१३

त्रयोदशोल्लासः

इति निगदितवन्तं देवदेवं महेशं निखिलनिगमसारं स्वर्गमोक्षैकबीजम् ।
कलिमलकलितानां पावनैकान्तचित्ता त्रिभुवनजनमाता पार्वती प्राद्द भक्त्या ॥ १ ॥

देव्युवाच ।

महद्योनेरादिशक्तेर्महाकाल्या महाद्युतेः ।
सूक्ष्मातिसूक्ष्मभूतायाः कथं रूपनिरूपणम् ॥ २ ॥

रूपं प्रकृतिकार्याणां सा तु साक्षात् परात्परा ।
एतन्मे संशयं देव विशेषाच्छेत्तुमर्हसि ॥ ३ ॥


ओ।
नमो ब्रह्मणे ।

इतीत्यादि ।
निगदितवन्तम् कथितवन्तम् ।
कलिमलकलितानां पावनैकान्तचित्ता कलिमलैः संयुक्तानां जनानां पावने दृढमानसा ॥ १ ॥

पार्वती महेशं प्रति किमाहेत्यपेक्षायामाह महद्योनेरित्यादिना ।
महद्योनेः महत्तत्त्वोत्पत्तिस्थानभूतायाः ॥ २ ॥

सा महाकाली ।
एतत् एतम् ॥ ३ ॥


श्रीसदाशिव उवाच ।

उपासकानां कार्याय पुरैव कथितं प्रिये ।
गुणक्रियानुसारेण रूपं देव्याः प्रकल्पितम् ॥ ४ ॥

श्वेतपीतादिको वर्णो यथा कृष्णे विलीयते ।
प्रविशन्ति तथा काल्यां सर्वभूतानि शैलजे ॥ ५ ॥

अतस्तस्याः कालशक्तेर्निर्गुणाया निराकृतेः ।
हितायाः प्राप्तयोगानां वर्णः कृष्णो निरूपितः ॥ ६ ॥

नित्यायाः कालरूपाया अव्ययायाः शिवात्मनः ।
अमृतत्वाल्ललाटेऽस्याः शशिचिह्नं निरूपितम् ॥ ७ ॥

शशिसूर्याग्निभिर्नित्यैरखिलं कालिकं जगत् ।
सम्पश्यति यतस्तस्मात् कल्पितं नयनत्रयम् ॥ ८ ॥


अत्रोत्तरं श्रीसदाशिव उवाच उपासकानामित्यादिभिर्दशभिः ।
हे प्रिये उपासकानां जनानां कार्याय गुणक्रियानुसारेण देव्या महाकाल्या रूपं प्रकल्पितं न तु वास्तवमिति पुरैव कथितम् ॥ ४ ॥

श्वेतेत्यादि ।
हे शैलजे पार्वति यथा कृष्णे वर्णे श्वेतपीतादिको वर्णो विलीयते विशेषेण लीनो भवति तथैव काल्यामपि सर्वभूतानि प्रविशन्ति प्रलीयन्ते ।
अतो हेतोस्तस्याः काल्या वर्णः कृष्णो निरूपितः कथित इत्यन्वयः ।
प्राप्तयोगानाम् लब्धज्ञानरूपमोक्षोपायानाम् ॥ ५ ॥ ६ ॥

नित्याया इत्यादिना ।
नित्याया वृद्धिशून्याया अव्ययाया अपक्षयरहितायाः शिवात्मनः कल्याणस्वरूपायाः कालरूपाया अस्याः काल्या अमृतत्वात् हेतोर्ललाटे शशिचिह्नं निरूपितं कथितम् ॥ ७ ॥

कालिकम् कालसम्भवम् ॥ ८ ॥


ग्रसनात् सर्वसत्त्वानां कालदन्तेन चर्वणात् ।
तद्रक्तसङ्घो देवेश्याः वासोरूपेण भाषितम् ॥ ९ ॥

समये समये जीवरक्षणं विपदः शिवे ।
प्रेरणं स्वस्वकार्येषु वरश्चाभयमीरितम् ॥ १० ॥

रजोजनितविश्वानि विष्टभ्य परितिष्ठति ।
अतो हि कथितं भद्रे रक्तपद्मासनस्थिता ॥ ११ ॥

क्रीडन्तं कालिकं कालं पीत्वा मोहमयीं सुराम् ।
पश्यन्ती चिन्मयी देवी सर्वसाक्षिस्वरूपिणी ॥ १२ ॥

एवं गुणानुसारेण रूपाणि विविधानि च ।
कल्पितानि हितार्थाय भक्तानामल्पमेधसाम् ॥ १३ ॥

श्रीदेव्युवाच ।

ध्यानं यत् कथितं काल्या जीवनिस्तारहेतवे ।
तस्यानुरूपतो मूर्तिं मृण्मयीं वा शिलामयीम् ॥ १४ ॥


सर्वसत्त्वानाम् अशेषजन्तूनाम् ।
कालदन्तेन कालरूपेण दन्तेन ।
तद्रक्तसङ्घः सर्वसत्त्वरुधिरसमूहः ॥ ९ ॥

समये इत्यादि ।
हे शिवे समये समये काले काले विपदः सकाशात् जीवानां रक्षणं स्वस्वकार्येषु प्रेरणं च कालिकाया वरश्चाभयमीरितम् ।
विपत्तितो जीवानां रक्षणमभयं कथितं स्वस्वकार्येषु प्रेरणं वरः कथित इत्यर्थः ॥ १० ॥

विष्टभ्य अवलम्ब्य ॥ ११ ॥

कालिकम् कालसम्भवं जगत् ।
चिन्मयी ज्ञानस्वरूपा ॥ १२ ॥ १३ ॥

आद्यायाः कालिकायास्तद्भिन्नानां च देवतानां प्रतिमाया गृहादीनाञ्च प्रतिष्ठाया विधानं फलं गृहादिप्रदानफलञ्च श्रोतुमिच्छन्ती देव्युवाच �


दारुधातुमयीं वापि निर्माय यदि साधकः ।
विचित्रभवनं कृत्वा वस्त्रालङ्कारभूषिताम् ।
स्थापयेत्तत्र देवेशीं किं फलं तस्य जायते ॥ १५ ॥

प्रतिष्ठा केन विधिना तस्याः प्रतिकृतेः प्रभो ।
कर्तव्या तदशेषेण कृपया मे प्रकाश्यताम् ॥ १६ ॥

वापीकूपगृहारामदेवप्रतिकृतेस्तथा ।
प्रतिष्ठा सूचिता पूर्वं गदिता न विशेषतः ॥ १७ ॥

तद्विधानमपि श्रोतुमिच्छामि त्वन्मुखाम्बुजात् ।
कथ्यतां परमेशान कृपया यदि रोचते ॥ १८ ॥

श्रीसदाशिव उवाच ।

गुह्यमेतत् परं तत्त्वं यत् पृष्टं परमेश्वरि ।
कथयामि तव स्नेहात् समाहितमनाः शृणु ॥ १९ ॥

सकामाश्चैव निष्कामा द्विविधा भुवि मानवाः ।
अकामानां पदं मोक्षः कामिनां फलमुच्यते ॥ २० ॥

यो यद्देवप्रतिकृतिं प्रतिष्ठापयति प्रिये ।
स तल्लोकमवाप्नोति भोगानपि तदुद्भवान् ॥ २१ ॥


ध्यानमित्यादि ।
हे प्रभो जीवनिस्तारहेतवे काल्या यद्ध्यानं कथितं तस्य ध्यानस्यानुरूपतो मृण्मयीं मृत्तिकाविकारभूतां शिलामयीं दारुधातुमयीं वा मूर्तिं निर्माय विचित्रं भवनं च कृत्वा तत्र भवने वस्त्रालङ्कारभूषितां देवेशीं कालीं साधको यदि स्थापयेत्तदा तस्य साधकस्य किं फलं जायते इत्यन्वयः ।
प्रतिकृतेः प्रतिमायाः ॥ १४ � १७ ॥

अपिना फलम् ॥ १८ ॥

श्रीदेव्यैवं प्रार्थितः सन् श्रीसदाशिव उवाच गुह्यमेतदित्यादि ॥ १९ � २१ ॥


मृण्मये प्रतिबिम्बे तु वसेत् कल्पायुतं दिवि ।
दारुपाषाणधातूनां क्रमाद्दशगुणाधिकम् ॥ २२ ॥

तृणकाष्ठादिरचितं ध्वजवाहनसंयुतम् ।
मन्दिरं देवमुद्दिश्य काममुद्दिश्य वा नरः ।
संस्कुर्यादुत्सृजेद्वापि तस्य पुण्यं निशामय ॥ २३ ॥

तृणादिनिर्मितं गेहं यो दद्यात् परमेश्वरि ।
वर्षकोटिसहस्राणि स वसेद्देववेश्मनि ॥ २४ ॥

इष्टकागृहदाने तु तस्माच्छतगुणं फलम् ।
ततोऽयुतगुणं पुण्यं शिलागेहप्रदानतः ॥ २५ ॥

सेतुसङ्क्रमदाताऽद्ये यमलोकं न पश्यति ।
सुखं सुरालयं प्राप्य मोदते स्वर्निवासिभिः ॥ २६ ॥

वृक्षारामप्रतिष्ठाता गत्वा त्रिदशमन्दिरम् ।
कल्पपादपवृन्देषु निवसन् दिव्यवेश्मनि ।
भुङ्क्ते मनोरमान् भोगान् मनसो यानभीप्सितान् ॥ २७ ॥

प्रीतये सर्वसत्त्वानां ये प्रदद्युर्जलाशयम् ।
विधूतपापास्ते प्राप्य ब्रह्मलोकमनामयम् ।
निवसेयुः शतं वर्षानम्भसां प्रतिशीकरम् ॥ २८ ॥


प्रतिबिम्बे प्रतिमायाम् ।
अत्र प्रतिष्ठापिते सति इत्यध्याहार्यम् ॥ २२ ॥

निशामय शृणु ॥ २३ � २७ ॥

जलाशयम् वापीकूपादिकम् ।
अनामयम् निरुपद्रवम् ।
प्रतिशीकरम् प्रत्यम्बुकणम् ॥ २८ ॥


यो दद्याद्वाहनं देवि देवताप्रीतिकारकम् ।
स तेन रक्षितो नित्यं तल्लोके निवसेच्चिरम् ॥ २९ ॥

मृण्मये वाहने दत्ते यत् फलं जायते भुवि ।
दारुजे तद्दशगुणं शिलाजे तद्दशाधिकम् ॥ ३० ॥

रिन्तिका कांस्यताम्रादिनिर्मिते देववाहने ।
दत्ते फलमवाप्नोति क्रमात् शतगुणाधिकम् ॥ ३१ ॥

देव्यागारे महासिंहं वृषभं शङ्करालये ।
गरुडं कैशवे गेहे प्रदद्यात् साधकोत्तमः ॥ ३२ ॥

तीक्ष्णदंष्ट्रः करालास्यः शटाशोभितकन्धरः ।
चतुरङ्घ्रिर्वज्रनखो महासिंहः प्रकीर्तितः ॥ ३३ ॥

शृङ्गायुधः शुद्धकायः चतुष्पादसितक्षुरः ।
बृहत्ककुत् कृष्णपुच्छः श्यामस्कन्धो वृषः स्मृतः ॥ ३४ ॥

गरुडः पक्षिजङ्घस्तु नरास्यो दीर्घनासिकः ।
पादसङ्कोचसंविष्टः पक्षयुक्तः कृताञ्जलिः ॥ ३५ ॥


तल्लोके तस्य देवस्य लोके ॥ २९ ॥ ३० ॥

रिन्तिका पित्तलम् ॥ ३१ ॥ ३२ ॥

महासिंहस्वरूपमाह तीक्ष्णदंष्ट्र इत्याद्येकेन ।
करालास्यः दन्तुरवदनः ।
शटाशोभितकन्धरः शटया परस्परश्लिष्टरोमविशेषसमूहेन शोभिता कन्धरा यस्य तथाभूतः ।
चतुरङ्घ्रिः चतुष्पात् ॥ ३३ ॥

वृषभस्वरूपमाह शृङ्गायुध इत्याद्येकेन ।
असितक्षुरः नीलक्षुरः ॥ ३४ ॥

गरुडस्वरूपमाह गरुड इत्याद्येकेन ।
नरास्यः मनुष्यमुखः ॥ ३५ ॥


पताकाध्वजदानेन देवप्रीतिः शतं समाः ।
ध्वजदण्डस्तु कर्तव्यो द्वात्रिंशद्धस्तसम्मितः ॥ ३६ ॥

सुदृढश्छिररहितः सरलः शुभदर्शनः ।
वेष्टितो रक्तवस्त्रेण कोटौ चक्रसमन्वितः ॥ ३७ ॥

पताका तत्र संयोज्या तत्तद्वाहनचिह्निता ।
प्रशस्तमूला सूक्ष्माग्रा दिव्यवस्त्रविनिर्मिता ।
शोभमाना ध्वजाग्रे या पताका सा प्रकीर्तिता ॥ ३८ ॥

वासोभूषणपर्यङ्कयानसिंहासनानि च ।
पानप्राशनताम्बूलभाजनानि पतद्ग्रहम् ॥ ३९ ॥

मणिमुक्ताप्रवालादिरत्नान्यात्मप्रियञ्च यत् ।
यो दद्याद्देवमुद्दिश्य श्रद्धाभक्तिसमन्वितः ।
स तल्लोकं समासाद्य तत्तत्कोटिगुणं लभेत् ॥ ४० ॥

कामिनां फलमित्युक्तं क्षयिष्णुः स्वप्नराज्यवत् ।
निष्कामानान्तु निर्वाणं पुनरावृत्तिवर्जितम् ॥ ४१ ॥

जलाशयगृहारामसेतुसङ्क्रमशाखिनाम् ।
देवतानां प्रतिष्ठायां वास्तुदैत्यं प्रपूजयेत् ॥ ४२ ॥


पताकेत्यादि ।
पताकाध्वजदानेन पताकासहितध्वजसमर्पणेन ।
शतं समाः शतवर्षाणि देवप्रीतिर्भवति ।
तयोर्मध्ये पूर्वं ध्वजस्वरूपमाह ध्वजदण्ड इत्यादिना सार्धेन ।
कोटौ अग्रभागे ॥ ३६ ॥ ३७ ॥

