०२ संस्कारप्रकाशः

श्रीदेव्युवाच ॥

शतशोत्र जना देव तन्त्रमार्गे व्यवस्थिताः ॥
सिद्धिर्न दृश्यते क्वापि किम्परत्र भविष्यति ॥ १ ॥

यदि कर्म प्रधानं च देवताराधनेन किम् ॥
देवताराधनं सत्यं साधका दुःखिताः कथम् ॥ २ ॥

एतन्मे संशयं छिन्धि किं चक्रैश्चापि मान्त्रिकैः ॥
संस्काराश्च कथं कार्यास्तान्त्रिकाणां वदस्व तत् ॥ ३ ॥

ईश्वर उवाच ॥

गर्भे कर्मत्रयं कुर्याज्जायमाने तथा दश ॥
ततः कर्मत्रयं चेति संस्काराः षोडश स्मृताः ॥ ४ ॥

द्विजातीनां तथा मन्त्रे कुर्यात्कर्मत्रयं गुरुः ॥
दश शिष्यांस्ततः कुर्यात्सिद्धे मन्त्रे पुनस्त्रयम् ॥ ५ ॥

षडेव जन्मसंस्काराः प्रोक्ताः स्त्रीशूद्रयोरपि ॥
तथैव मन्त्रसंस्काराः षडेव परिकीर्तिताः ॥ ६ ॥

चाण्डालादिषु चत्वारो मन्त्रे प्रोक्तास्त एव हि ॥
त्रयो यवनकल्पोक्तास्तन्मन्त्रेष्वपि ते त्रयः ॥ ७ ॥

वामदक्षिणभेदेन तेषां कर्तव्यन्तां शृनु ॥
आज्यस्थाने सुरां वामे होमाद्यर्थं प्रकल्पयेत् ॥ ८ ॥

पाकादिषु च मांसं स्याच्छैलादौ नियमाः स्मृताः ॥
मैथुनं ब्रह्मचर्यं च मुद्रास्तत्कर्मिकास्तथा ॥ ९ ॥

गर्भाधान स्वकल्पोक्तवर्त्मना प्रथमं भवेत् ॥
दक्षिणानामथो वामे द्वितीयाङ्गं समाचरेत् ॥ १० ॥

सन्तर्प्पयेदङ्गदेवं मन्त्रैर्योनिं च तीर्थतः ॥
अस्या अङ्गे देवताया मन्त्रन्यासं समाचरेत् ॥ ११ ॥

सर्वान्न्यासान्स्वस्य देहे भावयेत्तां च भैरवीम् ॥
स्वयं च भैरवो भूत्वा रतिकर्म समाचरेत् ॥ १२ ॥

सुखासनस्थो भगगं ध्वजं कृत्वा जपेदमुम् ॥
मन्त्रं पञ्चसहस्रं च यथेष्टं लभते सुतम् ॥ १३ ॥

लक्ष्मी प्राणेश्वरी चेति मम पाहि नवाक्षरः ॥
तस्यास्सोमस्तस्य सूर्यो गर्भस्तिष्ठेद्धरातले ॥ १४ ॥

अथ द्वितीयसंस्कारः कार्यः पुंसवनाभिधः ॥
तृतीये मासि कुर्वीत अथ पुंसवनं बुधः ॥ १५ ॥

वेदोक्तप्रोक्तदिवसे स्वकल्पोक्तेन वर्त्मना ॥
तत्र वैदिकमुख्यस्य होमस्थाने स्वदेवताः ॥ १६ ॥

जुहुयात्कारणेनैव चतुराहुतिसङ्ख्यया ॥
तदावरणदेवानां पुरुषाणां द्वयन्द्वयम् ॥ १७ ॥

एका स्त्रीणां वाममार्गे शेषं पूर्ववदीरितम् ॥
सतीर्थं सपशुं दद्यान्निशायां भैरवं बलिम् ॥ १८ ॥

अथो तृतीयसंस्कारः सीमन्ताख्यः प्रकीर्तितः ॥
चतुर्थषष्ठाष्टमेषु मास्सु सन्मध्यमाधमः ॥ १९ ॥

ज्योतिश्शास्त्रोक्तदिवसे स्वकल्पोक्तेन वर्त्मना ॥
वामी तु देवतामन्त्रं सीमन्ते सुरुचा लिखेत् ॥ २० ॥

न्यासं कुर्यात्तदङ्गेषु तन्मन्त्रं रोगहारिणम् ॥
ततो न गच्छेत्तां भार्यां देवताशापभीतितः ॥ २१ ॥

कामेन वाथ मोहेन दुष्काले वा विधानतः ॥
अन्यायेन कृतः सङ्गः सीमन्तस्तदधोवहः ॥ २२ ॥

अथ तुर्यन्तु संस्कारं कुर्यात्स्त्रीशूद्रयोरपि ॥
जातकर्माभिधं विप्रः स्वकल्पोक्तेन वर्त्मना ॥ २३ ॥

कन्या जन्मनि विप्राणां शूद्रस्य सुतजन्मनि ॥
तूष्णीमेव क्रियां कुर्याद्विष्णुस्मरणपूर्वकम् ॥ २४ ॥

वाममार्गी न कुर्वीत मेधाजननसंस्कृतिम् ॥
किन्तु स्वर्णस्य लेखन्या विलिखेत्करणाग्रया ॥ २५ ॥

तालुदेशे मूलबीजं रसनायां तथा मनुम् ॥
देवतां तर्पयेत्पश्चादन्यत्कर्म तु दक्षवत् ॥ २६ ॥

अथ पञ्चमसंस्कारो नामकर्माह्वको ध्रुवम् ॥
सर्वेषामेवमुद्दिष्टः सूतकान्ते शुभे दिने ॥ २७ ॥

स्वकल्पोक्तविधानेन नामकर्म समाचरेत् ॥
तन्त्रेषु यानि चोक्तानि मात्राचक्राणि षोडश ॥ २८ ॥

विचार्य तानि कुर्वीत नाम यत्सफलं भवेत् ॥
न कृतं चेदत्र नाम तादृशश्चेद् गुरुस्तदा ॥ २९ ॥

पूर्णाभिषेके कुर्वीत तत्सबीजं निरूप्यते ॥
यस्मादक्षगुणैः सिद्धिर्विप्राणां सम्प्रजायते ॥ ३० ॥

ताराचक्रं प्रवक्ष्यामि बालानां मन्त्रसिद्धये ॥
अ आ हये इर्यमे च ई उ ऊ वह्निभे तथा ॥ ३१ ॥

ऋ ॠ ऌ ॡ च रोहिण्याम् ए मृगे शिवभे च ऐ ॥
ओ औ पुनर्वसौ पुष्ये ककारः सर्पभे खगौ ॥ ३२ ॥

पैत्रे घङौ भगर्क्षे च आर्यमर्क्षे छजौ मतौ ॥
हस्ते झञौ टठौ त्वाष्ट्रे स्वात्यां डो द्वीशभे ढणौ ॥ ३३ ॥

