द्वादशोल्लासः
श्रीसदाशिव उवाच ।
भूयस्ते कथयाम्याद्ये व्यवहारान् सनातनान् ।
यान् रक्षन् प्रविदन्राजा स्वच्छन्दं पालयेत् प्रजाः ॥ १ ॥
नियमेन विना राज्ञो मानवा धनलोलुपाः ।
मिथस्ते विवदिष्यन्ति गुरुस्वजनबन्धुभिः ॥ २ ॥
व्यतिघ्नन्ति तदा देवि स्वार्थिनो वित्तहेतवे ।
पापाश्रया भविष्यन्ति हिंसया च जिहीर्षया ॥ ३ ॥
अतस्तेषां हितार्थाय नियमो धर्मसम्मतः ।
नियोज्यते यमाश्रित्य न भ्रश्येयुः शुभान्नराः ॥ ४ ॥
ओ।
नमो ब्रह्मणे ।
इदानीं लोकशुभाकाङ्क्षया परमकारुणिको महादेवः सनातनव्यवहारान् पार्वतीं प्रति पुनः कथयितुमारभते भूय इत्यादिना ।
हे आद्ये ते तुभ्यं तवाग्रे वा तान् सनातनान् शाश्वतान् व्यवहारान् भूयः पुनरहं कथयामि यान् व्यवहारान् रक्षन् पालयन् प्रविदन् प्रजानन् राजा स्वच्छन्दं स्वैरं प्रजाः पालयेद्रक्षेत् ॥ १ ॥
महीपतेर्नियमस्याऽभावाद् द्रव्याभिलाषिणो मनुजाः पित्रादिभिः सार्द्धं मिथो विवादादिकं करिष्यन्ति तन्निराकरणाय लोकहिताकाङ्क्षः सदाशिवो
दण्डयेत् पापिनो राजा यथा पापापनुत्तये ।
तथैव विभजेद्दायान् नृणां सम्बन्धभेदतः ॥ ५ ॥
सम्बन्धो द्विविधो ज्ञेयो विवाहाज्जन्मनस्तथा ।
तत्रौद्वाहिकसम्बन्धादपरो बलवत्तरः ॥ ६ ॥
दाये तूर्ध्वतनाज्ज्यायान् सम्बन्धोऽधस्तनः शिवे ।
अध ऊर्ध्वक्रमादत्र पुमान् मुख्यतरः स्मृतः ॥ ७ ॥
नियमं विदधातीत्येवाह नियमेनेत्यादिना शुभान्नराः इत्यन्तेन श्लोकत्रयेण ।
हे देवि यतो राज्ञो नृपस्य नियमेन विना धनलोलुपाः वित्तविषयकलालसावन्तस्ते मानवा मनुष्या गुरुस्वजनबन्धुभिः साकं मिथो विवदिष्यन्ति तथा तदा नियमाभावे स्वार्थिनो धनार्थिनस्ते वित्तहेतवे धनार्थं व्यतिघ्नन्ति परस्परं हनिष्यन्ति जिहीर्षया वित्तहरणेच्छया हिंसया च पापाश्रया भविष्यन्ति ।
अतस्तेषां मानवानां हितार्थाय धर्मसम्मतः स नियमो मया नियोज्यते प्रवर्त्यते यं नियममाश्रित्य नराः शुभाद्भद्रान्न भ्रश्येयुर्न पतेयुः ।
व्यतिघ्नन्तीत्यत्र वर्तमानसामीप्ये वर्तमानवद्वेति भविष्यति लट् ॥ २ � ४ ॥
ननु यन्नियमाश्रयणान्मनुष्या भद्रान्न भ्रश्येयुः कोऽसौ नियमस्तत्राह दण्डयेदित्यादिना ।
यथा राजा नराधिपः पापापनुत्तये किल्विषनाशाय पापिनो जनान् दण्डयेत्तथैव नॄणां मनुष्याणां सम्बन्धभेदतो दायान् विभवान् विभजेत् विभक्तान् कुर्यात् ।
दायो दाने धने पुंसि वाच्यलिङ्गस्तु दातरि ॥ ५ ॥
अथोद्वाहजननाभ्यां दायविभागोपयोगिनः सम्बन्धस्य द्वैविध्यं भाषमाणो महादेवस्तत्र वैवाहिकसम्बन्धतो जननसम्बन्धस्य प्राबल्यं प्रतिपादयति सम्बन्ध इत्यादिना ।
विवाहात्तथा जन्मनः उत्पत्तेः सम्बन्धो द्विविधो द्विप्रकारको ज्ञेयो बोद्धव्यः ।
तत्र तयोः सम्बन्धयोरौद्वाहिकसम्बन्धादपरो जन्मसम्बन्धो बलवत्तरो ज्ञेयः ॥ ६ ॥
दायहरणे उर्ध्वतनसम्बन्धतोऽधोभवस्यैव सम्बन्धस्य ज्येष्ठत्वमध ऊर्ध्वक्रमतो योषिद्भ्यः पुरुषस्यैव प्रधानतरत्वं चाह दाये त्वित्यादिना ।
हे शिवे दाये
तत्रापि सन्निकर्षेण सम्बन्धी दायमर्हति ।
अनेन विधिना धीरा विभजेयुः क्रमाद्धनम् ॥ ८ ॥
मृतस्य पुत्रे पौत्रे च कन्यासु पितरि स्थिते ।
भार्यायामपि दायार्हः पुत्र एव न चापरः ॥ ९ ॥
बहवस्तनया यत्र सर्वे तत्र समांशिनः ।
ज्येष्ठे राज्याधिकारित्वं तत्तु वंशानुसारतः ॥ १० ॥
तु धने तूर्ध्वतनादूर्ध्वभवात् सम्बन्धादधस्तनोऽधोभवः सम्बन्धो ज्यायान् श्रेष्ठः स्मृतः ।
तुशब्देनाऽभिवादनादावधस्तनात् सम्बन्धादूर्ध्वतनस्यैव सम्बन्धस्य ज्यायस्त्वमिति ध्वनितम् ।
अत्र दायहरणेऽध ऊर्ध्वक्रमात् स्त्रीतः पुमान् पुरुषो मुख्यतरः प्रधानतरः स्मृतः ॥ ७ ॥
नन्वासन्नानासन्नयोर्मध्ये कतरस्य दायार्हत्वं स्यात् तत्राह तत्रापीति ।
