशनम् ॥ २३६ ॥
जडतारिष्टनाशश्च सर्वं पूर्णं भवेत्फलम् ॥
शुक्ला श्रेष्ठा नैव कृष्णा शुभ्रा शुभतरा हरेः ॥ २३७ ॥
सिद्धिः स्यात्सर्वमन्त्राणां प्रोक्तं चैव महाभयम् ॥
सिद्धिर्धातुर्विशेषेण पुत्रहानिः पितॄनृते ॥ २३८ ॥
क्रमाद्वारफलं बुद्धिर्जडता मरणं तथा ॥
नियोगहीनता पुत्रा धनाप्तिर्मृत्युरीरिता ॥ २३९ ॥
विष्कुम्भादिकयोगानां नामतुल्यं फलं भवेत् ॥
आनन्दादिकयोगानां सर्वत्राविकलं फलम् ॥ २४० ॥
विष्टिं विहाय करणे चरेत्सिद्धिर्द्रुतं भवेत् ॥
सर्वसिद्धिर्विष्टिपुच्छे स्थिरे तु स्थिरता भवेत् ॥ २४१ ॥
अथ लग्नफलं देवा धनं धान्यं समृद्धयः ॥
राज्यं वा देवतासिद्धिर्हानिर्मेधाविनाशनम् ॥ २४२ ॥
रत्नादिलक्ष्मीलाभश्च धनं धान्यं च सिद्धयः ॥
पूर्णसिद्धिः प्रतापश्च हानिर्विज्ञाननाशनम् ॥ २४३ ॥
पूर्वप्राप्तिर्मन्त्रसिद्धिः पशवो विपुलं धनम् ॥
सदा दुःखं तथा हानिर्वामिनां मिथुनं शुभम् ॥ २४४ ॥
वामिनां यवनानां च विरुद्धं बहुधा शुभम् ॥
त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ॥ २४५ ॥
रन्ध्रे मृत्युप्रदाः सर्वे व्यये खेटे रिपौ च रुक् ॥
मन्त्रश्चन्द्रबले ग्राह्योऽन्यथा स्यादघसम्भवः ॥ २४६ ॥
ताराबलानुरूपेण देवतायाः कृपा भवेत् ॥
धर्मदो राज्यदः सिद्धिप्रदो मध्योस्ति नाशकृत् ॥ २४७ ॥
प्रातःसङ्गवमध्याह्नापराह्णं सायमेव च ॥
चन्द्रग्रहे तु दारिद्र्यं सौरे सर्वसमृद्धयः ॥ २४८ ॥
गुरावशुभदृष्टे च सिद्धक्षेत्रे सुशोभने ॥
आगच्छति गुरुर्दैवाद्यदा दीक्षा तदा भवेत् ॥
दीक्षादिनात्पूर्वदिने प्रातःकृत्यं निवर्त्य च ॥ २४९ ॥
समलङ्कृत्य देहं स्वं स्वगृहे पूजनं चरेत् ॥
गणेशस्य विधानेन पुण्याहं वाचयेत्ततः ॥ २५० ॥
नान्दीमुखांस्तर्पयित्वा पञ्चवाद्यपुरःसरम् ॥
यथोक्तकृतसम्भारो गच्छेद् गुरुगृहं प्रति ॥
आचार्य-ऋत्विग्वरणसम्भारो दशधा मतः ॥ २५१ ॥
श्रीपर्णीवृक्षपीठानि हस्तमानानि मानतः ॥
अष्टाङ्गुलसमुच्छ्रायसहितानि समानि च ॥ २५२ ॥
सप्तविंशतिदर्भाणां वेण्यग्रे ग्रन्थिभूषिताः ॥
विष्टराः सर्वयज्ञेषु लक्षणं परिकीर्तितम् ॥ २५३ ॥
सुखोष्णोदकसम्भूताः पाद्यार्थे ताम्रगण्डकाः ॥
शङ्खा अर्घ्यप्रदानाय गन्धपुष्पजलान्विताः ॥
सुताम्रस्य कमण्डल्व आचा मोदकपूरिताः ॥ २५४ ॥
ते द्विधा मधुपर्कार्थं कांस्या दध्यादिपूरिताः ॥
महदर्घ्याणि वस्त्राणि मुद्रिकाद्यं सुभूषणम् ॥
मधूकपत्रच्छत्राणि सोष्णीषाणि समाचरेत् ॥ २५५ ॥
पादुकाश्चाहरेत्तत्र वर्माभरणभूषिताः ॥
कृत्वैतत्फलमाप्नोति महायज्ञार्हणोपमम् ॥ २५६ ॥
अन्येभ्यो मधुपर्केण विप्रेभ्यः पूजनं स्मृतम् ॥
भक्त्या तद्द्विगुणं दद्यादाचार्याय सुभक्तिमान् ॥ २५७ ॥
अन्यैर्द्विजैः समं यत्र देशिकस्य प्रपूजनम् ॥
तस्मिन्यज्ञफलं स्वल्पमनावृष्टौ यथा क्षितेः ॥ २५८ ॥
एवं गुरुगृहं गत्वा प्रणम्य गुरुपादुके ॥
दत्त्वा वरणसामग्रीं सङ्कल्प्य वृणुयाद्गुरुम् ॥ २५९ ॥
उच्चार्यमुक्तमन्त्रस्य ग्रहणाय द्विजोत्तम ॥
गुरुत्वे नेति सम्भाष्य त्वामहं च ततो वृणे ॥ २६० ॥
इत्युक्त्वा वृणुयाच्छिष्यो वृतोस्मीति ततो गुरुः ॥
यथोचितं गुरो कर्म कुरुष्वेति वदेच्छिशुः ॥ २६१ ॥
करवाणीति चाचार्यो गुरोरेवाज्ञया ततः ॥
ब्राह्मणान्वृणुयादष्टौ वेदवेदाङ्गपारगान् ॥ २६२ ॥
तद्देवतोपासकांश्च ऋत्विक्त्वेनाथवा यदा ॥
चत्वारि कुण्डानि तदा चत्वार ऋत्विजो मताः ॥ २६३ ॥
ततः शिष्येण सहितो यायाद्यागगृहं गुरुः ॥
उपविश्य च तद्द्वारे परीक्षामारभेत्ततः ॥ २६४ ॥
शिष्याय मूलसञ्जप्तं प्रदद्याद्दन्तधावनम् ॥
दन्तान्विशोध्य पुरतः स्थण्डिले हस्तमात्रके ॥ २६५ ॥
चतस्रोभ्यानयेत्तनु परीक्षेत ततो गुरुः ॥
तदग्रं यद्दिशासंस्थं तत्रेदं पूर्वतः फलम् ॥ २६६ ॥
भूतिर्हृदयसन्तापो बन्धुनाशस्तथा मतिः ॥
शोकश्च व्यग्रता सौख्यं ज्ञानलाभः क्रमात्फलम् ॥ २६७ ॥
अमङ्गलस्थानयानप्रायश्चित्तं समाचरेत् ॥
अष्टाधिकं सहस्रं वा शतं विंशतिरेव वा ॥ २६८ ॥
अस्त्रसम्पुटितेनैषां नाम्ना स्वाहान्वितेन च ॥
दोषाञ्जहिजहीत्येवं पदं चैव नमोऽन्तकम् ॥ २६९ ॥
केवलाज्येन जुहुयाद्दुःस्वप्ने चैवमेव हि ॥
दन्तकाष्ठं पुनर्देयं पुनर्दुष्टं च चेत्फलम् ॥ २७० ॥
तृतीयमपि दुष्टं चेन्न ग्राह्या सा तु देवता ॥
वाममार्गे सकृदपि गुरुं शिष्यो विनाशयेत् ॥ २७१ ॥
ततः स्वप्नपरीक्षां च कुर्यात्तद्विधिरुच्यते ॥
वैदिकानां दक्षिणानां वैष्णवानां च वामिनाम् ॥ २७२ ॥
यज्जाग्रतो दूरमुदैति दैवमावृत्य मन्त्रान्प्रयतस्त्रिदेवान् ॥
हविष्यभुग्दक्षिणपार्श्वशायी स्वप्नं परीक्षेत यथोपदेशम् ॥ २७३ ॥
भगवन्देवदेवेश शूलभृद् वृषवाहन ॥
इष्टानिष्टे समाचक्ष्व स्वप्ने सुप्तस्य यत्फलम् ॥ २७४ ॥
एवं सुप्ते कुशाकीर्णे चैकभुग्यतमानसः ॥
निशान्ते पश्यति स्वप्नं शुभं वा यदि वाशुभम् ॥ २७५ ॥
ॐ 1 हृत् सकललोकाय विष्णवे प्रभविष्णवे ॥
विश्वेशविश्वरूपाय स्वप्नाधिपतये नमः ॥ २७६ ॥
स्वप्नमानय मन्त्रोयमुपवासी जितेन्द्रियः ॥
दर्भशय्यागतो रात्रौ स्वप्नं पश्येद्यथा तथा ॥ २७७ ॥
भुक्त्वा शयीत शयने सुशुद्धे वसुधातले ॥
अर्धरात्रे समुत्थाय पादशौचं विधाय च ॥ २७८ ॥
आचम्य देवं सम्पूज्य तं संस्मृत्य स्वपञ्चके 2 ॥
शिवदैवतयोरैक्यं भावयेत्तु जपेदिदम् ॥ २७९ ॥
नमोऽजाय त्रिनेत्राय पिङ्गलाय महात्मने ॥
वामाय विश्वरूपाय स्वप्नाधिपतये नमः ॥ २८० ॥
स्वप्ने कथय मे नित्यं सर्वकार्यमशेषतः ॥
क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ॥ २८१ ॥
दीक्षितो दीक्षितानां च यथास्वप्ने पर्जायते ॥
शृण्वन्तु देवा भोः सर्वे सावधानास्तु तद्विधिम् ॥ २८२ ॥
पार्थिवेश्वरपूजान्ते रविवर्णं जपेन्मनुम् ॥
जुहुयात्तद्दशांशेन बिल्वपत्रैर्घृतप्लुतैः ॥ २८३ ॥
तर्पणं मार्जनं कृत्वा कुर्याद्ब्राह्मणभोजनम् ॥
सिद्धस्तस्य भवेन्मन्त्रः स्वप्ने वक्ति हृदि स्थितम् ॥ २८४ ॥
तारो हलिद्वयं शूलपाणये द्विठ ईरितः ॥
स्वप्नमानय मन्त्रोयं द्वादशाक्षर ईरितः ॥ २८५ ॥
स्वप्ने तु प्रथमे यामे वत्सरे तत्फलं भवेत् ॥
