अथ मेरुतन्त्रं प्रारभ्यते ।
ययाऽसत्सदिवाभाति न च भाति कदापि सत् ।
यस्मिञ्ज्ञाते न सा भाति तस्यै तस्मै नमोनमः ॥ १ ॥
जलन्धरेण विजिते सुरासुरनरेऽखिले ।
सुक्ष्मरूपेण ते सर्वे महेशं शरणं गतः ॥ २ ॥
दिव्यन्यब्दसहस्राणि समाधिस्थं विलोक्य तम् ।
प्रार्थिता चार्चिता तैस्तु वामदक्षिणमार्गिभिः ॥ ३ ॥
अम्बा तदा बोधयुता नत्वा तं संव्यजिज्ञपत् ।
ध्यायन्ति विधिहर्याद्यास्त्वां त्वं ध्यायसि कं पुनः ॥ ४ ॥
मां वदन्ति परां शक्तिं त्वां वदन्ति परं शिवम् ।
आवयोरपि किं ध्येयं तत्त्वं मे कृपया वद ॥ ५ ॥
इति श्रुत्वा वचस्तस्वाः स्मित्वा किञ्चिन्महेश्वरः ।
उपवेश्य विधीन्द्रादीन्वाक्यमेतदुवाचह ॥ ६ ॥
सदाशिव उवाच ।
नराणां परमं वृद्धेरयुस्सौर्यश्शतं समाः ।
तदब्दं देवयोनीनां दिनमायुश्च तच्छतम् ॥ ७ ॥
वृद्ध्यते परमं तस्य मानं कलियुगस्य तत् ।
धर्मार्धं सार्धं सम्पूर्णं धर्मशास्त्र प्रमणतः ॥ ८ ॥
इदन्तु शैविविहतमैन्द्रायुर्मानवम्परम् ।
कृतिप्रमाणमब्दं तु समयः कायपूरकः ॥ ९ ॥
चतुर्दशेन्द्रसंस्थैव ब्रह्मणो दिनमुच्यते ।
या ध्यायते महामाया मया तच्छ्वासनिर्गमः ॥ १० ॥
प्रपञ्चो ब्रह्मदिवसः कुम्भको रात्रिरस्य तु ।
एवं तस्या घटिकया वर्षमेकं विधेस्स्मृतम् ॥ ११ ॥
घटिशतमितं तस्या ब्रह्मा जीवति कीटवत् ।
पक्षमेकं सतीरुपं शुक्लं कृष्णं तु पार्वती ॥ १२ ॥
ऋतुमात्रं हरिर्जिवेद्वर्षमत्रमहं शिवः ।
एव सा शतवर्षा वै महाकालस्य गेहिनी ॥ १३ ॥
सर्पकञ्चुकवद्देहं त्यक्त्वात्यक्त्वा पुनर्युवा ।
महाकालस्सदा तिष्ठेत् समया विषयीकृतः ॥ १४ ॥
एवं श्रुत्वा वचस्तस्य देवी ब्रह्मा हरिः सुराः ।
अहङ्कारस्य विलयं कृत्वा भीता नताः पुनः ॥ १५ ॥
देवा ऊचुः ।
त्राहि त्राहि महादेव शरणागतवत्सल ।
साहङ्कारा वयं सर्व ईश्वरा इतिवादिनः ॥ १६ ॥
निर्जिता अपिनिर्लज्जा जलन्धरवधैषिणः ।
मशकाश्च वयन्देव न च त्वं मशकायसे ॥ १७ ॥
यस्याग्रे सोपि यस्त्वञ्च पादर्धांशेन नो समः ।
महाकालः कथञ्ज्ञेयः कथयस्व सदाशिव ॥ १८ ॥
मुक्तयः कतिधा देव श्रेष्ठा का किञ्च साधनम् ।
वदास्माकं यदि कृपा देव्यां विष्णौ सुरेषु च ॥ १९ ॥
ईश्वर उवाच ।
ज्ञायते तत्प्रभावेण सकलं वेदवाक्यतः ॥
पुनर्मोदयते वृद्धिन्तस्य मायाकृतञ्जगत् ॥ २० ॥
मया कृतानि तन्त्राणि सङ्ख्ययास्तोत्तरं शतम् ॥
येनयेन प्रार्थितोहं देवी सम्प्रार्थिता मया ॥ २१ ॥
देवीभिः प्रमथैर्देवैस्तत्तन्मोक्षश्चतुर्विधः ॥
येन मार्गेण भवति स स मार्गः प्रकाशितः ॥ २२ ॥