तत्रापि मुख्यतरेषु पुंस्वपि सन्निकर्षेण सान्निध्येन सम्बन्धी दायमर्हति धनार्हो भवति ।
अनेन पूर्वोक्तेन विधिना धीरा मनीषिणो धनं क्रमाद्विभजेयुर्वण्टयेयुः ॥ ८ ॥
ननु प्राप्तपञ्चत्वस्य पुंसो विद्यमानानां पत्नीकन्यानां ताततनयपौत्राणाञ्च मध्ये कतमस्य तद्धनग्राहकत्वमत आह मृतस्येत्यादिना ।
मृतस्य मानवस्य पुत्रे पौत्रे पितरि च स्थिते कन्यास्वात्मजासु च स्थितासु भार्यायां पत्न्यामपि स्थितायां सन्निकृष्टत्वात् पुंस्त्वेन मुख्यतरत्वादधोभवत्वेन ज्यायस्त्वाच्च पुत्र एव दायार्हः स्यान्न चापरस्तद्भिन्नः पौत्रादिर्दायार्हः ।
पौत्रस्य पुत्रतो विप्रकृष्टत्वात् भार्यायाः कन्यानां च स्त्रीत्वेनाऽप्रधानत्वात् पितुश्चोर्ध्वभवत्वेनाऽज्यायस्त्वाद्दायार्हत्वं नेत्यर्थः ॥ ९ ॥
ननु बहुपुत्रस्य प्रमीतस्य पृथ्वीपतेः स्थावरस्थावरेतरद्रव्येषु सर्वेषामात्मजानां समांशहारित्वं न्यूनाधिकांशहारित्वं वेत्यत आह वहवः इत्यादिना ।
राज्ञो यत्र स्थावरे जङ्गमे वापि द्रव्ये बहवः तनयाः पुत्रा भागार्हास्तत्र सर्वे
ऋणं यत् पैतृकं तच्च शोधयेत् पैतृकैर्धनैः ।
तस्मिन् स्थिते विभागार्हं न भवेत् पैतृकं वसु ॥ ११ ॥
विभज्य यदि गृह्णीयुर्विभवं पैतृकं नराः ।
तेभ्यस्तद्धनमाहृत्य पितॄणं दापयेन्नृपः ॥ १२ ॥
यथा स्वकृतपापेन निरयं यान्ति मानवाः ।
ऋणेनापि तथा बद्धः स्वयमेव न चापरः ॥ १३ ॥
समांशिनस्तुल्यभागिनः स्युः नतु न्यूनाधिकांशिन इत्यर्थः ।
ननु महीपतेर्ज्येष्ठ एवाऽत्मजे प्रायशो राज्याधिकारित्वं श्रूयते दृश्यते च तत् कथमुच्यते सर्वे तत्र समांशिन इत्यत आह ज्येष्ठ इत्यादि ।
ज्येष्ठे राज्ञः पुत्रे यद्राज्याधिकारित्वं तत्तु वंशानुसारतो ज्ञेयम् ।
वंशे यदि ज्येष्ठ एव राजपुत्रो राज्यं लभमानो भवेत्तदा तस्मिन्नेव राज्याधिकारित्वम् ।
अन्येषां ग्रासाच्छादनभाजनत्वम् ।
अन्यथा तु पृथ्व्यादिकं सकलं द्रविणं विभज्य सर्वे गृह्णीयुरिति भावः ॥ १० ॥
पैतृकमृणं दत्त्वाऽवशिष्टं पितृद्रव्यं भ्रातृभिर्विभक्तव्यमित्याह ऋणमित्यादिना ।
पैतृकं पितृसम्बन्धि यदृणं तत् पैतृकैः पितृसम्बन्धिभिर्धनैः शोधयेत् ।
तस्मिन्नृणे स्थिते सति पैतृकं वसु धनं विभागार्हं वण्टनयोग्यं न भवेत् ॥ ११ ॥
पैतृकमृणमशोधयित्वैव विभज्य गृहीततातद्रव्यैर्मर्त्यैर्नराधिपस्तदृणं दापयेदित्याह विभज्येत्यादिना ।
पैतृकं विभवं धनं विभज्य नरा यदि गृह्णीयुस्तदा तेभ्यो नरेभ्यस्तत् पैतृकं धनमाहृत्य गृहीत्वा नृपो राजा पितॄणं तातसम्बन्धि ऋणं तैर्दापयेत् ॥ १२ ॥
ऋणानपयने ऋणग्रहीतुरेव सदृष्टान्तं तद्दोषभागित्वमाह यथेत्यादिना ।
यथा स्वकृतपापेन मानवा नरा निरयं नरकं यान्ति तथा ऋणेनापि स्वयमेव बद्धो भवति न चापरस्तदन्यः कश्चन बद्धो भवेत् ॥ १३ ॥
साधारणं धनं यच्च स्थावरं स्थावरेतरम् ।
अंशिनः प्राप्तुमर्हन्ति स्वं स्वमंशं विभागतः ॥ १४ ॥
अंशिनां सम्मतावेव विभागः परिसिध्यति ।
तेषामसम्मतौ राजा समदृष्ट्यांशमाचरेत् ॥ १५ ॥
स्थावरस्य चरस्यापि विभागानर्हवस्तुनः ।
मूल्यं वा तदुपस्वत्वमंशिनां विभजेन्नृपः ॥ १६ ॥
विभक्तेऽपि धने यस्तु स्वीयांशं प्रतिपादयेत् ।
पुनर्विभज्य तद्द्रव्यमप्राप्तांशाय दापयेत् ॥ १७ ॥
सामान्ये स्थावरे जङ्गमे च द्रव्ये सर्वेषामेव दायादानां तुल्यांशग्राहकत्वमित्याह साधारणमित्यादिना ।
स्थावरं स्थवरेतरं जङ्गमं च यत् साधारणं सामान्यं धनं तत्र विभागतः सर्वे अंशिनः स्वं स्वमंशं प्राप्तुं लब्धुमर्हन्ति योग्या भवन्ति ॥ १४ ॥
सर्वेषामंशिकानां मिथः सम्मतौ सत्यामेव विभागस्य संसिद्धिः स्यादित्याह अंशिनामित्याद्यर्धेन ।
अंशिनां भागग्राहकाणां सम्मतावेव सत्यां विभागः परिसिध्यति निष्पद्यते न त्वन्यथा ।