तथदा अनुराधायां ज्येष्ठायां धोऽथ मूलभे ॥
नपफाः पूर्वाषाढायां बकारो भस्तु वैश्वभे ॥ ३४ ॥

मः कर्णेथ धनिष्ठायां यरौ लः शततारके ॥
वशौ तु पूर्वभाद्रायां षसहाः स्युरुपान्तिमे ॥ ३५ ॥

लं क्षम् अम् अश्च रेवत्यां गण्या मन्त्राक्षरर्क्षतः ॥
साध्यनामादिवर्णर्क्षत्रिरावृत्त्या फलानि तु ॥ ३६ ॥

स्थाननाशः सतां सङ्गो बहुमैत्री मृतेः समम् ॥
आधिं वा व्याधिमाप्नोति साधकः कार्यसिद्धये ॥ ३७ ॥

बहुभिः शत्रुताक्षेपो विपत्तिः सम्पदात्ययः ॥
एतत्तु ताराचक्रस्य फलं ज्ञात्वाचरेदिदम् ॥ ३८ ॥

तारोक्तमातृकाभिर्भे ज्ञात्वा साधकसाध्ययोः ॥
स्त्रीपुंसोर्वा व्यस्तयोश्च गणचक्रं विचारयेत् ॥ ३९ ॥

स्थिराणि विमघोग्राणि रौद्रं नरगणः स्मृतः ॥
हर्यन्त्यमित्रादित्येन्दुवाय्यिज्यकरघोटकाः ॥ ४० ॥

देवाः शेषा राक्षसाः स्यूः साध्यसाधकयोः फलम् ॥
नृदेवयोः फलं शीघ्रं व्यस्तयोः कष्टतः फलम् ॥ ४१ ॥

नृदैत्ययोर्मनुग्राहाद्व्यस्तयोर्मरणं भवेत् ॥
देवदानवयोर्युद्धं व्यस्तयोर्निष्फलम्भवेत् ॥ ४२ ॥

ग्रहोपग्रहमन्त्रेषु शशिचक्रं विचारयेत् ॥
वेदा रामास्त्रयो युग्मं युग्मं युग्मं वदन्ति षट् ॥ ४३ ॥

षड्वर्गाश्च ततः षट्सु नामवर्णस्थलान्मनोः ॥
भवेद्यत्रादिगो वर्णः फलं तत्र भवेदिदम् ॥ ४४ ॥

इष्टो दासः पोषकश्च रोगकृत्पुत्रदः शुभः ॥
स्त्रीसौख्यकृद्वातकारी भाग्यदः कार्यसिद्धिकृत् ॥ ४५ ॥

लाभकृद्व्ययकृच्चेति प्रोक्ता यन्त्रेषु मातृकाः ॥
स्त्रीशूद्रप्रतिलोमानां नाममन्त्रैरुपासना ॥ ४६ ॥

पूर्वोक्ता राशयो ज्ञेया मीनाद्याश्च द्विजादयः ॥
वर्णोत्तमो मनुर्ग्राह्यो वैदिकोऽत्र विशेषतः ॥ ४७ ॥

वक्ष्येऽथ कौलिके मार्गे सिद्धिकृत्पाञ्चभौतिकम् ॥
वाय्वग्निभूजलाकाशपञ्चतत्त्वानि विन्यसेत् ॥ ४८ ॥

द्वौ द्वौ स्वरौ तले लेख्यौ यकाराद्यास्ततः पुनः ॥
कादिकाश्चापि षड्वर्गाः शषसा हश्च क्षस्तथा ॥ ४९ ॥

पुनः पुनर्नाम लेख्यं मन्त्राक्षरसमो मनुः ॥
तस्मात्पुनर्मनुर्लेख्यो युगपत्स्यात्समापनम् ॥ ५० ॥

यावत्तावल्लिखित्वाथ वर्णतत्त्वं विचारयेत् ॥
स्थाप्यं रूपं त्वेकतत्त्वे मित्रतत्त्वे च तद्वलम् ॥ ५१ ॥

उदासीने पादमेकं तद्योगः पञ्चभाजितः ॥
इष्टं स्यादथ कष्टं तु शत्रौ रूपं समे दलम् ॥ ५२ ॥

पादो मित्रे तु तद्वत्तु तत्कष्टं स्यात्कलात्मकम् ॥ ५३ ॥

इष्टेधिकेऽल्पकष्टे तु मन्त्रसाधनमाचरेत् ॥
कुर्वन्ति भूतवेतालाः पिशाचाश्चान्यथा मनुम् ॥ ५४ ॥

महीसलिलयोर्मैत्रमनलानिलयोरपि ॥
सामान्यमग्निभूम्योस्तु सलिलानिलयोस्तथा ॥ ५५ ॥

शात्रवं वैपरीत्येन चक्रं स्यात्पाञ्चभौतिकम् ॥
सिद्धादिचक्रं वक्ष्येऽहं यज्ज्ञात्वा नाम कारयेत् ॥ ५६ ॥

दक्षिणोपासनामार्गे स्वमन्त्रं स्वस्य देवताम् ॥
द्वादशारे तथा चक्रे कूटषण्ढविवर्जितान् ॥ ५७ ॥

आदिक्षान्ताल्लिṁखेद्वर्णान्पूर्वतो यावदीश्वरम् ॥
स्वनामाक्षरमारभ्य ज्ञेयो मन्त्राक्षरावधिः ॥ ५८ ॥

सिद्धः साध्यः सुसिद्धोऽरिर्विज्ञेयश्च पुनः पुनः ॥
सिद्धः सिध्यति कालेन साध्यः सिद्ध्यति वा न वा ॥ ५९ ॥

सुसिद्धग्रहणादेव रिपुमूलं निकृन्तति ॥
अथ वक्ष्ये महाविद्यासाधने सिद्धिमातृकाम् ॥ ६० ॥

मूलक्रमेण ज्ञेयानि तत्र कोष्ठानि षोडश ॥
क्रमादेतेषु कोष्ठेषु मातृकार्णान्सुविन्यसेत् ॥ ६१ ॥

कुत्रीष्वङ्कमहीन्द्वब्धिसूर्यदिक्षण्नृपा वृषाः ॥
पञ्चाङ्गतिथिविश्वे च कोष्ठास्तत्र प्रकीर्तिताः ॥ ६२ ॥

आदौ ज्ञेयाश्चतुष्केषु सिद्धाद्या विदिशासु च ॥
तत्तत्स्थानाप्तकोष्ठात्तु पूर्वाङ्गुल्या गुरूक्तितः ॥ ६३ ॥

सिद्धः सिद्धो जपात्सिद्ध्येत्सिद्धसाध्यो द्विसङ्गुणात् ॥
सिद्धः सुसिद्धसम्प्राप्तः सिद्धारिर्हन्ति गोत्रजान् ॥ ६४ ॥