षड्भिर्मासैर्द्वियामे तु त्रिभिर्मासैस्त्रियामके ॥ २८६ ॥
चतुर्थे मासमात्रेण प्रातःकाले तु सत्वरम् ॥
स्वप्ने निद्रा फलघ्नी स्यात्स्वप्नो वाच्यो न चान्यथा ॥ २८७ ॥
चिन्ता हृद्गा तदीयं यत्तत्फलं नैव विद्यते ॥
वाताधिक्याद्भवेत् स्वप्नस्सहसोड्डानपूर्वकः ॥ २८८ ॥
पित्तात्तेजोग्निपीतादि रक्तं क्रोधादिकं तथा ॥
श्लेष्मणः श्वेतशीतादि शयनाद्यं बलासनम् ॥ २८९ ॥
वातैः प्रातस्त्वङ्गमर्दः पित्तैर्दाहस्तु नेत्रयोः ॥
कफात्प्रवेपते नित्यं हृद्द्वे द्वन्द्वे त्रयं त्रिषु ॥ २९० ॥
सिद्धं वा स्वगुरुं देवं प्रसन्नां च कुमारिकाम् ॥
गङ्गां भागीरथीं भानुं लिङ्गिनं लिङ्गमैश्वरम् ॥ २९१ ॥
बालं छत्रं रथं दीपं प्रासादं कमलं नदीम् ॥
कुञ्जरं वृषभं माल्यं समुद्रं फलितद्रुमम् ॥ २९२ ॥
पर्वतं प्रज्वलद्वह्निमाममांसं सुरासवम् ॥
ग्रहान् भानि विधुं सूर्यं रत्नान्याभरणानि च ॥ २९३ ॥
सिंहासनं विमानं च ध्वजं वाद्याभिषेचनम् ॥
श्वेतचन्दनवस्त्राणि शालयः कुङ्कुमं मधु ॥ २९४ ॥
राजा सिद्धार्थकं नार्यो नवभाण्डं च पायसम् ॥
अश्वं फलानि सिद्धान्नं दधि बालं विलासिनम् ॥ २९५ ॥
दुग्धं वाद्यानि चाषं च मयूरं नकुलं मृगम् ॥
बद्धमेकपरं पुष्पं सद्वाक्यं चक्षुरञ्जनम् ॥ २९६ ॥
पूर्णकुम्भं दर्पणं च मीनं मद्यं च भोजनम् ॥
शवं रोदनहीनं च पुण्ड्राणि च पताकिका ॥ २९७ ॥
भारद्वाजनृपाणां च वेदशब्दं च गायनम् ॥
कशां माङ्गल्यगीतानि चाङ्कुशं युद्धदं प्रियम् ॥ २९८ ॥
स्वप्ने दृष्ट्वा तु चैतानि साधकः सिद्धिमाप्नुयात् ॥
व्याध्याद्यार्ते नास्ति दुःखं सामान्यः सुखमाप्नुयात् ॥ २९९ ॥
यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ॥
कामयन्तीं नदीं सिन्धुं द्विजं श्वेताम्बरं तथा ॥ ३०० ॥
भास्करोदयनं चैव ग्रहणं चन्द्रसूर्ययोः ॥
हर्म्यप्रासादनागाश्ववृषशैलाग्निरोहणम् ॥ ३०१ ॥
भोजनं दधिभक्तस्य पक्वमांसस्य भक्षणम् ॥
कृमिविष्ठानुलेपश्च रुधिरेणाभिषेचनम् ॥ ३०२ ॥
ताम्बूलभक्षणं मद्यपानं दध्यभिवन्दनम् ॥
प्रचन्द्रकिरणं स्वप्ने कार्यसिद्धेः सुलक्षणम् ॥ ३०३ ॥
कृष्णाम्बरधरा नारी कृष्णगन्धानुलेपना ॥
उपगूहति यं स्वप्ने सा रात्रिस्तस्य पश्चिमा ॥ ३०४ ॥
एवन्तु रक्तया व्याधिः शोकोऽरुणसमानया ॥
नीलया कलहो हत्या पीतया करदो भवेत् ॥ ३०५ ॥
श्वेताम्बरधरा नारी श्वेतमाल्यानुलेपना ॥
उपगूहति यं स्वप्ने तस्य श्रीः सर्वतोमुखी ॥ ३०६ ॥
अशने शयने पाने शरीरे वाहने गृहे ॥
ज्वलमाने विबुध्येत तस्य श्रीः सर्वतोमुखी ॥ ३०७ ॥
सितोरगस्य दंशश्चेज्जायते दक्षिणे करे ॥
दशाहात्स भवेद्भोगी रोगी रोगाद्विमुच्यते ॥ ३०८ ॥
निगडैर्बहुपाशैश्च बध्यते वा युतो भवेत् ॥
प्रतिष्ठा वर्धते तस्य दुग्धपानधनात्ययः ॥ ३०९ ॥
सुरां रक्तम्पिबन्विद्यां लभेद्विप्रो धनं परम् ॥
दध्नि दृष्टे भवेत्प्रीतिर्गोधूमैश्च धनागमः ॥ ३१० ॥
सिद्ध्या विद्यागमं विद्याल्लाभः सिद्धार्थकैस्तथा ॥
दधिलाभो ददेदर्थान्घृतलाभाद् ध्रुवञ्जयः ॥ ३११ ॥
घृताशनाद्धनक्लेशो जयस्तु दधिभक्षणात् ॥
लिङ्गानामर्चनन्दृष्ट्वा व्यवहारोत्र जायते ॥ ३१२ ॥
यस्तु मध्ये तडागादेर्भुञ्जीत घृतपायसम् ॥
निष्कम्पे पुष्करे पत्रे तं विद्यात्पृथिवीपतिम् ॥ ३१३ ॥
देवता लिङ्गिनो गावः पितरो ब्राह्मणो नृपः ॥
यद्वदन्ति नरं स्वप्ने तत्तथैव भविष्यति ॥ ३१४ ॥
अन्नैः संवेष्टयेद्यस्तु ग्रामं वा नगरन्तथा ॥
ग्रामे मण्डलराज्यं स्यान्नगरे पार्थिवो भवेत् ॥ ३१५ ॥
चन्द्रतारार्कग्रहणं परिमार्गणमेव च ॥
भूम्यम्बुधीनां ग्रसनं शत्रूणां वा वधक्रिया ॥ ३१६ ॥
जयो विवादे द्यूते च शत्रूणाञ्च तथा जयः ॥
वडवामहिषीसिंहीगोहस्तिन्यादिदोहनम् ॥ ३१७ ॥
प्रसादो गुरुविप्रेषु देवसिद्धादिकाच्छुभम् ॥
स्नानं राज्याभिषेकश्च स्वशिरश्छेदनं मृतिः ॥ ३१८ ॥
तीर्थोदकानान्तरणन्तथा विषमलङ्घनम् ॥
गोहस्तिवडवासूतिर्वह्निलाभस्तथैव च 3 ॥
परस्त्र्यालिङ्गनं तस्या लाभो रोदनमेव च ॥ ३१९ ॥
विष्ठालेपः कुन्दजातीबकुलानाञ्च दर्शनम् ॥
रणद्यूतविमर्देषु जयो निगडबन्धनम् ॥ ३२० ॥
पशुमर्त्यमृगाणाञ्च लब्धिरध्यासनन्तथा ॥
शिखिलाभः 4 श्वेतवस्त्रं पुष्पचन्दनधारणम् ॥ ३२१ ॥
मणितारसुवर्णादिपात्रे 5 भोजनकन्तथा ॥
पश्येत्तदा साधकस्य ज्ञेया सिद्धिरितस्ततः ॥ ३२२ ॥
कार्यार्त्तानां कार्यसिद्धिरितरेषां धनागमः ॥
वन्ध्याचर्मतुषाग्न्यादिलवणाङ्गारमिन्धनम् ॥ ३२३ ॥
विट्क्लीबोन्मत्ततैलादिजटिलादिवसौषधम् ॥
रोगी नृणान्तु सन्न्यासी नग्नस्त्यक्तः क्षुधातुरः ॥ ३२४ ॥
विमुक्तकेशः पतितोभ्यङ्गासृक्शरविक्षतः ॥
मार्जारयुद्धां कार्पासो गर्भिणी च रजस्वला ॥ ३२५ ॥
गुडस्तक्रञ्च काषायी पङ्क एरण्डका गृहे ॥
वज्रादिकस्य स्खलनं सुरा पशुमलन्तथा ॥
अन्धः कुब्जो दुर्वचनो बधिरः खञ्जकुब्जकौ ॥ ३२६ ॥
वमनं च घटो रिक्तो रजको मलिनाम्बरः ॥
एतैर्दृष्टैर्न कार्यं स्याद्रोगी मृत्युमवाप्नुयात् ॥ ३२७ ॥
अशोकं करवीरञ्च पलाशञ्चापि पुष्पितम् ॥
स्वप्नेपि सलिलन्दृष्ट्वा नरः शोकमवाप्नुयात् ॥ ३२८ ॥
रूपान्तरे प्रवेशश्च दक्षिणाशागतिस्तथा ॥
पङ्के निमज्जनं स्नानं पुत्रभार्याविनाशनम् ॥ ३२९ ॥
गोहस्तिद्विजविप्रादौ दृष्टे कृष्णे च शोभनम् ॥
रक्तगन्धाम्बरः स्रग्वी कृष्णो वा दक्षिणामुखः ॥ ३३० ॥
खरोष्ट्रमहिषारूढस्त्रिमासं न स जीवति ॥
स्वप्ने वापि मठे गेहे द्वारं यस्य पिधीयते ॥ ३३१ ॥
न चोत्तिष्ठति यत्तस्य मासान्तं किल जीवितम् ॥
वान्तिमूत्रपुरीषञ्च सन्तानजननं च्युतिः ॥
शुक्रस्य यस्य च स्वप्ने तस्यायुर्दशमासकम् ॥ ३३२ ॥
बाध्यते विकृतैः कृष्णैः पुरुषैरुद्यतायुधैः ॥
पाषाणैस्ताड्यते वापि तस्य मृत्युर्न संशयः ॥ ३३३ ॥
महिषोष्ट्रखरारूढस्तैलाभ्यक्तश्च मुण्डितः ॥
दक्षिणाशाम्प्रस्थितो यस्तस्य मृत्युर्न संशयः ॥ ३३४ ॥
पश्येत्प्रासादपतनं ग्रहस्य शशिसूर्ययोः ॥
पर्वतानाञ्च वृक्षाणामधिकाराच्च्युतिर्भवेत् ॥ ३३५ ॥
हानिश्चैव स्वगात्राणां व्याधितोभिभवस्तथा ॥
गृहसम्मार्जनं लेपो गोमयेन मृदापि वा ॥ ३३६ ॥