ननु पैतृकद्रव्यविभागे सर्वेषां दायादानां सम्मतेरभावे कथं विभागो भवेत्तत्राह तेषामित्यादिना ।
तेषामंशिनामसम्मतौ सत्यां राजा समदृष्ट्या तुल्यदृष्ट्या अंशं विभागमाचरेत् कुर्यात् ॥ १५ ॥
ननु विभागायोग्यस्य स्थावरादेर्वस्तुनः कथं विभागः स्यादत आह स्थावरस्येत्यादिना ।
स्थावरस्य चरस्य जङ्गमस्यापि विभागानर्हवस्तुनो विभाजनायोग्यस्य पदार्थस्य मूल्यमथवा तदुपस्वत्वं तदतिरिक्तं तत्र एवोपजातं द्रव्यं नृपो राजा अंशिनां दायादानां विभजेत् तेभ्यो दापयितुं विभक्तं कुर्यात् ।
अंशिनामिति सम्प्रदानस्य शेषत्वेन विवक्षितत्वात् षष्ठी शेषे इति षष्ठी ॥ १६ ॥
अथांशिभिर्विभज्य गृहीतेष्वपि द्रव्येषु स्वकीयं भागं साक्षिभिर्नृपस्याग्रे ज्ञापयते मानवाय राजा पुनस्तानि द्रव्याणि विभज्य तैर्दापयेदित्याह
कृते विभागे द्रव्याणामंशिनां सम्मतौ शिवे ।
पुनर्विवादयंस्तत्र शास्यो भवति भूभृतः ॥ १८ ॥
स्थिते प्रेतस्य पौत्रे च भार्यायाञ्च पितर्यपि ।
पौत्र एव धनार्हः स्यादधस्ताज्जन्मगौरवात् ॥ १९ ॥
अपुत्रस्य स्थिते ताते सोदरे च पितामहे ।
जन्मतः सन्निकर्षेण पितैवाऽस्य धनं हरेत् ॥ २० ॥
विद्यमानासु कन्यासु सन्निकृष्टास्वपि प्रिये ।
मृतस्य पौत्रो धनभाक् यतो मुख्यतरः पुमान् ॥ २१ ॥
विभक्तेऽपीत्यादिना ।
विभक्तेऽपि वण्टितेऽपि धने यस्तु मनुष्यः स्वीयांशमात्मीयं भागं प्रतिपादयेन्नृपस्याग्रे साक्षिभिर्बोधयेत् तस्मै अप्राप्तांशाय मनुष्याय पुनस्तत् द्रव्यं विभज्य नृपो दायादैर्दापयेत् ॥ १७ ॥
सर्वेषां दायादानां सम्मतौ सत्यां द्रव्यविभागे जाते पुनस्तत्र विवादं कुर्वन्नरो महीपालेन शासनीयो भवेदित्याह कृत इत्यादिना ।
हे शिवे अंशिनां सम्मतौ सत्यां द्रव्याणां विभागे कृते सति पुनस्तत्र द्रव्यविभागे विवादयन् विवादं कुर्वन्नरो भूभृतो राज्ञः शास्यः शासनीयो भवति ॥ १८ ॥
ननु प्रमीतस्य मानवस्य विद्यमानानां तातभार्यापौत्राणां मध्ये कस्य तद्धनभागित्वमत आह स्थिते इत्यादिना ।
प्रेतस्य मृतस्य मनुष्यस्य पौत्रे पितरि चापि स्थिते भार्यायां च स्थितायामधस्ताज्जन्म येषां तेषां गौरवाद्गुरुत्वाद्धेतोः पौत्र एव धनार्हो धनयोग्यः स्यात् ॥ १९ ॥
नन्वपुत्रस्य मृतस्य पुंसो वर्तमानानां जनकपितामहसमानोदर्याणां मध्ये कतमस्य तद्वित्तहारित्वमत आह अपुत्रस्येत्यादिना ।
अपुत्रस्य मृतस्य जनस्य ताते पितरि सोदरे भ्रातरि पितामहे च स्थिते सति जन्मनः सन्निकर्षेण सान्निध्येन हेतुनाऽस्याऽपुत्रस्य धनं पितैव हरेत् गृह्णीयात् ॥ २० ॥
स्वर्यातुरपुत्रस्यासन्नतरास्वपि कन्यासु स्थितासु पुंसः प्रधानतरत्वात् पौत्रस्यैव धनभागित्वमित्याह विद्यमानास्वित्यादिना ।
हे प्रिये मृतस्य पुरुषस्य
धनं मृतेन पुत्रेण पौत्रं याति पितामहात् ।
अतोऽत्र गीयते लोकैः पुत्ररूपः स्वयं पिता ॥ २२ ॥
औद्वाहिकेऽपि सम्बन्धे ब्राह्मी भार्या वरीयसी ।
अपुत्रस्य हरेद्रिक्थं पत्युर्देहार्धहारिणी ॥ २३ ॥
पतिपुत्रविहीना तु सम्प्राप्य स्वामिनो धनम् ।
नैव दातुं न विक्रेतुं समर्था स्वधनं विना ॥ २४ ॥
विद्यमानासु सन्निकृष्टास्वासन्नास्वपि कन्यासु यतः पुमान् पुरुषो मुख्यतरः प्रधानतरो भवेदतः पौत्र एव धनभाग् भवेत् ॥ २१ ॥
अधुना पितुरेव सहेतुकं पुत्ररूपत्वं व्याहरन् पुत्रहीनस्य मृतस्य पुंसः पोत्रस्यैव धनाधिकारित्वमनुवदति धनमित्यादिना ।
यतो धनं पितामहात् सकाशान्मृतेन पुत्रेण पौत्रं याति गच्छति अतोऽत्र संसारे लोकैर्जनैः पिता स्वयं पुत्ररूप इति गीयते शब्द्यते ॥ २२ ॥
इदानीं ब्राह्मीशैव्योर्भार्ययोर्मध्ये ब्राह्म्येवातिश्रेष्ठा पुत्ररहितस्य मृतस्य पत्युर्वित्तस्य ग्राहिका चेत्याह औद्वाहिकेऽपीत्यादिना ।
औद्वाहिकेऽपि विवाहनिमित्तकेऽपि सम्बन्धे ब्राह्मी वेदोक्तविधिना परिणीता भार्या शैवीभार्याया वरीयस्यतिवरा भवेत् ।