तत्र ध्वजदण्डे ।
पताकास्वरूपमाह तत्तद्वाहनचिह्नितेत्यादिना सपादश्लोकेन ।
ध्वजाग्रे ध्वजदण्डाग्रभागे ॥ ३८ ॥

पतद्ग्रहम् मुखात् पततो जलताम्बूलादेर्वाहकं पात्रविशेषम् ॥ ३९ ॥


अनर्चयित्वा यो वास्तुं कुर्यात् कर्माणि मानवः ।
विघ्नं तस्याऽचरेद्वास्तुः परिवारगणैः सह ॥ ४३ ॥

कपिलास्यः पिङ्गकेशो भीषणो रक्तलोचनः ।
कोटराक्षो लम्बकर्णो दीर्घजङ्घो महोदरः ॥ ४४ ॥

अश्वतुण्डः काककण्ठो वज्रबाहुर्व्रतान्तकः ।
एते परिकरा वास्तोः पूजनीयाः प्रयत्नतः ॥ ४५ ॥

मण्डलं शृणु वक्ष्यामि यत्र वास्तुं प्रपूजयेत् ॥ ४६ ॥

वेद्यां वा समदेशे वा शस्ताद्भिरुपलेपिते ।
वाय्वीशकोणयोर्मध्ये हस्तमात्रप्रमाणतः ॥ ४७ ॥

सूत्रपातक्रमेणैव रेखामेकां प्रकल्पयेत् ।
ईशानादग्निपर्यन्तमपरां रचयेत्तथा ॥ ४८ ॥

आग्नेयान्नैरृतं यावत् नैरृताद्वायवावधि ।
दत्त्वा रेखे चतुष्कोणमेकं मण्डलमालिखेत् ॥ ४९ ॥


समासाद्य सम्प्राप्य ॥ ४० � ४३ ॥

अथ वास्तुदैत्यस्य परिवारानाह कपिलास्य इत्यादिना सार्धेन ।
परिकराः परिवाराः ॥ ४४ � ४६ ॥

वास्तुप्रपूजनार्थं मण्डलमेवाह वेद्यां वेत्यादिभिः ।
वेद्यां वा शस्ताद्भिः प्रशस्तैर्जलैरुपलेपिते समदेशे वा वाय्वीशकोणयोर्मध्ये सूत्रपातक्रमेणैव हस्तमात्रप्रमाणत एकां रेखां प्रकल्पयेत् रचयेत् ।
तथा तेनैव तेनैव प्रकारेण ईशानादीशानकोणमारभ्याऽग्निकोणपर्यन्तम् अपराम् अन्यां रेखां रचयेत् ।
तथैवाऽग्नेयादग्निकोणमारभ्य नैरृतं यावत् नैरृतकोणावधि नैर्-ऋतमपि कोणमारभ्य वायवावधि वायुकोणपर्यन्तं क्रमतो द्वे रेखे दत्त्वा एवं विधानेन एकं चतुष्कोणं मण्डलमालिखेत् ॥ ४७ � ४९ ॥


कोणसूत्रे पातयित्वा चतुर्धा विभजेत्तु तत् ।
यथा तत्र भवेद्देवि मत्स्यपुच्छचतुष्टयम् ॥ ५० ॥

ततो भित्वा पुच्छमूलं वारुणाद्वासवावधि ।
कौबेराद् याम्यपर्यन्तं दद्याद्रेखाद्वयं सुधीः ॥ ५१ ॥

ततश्चतुर्षु कोणेषु कोणरेखान्वितेष्वपि ।
कर्णाकर्णिप्रयोगेण न्यसेद्रेखाचतुष्टयम् ॥ ५२ ॥

एवं सङ्केतविधिना कोष्ठानां षोडशं लिखन् ।
पञ्चवर्णेन चूर्णेन रचयेद्यन्त्रमुत्तमम् ॥ ५३ ॥

चतुर्षु मध्यकोष्ठेषु पद्मं कुर्यात् मनोहरम् ।
चतुर्दलं पीतरक्तकर्णिकं रक्तकेसरम् ॥ ५४ ॥


कोणसूत्रे इत्यादि ।
हे देवि तत्र चतुष्कोणे मण्डले यथा मत्स्यपुच्छचतुष्टयं भवेत्तथा तत् चतुष्कोणं मण्डलं कोणसूत्रे पातयित्वा चतुर्धा विभजेत् विभक्तं कुर्यात् ॥ ५० ॥

तत इत्यादिना ।
ततः सुधीर्जनो वारुणात् पश्चिममारभ्य वासवावधि पूर्वपर्यन्तं कौबेरादुत्तरमारभ्य याम्यपर्यन्तं दक्षिणावधि च पुच्छमूलं भित्त्वा रेखाद्वयं दद्यात् ॥ ५१ ॥

तत इत्यादिना ।
ततःपरं कोणरेखान्वितेषु चतुर्ष्वपि कोष्ठेषु कर्णाकर्णिप्रयोगेण रेखाचतुष्टयं न्यसेत् ।
अपिना कोणरेखान्वितेषु चतुर्षु कोष्ठेषु पश्चिमात् पूर्वावधि रेखाद्वयमुत्तरस्माद्दक्षिणावधि च रेखाद्वयं न्यसेत् ॥ ५२ ॥

एवमित्यादि ।
एवं सङ्केतविधिना इत्थं सङ्केतविधानेन कोष्ठानां षोडशमालिखेत् ।
ननु केन द्रव्येणेदं मण्डलमालिखेदित्यपेक्षायामाह पञ्चवर्णेनेत्यादि ॥ ५३ ॥


दलानि शुक्लवर्णानि यद्वा पीतानि कल्पयेत् ।
यथेष्टं पूरयेत् पद्मसन्धिस्थानानि वर्णकैः ॥ ५५ ॥

शाम्भवं कोष्ठमारभ्य कोष्ठानां द्वादशं क्रमात् ।
श्वेतकृष्णपीतरक्तैश्चतुर्वर्णैः प्रपूरयेत् ॥ ५६ ॥

दक्षिणावर्तयोगेन कोष्ठानां पूरणं प्रिये ।
वामावर्तेन देवानां पूजनं तेषु साधयेत् ॥ ५७ ॥

पद्मे समर्चयेद्वास्तुदैत्यं विघ्नोपशान्तये ।
ईशादिद्वादशे कोष्ठे कपिलास्यादिदानवान् ॥ ५८ ॥

कुशण्डिकोक्तविधिना कुर्वन्ननलसंस्कृतिम् ।
यथाशक्त्याऽहुतिं दत्त्वा वास्तुयज्ञं समापयेत् ॥ ५९ ॥

इति ते कथिता देवि वास्तुपूजा शुभप्रदा ।
यां साधयन्नरः क्वापि वास्तुविघ्नैर्न बाध्यते ॥ ६० ॥

देव्युवाच ।

मण्डलं कथितं वास्तोर्विधानमपि पूजने ।
ध्यानं न गदितं नाथ तदिदानीं प्रकाशय ॥ ६१ ॥


चतुर्ष्वित्यादि ।
ततश्चतुर्षु मध्यकोष्ठेषु मनोहरं चतुर्दलं चतुष्पत्रकं पीतरक्तकर्णिकं पीतरक्तवर्णबीजकोशकं रक्तकेसरं पद्मं कुर्यात् ॥ ५४ � ५६ ॥

एवं वास्तुमण्डलं कथयित्वेदानीं तत्र सपरिवारस्य वास्तोः पूजाया विधानमाह वामावर्तेनेत्यादिना सार्धद्वयेन ।
तेषु द्वादशसु कोष्ठेषु वामावर्तेन देवानां दीव्यतां कपिलास्यादीनां द्वादशानां दानवानां पूजनं साधयेत् ॥ ५७ � ६० ॥

एवं वास्तुमण्डलं तत्र सपरिवारस्य वास्तोः पूजाया विधानञ्च श्रुत्वेदानीं वास्तोर्ध्यानं श्रोतुमिच्छन्ती श्रीदेव्युवाच मण्डलमित्यादिना ॥ ६१ ॥


श्रीसदाशिव उवाच ।

ध्यानं वच्मि महेशानि श्रूयतां वास्तुरक्षसः ।
यस्यानुशीलनात् सद्यो नश्यन्ति सकलापदः ॥ ६२ ॥

चतुर्भुजं महाकायं जटामण्डितमस्तकम् ।
त्रिलोचनं करालास्यं हारकुण्डलशोभितम् ॥ ६३ ॥

लम्बोदरं दीर्घकर्णं लोमशं पीतवाससम् ।
गदात्रिशूलपरशुखट्वाङ्गं दधतं करैः ॥ ६४ ॥

असिचर्मधरैर्वीरैः कपिलास्यादिभिर्वृतम् ।
शत्रूणामन्तकं साक्षादुद्यदादित्यसन्निभम् ॥ ६५ ॥

ध्यायेद्देवं वास्तुपतिं कूर्मपद्मासनस्थितम् ।
मारीभये रोगभये डाकिन्यादिभये तथा ॥ ६६ ॥

औत्पातिकापत्यदोषे व्यालरक्षोभयेऽपि च ।
ध्यात्वैवं पूजयेद्वास्तुं परिवारसमन्वितम् ॥ ६७ ॥

तिलाज्यपायसैर्हुत्वा सर्वशान्तिमवाप्नुयात् ।
यथा वास्तुः पूजनीयः प्रोक्तकर्मसु सुव्रते ॥ ६८ ॥

ग्रहाश्चापि तथा पूज्या दशदिक्पतिभिर्युताः ।
ब्रह्मा विष्णुश्च रुद्रश्च वाणी लक्ष्मीश्च शङ्करी ॥ ६९ ॥


एवं प्रार्थितः सन् श्रीसदाशिव उवाच ध्यानमित्यादि ॥ ६२ ॥
वास्तोर्ध्यानमेवाह चतुर्भुजमित्यादिना सार्धत्रयेण ॥ ६३ ॥
लोमशम् बहुलोमविशिष्टम् ॥ ६४ ॥


मातरः सगणेशाश्च सम्पूज्या वसवस्तथा ।
पितरो यद्यतृप्ताः स्युः कर्मस्वेतेषु कालिके ॥ ७० ॥

सर्वं तस्य भवेद्व्यर्थं विघ्नञ्चापि पदे पदे ।
अतो महेशि यत्नेन प्रोक्तसंस्कारकर्मसु ॥ ७१ ॥

पितॄणां तृप्तयेऽत्राऽभ्युदयिकं श्राद्धमाचरेत् ।
ग्रहयन्त्रं प्रवक्ष्यामि सर्वशान्तिविधायकम् ॥ ७२ ॥

यत्र सम्पूजिताः सेन्द्रा ग्रहा यच्छन्ति वाञ्छितम् ।
त्रित्रिकोणैर्लिखेद्यन्त्रं तद्वहिर्वृत्तमालिखेत् ॥ ७३ ॥

विदध्याद्वृत्तलग्नानि दलान्यष्टौ च तद्बहिः ।
चतुर्द्वारान्वितं कुर्यात् भूपुरं सुमनोहरम् ॥ ७४ ॥

वासवेशानयोर्मध्ये भूपुरस्य बहिःस्थले ।
वृत्तं विरचयेदेकं प्रादेशपरिमाणकम् ॥ ७५ ॥

रक्षोवारुणयोर्मध्ये चापरं कल्पयेत्तथा ॥ ७६ ॥


उद्यदादित्यसन्निभम् उद्यत्सूर्यसदृशम् ॥ ६५ � ७२ ॥

सेन्द्राः इन्द्रादिदशदिक्पतिसहिताः ।
यच्छन्ति ददति ॥ ७३ ॥

ग्रहयन्त्रमेवाह त्रित्रिकोणैरित्यादिभिः ।
प्रथमतस्त्रिभिस्त्रिकोणैर्विशिष्टं यन्त्रं लिखेत् ।
ततस्तद्बहिस्त्रित्रिकोणेभ्यो बहिर्वृत्तं वर्तुलमेकं मण्डलमालिखेत् ।
ततो वृत्तलग्नान्यष्टौ दलानि पत्राणि विदध्यात् कुर्यात् ।
तद्बहिश्चतुर्द्वारान्वितं सुमनोहरं भूपुरं कुर्यात् ।
ततो वासवेशानयोर्मध्ये भूपुरस्य बहिःस्थले प्रादेशपरिमाणकमेकं वृत्तं वर्तुलं मण्डलं विलिखयेत् ।
ततो रक्षोवरुणयोः नैरृत्यपश्चिमयोर्मध्ये भूपुरस्य बहिःस्थले तथैव प्रादेशपरिमाणकमपरं वृत्तं मण्डलं कल्पयेद्रचयेत् ॥ ७४ � ७६ ॥


नवग्रहाणां वर्णेन नवकोणानि पूरयेत् ।
मध्यत्रिकोणद्वौ पार्श्वौ सव्यदक्षिणभेदतः ॥ ७७ ॥

श्वेतपीतौ विधातव्यौ पृष्ठभागः सितेतरः ।
अष्टदिक्पतिवर्णेन पर्णान्यष्टौ प्रपूरयेत् ॥ ७८ ॥

सितरक्तासितैश्चूर्णैः पुरः प्राकारमाचरेत् ।
पुरो बहिःस्थे द्वे वृत्ते देवि प्रादेशसम्मिते ॥ ७९ ॥

उपर्यधःक्रमेणैव रक्तश्वेते विधाय च ।
सन्धिस्थानानि यन्त्रस्य स्वेच्छया रञ्जयेत् सुधीः ॥ ८० ॥

यत्कोष्ठे यो ग्रहः पूज्यो यत्पत्रे यश्च दिक्पतिः ।
यद्द्वारेऽवस्थिता ये च तत्क्रमं शृणु साम्प्रतम् ॥ ८१ ॥

मध्यकोणे यजेत् सूर्यं पार्श्वयोररुणं शिखाम् ।
पश्चात् प्रचण्डयोर्दण्डौ पूजयेदंशुमालिनः ॥ ८२ ॥

भानूर्ध्वकोणे पूर्वस्यामर्चयेद्रजनीकरम् ।
आग्नेये मङ्गलं याम्ये बुधं नैरृतकोणके ॥ ८३ ॥