तीर्वा नदीं समायातस्तीरेऽन्यद्वसनन्धृतम् ॥
रोगी रोगाद्विमुच्येत हानिः स्वस्थस्य जायते ॥ ३३७ ॥
पुन्नामानो मृगगणाः पोतकी 6 सूकरी तथा ॥
पिङ्गला 7 छुच्छुका 8 पल्ली वामाङ्गे कोकिलाः शिवाः ॥ ३३८ ॥
स्त्रीनामानो मृगगणाः श्रीकण्ठो 9 वानरो रुरुः 10 ॥
छिकरः प्रियको 11 भासो दक्षे काकर्क्षकुक्कुराः ॥ ३३९ ॥
दृष्टाश्चेद्रोगिणो रोगनाशः साधकसिद्धये ॥
स्वस्थस्य धनलाभादि बहुव्यापारशोभनम् ॥ ३४० ॥
त्रिरात्रोपोषितो भूत्वा हविष्याशी पुरोहितः ॥
सक्षीराणां घृताक्तानां समिधां चां शतं हुनेत् ॥ ३४१ ॥
पालाशानान्तु गायत्र्या शूद्रः स्नात्वा हविष्यभुक् ॥
दीपन्दद्याद्विप्रगेहे विष्णोर्गेहे शिवालये ॥ ३४२ ॥
एवन्दृष्ट्वा शुभं स्वप्नं गृह्णीयान्मनुमन्यथा ॥
गृहीते हानिरेव स्याच्चान्यदेवं विचिन्तयेत् ॥ ३४३ ॥
एवं विचार्य सततं गुरुपूजां समारभेत् ॥
विधायाचमनन्तत्र सामान्यार्घ्यं विधाय च ॥ ३४४ ॥
अर्घ्योदकेन सम्प्रोक्ष्य द्वारपूजां समाचरेत् ॥
ततश्च देशिको विघ्नान्दिव्यानास्फोटनेन च ॥ ३४५ ॥
अन्तरिक्षगतानन्तर्मन्त्रैरुत्सारयेत्क्रमात् ॥
पार्थिवान्पार्ष्णिघातैश्च त्रिभिरुत्सारयेत्ततः ॥ ३४६ ॥
अङ्गं सङ्कोच्य किञ्चित्तु शाखां वामगतां स्पृशेत् ॥
उत्सारयेत् विघ्नानां ददन्मार्गं तु दक्षिणे ॥ ३४७ ॥
पादेन दक्षिणेनाथ प्रविशेद्योगमण्डपम् ॥
वाममार्गेऽथवा शाक्ते वामपादपुरःसरम् ॥ ३४८ ॥
ब्रह्माणं वास्त्वधीशञ्च नैर्-ऋत्यां दिशि पूजयेत् ॥
अर्घ्याबुना च गव्येन यागस्थाने सुसेचयेत् ॥ ३४९ ॥
वीक्षणाद्यैस्ततः शुद्धिं चतुर्धा वा समाचरेत् ॥
संवीक्ष्य मूलमनुना त्वस्त्रेण प्रोक्षयेत्ततः ॥ ३५० ॥
कुर्यात्ताडनमस्त्रेण कवचेनावसेचयेत् ॥
श्रीखण्डागुरुमन्त्रैश्च धूपितेस्त्रेण सप्तधा ॥ ३५१ ॥
जयाचन्दनसिद्धार्थदूर्वाभस्माक्षतान्कुशान् ॥
सलाजान्विकिरेन्मन्त्री प्रत्यूहघ्नान्हि मण्डपे ॥ ३५२ ॥
मार्जयेदस्त्रमन्त्रेण तान्मन्त्रो दर्भमुष्टिना ॥
आसनाय तु वर्धन्या ईशाने स्थापयेच्च तान् ॥ ३५३ ॥
पुण्याहं वाचयित्वाथ विप्रान्सन्तोष्य यत्नतः ॥
वेदिकायां लिखेत्पश्चात्सर्वतोभद्रमण्डलम् ॥ ३५४ ॥
शृणु तस्य विधिं श्रौते स्मार्ते यद्भद्रमिष्यते ॥
धृतिवर्गसमाः कार्याः कोष्ठकाश्चतुरस्रकाः ॥ ३५५ ॥
खण्डेन्दुस्त्रिपदैः कोणे श्वेतवर्णेन पूरयेत् ॥
कोणस्थैः पञ्चभिः कोष्ठैः शृङ्खला कृष्णवर्णिका ॥ ३५६ ॥
शृङ्खलोभयतो नीला वल्ली शङ्करकोष्ठका ॥
शृङ्खलोभयतो भद्रमरुणं नवभिः पदैः ॥ ३५७ ॥
वापी जिनपदा श्वेता पीतान्तःपरिधिर्भवेत् ॥
मध्ये षोडशपद्मं तु रुचिरं वेष्टयेद्बहिः ॥ ३५८ ॥
श्वेतारुणासितैरेवं सर्वतोभद्रमण्डलम् ॥
अथान्यत्सम्प्रवक्ष्यामि कुर्यात्तान्त्रिककर्मणि ॥ ३५९ ॥
नृपवर्गसमाः कार्याः कोष्ठकाश्चतुरस्रकाः ॥
मध्ये षड्वर्गकोष्ठानि मार्जयेत्तत्र संलिखेत् ॥ ३६० ॥
आयामद्वादशांशं च बहिस्त्यक्त्वाथ मध्यतः ॥
ततो वृत्तत्रयं मध्ये समं कुर्याद्यथाविधि ॥ ३६१ ॥
कर्णिकामध्यवृत्तेन द्वितीयेन तु केशरान् ।
अन्तवृत्तेन पत्राणि पत्राग्रं त्यक्तभागतः ॥ ३६२ ॥
किञ्जल्काग्रेषु संस्थाप्य पार्श्वतस्त्वर्धचन्द्रकान् ॥
तदग्रे तु त्रिभिः कोष्ठैः पादान्कोणेषु विन्यसेत् ॥ ३६३ ॥
शेषाणि पीतगात्राणि परतः पङ्क्तियुग्मकम् ॥
वीथी कुर्यान्मार्जयिता चतुर्दिक्षु च मध्यतः ॥ ३६४ ॥
सर्वतोभद्रचक्रम्
त।
त।
मु।
म।
म।
म।
म।
म।
त।
त।
म।
म।
म।
म।
म।
मु।
त।
त।
त।
ति मु।
मु।
म।
म।
म।
त।
त।
त।
त।
म।
म।
म।
मु।
मु।
त।
त।
मु।
मु।
ति।
म।
मु।
म।
त।
त।
त।
त।
त।
त।
म।
मु।
मु।
ति।
मु।
मु।
म।
मु।
मु।
ति।
मु।
मु।
त।
त।
त।
त।
त।
त।
मु।
मु।
ति।
मु।
मु।
म।
म।
म।
मु।
मु।
ति।
मु।
मु।
त।
त।
त।
त।
मु।
मु।
ति।
मु।
मु।
म।
म।
म।
म।
म।
मु।
म।
ति।
मु।
मु।
त।
त।
मु।
मु।
ति।
मु।
मु।
म।
म।
म।
म।
म।
त।
त।
मु।
मु।
च।
च।
च।
च।
च।
च।
मु।
मु।
त।
त।
म।
म।
म।
त।
त।
त।
त।
मु।
च।
त।
त।
त।
त।
च।
मु।
त, त, त।
त।
म।
त।
त।
त।
त।
त।
त।
च।
त।
त।
त।
त।
च।
त।
त।
त।
त त।
त।
त।
त।
त।
त।
त।
त।
च।
त।
त।
त।
त।
च।
त।
त।
त।
च।
त।
त।
म।
त।
त।
त।
त।
मु।
च।
त।
त।
त।
त।
च।
मु।
त।
त।
च।
त।
म।
म।
म।
त।
त।
मु।
मु।
च।
च।
च।
च।
च।
च।
मु।
मु।
त।
ति।
म।
म।
म।
म।
म।
मु।
मु।
ति।
मु।
मु।
त।
त।
मु।
मु।
ति।
मु।
मु।
म।
म।
म।
म।
म।
मु।
मु।
ति।
मु।
मु।
त।
त।
त।
त।
मु।
मु।
ति।
मु।
मु।
म।
म।
म।
मु।
मु।
ति।
मु।
मु।
त।
त।
त।
त।
त।
त।
मु।
मु।
ति।
मु।
मु।
म।
मु।
मु।
ति।
मु।
मु।
म।
त।
त।
त।
त।
त।
त।
म।
मु।
मु।
ति।
मु।
मु।
त।
ति।
ह।
ह।
र।
र।
र।
त।
त।
त।
त।
म।
म।
मु।
म।
मु।
ति।
त।
त।
त।
मु।
म।
म।
म।
म।
म।
त।
त।
म।
म।
म।
म।
म।
मु।
त।
त।
क्रमादाभ्यां चतुर्भिश्च कोष्ठैर्द्वारचतुष्टयम् ॥
कोष्ठत्रयेण चैकेन प्रत्येकं द्वारपार्श्वयोः ॥ ३६५ ॥
शोभा भवन्त्वतः कोष्ठैरेकतस्त्रिभिरेव च ॥
उपशोभास्ततः कोष्ठैः षड्भिः कोशानि कल्पयेत् ॥ ३६६ ॥
शुक्लं तण्डुलचूर्णं स्यादुत्सेधायामतस्तथा ॥
अङ्गुलेन समाः कार्याः सीमरेखा दलानि च ॥ ३६७ ॥
पीठगात्राणि च द्वारे चतुष्कं तेन पूजयेत् ॥
अविप्रैः पूरणीयानि रक्तेनैव दलान्यपि ॥ ३६८ ॥
कुसुम्भचूर्णमारक्तं पूरणीयास्तु तेन तु ॥
द्वारशोभाः पीतपादाः सर्ववर्णैर्विनिश्चयात् ॥ ३६९ ॥
पीतं हरिद्राचूर्णं स्यात्पीठगर्भे च कर्णिका ॥
उपशोभाश्च विप्रेण पीतगर्भाश्च कृष्णतः ॥ ३७० ॥
बिल्वपत्रस्य चूर्णोत्थो हरितस्तेन पूरयेत् ॥
पत्रमूलफलाकारामण्डिता हृदयङ्गमाः ॥ ३७१ ॥
वीथी चतुष्कमध्ये तु कल्पवल्लीः प्रपूरयेत् ॥
सन्धींश्च कल्पवल्लीश्च पीतरक्तेन केशरान् ॥ ३७२ ॥
नानावर्णरजोभिस्तान्पूरयेत्कुशलो गुरुः ॥
कृष्णवर्णेन कोणानि बही रेखात्रयं ततः ॥ ३७३ ॥
शुक्लारुणाख्यकृष्णैस्तु रजोभिर्भूषयेत्क्रमात् ॥
सर्वतन्त्रेष्विदं प्रोक्तं सर्वतोभद्रमण्डलम् ॥ ३७४ ॥
वक्ष्येथ देवयोनीनां सर्वतोभद्रमण्डलम् ॥
मार्गेथ दक्षिणे तत्र कोष्ठकारविवर्गकाः ॥ ३७५ ॥