पत्युः स्वामिनो यतो देहार्धहारिणी स्यादतो ब्राह्म्येव भार्याऽपुत्रस्य पुत्रहीनस्य मृतस्य पत्युः रिक्थं धनं हरेत् ।
अपुत्रस्येत्युपलक्षणं पुत्रपौत्रादिरहितस्य ।
वरीयांस्तूरुवरयोरित्यमरः ।
रिक्थमृक्थं धनं वस्वित्यमरः ॥ २३ ॥
अथ स्वामिपुत्राभ्यां रहिता स्त्री लब्धभर्तृविभवा सती तद्दानविक्रयौ कर्तुं न शक्नोतीत्याह पतिपुत्रेत्यादिना ।
पतिपुत्रविहीना स्त्री स्वामिनो धनं सम्प्राप्य लब्ध्वा नैव तदातुं न च विक्रेतुं समर्था शक्ता भवेत् परन्तु स्वधनं विना ।
स्वकीयं तु धनं दातुं विक्रेतुं शक्नोतीत्यर्थः ॥ २४ ॥
पितृभिः श्वशुरैर्वापि दत्तं यद्धर्मसम्मतम् ।
स्वकृत्योपार्जितं यच्च स्त्रीधनं तत् प्रकीर्तितम् ॥ २५ ॥
तस्यां मृतायां रिक्थं तत् पुनः स्वामिपदं व्रजेत् ।
तदासन्नतरो रिक्थमध ऊर्ध्वक्रमाधरेत् ॥ २६ ॥
मृते पत्यौ स्वधर्मेण पतिबन्धुवशे स्थिता ।
तदभावे पितृबन्धोस्तिष्ठन्ती दायमर्हति ॥ २७ ॥
शङ्कितव्यभिचाराऽपि न पत्युर्दायभागिनी ।
लभते जीवनं मात्रं भर्तुर्विभवहारिणः ॥ २८ ॥
ननु किं नाम स्त्रीधनमत आह पितृभिरित्यादिना ।
बहुवचनस्य बहूपलक्षकत्वात् पितृभिर्जनकादिभिः श्वशुरैः पतिपित्रादिभिर्वा धर्मसम्मतं यद्धनं दत्तं यच्च स्वकृत्या स्वीयया शिल्पादिक्रिययोपार्जितं तत् स्त्रीधनं प्रकीर्तितं कथितम् ॥ २५ ॥
ननु सम्प्राप्तस्वामिवित्ताया योषितो मृतौ सत्यां कस्य तद्वित्तहारितेत्यत आह तस्यामित्यादिना ।
तस्यां सम्प्राप्तस्वामिधनायां स्त्रियां मृतायां सत्यां तद्रिक्थं धनं पुनः स्वामिपदं व्रजेद्गच्छेत् ।
स्वामिपदगतं च तद्रिक्थमध ऊर्ध्वक्रमात्तदासन्नतरः स्वामिनोऽतिसन्निकृष्टो जनो हरेत् ।
एतत्तु सामान्यत उक्तं विशेषतस्त्वग्रे वक्ष्यते ॥ २६ ॥
भर्तुर्मरणे सति भर्त्रादिबान्धववशे स्वधर्मेण तिष्ठन्त्येव स्त्री स्वामिनो दायमर्हतीत्याह मृते इत्यादिना ।
पत्यौ स्वामिनि मृते सति पतिबन्धुवशे स्वधर्मेण स्थिता तदभावे पतिबन्ध्वभावे पितृबन्धोर्वशे तिष्ठन्ती स्त्री दायं पत्युर्धनमर्हति ॥ २७ ॥
शङ्कितव्यभिचारा नारी तु ग्रासाच्छादनमात्रभागिनी न तु स्वामिधनभागिनीत्याह शङ्कितेत्यादिना ।
शङ्कितव्यभिचाराऽपि स्त्री पत्युर्दायभागिनी न
बह्व्यश्चेद्वनितास्तस्य स्वर्यातुर्धर्मतत्पराः ।
भजेरन् स्वामिनो वित्तं समांशेन शुचिस्मिते ॥ २९ ॥
पत्युर्धनहरायाश्च मृतौ भर्तृसुतास्थितौ ।
पुनः स्वामिपदं गत्वा धनं दुहितरं व्रजेत् ॥ ३० ॥
एवं स्थितायां कन्यायां रिक्थं पुत्रवधूगतम् ।
तन्मृतौ स्वामिनं प्राप्य श्वशुरात्तत्सुतामियात् ॥ ३१ ॥
भवति किन्तु भर्तुर्विभवहारिणः पुरुषाज्जीवनं मात्रं जीवनमेव लभते प्राप्नोति ।
अपीति वदता सदाशिवेन प्रकटितव्यभिचाराया नार्या नितरामेव भर्तृदायभाजनत्वं नेति सूचितम् ।
जीव्यते येनाऽन्नादिना तज्जीवनम् करणाधिकरणयोश्चेति करणे ल्युट् ।
मात्रं कात्स्न्येऽवधारणे इत्यमरः ॥ २८ ॥
प्रेतस्य धर्मपरायणा वह्व्यो भार्याश्चेत् सर्वाः स्वामिनो द्रव्यं विभज्य गृह्णीयुरित्याह वह्व्य इत्यादिना ।
हे शुचिस्मिते शुभ्रेषद्धासे पवित्रेषद्धासे वा ।
तस्य स्वर्यातुः स्वर्गगामिनः पुंसो धर्मतत्पराः पुण्यपरायणाश्चेद्यदि वह्व्यो वनिताः स्त्रियः स्युस्तदा सर्वास्ताः स्वामिनो वित्तं समांशेन तुल्यभागेन भजेरन् सेवेरन् ॥ २९ ॥
लब्धभर्तृवित्ताया वनिताया मरणे सति तद्वित्तं पुनस्तत्स्वामिनं प्राप्य ततश्च तत्तनयां गच्छेदित्याह पत्युरित्यादिना ।
पत्युर्धनहरायाः स्वामिनो वित्तहारिण्याः स्त्रियाः मृतौ भर्तुः सुतायाः स्थितौ च सत्यां धनं पुनस्तत्स्वामिपदं गत्वा दुहितरं तत्सुतां व्रजेद्गच्छेत् ।