तस्माद्देवेशि ते देवा अहङ्कारेण मोहिताः ॥
अन्यान्देवान्विनिन्दन्ति षट्कर्मनिरतास्सदा ॥ २३ ॥
कलिना हृतसौभाग्या भक्ष्ये पाने च मैथुने ॥
जायन्ते निरतास्तेन निर्धनाः प्रेतरूपिणः ॥ २४ ॥
दृश्यन्ते तु तथा देवा भवद्भिस्सम्यगीरितम् ॥
वेदसारं धर्मसारं तन्त्राणां हृदयं परम् ॥ २५ ॥
महाकालेन यत्प्रोक्तम्पञ्चमीमुक्तिसाधनम् ॥
सर्वेषाम्मेरुतां यातन्तत्तन्त्रं मेरुसञ्ज्ञितम् ॥ २६ ॥
शृण्वन्तु तद् दृश्यमानम्मनोह्लादकरञ्च यत् ॥
पृच्छया निजसन्देहान्दूरीकुर्वन्तशङ्किताः ॥ २७ ॥
यथा तोयञ्जलनिधेर्गृहीत्वाब्दाः स्वधारया ॥
वर्षन्ति क्षत्रवायुस्तं बिन्दुरूपं करोति च ॥ २८ ॥
तद्वन्महाकाललवान्महामाया प्रकर्षति ॥
कर्मभिश्चैव सम्भिन्नास्ते देवः कोटिशोभवन् ॥ २९ ॥
यथा नैकट्यगुणतो बिन्दवो यान्ति चोद्यताम् ॥
तथैवोपासनामार्गगुणा यान्ति च देवताम् ॥ ३० ॥
यथा सरिद्भ्यो गर्ताम्भः पतितं ह्रदतं व्रजेत् ॥
स च दूरतलः स्याद्वै तद्वद्देवोऽपि मोहितः ॥ ३१ ॥
पुनर्नरः पुनस्तिर्यक् शेषं यद्वज्जलाशयः ॥
पुनः सूर्यकरे न्यस्तः पुनर्वृष्टिः पुनर्जलम् ॥ ३२ ॥
तद्वद्दुष्कर्मणा जीवो नानायोनिषु जीर्यते ॥
यथा जलौघः सन्मार्गात्तटिनीतो महानदीम् ॥ ३३ ॥
प्रविष्टस्तोयधिम्पश्चादपुनर्भवतां व्रजेत् ॥
वाडवोदरसंवेशात्तद्वज्जीवोऽपि देवताम् ॥ ३४ ॥
विष्णुतां शिवताṁल्लब्ध्वा महाकालोभिजायते ॥
समुद्रादाहृतः कंश्चिद्दैवात्त्यक्तस्तु तत्र तु ॥ ३५ ॥
यथा समुद्रो भवति तद्वद्ब्रह्मसुता अपि ॥
ब्रह्मज्ञानाद्विनिर्मुक्ता हित्वा चोपासनाक्रमम् ॥ ३६ ॥
श्रीदेयुवाच ॥
वामदक्षिणभेदेन पञ्चपञ्चक्रमेण च ॥
उपासना वामदक्षा तत्र तत्र प्रशंस्तिका ॥ ३७ ॥
तत्र भोगक्रिया मोक्षक्रिया युग्मक्रियापि च ॥
लभ्यते देवता का च सर्वाश्यस्तूत्तमोत्तमा ॥ ३८ ॥
शिव उवाच ॥
देवासुरैः पुरा कल्पे मथ्यमाने महोदधौ ॥
तत्र श्यामा समुत्पन्ना सुरा कलशधरिणी ॥ ३९ ॥
गौराङ्ग्यरुणचैला च भास्वद्धरितकञ्चुका ॥
श्वेतोत्तरच्छदा देवी त्रैलोक्यस्यापि मोहिनी ॥ ४० ॥
दृष्ट्वा तान्दानवास्सर्वे शुक्राचार्यवरात्सुरान् ॥
जित्वा ताञ्जगृहुस्तस्याः कलशाच्च पपुः सुराम् ॥ ४१ ॥
देवान्पलायितान्दृष्ट्वा शक्त्यस्तत्र संस्थिताः ॥
पपुस्ता अपि तां पुण्यां सुरां दैवतमातरम् । ४२ ॥
वरानपि बहून्दद्युः सुरायास्सुरमातरः ॥
अनयास्मान्तर्पयन्ति शेषं गृह्णन्ति ये नराः ॥
तेऽस्मद्रूपा न सन्देहो भुक्तिमुक्त्येकभाजनम् ॥ ४३ ॥
सुरा गङ्गा सुरा सिन्धुः सुरा देवी सरस्वती ॥