साध्यसिद्धोऽतिसङ्क्लेशात्साध्यसाध्योऽतिदुःखकृत् ॥
साध्यः सुसिद्धो भजनात्साध्यारिः स्वाश्रयं हरेत् ॥ ६५ ॥

सुसिद्धसिद्धोर्धजपाद्बहुरूपाच्च तत्परः ॥
अतिद्रुतं द्विः सुसिद्धः सुसिद्धारिः कुलापहः ॥ ६६ ॥

अरिसिद्धस्सुतं हन्यादरिसाध्यस्तु कन्यकाम् ।
अरिः सुसिद्धः पत्नीघ्नोऽथार्यरिः साधकापहः ॥ ६७ ॥

अत्र प्रसिद्धं नाम स्यात्प्रयुक्तो येन जागृयात् ॥
यस्तु बीजात्मको मन्त्रस्तत्र षड्दलमातृकाः ॥ ६८ ॥

विज्ञेयास्तत्र पद्मं तु रचयेत्षड्दलं शुभम् ॥
तत्र न्यसेन्मातृकार्णान्कूटषण्ढविवर्जितान् ॥ ६९ ॥

स्वनामाद्यक्षरं यत्र तदारभ्य विचारयेत् ॥
सम्प्रद्दारिद्र्यधैर्याणि बन्धुविग्रहसंशयौ ॥ ७० ॥

सर्वनाशः क्रमादेव नामाद्यर्णैश्च कोष्ठतः ॥
कथं मन्त्रस्य सिद्धिस्स्यादेतदर्थमहं ब्रुवे ॥ ७१ ॥

धनर्णमातृकां खेषुषट्त्रीन्द्वब्ध्यङ्गषट्कृताः ॥
वक्ष्येऽत्र तु यथा लेख्या अङ्का एकादश स्वराः ॥ ७२ ॥

तत्तले काच्च ढाद्वाच्च लेख्या वर्णा हरोन्मिताः ॥
तदधोद्विकुसप्ताब्धिखत्रिसप्तेषुसागराः ॥ ७३ ॥

षट्पञ्च साधकस्याङ्का मन्त्राङ्काः पूर्वमीरिताः ॥
स्वरव्यञ्जनभिन्नानां मन्त्रार्णानां पृथक् पृथक् ॥ ७४ ॥

अङ्कयोगस्तथा कार्यः साधकस्य तु नामतः ॥
भागशेषावुभौ स्थाप्यौ यावन्नामाङ्कता मनोः ॥ ७५ ॥

अधिका स्यात्साधकस्य देयं मन्त्रस्स साधितः ॥
तावत्सङ्ख्यान्समायोगानसाध्यानपि साधयेत् ॥ ७६ ॥

हीनांश्च ग्रहयोगेन तथा ऋक्षोपपत्तितः ॥
पुरश्चर्यां पुनः कुर्यान्मन्त्रसन्दीप्तये पुनः ॥ ७७ ॥

ऋणी तु साधको ज्ञेयः साधकाङ्को यदाधिकः ॥
यावत्स्यादधिकस्तावत्सङ्ख्याङ्कानि यदा चरेत् ॥ ७८ ॥

पुरश्चरणसञ्ज्ञानि तदास्य समता भवेत् ॥
पुरश्चर्यां पुनः कृत्वा तदा स्यात्कार्यसाधकः ॥ ७९ ॥

एकस्मिन्साधिते कार्ये पुनर्याति स कुण्ठताम् ॥
तावज्जपं पुनः कृत्वा चैककार्यक्षमो भवेत् ॥
तत्त्वमत्र प्रकटितं सर्वतन्त्रेषु गोपितम् ॥ ८० ॥

योधयोर्विजयार्थं तु प्रसङ्गा मल्लमातृकाम् ॥
वक्ष्यामि तस्याश्चक्रे तु रचयेदेवमेव हि ॥ ८१ ॥

पञ्चपञ्चाग्निरामाग्निरसर्तूग्रमुखानि खम् ॥
भूश्चाथ पञ्च सṁल्लेख्यास्तदधः षण्ढवर्जिताः ॥ ८२ ॥

एकादशस्वराश्चान्त्यहीना लेख्याश्च तत्तले ॥
कचटाद्याṁल्लिखेद्वर्णान् ङञणाक्षरवर्जितान् ॥ ८३ ॥

नामाक्षराङ्कयोगस्तु द्वयोर्योगावशेषितः ॥
तुल्यतायां द्वयोर्योगः कार्यश्चाष्टावशेषितः ॥ ८४ ॥

स्ववेदर्तुशरागाग्निभूशेषेष्वग्रतो जयी ॥
समयोरुभयोरत्र मन्त्रं यन्त्रं बिना कलिः ॥ ८५ ॥

चौरमात्राम्प्रवक्ष्यामि विज्ञेयाधानचौरयोः ॥
षड्वेदत्रीषुसप्ताब्धिनगद्विरसखन्धराः ॥ ८६ ॥

ऊर्द्ध्वाङ्काः पूर्ववच्छेषमङ्कयोगोष्टशेषितः ॥
हीनस्य हानिराधिक्ये जयो गोप्यमिदं भराः ॥ ८७ ॥

राजमात्रां प्रवक्ष्यामि भूपयोर्विजयप्रदाम् ॥
वर्गाष्टकाङ्का वह्नीषुषड्वेदाङ्केन्दु वह्नयः ॥ ८८ ॥

द्वयोश्च भाजयेद्वर्णान्सप्ततष्टेऽधिके जयः ॥
तुल्यशेषे वर्गबलाद्वर्गैक्यप्राणवीर्यतः ॥ ८९ ॥

मातृकां कलहां वक्ष्ये कलहे विजयप्रदाम् ॥
वह्नीन्दुवेदयुग्मेन्दुरङ्काः पञ्च स्वराṁल्लिखेत् ॥ ९० ॥

कादीनां तदधो नामवर्णसङ्ख्या द्वयोस्तु या ॥
पञ्चभक्तेऽधिके शेषे जयो हीने पराजयः ॥ ९१ ॥

कामे रणे वा स्त्रीपुंसोर्जयदां मातृकां शृणु ॥
भूषट्पञ्चाग्निवेदाग्निद्विभूखेषु शराः कृताः ॥ ९२ ॥

त्रिद्विभूस्तदधो वर्णांल्लिखेत्कादीन्षुरेरितान् ॥
सङ्गृह्य नामवर्णाङ्कान्मात्राभेदक्रमोदितान् ॥ ९३ ॥

सप्ततष्टेधिके शेषे जयो हीने पराजयः ॥
समशेषे विवेकस्तु कुर्यात्प्राणाच्च वर्गतः ॥ ९४ ॥

सेनापतिजयार्थन्तु मात्रां शृण्वन्तु देवताः ॥
रसाग्निलोचनयुगा नागषड्गोऽब्धिवह्नयः ॥ ९५ ॥

खं भूश्च तदधो लेख्याः स्वरा अत्र पुरेरिताः ॥
आद्यास्तदङ्कयोगोत्र हीनेऽष्टाङ्केऽधिके जयः ॥ ९६ ॥

