१४

चतुर्दशोल्लासः

श्रीदेव्युवाच ।

आद्यशक्तेरनुष्ठानात् कृपया भूरिसाधनम् ।
कथितं मे कृपानाथ तृप्ताऽस्मि तव भावतः ॥ १ ॥

सचलस्येशलिङ्गस्य प्रतिष्ठाविधिरीरितः ।
अचलस्य प्रतिष्ठायां किं फलं विधिरेव कः ॥ २ ॥

कथ्यतां जगतां नाथ सविशेषेण साम्प्रतम् ।
इदं हि परमं तत्त्वं प्रष्टुं वद वृणोमि कम् ॥ ३ ॥

त्वत्तः को वास्ति सर्वज्ञो दयालुः सर्वविद्विभुः ।
आशुतोषो दीननाथो ममाऽनन्दविबर्धनः ॥ ४ ॥


ओ।
नमो ब्रह्मणे ।

एवं सकलदेवतानां सचलस्य शिवलिङ्गस्यापि प्रतिष्ठाया विधिं फलञ्च श्रुत्वेदानीमचलस्य शिवलिङ्गस्य प्रतिष्ठायाः फलं विधिं च श्रोतुमिच्छन्ती श्रीदेव्युवाच आद्यशक्तेरित्यादि ।
भावतः प्रीतितः ॥ १ ॥ २ ॥

परमकारुणिकमाशुतोषं सर्वज्ञमपरं कञ्चित् पृच्छ मां किं पुनः पुनः पृच्छसि तत्राह इदं हि परमं तत्त्वमित्यादि ॥ ३ ॥

सर्ववित् सर्वविचारकः ॥ ४ ॥


श्रीसदाशिव उवाच ।

शिवलिङ्गस्थापनस्य माहात्म्यं किं ब्रवीमि ते ।
यत्स्थापनान्महापापैर्मुक्तो याति परं पदम् ॥ ५ ॥

स्वर्णपूर्णमहीदानाद्वाजिमेधायुतार्जनात् ।
निस्तोये तोयकरणात् दीनार्तपरितोषणात् ॥ ६ ॥

यत् फलं लभते मर्त्यस्तस्मात् कोटिगुणं फलम् ।
शिवलिङ्गप्रतिष्ठायां लभते नात्र संशयः ॥ ७ ॥

लिङ्गरूपी महादेवो यत्र तिष्ठति कालिके ।
तत्र ब्रह्मा च विष्णुश्च सेन्द्रास्तिष्ठन्ति देवताः ॥ ८ ॥

सार्धत्रिकोटितीर्थानि दृष्टादृष्टानि यानि च ।
पुण्यक्षेत्राणि सर्वाणि वर्तन्ते शिवसन्निधौ ॥ ९ ॥

लिङ्गरूपधरं शम्भुं परितो दिग्विदिक्षु च ।
शतहस्तप्रमाणेन शिवक्षेत्रं प्रकीर्तितम् ॥ १० ॥

ईशक्षेत्रं महापुण्यं सर्वतीर्थोत्तमोत्तमम् ।
यत्राऽमरा विराजन्ते सर्वतीर्थानि सर्वदा ॥ ११ ॥

क्षणमात्रं शिवक्षेत्रे यो वसेद्भावतत्परः ।
स सर्वपापनिर्मुक्तो यात्यन्ते शङ्करालयम् ॥ १२ ॥


प्रथमतः शिवलिङ्गप्रतिष्ठायाः फलं श्रीसदाशिव उवाच शिवलिङ्गस्थापनस्येत्यादिभिः ॥ ५ � ९ ॥

परितः सवर्तः ॥ १० � १२ ॥


अत्र यत् क्रियते कर्म स्वल्पं वा बहुलं तथा ।
प्रभावाद्धूर्जटेस्तत्तत्कोटिकोटिगुणं भवेत् ॥ १३ ॥

यत्र तत्र कृतात् पापान्मुच्यते शिवसन्निधौ ।
शैवक्षेत्रे कृतं पापं वज्रलेपसमं प्रिये ॥ १४ ॥

पुरश्चर्यां जपं दानं श्राद्धं तर्पणमेव च ।
यत् करोति शिवक्षेत्रे तदनन्ताय कल्पते ॥ १५ ॥

पुरश्चर्याशतं कृत्वा ग्रहे शशिदिनेशयोः ।
यत् फलं तदवाप्नोति सकृज्जप्त्वा शिवान्तिके ॥ १६ ॥

गयागङ्गाप्रयागेषु कोटिपिण्डप्रदो नरः ।
यत् प्राप्नोति तदत्रैव सकृत् पिण्डप्रदानतः ॥ १७ ॥

अतिपातकिनो ये च महापातकिनश्च ये ।
शैवतीर्थे कृतश्राधास्तेऽपि यान्ति परां गतिम् ॥ १८ ॥

लिङ्गरूपी जगन्नाथो वेद्यां श्रीदुर्गया सह ।
यत्रास्ति तत्र तिष्ठन्ति भुवनानि चतुर्दश ॥ १९ ॥

स्थापितेशस्य माहात्म्यं किञ्चिदेतत् प्रकाशितम् ।
अनादिभूतभूतेशमहिमा वागगोचरः ॥ २० ॥

महापीठे तवाऽर्चायामस्पृश्यस्पर्शदूषणम् ।
विद्यते विद्यते नैतल्लिङ्गरूपधरे हरे ॥ २१ ॥


अत्र शिवक्षेत्रे ।
धूर्जटेः शिवस्य ॥ १३ � १५ ॥
ग्रहे ग्रहणे ॥ १६ ॥ १७ ॥


यथा चक्रार्चने देवि कोऽपि दोषो न विद्यते ।
शिवक्षेत्रे महतीर्थे तथा जानीहि कालिके ॥ २२ ॥

बहुनात्र किमुक्तेन तवाग्रे सत्यमुच्यते ।
प्रभावः शिवलिङ्गस्य मया वक्तुं न शक्यते ॥ २३ ॥

अयुक्तवेदिकं लिङ्गं युक्तं वेदिकयाऽपि वा ।
साधकः पूजयेद्भक्त्या स्वाभीष्टफलसिद्धये ॥ २४ ॥

प्रतिष्ठापूर्वसायाह्ने देवतां योऽधिवासयेत् ।
सोऽश्वमेधायुतफलं लभते साधकोत्तमः ॥ २५ ॥

मही गन्धः शिला धान्यं दूर्वा पुष्पं फलं दधि ।
घृतं स्वस्तिकसिन्दूरं शङ्खकज्जलरोचनाः ॥ २६ ॥

सिद्धार्थं काञ्चनं रौप्यं ताम्रं दीपश्च दर्पणम् ।
अधिवासविधौ विंशद्द्रव्याण्येतानि योजयेत् ॥ २७ ॥

प्रत्येकं द्रव्यमादाय मायया ब्रह्मविद्यया ।
अनेनाऽमुष्यपदतः शुभमस्त्वधिवासनम् ॥ २८ ॥


कृतं श्राद्धं येषां ते कृतश्राद्धाः ॥ १८ � २४ ॥

अथाचलस्य शिवलिङ्गस्य प्रतिष्ठाया विधिमाह प्रतिष्ठापूर्वसायाह्ने इत्यादिभिः ॥ २५ ॥
ननु केन केन वस्तुना देवतामधिवासयेदित्याकाङ्क्षायामाह महीत्यादि सिद्धार्थः धवलसर्षपः ॥ २६ ॥ २७ ॥

ननु केन विधिना देवतामधिवासयेदित्याकाङ्क्षायामाह प्रत्येकमित्यादि ।
प्रत्येकमह्यादिद्रव्यमादाय गृहीत्वा मायया ह्री।
बीजेन विशिष्टया ब्रह्मविद्यया