प्राग्वदेव तु तन्मध्ये पद्मं षड्भिः पदैः शुभम् ॥
एक पङ्क्त्या भवेत्पीठं द्वारशोभास्तु पूर्ववत् ॥ ३७६ ॥
षड्भिः कोष्ठैस्तु कोशानि रञ्जितव्यं च पूर्ववत् ॥
पीठपादाः परिधयः पद्माद्यं पूर्ववन्मतम् ॥ ३७७ ॥
वाममार्गे मण्डलं स्यात्कोष्ठैरष्टकवर्गकैः ॥
चतुर्भिः पङ्कजं मध्ये तद्बाह्ये वीथिका तु वा ॥ ३७८ ॥
कल्पवल्ली समायुक्ता तत्पद्मं सर्वदैव हि ॥
दिक् चतुष्के तु पद्मानि चतुर्भिः कोष्ठकैश्चरेत् ॥ ३७९ ॥
विदिशासु चतुर्भिस्स्युश्चतुष्का वेदसङ्ख्यकाः ॥
चतुष्कपद्मवीथीनां मध्ये स्वस्तिकसन्निभम् ॥ ३८० ॥
जायते तच्चतुष्कोष्ठैर्विदिशासु चतुर्ष्वपि ॥
रजोभिः शुक्लहारिद्ररक्तनीलैः प्रपूरयेत् ॥ ३८१ ॥
स्वस्तिकानीशतश्चान्यत्पूर्ववत्परिकीर्तितम् ॥
उदितं मण्डलं ह्येतन्नवनागं सुशोभनम् ॥ ३८२ ॥
एतदेवोक्तमार्गेण मध्यद्वारं विदिक्त्यजम् ॥
एककोष्ठचतुष्काद्यं पञ्चपद्मं प्रवक्ष्यते ॥ ३८३ ॥
पद्मं प्राग्वाकृतं द्वारं स्वस्तिवच्च चतुष्ककाः ॥
वर्णैः पूर्या वीथिका तु पीठे तु सुरयोनिषु ॥ ३८४ ॥
अथ मन्त्रप्रतिष्ठार्थे वक्ष्ये वारुणमण्डलम् ॥
चतुरस्रं चतुष्षष्टिकोष्ठकं यो निवेशयेत् ॥ ३८५ ॥
अन्त्यजान्तिमयातासु दिक्षुकोष्ठानि मार्जयेत् ॥
मध्यस्थचतुरस्राणि द्वास्स्थाख्यानि तु पूर्वतः ॥ ३८६ ॥
पीतैः श्यामैश्च तान् हरिद्रजोभिः परिपूरयेत् ॥
कोणकोष्ठं विहायैकं पञ्च ते पादसञ्ज्ञिताः ॥ ३८७ ॥
पीता स्यात्पाण्डुरा रक्ता पीतैः कृष्णैश्च पूरयेत् ॥
आग्नेयीतः कोणकोष्ठान्यारक्तहरितासितैः ॥ ३८८ ॥
पूरयेदथ तस्यार्धं वितानं बन्धयेद्यथा ॥
श्वेतवर्णेन चत्वारि मध्ये वृत्तानि कारयेत् ॥ ३८९ ॥
षड्वह्नीशादिव्यासार्धवृत्तमाद्यन्तु पीठतः ॥
तत्पीतं कर्णिकाकारं सितरेखावृतं ततः ॥ ३९० ॥
द्वितीयं द्विगुणव्यासरूपकेशरसंयुतम् ॥
पीतरक्तश्वेतवर्णमूलमध्याग्रकेसरम् ॥ ३९१ ॥
द्विसप्तत्यंशिकां श्वेतां तस्याग्रे कुरुते सिताम् ॥
तृतीयं तु तृतीयांशतुल्यव्यासं च वर्तुलम् ॥ ३९२ ॥
श्वेतमष्टदलं तत्र रक्ताग्रं तद्दलैस्तले ॥
श्वेतं बहिः कृष्णवर्णं प्राग्वद्रेखां सितां कुरु ॥ ३९३ ॥
तद्बहिर्वृत्तसंलग्नान्षोडशास्रान्प्रकल्पयेत् ॥
श्यामपीतारुणश्वेतैस्तदन्तस्तूपबाह्यतः ॥ ३९४ ॥
सितपीतारुणश्यामहरिताः पञ्च रेखिकाः ॥
कार्याः सुरुचिराः पीठस्यान्तरेवं प्रपूरयेत् ॥
वज्रं शक्तिं दण्डखड्गपाशाङ्कुशगदा लिखेत् ॥ ३९५ ॥
पूर्वतस्तु तथैशान्यां शूलं चक्राम्बुजान्वितम् ॥
वेदिकायामासनन्तु प्राङ्मुखं संविशेदथ ॥
बद्धपद्मासनो मौनी ऋजुकायो जितेन्द्रियः ॥ ३९६ ॥
देशिकेन्द्रस्तु संस्थाप्य पूजोपस्करणानि तु ॥
दक्षिणे वामभागे तु स्थापयेत्कलशं शुभम् ॥ ३९७ ॥
सुगन्धिं जलसम्पूर्णं हस्तप्रक्षालनाय च ॥
पश्चात्पात्रं निधायाथ दीपान्प्रज्वालयेच्छुभान् ॥ ३९८ ॥
व्यजनं मुकुरं छत्रं चामरं दिक्षु मन्त्रवित् ॥
संस्कुर्यात्तानि सर्वाणि वक्ष्यमाणविधानतः ॥ ३९९ ॥
करशुद्धिं विधायाथ ब्रूयात्तारत्रयन्तथा 12 ॥
शरमन्त्रेण दिग्बन्धं कुर्यान्मन्त्री समाहितः ॥ ४०० ॥
महतस्तु समुत्पन्नं वक्ष्ये यत्तर्हि सर्वतः ॥
भूतशुद्धिन्ततः कृत्वा प्राणस्थापनमाचरेत् ॥ ४०१ ॥
न्यासादिकन्ततः कुर्याद्देशिको यतमानसः ॥
ऋषिं न्यसेत्ततो मूर्ध्नि च्छन्दो वक्त्रगतं न्यसेत् ॥ ४०२ ॥
देवतां हृदये न्यस्य मूलमन्त्रस्य देशिकः ॥
षडङ्गं विन्यसेन्मन्त्री पञ्चाङ्गं वा यथाविधि ॥ ४०३ ॥
यस्य मन्त्रस्य पञ्चाङ्गं नेत्रं तस्य विधीयते ॥
अङ्गैर्विहीनस्य मनोरङ्गं तेनैव कल्पयेत् ॥ ४०४ ॥
ततो मन्त्रोक्तमार्गेण न्यासानन्यान्समाचरेत् ॥
शरीरे स्वस्य मन्त्रज्ञो योगपीठं प्रकल्पयेत् ॥ ४०५ ॥
देहात्मके ततः पीठे ध्यायेन्मन्त्रस्य देवताम् ॥
दर्शयित्वा ततो मुद्राः स्थापयेदर्घ्यमुत्तमम् ॥ ४०६ ॥
जलप्रपूरितां दक्षे प्रोक्षणीं स्थापयेत्ततः ॥
तत्राल्पमल्पं शङ्खाम्बु तत्तद्देवरतो न्यसेत् ॥ ४०७ ॥
पाद्यमाचमनीयञ्च मधुपर्कञ्च मन्त्रवित् ॥
ततो मूलाम्बुना मन्त्रि प्रोक्षण्यद्भिः समाहितः ॥ ४०८ ॥
स्वात्मानं मण्डलञ्चान्यत्पूजोपकरणादिकम् ॥
प्रोक्षयेद्गन्धपुष्पाद्यैर्देशे स्वे देशिकोत्तमः ॥ ४०९ ॥
योगपीठं समभ्यर्च्य न्यासमार्गेण मन्त्रवित् ॥
पीठान्तञ्च ततस्तत्र पूजयेदिष्टदेवताम् ॥ ४१० ॥
देवतात्मा ततः पञ्च कुर्याच्च सुमनोञ्जलीन् ॥
शीर्षे हृदि तथाधारे चरणे सर्वगात्रके ॥ ४११ ॥
पूजयेच्च निवेद्येन विहितैश्चन्दनादिभिः ॥
सर्वोपचारैस्तञ्चेष्टं गुर्वादिष्टेन वर्त्मना ॥ ४१२ ॥
समापयेदिदं सर्वं प्रोक्षण्यद्भिः समाचरेत् ॥
पानीयम्प्रोक्षणीसंस्थं त्यक्त्वा संसिच्य पूर्ववत् ॥ ४१३ ॥
उपचारैश्चन्दनाद्यैर्मण्डलम्पूजयेद् गुरुः ॥
पूरयेत्कर्णिकां पूर्वं शालिभिस्तण्डुलैस्ततः ॥ ४१४ ॥
दर्भान्न्यसेदुपर्येषां साक्षात्तं पूर्वकन्ततः ॥
छिन्नमूलाः कुशा दीर्घाः सप्तविंशतिसङ्ख्यकाः ॥ ४१५ ॥
ब्रह्मग्रन्थियुतास्त्वग्रदेशे कूर्च इहोच्यते ॥
यजेदाधारशक्त्यादिपीठमन्त्रावसानकम् ॥ ४१६ ॥
स्वर्णादिरचितन्तत्र कलशं छिद्रवर्जितम् ॥
त्रिगुणात्मकसूत्रेण वेष्टितं सर्वतो बहिः ॥ ४१७ ॥
चन्दनागुरुकर्पूरैर्मध्ये सम्यक् प्रपूरितम् ॥
ध्रुवं जपं विना चात्र स्थापयेद्देशिकोत्तमः ॥ ४१८ ॥
नवरत्नानि निक्षिप्य कुम्भे कूर्चमथोपरि ॥
दूर्वाचन्दनसंयुक्तं विन्यसेद्दक्षिणान्वितम् ॥ ४१९ ॥
पुष्पं नीलञ्च वैडूर्यं विद्रुमं मौक्तिकन्तथा ॥
मूलमन्त्रञ्जपन्नन्ते चिन्तयन्नैक्यमात्मनः ॥ ४२० ॥
घटस्य पीठाभेदं च चिन्तयेत्साधकोत्तमः ॥
पञ्चाशदोषधीक्वाथैः पूरयेत्तदनन्तरम् ॥ ४२१ ॥
एकेन सहितास्ताश्च वर्णौषध्यश्च ता इमाः ॥
चन्दनञ्चापि रक्ताख्यं चन्दनञ्चागुरुस्तथा ॥ ४२२ ॥
कर्पूरोशीरकुष्ठानि बालकञ्चापि केशरम् ॥
कङ्कोलकं जातिफलं जटामांसी मुरा तथा ॥ ४२३ ॥
ग्रन्थिकं रोचना जातिपत्रं पिप्पलबिल्वकौ ॥
पृष्ठिपर्णी चित्रकञ्च मुद्गपर्णी कुशाः पुनः ॥ ४२४ ॥
कट्फलं चापि गुञ्जा स्यादुदुम्बरककाश्मरी ॥