कादिहान्ताṁल्लिखेद्वर्णान् ङञषण्ढविवर्जितान् ॥
रसाग्निवेदयुग्माङ्गषट्कृताग्नीन्दुशून्यभूः ॥ ९७ ॥

विलिख्याङ्कानधो दूतगदिनोरङ्कसम्मितिः ॥
तष्टाष्टभिश्चेदधिका गदिनो जीवितम्भवेत् ॥ ९८ ॥

साम्ये पूर्ववदित्युक्ता एताः षोडश मातृकाः ॥
विद्यादेतद् गुरुमुखान्नामकर्म समाचरेत् ॥ ९९ ॥

अन्नप्राशनसंस्कारः षष्ठः सर्वजनीनकः ॥
स्वकल्पोक्तविधानेन शूद्रादीनाममन्त्रकः ॥ १०० ॥

पितरस्तत्र सṁय्युक्ता वाममार्गे तु भैरवाः ॥
अष्ट देवाश्च चक्रस्य पूजान्तेष्ववशेषितम् ॥ १०१ ॥

सतीर्थं सफलं दद्यान्मूलमन्त्रमुदीरयन् ॥
एवं कृतविधानस्य क्षुद्विपत्तिर्न जायते ॥ १०२ ॥

अथ सप्तमसंस्कारं चौडाख्यं शृणु पार्वति ॥
सर्वेषामेवमुद्दिष्टं बाल्यपातकनाशनम् ॥ १०३ ॥

बौद्धानां यवनानां च शिखात्र स्थाप्यते न च ॥
स्त्रीणामपि च कर्तव्यं सौभाग्यारोग्यवृद्धये ॥ १०४ ॥

वामे चडा तु कर्तव्या मन्त्रबीजसमाः कचाः ॥
तीर्थे क्षिप्त्वा खनेद् भूमौ विशेषो वामिनामिति ॥ १०५ ॥

अथाष्टमं तु संस्कारं मौञ्जीबन्धमहं ब्रुवे ॥
गुरोः समीपे नयनं तच्चोपनयनं स्मृतम् ॥ १०६ ॥

स्वकल्पोक्तविधानेन तत्कुर्याद्ब्रह्मवर्चसम् ॥
वामाचारौर्द्विजैः पूर्वं कर्तव्यं कुलदीक्षणम् ॥ १०७ ॥

पश्चाद्दीक्षा तु सावित्र्या व्यत्यासात्पतितो भवेत् ॥
दीक्षा तु लघुदैवत्या प्राक्पश्चान्महतस्तथा ॥ १०८ ॥

बृहद्दैवतमन्त्रे तु सिद्धे क्षुद्राः स्वयं वशाः ॥
तेषां ग्राह्या मन्त्रदीक्षा पुरश्चर्यां समारभेत् ॥ १०९ ॥

प्रयोगांश्चापि कुर्वीत न चेष्टस्य कदाचन ॥
सच्छिष्यं वा सुपुत्रं वा विनेष्टं दापयेन्न च ॥ ११० ॥

लोभाद्भयाद्वा यो दद्यादन्यस्मै सिद्धमन्त्रकम् ॥
शिष्यस्य जायते सिद्धिर्गुरोः शापः प्रजायते ॥ १११ ॥

यस्या यस्या देवतायाः प्रसक्तिर्यत्रयत्र च ॥
तत्तन्मार्गे प्रसक्ता सा स्वविद्या राजवद्भवेत् ॥ ११२ ॥

तन्त्राण्यष्टोत्तरशतं मया प्रोक्तानि पार्वति ॥
येनयेन तु यत्पृष्टं तस्याधिक्यं तु वर्णितम् ॥ ११३ ॥

निष्पक्षपातं वक्ष्यामि मेरुतन्त्रे यथार्थतः ॥
सर्वेभ्यो वैदिकं श्रेष्ठं ततश्च स्मार्तमुत्तमम् ॥ ११४ ॥

ततस्तन्त्रं तु तत्रापि सहिता अर्णवास्ततः ॥
यामलास्तत्सङ्गमाच्च मन्त्रीशानी च ताण्डवम् ॥ ११५ ॥

इन्द्रजालं कक्षपुटी बौद्धं जैनं च शाबरम् ॥
क्रमादपचितं ज्ञेयं यथायोग्येन मुख्यता ॥ ११६ ॥

नीचे ह्युपास्ये पातः स्यान्नीच उच्चात्पतेद्ध्रुवम् ॥
ज्ञानं दद्याच्च सर्वस्मै स्वाञ्चारात्कर्म कुर्वते ॥ ११७ ॥

संस्कारं दशमं विद्यात्प्राजापत्यव्रताभिधम् ॥
स्वकल्पोक्तेन मार्गेण वैदिकस्तान्त्रिकः पुनः ॥ ११८ ॥

एतद्व्रतस्य संस्कारे गाणपत्यो मनुः स्मृतः ॥
वक्रतुण्डादिका दक्षे उच्छिष्टाद्यास्तु वामके ॥ ११९ ॥

संस्कारं दशमं सौम्यं व्रतं वैदिकमाचरेत् ॥
स्वकल्पोक्तेन मार्गेण तत्स्थाने तान्त्रिकः पुनः ॥ १२० ॥

गृह्णीयाद्भैरवं मन्त्रं बटुकाख्यस्य वामके ॥
कालभैरवभेदस्य यस्य कस्यापि दक्षिणे ॥ १२१ ॥

पुरश्चर्योपासकानां नाशको भैरवो यतः ॥
दरिद्रैः साधकैर्ग्राह्यः स्वर्णाकर्षणभैरवः ॥ १२२ ॥

एकादशं तु संस्कारमाग्नेयाख्यं व्रतं द्विजः ॥
कुर्याद्गृह्योक्तमार्गेण तस्मिन्स्थाने तु तान्त्रिकः ॥ १२३ ॥

गृह्णीयादङ्गदेवानां मन्त्रानादौ गुरोर्मुखात् ॥
पूजादिमन्त्रांस्तच्छिक्षां तद्द्रव्यनियमांस्तथा ॥ १२४ ॥

द्वादशं चापि संस्कारं वैश्वदेवव्रताभिधम् ॥
तस्मिन् स्थाने भवेद्दीक्षा स्वेष्टमन्त्रे तु तान्त्रिके ॥ १२५ ॥

त्रयोदशं तु संस्कारं गोदानाख्यं प्रकीर्तितम् ॥
तत्स्थाने तान्त्रिकः कुर्यात्सर्वपापविमोक्षणम् ॥ १२६ ॥

सत्स्थले तु समासीन आदर्शं वा घटोदकम् ॥
संस्थाप्याग्रे सत्यवाचा ततः सम्प्रार्थयेदिति ॥ १२७ ॥

पुरश्चरणकामोहं पापं क्षपितुमुद्यतः ॥
आपराह्णं जपं कुर्वे देवताः सन्तु साक्षिणः ॥ १२८ ॥