इति स्पृशेत् साध्यभालं मह्याद्यैः सर्ववस्तुभिः ।
ततः प्रशस्तिपात्रेण त्रिधैवमधिवासयेत् ॥ २९ ॥

अनेन विधिना देवन्धिवास्य विधानवित् ।
गृहदानविधानेन दुग्धाद्यैः स्नापयेत्ततः ॥ ३० ॥

सम्मार्ज्य वाससा लिङ्गं स्थापयित्वाऽसनोपरि ।
पूजानुष्ठानविधिना गणेशादीन् समर्चयेत् ॥ ३१ ॥

प्रणवेन करन्यासौ प्राणायामं विधाय च ।
ध्यायेत् सदाशिवं शान्तं चन्द्रकोटिसमप्रभम् ॥ ३२ ॥

व्याघ्रचर्मपरीधानं नागयज्ञोपवीतिनम् ।
विभूतिलिप्तसर्वाङ्गं नागालङ्कारभूषितम् ॥ ३३ ॥

धूम्रपीतारुणश्वेतरक्तैः पञ्चभिराननैः ।
युक्तं त्रिनयनं बिभ्रज्जटाजूटधरं विभुम् ॥ ३४ ॥

गङ्गाधरं दशभुजं शशिशोभितमस्तकम् ।
कपालं पावकं पाशं पिनाकं परशुं करैः ॥ ३५ ॥

वामैर्दधानं दक्षैश्च शूलं वज्राङ्कुशं शरम् ।
वरञ्च बिभ्रतं सर्वैर्देवैर्मुनिवरैः स्तुतम् ॥ ३६ ॥


गायत्र्या संयुक्तेन अनेन द्रव्येणा अमुष्य दैवतस्य शुभमधिवासनमस्तु इति मन्त्रेण मह्याद्यैः सर्ववस्तुभिः साध्यस्य देवस्य भालं स्पृशेत् ।
ततःपरं प्रशस्तिपात्रेण त्रिधा त्रिवारमेवं विधिना देवमधिवासयेत् ॥ २८ � ३२ ॥

बिभ्रत् विभ्रतम् ।
सुपां सुलुक् इत्यमो लुक् ॥ ३३ � ३५ ॥

विभ्रतं दधतम् ॥ ३६ ॥


परमानन्दसन्दोहोल्लसत्कुटिललोचनम् ।
हिमकुन्देन्दुसङ्काशं वृषासनविराजितम् ॥ ३७ ॥

परितः सिद्धगन्धर्वैरप्सरोभिरहर्निशम् ।
गीयमानमुमाकान्तमेकान्तशरणप्रियम् ॥ ३८ ॥

इति ध्यात्वा महेशानं मानसैरुपचारकैः ।
सम्पूज्याऽवाह्य तल्लिङ्गे यजेच्छक्त्या विधानतः ॥ ३९ ॥

आसनाद्युपचाराणां दाने मन्त्राः पुरोदिताः ।
मूलमत्र मनुं वक्ष्ये महेशस्य महात्मनः ॥ ४० ॥

माया तारः शब्दबीजं सन्ध्यर्णान्ताक्षरान्वितम् ।
अर्धेन्दुबिन्दुभूषाढ्यं शिवबीजं प्रकीर्तितम् ॥ ४१ ॥

सुगन्धिपुष्पमाल्येन वाससाऽच्छाद्य शङ्करम् ।
निवेश्य दिव्यशय्यायां देवीमेवं विशोधयेत् ॥ ४२ ॥

वेद्यां प्रपूजयेद्देवीमेवमेव विधानतः ।
माययाऽत्र करन्यासौ प्राणायामं समाचरेत् ॥ ४३ ॥


परमानन्दसन्दोहोल्लसत्कुटिललोचनम् परमानन्दसन्दोहेनोल्लसन्ति कुटिलानि च लोचनानि यस्य तथाभूतम् ।
सन्दोहः समूहः ॥ ३७ � ४० ॥

महेशस्य मूलमन्त्रमेवाह मायेत्यादिना ।
पूर्वं माया ह्री।
बीजमुच्येत ततस्तारः प्रणवो वाच्यः ।
ततः सन्ध्यर्णान्ताक्षरान्वितं सन्ध्यक्षरान्ताक्षरसंयुक्तम् अर्धेन्दुबिन्दुभूषाढ्यञ्च शब्दबीजं हकाररूपमक्षरं वाच्यम् ।
सकलपदयोजनया ह्री।
ओ।
ह्रौ।
इति शिवबीजं प्रकीर्तितम् ॥ ४१ ॥ ४२ ॥

मायया ह्री।
बीजेन ॥ ४३ ॥


उद्यद्भानुसहस्रकान्तिममलां वह्न्यर्कचन्द्रेक्षणाम् मुक्तायन्त्रितहेमकुण्डललसत्स्मेराननाम्भोरुहाम् ।
हस्ताब्जैरभयं वरञ्च दधतीं चक्रं तथाब्जं दधत् पीनोत्तुङ्गपयोधरां भयहरां पीताम्बरां चिन्तये ॥ ४४ ॥

इति ध्यात्वा महादेवीं पूजयेन्निजशक्तितः ।
ततस्तु दश दिक्पालान् वृषभञ्च समर्चयेत् ॥ ४५ ॥

भगवत्या मनुं वक्ष्ये येनाऽराध्या जगन्मयी ॥ ४६ ॥

मायां लक्ष्मीं समुच्चार्य थान्तं षष्ठस्वरान्वितम् ।
बिन्दुयुक्तं तदन्ते च योजयेद्वह्निवल्लभाम् ॥ ४७ ॥


अथ महादेव्या ध्यानमेवाहैकेन उद्यद्भान्वित्यादिना ।
महादेवीमहं चिन्तये ।
कथम्भूतां महादेवीम् उद्यद्भानुसहस्रकान्तिम् उद्यतां भानूनां सूर्याणां सहस्रस्येव कान्तिर्दीप्तिर्यस्याः तथाभूताम् ।
पुनः कीदृशीम् अमलां निर्मलाम् ।
पुनः कीदृशीम् वह्न्यर्कचन्द्रेक्षणाम् वह्न्यर्कचन्द्राः ईक्षणानि लोचनानि यस्यास्तथाभूताम् ।
पुनः कीदृशीम् मुक्तायन्त्रितहेमकुण्डललसत्स्मेराननाम्भोरुहाम् मुक्ताभिर्यन्त्रिताभ्यां सम्बद्धाभ्यां हेमकुण्डलाभ्यां लसद्दीप्यमानं स्मेरमीषद्धसनशीलम् आननाम्भोरुहं मुखपद्मं यस्याः तथाभूताम् ।
पुनः कीदृशीम् हस्ताब्जैः पाणिकमलैः अभयं वरं चक्रं तथा सुगन्धादिकं दधदब्जं कमलं च दधतीम् ।
पुनः कीदृशीम् पीनोत्तुङ्गपयोधराम् पीनौ महान्तावुत्तुङ्गावुन्नतौ पयोधरौ स्तनौ यस्यास्तथाभूताम् ।
पुनः कीदृशीम् भयहराम् भयहन्त्रीम् ।
पुनः कीदृशीम् पीताम्बराम् पीतमम्बरं वस्त्रं यस्यास्तथाभूताम् ॥ ४४ � ४६ ॥

भगवत्या मन्त्रमेवाह मायामित्यादिना ।
मायां ह्री।
बीजं लक्ष्मीं श्री।
बीजं च समुच्चार्य ततः षष्ठस्वरान्वितं बिन्दुयुक्तं च थान्तं वर्णं समुच्चार्य


पूर्ववत् स्थापयन् देवीं सर्वदेवबलिं हरेत् ।
दधियुक्तमाषभक्तं शर्करादिसमन्वितम् ॥ ४८ ॥