पद्मकोषा शङ्खपुष्पी मयूरस्य शिखा तथा ॥ ४२५ ॥
प्लक्षोग्निमन्थश्च तथा शालपर्णी कुशाः पुनः ॥
पाषाणभेदकः कृष्णा शशिपुष्पी च रोहिणी ॥ ४२६ ॥
स्योना च्छिन्न रुहा चैव पाटली मुखकर्णिका ॥
तुलसी शिखरी इन्द्रवल्ली भृङ्गीभिरानृपाः ॥ ४२७ ॥
ततो राजितपातालमूली चापि कृताञ्जलिः ॥
दूर्वा श्रीदेवकन्याख्याभागथो भद्रमुस्तकम् ॥ ४२८ ॥
लवङ्गसहिताश्चैताः पञ्चाशत्सङ्ख्यका इति ॥
दुग्धवृक्षत्वचां क्वाथैर्ब्रह्मभूरुक्त्वगुद्भवैः ॥ ४२९ ॥
गन्धपङ्कप्रसूनादिवासितैर्वा शुभैर्जलैः ॥
क्वाथादितोयैरापूर्य शङ्खन्तस्मिन्विलोडयेत् ॥ ४३० ॥
गन्धाष्टकं तस्यतस्य देवस्याथ प्रकीर्तितम् ॥
चन्दनागुरुकर्पूररोचनाकुङ्कुमं मदः ॥ ४३१ ॥
रक्तचन्दनजं वारि गाणपत्यमुदाहृतम् ॥
ह्रीबेरञ्चन्दनङ्कुष्ठमगुरुः कुङ्कुमं मुरा ॥
सिह्लकञ्च जटामांसी वैष्णवं तदुदीरितम् ॥ ४३२ ॥
चन्दनागुरुकर्पूरचौरकुङ्कुमरोचनाः ॥
जटामांसी कपियुता शाक्तं गन्धाष्टकं विदुः ॥ ४३३ ॥
जलकाश्मीरकुष्ठैश्च रक्तचन्दनचन्दनैः ॥
तगरागुरुकर्पूरैः शाम्भवं चाष्टगन्धकम् ॥ ४३४ ॥
जलकाश्मीरकुष्ठैस्तु रक्तचन्दनचन्दनैः ॥
तगरागुरुकर्पूरैः सौरं गन्धाष्टकं विदुः ॥ ४३५ ॥
गोरोचना च कांस्यञ्च कर्पूरागुरुकुङ्कुमैः ॥
चन्दनेन मदाभ्याञ्च वारिदेन च पत्रजम् ॥ ४३६ ॥
गन्धाष्टकस्य संयोगात्सामर्थ्याद्देशिकस्य च ॥
सशक्तिकञ्जलं कुम्भे भवेदेवं विदुर्बुधाः ॥ ४३७ ॥
आदौ कृशानुसम्बन्धिकला दश समर्चयेत् ॥
धूम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ॥
सुश्रीः सुरूपा कपिला हव्यकव्यवहे उभे ॥ ४३८ ॥
कलाद्वादशकं सौरम्पूजयेत्तदनन्तरम् ॥
तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ॥ ४३९ ॥
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥
कलाषोडशकञ्चान्द्रं यजेत्पश्चाद् गुरूत्तमः ॥ ३४० ॥
अमृता मानदा पुष्टा पुष्टिस्तुष्टी रतिर्धृतिः ॥
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना शीःप्रीतिरङ्गदा ॥ ४४१ ॥
पूर्णा पूर्णामृता कान्तिर्दीपिनाश्वरजाः कलाः ॥
वेदादिभेदे सञ्जाताः कलाः पञ्चाशबिन्दुयुक् ॥ ४४२ ॥
सन्निधाप्य प्रतिष्ठाप्याभ्यर्चयेत्क्रमशस्तु ताः ॥
निवृत्तिः प्रतिष्ठा विद्या शान्तिर्-ऋद्धिश्च दीपिका ॥ ४४३ ॥
रेचिका मोचिका पारा सूक्ष्मासूक्ष्मामृता तथा ॥
ज्ञानामृताप्यायनी च व्यापिनी व्योमरूपिका ॥ ४४४ ॥
अनन्ता सृष्टिर्-ऋद्धिश्च स्मृतिर्मेधा च कान्तिका ॥
लक्ष्मीर्द्युतिः स्थिराच्छित्तिस्सिद्धिर्जरा च पालिनी ॥ ४४५ ॥
क्षान्तीश्वर्यौ रतिः कामा वरदाह्लादिनी तथा ॥
दीर्घा तीक्ष्णा च रौद्री च भया निद्रा च तन्द्रिका ॥ ४४६ ॥
क्षुत्क्रोधिनी क्रियोत्कारी मृत्युः पीता सितारुणा ॥
असिता च तथानन्ता मध्येमध्ये प्रपूजयेत् ॥ ४४७ ॥
हंसः शुचिषदित्यादि प्रतद्विष्णुस्तवेति च ॥
त्र्यम्बकं चैव गायत्रीं विष्णोर्योनिं तथैव च ॥ ४४८ ॥
तारस्य पञ्चभेदोत्थ कलानां पूजने सुधीः ॥
कलादशकमावाह्य सृष्ट्याद्यं सन्निधाप्य च ॥ ४४९ ॥
हंसः शुचिषदित्यादि ऋचं सञ्जप्य पूजयेत् ॥
प्राणसंस्थापनं कृत्वा कलानां पूजयेच्च ताः ॥ ४५० ॥
एवं जराद्यास्तीक्ष्णाद्याः पीताद्याश्च विधानवित् ॥
निवृत्त्याद्याश्चापि यजेदुक्तयुक्त्या विचक्षणः ॥ ४५१ ॥
अकारोकारकौ प्रोक्तौमकारो बिन्दुनादकौ ॥
शक्तिः शान्तिस्त्विमे सप्त ध्रुवं भेदाः प्रकीर्तिताः ॥ ४५२ ॥
अन्तिमौ द्वाविमौ भेदौ पृथगेव समीरितौ ॥
अथ त्वश्वत्थपनसचूतानां पल्लवान्दृढम् ॥ ४५३ ॥
बन्धयेदिन्द्रवारुण्या लतयास्ये घटस्य च ॥
कल्पवृक्षधिया तं च भावयेत्कलशोपरि ॥ ४५४ ॥
पात्रं तण्डुलसम्पूरणं नारिकेलफलान्वितम् ॥
कल्पवृक्षफलं ह्येतत्स्थापयेदनया धिया ॥ ४५५ ॥
पट्टवस्त्रयुगेनाथ वेष्टयेत्कलशं ततः ॥
एतत्प्रधानकुम्भस्य स्थापनं परिकीर्तितम् ॥ ४५६ ॥
अथ पूर्वादिकाष्ठासु तोरणानां समीपतः ॥
यथेच्छया मण्डलानि कुर्यादष्टदलानि च ॥ ४५७ ॥
तदूर्ध्वं शालिपुञ्जं तु प्रतिद्वारं समाचरेत् ॥
तदूर्ध्वं पूर्णकलशं तत्र चैतान्प्रपूजयेत् ॥ ४५८ ॥
प्राग्बुधं च वरां दक्षे पश्चाद्वाक्पतिमुत्तरे ॥
विघ्नेशमथ चाग्नेय्यां दिक्षु कुम्भांस्तु विन्यसेत् ॥ ४५९ ॥
अमृतं दुर्जयं सिद्धार्थकं मङ्गलमर्चयेत् ॥
पुना रुद्रादिकाष्ठासुक्रमाद्रुद्रादिकान्यजेत् ॥ ४६० ॥
लोकपालान्मण्डलेषु कुम्भोपरि तथैव च ॥
ऐरावतं पुण्डरीकं वामनं कुमुदाञ्जनौ ॥ ४६१ ॥
पुष्पदन्तं सार्वभौमं सुप्रतीकं तदग्रतः ॥
ततो गुरुः स्ववेद्यां तु गत्वा स्वस्यासने विशेत् ॥ ४६२ ॥
सञ्चिन्त्य मूलमन्त्रेण मूर्ति तस्मिन्गुरूत्तमः ॥
तस्यां मूर्तौ समावाह्य पूजयेदिष्टदेवताम् ॥ ४६३ ॥
स्मृत्वा मूलमनुं मन्त्री मातृकासु यथा ततः ॥
निर्गमय्य च चैतन्यं नासिकाग्रविनिर्गतम् ॥ ४६४ ॥
अञ्जलौ मातृकापद्मं महापुष्पान्विते गुरुः ॥
मस्तकान्तं समुत्थाप्य तस्यामावाहयेत्ततः ॥ ४६५ ॥
संस्थापनं सन्निधानं सन्निरोधं ततश्चरेत् ॥
सम्मुखकिरणं चापि शकलीकरणं ततः ॥ ५६६ ॥
ततोवगुण्ठनं काय्यममृतीकरणं ततः ॥
परमीकरणं कुर्यात्क्रमशस्तस्य मुद्रिकाः ॥ ४६७ ॥
विदध्याच्च क्रमात्तत्तदुपचारान्प्रकल्पयेत् ॥
आसनादिप्रसूनान्तानुपचारान्प्रकल्प्य च ॥ ४६८ ॥
ततो मन्त्रविधानेषु प्रोक्ताङ्गावरणान्यपि ॥
सर्वान्ते लोकपालानां तदस्त्राणां च पूजनम् ॥ ४६९ ॥
विधाय पूजामेवं हि धूप दीपनिवेद्यकैः ॥
कृते निवेद्ये च ततो मण्डलम्परितः क्रमात् ॥ ४७० ॥
प्रवालाङ्कुरपत्राणि स्थापनीयानि मन्त्रिणा ॥
वेदिकाया दक्षभागे कृत्वा स्थण्डिलमुत्तमम् ॥ ४७१ ॥
संस्थाप्य वह्निं संस्कृत्य वैश्वदेवं समारभेत् ॥
यथाविधि ततस्तत्र गन्धाद्यैर्देवतां यजेत् ॥ ४७२ ॥
तत्र प्रणवपूर्वाभिर्हुत्वा व्याहृतिभिः क्रमात् ।
जुहुयान्मूलमन्त्रेण पायसेन घृतेन च ॥ ४७३ ॥
पञ्चविंशतिभिः पश्चाद्धुत्वा व्याहृतिभिः क्रमात् ॥
सम्पूज्य तां चन्दनाद्यैः पीठमूर्तौ निधापयेत् ॥ ४७४ ॥
अग्निं विसृज्य इष्टेन पायसेन बलिं हरेत् ॥
पार्षदेभ्यश्चन्दनादिपुष्पाक्षतसमन्वितम् ॥ ४७५ ॥