पृथिव्यप्तेज आकाशवायुसूर्येन्दुभानि च ॥
यावच्छरीरे पापानि तिष्ठन्ति मम देवताः ॥ १२९ ॥

तावच्च प्रतिबिम्बो मे मिलनो भातु पातकैः ॥
शान्ते पारदमध्ये च यथा सन्दृश्यतां तथा ॥ १३० ॥

शुद्धः सच्चिन्मयो भूत्वां चिन्तयन्पापपूरुषम् ॥
दक्षकुक्षिस्थितं कृष्णमङ्गुष्ठपरिमाणकम् ॥ १३१ ॥

विप्रहत्याशिरोयुक्तं कनकस्तेयबाहुकम् ॥
मदिरापानहृदयं गुरुतल्पकटीयुतम् ॥ १३२ ॥

पापसṁय्योगपद्द्वन्द्वमुपपातकरोमकम् ॥
दद्रूचर्मधरं दुष्टमधोवक्त्रं सुदुस्सहम् ॥ १३३ ॥

एवं सञ्चिन्तयित्वाथ जपं कुर्वन्विचिन्तयेत् ॥
क्षीयमाणं पापनरं जपान्ते प्रेक्षयेत्पुनः ॥ १३४ ॥

आदर्शादि यदा स्वच्छं सर्वच्छाया प्रदृश्यते ॥
तदा तु निर्गतं पापं पुरश्चरणयोग्यता ॥ १३५ ॥

चतुर्दशस्तु संस्कारः समावर्तनमुच्यते ॥
तस्य स्थाने पुरश्चर्या कर्तव्या तान्त्रिकैर्जनैः ॥ १३६ ॥

आदौ सङ्क्षेपपूजां तु दिने कृत्वा तु कौलिकः ॥
आसायं तु जपं कुर्याच्चक्रपूजां तथा निशि ॥ १३७ ॥

शक्तिभिः सहितः पञ्चमकारादिसमन्वितः ॥
एवं सिद्धिमवाप्नोति नान्यथा जपकोटिभिः ॥ १३८ ॥

विवाहः पञ्चदशमः सर्वेषां संविधीयते ॥
विधवाया विवाहन्तु पिप्पलेनैव कारयेत् ॥ १३९ ॥

सर्वपापविनिर्मुक्ता सा तु विष्णुपदं व्रजेत् ॥
अब्राह्मणी च चेत्कुर्यादन्यमेकं तथा पतिम् ॥ १४० ॥

षोडशः पितृमेधाख्यः स्वगृह्योक्तेन वर्त्मना ॥
वैदिकस्तान्त्रिकस्तत्र देवस्थाने स्वदेवताम् ॥ १४१ ॥

स्थापयित्वाचरेच्छ्राद्धं ब्राह्मणा मृतपन्थिनः ॥
अथवा यजमानस्य मार्गस्थस्तदभावतः ॥ १४२ ॥

आमश्राद्धं प्रकुर्वीत वामी तु पलपैतृकम् ॥
शक्तियुक्ता द्विजाः कौलमार्गाश्चक्रार्चने मताः ॥ १४३ ॥

वर्जयेत्तुलसीन्तत्र भृङ्गराजेन पूजयेत् ॥
पाकः कौलिकवस्तूनां पिण्डाश्च रुधिरोक्षिताः ॥ १४४ ॥

एतैः षोडशसंस्कारैः संस्कृतः साधकोत्तमः ॥
जीवन्मुक्तस्तदा ज्ञेयः सामर्थ्ये देवतासमः ॥ १४५ ॥

अथ षोडश वक्ष्येहं संस्कारान्मन्त्रसंस्थितान् ॥
शापैर्मन्त्रा विमुच्यन्ते यान्कृत्वा देवनिर्मितैः ॥ १४६ ॥

अथादौ सर्वमन्त्राणां जागृतिः प्रोच्यते मया ॥
गुरुणा सा प्रकर्तव्या शिष्यस्य सिद्धिहेतवे ॥ १४७ ॥

ताराग्निबीजं विजपेद्यस्मिन्नाग्नेयकस्स तु ॥
अन्यः सौम्यः स्वापकाल इडायामग्निरूपिणः ॥ १४८ ॥

सौम्यस्य पिङ्गलायां स्यात्तयोरन्यत्र जागृतिः ॥
प्रबोधकाले सञ्जप्तो जागृतो जायते मनुः ॥ १४९ ॥

अथवा सम्पुटीकृत्य लान्तानाद्यान्सबिन्दुकान् ॥
पुनश्च सविसर्गांस्तांस्त्रिकालं केवलं जपेत् ॥ १५० ॥

एवं जप्तो यदीष्टश्च प्रबुद्धः शीघ्रसिद्धिदः ॥
अथ शाबरमन्त्राणां जागृतिं शृणु पार्वति ॥ १५१ ॥

कांस्यभाजनमानीय शुद्धं भस्मादिभिः कृतम् ॥
प्रजपेद्रविरात्रौ तु यामेयामे शताष्टकम् ॥ १५२ ॥

खादिर्या ताडयेद्यष्ट्या कांस्यपात्रं वदेदिति ॥
जागृतो बव मन्त्र त्वं भाषयाथ तुरीयके ॥ १५३ ॥

यामे दद्याद्बलिं कांस्ये मण्डजं भैरवस्य नु ॥
कुक्कुटं चान्यदेवेषु स्फोटयेन्नारिकेलकम् ॥ १५४ ॥

सुरया सुधया पूर्वदेवा देवा विमोहिताः ॥
यदा तदा तु भगवान्प्रोवाच मधुसूदनः ॥ १५५ ॥

कः पूज्यो भवतां मध्ये कः श्रेष्ठस्तन्निगद्यताम् ॥
उन्मत्तास्तु तदा देवाः श्रेष्ठोहमिति चाब्रुवन् ॥ १५६ ॥

किञ्चित्स्मित्वा तु भगवान्मोहयन्नात्ममायया ॥
इत्यवोचद्यस्य वाक्यं शापे चानुग्रहे क्षमम् ॥ १५७ ॥

स एव देवश्रेष्ठोत्र पूर्वो वाप्यपरोथ वा ॥
इति श्रुत्वा वचो विष्णोः शेपुश्चैव परस्परम् ॥ १५८ ॥

मन्त्ररूपाण्यतो देवि संस्कारैः शापमोक्षणम् ॥
बिना तु शापमोक्षेण कः सिद्धिं प्राप्नुयाज्जनः ॥ १५९ ॥

श्रीदेव्युवाच ॥

शापः केन कथं दत्तः शप्ते जप्ते च किं फलम् ॥
निश्शापत्वं कथं तेषु सिद्धिः स्यादिति मे वद ॥ १६० ॥

ईश्वर उवाच ॥

आदिमध्यावसानेषु वायुर्यस्य व्यवस्थितः ॥
चतुराद्यश्चैकबीजो निधायैकत्र सङ्गमः ॥ १६१ ॥