ऐशान्यां बलिमादाय वारुणेन विशोधयेत् ।
सम्पूज्य गन्धपुष्पाभ्यां मन्त्रेणानेन चार्पयेत् ॥ ४९ ॥

सर्वे देवाः सिद्धगणा गन्धर्वोरगराक्षसाः ।
पिशाचा मातरो यक्षा भूताश्च पितरस्तथा ॥ ५० ॥

ऋषयो येऽन्यदेवाश्च बलिं गृह्णन्तु संयताः ।
परिवार्य महादेवं तिष्ठन्तु गिरिजामपि ॥ ५१ ॥

ततो जपेन्महादेव्या मन्त्रमेनं यथेप्सितम् ।
गीतवाद्यादिभिः सद्भिर्विदध्यान्मङ्गलक्रियाम् ॥ ५२ ॥

अधिवासं विधायेत्थं परेऽह्नि विहितक्रियः ।
सङ्कल्पं विधिवत् कृत्वा पञ्च देवान् प्रपूजयेत् ॥ ५३ ॥


तदन्ते वह्निवल्लभां योजयेत् ।
सकलपदयोजनया ह्री।
श्री।
दू।
स्वाहेति मन्त्रो जातः ।
थान्तमित्यत्र सान्तमिति वाक्वचित् ॥ ४७ ॥

पूर्ववदित्यादि ।
ततः पूर्ववत् शिवलिङ्गवत् सुगन्धिपुष्पमाल्येन वाससा चाऽच्छाद्य दिव्यशय्यायां देवीं स्थापयन् सन् दधियुक्तं शर्करादिसमन्वितं च माषभक्तं सर्वदेवबलिं हरेद्दद्यात् ॥ ४८ ॥

ननु केन विधिना सर्वदेवबलिं दद्यादित्याकाङ्क्षायामाह ऐशान्यामित्यादि ।
वारुणेन वमिति मन्त्रेण ॥ ४९ ॥

सर्वदेवबलिसमर्पणमन्त्रमेवाह सर्वे देवाः सिद्धगणा इत्यादिकम् ॥ ५० ॥ ५१ ॥

एनं ह्री।
श्री।
दू।
स्वाहेतीमम् ॥ ५२ ॥


मातृपूजां वसोर्धारां वृद्धिश्राद्धं समाचरन् ।
महेशद्वारपालांश्च यजेत् भक्त्या समाहितः ॥ ५४ ॥

नन्दी महाबलः कीशवदनो गणनायकः ।
द्वारपालाः शिवस्यैते सर्वे शस्त्रास्त्रपाणयः ॥ ५५ ॥

ततो लिङ्गं समानीय वेदीरूपां च तारिणीम् ।
मण्डले सर्वतोभद्रे स्थापयेद्वा शुभासने ॥ ५६ ॥

अष्टभिः कलशैः शम्भुं मनुना त्र्यम्बकेन च ।
स्नापयित्वाऽर्चयेत् भक्त्या षोडशैरुपचारकैः ॥ ५७ ॥

वेदीं च मूलमन्त्रेण तद्वत् संस्थाप्य पूजयन् ।
कृताञ्जलिपुटः साधुः प्रार्थयेत् शङ्करं शिवम् ॥ ५८ ॥

आगच्छ भगवन् शम्भो सर्वदेवनमस्कृत ।
पिनाकपाणे सर्वेश महादेव नमोऽस्तु ते ॥ ५९ ॥

आगच्छ मन्दिरे देव भक्तानुग्रहकारक ।
भगवत्या सहाऽगच्छ कृपां कुरु नमो नमः ॥ ६० ॥

मातर्देवि महामाये सर्वकल्याणकारिणि ।
प्रसीद शम्भुना सार्धं नमस्तेऽस्तु हरप्रिये ॥ ६१ ॥


पञ्च देवान् ब्रह्मादीन् ॥ ५३ ॥ ५४ ॥

सम्पूज्यान्महेशद्वारपालानाह नन्दीत्यादिनैकेन ॥ ५५ ॥ ५६ ॥

मनुना ह्री।
ओ।
हौ।
इति मन्त्रेण ।
त्र्यम्बकेन त्र्यम्बकं यजामहे इत्यादिना मन्त्रेण ॥ ५७ ॥

मूलमन्त्रेण ह्री।
श्री।
दू।
स्वाहेति मन्त्रेण ।
वेदीमित्यत्र देवीमितिवा क्वचित् ॥ ५८ ॥


आयाहि वरदे देवि भवनेऽस्मिन् वरप्रदे ।
प्रीता भव महेशानि सर्वसम्पत्करी भव ॥ ६२ ॥

उत्तिष्ठ देवदेवेशि स्वैः स्वैः परिकरैः सह ।
सुखं निवसतां गेहे प्रीयेतां भक्तवत्सलौ ॥ ६३ ॥

इति प्रार्थ्य शिवं देवीं मङ्गलध्वनिपूर्वकम् ।
प्रदक्षिणं त्रिधा वेश्म कारयित्वा प्रवेशयेत् ॥ ६४ ॥

पाषाणखनिते गर्ते इष्टकारचितेऽपि वा ।
अधस्त्रिभागलिङ्गस्य रोपयेन्मूलमुच्चरन् ॥ ६५ ॥

यावच्चन्द्रश्च सूर्यश्च यावत् पृथ्वी च सागराः ।
तावदत्र महादेव स्थिरो भव नमोऽस्तु ते ॥ ६६ ॥

मन्त्रेणानेन सुदृढं कारयित्वा सदाशिवम् ।
उत्तराग्रां तत्र वेदीं मूलेनैव प्रवेशयेत् ॥ ६७ ॥

स्थिरा भव जगद्धात्रि सृष्टिस्थित्यन्तकारिणि ।
यावद्दिवानिशानाथौ तावदत्र स्थिरा भव ॥ ६८ ॥


ननु शङ्करं शिवाञ्च प्रति किं प्रार्थयेदित्यपेक्षायामाह आगच्छ भगवन् शम्भो इत्यादि ॥ ५९ � ६४ ॥
पाषाणेत्यादि ।
ततो मूलं मन्त्रमुच्चरन् साधकः पाषाणे स्वनिते इष्टकारचितेऽपि वा गर्ते लिङ्गस्याऽधस्त्रिभागमधो रोपयेत् ॥ ६५ ॥ ६६ ॥

मन्त्रेणेत्यादि ।
अनेन यावच्चन्द्रश्च सूर्यश्चेत्यादिना मन्त्रेण सदाशिवं सुदृढं कारयित्वा मूलेनैव मन्त्रेण तत्र सदाशिवे वेदीं प्रवेशयेत् ॥ ६७ ॥ ६८ ॥


अनेन सुदृढीकृत्य लिङ्गं स्पृष्ट्वा पठेदिमम् ॥ ६९ ॥

व्याघ्रा भूताः पिशाचाश्च गन्धर्वाः सिद्धचारणाः ।
यक्षा नागाश्च वेतालाः लोकपाला महर्षयः ॥ ७० ॥

मातरो गणनाथाश्च विष्णुर्ब्रह्मा बृहस्पतिः ।
यस्य सिंहासने युक्ता भूचराः खेचरास्तथा ॥ ७१ ॥

आवाहयामि तं देवं त्र्यक्षमीशानमव्ययम् ।
आगच्छ भगवन्नत्र ब्रह्मनिर्मितयन्त्रके ॥ ७२ ॥

ध्रुवाय भव सर्वेषां शुभाय च सुखाय च ।
ततो देवप्रतिष्ठोक्तविधिना स्नापयन् शिवम् ॥ ७३ ॥