नवग्रहाणामित्यादि ।
तत् सूर्यादीनां नवग्रहाणां वर्णेन विशिष्टैश्चूर्णैः नवकोणानि पूरयेत् ।
ततः सव्यदक्षिणभेदतो मध्यत्रिकोणस्य द्वौ पार्श्वौ क्रमतः श्वेतपीतौ विधातव्यौ ।
मध्यत्रिकोणस्य पृष्ठभागः सितेतरः कृष्णवर्णो विधातव्यः ।
ततः इन्द्रादीनामष्टानां दिक्पतीनां वर्णेन विशिष्टैश्चूर्णैरष्टौ पर्णानि पत्राणि प्रपूरयेत् ॥ ७७ ॥ ७८ ॥

सितेत्यादि ।
ततः सितरक्तासितैः श्वेतलोहितकृष्णवर्णैश्चूर्णैः पुरो भूपुरस्य प्राकारमाचरेत् कुर्यात् ।
हे देवि पुरो भूपुरस्य बहिःस्थे प्रादेशसम्मिते द्वे वृत्ते वर्तुले मण्डले उपर्यधःक्रमेणैव रक्तश्वेते विधाय सुधीः साधको मन्त्रस्य सन्धिस्थानानि स्वेच्छया रञ्जयेत् ॥ ७९ � ८३ ॥


बृहस्पतिं वारुणे च दैत्याचार्यं प्रपूजयेत् ।
शनैश्चरं तु वायव्ये कौवेरेशानयोः क्रमात् ।
राहुं केतुं यजेत् चन्द्रं परितस्तारकागणान् ॥ ८४ ॥

सूरो रक्तः शशी शुक्लो मङ्गलोऽरुणविग्रहः ।
बुधजीवौ पाण्डुपीतौ श्वेतः शुक्रोऽसितः शनिः ।
राहुकेतू विचित्राभौ ग्रहवर्णाः प्रकीर्तिताः ॥ ८५ ॥

चतुर्भुजं रविं ध्यायेत् पद्मद्वयवराभयैः ।
चिन्तयेच्छशिनं दानमुद्रामृतकराम्बुजम् ॥ ८६ ॥

कुजमीषत्कुब्जतनुं हस्ताभ्यां दण्डधारिणम् ।
ध्यायेत् सोमात्मजं बालं भाललोलितकुन्तलम् ॥ ८७ ॥

यज्ञसूत्रान्वितं ध्यायेत् पुस्तकाक्षकरं गुरुम् ।
एवं दैत्यगुरुञ्चापि काणं खञ्जं शनैश्चरम् ॥ ८८ ॥


परितः सर्वतः ॥ ८४ ॥

अथ क्रमतः सूर्यादीनां नवग्रहाणां वर्णानाह सूर इत्यादिना सार्धेन ।
सूरः सूर्यः ॥ ८५ ॥

अथ सूर्यादीनां नवग्रहाणां क्रमतो ध्यानमाह चतुर्भुजमित्यादिभिः ।
पद्मद्वयवराभयैर्विशिष्टं चतुर्भुजं रविं सूर्यं ध्यायेत् ।
दानमुद्रामृतकराम्बुजं दानमुद्रा चामृतञ्च कराम्बुजयोर्हस्तपद्मयोर्यस्य तथाभूतं शशिनं चन्द्रं विचिन्तयेत् ॥ ८६ ॥

सोमात्मजम् बुधम् ।
भाललोलितकुन्तलम् भाले लोलिताश्चलिताः कुन्तलाः केशा यस्य तथाभूतम् ॥ ८७ ॥ ८८ ॥


राहुकेतू शिरःकायौ विकृतौ क्रूरचेष्टितौ ।
स्वैः स्वैर्ध्यानैर्ग्रहानिष्ट्वा यजेदिन्द्रादिदिक्पतीन् ॥ ८९ ॥

दलेष्वष्टसु पूर्वादिक्रमतः साधकोत्तमः ।
सहस्राक्षं यजेदादौ पीतकौषेयवाससम् ॥ ९० ॥

वज्रपाणिं पीतरुचिं स्थितमैरावतोपरि ।
रक्ताभं छागवाहस्थं शक्तिहस्तं हुताशनम् ॥ ९१ ॥

ध्यायेत् कालं लुलापस्थं दण्डिनं कृष्णविग्रहम् ।
निरृतिं खड्गहस्तञ्च श्यामलं वाजिवाहनम् ॥ ९२ ॥

वरुणं मकरारूढं पाशहस्तं सितप्रभम् ।
ध्यायेत् कृष्णत्विषं वायुं मृगस्थञ्चाङ्कुशायुधम् ॥ ९३ ॥

कुबेरं कनकाकारं रत्नसिंहासनस्थितम् ।
स्तुतं यक्षगणैः सर्वैः पाशाङ्कुशकराम्बुजम् ॥ ९४ ॥

ईशानं वृषभारूढं त्रिशूलवरधारिणम् ।
व्याघ्रचर्माम्बरधरं पूर्णेन्दुसदृशप्रभम् ॥ ९५ ॥


इष्ट्वा पूजयित्वा ॥ ८९ ॥

अथ क्रमत इन्द्रादीनामष्टानां दिक्पतीनां ध्यानं वर्णञ्चाह सहस्राक्षमित्यादिभिः ।
पीतकौशेयवाससम् पीतं कौशेयं कृमिकोशोत्थं वासो वस्त्रं यस्य तथाभूतम् ॥ ९० ॥ ९१ ॥

कालम् यमम् ।
लुलापस्थम् महिषस्थम् ॥ ९२ ॥

निरृतिम् राक्षसम् ॥ ९३ � ९५ ॥


ध्यात्वा चैतान् क्रमादिष्ट्वा ब्रह्मानन्तौ पुरो बहिः ।
ऊर्ध्वाधोवृत्तयोरर्च्यौ ततोऽर्च्या द्वारदेवताः ॥ ९६ ॥

उग्रो भीमः प्रचण्डेशौ पूर्वद्वाःस्थाः प्रकीर्तिताः ।
जयन्तः क्षेत्रपालश्च नकुलेशो बृहच्छिराः ।
याम्यद्वारे पश्चिमे च वृकाश्वानन्ददुर्जयाः ॥ ९७ ॥

त्रिशिराः पुरजिच्चैव भीमनादो महोदरः ।
उत्तरद्वारपाश्चैते सर्वे शस्त्रास्त्रपाणयः ॥ ९८ ॥

श्रूयतां ब्रह्मणो ध्यानमनन्तस्यापि सुव्रते ॥ ९९ ॥

रक्तोत्पलनिभो ब्रह्मा चतुरास्यश्चतुर्भुजः ।
हंसारूढो वराभीतिमालापुस्तकपाणिकः ॥ १०० ॥

हिमकुन्देन्दुधवलः सहस्राक्षः सहस्रपात् ।
सहस्रपाणिवदनो ध्येयोऽनन्तः सुरासुरैः ॥ १०१ ॥

ध्यानं पूजाक्रमश्चापि यन्त्रञ्च कथितं प्रिये ।
वास्त्वादिक्रमतो ह्येषां मन्त्रानपि शृणु प्रिये ॥ १०२ ॥


ध्यात्वेत्यादि ।
एतानिन्द्रादीनष्टौ दिक्पतीनेवं ध्यात्वा क्रमादिष्ट्वा पूजयित्वा च पुरो भूपुराद्बहिरूर्ध्वाधःस्थितयोर्वृत्तयोर्मण्डलयोर्ब्रह्मा- नन्तौ दिक्पती क्रमतोऽर्च्यौ पूजनीयौ ।
ततो द्वारदेवता अर्च्याः ॥ ९६ ॥

पूज्या द्वारदेवता एवाह उग्रो भीम इत्यादिना सार्धद्वयेन ॥ ९७ ॥ ९८ ॥

ब्रह्मणो ध्यानमेवाह रक्तोत्पलनिभ इत्यादिना ॥ ९९ ॥ १०० ॥

अथाऽनन्तस्य ध्यानमाह हिमकुन्देन्दुधवल इत्याद्येकेन ॥ १०१ ॥

एषाम् वास्त्वादीनामनन्तान्तानाम् ॥ १०२ ॥


क्षकारो हव्यवाहस्थः षड्दीर्घस्वरसंयुतः ।
भूषितो नादबिन्दुभ्यां वास्तुमन्त्रः षडक्षरः ॥ १०३ ॥

तारं मायां तीग्मरश्मे ङेऽन्तमारोग्यदं वदेत् ।
वह्निजायां ततो दत्त्वा सूर्यमन्त्रं समुद्धरेत् ॥ १०४ ॥

कामो माया च वाणी च ततोऽमृतकरेति च ।
अमृतं प्लावय द्वन्दं स्वाहा सोममनुर्मतः ॥ १०५ ॥

ऐ।
ह्रा।
ह्री।
सर्वपदाद्दुष्टान्नाशय नाशय ।
स्वाहावसानो मन्त्रोऽयं मङ्गलस्य प्रकीर्तितः ॥ १०६ ॥


वास्त्वादीनां क्रमतो मन्त्रानेवाह क्षकारः इत्यादिभिः ।
हव्यवाहस्थः हव्यवाहो रेफः तत्स्थः क्षकारः षड्दीर्घस्वरसंयुतो नादबिन्दुभ्यां भूषितश्च कर्तव्यः ।
एवञ्च क्ष्रा।
क्ष्री।
क्ष्रू।
क्ष्रै।
क्ष्रौ।
क्ष्र।
ः इति षडक्षरो वास्तुमन्त्र उद्धृत आसीत् ॥ १०३ ॥

तारमित्यादि ।
पूर्वम् तारं प्रणवं वदेत् ।
ततो मायां ह्री।
बीजं वदेत् ।
ततस्तीग्मरश्मे इति वदेत् ।
ततो ङेऽन्तमारोग्यदं वदेत् ।
ततो वह्निजायां दत्त्वा सूर्यमन्त्रं समुद्धरेत् ।
योजनया ओ।
ह्री।
तीग्मरश्मे आरोग्यदाय स्वाहेति सूर्यमन्त्र उद्धृत आसीत् ॥ १०४ ॥

काम इत्यादि ।
पूर्वं कामः क्लीमिति बीजमुच्येत ।
ततो माया ह्री।
बीजमुच्येत ।
ततो वाणी ऐमिति बीजमुच्येत ।
ततोऽमृतकरेत्युच्येत ।
ततोऽमृतमुच्येत ।
ततः प्लावयद्वन्द्वमुच्येत ।
ततः स्वाहोच्येत ।
योजनया क्ली।
ह्री।
ऐ।
अमृतकराऽमृतं प्लावय प्लावय स्वाहेति सोममनुर्मतः ॥ १०५ ॥

ऐमित्यादि ।
पूर्वम् ऐ।
ह्रा।
ह्री।
वदेत् ।
ततः सर्वपदतो दुष्टान्नाशय नाशयेति वदेत् ।
योजनया ऐ।
ह्रा।
ह्री।
सर्वदुष्टान्नाशय नाशयेति मन्त्रो जातः ।
स्वाहावसानः स्वाहान्तोऽयं मङ्गलस्य मन्त्रः प्रकीर्तितः ॥ १०६ ॥


ह्री।
श्री।
सौम्यपदञ्चोक्त्वा सर्वान् कामां स्ततो वदेत् ।
पूरयाऽन्ते वह्निकान्तामेष सोमात्मजे मनुः ॥ १०७ ॥

तारेण पुटिता वाणी ततः सुरगुरोपदम् ।
अभीष्टं यच्छ यच्छेति स्वाहामन्त्रो बृहस्पतेः ॥ १०८ ॥

शा।
शी।
शू।
शै।
ततः शौ।
श।
ः शुक्रमन्त्रः समीरितः ॥
ह्रा।
ह्रा।
ह्री।
ह्री।
सर्वशत्रून् विद्रावय पदद्वयम् ।
मार्तण्डसूनवे पश्चात् नमो मन्त्रः शनैश्चरे ॥ ११० ॥

रा।
ह्रौ।
भ्रौ।
ह्री।
सोमशत्रो शत्रून् विध्वंसय द्वयम् ।
राहवे नम इत्येष राहोर्मनुरुदाहृतः ॥ १११ ॥


ह्रीमित्यादि ।
पूर्वम् ह्री।
श्री।
सौम्यपदं चोक्त्वा ततः सर्वान् कामान् वदेत् ।
ततः पूरयान्ते वह्निकान्तां वदेत् ।
योजनया ह्री।
श्री।
सौम्य सर्वान् कामान् पूरय स्वाहेत्येष सोमात्मजे बुधे मनुर्मतः ॥ १०७ ॥

तारेणेत्यादि ।
तारेण प्रणवेन पुटिता आदावन्ते च संयुक्ता वाणी वक्तव्या ।
ततः सुरगुरो इति पदं वदेत् ।
ततोऽभीष्टं यच्छ यच्छेति वदेत् ।
ततः स्वाहेति वदेत् ।
योजनया ओ।
ऐ।
ओ।
सुरगुरो अभीष्टं यच्छ यच्छ स्वाहेति बृहस्पतेर्मन्त्रो मतः ॥ १०८ ॥

शा।
शी।
शू।
शै।
शौ।
श।
ः इति शुक्रमन्त्रः समीरितः कथितः ॥ १०९ ॥

ह्रा।
ह्रामित्यादि ।
पूर्वम् ह्रा।
ह्रा।
ह्री।
ह्री।
सर्वशत्रूनिति वदेत् ।
ततो विद्रावयपदद्वयं वदेत् ।
ततो मार्तण्डसूनवे इति वदेत् ।
पश्चान्नमो वदेत् ।
योजनया ह्रा।
ह्रा।
ह्री।
ह्री।
सर्वशत्रून् विद्रावय विद्रावय मार्तण्डसूनवे नमः इति शनैश्चरे मन्त्रो मतः ॥ ११० ॥

रामित्यादि ।
पूर्वं रा।
ह्रौ।
भ्रौ।
ह्री।
सोमशत्रो शत्रूनिति वदेत् ।
ततो विध्वंसयद्वयं वदेत् ।
ततो राहवे नम इति वदेत् ।
योजनया रा।
ह्रौ।