तत उत्थाप्य नैवेद्यं तत्स्थलं शोधयेत्सुधीः ॥
पुनर्यजेच्चोपचारैः पञ्चभिर्दर्शयेत्ततः ॥ ४७६ ॥
दर्पणं व्यजनं छत्रं चामरं मुखवासकम् ॥
सहस्रं च जपेन्मन्त्री मूलमन्त्रं समाहितः ॥ ४७७ ॥
देवतायै निवेद्याथ तं जपं सम्पदे ततः ॥
ईशानदिशि यः पूर्वं स्थापितो विकिरोत्र च ॥ ४७८ ॥
सुवर्णवस्त्रसंयुक्तं करकञ्जलपूरितम् ॥
न्यसेदत्र यजेदस्त्र देवतां घोररूपिणीम् ॥ ४७९ ॥
पश्चिमाद्यन्ततः खेटधारिणीं सिंहसंस्थिताम् ॥
तिष्ठन्सम्पूज्य च ततो गृहीत्वा तम्प्रदक्षिणम् ॥ ४८० ॥
एतदन्ते तु रक्षेति लोकेशानि त्वितीरयेत् ॥
तारमुक्तेनोदकेन देवतान्तारयेत्ततः ॥ ४८१ ॥
स्वस्थाने स्थापयेत्तत्तु फण्मन्त्रेण ततोर्चयेत् ॥
उपविश्य तु भूयस्तं गन्धाद्यैर्देशिकोत्तमः ॥ ४८२ ॥
ततो वह्निं सुसंस्कृत्य चरुङ्गोपयसोर्पयेत् ॥
देवतेष्टादिजेपात्रे क्षालिते च शराणुना ॥ ४८३ ॥
मूलाणुनाभिमन्त्र्याथ तण्डुलाञ्च्छालिसम्भवान् ॥
तिथिप्रसृतिमानेन शराणून्प्रपचेत्क्षिपेत् ॥ ४८४ ॥
प्रक्षालितेन पात्रेण यावद्वक्त्रं पिधाय च ॥
हुम्मन्त्रेण ततो मूलमन्त्रेण देशिकोत्तमः ॥ ४८५ ॥
पचेद्गुरुः प्राङ्मुखस्तु सिद्धन्तमभिधारयेत् ॥
मूलेन स्रुवसंस्थेन घृतेनाथावतारयेत् ॥ ४८६ ॥
हुम्मन्त्रेणास्त्रसञ्जप्ते कुशास्तीर्णे विभेद्य तम् ॥
त्रिधा त्वेकन्देवतायै परं वह्नौ निवेदयेत् ॥ ४८७ ॥
शिष्टं शिष्येण सहितो गुरुर्भुञ्जीत मन्त्रवित् ॥
प्रादेशमात्रं हृज्जप्तं यथोक्तं दन्तधावनम् ॥ ४८८ ॥
शिष्याय दद्यात्स रदान्विशोध्य क्षालितं त्यजेत् ॥ ४८९ ॥
आचान्तमन्त्रञ्च यथाविधि तं शिखायां बद्ध्वा स्वकीयशिखया प्रविधाय मन्त्री ॥
वेद्यां शयीत कुशसंस्तरणे रजन्यां शिष्येण सार्द्धममुना गदितोधिवासः ॥ ४९० ॥
समुत्थायोषसि पुनः स्नानसन्ध्यादिकं चरेत् ॥
गुरुः शिष्य ऋत्विजश्च गच्छेद्यज्ञगृहं प्रति ॥ ४९१ ॥
सर्वे ते स्वस्वकुण्डेषु जुहुयुस्सघृतैस्तिलैः ॥
पुनः साध्येन मनुना ह्यष्टोत्तरसहस्रकम् ॥ ४९२ ॥
द्रव्यैर्विधानप्रोक्तैर्वा हुनेदष्टाधिकं शतम् ॥
शिष्यं स्नातं पञ्चगव्यं पाययेन्मन्त्रवित्तमः ॥ ४९३ ॥
कुण्डस्याभ्याशमानीय दिव्यदृष्ट्या विलोकयेत् ॥
हृत्पुण्डरीकचैतन्यं शिष्यस्यात्मनि योजयेत् ॥ ४९४ ॥
आचार्यस्त्वध्वनां षट्कं तत्र संशोधयेत्क्रमात् ॥
ताः कलास्तत्त्वभुवनार्णपदा मन्त्रपूर्विकाः ॥ ४९५ ॥
शिष्यस्य पादयोश्चिन्त्या गुरुणा च कला इमाः ॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ ४९६ ॥
शान्त्यतीतेति पञ्चाथ शोधनक्रम उच्यते ॥
कूर्चेन च गुरुः शिष्यं स्पृशन्कुण्डे स्वके हुनेत् ॥ ४९७ ॥
तिलैर्घृताक्तैस्तारोऽस्य त्वमुकाध्वानमत्र च ॥
शोधयामिद्विठान्तेन मन्त्रेणाष्टाहुतीर्हुनेत् ॥ ४९८ ॥
तत्त्वाध्वनि विलीनं तु कलाध्वानं विचिन्तयेत् ॥
ततो लिङ्गप्रदेशेस्य तत्त्वाध्वानं विचिन्तयेत् ॥ ४९९ ॥
गाणेशानि च शैवानि तत्रैतानि रसाग्नयः ॥
तद्यथा शिवशक्ती च सदाशिवमहेश्वरौ ॥ ५०० ॥
विद्येति पञ्चशुद्धानि शुद्धाशुद्धानि सप्त च ॥
मायाविद्या कला रागः कालो नियतिरेव च ॥ ५०१ ॥
पुरुषश्चाथ शुद्धानि प्रकृतिर्बुद्ध्यहङ्कृती ॥
मनश्चेन्द्रियदशकं तन्मात्रा भूतपञ्चकम् ॥ ५०२ ॥
अथ वैष्णवतत्त्वानि द्वाविंशत्प्रमितानि तु ॥
जीवः प्राणो मनोबुद्धिस्तन्मात्रा भूतपञ्चकम् ॥ ५०३ ॥
दशेन्द्रियाणि हृत्पद्मं सूर्यसोमाग्नयस्तथा ॥
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ ५०४ ॥
सौराणि भूततन्मात्रा मनोज्ञानेन्द्रियाणि च ॥
प्रकृतिर्बुद्धिरिति च चतुर्विंशतिसम्मिताः ॥ ५०५ ॥
दशैव शक्तितत्त्वानि आत्मा विद्या शिवा इति ॥
शिवा विद्या तथात्मेति चात्मा विद्या शिवा पुनः ॥ ५०६ ॥
सर्वतत्त्वं चेति पुनः प्राग्वद्देहेन होमयेत् ॥
तत्त्वाध्वानं विलीनं तु चिन्तयेद् भुवनाध्वनि ॥ ५०७ ॥
शिष्यस्य नाभौ चिन्त्यानि भुवनानि चतुर्दश ॥
तानि क्रमेण पातालरसातलमहातलम् ॥ ५०८ ॥
तलातलञ्च सुतलं वितलं चातलञ्च भूः ॥
भुवस्तु स्वर्महश्चापि जनस्तप इति क्रमात् ॥
सत्यञ्च भुवनाख्यानि होमव्यूहस्तु पूर्ववत् ॥ ५०९ ॥
विलीनं भुवनाध्वानं वर्णाध्वनि विचिन्तयेत् ॥
अकारादिक्षकारान्तान्वर्णान्सञ्चिन्तयेद्धृदि ॥ ५१० ॥
वर्णाध्वानं विलीनन्तु पदाध्वनि विचिन्तयेत् ॥
होमौघः प्राग्वदेवात्र ललाटे चिन्तयेत्ततः ॥ ५११ ॥
पदाध्वानं मूलमन्त्रपदवर्ण स्वरूपतः ॥
यदाध्वात्रोहहोमादि प्राग्वदेव समाचरेत् ॥ ५१२ ॥
मन्त्राध्वनि विलीनन्तु पदाध्वानं विचिन्तयेत् ॥
सम्पूर्णमन्त्रो मन्त्राध्वा चिन्तयेच्छिष्यमूर्द्धनि ॥ ५१३ ॥
होमोहः प्राग्वदेवात्र विलीनोयम्परे शिवे ॥
ब्रह्मरन्ध्रे स्थितन्ध्यायेदेतत्स्यादध्वशोधनम् ॥ ५१४ ॥
सृजेत्सृष्ट्या विलीनांस्ताञ्च्छिवात्तस्माद्गुरूत्तमः ॥
देशिकेन्द्रश्च तं शिष्यं दृष्ट्वा दृष्ट्या च दिव्यया ॥ ५१५ ॥
तच्चैतन्यं स्थितं स्वस्मिंस्तस्मिंस्तच्चैव योजयेत् ॥
हुनेन्महाव्याहृतिभिस्ततो देशिकसत्तमः ॥ ५१६ ॥
अङ्गप्रवृत्त्या वृत्तीनां हुनेद्भूयो घृतेन वै ॥
ब्रह्मार्पणाख्यमन्त्रेण सर्वकर्मच्छिदे सुधीः ॥ ५१७ ॥
जुहुयादाहुतीरष्टौ केवलाज्येन मन्त्रवित् ॥
हुत्वा पूर्णाहुतिं मन्त्री स्तुत्वा मूलाणुना ततः ॥ ५१८ ॥
अग्निं सम्प्रार्थ्याग्निसाङ्गमन्त्रेणैकाहुतिं हुनेत् ॥
सर्पिषा स्रुवमापूर्य पुष्पञ्चोपर्यधोमुखम् ॥
स्रुवोपरि स्रुवन्दत्त्वा पुष्पन्तत्र प्रपातयेत् ॥ ५१९ ॥
सव्योत्तरकराभ्यां च सम्पुटाभ्याञ्च शङ्खवत् ॥
होमन्तु मांसमाषाभ्यां तीर्थाह्वाभ्यां च पूर्णताम् ॥ ५२० ॥
कुर्यात्स्वाहान्तमूलेन फलान्येन तु वैदिकः ॥
दक्षपादम्पुरस्कृत्य दक्षः पूर्णाहुतिञ्चरेत् ॥ ५२१ ॥
शक्तिहोमे वाममार्गी वामपादञ्च सर्वतः ॥
पुनः सम्पूज्य गन्धाद्यैर्मूलमन्त्रेण मन्त्रवित् ॥ ५२२ ॥
कुण्डादुद्वास्य चाचार्यो देवतां कलशे न्यसेत् ॥
साङ्गां सावरणां तत्र पूजयेच्च यथाविधि ॥ ५२३ ॥
सप्त व्याहृत्यग्निजिह्वाङ्गमूर्तीनामथैक्यकम् ॥
दुग्धेन परिषिच्याग्निं प्रार्थयीत ततो गुरुः ॥ ५२४ ॥