प्राग्वद्ध्यात्वा मानसोपचारैः सम्पूजयेत् प्रिये ।
विशेषमर्घ्यं संस्थाप्य समर्च्य गणदेवताः ।
पुनर्ध्यात्वा महेशानं पुष्पं लिङ्गोपरि न्यसेत् ॥ ७४ ॥

पाशाङ्कुशपुटा शक्तिर्यादिसान्ताः सबिन्दुकाः ।
हौ।
हंस इति मन्त्रेण तत्र प्राणान् निवेशयेत् ।
चन्दनागुरुकाश्मीरैर्विलिप्य गिरिजापतिम् ॥ ७५ ॥

यजेत् प्रागुक्तविधिना षोडशैरुपचारकैः ।
जातनामादिसंस्कारान् कृत्वा पूर्वविधानवत् ॥ ७६ ॥


सुदृढीकृत्य वेदीमिति शेषः ॥ ६९ ॥

इमं कं पठेदित्याकाङ्क्षायामाह व्याघ्रभूता इत्यादीत्यादि ॥ ७० � ७४ ॥

पाशेत्यादि ।
पाशाङ्कुशपुटा पाशाङ्कुशाभ्याम् आ।
क्रो।
बीजाभ्यां पुट आद्यन्तयोः संयोगो यस्यास्तथाभूता शक्तिः ह्री।
बीजं पूर्वमुच्येत ।
ततः


समाप्य सर्वं विधिवत् वेद्यां देवीं महेश्वरीम् ।
अभ्यर्च्य तत्र देवस्य मूर्तीरष्टौ प्रपूजयेत् ॥ ७७ ॥

शर्वः क्षितिः समुद्दिष्टा भवो जलमुदाहृता ।
रुद्रोऽग्निरुग्रो वायुः स्याद् भीम आकाशशब्दितः ॥ ७८ ॥

पशोः पतिर्यजमानो महादेवः सुधाकरः ।
ईशानः सूर्य इत्येते मूर्तयोऽष्टौ प्रकीर्तिताः ॥ ७९ ॥

प्रणवादिनमोऽन्तेन प्रत्येकाह्वानपूर्वकम् ।
पूर्वादीशानपर्यन्तमष्ट मूर्तीः क्रमाद्यजेत् ॥ ८० ॥

इन्द्रादिदिक्पतीनिष्ट्वा ब्राह्म्याद्याश्चाऽष्टमातृकाः ।
वृषं वितानं गेहादि दद्यादीशाय साधकः ॥ ८१ ॥

ततः कृताञ्जलिर्भक्त्या प्रार्थयेत् पार्वतीपतिम् ॥ ८२ ॥


सबिन्दुकाः सानुस्वारा यादिसान्ता वर्णा वक्तव्याः ।
ततो हौ।
हंसः इत्युच्येत ।
योजनया आ।
ह्री।
क्रो।
यं रं लं वं शं षं सं हौ।
हंसः इति मन्त्रो जातः ।
इत्यनेन मन्त्रेण प्रागुक्तविधानेन तत्र लिङ्गे प्राणान्निवेशयेत् ॥ ७५ ॥ ७६ ॥

तत्र वेद्यामेव ॥ ७७ ॥

महादेवस्य प्रपूज्या अष्टौ मूर्तीराह शर्वः क्षितिरित्यादिभ्यां द्वाभ्याम् ॥ ७८ ॥ ७९ ॥

ननु केन विधिना महादेवस्याष्टौ मूर्तीः प्रपूजयेदित्यपेक्षायामाह प्रणवादीत्यादि ।
प्रणवादिनमोऽन्तेन नाममन्त्रेण ।
पूर्वात् पूर्वमारभ्य ।
यथा शर्व क्षितिमूर्ते इहागच्छ इह तिष्ट इह सन्निधेहि मम पूजां गृहाणेत्याहूय ओ।
शर्वाय क्षितिमूर्तये नम इति मन्त्रेण वेद्यां पूर्वदेशे गन्धपुष्पादिभिः शर्वं क्षितिमूर्तिं यजेत् ।
एवमेवाऽग्नेयादिषु क्रमतोऽन्या अपि सप्त मूर्तीर्यजेत् ॥ ८० ॥

इष्ट्वा पूजयित्वा ॥ ८१ ॥ ८२ ॥


गृहेऽस्मिन् करुणासिन्धो स्थापितोऽसि मया प्रभो ।
प्रसीद भगवन् शम्भो सर्वकारणकारण ॥ ८३ ॥

यावत् ससागरा पृथ्वी यावत् शशिदिवाकरौ ।
तावदस्मिन् गृहे तिष्ठ नमस्ते परमेश्वर ॥ ८४ ॥

गृहेऽस्मिन् यस्य कस्यापि जीवस्य मरणं भवेत् ।
न तत्पापैः प्रलिप्येऽहं प्रसादात्तव धूर्जटे ॥ ८५ ॥

ततः प्रदक्षिणीकृत्य नमस्कृत्य गृहं व्रजेत् ।
प्रभाते पुनरागत्य स्नापयेच्चन्द्रशेखरम् ॥ ८६ ॥

शुद्धैः पञ्चामृतैः स्नानं प्रथमं प्रतिपादयेत् ।
ततः सुगन्धितोयानां कलशैः शतसङ्ख्यकैः ॥ ८७ ॥

सम्पूज्य तं यथाशक्त्या प्रार्थयेत् भक्तिभावतः ॥ ८८ ॥

विधिहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् ।
सम्पूर्णमस्तु तत् सर्वं त्वत्प्रसादादुमापते ॥ ८९ ॥

यावच्चन्द्रश्च सूर्यश्च यावत् पृथ्वी च सागराः ।
तावन्मे कीर्तिरतुला लोके तिष्ठतु सर्वदा ॥ ९० ॥

नमस्त्र्यक्षाय रुद्राय पिनाकवरधारिणे ।
विष्णुब्रह्मेन्द्रसूर्याद्यैरर्चिताय नमो नमः ॥ ९१ ॥


ननु पार्वतीपतिं किं प्रार्थयेदित्याकाङ्क्षायामाह गृहेऽस्मिन् करुणासिन्धो इत्यादि ॥ ८३ � ८६ ॥

ननु केन द्रव्येण शिवं स्नापयेदित्यपेक्षायामाह शुद्धैरित्यादि ॥ ८७ ॥

तम् शिवम् ॥ ८८ ॥


ततस्तु दक्षिणां दत्त्वा भोजयेत् कौलिकान् द्विजान् ।
भक्ष्यैः पेयैश्च वासोभिर्दरिद्रान् परितोषयेत् ॥ ९२ ॥

प्रत्यहं पूजयेद्देवं यथाविभवमात्मनः ।
स्थावरं शिवलिङ्गं तु न कदापि विचालयेत् ॥ ९३ ॥

अचलस्येशलिङ्गस्य प्रतिष्ठा कथितेति ते ।
सङ्क्षेपात् परमेशानि सर्वागमसमुद्धृता ॥ ९४ ॥

श्रीदेव्युवाच ।

यद्यकस्माद्देवतानां पूजाबाधो भवेद्विभो ।
विधेयं तत्र किं भक्तैस्तन्मे कथय तत्त्वतः ॥ ९५ ॥

अपूजनीया कैर्दोषैर्भवेयुर्देवमूर्तयः ।
त्याज्या वा केन दोषेण तदुपायश्च भण्यताम् ॥ ९६ ॥

श्रीसदाशिव उवाच ।

एकाहमर्चनाबाधे द्विगुणं देवमर्चयेत् ।
दिनद्वये तद्द्विगुणं तद्द्वैगुण्यं दिनत्रये ॥ ९७ ॥

ततः षण्मासपर्यन्तं यदि पूजा न सम्भवेत् ।
तदाऽष्टकलशैर्देवं स्नापयित्वा यजेत् सुधीः ॥ ९८ ॥