क्रू।
ह्र।
क्रै।
केतवे स्वाहा केतोर्मन्त्रः प्रकीर्तितः ॥ ११२ ॥

ल।
र।
मृ।
स्त्रू।
व।
यमिति क्ष।
हौ।
ब्रीममिति क्रमात् ।
इन्द्राद्यनन्तदिक्पानां दशमन्त्राः समीरिताः ॥ ११३ ॥

अन्येषां परिवारणां नाममन्त्राः प्रकीर्तिताः ।
अनुक्तमन्त्रे सर्वत्र विधिरेष शिवोदितः ॥ ११४ ॥

नमोऽन्तमन्त्रे देवेशि न नमो योजयेद् बुधः ।
स्वाहान्तेऽपि तथामन्त्रे न दद्याद्वह्निवल्लभाम् ॥ ११५ ॥

ग्रहादिभ्यः प्रदातव्यं पुष्पं वासश्च भूषणम् ।
तेषां वर्णानुरूपेण नान्यथा प्रीतये भवेत् ॥ ११६ ॥

कुशण्डिकोक्तविधिना वह्निं संस्थापयन् सुधीः ।
पुष्पैरुच्चावचैर्यद्वा समिद्भिर्होममाचरेत् ॥ ११७ ॥

शान्तिकर्मणि पुष्टौ च वरदो हव्यवाहनः ।
प्रतिष्ठायां लोहिताक्षः शत्रुहा क्रूरकर्मणि ॥ ११८ ॥


भ्रै।
ह्री।
सोमशत्रो शत्रून् विध्वंसय विध्वंसय राहवे नम इत्येष राहोर्मनुरुदाहृतः कथितः ॥ १११ ॥ ११२ ॥

लमित्यादि ।
लमिति रमिति मृमिति स्त्रूमिति वमिति यमिति क्षमिति हौमिति ब्रीमिति अमित्येते क्रमादिन्द्रादीनामनन्तान्तानां दिक्पानां दशमन्त्राः समीरिताः कथिताः ॥ ११३ ॥ ११४ ॥

वह्निवल्लभाम् स्वाहेति पदम् ॥ ११५ ॥

तेषां ग्रहादीनाम् ॥ ११६ ॥

समिद्भिः काष्ठैः ॥ ११७ ॥


शान्तौ पुष्टौ महेशानि तथा क्रूरेऽपि कर्मणि ।
ग्रहयागं प्रकुर्वाणो वाच्छितार्थमवाप्नुयात् ॥ ११९ ॥

यथा प्रतिष्ठाकार्येषु देवार्चा पितृतर्पणम् ।
वास्तोर्यागे ग्रहाणाञ्च तद्वदेव विधीयते ॥ १२० ॥

यद्येकस्मिन् दिने द्विस्त्रिः प्रतिष्ठा यागकर्म च ।
तन्त्रेण तत्र देवार्चा पितृश्राद्धाग्निसंस्क्रियाः ॥ १२१ ॥

जलाशयगृहारामसेतुसङ्क्रमशाखिनः ।
वाहनासनयानानि वासोऽलङ्करणानि च ॥ १२२ ॥

पानाशनीयपात्राणि देयवस्तूनि यान्यपि ।
असंस्कृतानि देवाय न प्रदद्युः फलेप्सवः ॥ १२३ ॥

काम्ये कर्मणि सर्वत्र बुधः सङ्कल्पमाचरेत् ।
विधिवाक्यानुसारेण सम्पूर्णसुकृताप्तये ॥ १२४ ॥

संस्कृताभ्यर्चितं द्रव्यं नामोच्चारणपूर्वकम् ।
सम्प्रदानाभिधाञ्चोक्त्वा दत्त्वा सम्यक् फलं लभेत् ॥ १२५ ॥

जलाशयगृहारामसेतुसङ्क्रमशाखिनाम् ।
कथ्यन्ते प्रोक्षणे मन्त्राः प्रयोज्या ब्रह्मविद्यया ॥ १२६ ॥


वरदो वरदनामा ।
लोहिताक्षो लोहिताक्षाख्यः ।
शत्रृहा शत्रृहसञ्ज्ञकः ॥ ११८ � १२० ॥

तन्त्रेण एकधैव ॥ १२१ � १२४ ॥

संस्कृताभ्यर्चितम् शोधितं प्रपूजितम् ।
सम्प्रदानाभिधां सम्प्रदाननामधेयम् ॥ १२५ ॥

ब्रह्मविद्यया गायत्र्या सह ॥ १२६ ॥


जीवनाधार जीवानां जीवनप्रद वारुण ।
प्रोक्षणे तव तृप्यन्तु जलभूचरखेचराः ॥ १२७ ॥

तृणकाष्ठादिसम्भूत वासेय ब्रह्मणः प्रिय ।
त्वां प्रोक्षयामि तोयेन प्रीतये भव सर्वदा ॥ १२८ ॥

इष्ठकादिसमुद्भूत वक्तव्यन्त्विष्टकामये ॥ १२९ ॥

फलैः पत्रैश्च शाखाद्यैश्छायाभिश्च प्रियङ्कराः ।
यच्छन्तु मेऽखिलान् कामान् प्रोक्षितास्तीर्थवारिभिः ॥ १३० ॥

सेतुस्त्वं भवसिन्धूनां पारदः पथिकप्रियः ।
मया सम्प्रोक्षितः सेतो यथोक्तफलदो भव ॥ १३१ ॥

सङ्क्रम त्वां प्रोक्षयामि लोकानां सङ्क्रमं यथा ।
ददासीह तथा स्वर्गे सङ्क्रमो मे प्रदीयताम् ॥ १३२ ॥

आरामप्रोक्षणे मन्त्रो य एव कथितः प्रिये ।
स एव शाखिसंस्कारे प्रयोक्तव्यो मनीषिभिः ॥ १३३ ॥


तेषां मध्ये प्रथमतो जलाशयप्रोक्षणमन्त्रमाह जीवनाधार जीवानामिति ।
जीवनाधार जलाधार ।
वारुण वरुणदेवताक ॥ १२७ ॥

अथ गृहप्रोक्षणमन्त्रमाह तृणकाष्ठादिसम्भूतेति ।
वासेय वासाय हित ॥ १२८ ॥

इष्टकादीत्यादि ।
इष्टकादिमये गृहे प्रोक्षणीये तृणकाष्ठादिसम्भूते इत्यत्र इष्टकादिसमुद्भूतेति वक्तव्यम् ॥ १२९ ॥

अथारामप्रोक्षणमन्त्रमाह फलैः पत्रैश्च शाखाद्यैरिति ॥ १३० ॥

अथ सेतुप्रोक्षणमन्त्रमाह सेतुस्त्वं भवसिन्धूनामिति ॥ १३१ ॥

अथ सङ्क्रमप्रोक्षणमन्त्रमाह सङ्क्रम त्वां प्रोक्षयामीति ।
सङ्क्रम्यते सम्यक् पादविक्षेपः क्रियते लोकैर्यत्र स सङ्क्रमः सेतुविशेषः तत्सम्बोधने सङ्क्रमेति ।
सङ्क्रमम् सम्यग्गमनम् ॥ १३२ ॥ १३३ ॥


प्रणवो वारुणञ्चाऽस्त्रं बीजत्रितयमम्बिके ।
सर्वसाधारणद्रव्यप्रोक्षणे विनियोजयेत् ॥ १३४ ॥

स्नापनार्हं वाहनं चेत् स्नापयेत् ब्रह्मविद्यया ।
अन्यत्रैवाऽर्घ्यतोयेन कुशाग्रेण विशोधयेत् ॥ १३५ ॥

प्राणप्रतिष्ठामाचर्य तत्तद्वाहनसञ्ज्ञया ।
पूजितोऽलङ्कृतो वाहो देयो भवति दैवते ॥ १३६ ॥

जलाशये पूजनीयो वरुणो यादसां पतिः ।
गृहे प्रजापतिर्ब्रह्माऽरामे सेतौ च सङ्क्रमे ।
पूज्यो विष्णुर्जगत्पाता सर्वात्मा सर्वदृग्विभुः ॥ १३७ ॥

देव्युवाच ।

विविधानि विधानानि कथितान्युक्तकर्मसु ।
क्रमो न दर्शितो येन मानवः कर्म साधयेत् ॥ १३८ ॥

क्रमव्यत्ययकर्माणि बह्वायासकृतान्यपि ।
न यच्छन्ति फलं सम्यक् नॄणां कर्मानुजीविनाम् ॥ १३९ ॥


प्रणव इत्यादि ।
हे अम्बिके प्रणव ओङ्कारः वारुणं वम् अस्त्रं फडिति बीजत्रितयं सर्वसाधारणद्रव्यप्रोक्षणे विनियोजयेत् ॥ १३४ ॥

ब्रह्मविद्यया गायत्र्या ॥ १३५ ॥

प्राणेत्यादि ।
पूर्वोक्तेनोहनीयलिङ्गकपदशालिना देवीप्राणप्रतिष्ठामन्त्रेण वाहनस्य प्राणप्रतिष्ठामाचर्य कृत्वा तत्तद्वाहनसञ्ज्ञया पूजितोऽलङ्कृतश्च वाहो वाहनं दैवते देयो भवति ॥ १३६ ॥

सर्वदृक् सकलपदार्थद्रष्टा ।
विभुः व्यापकः ॥ १३७ ॥

अथोक्तकृत्यतत्तत्कर्मक्रमं जिज्ञासुर्देव्युवाच विविधानीत्यादिना ॥ १३८ ॥ १३९ ॥


श्रीसदाशिव उवाच ।

यदुक्तं परमेशानि मातेव हितकारिणि ।
निःश्रेयसन्तल्लोकानां फलव्यापृतचेतसाम् ॥ १४० ॥

एतेषामुक्तकृत्यानामनुष्ठानं पृथक् पृथक् ।
वास्तुयागक्रमाद्देवि कथयाम्यवधीयताम् ॥ १४१ ॥

पूर्वेऽह्नि नियताहारः श्वःप्रातः स्नानमाचरेत् ।
कृत्वा पौर्वाह्निकं कर्म गुरुं नारायणं यजेत् ॥ १४२ ॥

ततः स्वकाममुद्दिश्य विधिदर्शितवर्त्मना ।
कृतसङ्कल्पको मन्त्री गणेशादीन् समर्चयेत् ॥ १४३ ॥

बन्धूकाभं त्रिनेत्रं द्विरदवरमुखं नागयज्ञोपवीतं शङ्खं चक्रं कृपाणं विमलसरसिजं हस्तपद्मैर्दधानम् ।
उद्यद्बालेन्दुमौलिं दिनकरकिरणोद्दिप्तवस्त्राङ्गशोभं नानालङ्कारयुक्तं भजत गणपतिं रक्तपद्मोपविष्टम् ॥ १४४ ॥

एवं ध्यात्वा यथाशक्त्या पूजयित्वा गणेश्वरम् ।
ब्रह्माणञ्च ततो वाणीं विष्णुं लक्ष्मीं समर्चयेत् ॥ १४५ ॥


एवं प्रार्थितः सन् श्रीसदाशिव उवाच यदुक्तमित्यादिना ।
फलव्यापृतचेतसाम् फलाय व्यापृतं व्यापारविशिष्टं चेतो येषां ते तेषाम् ॥ १४० ॥

अनुष्ठानम् साधनम् ॥ १४१ ॥

वास्तुयागक्रमादुक्तकृत्यानामनुष्ठानस्य क्रममाह पूर्वेऽह्नीत्यादिभिः ॥ १४२ ॥ १४३ ॥

अथ गणपतिध्यानमाह बन्धूकाभमित्याद्येकेन ।
बन्धूकाभम् बन्धूकपुष्पसदृशद्युतिम् ।
उद्यद्बालेन्दुमौलिम् उद्यन् यो बाल इन्दुर्बालश्चन्द्रः स मौलौ


शिवं दुर्गां ग्रहांश्चापि तथा षोडश मातृकाः ।
घृतधारास्वपि वसूनिष्ट्वा कुर्यात् पितृक्रियाम् ॥ १४६ ॥

ततः प्रोक्तविधानेन मण्डलं वास्तुरक्षसः ।
निर्माय पूजयेत्तत्र वास्तुदैत्यं गणैः सह ॥ १४७ ॥

ततस्तु स्थण्डिलं कृत्वा वह्निं संस्कृत्य पूर्ववत् ।
धाराहोमान्तमाचर्य वास्तुहोमं समारभेत् ॥ १४८ ॥

यथाशक्त्याऽहुतीस्तस्मै परिवारगणाय च ।
तथा पूजितदेवेभ्यो दत्त्वा कर्म समापयेत् ॥ १४९ ॥

वास्तुयागे पृथक्कार्ये एष ते कथितः क्रमः ।
अनेनैव ग्रहाणाञ्च यज्ञोऽपि विहितः प्रिये ॥ १५० ॥

ग्रहाणामत्र मुख्यत्वान्नाङ्गत्वेन प्रपूजनम् ।
सङ्कल्पानन्तरं कार्यं वास्त्वर्चनमिति क्रमः ॥ १५१ ॥

गणेशाद्यर्चनं सर्वं वास्तुयागविधानवत् ।
ग्रहाणां यन्त्रमन्त्रौ च ध्यानं प्रागेव कीर्तितम् ॥ १५२ ॥

प्रसङ्गात् कथितौ भद्रे ग्रहवास्तुक्रतुक्रमौ ।
अथ प्रस्तुतकृत्यानामुच्यते कूपसंस्क्रिया ॥ १५३ ॥


किरीटे यस्य तथाभूतम् ।
दिनकरकिरणोद्दिप्तवस्त्राङ्गशोभम् दिनकरकिरणवदुद्दिप्तेन वस्तेणाङ्गे शोभा यस्य तथाभूतम् ॥ १४४ ॥ १४५ ॥

इष्ट्वा पूजयित्वा ॥ १४६ ॥ १४७ ॥

आचर्य विधाय ॥ १४८ ॥

तस्मै वास्तुदैत्याय ॥ १४९ ॥

अनेनैव क्रमेण ॥ १५० ॥

अत्र ग्रहयज्ञे ॥ १५१ � १५३ ॥


सङ्कल्पं विधिवत् कृत्वा वास्तुपूजनमाचरेत् ।
मण्डले कलशे वापि शालग्रामे यथामति ॥ १५४ ॥