भर्तृसुतेतिव्याहरन्महादेवः क्रीतादिसुतां तद्धनं न गच्छेदिति सूचयाञ्चक्रे ॥ ३० ॥
गृहीतपतिद्रव्याया नार्या मृतौ सत्यां तद्द्रव्यं भर्तृगतं ततः श्वशुरगतं च सत् श्वशुरकन्यां यायादित्याह एवमित्यादिना ।
एवमनेन प्रकारेण कन्यायां स्थितायां सत्यां पुत्रवधूगतं रिक्थं धनं तन्मृते पुत्रवधूमरणे सति स्वामिनं तद्भर्तारं प्राप्य पुनः श्वशुरं प्राप्य श्वशुराच्च तत्सुतां श्वशुरतनयामियाद्गच्छेत् ।
तथा पितामहे सत्त्वे वित्तं मातृगतं शिवे ।
तस्यां मृतायां पुत्रेण भर्त्रा श्वशुरगम्भवेत् ॥ ३२ ॥
मृतस्योर्ध्वगतं वित्तं यथा प्राप्नोति तत्पिता ।
जनन्यपि तथाऽप्नोति पतिहीना भवेद्यदि ॥ ३३ ॥
अतः सत्यां जनन्यां तु विमाता न धनं हरेत् ।
मृतौ जनन्यास्तं प्राप्य पित्रा गच्छेद्विमातरम् ॥ ३४ ॥
अधस्तनानां विरहाद्यथा रिक्थं न यात्यधः ।
येनैवाऽधस्तनं प्राप्तं तेनैवोर्ध्वं तदा व्रजेत् ॥ ३५ ॥
तन्मृते इत्यत्र नपुंसके भावे क्त इति सूत्रेण भावे क्त प्रत्ययः ।
एतच्च भर्तृदुहित्रादिभ्रात्रीयपर्यन्ताभावे बोद्धव्यम् ॥ ३१ ॥
ननु प्राप्तपुत्रवित्ताया मातुर्मरणे सति कस्य तद्वित्तभागितेत्यत आह तथेत्यादिना ।
हे शिवे तथा तेनैव प्रकारेण पितामहे सत्त्वे वर्तमाने मातृगतं जननीप्राप्तं वित्तं धनं तस्यां मातरि मृतायां सत्यां पुत्रेणाऽत्मजेन भर्त्रा पत्या च श्वशुरगं भवेत् श्वशुरं गच्छेदित्यर्थः ।
सन्नेव सत्त्वमिति स्वार्थिकस्त्वः ।
इदं पुत्रस्य सोदराणां तत्पुत्राणाञ्चाऽसत्त्वे बोद्धव्यम् ॥ ३२ ॥
पुत्रादिपितृपर्यन्तरहितस्य प्राप्तपञ्चत्वस्य पुंसो जनकस्य जनन्या अपि तद्वित्तहर्त्रीत्वं तन्मृतौ च तस्य विभातुरपीत्याह मृतस्येत्यादिद्वयेन ।
मृतस्य जनस्योर्ध्वगतमूर्ध्वं प्राप्तं वित्तं तत्पिता मृतस्य जनको यथाऽप्नोति लभते तथैव यदि पतिहीना स्वामिरहिता भवेत् तदा तज्जनन्यप्याप्नोति ॥ ३३ ॥
अत इति ।
अतो जनन्यान्तु सत्यां विमाता तस्य धनं न हरेत् किन्तु मातैव हरेत् ।
जनन्या मृतौ मरणे तु तद्धनं तं पुत्रं प्राप्य पित्रा विमातरं गच्छेत् ॥ ३४ ॥
अधोभवानां रिक्थग्राहकाणामभावादधस्तादगच्छतो वित्तस्योर्ध्वगामित्वेनाऽपत्यहीनाया लब्धभ्रातृवित्तायाः पतिवत्याः स्वसुर्मृतौ सत्यां तद्गतस्य वित्तस्य
अतः स्थितौ पितृव्यस्य धनं स्वसृगतञ्च सत् ।
पत्यौ स्थितेऽनपत्याया मृतौ पितृव्यमाश्रयेत् ॥ ३६ ॥
ऊर्ध्वाद्वित्तमधः प्राप्य पुमांसमवलम्बते ।
अतः सत्यां सोदरायां वैमात्रेयो धनं हरेत् ॥ ३७ ॥
स्थितायां सोदरायाञ्च विमातुः पुत्रसन्ततौ ।
वैमात्रेयगतं वित्तं वैमात्रेयान्वयो भजेत् ॥ ३८ ॥
पितृव्याश्रयत्वं स्यादित्येवाह अधस्तनानामित्यादिद्वयेन ।
अधस्तनानामधोभवानां जनानां विरहादभावाद्यथा यदा रिक्थं धनम् अधो न याति गच्छति तदा येनैव जनेन अधस्तनमधोभवं जनं धनं प्राप्तं तेनैव जनेनोर्ध्वं व्रजेद्गच्छेत् ॥ ३५ ॥
अत इत्यादि ।
अतोऽधस्तनानां विरहाद्रिक्थस्योर्ध्वगामित्वादेव पितृव्यस्थितावनपत्यायाः पुत्रेण पुत्र्या च रहितायाः स्वसुर्मृतौ सत्यां पत्यौ भगिनीभर्तरि स्थितेऽपि स्वसृगतं च सत् धनं पितृव्यमाश्रयेत् तस्या भ्रात्रा पित्रादिना च पितृभ्रातरं भजेत् ।
अनपत्याया इति विशेषणेनाऽपत्यवत्याः स्वसुः मृतौ तद्गतस्य धनस्य तदपत्यगामितैवेत्यसूसुचत् ॥ ३६ ॥
ऊर्ध्वादधःप्राप्तस्य धनस्य पुरुषावलम्बित्वात् सोदरायां विद्यमानायामपि वैमात्रेयगामितैव स्यादित्याह ऊर्ध्वादित्यादिना ।
यतो वित्तं धनमूर्ध्वादधः प्राप्य पुमांसं पुरुषमवलम्बते आश्रयति अतः सोदरायां भगिन्यां सत्यामपि वैमात्रेयो विमातृजो धनं हरेत् ॥ ३७ ॥
ननु सोदरायां वैमात्रेयसन्ततौ च विद्यमानायां वैमात्रेयमरणे सति तद्गतं वित्तं का प्राप्नुयात्तत्राह स्थितायामित्यादिना ।