षण्मासात् परतो देवं प्राक्संस्कारविधानतः ।
पुनः सुसंस्कृतं कृत्वा पूजयेत् साधकाग्रणीः ॥ ९९ ॥


ननु शिवं किं प्रार्थयेदित्याकाङ्क्षायामाह विधिहीनमित्यादि ॥ ८९ � ९४ ॥
श्रीदेव्युवाच यदीत्यादि ।
तत्र पूजाबाधे सति ॥ ९५ ॥ ९६ ॥
एवं प्रार्थितः सन् श्रीसदाशिव उवाच एकाहमर्चनाबाधे इत्यादि ॥ ९७ � ९९ ॥


खण्डितं स्फुटितं व्यङ्गं संस्पृष्टं कुष्ठरोगिणा ।
पतितं दुष्टभूम्यादौ न देवं पूजयेद्बुधः ॥ १०० ॥

हीनाङ्गं स्फुटितं भग्नं देवं तोये विसर्जयेत् ।
स्पर्शादिदोषदुष्टं तु संस्कृत्य पुनरर्चयेत् ॥ १०१ ॥

महापीठेऽनादिलिङ्गे सर्वदोषविवर्जिते ।
सर्वदा पूजयेत्तत्र स्वं स्वमिष्टं सुखाप्तये ॥ १०२ ॥

यद्यत्पृष्टं महामाये नृणां कर्मानुजीविनाम् ।
निःश्रेयसाय तत् सर्वं सविशेषं प्रकीर्तितम् ॥ १०३ ॥

विना कर्म न तिष्ठन्ति क्षणार्धमपि देहिनः ।
अनिच्छन्तोऽपि विवशाः कृष्यन्ते कर्मवायुना ॥ १०४ ॥

कर्मणा सुखमश्नन्ति दुःखमश्नन्ति कर्मणा ।
जायन्ते च प्रलीयन्ते वर्तन्ते कर्मणो वशात् ॥ १०५ ॥

अतो बहुविधं कर्म कथितं साधनान्वितम् ।
प्रवृत्तयेऽल्पबोधानां दुश्चेष्टितनिवृत्तये ॥ १०६ ॥

यतो हि कर्म द्विविधं शुभञ्चाऽशुभमेव च ।
अशुभात् कर्मणो यान्ति प्राणिनस्तीव्रयातनाम् ॥ १०७ ॥

कर्मणोऽपि शुभाद्देवि फलेष्वासक्तचेतसः ।
प्रयान्त्यायान्त्यमुत्रेह कर्मशृङ्खलयन्त्रिताः ॥ १०८ ॥


व्यङ्गम् विगताङ्गम् ॥ १०० � १०७ ॥

एवं नानाविधानि सुखप्रापकानि प्रचुरसाधनसंयुक्तानि कर्माणि व्याहृत्येदानीं ब्रह्मज्ञानेनैव लोका मुक्तिमधिगच्छेयुर्नतु कर्मभिरिति व्याहर्तुमुपक्रमते


यावन्न क्षीयते कर्म शुभं वाऽशुभमेव वा ।
तावन्न जायते मोक्षो नृणां कल्पशतैरपि ॥ १०९ ॥

यथा लौहमयैः पाशैः पाशैः स्वर्णमयैरपि ।
तथा बद्धो भवेज्जीवः कर्मभिश्चाऽशुभैः शुभैः ॥ ११० ॥

कुर्वाणः सततं कर्म कृत्वा कष्टशतान्यपि ।
तावन्न लभते मोक्षं यावत् ज्ञानं न विन्दति ॥ १११ ॥

ज्ञानं तत्त्वविचारेण निष्कामेणापि कर्मणा ।
जायते क्षीणतमसां विदुषां निर्मलात्मनाम् ॥ ११२ ॥

ब्रह्मादितृणपर्यन्तं मायया कल्पितं जगत् ।
सत्यमेकं परं ब्रह्म विदित्वैवं सुखी भवेत् ॥ ११३ ॥

विहाय नामरूपाणि नित्ये ब्रह्मणि निश्चले ।
परिनिश्चिततत्त्वो यः स मुक्तः कर्मबन्धनात् ॥ ११४ ॥


कर्मणोऽपि शुभादित्यादि ।
हे देवि शुभादपि कर्मणो हेतोः फलेष्वासक्तचेतसो जनाः कर्मशृङ्खलयन्त्रिताः कर्मरूपेण निगडेन बद्धाः सन्तो लोकादस्मादमुत्र परलोके प्रयान्ति तस्माच्च लोकात् पुनरिहाऽयान्ति मुक्तिभाजिनस्तु न भवन्तीत्यर्थः ॥ १०८ � ११० ॥

न विन्दति न लभते ॥ १११ ॥

ननु मोक्षैकसाधनं ज्ञानं कथमुत्पद्यते तत्राह ज्ञानमित्यादि ।
तत्त्वविचारेण ब्रह्मणो विचारेण क्षीणतमसाम् क्षीणाज्ञानरूपान्धकाराणाम् ।
निर्मलात्मनां विमलान्तःकरणानाम् ॥ ११२ ॥ ११३ ॥


न मुक्तिर्जपनाद्धोमादुपवासशतैरपि ।
ब्रह्मैवाऽहमिति ज्ञात्वा मुक्तो भवति देहभृत् ॥ ११५ ॥

आत्मा साक्षी विभुः पूर्णः सत्योऽद्वैतः परात्परः ।
देहस्थोऽपि न देहस्थो ज्ञात्वैवं मुक्तिभाग् भवेत् ॥ ११६ ॥

बालक्रीडनवत् सर्वं रूपनामादिकल्पनम् ।
विहाय ब्रह्मनिष्ठो यः स मुक्तो नाऽत्र संशयः ॥ ११७ ॥

मनसा कल्पिता मूर्तिर्नृणां चेन्मोक्षसाधनी ।
स्वप्नलब्धेन राज्येन राजानो मानवास्तदा ॥ ११८ ॥

मृच्छिलाधातुदार्वादिमूर्तावीश्वरबुद्धयः ।
क्लिश्यन्तस्तपसा ज्ञानं विना मोक्षं न यान्ति ते ॥ ११९ ॥

आहारसंयमक्लिष्टा यथेष्टाहारतुन्दिलाः ।
ब्रह्मज्ञानविहीनाश्चेन्निष्कृतिं ते व्रजन्ति किम् ॥ १२० ॥

वायुपर्णकणातोयव्रतिनो मोक्षभागिनः ।
सन्ति चेत् पन्नगा मुक्ताः पशुपक्षिजलेचराः ॥ १२१ ॥


विहायेत्यादि ।
नित्ये अविनाशिनि निश्चले पूर्वरूपापरित्यागिनि परिनिश्चितं सम्यक् निर्णीतं तत्त्वं याथार्थ्यं येन स परिनिश्चिततत्त्वः ॥ ११४ ॥ ११५ ॥

आत्मेत्यादि ।
साक्षी शुभाशुभद्रष्टा ।
विभुः व्यापकः ।
पूर्णः अखण्डरूपः ।
अद्वैतः स्वजातीयविजातीयस्वगतभेदशून्यः ॥ ११६ � ११८ ॥

तपसा कृच्छ्रचान्द्रायणादिना ॥ ११९ ॥

निष्कृतिम् निस्तारम् ।
व्रजन्ति प्राप्नुवन्ति ॥ १२० ॥ १२१ ॥


उत्तमो ब्रह्मसद्भावो ध्यानभावस्तु मध्यमः ।
स्तुतिर्जपोऽधमो भावो बहिः पूजाऽधमाधमा ॥ १२२ ॥

योगो जीवात्मनोरैक्यं पूजनं सेवकेशयोः ।
सर्वं ब्रह्मेति विदुषो न योगो न च पूजनम् ॥ १२३ ॥