केनापि च समाक्रान्तो जप्तो मन्त्रश्च येन वै ॥
कार्तिकेयस्य शापात्तु च्छिद्यन्तेऽस्य मनोरथाः ॥ १६२ ॥

आदौ मध्येऽवसाने वा भूबीजयुगलं भवेत् ॥
आदौ यद्वा द्विधा वज्री त्रिधा मध्यं द्विधा ॥ १६३ ॥

रुद्धौ शुक्रस्य शापेन भुक्तिमुक्तिविवर्जितौ ॥
जातौ मन्त्रौ वामदक्षमार्गयोरपि विश्रुतौ ॥ १६४ ॥

ह्रीं सौम्प्रेंश्रींष्वकतमं यत्र बीजं न दृश्यते ॥
हुङ्कारो वा स मन्त्रस्तु शक्तिहीनः कृतः सुरैः ॥ १६५ ॥

एतादृशश्च सञ्जप्तः सामर्थ्यं हन्ति मन्त्रिणः ॥
शक्तिहीनस्य वामस्य मरणन्नात्र संशयः ॥ १६६ ॥

नादौ ह्रीं न च मध्ये क्लीं क्रोऽन्ते वा न प्रदृश्यते ॥
असौ पराङ्मुखो मन्त्रो जातः सूर्यस्य शापतः ॥ १६७ ॥

पराङ्मुखं भजन्मन्त्रं देवता स्यात्पराङ्मुखी ॥
दैवात्कार्येपि संसिद्धिर्लोकः स्याच्च पराङ्मुखः ॥ १६८ ॥

आदावन्ते तथा मध्ये हं वा सं वा न दृश्यते ॥
बधिरास्ते कृता मन्त्रा देवाचार्येण शापिताः ॥ १६९ ॥

जप्ते तु बधिरे मन्त्रे विस्मृतिस्तस्य जायते ॥
जायते बधिरो नूनं महाकालेन भाषितम् ॥ १७० ॥

सूर्यबीजं हकारः स्याच्चन्द्रबीजं तु सः स्मृतः ॥
रेफोऽग्निबीजमुद्दिष्ट मे-ए-न्नेत्त्रत्रयं मम ॥ १७१ ॥

पञ्चाक्षरे यत्र मन्त्रे यत्रैकोपि च नास्ति चेत् ॥
मम शापान्नेत्रहीनो दुःखशोकामयप्रदः ॥ १७२ ॥

नादौ मध्ये न चान्ते वा ह्सौं वा हम्स वाथ हौम् ॥
एṁ वा श्रूं वाथवा ह्रूं वा नमो वा ह्रीं मनुः स तु ॥ १७३ ॥

शापेन कीलितो मन्त्रो देवराजेन पार्वति ॥
जप्तस्तु कीलितो मन्त्रो न सिद्धिमधिगच्छति ॥ १७४ ॥

मध्य एको रकारो वा फडान्ते लद्वयं यदि ॥
फड्द्वयं वा लत्रयं वा न चेत्संस्तम्भितो मनुः ॥ १७५ ॥

शापेन नो भैरवस्य सिद्धिर्भवति शोभना ॥
कदापि नैव दुःखं च प्रायशो बहुलं भवेत् ॥ १७६ ॥

आदौ तु यस्य मन्त्रस्य क्रमात्सप्ताक्षराणि चेत् ॥
रेफेण वा यकारेण सṁय्युक्तानि मनुस्स तु ॥ १७७ ॥

वाय्वग्निशापसन्दग्धः साधकं परितापयेत् ॥
तस्मात्संस्कारयेद्देवि सिद्धये साधकोत्तमः ॥ १७८ ॥

द्वाभ्यां त्रिभिरथो षड्भिरष्टभिर्वा प्रदृश्यते ॥
यदक्षरैरन्तरितः फट्कारः स निगद्यते ॥ १७९ ॥

नारसिंहस्य शापेन त्रस्तः सन्त्रासयेत्सदा ॥
स्वप्नादौ साधको नैव सिद्धः सन्दृश्यते क्वचित् ॥ १८० ॥

ॐ वा हं वा सकारो वा नाभौ भीतो मनुः स तु ॥
ब्रह्मशापाद्धीनसिद्धिर्भवेदत्यन्तकष्टदः ॥ १८१ ॥

आदिमध्यावसानेषु मिलित्वा मञ्चतुष्टयम् ॥
स मन्त्रो मलिनो मायाशापान्मालिन्यकारकः ॥ १८२ ॥

हुञ्चादौ मन्त्रमध्ये वा वान्ते फड्युगलम्भवेत् ॥
तिरस्कृतो रुद्रशापात्साध्यं कुर्यात्तिरस्कृतम् ॥ १८३ ॥

आदौ तारद्वयं चान्ते वषड्वात्र वरानने ॥
कुटुम्बकलहं कुर्याद्बालाशापेन भेदितः ॥ १८४ ॥

हकारेण सकारेण रहितस्त्र्यक्षरस्तु यः ॥
सुषुप्तः सिंहशापेन प्रोक्तोभीष्ट फलापहः ॥ १८५ ॥

अष्टादशाक्षरो योत्र पञ्चफट्कारपूर्वकः ॥
चामुण्डाशापतो जातो मदोन्मत्तो न शोभनः ॥ १८६ ॥

मध्ये चेत्पञ्च फट्काराः कालिकाशापतः स तु ॥
मूर्च्छितो मूर्च्छितं कुर्याद्वामिनं तु विशेषतः ॥ १८७ ॥

एवं मन्त्रे च फट्काराः पञ्चान्ते स तु रम्भया ॥
हतवीर्यस्तु शापेन कृतः क्षीणत्वकारकः ॥ १८८ ॥

चत्वारो यत्र फट्कारा आदिमध्यावसानिकाः ॥
अष्टादशाक्षरो हीनो हानिर्भैरवशापतः ॥ १८९ ॥

एकोनविंशद्वर्णश्चेत्क्रीङ्क्रोमोङ्कारसṁय्युतः ॥
प्रध्वस्तः कामशापेन ध्वंसयेत्कामकारणात् ॥ १९० ॥

सप्तवर्णो मनुर्बालः कुमारोष्टाक्षरः स्मृतः ॥
षोडशार्णस्तु तरुणः प्रौढो व्योमाब्धिवर्णकः ॥ १९१ ॥

त्रिंशत्कलाः शतं वेदकाष्ठावर्णास्तु यत्र च ॥
सकृद्धि एते कालेन शप्ता दुःखानि कुर्वते ॥ १९२ ॥

नवार्ण ओङ्कारयुतश्चामुण्डाशापतो मनुः ॥
निर्बीज इति संशप्तो नित्यं नैराश्यकारकः ॥ १९३ ॥

निस्त्रिंशः साधकं छिन्द्यान्निस्त्रिंशेन न संशयः ॥
अन्ते नमो वा स्वाहा वा नास्ति वा यस्य मध्यमः ॥ १९४ ॥