ततः पूज्यो गणपतिर्ब्रह्मा वाणी हरी रमा ।
शिवो दुर्गा ग्रहाश्चापि पूज्या दिक्पतयस्तथा ॥ १५५ ॥

मातरौ वसवोऽष्टौ च ततः कार्या पितृक्रिया ।
प्राधान्यं वरुणस्यात्र स हि पूज्यो विशेषतः ॥ १५६ ॥

नानोपहारैर्वरुणमर्चयित्वा स्वशक्तितः ।
विधिवत् संस्कृते वह्नौ वारुणं होममाचरेत् ॥ १५७ ॥

पूजितेभ्यश्च देवेभ्यो दत्त्वा प्रत्येकमाहुतिम् ।
पूर्णाहुत्यन्तकृत्येन होमकर्म समापयेत् ॥ १५८ ॥

ततो ध्वजपताकास्रग्गन्धसिन्दूरचर्चितम् ।
उक्तप्रोक्षणमन्त्रेण प्रोक्षयेत् कूपमुत्तमम् ॥ १५९ ॥

ततः स्वकाममुद्दिश्य देवमुद्दिश्य वा नरः ।
सर्वभूतप्रीणनायोत्सृजेत् कूपजलाशयम् ॥ १६० ॥

कृताञ्जलिपुटो भूत्वा प्रार्थयेत् साधकाग्रणीः ।
सुप्रीयन्तां सर्वभूता नभोभूतोयवासिनः ॥ १६१ ॥

उत्सृष्टं सर्वभूतेभ्यो मयैतज्जलमुत्तमम् ।
तृप्यन्तु सर्वभूतानि स्नानपानावगाहनैः ॥ १६२ ॥

सामान्यं सर्वजीवेभ्यो मया दत्तमिदं जलम् ।
ये च केचिद्विपद्यन्ते स्वस्वकर्मविपाकतः ॥ १६३ ॥


कूपसंस्कारक्रममेवाह सङ्कल्पमित्यादिभिः ॥ १५४ ॥ १५५ ॥
अत्र कूपसंस्कारे ।
सः वरुणः ॥ १५६ � १६० ॥


तत्पापैर्न प्रलिप्येऽहं सफलास्तु मम क्रिया ।
ततस्तु दक्षिणां कृत्वा कृतशान्त्यादिकक्रियः ॥ १६४ ॥

ब्राह्मणान् भोजयेत् कौलान् दीनानपि बुभुक्षितान् ।
जलाशयप्रतिष्ठासु सर्वत्रैष क्रमः शिवे ॥ १६५ ॥

तडागादौ च कर्तव्या नागस्तम्भजलेचराः ॥ १६६ ॥

मीनमण्डूकमकरकूर्माश्च जलजन्तवः ।
कार्या धातुमयाश्चैते कर्तृवित्तानुसारतः ॥ १६७ ॥

मत्स्यौ स्वर्णमयौ कुर्यात् मण्डूकावपि हेमजौ ।
राजतौ मकरौ कूर्ममिथुनं ताम्ररिन्तिकम् ॥ १६८ ॥

एतैर्जलचरैः सार्धं तडागमपि दीर्घिकाम् ।
सागरञ्च समुत्सृज्य प्रार्थयन्नागमर्चयेत् ॥ १६९ ॥


ननु साधकाग्रणीः किं प्रार्थयेदित्याकाङ्कायामाह सुप्रीयन्तामित्यादिभिः ॥ १६१ � १६५ ॥

तडागादिप्रतिष्ठायां यो विशेषस्तमाह तडागादौ चेत्यादिभिः ।
तडागादौ संस्कार्ये सति नागस्तम्भो जलेचराश्च कर्तव्याः ॥ १६६ ॥

ननु किं द्रव्यमयाः के वा जलजन्तवः कर्तव्या इत्यपेक्षायामाह मीनमण्डूकेत्यादिना ॥ १६७ ॥

ननु किं धातुमयाः कति वा मीनादयो जलजन्तवो विधातव्या इत्याकाङ्क्षायामाह मत्स्यौ स्वर्णमयावित्यादिना ॥ १६८ ॥

एतैरित्यादि ।
एतैर्मीनादिभिर्जलचरैः सार्धं तडागं दीर्घिकां सागरञ्चापि समुत्सृज्य नागं प्रार्थयन् सन अर्चयेत् ॥ १६९ ॥


अनन्तो वासुकिः पद्मो महापद्मश्च तक्षकः ।
कुलीरः कर्कटः शङ्खः पाथसां रक्षका इमे ॥ १७० ॥

इत्यष्टौ नागनामानि लिखित्वाऽश्वत्थपल्लवे ।
स्मृत्वा प्रणवगायत्र्यौ घटमध्ये विनिःक्षिपेत् ॥ १७१ ॥

चन्द्रार्कौ साक्षिणौ कृत्वा विलोड्यैकं समुद्धरेत् ।
तत्रोत्तिष्ठति यो नागस्तं कुर्यात्तोयरक्षकम् ॥ १७२ ॥

स्तम्भमेकं समानीय विंशहस्तमितं शुभम् ।
सरलं दारुजं तैलैरुक्षितञ्च हरिद्रया ॥ १७३ ॥

स्नापयेत्तीर्थतोयेन व्याहृत्या प्रणवेन च ।
तत्र ह्रीश्रीक्षमाशान्तिसहितं नागमर्चयेत् ॥ १७४ ॥


ननु कस्मिन् स्थाने कं वा नागमभ्यर्चयेत् किं वा प्रार्थयेदित्यपेक्षायामाह अनन्त इत्यादिना ।
इमेऽनन्तादयोऽष्टौ नागाः पाथसां जलानां रक्षका भवन्तीत्यन्वयः ॥ १७० ॥

इत्यष्टावित्यादि ।
इत्येतान्यनन्तादीन्यष्टौ नागनामान्यश्वत्थपल्लवे लिखित्वा प्रणवगायत्र्यौ स्मृत्वा घटमध्ये विनिःक्षिपेत् ॥ १७१ ॥

चन्द्रार्कावित्यादि ।
ततश्चन्द्रार्कौ साक्षिणौ कृत्वा लिखितनागनामान्यश्वत्थपल्लवानि विलोड्यैकं लिखितनागनामकमश्वत्थपल्लवं समुद्धरेत् ।
तत्र यो नाग उत्तिष्ठति तं नागं तोयरक्षकं कुर्यात् ॥ १७२ ॥

स्तम्भमित्यादि ।
विंशहस्तमितं विंशतिहस्तपरिमितं सरलमवक्रं दारुजं काष्ठसम्भवं तैलैर्हरिद्रया चोक्षितमभ्यक्तं शुभमेकं स्तम्भं समानीय व्याहृत्या प्रणवेन च तीर्थतोयेन स्नापयेत् ।
तत्र स्नापिते स्तम्भे ह्रीश्रीक्षमाशान्तिसहितं नागमर्चयेत् ॥ १७३ ॥ १७४ ॥


नाग त्वं विष्णुशय्याऽसि महादेवविभूषणम् ।
स्तम्भमेनमधिष्ठाय जलरक्षां कुरुष्व मे ॥ १७५ ॥

इति प्रार्थ्य ततो नागस्तम्भं मध्येजलाशयम् ।
समारोप्य तडागञ्च कर्ता कुर्यात् प्रदक्षिणम् ॥ १७६ ॥

यूपश्चेत् स्थापितः पूर्वं तदा नागं घटेऽर्चयन् ।
तज्जलं तत्र निःक्षिप्य शिष्टं कर्म समापयेत् ॥ १७७ ॥

एवं गृहप्रतिष्ठायां कृतसङ्कल्पको बुधः ।
वास्त्वादिवसुपूजान्तं पैत्रं कर्म च कूपवत् ॥ १७८ ॥

विधायाऽत्र विशेषेण यजेद्देवं प्रजापतिम् ।
प्राजापत्यञ्च हवनं कुर्यात् साधकसत्तमः ॥ १७९ ॥


नाग त्वमित्यादि ।
हे नाग त्वं विष्णुशय्याऽसि महादेवविभूषणञ्चाऽसि एनं स्तम्भमधिष्ठाय मे मम जलरक्षां कुरुष्व ॥ १७५ ॥

इतीत्यादि ।
इति नागं प्रार्थ्य ततो नागस्तम्भं मध्येजलाशयं जलाशयस्य मध्ये समारोप्य कर्ता तडागप्रदक्षिणं कुर्यात् ।
मध्ये जलाशयमिति पारे मध्ये षष्ट्या वा इत्यनेनाव्ययीभावः ॥ १७६ ॥

यूप इत्यादि ।
चेद्यदि यूपो नागस्तम्भः पूर्वमेव स्थापितो भवेत् तदा नागं घटेऽर्चयन् कर्ता तज्जलं घटसम्बन्धिजलं तत्र तडागे निःक्षिप्य शिष्टमवशेषं कर्म समापयेत् ॥ १७७ ॥

एवं जलाशयप्रतिष्ठाविधानमुक्त्वाऽथ गृहप्रतिष्ठाविधानमाह एवं गृह प्रतिष्ठायामित्यादिभिः ॥ १७८ ॥

अत्र गृहसंस्कारे ॥ १७९ ॥


गृहं पूर्वोक्तमन्त्रेण प्रोक्ष्य गन्धादिनाऽर्चयन् ।
ईशानाभिमुखो भूत्वा प्रार्थयेद्विहिताञ्जलिः ॥ १८० ॥

प्रजापतिपते गेह पुष्पमाल्यादिभूषितः ।
अस्माकं शुभवासाय सर्वथा सुखदो भव ॥ १८१ ॥

ततस्तु दक्षिणां कृत्वा शान्त्याशीर्वादमाचरेत् ।
विप्रान् कुलीनान् दीनांश्च भोजयेदात्मशक्तितः ॥ १८२ ॥

अन्यार्थन्तु प्रतिष्ठा चेत् तद्वासायात्र योजयेत् ।
देवत्राकृतगेहस्य विधानं शृणु शैलजे ॥ १८३ ॥

इत्थं संस्कृत्य भवनं शङ्खतूर्यादिनिःस्वनैः ।
देवतासन्निधिं गत्वा प्रार्थयेद्विहिताञ्जलिः ॥ १८४ ॥

उत्तिष्ठ देवदेवेश भक्तानां वाञ्छितप्रद ।
आगत्य जन्मसाफल्यं कुरु मे करुणानिधे ॥ १८५ ॥


गृहमित्यादि ।
ततः पूर्वोक्तमन्त्रेण गृहं प्रोक्ष्याऽभिषिच्य गन्धादिना गृहमर्चयन् कर्ता ईशानाभिमुखो भूत्वा विहिताञ्जलिः सन् गृहं प्रार्थयेत् ॥ १८० ॥

गृहं प्रति प्रार्थनामेवाह प्रजापतिपते इत्याद्येकेन ।
प्रजापतिः पतिर्यस्य स प्रजापतिपतिः तत्सम्बोधने प्रजापतिपते इति ॥ १८१ ॥ १८२ ॥

अन्यार्थन्त्वित्यादि ।
चेद्यद्यन्यार्थं गृहस्य प्रतिष्ठा विधीयते तदाऽत्र गृहप्रतिष्ठायां कर्तव्ये सङ्कल्पे तद्वासायेति योजयेत् ।
हे शैलजे पार्वति देवत्राकृतगेहस्य देवताधीनकृतगृहस्य दानस्य विधानं त्वं शृणु ॥ १८३ ॥

देवत्राकृतगेहदानविधानमेवाह इत्थमित्यादिभिः ।
इत्थं पूर्वोक्तविधानेन भवनं गृहं संस्कृत्य शङ्खतूर्यादिनिःस्वनैः सह देवतासन्निधिं गत्वा विहिताञ्जलिः सन् देवतां प्रार्थयेत् ॥ १८४ ॥

यत् प्रार्थयेत्तदाह उत्तिष्ठेत्यादिना ॥ १८५ ॥


इत्यभ्यर्थ्य गृहाभ्यर्णे देवमानीय साधकः ।
उपस्थाप्य गृहद्वारि पुरतो वाहनं न्यसेत् ॥ १८६ ॥

त्रिशूलमथवा चक्रं विन्यस्य भवनोपरि ।
रोपयेन्मन्दिरेशाने सपताकं ध्वजं सुधीः ॥ १८७ ॥

चन्द्रातपैः किङ्किणीभिः पुष्पस्रक्चूतपल्लवैः ।
शोभयित्वा गृहं सम्यक् छादयेद्दिव्यवाससा ॥ १८८ ॥

उत्तराभिमुखं देवं वक्ष्यमाणविधानतः ।
स्नापयेद्विहितैर्द्रव्यैस्तत्क्रमं वच्मि ते शृणु ॥ १८९ ॥

ऐ।
ह्री।
श्रीमिति मन्त्रान्ते मूलमन्त्रं समुच्चरन् ।
दुग्धेन स्नापयामि त्वां मातेव परिपालय ॥ १९० ॥

प्रोक्तबीजत्रयस्यान्ते तथा मूलं नियोजयन् ।
दध्ना त्वां स्नापयाम्यद्य भवतापहरो भव ॥ १९१ ॥


इतीत्यादि ।
साधको जन इत्यभ्यर्थ्य गृहाभ्यर्णे गृहसमीपे देवमानीय गृहद्वार्युपस्थाप्य च तस्य पुरतो वाहनं न्यसेत् स्थापयेत् ॥ १८६ ॥

त्रिशूलमित्यादि ।
सुधीर्जनो भवनोपरि त्रिशूलमथवा चक्रं विन्यस्य संस्थाप्य मन्दिरेशाने गृहेशानकोणे सपताकं पताकासहितं ध्वजं रोपयेत् ॥ १८७ ॥ १८८ ॥

तत्क्रमम् वक्ष्यमाणेन विधानेन विहितैः द्रव्यैर्देवस्नापनस्य क्रमम् ॥ १८९ ॥

तत्क्रममेवाह ऐ।
ह्री।
श्रीमित्यादिभिः ।
ऐ।
ह्री।
श्रीमिति मन्त्रान्ते मूलमन्त्रं समुच्चरन् तदन्ते च दुग्धेन स्नापयामि त्वां मातेव परिपालय इति समुच्चरन् कर्ता पूर्वं दुग्धेन देवं स्नापयेत् ॥ १९० ॥