ब्रह्मज्ञानं परं ज्ञानं यस्य चित्ते विराजते ।
किं तस्य जपयज्ञाद्यैस्तपोभिर्नियमव्रतैः ॥ १२४ ॥

सत्यं विज्ञानमानन्दमेकं ब्रह्मेति पश्यतः ।
स्वभावात् ब्रह्मभूतस्य किं पूजा ध्यानधारणा ॥ १२५ ॥

न पापं नैव सुकृतं न स्वर्गो न पुनर्भवः ।
नापि ध्येयो न वा ध्याता सर्वं ब्रह्मेति जानतः ॥ १२६ ॥

अयमात्मा सदा मुक्तो निर्लिप्तः सर्ववस्तुषु ।
किं तस्य बन्धनं कस्मान्मुक्तिमिच्छन्ति दुर्धियः ॥ १२७ ॥


उत्तम इत्यादि ।
ब्रह्मैव सत् तद्भिन्नं सर्वमसदित्युत्तमो भावः ।
उत्तमं भजनं भवतीत्येवमन्वयः ।
ध्यानभावः ध्यानरूपं भजनम् ॥ १२२ ॥

योग इत्यादि ।
सर्वं ब्रह्मैव भवतीति विदुषो जानतो जनस्य जीवात्मनोरैक्यमेव योगो भवति ।
सेवकेशयोः सेवकेश्वरयोरैक्यमेव पूजनं भवति ।
तद्भिन्नो योगो नास्ति ।
तद्भिन्नं पूजनमपि नास्ति तस्य ॥ १२३ ॥ १२४ ॥

सत्यमित्यादि ।
विज्ञानं विज्ञानस्वरूपम् ।
एकम् अद्वैतम् ।
धारणा चित्तवृत्तिनिरोधः ॥ १२५ ॥

न पुनर्भवः न पुनरुत्पत्तिः ॥ १२६ ॥

निर्लिप्तः अनासक्तः ॥ १२७ ॥


स्वमायारचितं विश्वमवितर्क्यं सुरैरपि ।
स्वयं विराजते तत्र ह्यप्रविष्टः प्रविष्टवत् ॥ १२८ ॥

बहिरन्तर्यथाऽकाशं सर्वेषामेव वस्तुनाम् ।
तथैव भाति सद्रूपो ह्यात्मा साक्षी स्वरूपतः ॥ १२९ ॥

न बाल्यमस्ति वृद्धत्वं नात्मनो यौवनं जनुः ।
सदैकरूपश्चिन्मात्रो विकारपरिवर्जितः ॥ १३० ॥

जन्मयौवनवार्धक्यं देहस्यैव न चाऽत्मनः ।
पश्यन्तोऽपि न पश्यन्ति मायाप्रावृतबुद्धयः ॥ १३१ ॥

यथा शरावतोयस्थं रविं पश्यत्यनेकधा ।
तथैव मायया देहे बहुधाऽत्मानमीक्षते ॥ १३२ ॥

यथा सलिलचाञ्चल्यं मन्यन्ते तद्गते विधौ ।
तथैव बुद्धेश्चाञ्चल्यं पश्यन्त्यात्मन्यकोविदाः ॥ १३३ ॥

घटस्थं यादृशं व्योम घटे भग्नेऽपि तादृशम् ।
नष्टे देहे तथैवात्मा समरूपो विराजते ॥ १३४ ॥


नन्वात्मनो देहरूपं बन्धनमस्त्येव कथमुच्यते अयमात्मा सदामुक्त इत्यादि तत्राह स्वमायेत्यादि ।
अवितर्क्यम् अनूहनीयम् ॥ १२८ ॥ १२९ ॥

जनुः जन्म ।
आत्मनो बालत्वादेरभावे हेतूनाह सदैकरूप इत्याद्यर्धेन ॥ १३० ॥

तर्हि कस्य जन्मादिकं भवति तत्राह जन्मेत्यादि ॥ १३१ ॥

ननु तत्तद्देहस्थित आत्मा नानारूपः प्रतीयते कथमुच्यते सदैकरूप इति तत्राह यथेत्यादि ॥ १३२ ॥


आत्मज्ञानमिदं देवि परं मोक्षैकसाधनम् ।
जानन्निहैव मुक्तः स्यात् सत्यं सत्यं न संशयः ॥ १३५ ॥

न कर्मणा विमुक्तः स्यान्न सन्तत्या धनेन वा ।
आत्मनाऽत्मानमाज्ञाय मुक्तो भवति मानवः ॥ १३६ ॥

प्रियो ह्यात्मैव सर्वेषां नात्मनोऽस्त्यपरं प्रियम् ।
लोकेऽस्मिन्नात्मसम्बन्धात् भवन्त्यन्ये प्रियाः शिवे ॥ १३७ ॥

ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं भाति मायया ।
विचार्यमाणे त्रितये आत्मैवैकोऽवशिष्यते ॥ १३८ ॥

ज्ञानमात्मैव चिद्रूपो ज्ञेयमात्मैव चिन्मयः ।
विज्ञाता स्वयमेवात्मा यो जानाति स आत्मवित् ॥ १३९ ॥

एतत्ते कथितं ज्ञानं साक्षान्निर्वाणकारणम् ।
चतुर्विधावधूतानामेतदेव परं धनम् ॥ १४० ॥

श्रिदेव्युवाच ।

द्विविधावाश्रमौ प्रोक्तौ गार्हस्थो भैक्षुकस्तथा ।
किमिदं श्रूयते चित्रमवधूताश्चतुर्विधाः ॥ १४१ ॥

श्रुत्वा वेदितुमिच्छामि तत्त्वतः कथय प्रभो ।
चतुर्विधावधूतानां लक्षणं सविशेषतः ॥ १४२ ॥


तद्गते विधौ सलिलगते चन्द्रे ।
अकोविदाः अविद्वांसः ॥ १३३ � १४० ॥

चतुर्विधानामवधूतानां लक्षणं विज्ञातुमिच्छन्ती श्रीदेव्युवाच द्विविधावित्यादि ॥ १४१ ॥ १४२ ॥


श्रीसदाशिव उवाच ।

ब्रह्ममन्त्रोपासका ये ब्राह्मणक्षत्रियादयः ।
गृहाश्रमे वसन्तोऽपि ज्ञेयास्ते यतयः प्रिये ॥ १४३ ॥

पूर्णाभिषेकविधिना संस्कृता ये च मानवाः ।
शैवावधूतास्ते ज्ञेयाः पूजनीयाः कुलार्चिते ॥ १४४ ॥

ब्राह्मावधूताः शैवाश्च स्वाश्रमाचारवर्तिनः ।
विदध्युः सर्वकर्माणि मदुदीरितवर्त्मना ॥ १४५ ॥

विना ब्रह्मार्पितं चैते तथा चक्रार्पितं विना ।
निषिद्धमन्नं तोयञ्च न गृह्णीयुः कदाचन ॥ १४६ ॥

ब्राह्मावधूतकौलानां कौलानामभिषेकिणाम् ।
प्रागेव कथितो धर्म आचारश्च वरानने ॥ १४७ ॥

स्नानं सन्ध्याऽशनं पानं दानं च दाररक्षणम् ।
सर्वमागममार्गेण शैवब्राह्मावधूतयोः ॥ १४८ ॥

उक्तावधूतो द्विविधः पूर्णापूर्णविभेदतः ।
पूर्णः परमहंसाख्यः परिव्राडपरः प्रिये ॥ १४९ ॥

कृतावधूतसंस्कारो यदि स्यात् ज्ञानदुर्बलः ।
तदा लोकालये तिष्ठन्नात्मानं स तु शोधयेत् ॥ १५० ॥