वषड्वौषट् च हुम्फडा प्रोक्तो नैवास्त्यसौ मनुः ॥
सेवां कुर्वल्लṁभेद्देशनाशं वर्षत्रयादितः ॥ १९५ ॥

आदिमध्यावसानेषु फट्काराः सन्ति यस्य तु ॥
कौमार्यास्तु स शापेन सिद्धिहीनो न सिद्धिकृत् ॥ १९६ ॥

दशाक्षरस्तु यो मन्त्रः स गणेशस्य शापतः ॥
मन्दो जप्तस्तु मूर्खत्वं कुर्याज्जन्मनिजन्मनि ॥ १९७ ॥

आदौ व्यञ्जनसंय्योग एक एव स्वरो भवेत् ॥
तत्कूटं कूटतो हानिर्मातङ्ग्याः शापतः स्मृता ॥ १९८ ॥

द्विवर्णः सत्त्वहीनः स्यादाश्विनेयस्य शापतः ॥
नाशयेत्साधकबलं राज्ञः सेनां विनाशयेत् ॥ १९९ ॥

चतुर्वर्णः केकरस्तु जातः सर्पारिशापतः ॥
जपित्वा केकरं मन्त्रं चक्षुषा नैव पश्यति ॥ २०० ॥

षडक्षरा बीजहीना जाता रावणशापतः ॥
तज्जपाद्वंशवृद्धिर्न चान्यथा स्त्रीसुखं नहि ॥ २०१ ॥

सार्धत्रिसप्तसूर्याणां धूमावत्याः स शापतः ॥
तज्जपे व्याकुलं चित्तं जायते साधकस्य तु ॥ २०२ ॥

विंशत्तथैकविंशच्च त्रिशद्वर्णस्तु तारया ॥
शप्त आलिङ्गितेनायं जपात्सत्वरतो मृतिः ॥ २०३ ॥

द्वाविंशत्यक्षरो मन्त्रः सरस्वत्यास्तु शापतः ॥
मोहितः साधकं कुर्यात्पानादिव्यसनाकुलम् ॥ २०४ ॥

मन्त्रो वराननेयस्तु चतुर्विंशतिवर्णकः ॥
क्षुधार्तो राजमातङ्ग्याः शापाद्दारिद्र्यकारकः ॥ २०५ ॥

त्रयोविंशाक्षरो रुद्रवर्णः कौलिकशापतः ॥
मन्त्रो दृप्तस्तु तेनैव मन्दता जायते नृणाम् ॥ २०६ ॥

षड्विंशदेकोनत्रिंशत्त्रिंशत्षड्विंशदक्षरः ॥
पूष्णः शापादङ्गहीनः कामनापूरको नहि ॥ २०७ ॥

अष्टाविंशदेकत्रिंशद्वर्णो नन्दीशशापतः ॥
अतिक्रूरः साध्यनाशं कृत्वा नश्येच्च साधकः ॥ २०८ ॥

अष्टत्रिंशाक्षरो मन्त्रो मातृकाणां च शापतः ॥
अतिक्रुद्धस्तज्जपेन स्वकृते स्वस्य सङ्क्षयः ॥ २०९ ॥

चत्वारिंशत्समारभ्य त्रिषष्टिर्यावदक्षरम् ॥
सव्रीडामातृकाशापात्सव्रीडास्तस्य साधकाः ॥ २१० ॥

पञ्चषष्ट्यक्षरा येस्युर्मन्त्रास्ते शान्तमानसाः ॥
कामशापेन तज्जापादुद्योगस्य फलं नहि ॥
धात्रीधृतिद्विधृत्यङ्काङ्गाङ्कयुग्मद्विगोकराः ॥
शतत्रयं यत्र वर्णाः शापिताश्छिन्नमस्तया ॥ २११ ॥

यूयं भवन्तु निःस्नेहाः साधकानां भयावहाः ॥
निष्कामैर्या जिभिर्जप्ता संसारस्नेहनाशनाः ॥ २१२ ॥

चतुश्शतान्यथारभ्य यावद्वर्णसहस्रकम् ॥
अतिवृद्धा यज्ञशापात्पौष्टिकादिषु वर्जिताः ॥ २१३ ॥

सहस्रार्णाधिका मन्त्रा दण्डनेतुस्तु शापतः ॥
दण्डकाख्याः पीडिताश्च तज्जपात्कष्टमाप्नुयात् ॥ २१४ ॥

द्विसहस्राधिका मन्त्रा भार्गवस्य तु शापतः ॥
खण्डीकृतास्सप्तधा ते सिद्धिखण्डकराः स्मृताः ॥ २१५ ॥

अन्यच्छृण्वन्तु भो देवा मुनीनां जपतां यदा ॥
सिद्धिर्न जाता तु तदा दत्तः शापः सुदारुणः ॥ २१६ ॥

आश्वासनं देवतानां जातं सिद्धेरकारणात् ॥
उपदेशे गुरुः कुर्यात्तस्मात्तन्मन्त्रशोधनम् ॥ २१७ ॥

तत्प्रकारं प्रवक्ष्यामि शृण्वन्तु सकलाः सुराः ॥
गुरुः सिद्धासनस्थश्च 1 गुदमेढ्रान्तरं दृढम् ॥ २१८ ॥

वामेन पार्ष्णिनापीड्य तस्योपरि तु विन्यसेत् ॥
पादं तु दक्षिणं गुल्फग्रन्थ्योरन्योन्यमर्दनम् ॥ २१९ ॥

यथा स्यात्तत्प्रकर्तव्यं ततो दक्षिणपार्ष्णिना ॥
लिङ्गमूलं विनिष्पीड्य स्थिरकाय उपाविशेत् ॥ २२० ॥

गुदमाकुञ्च्य पवनमपानाख्यं तदा गुरुः ॥
उत्थापयेत्ततः प्राणान्वायुं सम्यङ्निरोधयन् ॥ २२१ ॥

अपानप्राणयोः कुर्यात्संहतिं चैकदृङ्मनाः ॥
मूलाधारे चित्स्वरूपे कुण्डल्यां परमात्मनि ॥ २२२ ॥

जातदोषं स्वस्य मन्त्रं चिन्तयेत्तन्त्र सद्गुरुः ॥
तस्य मन्त्रस्याक्षराणि क्रमादेकैकशस्ततः ॥ २२३ ॥

सुषुम्णायास्तु मार्गेण मूलाधारे प्रवेशयेत् ॥
स्वाधिष्ठाने ततश्चक्रे मणिपूरे त्वनाहते ॥ २२४ ॥

विशुद्ध आज्ञाचक्रे च भित्त्वाभित्त्वा प्रवेशयेत् ॥
एवं नीत्वा ब्रह्मरन्ध्रं सोमस्य मण्डलामृतात् ॥ २२५ ॥

संसिक्तान्मन्त्रवर्णांस्तु सुधीः सम्यग्विभावयेत् ॥
ततस्तन्मन्त्रमृष्यादिन्यासपूर्वं जपेत्ततः ॥ २२६ ॥