प्रोक्तेत्यादि ।
ततः परं प्रोक्तबीजत्रयस्यान्ते तथैव मूलं मन्त्रं विनियोजयन् तदन्ते च दध्ना त्वां स्नापयाम्यद्य भवतापहरो भव इति समुच्चरन् कर्ता दध्ना देवं स्नापयेत् ॥ १९१ ॥


पुनर्बीजत्रयं मूलं सर्वानन्दकरेति च ।
मधुना स्नापितः प्रीतो मामानन्दमयं कुरु ॥ १९२ ॥

प्राग्वन्मूलं समुच्चार्य सावित्रीं प्रणवं स्मरन् ।
देवप्रियेण हविषा आयुःशुक्रेण तेजसा ।
स्नानं ते कल्पयामीश मामरोगं सदा कुरु ॥ १९३ ॥

तद्वन्मूलञ्च गायत्रीं व्याहृतिं समुदीरयन् ।
देवेश शर्करातोयैः स्नातो मे यच्छ वाञ्छितम् ॥ १९४ ॥

तथा मूलं समुच्चार्य गायत्रीं वारुणं मनुम् ।
विधात्रा निर्मितैर्दिव्यैः प्रियैः स्निग्धैरलौकिकैः ।
नारिकेलोदकैः स्नानं कल्पयामि नमोऽस्तु ते ॥ १९५ ॥


पुनरित्यादि ।
पुनः ऐ।
ह्री।
श्रीमिति बीजत्रयं समुच्चरन् तदन्ते मूलं मन्त्रं समुच्चरन् तदन्ते सर्वानन्दकरेति समुच्चरन् तदन्ते च मधुना स्नापितः प्रीतो मामानन्दमयं कुरु इति समुच्चरन् कर्ता मधुना देवं स्नापयेत् ॥ १९२ ॥

प्राग्वदित्यादि ।
प्राग्वदेव मूलं मन्त्रं समुच्चार्य ततः सावित्रीं गायत्रीं प्रणवमोङ्कारं च स्मरन् सन्

देवप्रियेण हविषा आयुःशुक्रेण तेजसा ।

स्नानन्ते कल्पयामीश मामरोगं सदा कुरु ॥

इति स्मरन् कर्ता घृतेन देवं स्नापयेत् ।
आयुःशुक्रेण आयुःशुक्रवर्धकेन तेजसा तेजोवर्धकेन ॥ १९३ ॥

तद्वदित्यादि ।
तद्वदेव मूलमन्त्रं गायत्रीं व्याहृतिञ्च समुदीरयन् ततो देवेश शर्करातोयैः स्नातो मे यच्छ वाञ्छितम् इति च समुदीरयन् कर्ता शर्करातोयैर्देवं स्नापयेत् ॥ १९४ ॥

तथेत्यादि ।
तथैव मूलं मन्त्रं गायत्रीं वारुणं मनुं वमिति मन्त्रं च समुच्चार्य ततः


गायत्र्या मूलमन्त्रेण स्नापयेदिक्षुजैः रसैः ॥ १९६ ॥

कामबीजं तथा तारं सावित्रीं मूलमीरयन् ।
कर्पूरागुरुकाश्मीरकस्तूरीचन्दनोदकैः ।
सुस्नातो भव सुप्रीतो भुक्तिमुक्ती प्रयच्छ मे ॥ १९७ ॥

इत्यष्टकलशैः स्नानं कारयित्वा जगत्पतिम् ।
गृहाभ्यन्तरमानीय स्थापयेदासनोपरि ॥ १९८ ॥

स्नापनार्हा न चेदर्चा तद्यन्त्रे वापि तन्मनौ ।
शालग्रामशिलायां वा स्नापयित्वा प्रपूजयेत् ॥ १९९ ॥


विधात्रा निर्मितैर्दिव्यैः प्रियैः स्निग्धैरलौकिकैः ।

नारिकेलोदकैः स्नानं कल्पयामि नमोऽस्तु ते ॥

इति समुच्चरन् कर्ता नारिकेलजलैर्देवं स्नापयेत् ॥ १९५ ॥

ततो गायत्र्या मूलमन्त्रेण च इक्षुजैः रसैर्देवं स्नापयेत् ॥ १९६ ॥

कामबीजमित्यादि ।
कामबीजं क्लीमिति बीजं तथा तारमोङ्कारं सावित्रीं गायत्रीं मूलं मन्त्रं चेरयन्नुच्चरन् ततः

कर्पूरागुरुकाश्मीरकस्तूरीचन्दनोदकैः ।

सुस्नातो भव सुप्रीतो भुक्तिमुक्ती प्रयच्छ मे ॥

इति चोदीरयन् कर्ता कर्पूरादिवासितैर्जलैर्देवं स्नापयेत् ।
काश्मीरम् कुङ्कुमम् ॥ १९७ ॥

इतीत्यादि ।
इत्यनेनैव विधानेन क्रमेण चाष्टकलसैरष्टकलसपरिमितैर्दुग्धादिभिः स्नानं कारयित्वा गृहाभ्यन्तरमानीय च जगत्पतिं देवमासनोपरि स्थापयेत् ॥ १९८ ॥

स्नापनार्हेत्यादि ।
चेद्यद्यर्चा देवताप्रतिमा स्नापनार्हा स्नापनयोग्या न भवेत् तदा तद्यन्त्रे देवतायन्त्रे तन्मनौ तद्देवतामन्त्रे वा शालग्रामशिलायां वा स्नापयित्वा देवं प्रपूजयेत् ॥ १९९ ॥


अशक्तौ मूलमन्त्रेण स्नापयेच्छुद्धपाथसाम् ।
अष्टभिः कलशैर्यद्वा पञ्चभिः सप्तभिर्यथा ॥ २०० ॥

घटप्रमाणं प्रागेव कथितं चक्रपूजने ।
सर्वत्रागमकृत्येषु स एव विहितो घटः ॥ २०१ ॥

ततो यजेन्महादेवं स्वस्वपूजाविधानतः ।
तत्रोपचारान् वक्ष्यामि शृणु देवि परात्परे ॥ २०२ ॥

आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।
मधुपर्कस्तथाचम्यं स्नानीयं वस्त्रभूषणे ॥ २०३ ॥

गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा ।
देवार्चनासु निर्दिष्टा उपचाराश्च षोडश ॥ २०४ ॥

पाद्यमर्घ्यञ्चाचमनं मधुपर्काचमौ तथा ।
गन्धादिपञ्चकं चैते उपचारा दश स्मृताः ॥ २०५ ॥

गन्धपुष्पे धूपदीपौ नैवेद्यञ्चापि कालिके ।
पञ्चोपचाराः कथिता देवतायाः प्रपूजने ॥ २०६ ॥


अशक्तावित्यादि ।
दुग्धादिभिः देवतायाः स्नापनेऽशक्तौ सत्यां मूलमन्त्रेण शुद्धपाथसां शुद्धानां जलानामष्टभिः सप्तभिः पञ्चभिर्वा कलशैर्यथावद्देवं स्नापयेत् ॥ २०० ॥ २०१ ॥

महादेवम् महान्तं देवम् ।
तत्र देवयजने ॥ २०२ ॥

उपचारानेवाह आसनमित्यादिभिः ।
निर्दिष्टाः कथिताः ॥ २०३ ॥ २०४ ॥

उपचारप्रकारभेदमाह पाद्येत्यादिद्वयेन ।
स्पष्टम् ॥ २०५ ॥ २०६ ॥


अस्त्रेणाऽर्घ्याम्भसा द्रव्यं प्रोक्ष्य धेनुं प्रदर्शयन् ।
सम्पूज्य गन्धपुष्पाभ्यां द्रव्याख्यानं समुल्लिखेत् ॥ २०७ ॥

वक्ष्यमाणमनुं स्मृत्वा मूलञ्च देवताभिधाम् ।
सचतुर्थीं समुच्चार्य त्यागार्थं वचनं पठेत् ॥ २०८ ॥

निवेदनविधिः प्रोक्तो देवे देयेषु वस्तुषु ।
अनेन विधिना विद्वान् द्रव्यं दद्याद्दिवौकसे ॥ २०९ ॥

आद्यार्चनविधौ पूर्वं पाद्यार्घ्यादिनिवेदनम् ।
अर्पणं कारणादीनां सर्वमेव प्रदर्शितम् ॥ २१० ॥

अनुक्तमन्त्रा ये तत्र तानेवात्र शृणु प्रिये ।
आसनाद्युपचाराणां प्रदाने विनियोजयेत् ॥ २११ ॥

सर्वभूतान्तरस्थाय सर्वभूतान्तरात्मने ।
कल्पयाम्युपवेशार्थमासनं ते नमो नमः ॥ २१२ ॥


अथासनादिसमर्पणविधिमाह अस्त्रेणेत्यादिद्वयेन ।
अस्त्रेण फडितिमन्त्रेणार्घ्याम्भसाऽर्घ्यजलेन द्रव्यमासनादिकं प्रोक्ष्याऽभिषिच्य तदुपरि धेनुं मुद्रां प्रदर्शयन् साधको गन्धपुष्पाभ्यां द्रव्यं सम्पूज्य द्रव्याख्यानं द्रव्यनाम समुल्लिखेदुच्चारयेत् ।
वक्ष्यमाणं मनुं स्मृत्वा मूलं मन्त्रं सचतुर्थीं देवताभिधां च समुच्चार्य त्यागार्थं वचनं पठेत् ॥ २०७ � २०८ ॥

दिवौकसे देवाय ॥ २०९ � २११ ॥

आद्यार्चनविधावनुक्तान्मन्त्रानेव क्रमेणाह सर्वभूतान्तरस्थायेत्यादि ।
हे देव सर्वेषां भूतानामन्तरे तिष्ठतीति सर्वभूतान्तरस्थस्तस्मै सर्वभूतान्तरस्थाय ।
सर्वेषां भूतानामन्तरात्मने ।
ते तुभ्यमुपवेशार्थमासनं कल्पयामि समर्पयामि ।
ते तुभ्यं नमो नमोऽस्तु अनेन मन्त्रेण देवायाऽसनं दद्यात् ॥ २१२ ॥


उक्तक्रमेण देवेशि प्रदायाऽसनमुत्तमम् ।
कृताञ्जलिपुटो भूत्वा स्वागतं प्रार्थयेत्ततः ॥ २१३ ॥

देवाः स्वाभीष्टसिद्ध्यर्थं यस्य वाञ्छन्ति दर्शनम् ।
सुस्वागतं स्वागतं मे तस्मै ते परमात्मने ॥ २१४ ॥

अद्य मे सफलं जन्म जीवनं सफलाः क्रियाः ।
स्वागतं यत्त्वया तन्मे तपसां फलमागतम् ॥ २१५ ॥

देवमामन्त्र्य सम्प्रार्थ्य स्वागतप्रश्नमम्बिके ।
विहितं पाद्यमादाय मन्त्रमेनमुदीरयेत् ॥ २१६ ॥

यत्पादजलसंस्पर्शाच्छुद्धिमाप जगत्त्रयम् ।
तत्पादाब्जप्रोक्षणार्थं पाद्यन्ते कल्पयाम्यहम् ॥ २१७ ॥


उक्तेत्यादि ।
हे देवेशि उक्तक्रमेण देवायोत्तममासनं प्रदाय ततः कृताञ्चलिपुटो भूत्वा देवाः स्वाभीष्टसिद्ध्यर्थमित्यादिवचनद्वयमुदीरयन् अमुकदेव त्वया स्वागतं सुस्वागतमिति स्वागतं भक्त्या देवं प्रार्थयेत् ॥ २१३ ॥

देवा इत्यादि ।
हे परमात्मन् यस्य भवतो दर्शनं देवा अपि स्वाभीष्टसिद्ध्यर्थं वाञ्छन्ति तेन त्वया मे मदर्थं स्वागतं सुस्वागतम् तस्मै परमात्मने ते तुभ्यं नमः ॥ २१४ ॥

अद्येत्यादि ।
हे देव यद्यतस्त्वया स्वागतं तत् ततो हेतोरद्य मे मम जन्म जीवनञ्च सफलं जातम् ।
क्रिया अपि सफला जाताः ।
मे मम तपसामपि फलमागतम् ॥ २१५ ॥

देवमित्यादि ।
हे अम्बिके देवमामन्त्र्य सम्बोध्य उक्तमन्त्रद्वयमुदीरयन् स्वागतप्रश्नं सम्प्रार्थ्य विहितं पाद्यमादाय गृहीत्वा एतं मन्त्रमुदीरयेद्वदेत् ॥ २१६ ॥

यं मन्त्रमुदीरयेत्तमाह यत्पादजलेति ।
हे परमेश्वर यत्पादजलसंस्पर्शाज्जगत्त्रयं शुद्धिमाप जगाम तत्पादाब्जप्रोक्षणार्थं ते तुभ्यं पाद्यमहं कल्पयामि समर्पयामि इमं मन्त्रमुदीर्य देवाय पाद्यं दद्यात् ॥ २१७ ॥


परमानन्दसन्दोहो जायते यत्प्रसादतः ।
तस्मै सर्वात्मभूताय आनन्दार्घ्यं समर्पये ॥ २१८ ॥

जातीलवङ्गकक्कोलैर्जलं केवलमेव वा ।
प्रोक्षितार्चितमादाय मन्त्रेणाऽनेन चार्पयेत् ॥ २१९ ॥

यदुच्छिष्टमुपस्पृष्टं शुद्धिमेत्यखिलं जगत् ।
तस्मै मुखारविन्दाय आचामं कल्पयामि ते ॥ २२० ॥

मधुपर्कं समादाय भक्त्याऽनेन समर्पयेत् ॥ २२१ ॥

तापत्रयविनाशार्थमखण्डानन्दहेतवे ।
मधुपर्कं ददाम्यद्य प्रसीद परमेश्वर ॥ २२२ ॥

अशुचिः शुचितामेति यत्स्पृष्टस्पर्शमात्रतः ।
तस्मिंस्ते वदनाम्भोजे पुनराचमनीयकम् ॥ २२३ ॥