सुरा गोदावरी रेवा सुरैव परमम्पदम् ॥ ४४ ॥
सुरान्निन्दन्ति ये मूढास्ते मूढा जनजन्मनि ॥
गन्धर्वैः स्तूयमानास्ताश्शक्त्यस्ते च दानवाः ॥ ४५ ॥
पुनर्ममन्थुर्जलधिं बलहीनैस्सुरैस्सह ॥
धन्धन्तरिस्समायातस्सुधाकलशहस्तवान् ॥ ४६ ॥
सुरामत्तास्तु ते प्रोचुः किमिदं पुरुषाहृतम् ॥
उवाच मधुरं विष्णुस्सान्त्वयंश्च प्रतारयन् ॥ ४७ ॥
पूर्वदेवास्सन्तु यूयम्मद्यस्यास्य च पानतः ॥
अग्रे यदिदमुत्पन्नं पीयूषन्तत्प्रकीर्तितम् ॥
अग्रेप्येतत्तु देवार्थं निस्सारम्पुरुषाहृतम् ॥ ४८ ॥
ततो हरिर्मोहिनीरूपधारी वामेन तां पाययेत्पूर्वदेवान् ॥
शक्तीस्सर्वास्त्वरुणान्भैरवादीनेतन्मन्त्रानुद्धरेदश्यवर्षन् ॥ ४९ ॥
दक्षेण देवानमृतं पाययंस्ते तत्तन्मन्त्राः पूर्वदेवानबाधन् ॥
हाहा भूतं समरे तत्समस्तं शुक्राचार्यो ज्ञातवांस्तत्समग्रम् ॥ ५० ॥
ततस्स क्रोधताम्राक्षो जलं कृत्वा करेऽशपत् ॥
धिग्धिग्ज्ञानं सुरारीणामनया सुरया हृतम् ॥ ५१ ॥
तस्मादिमां ये पिबन्ति सर्वे पातकिनस्तु ते ॥
प्रयान्तु निरयं घोरं तिष्ठन्त्विह पिशाचवत् ॥ ५२ ॥
श्रुत्वा तं दारुणं शापं प्रजज्वाल तदा सुरा ॥
निर्दहन्तीव लोकांस्त्रीन्प्राकम्पन्त सुरासुराः ॥ ५३ ॥
ततो मया स्तुता देवी बीजगर्भैस्स्तवोत्तमैः ॥
पादयोः पातितः शुक्रः पुत्रोऽयन्तेमियोज्यताम् ॥ ५४ ॥
मायया रमया वा घा सम्बुध्यन्ता त्रिवर्षकाः ॥
शुक्रशापं विमोचय पुनस्तद्वर्णकान्तिका ॥ ५५ ॥
यस्या उपासना तस्या बीजेन पुटितो मनुः ॥
षोडशार्णस्तवाख्यातो मन्त्रिताष्टोत्तरं शतम् ॥ ५६ ॥
निश्शापं कुरुते साध्यं भुक्तिमुक्त्येकभाजनम् ॥
इति दीक्षाक्रमो येषां वंशे देवि समागतः ॥ ५७ ॥
स कौलो दुर्लभो देवि दाता भोक्ता च पावकः ॥
यन्मिन्मार्गे प्रधानोऽयं स तु वामपथः स्मृतः ॥ ५८ ॥
मद्यं मांसं च मत्स्याश्च मुद्रा मैथुनमेव च ॥
कुलमार्गप्रविष्टेन सदा सेव्यं सुहर्षिणा ॥ ५९ ॥
कौलिकोङ्गुष्ठताम्प्राप्तो वामस्स्यात्तर्जनीसमः ॥
चीनक्रमो मध्यमस्स्यात्सिद्धान्ती योऽवरो भवेत् ॥ ६० ॥
कनिष्ठः शाबरो मार्ग इति वामस्तु पञ्चधा ॥
यैः पीतममृतं ते ते सोमपा बल दर्पिताः ॥ ६१ ॥
लक्ष्म्या सह समुद्भूताः शतयत्नाश्च सोमपाः ॥
तेषामुपासना प्रोक्ता दक्षमार्गेण सा द्विजैः ॥ ६२ ॥
कर्तव्या वैदिकी श्रेष्ठा स्मार्ती स्यान्मध्यमोत्तमा ॥
पौराणी मध्यमा ख्याता तान्त्रिकी त्ववरा स्मृता ॥ ६३ ॥
दैशी च कालीजातीया कनिष्ठा स्यादुपासना ॥
वाममार्गो यदा दक्षं प्रविशेत्तत्सु रस्सै तु ॥ ६४ ॥
विघ्नेन पीड्यते चापि न सिद्धिमधिगच्छति ॥