सोदरायां भगिन्यां विमातुः पुत्रसन्ततौ च स्थितायां सत्यां वैमात्रेयगतं वित्तं तन्मरणे सति वैमात्रेयान्वयो विमातृजसन्ततिर्भजेत् सेवेत ॥ ३८ ॥
मृतस्य सोदरो भ्राता वैमात्रेयस्तथा शिवे ।
धनं पितृगतत्वेन विभजेतां समांशिनौ ॥ ३९ ॥
कन्यायां जीवितायाञ्च तदपत्यं न दायभाक् ।
यत्र यद्बाधितं वित्तं तन्मृतावपरं व्रजेत् ॥ ४० ॥
विभजेयुर्दुहितरः पुत्राभावे पितुर्वसु ।
उद्वाहयन्त्योऽनूढां तु पितुः साधारणैर्धनैः ॥ ४१ ॥
असन्तत्या मृतायाश्च स्त्रीधनं स्वामिनं भजेत् ।
अन्यत्तु द्रविणं यस्मादाप्तं तत्पदमाश्रयेत् ॥ ४२ ॥
पुत्रादिमातृपर्यन्तरहितस्य प्रमीतस्य पुंसः सोदरवैमात्रेययोरुभयोरपि तद्धने समभागित्वमित्याह मृतस्येत्यादिना ।
हे शिवे मृतस्य जनस्य सोदरो भ्राता तथा वैमात्रेयश्च उभौ तद्धनस्य पितृगतत्वेन हेतुना तत्र समांशिनौ सन्तौ तद्धनं विभजेतां विभज्य गृह्णीयातामित्यर्थः ॥ ३९ ॥
जीवन्त्यां कन्यायां तदपत्यस्य दायभागित्वं नेत्याह कन्यायामित्यादिना ।
कन्यायां जीवितायां सत्यां तदपत्यं दायभाग् न भवेत् किन्तु कन्यैव दायभागिनी स्यादित्यर्थः ।
यत्र जने यद्वित्तं धनं यद्बाधितं भवेत् तन्मृतौ तस्य बाधकजनस्य मरणे सति तद्वित्तं तमपरं जनं व्रजेत् गच्छेत् ॥ ४० ॥
अपरिणीतां भगिनीं सामान्यैस्तातद्रव्यैरुद्वाहयन्त्यो दुहितरो मृतस्याऽपुत्रस्य पितुर्द्रविणं सर्वा विभज्य गृह्णीयुरित्याह विभजेयुरित्यादिना ।
पितुः पुत्राभावे सति पितुः साधारणैः सामान्यैर्धनैरनूढामपरिणीतां पितुः पुत्रीमुद्वाहयन्त्यो दुहितरः पुत्र्यः पितुर्वसु द्रव्यं विभजेयुः ।
तुशब्देन विवाह्यमानाऽपि पितृद्रव्यं विभजेत् ॥ ४१ ॥
अनपत्यायाः प्रमीताया नार्याः स्त्रीधनस्य तत्स्वामिगामित्वमपरस्य तु तल्लब्धद्रव्यस्य यतः प्राप्तिरासीत्तत्पदाश्रयित्वमित्याह असन्तत्या इत्यादिना ।
प्रेतलब्धधनैर्नारी विदध्यादात्मपोषणम् ।
पुण्यन्तु तदुपस्वत्वैर्न शक्ता दानविक्रये ॥ ४३ ॥
पितामहस्नुषायाञ्च सत्यां तातविमातरि ।
पितामहगतं रिक्थं तत्पुत्रेण स्नुषां व्रजेत् ॥ ४४ ॥
पितामहे पितृव्ये च तथा भ्रातरि जीवति ।
अधोभवानां मुख्यत्वात् भ्रातैव धनभाग् भवेत् ॥ ४५ ॥
असन्तत्याः सन्ततिरहिताया मृताया नार्याः स्त्रीधनं स्वामिनं तद्भर्तारं भजेत् सेवेत ।
अन्यत्तु तद्भिन्नन्तु द्रविणं द्रव्यं यस्माज्जनादाप्तं लब्धं तत्पदमाश्रयेद्भजेत् ॥ ४२ ॥
प्रेतप्राप्तानि वित्तानि दातुं विक्रेतुं चाऽशक्नुवती नारी मरणपर्यन्तं भुञ्जीत तदुपस्वत्वैस्तु धर्ममपि कुर्वीतेत्याह प्रेतेत्यादिना ।
प्रेतलब्धधनैर्मृतप्राप्तैर्वित्तैर्नारि योषिदात्मपोषणमात्मनो भरणं विदध्यात् कुर्यात् ।
पुण्यं धर्मं तु तदुपस्वत्वैस्तदतिरिक्तैस्तत एवोपजातैर्धनैर्विदध्यात् ।
तेषां दाने विक्रये च शक्ता समर्था न भवेत् ॥ ४३ ॥
ननु पुत्रादिपितृव्यपर्यन्तरहितस्य मृतस्य पुंसो द्रविणस्य तत्पितृव्यपत्नीगामित्वं तातविमातृगामित्वं वेत्याशङ्कायामाह पितामहेत्यादिना ।
पितामहस्नुषायां पितामहपुत्रभार्यायां तातविमातरि च सत्यां विद्यमानायां पितामहगतं रिक्थं धनं तत्पुत्रेण पितामहस्यात्मजेन स्नुषां पुत्रपत्नीं व्रजेत् ॥ ४४ ॥
ननु पुत्रादिमातृपर्यन्तरहितस्य प्रेतस्य पुंसो विद्यमानानां पितामहपितृव्यभ्रातॄणां मध्ये कतमस्य तद्धनभागित्वं तत्राह पितामह इत्यादिना श्लोकद्वयेन ।
पितामहे पितृव्ये तथा भ्रातरि च जीवति सति अधोभवानां जनानां मुख्यत्वात् प्रधानत्वाद्धेतोर्भ्रातैव धनभाग् भवेत् ।
मृतात् पुत्रात् पितृगतं धनं मृतस्य भ्रातैव भजेदित्यर्थः ॥ ४५ ॥
पितृव्यात् सन्निकर्षेऽत्र तुल्यौ भ्रातृपितामहौ ।
धनं पितृपदं गत्वा प्रयातुर्भ्रातरं भजेत् ॥ ४६ ॥