भोभो वह्ने महाशक्ते सर्वकामप्रदायक ॥
कर्मान्तरेपि सम्प्राप्ते सान्निध्यं कुरु सादरम् ॥ ५२५ ॥
इति मन्त्रेण सम्प्रार्थ्य चग्निमुद्वासयेदपि ॥
ततो ब्रह्माणमुद्वास्य ब्राह्मणाय प्रपादयेत् ॥ ५२६ ॥
द्वात्रिंशत्पलमात्रेण निर्मितं ताम्रपात्रकम् ॥
तण्डुलैस्तत्समापूर्य सहिरण्यं सदक्षिणम् ॥ ५२७ ॥
दद्याद्विप्राय तत्तुष्ट्यै पूर्णपात्रमितीरितम् ॥
ततः परिस्तरानग्नौ परिधीन्निक्षिपेन्न तु ॥ ५२८ ॥
नित्ये नैमित्तिके तांस्तु क्षिपेद्देशिक सत्तमः ॥
वस्त्रेण नेत्रमन्त्रेण शिष्यनेत्रं निबध्यते ॥ ५२९ ॥
कुण्डाद्धस्तं समाधाय नयेन्मण्डलसन्निधौ ॥
सुमनोभिः प्रपूर्यास्य ह्यञ्जलीन्क्षेपयेद्धरे ॥ ५३० ॥
मूलमन्त्रोच्चारपूर्वं देवताप्रीतये गुरुः ॥
नेत्रबन्धमपास्योपवेशयेत्कुशसंस्तरे ॥ ५३१ ॥
ततश्च पाठयेच्छिष्यं मन्त्रमेनं गुरूत्तमः ॥
गुरुभक्तियतो ब्रूयाच्छिष्यः श्लोकञ्च तत्र वै ॥ ५३२ ॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ॥
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ५३३ ॥
अन्ते पूजाविधानेन स हरेज्जनयेच्च तम् ॥
शिष्यो इत्तस्य मन्त्रस्य न्यासान्देहे परिन्यसेत् ॥ ५३४ ॥
पञ्चोपचारैरभ्यर्च्य कलशे स्वेष्टदेवताम् ॥
तन्त्रोक्तवर्त्मना तत्र सकलाकृतिमाचरेत् ॥ ५३५ ॥
अथोपवेशयेच्छिष्यं भूषितं मण्डलान्तरे ॥
कुम्भास्यस्थसुरद्रुंश्च मूर्द्धन्यस्य शिशोर्गुरुः ॥ ५३६ ॥
अथ पञ्चनिनादैश्च विप्राशीर्वचनैस्सह ॥
सुस्थितं नियतात्मानं सिञ्चेत्कलशपुष्पकैः ॥ ५३७ ॥
येन प्रकारेण सुरा योजिताश्च सुधामयैः ॥
तोयैरक्षरसंयुक्तैर्घटैस्तेनैव वर्त्मना ॥ ५३८ ॥
अथ शिष्यञ्चाभिषिञ्चेदाशु तं सम्पदाप्तये ॥
गृहीत्वाभ्यर्चितं पूर्वं करकं मन्त्ररूपिणम् ॥ ५३९ ॥
तत्तोयैरभिषिञ्चेत्तं सुशिष्यं देशिकोत्तमः ॥
जलेन शिष्टेन शिशुं गुरुराचामयेत्ततः ॥ ५४० ॥
तद्देवतास्वरूपञ्च विदध्यात्सकलीकृतम् ॥
वाससी विमले रम्ये परिधायाज्ञया गुरोः ॥ ५४१ ॥
आचम्य निकटे तस्या गच्छेत्सम्यङ्मनुं ततः ॥
दक्षकर्णे वदेद्विद्वान्विप्रस्योङ्कारपूर्वकम् ॥ ५४२ ॥
अन्येषान्तु वदेदेवमेव मन्त्रं विचक्षणः ॥
स्वयं ज्योतिर्मयीं विद्याङ्गच्छन्तीं भावयेद् गुरुः ॥ ५४३ ॥
आगताम्भावयेच्छिष्यो देवोस्मीति विशेषतः ॥
अष्टोत्तरशतं क्षिष्यः प्रजपेद् गुरुणोदितम् ॥ ५४४ ॥
अष्टाविंशतिवारं वा चाष्टकृत्वोथ वा जपेत् ॥
गुरुदेवात्ममन्त्राणामैक्यं शिष्यो विभावयेत् ॥ ५४५ ॥
प्रणामं गुरवे कुर्यात्साधको भक्तिमान्मुहुः ॥
साष्टाङ्गश्चाथ पञ्चाङ्गः पूजाकर्मसु सम्मतः ॥ ५४६ ॥
हस्ताभ्याञ्चैव जानुभ्यां प्रणामो वक्षसा तथा ॥
मुर्ध्ना दृष्ट्या तथा चैव चित्तेनाष्टाङ्ग ईरितः ॥ ५४७ ॥
हस्तजानुशिरोवाक्यदृष्ट्यः पञ्चाङ्ग ईरितः ॥
आचार्याज्ञां सदा कुर्यात्तत्तः शिष्यो विचार्य च ॥ ५४८ ॥
अलङ्कारांश्च वासांसि दद्यादृत्विग्भ्य आदरात् ॥
ईश्वरार्पणबुद्ध्या च द्विजाशीर्भिश्च नन्दितः ॥ ५४९ ॥
प्रदद्याद्गुरवे शिष्यः स्वधनार्धं तदर्धकम् ॥
दशांशं वा प्रदद्याच्च वित्तशाठ्यविवर्जितः ॥ ५५० ॥
गोभूहिरण्यविपिनगृहक्षेत्रादिकं पुनः ॥
अक्लेशादन्नवस्त्रादि दद्याद्वित्तनुसारतः ॥ ५५१ ॥
प्रकारान्तरमालम्ब्य गुरुं यत्नेन तोषयेत् ॥
तदधीनमना नित्यं तच्चिन्तनपरायणः ॥ ५५२ ॥
तत्पादाब्जरजोभूषो भवेत्साधकसत्तमः ॥
ततो नानाविधैर्भक्ष्यैर्लेह्यैश्चोष्यैस्तथापरैः ॥ ५५३ ॥
ब्राह्मणान्भोजयेत्सम्यक् प्रदद्याद्भूरिदक्षिणाम् ॥
एवं क्रियामयी दीक्षा सम्पद्दात्री निरूपिता ॥ ५५४ ॥
राज्ञां धनाढ्यवैश्यानां विप्राणां व्यवसायिनाम् ॥
अयन्दीक्षाक्रमः प्रोक्तो भोगयुक् सिद्धिमिच्छताम् ॥ ५५५ ॥
अथ वर्णमयीं दीक्षाम् ऋण्वनुज्ञानदायिनीम् ॥
यत्प्रकृत्यात्मतत्त्वञ्च वर्णानां समुदीरितम् ॥ ५५६ ॥
तादृक् तत्त्वं शरीरेस्य प्रोक्तमेवास्ति देशिकैः ॥
ततस्तनौ शिशोर्न्यस्येदर्णान्देशिकसत्तमः ॥ ५५७ ॥
संहरेद्वैपरीत्येन वर्णान्स्वस्थानसंस्थितान् ॥
देशिकेन्द्रः स्वसामर्थ्याद्दापयेद्देवतात्मताम् ॥ ५५८ ॥
देवतात्मा भवेच्छिष्यस्तदा संलीनतत्त्वतः ॥
अथ वक्ष्ये कलादीक्षामणिमाद्यष्टसिद्धिदाम् ॥ ५५९ ॥
वेदे पञ्चकला दीक्षा दक्षेष्टत्रिकला मता ॥
कुपञ्चाशत्कला वामे सिद्धमन्त्रगुरोस्तु सा ॥ ५६० ॥
ग्राह्या द्रुतं सिद्धिकर्त्त्रीं विपरीता विपर्यया ॥
कला निवृत्तिप्रमुखा भूतानां पञ्च चेरिताः ॥ ५६१ ॥
शिष्यकाये भूतमये वेधयेत्ताः क्रमात्सुधीः ॥
पादादिजानुपर्यन्तं निवृत्तिस्संस्थिता कला ॥ ५६२ ॥
जान्वोः सकाशादानाभि प्रतिष्ठाख्या कला स्मृता ॥
नाभितः कण्ठपर्यन्तं विद्याख्या संस्थिता कला ॥ ५६३ ॥
कण्ठतो ह्याललाटन्तु शान्त्याख्या संस्थिता कला ॥
भालाच्छिरोवधि प्रोक्ता शान्त्यतीता कला तथा ॥ ५६४ ॥
संहृतिक्रमतो विद्वान्वेधयेत्स्थानतोन्यतः ॥
स्थाने स्वीयाज्ञयाचैव दीक्षा पञ्चकला स्मृता ॥ ५६५ ॥
अष्टत्रिंशत्कला दीक्षा युक्तिं शृण्वन्तु देवताः ॥
क्रमेण कादिका वर्णा यत्र द्वादश संस्थिताः ॥ ५६६ ॥
विलोमा भादिका यत्र तत्र स्थानद्वये कलाः ॥
भावनीयास्तु सूर्यस्य षोडशाशु विधोस्तथा ॥ ५६७ ॥
यकारादिस्थले वह्नेर्भावनीयाः कला दश ॥
ततो वर्णकलानान्तु वर्णस्थानाच्च संहृतिः ॥ ५६८ ॥
पुनश्च जनयेच्छिष्यः कलादीक्षाविधिस्त्वयम् ॥
कौलिके वाममार्गे चावेददिक्षा फलप्रदा ॥ ५६९ ॥
अन्यास्ता दक्षिणे मार्गेऽन्यथा तु पतितो भवेत् ॥
दीक्षां वेदमयीं वक्ष्ये यां लब्ध्वा सुखदाञ्जनः ॥ ५७० ॥
तत्काल एव संसारे जीवन्मुक्तोभिजायते ॥
मूलाधारे तु शिष्यस्य ध्यायेत्कञ्जं चतुर्दलम् ॥ ५७१ ॥
तस्य मध्ये त्रिकोणन्तु तन्मध्ये चापि कुण्डलीम् ॥
त्रिरावर्णमयीं देवीं विद्युत्पुञ्जस्वरूपिणीम् ॥ ५७२ ॥
महादेवमयीं साक्षाज्ज्ञानमात्रेण रूपिणीम् ॥
अणोरणीयसीं देवीं चक्रषट्कप्रभेदिनीम् ॥ ५७३ ॥
सुषुम्णावर्त्मना दिव्यां यान्तीं शिवगृहम्प्रति ॥
सान्तवादिदलस्थार्णान्पद्मस्थाने समाहरेत् ॥ ५७४ ॥