दक्षमार्गो यदा वामं प्रविशेत् तत्सुरास्तदा ॥ ६५ ॥
लोकद्वयाद्यापयन्ति तं ग्रसन्ति च वामिनम् ॥
तस्मात्स्वकुलमार्गं तु ज्ञात्वा कुर्यादुपासनाम् ॥ ६६ ॥
भक्तिश्रद्धान्वितौ शिष्यगुरू सम्पूर्णलक्षणौ ॥
सर्वोपि मार्गस्तत्कालं भुक्तिमुक्तिप्रदायकः ॥ ६७ ॥
धनार्थिनस्तु गुरवः शिष्याः सिद्ध्यर्थिनः कलौ ॥
तस्मान्न चोभयोस्सिद्धिर्देवतानां विडम्बनम् ॥ ६८ ॥
द्विजानामनुपेताना स्वकर्माध्ययनादिषु ॥
यथाधिकारो नास्तीह स्याच्चोपनयनादिषु ॥ ६९ ॥
तथा चादीक्षितानां च मनुदेवार्चनादिषु ॥
नाधिकारोऽस्त्यतः कुर्यादात्मानं मन्त्रसंस्कृतम् ॥ ७० ॥
दीयते ज्ञानविज्ञानं क्षीयन्ते पापराशयः ॥
तेन दीक्षा इति प्रोक्ता प्राप्ता चेत्सुगुरोर्मुखात् ॥ ७१ ॥
असदगुरुः स्वयन्नष्टः कथं तारयते परम् ॥
विंशद्विश्वोपकगुणैर्युक्तो यः स गुरुर्भवेत् ॥ ७२ ॥
योऽत्युत्कृष्टो यथोक्ताङ्गः शुद्धवेषो मनोहरः ॥
सर्वाङ्गमार्गतत्त्वज्ञः सर्वमन्त्रविधानवित् ॥ ७३ ॥
इङ्गिताकारचेष्टाविद्दूरतः कृतदुर्जनः ॥
अन्तर्मुखोऽबहिर्दृष्टिस्सर्वज्ञो देशकालवित् ॥ ७४ ॥
आज्ञासिद्धो दयायुक्तः शान्तो वेदाङ्गवेदवित् ॥
नित्ये नैमित्तिके काम्ये रतः कर्मण्यनिन्दिते ॥ ७५ ॥
अलोलुपोऽहिसकश्च पक्षपाती गुरुर्मतः ॥
अनीदृशगुरोर्मन्त्रो मरणायासदुःखकृत् ॥ ७६ ॥
विप्र एवेदृशः कार्यो गुरुर्नो चेत्तदेदृशः ॥
क्षत्रविट्छूद्रजातीयः प्रतिलोमं न दीक्षयेत् ॥ ७७ ॥
दक्षमार्गे तु निर्वीर्यः पितुर्मातामहस्य च ॥
सोदरस्य गृहस्थस्य वाममार्गेतिवीर्यवान् ॥ ७८ ॥
परीक्षेत गुरुः शिष्यं विद्वद्भिर्लक्षणैर्युतम् ॥
द्वादशाब्दं तदर्धं वा तदर्धं वाथ दीक्षयेत् ॥ ७९ ॥
गुरुवाक्यप्रमाणज्ञं गुरुशुश्रूषणे रतम् ॥
लज्जाभिमानगर्वादिवर्जितं कुलनायकम् ॥ ८० ॥
निरपेक्षं गुरुद्रव्ये तत्प्रसादाभिकाङ्क्षिणम् ॥
जपध्यानाभिनिरतं मोक्षमार्गाभिगामिनम् ॥ ८१ ॥
समाधि साधनोपेतं शुद्धदेहं च धार्मिकम् ॥
दृढव्रतं सदाचारं श्रद्धाभक्तिसमन्वितम् ॥ ८२ ॥
दीनसत्यमितस्निग्धभाषिणं साधुसम्मतम् ॥
अनुकूलप्रियायुक्तं धीरं सर्वोपकारकम् ॥ ८३ ॥
सदैव सुमुखं कुर्याच्छिष्यं दैवततुष्टये ॥
दत्त्वा दीक्षां तु लोभाद्यैर्देवताशापमाप्नुयात् ॥ ८४ ॥
परशिष्ये चेष्टवंशे धूर्ते पण्डितमानिनि ॥
स्त्रीद्विष्टे सामये त्रस्ते व्यङ्गे दीक्षा तु निष्फला ॥ ८५ ॥
न वेदः प्रणवं त्यक्त्वा मन्त्रो वेदसमुत्थितः ॥
तस्माद्वेदपरो मन्त्रो वेदाङ्गञ्चागमः स्मृतः ॥ ८६ ॥