परमानन्दसन्दोह इत्यादि ।
परमानन्दसन्दोहः परमानन्दसमूहः ।
अनेन मन्त्रेण देवायाऽर्घ्यं दद्यात् ॥ २१८ ॥

जातीत्यादि ।
प्रोक्षितमर्चितं च जातीलवङ्गकक्कोलैर्वासितं जलं केवलमेव वा जलमादायाऽनेन वक्ष्यमाणेन मन्त्रेण देवाय अर्पयेत् ॥ २१९ ॥

तमेव मन्त्रमाह यदुच्छिष्टमिति ।
एति प्राप्नोति ।
अनेन मन्त्रेणाऽचमनीयं देवतामुखे दद्यात् ॥ २२० ॥

ततो भक्त्या मधुपर्कं समादायाऽनेन वक्ष्यमाणेन मन्त्रेण देवाय समर्पयेत् ॥ २२१ ॥

तमेव मन्त्रमाह तापत्रयविनाशार्थमिति ॥ २२२ ॥

ततः अशुचिः शुचितामेतीत्यादिना मन्त्रेण पुनर्देवतामुखे आचमनीयं दद्यात् ॥ २२३ ॥


स्नानार्थं जलमादाय प्राग्वत् प्रोक्षितमर्चितम् ।
निधाय देवपुरतो मन्त्रमेनमुदीरयेत् ॥ २२४ ॥

यत्तेजसा जगद्व्याप्तं यतो जातमिदं जगत् ।
तस्मै ते जगदाधार स्नानार्थं तोयमर्पये ॥ २२५ ॥

स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम् ।
अन्यद्रव्यप्रदानान्ते दद्यात्तोयं सकृत् सकृत् ॥ २२६ ॥

वस्त्रमानीय देवाग्रे शोधितं पूर्ववर्त्मना ।
धृत्वा कराभ्यामुत्तोल्य पठेदेनं मनुं सुधीः ॥ २२७ ॥

सर्वावरणहीनाय मायाप्रच्छन्नतेजसे ।
वाससी परिधानाय कल्पयामि नमोऽस्तु ते ॥ २२८ ॥

नानाभरणमादाय स्वर्णरौप्यादिनिर्मितम् ।
प्रोक्ष्याऽर्चयित्वा देवाय दद्यादेनं समुच्चरन् ॥ २२९ ॥

विश्वाभरणभूताय विश्वशोभैकयोनये ।
मायाविग्रहभूषार्थं भूषणानि समर्पये ॥ २३० ॥


स्नानार्थमित्यादि ।
ततः प्राग्वत् प्रोक्षितमर्चितं च स्नानार्थं जलमादाय देवपुरतो निधाय संस्थाप्य चैनं मन्त्रमुदीरयेत् ॥ २२४ ॥

यं मन्त्रमुदीरयेत्तमाह यत्तेजसा जगद्व्याप्तमिति ।
अनेन मन्त्रेण देवाय स्नानार्थं जलं दद्यात् ॥ २२५ � २२७ ॥

यं मनुं पठेत् तमाह सर्वावरणहीनायेति ।
अनेन मन्त्रेण देवाय वस्त्रे दद्यात् ॥ २२८ ॥ २२९ ॥

यं मन्त्रं समुच्चरन् देवाय भूषणानि दद्यात् तमेव मन्त्रमाह विश्वाभरण भूतायेति ॥ २३० ॥


गन्धतन्मात्रया सृष्टा येन गन्धधरा धरा ।
तस्मै परात्मने तुभ्यं परमं गन्धमर्पये ॥ २३१ ॥

पुष्पं मनोहरं रम्यं सुगन्धं देवनिर्मितम् ।
मया निवेदितं भक्त्या पुष्पमेतत् प्रगृह्यताम् ॥ २३२ ॥

वनस्पतिरसो दिव्यो गन्धाढ्यः सुमनोहरः ।
आघ्रेयः सर्वभूतानां धूपो घ्राणाय तेऽर्प्यते ॥ २३३ ॥

सुप्रकाशो महादीप्तः सर्वतस्तिमिरापहः ।
सबाह्याभ्यन्तरज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥ २३४ ॥

नैवेद्यं स्वादुसंयुक्तं नानाभक्ष्यसमन्वितम् ।
निवेदयामि भक्त्येदं जुषाण परमेश्वर ॥ २३५ ॥

पानार्थं सलिलं देव कर्पूरादिसुवासितम् ।
सर्वतृप्तिकरं स्वच्छमर्पयामि नमोऽस्तु ते ॥ २३६ ॥

ततः कर्पूरखदिरलवङ्गैलादिभिर्युतम् ।
ताम्बूलं पुनराचम्यं दत्त्वा वन्दनमाचरेत् ॥ २३७ ॥


गन्धतन्मात्रयेति ।
धरा पृथ्वी ।
अनेन मन्त्रेण देवाय गन्धं दद्यात् ॥ २३१ ॥

पुष्पमित्यादिना मन्त्रेण देवाय पुष्पं दद्यात् ॥ २३२ ॥

वनस्पतिरस इत्यादि ।
वनस्पतिरसः वृक्षविशेषरसः ।
अनेन मन्त्रेण देवाय धूपं दद्यात् ॥ २३३ ॥

सुप्रकाश इत्यादिमन्त्रेण देवाय दीपं दद्यात् ॥ २३४ ॥

नैवेद्यमित्यादिना देवाय नैवेद्यं दद्यात् ॥ २३५ ॥


उपचाराधारदाने साधारं द्रव्यमुल्लिखेत् ।
दद्याद्वा पृथगाधारं तत्तन्नाम समुच्चरन् ॥ २३८ ॥

इत्थमर्चितदेवाय दत्त्वा पुष्पाञ्जलित्रयम् ।
साच्छादनं गृहं प्रोक्ष्य पठेदेनं कृताञ्जलिः ॥ २३९ ॥

गेह त्वं सर्वलोकानां पूज्यः पुण्ययशःप्रदः ।
देवतास्थितिदानेषु सुमेरुसदृशो भव ॥ २४० ॥

त्वं कैलासश्च वैकुण्ठस्त्वं ब्रह्मभवनं गृह ।
यत् त्वया विधृतो देवस्तस्मात् त्वं सुरवन्दितः ॥ २४१ ॥

यस्य कुक्षौ जगत् सर्वं वरीवर्ति चराचरम् ।
मायविधृतदेहस्य तस्य मूर्तेर्विधारणात् ॥ २४२ ॥

देवमातृसमस्त्वं हि सर्वतीर्थमयस्तथा ।
सर्वकामप्रदो भूत्वा शान्तिं मे कुरु ते नमः ॥ २४३ ॥

इत्यभ्यर्थ्य त्रिरभ्यर्च्य गृहं चक्रादिसंयुतम् ।
आत्मनः काममुद्दिश्य दद्याद्देवाय साधकः ॥ २४४ ॥


पानार्थं सलिलमित्यादिना कर्पूरादिसुवासितं पानार्थं जलं देवाय दद्यात् ॥ २३६ � २३९ ॥

एनं कं पटेदित्याकाङ्क्षायामाह गेह त्वमित्यादि ॥ २४० ॥ २४१ ॥

कुक्षौ उदरे ॥ २४२ ॥ २४३ ॥

इतीत्यादि ।
इति गृहमभ्यर्थ्य त्रिस्त्रिवारमभ्यर्च्य च साधकश्चक्रादि संयुतं गृहमात्मनः काममुद्दिश्य देवाय दद्यात् ॥ २४४ ॥


विश्वावासाय विश्वाय गृहं ते विनिवेदितम् ।
अङ्गीकुरु महेशान कृपया सन्निधीयताम् ॥ २४५ ॥

इत्युक्त्वाऽर्पितगेहाय देवाय दत्तदक्षिणः ।
शङ्खतूर्यादिघोषैस्तं स्थापयेद्वेदिकोपरि ॥ २४६ ॥

स्पृष्ट्वा देवपदद्वन्द्वं मूलमन्त्रं समुच्चरन् ।
स्था।
स्थी।
स्थिरो भवेत्युक्त्वा वासस्ते कल्पितो मया ।
इति देवं स्थिरीकृत्य भवनं प्रार्थयेत् पुनः ॥ २४७ ॥

गृह देवनिवासाय सर्वथा प्रीतिदो भव ।
उत्सृष्टे त्वयि मे लोकाः स्थिराः सन्तु निरामयाः ॥ २४८ ॥

द्विसप्तातीतपुरुषान् द्विसप्तानागतानपि ।
मां च मे परिवारांश्च देवधाम्नि निवासय ॥ २४९ ॥

यजनात् सर्वयज्ञानां सर्वतीर्थनिषेवणात् ।
यत्फलं तत्फलं मेऽद्य जायतां त्वत्प्रसादतः ॥ २५० ॥


विश्वेत्यादि ।
विश्वावासाय विश्वमावासो गृहं यस्य स विश्वासः तस्मै ॥ २४५ ॥

इतीत्यादि ।
इति प्रार्थनावाक्यं देवं प्रत्युक्त्वा अर्पितं दत्तं गेहं यस्मै सोऽर्पितगेहः तस्मै अर्पितगेहाय देवाय दत्तदक्षिणः सन् साधकः शङ्खतूर्यादि घोषैस्तं देवं वेदिकोपरि स्थापयेत् ॥ २४६ ॥

स्पृष्ट्वेत्यादि ।
ततो देवपदद्वन्द्वं स्पृष्ट्वा पूर्वं मूलं मन्त्रं समुच्चरन् ततः स्था।
स्थी।
स्थिरो भव इत्युक्त्वा वासस्ते कल्पितो मयेति समुच्चरेत् ।
इत्यनेन मूलमन्त्रसंयुतेन स्थी।
स्था।
स्थिरो भव वासस्ते कल्पितो मयेति मन्त्रेण देवं स्थिरीकृत्य पुनर्भवनं गृहं प्रार्थयेत् ॥ २४७ ॥

ननु भवनं प्रति किं प्रार्थयेदित्यपेक्षायामाह गृह देवनिवासायेत्यादिना ।
उत्सृष्टे दत्ते ।
निरामयाः उपद्रवशून्याः ॥ २४८ � २५० ॥


यावत् वसुन्धरा तिष्ठेत् यावदेते धराधराः ।
यावद्दिवानिशानाथौ तावन्मे वर्ततां कुलम् ॥ २५१ ॥

इति प्रार्थ्य गृहं प्राज्ञः पुनर्देवं समर्चयन् ।
दर्पणाद्यन्यवस्तूनि ध्वजं चापि निवेदयेत् ॥ २५२ ॥

ततस्तु वाहनं दद्यात् यस्मिन् देवे यथोदितम् ।
शिवाय वृषभं दत्त्वा प्रार्थयेद्विहिताञ्जलिः ॥ २५३ ॥

वृषभ त्वं महाकायस्तीक्ष्णशृङ्गोऽरिघातकः ।
पृष्ठे वहसि देवेशं पूज्योऽसि त्रिदशैरपि ॥ २५४ ॥

क्षुरेषु सर्वतीर्थानि रोम्नि वेदाः सनातनाः ।
निगमागमतन्त्राणि दशनाग्रे वसन्ति ते ॥ २५५ ॥

त्वयि दत्ते महाभाग सुप्रीतः पार्वतीपतिः ।
वासं ददातु कैलासे त्वं मां पालय सर्वदा ॥ २५६ ॥

सिंहं दत्त्वा महादेव्यै गरुडं विष्णवे तथा ।
यथा स्तूयान्महेशानि तन्मे निगदतः शृणु ॥ २५७ ॥

सुरासुरनियुद्धेषु महाबलपराक्रमः ।
देवानां जयदो भीमो दनुजानां विनाशकृत् ॥ २५८ ॥


धराधराः पर्वताः ॥ २५१ � २५३ ॥
ननु वृषभं प्रति किं प्रार्थयेदित्याकाङ्क्षायामाह वृषभ त्वमित्यादि ॥ २५४ ॥
दशनाग्रे दन्ताग्रे ॥ २५५ ॥
सुप्रीतः भवतु इति शेषः ॥ २५६ ॥ २५७ ॥


सदा देवीप्रियोऽसि त्वं ब्रह्मविष्णुशिवप्रियः ।
देव्यै समर्पितो भक्त्या जहि शत्रून्नमोऽस्तु ते ॥ २५९ ॥

गरुत्मन् पतगश्रेष्ठ श्रीपतिप्रीतिदायक ।
वज्रचञ्चो तीक्ष्णनख तव पक्षा हिरण्मया ।
नमस्तेऽस्तु खगेन्द्राय पक्षिराज नमोऽस्तु ते ॥ २६० ॥

यथा करपुटेन त्वं संस्थितो विष्णुसन्निधौ ।
तथा मामरिदर्पघ्न विष्णोरग्रे निवासय ॥ २६१ ॥

त्वयि प्रीते जगन्नाथः प्रीतः सिद्धिं प्रयच्छति ॥ २६२ ॥

देवाय दत्तद्रव्याणां दद्याद्देवाय दक्षिणाम् ।
तथा कर्मफलञ्चापि भक्त्या तस्मै समर्पयेत् ।
नृत्यैर्गीतैश्च वादित्रैः सामात्यः सहबान्धवः ॥ २६३ ॥

वेश्मप्रदक्षिणं कृत्वा देवं नत्वाऽशयेद्द्विजान् ॥ २६४ ॥

देवागारप्रतिष्ठायां य एष कथितः क्रमः ।
आरामसेतुसङ्क्रामशाखिनामीरितोऽपि सः ॥ २६५ ॥

विशेषेणाऽत्र कृत्येषु पूज्यो विष्णुः सनातनः ।
पूजाहोमौ तथा सर्वं गृहदानविधानवत् ॥ २६६ ॥


सिंहस्तुतिमेव विदधाति सुरासुरेत्यादिभ्यां द्वाभ्याम् ॥ २५८ ॥ २५९ ॥

अथ गरुडस्तुतिं विदधाति गरुत्मन्नित्यादिभिस्त्रिभिः ।
गरुत्मन् गरुड ।
पतगश्रेष्ठ पक्षिश्रेष्ठ ॥ २६० � २६२ ॥

तस्मै देवाय ॥ २६३ ॥


अप्रतिष्ठितदेवाय नैव दद्यात् गृहादिकम् ।
अर्च्याऽप्रतिष्ठिते देवे पूजादानं विधीयते ॥ २६७ ॥