श्रीदेव्यैवं प्रार्थितः सन् श्रीसदाशिव उवाच ब्रह्ममन्त्रोपासका य इत्यादि ॥ १४३ ॥ १४४ ॥

विदध्युः कुर्युः ॥ १४५ � १४८ ॥

अपरः अपूर्णः ॥ १४९ � १५३ ॥


रक्षन् स्वजातिचिह्नञ्च कुर्वन् कर्माणि कौलवत् ।
सदा ब्रह्मपरो भूत्वा साधयेत् ज्ञानमुत्तमम् ॥ १५१ ॥

ओ।
तत्सन्मन्त्रमुच्चार्य सोऽहमस्मीति चिन्तयन् ।
कुर्यादात्मोचितं कर्म सदा वैराग्यमाश्रितः ॥ १५२ ॥

कुर्वन् कर्माण्यनासक्तो नलिनीदलनीरवत् ।
यतेताऽत्मानमुद्धर्तुं तत्त्वज्ञानविवेकतः ॥ १५३ ॥

ओ।
तत्सदिति मन्त्रेण यो यत् कर्म समाचरेत् ।
गृहस्थो वाऽप्युदासीनस्तस्याऽभीष्टाय तद् भवेत् ॥ १५४ ॥

जपो होमः प्रतिष्ठा च संस्काराद्यखिलाः क्रियाः ।
ओ।
तत्सन्मन्त्रनिष्पन्नाः सम्पूर्णाः स्युर्न संशयः ॥ १५५ ॥

किमन्यैर्बहुभिर्मन्त्रैः किमन्यैर्भूरिसाधनैः ।
ब्राह्म्येणानेन मन्त्रेण सर्वकर्माणि साधयेत् ॥ १५६ ॥

सुखसाध्यमबाहुल्यं सम्पूर्णफलदायकम् ।
नास्त्येतस्मान्महामन्त्रादुपायान्तरमम्बिके ॥ १५७ ॥

पुरः प्रदेशे देहे वा लिखित्वा धारयेदिमम् ।
गेहस्तस्य महातीर्थं देहः पुण्यमयो भवेत् ॥ १५८ ॥

निगमागमतन्त्राणां सारात्सारतरो मनुः ।
ओ।
तत्सदिति देवेशि तवाग्रे सत्यमीरितम् ॥ १५९ ॥


अथ ओ।
तत्सदिति मन्त्रस्य माहात्म्यमाह ओ।
तत्सदिति मन्त्रेणेत्यादिभिः ।
समाचरेत् कुर्यात् ॥ १५४ � १५७ ॥

इमम् ओ।
तत्सदिति मन्त्रम् ॥ १५८ � १६० ॥


ब्रह्मविष्णुमहेशानां भित्त्वा तालुशिरःशिखाः ।
प्रादुर्भूतोऽयमों तत्सत् सर्वमन्त्रोत्तमोत्तमः ॥ १६० ॥

चतुर्विधानामन्नानामन्येषामपि वस्तुनाम् ।
मन्त्रान्यैः शोधनेनाऽलं स्याच्चेदेतेन शोधितम् ॥ १६१ ॥

पश्यन् सर्वत्र सद्रूपं जपंस्तत्सन्महामनुम् ।
स्वेच्छाचारः शुद्धचित्तः स एव भुवि कौलराट् ॥ १६२ ॥

जपादस्य भवेत् सिद्धो मुक्तः स्यादर्थचिन्तनात् ।
साक्षाद् ब्रह्मसमो देही सार्थमेनं जपन् मनुम् ॥ १६३ ॥

त्रिपदोऽयं महामन्त्रः सर्वकारणकारणम् ।
साधनादस्य मन्त्रस्य भवेन्मृत्युञ्जयः स्वयम् ॥ १६४ ॥

युग्मं युग्मपदं वापि प्रत्येकपदमेव वा ।
जप्त्वैतस्य महेशानि साधकः सिद्धिभाग् भवेत् ॥ १६५ ॥

शैवावधूतसंस्कारविधूताखिलकर्मणः ।
नापि दैवे न वा पित्रे नार्षे कृत्येऽधिकारिता ॥ १६६ ॥

चतुर्णामवधूतानां तुरीयो हंस उच्यते ।
त्रयोऽन्ये योगभोगाढ्या मुक्ताः सर्वे शिवोपमाः ॥ १६७ ॥

हंसो न कुर्यात् स्त्रीसङ्गं न वा धातुपरिग्रहम् ।
प्रारब्धमश्नन् विहरेन्निषेधविधिवर्जितः ॥ १६८ ॥


चतुर्विधानामित्यादि ।
चतुर्विधानाम् भक्ष्यचर्व्यलेह्यचोष्याणाम् ॥ १६१ � १६७ ॥

अश्नन् भुञ्जानः ॥ १६८ ॥


त्यजेत् स्वजातिचिह्नानि कर्माणि गृहमेधिनाम् ।
तुरीयो विचरेत् क्षौणीं निःसङ्कल्पो निरुद्यमः ॥ १६९ ॥

सदात्मभावसन्तुष्टः शोकमोहविवर्जितः ।
निर्नकेतस्तितिक्षुः स्यान्निःशङ्को निरुपद्रवः ॥ १७० ॥

नाऽर्पणं भक्ष्यपेयानां न तस्य ध्यानधारणाः ।
मुक्तो विरक्तो निर्द्वन्द्वो हंसाचारपरो यतिः ॥ १७१ ॥

इति ते कथितं देवि चतुर्णां कुलयोगिनाम् ।
लक्षणं सविशेषेण साधूनां मत्स्वरूपिणाम् ॥ १७२ ॥

एतेषां दर्शनात् स्पर्शादालापात् परितोषणात् ।
सर्वतीर्थफलावाप्तिर्जायते मनुजन्मनाम् ॥ १७३ ॥

पृथिव्यां यानि तीर्थानि पुण्यक्षेत्राणि यानि च ।
कुलसन्न्यासिनां देहे सन्ति तानि सदा प्रिये ॥ १७४ ॥

ते धन्यास्ते कृतार्थाश्च ते पुण्यास्ते कृताध्वराः ।
यैरर्चिताः कुलद्रव्यैर्मानवैः कुलसाधवः ॥ १७५ ॥

अशुचिर्याति शुचितामस्पृश्यः स्पृश्यतामियात् ।
अभक्ष्यमपि भक्ष्यं स्यात् येषां संस्पर्शमात्रतः ॥ १७६ ॥


गृहमेधिनाम् गृहस्थानाम् ।
निरुद्यमः आत्मशरीरनिर्वाहार्थव्यापारशून्यः ॥ १६९ ॥

सदात्मेत्यादि ।
भावः चिन्तनम् ।
निर्निकेतः नियतसततवासशून्यः ।
तितिक्षुः सहनशीलः ॥ १७० � १७२ ॥

अथावधूतानां माहात्म्यमाह एतेषामित्यादिभिः ॥ १७३ ॥ १७४ ॥

कुलद्रव्यैः मद्यादिभिः ॥ १७५ ॥ १७६ ॥


किराताः पापिनः क्रूराः पुलिन्दा यवनाः खसाः ।
शुद्ध्यन्ति येषां संस्पर्शात्तान् विना कोऽन्यमर्चयेत् ॥ १७७ ॥

कुलतत्त्वैः कुलद्रव्यैः कौलिकान् कुलयोगिनः ।
येऽर्चयन्ति सकृद्भक्त्या तेऽपि पूज्या महीतले ॥ १७८ ॥

कौलधर्मात् परो धर्मो नास्त्येव कमलानने ।
अन्त्यजोऽपि यमाश्रित्य पूतः कौलपदं व्रजेत् ॥ १७९ ॥