स्थितेऽप्यपत्ये दुहितुः प्रेतस्य पितरि स्थिते ।
दुहित्रपत्यं धनभाग् धनं यस्मादधोमुखम् ॥ ४७ ॥
स्वःप्रयातुः स्थिते ताते तथा मातरि कालिके ।
पुंसो मुख्यतरत्वेन धनहारी भवेत् पिता ॥ ४८ ॥
स्थितः स्वपितृसापिण्डो वर्तमानेऽपि मातुले ।
प्रेतस्य धनहारी स्यात् पितुः सम्बन्धगौरवात् ॥ ४९ ॥
पितृव्यादिति ।
अत्र लोके पितृव्यात् सन्निकर्षे सामीप्ये यद्यपि भ्रातृपितामहौ तुल्यौ समानौ भवतः तथाप्यधोभवानां मुख्यत्वात् स्वःप्रयातुर्जनस्य धनं पितृपदं गत्वा भ्रातरं भजेत् ॥ ४६ ॥
ननु पुत्रादिपुत्रीपर्यन्तहीनस्य मृतस्य पुंसो विद्यमानयोस्तातदुहित्रपत्ययोर्मध्ये कतरस्य तद्धनग्राहकत्वमत आह स्थित इत्यादिना ।
प्रेतस्य मृतस्य जनस्य पितरि स्थिते दुहितुरपत्येऽपि स्थिते सति यस्माद्धनमधोमुखं स्यादतो दुहित्रपत्यमेव धनभाग् भवेत् ॥ ४७ ॥
प्रेतस्य पुंसो जीवतोर्मातापित्रोर्मध्ये पुरुषस्य प्रधानत्वात् पितुरेव तद्धनहारित्वमित्याह स्वःप्रयातुरित्यादिना ।
हे कालिके स्वःप्रयातुर्मृतस्य जनस्य ताते पितरि स्थिते सति तथा मातरि स्थितायां सत्यां पुंसो मुख्यतरत्वेन हेतुना पिता धनहारी स्यात् ॥ ४८ ॥
ननु मृतस्य पुंसो विद्यमानयोर्मातुलपितृसपिण्डयोर्मध्ये कतरस्य तद्वित्तभागित्वमत आह स्थित इत्यादि ।
मातुले वर्तमानेऽपि पितुः सम्बन्धस्य गौरवाद्धेतो स्थितः स्वपितृसापिण्डः प्रेतस्य धनहारी स्यात् ।
सपिण्ड एव सापिण्डः प्रज्ञादिभ्यश्चेति स्वार्थेऽण् ॥ ४९ ॥
अधस्ताद्गमनाभावे धनमूर्ध्वभवं गतम् ।
तत्रापि पुंसां मुख्यत्वादितं पितृकुलं शिवे ।
अतोऽत्र सन्निकृष्टोऽपि मातुलो नाप्नुयाद्धनम् ॥ ५० ॥
अजीवत्पितृकः पौत्रः पितृव्यैः सह पार्वति ।
पितामहस्य द्रविणात् स्वपितुर्दायमर्हति ॥ ५१ ॥
भ्रातृहीना तथा पौत्री पितृव्यैः समभागिनी ।
पितामहधनं सौम्या हरेच्चेन्मृतमातृका ॥ ५२ ॥
सत्यां पौत्र्याः पितामह्यां पौत्र्याः पितृष्वसर्यपि ।
वित्ते पितृगते देवि पौत्री तत्राऽधिकारिणी ॥ ५३ ॥
ननु पितुः सपिण्डात् सन्निकृष्टस्य मातुलस्यैव प्रेतधनहर्तृत्वं सम्भवति न तु विप्रकृष्टस्य पितुः सपिण्डस्येतीमामाशङ्कां परिहरन्नाह अधस्तादित्यादिधनमित्यन्तं सार्धम् ।
हे शिवे अधस्ताद्गमनाभावे सति प्रेतस्य धनमूर्ध्वभवं जनं गतं प्राप्तं भवेत् ।
तत्राप्यूर्ध्वभवेष्वपि पुंसां मुख्यत्वाद्धनं पितृकुलमितं प्राप्तं स्यात् ।
अतो हेतोरत्र लोके सन्निकृष्टोऽप्यासन्नोऽपि मातुलः प्रेतस्य धनं नाप्नुयान्न लभेत् ॥ ५० ॥
भ्रातृभ्योऽविभक्तस्य पुरुषस्य मृतौ सत्यां तत्पुत्रः पितृव्यैः सार्धं पैतामहकद्रव्यात् पैतृकमंशं प्राप्तुयादित्याह अजीवदित्यादिना ।
हे पार्वति अजीवत्पितृको मृतजनकः पौत्रः पितृव्यैः पितुर्भ्रातृभिः सह पितामहस्य द्रविणात् द्रव्यात् स्वपितुर्दायं प्राप्तुमर्हति ॥ ५१ ॥
अजीवन्मातृका भ्रातृरहिता पौत्र्यपि पितामहद्रव्यात् प्रमीतस्य पितुरंशं प्राप्तुमर्हतीत्याह भ्रातृहीनेत्यादिना ।
चेद्यदि मृतमातृका भ्रातृहीना सोदरवैमात्रेयरहिता सौम्या व्यभिचाराख्यदोषहीना च भवेत् तदा तथा तेन प्रकारेण पौत्री पुत्रदुहिता पितृव्यैः समभागिनी सती पितामहधनं हरेत् गृह्णीयात् ॥ ५२ ॥
ननु प्राप्तपञ्चत्वस्य पुंसो विद्यमानानां जननीभगिनीपुत्रीणां मध्ये तद्वित्ते का धनाधिकारिणी स्यात् तत्राह सत्यामित्यादिना ।
हे देवि पौत्र्याः पितामह्यां
अधोगामिषु वित्तेषु पुमान् ज्यायानधस्तनः ।
ऊर्ध्वगामिधने श्रेष्ठः पुमानूर्ध्वोद्भवो भवेत् ॥ ५४ ॥
अतः स्नुषायां पौत्र्याञ्च सत्यां दुहितरि प्रिये ।
प्रेतस्य विभवं हर्तुं नैव शक्नोति तत्पिता ॥ ५५ ॥
यदा पितृकुले न स्यान्मृतस्य धनभाजनम् ।
पूर्वोक्तविधिना रिक्थं मातामहकुलं भजेत् ॥ ५६ ॥