अथ तत्र श्रीमदाद्याप्रतिष्ठाक्रम उच्यते ।
येन प्रतिष्ठिता देवी तूर्णं यच्छति वाञ्छितम् ॥ २६८ ॥

तद्दिने साधकः प्रातः स्नातः शुचिरुदङ्मुखः ।
सङ्कल्पं विधिवत् कृत्वा यजेद्वास्त्वीश्वरं ततः ॥ २६९ ॥

ग्रहदिक्पतिहेरम्बाद्यर्चनं पितृकर्म च ।
विधाय साधकैर्विप्रैः प्रतिमासन्निधिं व्रजेत् ॥ २७० ॥

प्रतिष्ठितगृहे यद्वा कुत्रचित् शोभनस्थले ।
आनीयाऽर्चामर्चयित्वा स्नापयेत् साधकोत्तमः ॥ २७१ ॥

भस्मना प्रथमं स्नानं ततो वल्मीकमृत्स्नया ।
वराहदन्तिदन्तोत्थमृत्तिकाभिस्ततः परम् ।
वेश्याद्वारमृदा चापि प्रद्युम्नहृदजातया ॥ २७२ ॥

ततः पञ्चकषायेण पञ्चपुष्पैस्त्रिपत्रकैः ।
कारयित्वा गन्धतैलैः स्नापयेत् प्रतिमां सुधीः ॥ २७३ ॥


आशयेत् भोजयेत् ॥ २६४ � २६८ ॥

श्रीमदाद्याप्रतिष्ठाक्रममेवाह तद्दिने साधक इत्यादिभिः ।
तद्दिने श्रीमदाद्याप्रतिष्ठादिने ॥ २६९ ॥

हेरम्बो गणेशः ॥ २७० ॥

प्रतिष्ठितेत्यादि ।
ततः साधकोत्तमः प्रतिष्ठितगृहे कुत्रचिच्छोभनस्थाने वा अर्चां प्रतिमामानीयाऽर्चयित्वा च स्नापयेत् ॥ २७१ ॥

ननु केन द्रव्येण प्रतिमां स्नापयेदित्यपेक्षायामाह भस्मनेत्यादि ॥ २७२ ॥ २७३ ॥


वाट्यालबदरीजम्बुवकुलाः शाल्मलिस्तथा ।
एते निगदिताः स्नाने कषायाः पञ्च भूरुहाः ॥ २७४ ॥

करवीरं तथा जातीचम्पकं सरसीरुहम् ।
पाटलीकुसुमञ्चापि पञ्चपुष्पं प्रकीर्तितम् ॥ २७५ ॥

वर्वरातुलसीबिल्वं पत्रत्रयमुदाहृतम् ॥ २७६ ॥

एतेषु प्रोक्तद्रव्येषु जलयोगो विधीयते ।
पञ्चामृते गन्धतैले तोययोगं विवर्जयेत् ॥ २७७ ॥

सव्याहृतिं सप्रणवां गायत्रीं मूलमुच्चरन् ।
एतद्द्रव्यस्य तोयेन स्नापयामि नमो वदेत् ॥ २७८ ॥

ततः प्रागुक्तविधिना दुग्धाद्यैरष्टभिर्घटैः ।
कवोष्णसलिलैश्चापि स्नापयेत् प्रतिमां बुधः ॥ २७९ ॥

सितगोधूमचूर्णेन तिलकल्केन वा शिवाम् ।
शालीतण्डुलचूर्णेन मार्जयित्वा विरुक्षयेत् ॥ २८० ॥


ननु कैः पञ्चकषायैः कैः पञ्चपुष्पैस्त्रिपत्रकैश्च कैः प्रतिमां स्नापयेदित्याकाङ्क्षायामाह वाट्यालेत्यादि ॥ २७४ � २७६ ॥

ननु केवलैर्भस्मादिभिः प्रतिमां स्नापयेज्जलसंयुक्तैर्वा इत्यपेक्षायामाह एतेष्वित्यादिना ॥ २७७ ॥

ननु केन मन्त्रेण भस्मादिभिः प्रतिमां स्नापयेदित्यपेक्षायामाह सव्याहृतिमित्यादिना ।
पूर्वं सव्याहृतिं सप्रणवां गायत्रीमुच्चरन् ततो मूलं मन्त्रमुच्चरन् तत एतद्द्रव्यस्य तोयेन स्नापयामि नम इति वदेत् ।
अनेनैव मन्त्रेण जलसंयुक्तैः भस्मादिभिः प्रतिमां स्नापयेत् ॥ २७८ ॥


तीर्थाम्भसामष्टघटैः स्नापयित्वा सुवाससा ।
सम्मार्जिताङ्गीं प्रतिमां पूजास्थानं समानयेत् ॥ २८१ ॥

अशक्तौ शुद्धतोयानां पञ्चविंशतिसङ्ख्यकैः ।
कलशैः स्नापयेदर्चां भक्त्या साधकसत्तमः ॥ २८२ ॥

स्नाने स्नाने महादेव्याः शक्त्या पूजनमाचरेत् ।
ततो निवेश्य प्रतिमामासने सुपरिष्कृते ।
पाद्यार्घ्याद्यैरर्चयित्वा प्रार्थयेद्विहिताञ्जलिः ॥ २८३ ॥

नमस्ते प्रतिमे तुभ्यं विश्वकर्मविनिर्मिते ।
नमस्ते देवतावासे भक्ताभीष्टप्रदे नमः ॥ २८५ ॥

त्वयि सम्पूजयाम्याद्यां परमेशीं परात्पराम् ।
शिल्पदोषावशिष्टाङ्गं सम्पन्नं कुरु ते नमः ॥ २८६ ॥

ततस्तत्प्रतिमामूर्ध्नि पाणिं विन्यस्य वाग्यतः ।
अष्टोत्तरशतं मूलं जप्त्वा गात्राणि संस्पृशेत् ॥ २८७ ॥

षडङ्गमातृकान्यासं प्रतिमाङ्गे प्रविन्यसन् ।
षड्दीर्घभाजा मूलेन षडङ्गन्यासमाचरेत् ॥ २८८ ॥


कवोष्णसलिलैः ईषदुष्णैर्जलैः ॥ २७९ � २८१ ॥

अर्चां प्रतिमाम् ॥ २८२ � २८४ ॥

ननु प्रतिमां प्रति किं प्रार्थयेदित्यपेक्षायामाह नमस्ते प्रतिमे तुभ्यमित्यादि ॥ २८५ � २८७ ॥

षडङ्गेत्यादि ।
ततः पूर्वविधिना प्रतिमाङ्गे षडङ्गमातृकान्यासं प्रविन्यसन् साधकः षड्दीर्घभाजा मूलेन मन्त्रेणापि प्रतिमाङ्गे षडङ्गन्यासमाचरेत् कुर्यात् ॥ २८८ ॥


तारमायारमाद्यैश्च नमोऽन्तैर्बिन्दुसंयुतैः ।
अष्टवर्गैर्देवताङ्गे वर्णन्यासं प्रकल्पयेत् ॥ २८९ ॥

मुखे स्वरान् कवर्गञ्च कण्ठदेशे न्यसेत् बुधः ।
चवर्गमुदरे दक्षबाहौ टाद्यक्षराणि च ॥ २९० ॥

तवर्गञ्च वामबाहौ दक्षवामोरुयुग्मयोः ।
पवर्गञ्च यवर्गञ्च शवर्गं मस्तके न्यसेत् ॥ २९१ ॥

वर्णन्यासं विधायेत्थं तत्त्वन्यासं समाचरेत् ॥ २९२ ॥

पादयोः पृथिवीतत्त्वं तोयतत्त्वञ्च लिङ्गके ।
तेजस्तत्त्वं नाभिदेशे वायुतत्त्वं हृदम्बुजे ॥ २९३ ॥

आस्ये गगनतत्त्वञ्च चक्षुषो रूपतत्त्वकम् ।
घ्राणयोर्गन्धतत्त्वञ्च शब्दतत्त्वं श्रुतिद्वये ॥ २९४ ॥

जिह्वायां रसतत्त्वञ्च स्पर्शतत्त्वं त्वचि न्यसेत् ।
मनस्तत्त्वं भ्रुवोर्मध्ये सहस्रदलपङ्कजे ॥ २९५ ॥

शिवतत्त्वं ज्ञानतत्त्वं परतत्त्वं तथोरसि ।
जीवप्रकृतितत्त्वे च विन्यसेत् साधकाग्रणीः ।
महत्तत्त्वमहङ्कारतत्त्वं सर्वाङ्गके क्रमात् ॥ २९६ ॥


तारेत्यादि ।
ततः तारमायारमाद्यैरोङ्कारह्री।
श्रीमाद्यैर्नमोऽन्तैर्बिन्दुसंयुतैरनुस्वारसहितैरष्टवर्गैर्दे- वताङ्गे वर्णन्यासं प्रकल्पयेत् कुर्यात् ॥ २८९ ॥

ननु कस्मिन् कस्मिन् देवताङ्गे कं कं वर्गं न्यसेदित्याकाङ्क्षायामाह मुखे स्वरानित्यादि ॥ २९० ॥ २९१ ॥

ननु कस्मिन् कस्मिन् देवताङ्गे किं किं तत्त्वं न्यसेदित्यपेक्षायामाह पादयोः पृथिवीतत्त्वमित्यादि ॥ २९२ � २९६ ॥


तारमायामाद्येन ङे नमोऽन्तेन विन्यसेत् ॥ २९७ ॥

सबिन्दुमातृकावर्णपुटितं मूलमुच्चरन् ।
नमोऽन्तं मातृकास्थाने मन्त्रन्यासं प्रयोजयेत् ॥ २९८ ॥

सर्वयज्ञमयं तेजः सर्वभूतमयं वपुः ।
इयं ते कल्पिता मूर्तिरत्र त्वां स्थापयाम्यहम् ॥ २९९ ॥

ततः पूजाविधानेन ध्यानमावाहनादिकम् ।
प्राणप्रतिष्ठां सम्पाद्य पूजयेत् परदेवताम् ॥ ३०० ॥

देवगेहप्रदाने तु ये ये मन्त्राः समीरिताः ।
त एवात्र प्रयोक्तव्या मन्त्रलिङ्गेन पूजने ॥ ३०१ ॥

विधिवत् संस्कृते वह्नावर्चितेभ्योऽर्पिताहुतिः ।
आवाह्य देवीं सम्पूज्य जातकर्माणि साधयेत् ॥ ३०२ ॥

जातनाम्नी निष्क्रमणमन्नप्राशनमेव च ।
चूडोपनयनं चैते षट्संस्काराः शिवोदिताः ॥ ३०३ ॥

प्रणवं व्याहृतिं चैव गायत्रीं मूलमन्त्रकम् ।
सामन्त्रणाभिधानं ते जातकर्मादि नाम च ॥ ३०४ ॥


ननु केन मन्त्रेण पृथिवीतत्त्वादिकं पादादौ न्यसेदित्यपेक्षायामाह तारेत्यादि ।
तारमायारमाद्येन ओ।
ह्री।
श्रीमादिना ङे नमोऽन्तेन पृथिवीतत्त्वादिना मन्त्रेण पृथिवीतत्त्वादिकं पादादौ विन्यसेत् ॥ २९७ ॥

सबिन्द्वित्यादि ।
ततः सबिन्दुमातृकावर्णपुटितं सानुस्वारैर्मातृकावर्णैरादावन्ते च संयुक्तं नमोऽन्तं मूलं मन्त्रमुच्चरन् सन् मातृकास्थाने मन्त्रन्यासं प्रयोजयेत् विदध्यात् ॥ २९८ ॥

ततः सर्वयज्ञमयं तेज इत्यादिना देवीं प्रार्थयेत् ।
वपुः तवेति शेषः ॥ २९९ � ३०३ ॥


सम्पादयाम्यग्निकान्तां समुच्चार्य विधानवित् ।
पञ्चपञ्चाहुतीर्दद्यात् प्रतिसंस्कारकर्मणि ॥ ३०५ ॥

दत्तनाम्नाऽहुतिशतं मूलोच्चारणपूर्वकम् ।
देव्यै दत्त्वाऽहुतेरंशं प्रतिमामूर्ध्नि निःक्षिपेत् ॥ ३०६ ॥

प्रायश्चित्तादिभिः शेषं कर्म सम्पादयन् सुधीः ।
भोजयेत् साधकान् विप्रान् दीनानाथांश्च तोषयेत् ॥ ३०७ ॥

उक्तकर्मस्वशक्तश्चेत् पाथसां सप्तभिर्घटैः ।
स्नापयित्वाऽर्चयन् शक्त्या श्रावयेन्नाम देवताम् ॥ ३०८ ॥

इति ते श्रीमदाद्यायाः प्रतिष्ठा कथिता प्रिये ।
एवं दुर्गादिविद्यानां महेशादिदिवौकसाम् ॥ ३०९ ॥

चलतः शिवलिङ्गस्य प्रतिष्ठायामयं विधिः ।
प्रयोक्तव्यो विधानज्ञैर्मन्त्रनामोहपूर्वकम् ॥ ३१० ॥


इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे आद्याकालीप्रतिष्ठानुष्ठाने वास्तुग्रहयागजलाशयादिप्रतिष्ठादेवगृहदानादिसर्वदेवप्रतिष् ठाकथनं नाम त्रयोदशोल्लासः ।

ननु केन मन्त्रेण देव्या जातकर्मादि साधयेदित्यपेक्षायामाह प्रणवमित्यादि ।
पूर्वम् प्रणवमोङ्कारं ततो व्याहृतिं भूरादिं ततो गायत्रीं ततो मूलमन्त्रं ततः सामन्त्रणाभिधानम् आमन्त्रणसहितदेवीनाम ततस्ते इति पदं ततो जातकर्मादिनाम ततः सम्पादयामीति पदं ततोऽग्निकान्तां स्वाहेति पदं समुच्चार्य विधानवित् साधको देव्या जातकर्माणि साधयेदिति पूर्वेणान्वयो विधेयः ॥ ३०४ � ३३१० ॥

इति श्रीमहानिर्वाणतन्त्रटीकायां त्रयोदशोल्लासः ।