षड्दले 13 कमले तन्तु लान्तबाद्यर्णयुग्दले ॥
स्वाधिष्ठाने गुरुस्सम्यग्योजयित्वा तु बेधयेत् ॥ ५७५ ॥
तदर्णानानयेद्बिन्दौ बिन्दुन्तन्नाभिपङ्कजे ॥
फान्तडाद्यर्णसंयुक्ते दिग्दले वेधयेत्स्वयम् ॥ ५७६ ॥
वर्णांस्तान्योजयेद्रुद्रे रुद्रं तं हृत्सरोरुहे ॥
ठान्तकाद्यर्णपत्राब्जे वेधयेदीश्वरे स्वयम् ॥ ५७७ ॥
वर्णांस्तानाहरेत्तस्मिन्कण्ठपद्मे च तं तथा ॥
कलादलमये पद्मे स्वरान्संयोज्य यत्नतः ॥ ५७८ ॥
सदाशिवेथ संयोज्य तं तु भ्रूमध्यपद्मके ॥
द्विदले लक्षसंयुक्ते वेधयित्वा तु देशिकः ॥ ५७९ ॥
शक्त्या सहैवमात्मानं नयेत्परशिवावधि ॥
देशिकाज्ञावशः शिष्यो दग्धाज्ञानस्तदा क्षितौ ॥ ५८० ॥
यतेदवाप्तविज्ञानः सर्वज्ञो जायते ततः ॥
सदाशिवः स्वयम्भूयात्सत्यमेव न संशयः ॥ ५८१ ॥
इयं ज्ञानप्रदा प्रोक्ता दीक्षा वेदात्मिका शिवा ॥
गुरुः स्वयं गुरुं ध्यायेत् स्वहस्ते शिवरूपिणम् ॥ ५८२ ॥
मूलविद्यां षडङ्गं च मातृका दिमनुं जपेत् ॥
शिष्यस्य मस्तके दत्त्वा कृपया दक्षिणं करम् ॥ ५८३ ॥
पश्चादुपदिशेत् प्रोक्ता स्पर्शदीक्षातिसिद्धिदा ॥
सदाशिवे तु चिद्रूपे गुरुश्चित्तं निधापयेत् ॥ ५८४ ॥
मन्त्रान्समस्तांस्तज्जातान्स्वयं ध्यायेत्तदात्मकः ॥
जातो गुरोस्तु कृपया केवलोहं सदाशिवः ॥ ५८५ ॥
इति ध्यायन्नुपदिशेद्वाग्दीक्षा त्वियमीरिता ॥
निमील्य नयने ध्यात्वा परमात्मनि देवताम् ॥ ५८६ ॥
तद्दर्शनानन्दपूर्णनेत्राभ्यं दर्शयेद् गुरुः ॥
शिष्यं प्रसन्नचित्तः सन्पश्चादुपदिशेदिति ॥ ५८७ ॥
मन्त्रसिद्धस्य सिद्ध्यै स्यादृग्दीक्षेयं फलप्रदा ॥
गुरोरालोकमात्रेण भाषणात्स्पर्शनादपि ॥ ५८८ ॥
सद्यः सञ्जायते ज्ञानं सा दीक्षा शाम्भवी स्मृता ॥
भुक्तिमुक्तिप्रसिद्ध्यर्थम्परीक्ष्य विधिवद् गुरुः ॥ ५८९ ॥
पश्चादुपदिशेन्मन्त्रमन्यथा निष्फलो भवेत् ॥
अन्यायेन च यो दद्याद्गृह्णात्यन्यायतश्च यः ॥ ५९० ॥
ददतो गृह्णतो वापि कुलशापो भविष्यति ॥
गुरुशिष्यावुभौ मोहादपरीक्ष्य परस्परम् ॥ ५९१ ॥
उपदेशं ददद्गृह्णन्प्राप्नुयातां पिशाचताम् ॥
अशास्त्रीयोपदेशन्तु यो गृह्णाति ददाति यः ॥ ५९२ ॥
भुञ्जाते तावुभौ घोरान्नरकानेकविंशतिम् ॥
असंस्कृत्योपदेशं तु यः करोति विमूढधीः ॥ ५९३ ॥
विनश्यन्ति च तन्मन्त्राः सैकते शालिबीजवत् ॥
अनर्ह्ये मन्त्रविज्ञानं न तिष्ठति कदाचन ॥ ५९४ ॥
तस्मात्परीक्ष्य कर्तव्यं चान्यथा निष्फलं भवेत् ॥
सच्छिष्यायातिभक्ताय विज्ञानमुपदिश्यते ॥ ५९५ ॥
तत्प्राप्नोति ब्रवीमि त्वाङ्गोक्षीरान्ते यथा घृतम् ॥
धनेच्छाभयलीभाद्यैरयोग्यं यदि दीक्षयेत् ॥ ५९६ ॥
देवताशापमाप्नोति कृतञ्च विकृतं भवेत् ॥
एवं दत्त्वा गुरुर्दीक्षां कुर्यात्पूर्णाभिषेचनम् ॥ ५९७ ॥
विनयेनाभिषेकेण साधकः पूर्णबोधताम् ॥
आचार्यत्वं च नाप्नोति सद्गतिञ्च समीहिताम् ॥ ५९८ ॥
तस्माद् गुरुः प्रियं शिष्यं बोधयित्वाभिषेचयेत् ॥
विरच्य विपुलांश्चक्रान्मण्डपेतिमनोहरे ॥ ५९९ ॥
क्षारतोयभृतं कुम्भं स्थापयेच्चक्रमध्यतः ॥
अन्येषु कलशांस्तत्र वस्त्रहेमसमन्वितान् ॥ ६०० ॥
दलेषु विविधाः स्थाप्यास्तत्र वै चेष्टदेवताम् ॥
अभ्यर्च्य मध्ये चान्तेषु साङ्गावरणदेवताः ॥ ६०१ ॥
स्पृशंश्च मध्ये कलशमाचार्यः प्रपठेदिति ॥
साङ्गांश्च चतुरो वेदांस्ततस्तेन जलेन तु ॥ ६०२ ॥
अभिषिञ्चेद्गुरुः शिष्यमिति पूर्णाभिषेचनम् ॥
देवेभ्यः सर्वतन्त्राणि तन्त्रेभ्यो मुनयस्तथा ॥ ६०३ ॥
यतो जातास्ततः शिष्यः सर्वतन्त्रैकभाजनम् ॥
भवेदाचार्यनामा च कुर्यान्नामान्तरं गुरुः ॥ ६०४ ॥
एतादृशस्य यो दीक्षां गृह्णीयात्स तु सिद्धिभाक् ॥
सर्वमन्त्रप्रधानेषु समर्थः स तु जायते ॥ ६०५ ॥
सर्वे देवा वशास्तस्य वेदे पन्थास्तु सात्त्विकः ॥
एष एव विधिस्तस्य मार्गः स्याद्दक्षिणाभिधः ॥ ६०६ ॥
विशेषस्तत्र तोयानि तीर्थानामाहरेत्सुधीः ॥
गङ्गाया यमुनायाश्च सरस्वत्या महोदधेः ॥ ६०७ ॥
सिन्धुगोदावरीरेवाकावेरीभ्यः पृथूदकात् ॥
महेन्द्रजायाः सरयूचर्मण्वत्योश्च पुष्करात् ॥ ६०८ ॥
महानद्या वेदिकायाः क्षिप्रावेत्रवतीजलम् ॥
कुरुक्षेत्रस्यगण्डक्याः पूर्णाया मानसस्य च ॥ ६०९ ॥
घटे दत्त्वा जपेन्मन्त्रान्नानातन्त्रगतानपि ॥
अभिषिक्तस्तु तैस्तोयैः सिद्धो वै मानवोत्र तु ॥ ६१० ॥
प्रयोगार्थन्तथान्यस्य दानार्थमथ वामके ॥
मध्ये तीर्थघटं स्थाप्य शेषास्तोयघटा मताः ॥ ६११ ॥
ये य आवाहिता देवा गुरुणा तु शुभे घटे ॥
तेते कुर्वन्तु सान्निध्यं मन्त्ररूपाश्च तन्मुखे ॥ ६१२ ॥
स्वयं सिद्धो हि कस्मैचिन्मूर्द्धानं नैव नामयेत् ॥
यदर्थं नामितो मूर्द्धा तस्य मृत्युर्न संशयः ॥ ६१३ ॥
वाममार्गे गुरुर्यस्य चेदृक्सिद्धो भवेद्यदाम् ॥
शिष्यश्च निरहङ्कारः सदा दैवतत्परः ॥ ६१४ ॥
देवतार्थं यस्य नात्र त्रयाभोगे मनो न च ॥
स एव सिद्धो वामे स्यादन्यो निरयभाजनम् ॥ ६१५ ॥
दरिद्रो दुःखितो मूर्ख इहलोके परत्र च ॥
क्रियादीक्षाविधिङ्कुर्याद्यथाशक्त्या गुरूक्तितः ॥ ६१६ ॥
एतत्तत्त्वं समाख्यातं किमन्यच्छ्रोतुमिच्छथ ॥ ६१७ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते दीक्षाप्रकाशस्तृतीयः ॥ ३ ॥
-
नमः ॥
अर्थात् ॥
ॐ नमः सकललोकाय विष्णवे प्रभविष्णवे विश्वेशविश्वरूपाय स्वप्नाधि पतये नमः स्वप्नमानयेतीमं पठेत् । ↩︎ -
स्वमस्तके - इत्यर्थः ↩︎
-
हयीप्रसूतिः । ↩︎
-
मयूरलाभः ॥ ↩︎
-
रजतम् ॥ ↩︎
-
पक्षिविशेषः ↩︎
-
वेश्या ↩︎
-
छच्छुन्दरी ↩︎
-
नीलकण्ठम् ↩︎
-
मृगविशेषः ↩︎
-
हरिणभेदः । ↩︎
-
तारः प्रणवः शरो हुं फट्तेन ॐ ॐ ॐ हुफट् इति पठित्वा दिग्बन्धं कुर्यात् ॥ ↩︎
-
लिङ्गदेशे षड्दलं कमलं तत्स्वाधिष्ठानं नाम तद्दलेषु (बं भं मं यं रं लम्) पुनर्नाभौ दशदलं कमलमस्ति तत्र (डं ढं णं तं थं दं धं नं पं फम्) हृदये द्वादश दलं कमलं तद्दलेषु (कं खं गं घं ङं चं छं जं झं ञं टं ठम्) पुनः कण्ठे षोडशदलं कमलं तद्दलेषु अṁ आṁ इṁ ईम् उम् ऊम् ऋं ॠम् ऌṁ ॡṁ एम् ऐं ॐ औम् अम् अः पुनभ्रुवोर्मध्ये द्विदलङ्कमलमस्ति तद्दलयोर्लङ्क्षं क्रमेण न्यस्यौ । ↩︎