अष्टोत्तरसहस्रं तु तेन शुद्धो भवेन्मनुः ॥
उक्तशापाद्विनिर्मुक्तं पश्चादुपदिशेच्च तम् ॥ २२७ ॥

आशीर्वादफलं स्तोकं पूर्वपापादिजं फलम् ॥
वाचिकानां तु शापानां नाशाद्यर्थमथोच्यते ॥ २२८ ॥

श्रीपर्ण्या वा चन्दनस्य पीठे चूतादिकस्य वा ॥
कस्तूरीकुङ्कुमाद्यैश्च विलिखेत्पाञ्चभौतिकम् ॥ २२९ ॥

चक्रमावाहयेत्तत्र मातृकाख्यां सरस्वतीम् ॥
यथोक्तविधिना पूजां कृत्वा चाष्टोत्तरं शतम् ॥ २३० ॥

जपित्वा मातृकां तस्या मध्यात्स्वाभीष्टमन्त्रकम् ॥
स्वरव्यञ्जनबिन्दूंश्च सर्गयोग्याक्षराणि च ॥ २३१ ॥

पृथक्पृथगथोद्दृत्य चैकीकृत्य गुरूक्तितः ॥
गृहीतं जनयेन्मन्त्रं प्रोक्तं सञ्जननं त्विदम् ॥ २३२ ॥

आद्यन्ते प्रणवं कृत्वा प्रणवान्तरितं जपेत् ॥
अष्टोत्तरशतं मन्त्रवर्णानेतत्तु जीवनम् ॥ २३३ ॥

रोचनाकुङ्कुमाभ्यां तु भूर्जपत्रे लिखेन्मुनम् ॥
प्रत्यक्षरं शतावृत्या ताडयेच्चन्दनाम्भसा ॥ २३४ ॥

समुच्चरन्वायुबीजमेतत्ताडनमुच्यते ॥
कुण्ठिताः शाबरा मन्त्रास्ताडिताः सिद्धिकारकाः ॥ २३५ ॥

पूर्वोक्तपीठे सṁल्लिख्य तन्मन्त्राक्षरसङ्ख्यया ॥
आदाय करवीरस्य पुष्पाण्यथ समुच्चरेत् ॥ २३६ ॥

प्रत्यक्षरं च तैः पुष्पैः शतवारं हनेदिति ॥
उच्चरन्वह्निबीजं च बोधनं त्वेतदुच्यते ॥ २३७ ॥

प्राग्वत्पीठे च तैर्द्रव्यैः पद्ममष्टदलं लिखेत् ॥
तत्कर्णिकायां मालत्या लिखेत्कलिकयैकया ॥ २३८ ॥

एकैकार्णन्तु मन्त्रस्य तन्मन्त्राक्षरसङ्ख्यया ॥
बोधिद्रुपल्लवांश्चैव गृहीत्वा मन्त्रमुच्चरेत् ॥ २३९ ॥

अभिषिञ्चाम्यमुं मन्त्रं नम इत्यभिषेचयेत् ॥
नानासुगन्धिनोपेतपल्लवैर्यावदक्षरम् ॥ २४० ॥

एकमष्टोत्तरशतमभिषेकस्त्वयं मतः ॥
अभिषेको मन्त्रशुद्धिं कुर्यान्नॄणां यथा जलम् ॥ २४१ ॥

ज्योतिर्मन्त्रश्चिन्तनीयो मूलाधारेग्निमण्डले ॥
संस्कर्तव्यं मनोस्तस्य दाग्ध्यमेवं विभावयेत् ॥ २४२ ॥

आननाख्यः साहजिक आगन्तुः कार्मणः स्मृतः ॥
योगाख्यो मायिकः प्रोक्तस्तन्मन्त्रे तु मलत्रयम् ॥ २४३ ॥

ज्योतिर्मन्त्रेण निर्दग्धमेकमेकं विचिन्तयेत् ॥
एवं तु विमलो जातः स्वमन्त्र इति चिन्तयेत् ॥ २४४ ॥

ज्योतिर्मन्त्रस्तु वेदादिहौमिति 2 द्व्यक्षरो मतः ॥
विमलीकरणं त्वेतत्प्रयोगं चापि कारयेत् ॥ २४५ ॥

प्राग्वत्पीठे कुङ्कुमादिद्रव्यैर्मन्त्रं विलेखयेत् ॥
ताम्रादिपात्रे कर्पूरवासितेन जलेन च ॥ २४६ ॥

शुद्धेनापूर्य विलिखेन्मन्त्रेणाष्टोत्तरं शतम् ॥
अभिमन्त्र्य जलं तेन मन्त्रेण कुशबिन्दुभिः ॥ २४७ ॥

प्रत्यक्षरं प्रोक्षयेत्त्रिरेतदाप्यायनं स्मृतम् ॥
पुरश्चर्याक्लेशितानां समावर्तनवत्त्विदम् ॥ २४८ ॥

कस्तूर्याद्यैस्ताम्रपात्रे मध्ये मन्त्रं विलेखयेत् ॥
पात्रान्तरे च कर्पूरगुटिकावासितं जलम् ॥ २४९ ॥

गृहीत्वा चार्घ्यपात्रेण पठन्मन्त्रमिमं मनुम् ॥
तर्पयामि नमोन्तेन तर्पयेदिति तर्पणम् ॥ २५० ॥

ॐ ह्रीं श्रीं पूर्वकं मन्त्रं जपेदष्टोत्तरं शतम् ॥
जपेदेतद्दीपनं स्यात्सर्वमन्त्रेष्वपीष्यते ॥ २५१ ॥

जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् ॥
संस्कारा दश सम्प्रोक्ताः सर्वतन्त्रेषु गोपिताः ॥ २५२ ॥

एवमेकादश प्रोक्ताः संस्कारा दश पञ्च च ॥
प्रतिमन्त्रं वक्ष्यमाणा जपो होमश्च तर्पणम् ॥ २५३ ॥

मार्जनं भोजनं चापि द्विजानामिति षोडश ॥
प्रोक्ता मन्त्रस्य संस्काराः किमन्यच्छ्रोतुमिच्छसि ॥ २५४ ॥

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते संस्कारप्रकाशो द्वितीयः ॥ २ ॥


  1. तल्लक्षणं शिवसंहितायाम् ।
    योनिं सम्पीड्य यत्नेन पादमूलेन साधकः ॥
    मेढ्रोपरि पादमूलं विन्यसेद्योगवित्सदा ॥
    ऊर्ध्वं निरीक्ष्य भ्रूमध्यं निश्चल सṁय्यतेन्द्रियः ॥
    विशेषोऽवक्रकायश्च रहस्युद्वेगवर्जितः ॥
    एतत्सिद्धासनं ज्ञेयं सिद्धानां सिद्धिदायकम् ॥ ↩︎

  2. ॐकारो वेदादिरुच्यते ↩︎