वश्याकर्षादिकं कर्म दृष्टादृष्टफलप्रदम् ॥
वेदेन साध्यते सर्वं ग्रहयज्ञादिकं किल ॥ ८७ ॥
न वेदेन विना यज्ञा न वेदा यज्ञवर्जिताः ॥
तस्माद्वेदपरो मन्त्रो नावेदो मन्त्र ईरितः ॥ ८८ ॥
न मन्त्रे चाधिकारोस्ति शूद्राणां नियमात्परः ॥
यावन्त्यर्णानि मन्त्राणां शूद्राय प्रतिपादयेत् ॥ ८९ ॥
तावन्त्यो ब्रह्महत्यास्स्युस्तस्मात्संस्कारयेच्च तम् ॥
स्वार्होकारेण रहितं दद्यात्पश्चाच्च तान्त्रिकम् ॥ ९० ॥
स्वागमोक्तेन मार्गेण स्त्रीशूद्रैरपि पूजनम् ॥
कर्तव्यं संस्कृतैस्तैश्च स्वागमोक्तेन वर्त्मना ॥ ९१ ॥
विधवायाः सुतादेशात्कन्यायाः पितुराज्ञया ॥
भर्त्त्रैव दीक्ष्यते भार्या यतोऽसौ सर्वदा गुरुः ॥ ९२ ॥
तयापि पूज्यो देवस्य बुद्ध्याऽसौ सर्वसाधनैः ॥
शैवो वा वैष्णवो वापि स्त्रीशूद्राणां नमोन्तकः ॥ ९३ ॥
नाममन्त्र इति ज्ञात्वा चाण्डालानपि दीक्षयेत् ॥ ९४ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः पौलस्त्यजातयः ॥
पञ्चधा मनवः ख्याताः प्रदेयाश्चानुलोमतः ॥ ९५ ॥
माया बीजं ब्राह्मणः स्याच्छीबीजं क्षत्रियः स्मृतः ॥
कामबीजं भवेद्वैश्यो वाग्भवं शूद्र ईरितः ॥ ९६ ॥
चतुर्बीजपरित्यक्तो मनुः पौलस्त्यसञ्ज्ञकः ॥
हीनवर्णाय नोदद्यान्मन्त्रं त्वधिकवर्णकम् ॥ ९७ ॥
आनुष्टुभाश्च ये शक्तिमन्त्रा नीलसरस्वती ॥
कल्पोक्ता वैदिकी विप्रैर्देया विन्ध्यनिवासिनी ॥ ९८ ॥
ब्राह्मणैः क्षत्रियैश्चापि देया पाशुपताभिधा ॥
सौदर्शनी नारसिंही कार्तवीर्यस्य नान्यतः ॥ ९९ ॥
वर्णत्रयेपि दातव्यं दक्षिणामूर्त्यघोरकम् ॥ १०० ॥
अष्टाक्षरं हयग्रीवमुमामाहेश्वरं तथा ॥
लक्ष्मीनारायणं वासुदेवताकं वराहकम् ॥ १०१ ॥
अग्निः सूर्यघृणेर्यस्तु ताराद्याश्चारुणेश्वराः ॥
सर्ववर्णेषु दातव्याः कालिका श्यामला तथा ॥ १०२ ॥
छिन्नमस्ता च मातङ्गी बगला चोग्रतारिका ॥
योगिनी यक्षपत्नीनां त्रैपुरा बटुकादयः ॥ १०३ ॥
शाबराश्च पुलस्त्यानि न जप्याद्द्विजजन्मनि ॥
उपासना त्रिधा प्रोक्ता श्रेष्ठा तत्र तु सात्त्विकी ॥ १०४ ॥
तस्यां तु मानसी पूजा पौजे मुख्यतमा स्मृता ॥
राजसो दक्षिणो मार्गः प्रतिमायां च पूजनम् ॥ १०५ ॥
वाक्योपचारैः सकलैस्तदाद्यन्तद्विशिष्यते ॥
तामसोपासनं प्रोक्तं पीठादौ बलिदानतः ॥ १०६ ॥
वाममार्गस्ततश्चाद्यवर्णं हित्वा प्रशस्यते ॥
एषा पद्या तु सम्प्रोक्ता वामदक्षिणयोः परा ॥ १०७ ॥
गोपिता सर्वतन्त्रेषु किमन्यच्छ्रोतुमिच्छथ ॥ १०८ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीतव्यवस्थाप्रकाशः प्रथमः ॥ १ ॥