करिपादे विलीयन्ते सर्वप्राणिपदा यथा ।
कुलधर्मे निमज्जन्ति सर्वे धर्मास्तथा प्रिये ॥ १८० ॥

अहो पुण्यतमाः कौलास्तीर्थरूपाः स्वयं प्रिये ।
ये पुनन्त्यात्मसम्बन्धान् म्लेच्छश्वपचपामरान् ॥ १८१ ॥

गङ्गायां पतिताम्भांसि यान्ति गाङ्गेयतां यथा ।
कुलाचारे विशन्तोऽपि सर्वे गच्छन्ति कौलताम् ॥ १८२ ॥

यथाऽर्णवगतं वारि न पृथग्भावमाप्नुयात् ।
तथा कुलाम्बुधौ मग्ना न भवेयुर्जनाः पृथक् ॥ १८३ ॥

विप्राद्यन्त्यजपर्यन्ता द्विपदा येऽत्र भूतले ।
ते सर्वेऽस्मिन् कुलाचारे भवेयुरधिकारिणः ॥ १८४ ॥


पुलिन्दाः चाण्डालविशेषाः ।
खसाः सङ्कर जातिविषेषाः ।
यदुक्तम् ।
झल्ली मल्लश्च राजन्यो व्रात्यो लिच्छविरेव च ।
नटश्च करणश्चैव खसो द्राविड एव च ॥
इति ॥ १७७ ॥
कुलतत्त्वैः मांसादिभिः ।
कुलद्रव्यैः मद्यैः ॥ १७८ � १८६ ॥


आहूताः कुलधर्मेऽस्मिन् ये भवन्ति पराङ्मुखाः ।
सर्वधर्मपरिभ्रष्टास्ते गच्छन्त्यधमां गतिम् ॥ १८५ ॥

प्रार्थयन्ति कुलाचारं ये केचिदपि मानवाः ।
तान् वञ्चयन् कुलीनोऽपि रौरवं नरकं व्रजेत् ॥ १८६ ॥

चाण्डालं यवनं नीचं मत्वा स्त्रियमवज्ञया ।
कौलं न कुर्यात् यः कौलः सोऽधमो यात्यधोगतिम् ॥ १८७ ॥

शताभिषेकात् यत् पुण्यं पुरश्चर्याशतैरपि ।
तस्मात् कोटिगुणं पुण्यमेकस्मिन् कौलिके कृते ॥ १८८ ॥

ये ये वर्णाः क्षितौ सन्ति यद्यद्धर्ममुपाश्रिताः ।
कौला भवन्तस्ते पाशैर्मुक्ता यान्ति परं पदम् ॥ १८९ ॥

शैवधर्माश्रिताः कौलाः तीर्थरूपाः शिवात्मकाः ।
स्नेहेन श्रद्धया प्रेम्णा पूज्या मान्याः परस्परम् ॥ १९० ॥

बहुनाऽत्र किमुक्तेन तवाग्रे सत्यमुच्यते ।
भवाब्धितरणे सेतुः कुलधर्मो हि नापरः ॥ १९१ ॥

छिद्यन्ते संशयाः सर्वे क्षीयन्ते पापसञ्चयाः ।
दह्यन्ते कर्मजालानि कुलधर्मनिषेवणात् ॥ १९२ ॥

सत्यव्रता ब्रह्मनिष्ठाः कृपयाऽहूय मानवाने ।
पावयन्ति कुलाचारैस्ते ज्ञेयाः कौलिकोत्तमाः ॥ १९३ ॥

इति ते कथितं देवि सर्वधर्मविनिर्णयम् ।
महानिर्वाणतन्त्रस्य पूर्वार्धं लोकपावनम् ॥ १९४ ॥


अवज्ञया तिरस्क्रियया ॥ १८७ � १९४ ॥


य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवान् ।
सर्वपापविनिर्मुक्तः सोऽन्ते निर्वाणमाप्नुयात् ॥ १९५ ॥

सर्वागमानां तन्त्राणां सारात्सारं परात्परम् ।
तन्त्रराजमिदं ज्ञात्वा जायते सर्वशास्त्रवित् ॥ १९६ ॥

किन्तस्य तीर्थभ्रमणैः किं यज्ञैर्जपसाधनैः ।
जानन्नेतन्महातन्त्रं कर्मपाशैर्विमुच्यते ॥ १९७ ॥

स विज्ञः सर्वशास्त्रेषु सर्वधर्मविदां वरः ।
स ज्ञानी ब्रह्मवित् साधुर्य एतद्वेत्ति कालिके ॥ १९८ ॥

अलं वेदैः पुराणैश्च स्मृतिभिः संहितादिभिः ।
किमन्यैर्बहुभिस्तन्त्रैर्ज्ञात्वेदं सर्वविद्भवेत् ॥ १९९ ॥

आसीद् गुह्यतमं यन्मे साधनं ज्ञानमुत्तमम् ।
तव प्रश्नेन तन्त्रेऽस्मिंस्तत् सर्वं सुप्रकाशितम् ॥ २०० ॥

यथा त्वं ब्रह्मणः शक्तिर्मम प्राणाधिका परा ।
महानिर्वाणतन्त्रं मे तथा जानीहि सुव्रते ॥ २०१ ॥

यथा नगेषु हिमवान् तारकासु यथा शशी ।
भास्वांस्तेजःसु तन्त्रेषु तन्त्रराजमिदं तथा ॥ २०२ ॥

सर्वधर्ममयं तन्त्रं ब्रह्मज्ञानैकसाधनम् ।
पठित्वा पाठयित्वाऽपि ब्रह्मज्ञानी भवेन्नरः ॥ २०३ ॥

विद्यते यस्य भवने सर्वतन्त्रोत्तमोत्तमम् ।
न तस्य वंशे देवेशि पशुर्भवति कर्हिचित् ॥ २०४ ॥


अथ महानिर्वाणतन्त्रस्य माहात्म्यमभिधत्ते य इदं शृणुयान्नित्य मित्यादिभिः ॥ १९५ � २०१ ॥


अज्ञानतिमिरान्धोऽपि मूर्खः कर्मजडोऽपि वा ।
शृण्वन्नेतन्महातन्त्रं कर्मबन्धाद्विमुच्यते ॥ २०५ ॥

एतत्तन्त्रस्य पठनं श्रवणं पूजनं तथा ।
वन्दनं परमेशानि नृणां कैवल्यदायकम् ॥ २०६ ॥

उक्तं बहुविधं तन्त्रमेकैकाख्यानसंयुतम् ।
सर्वधर्मान्वितं तन्त्रं नातःपरतरं क्वचित् ॥ २०७ ॥

पातालचक्रं भूचक्रज्योतिश्चक्रसमन्वितम् ।
परार्धमस्य यो वेत्ति स सर्वज्ञो न संशयः ॥ २०८ ॥

परार्धसहितं ग्रन्थमेनं जानन्नरो भवेत् ।
त्रिकालवार्तां त्रैलोक्यवृत्तान्तं कथितुं क्षमः ॥ २०९ ॥

सन्ति तन्त्राणि बहुधा शास्त्राणि विविधान्यपि ।
महानिर्वाणतन्त्रस्य कलां नार्हन्ति षोडशीम् ॥ २१० ॥

महानिर्वाणतन्त्रस्य माहात्म्यं किं ब्रवीमि ते ।
विदित्वैतन्महातन्त्रं ब्रह्मनिर्वाणमाप्नुयात् ॥ २११ ॥


इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे पूर्वकाण्डे शिवलिङ्गस्थापनचतुर्विधावधूतविवरणकथनं नाम चतुर्दशोल्लासः ।

समाप्तोऽयं पूर्वार्धः ।

तेजःसु तेजस्विषु ॥ २०२ � २११ ॥

इति श्रीमहानिर्वाणतन्त्रटीकायां चतुर्दशोल्लासः ।