मातामहगतं वित्तं मातुलैस्तत्सुतादिभिः ।
अध ऊर्ध्वक्रमेणैवं पुमांसं स्त्रियमाश्रयेत् ॥ ५७ ॥
तथा पौत्र्याः पितृष्वसर्यपि सत्यां विद्यमानायाम् अधस्ताज्जन्मगौरवात् पौत्री तत्र पितृगते वित्तेऽधिकारिणी स्यात् ॥ ५३ ॥
ननु प्रेतस्य स्नुषाया दुहितृतः पौत्र्याश्च तज्जनकस्य पुंस्त्वेन श्रेष्ठत्वाद्विद्यमानस्य तस्यैव तद्धनहारित्वं सङ्घटते नतु तत्स्नुषादीनामितीमं सन्देहं दूरीकुर्वन्नाह अधोगामिष्वित्यादितत्पितेत्यन्तं श्लोकद्वयम् ।
अधोगामिषु वित्तेषु धनेष्वधस्तनोऽधोभवः पुमान् ज्यायान् श्रेष्ठो भवेत् न तूर्ध्वोद्भवः ।
ऊर्ध्वगामिधने तूर्ध्वोद्भवः पुमान् श्रेष्ठो भवेत् ॥ ५४ ॥
अत इति ।
हे प्रिये अतोऽधोगामिधने ऊर्ध्वोद्भवस्याऽश्रेष्ठत्वाद्धेतोः प्रतस्य स्नुषायां पुत्रभार्यायां पौत्र्यां दुहितरि च सत्यां वर्तमानायां प्रेतस्य विभवं धनं हर्तुं गृहीतुं तत्पिता नैव शक्नोति किन्तु यथाक्रमं ता एव प्रेतधनं हर्तुं शक्नुवन्तीत्यर्थः ॥ ५५ ॥
ननु प्रेतपुरुषस्य पितुर्वंशे धनग्राहकासत्त्वे तदद्रव्यस्य किं कुलगामित्वं स्यादत आह यदेत्यादि ।
यदा मृतस्य जनस्य पितृकुले धनभाजनं धनस्य पात्रं न स्यात्तदा पूर्वोक्तविधिना पूर्वकथितविधानेन रिक्थं प्रेतस्य धनं मातामहकुलं भजेत् सेवेत ॥ ५६ ॥
मातामहकुलयातस्य द्रव्यस्याध ऊर्ध्वक्रमेणैव पुरुषाश्रयत्वं तदसत्त्वे नार्याश्रयत्वं च स्यादित्याह मातामहेत्यादिना ।
मातामहगतं मातामहं प्राप्तं वित्तं धनं
ब्राह्म्यन्वये विद्यमाने पित्रोः सापिण्डने स्थिते ।
मृतस्य शैवीतनयो न पितुर्दायभाग् भवेत् ॥ ५८ ॥
शैवी पत्नी च तत्पुत्रा लभेरन् धनभागिनः ।
ग्रासमाच्छादनं भद्रे स्वःप्रयातुर्यथा धनम् ॥ ५९ ॥
शैवोद्वाहं प्रकुर्वन्तीं शैवभर्तैव पालयेत् ।
सौम्याञ्चेन्नाधिकारोऽस्याः पित्रादीनां धने प्रिये ॥ ६० ॥
मातुलैस्तत्सुतादिभिर्मातुलपुत्रादिभिश्च अध ऊर्ध्वक्रमेण एवं पितृकुले इव पुमांसं पुरुषं तदभावे स्त्रियमाश्रयेत् सेवेत ॥ ५७ ॥
अथ प्रेतपुरुषस्य ब्राह्मीभार्याया अन्वये मातापित्रोः सपिण्डे वा स्थिते शैवीपुत्रस्य तद्विभवभागित्वं नेत्याह ब्राह्म्यन्वये इत्यादिना ।
ब्राह्म्यन्वये ब्राह्म्या भार्याया वंशे विद्यमाने पित्रोर्मातुः पितुश्च सापिण्डने सपिण्डे वा स्थिते सति शैवीतनयः शैव्या भार्यायाः पुत्रो मृतस्य पितुर्दायभाग् न भवेत् किन्तु विद्यमानयोस्तयोरेव क्रमतः तद्दायभागित्वमित्यर्थः ।
एतेन ब्राह्म्यन्वयस्य मातापित्रोः सपिण्डस्य चाभावे शैवीतनयस्यैव मृतजनकदायभागित्वमिति ध्वनितम् ॥ ५८ ॥
ननु ब्राह्म्यन्वयस्य पित्रोः सपिण्डस्य वा वर्तमानत्वे शैवीपुत्राणां मृतपितृदायभागित्वाभावे कथमुदरभरणादिनिर्वाहस्तत्राह शैवीत्यादिना ।
हे भद्रे स्वःप्रयातुः स्वर्गतस्य पुंसः शैवी पत्नी तत्पुत्राः शैव्यास्तनयाश्च तस्य धनभागिनः पुरुषात् यथाधनं यथाविभवं ग्रासमाच्छादनं च लभेरन् प्राप्नुयुः ॥ ५९ ॥
ननु शैवमुद्वाहं कुर्वती नारी पित्रादिभिः पालनीया भवेच्छैवेन भर्त्रा वेत्याशङ्कायामाह शैवोद्वाहमित्यादिना ।
हे प्रिये यतोऽस्याः शैव्याः स्त्रियाः पित्रादीनां धनेऽधिकारो नास्त्यतः शैवोद्वाहं प्रकुर्वन्तीं तां चेद्यदि सौम्यामव्यभिचारिणीं जानीयात्तदा शैवभर्तैव पालयेत् रक्षेत् ।
जानीयादिति त्वध्याहारलभ्यम् ।
प्रकुर्वन्तीमित्यत्र नुमागमश्छान्दसः ॥ ६० ॥
अतः सत्कुलजां कन्यां शैवैरुद्वाहयन् पिता ।
क्रोधाद्वा लोभतो वापि स भवेल्लोकगर्हितः ॥ ६१ ॥
शैवीतदन्वयाभावे सोदको ब्रह्मदो नृपः ।
हरेयुः क्रमतो वित्तं मृतस्य शिवशासनात् ॥ ६२ ॥
पिण्डदात् सप्तपुरुषाः सपिण्डाः कथिताः प्रिये ।
सोदका दशमान्ताः स्युस्ततः केवलगोत्रजाः ॥ ६३ ॥
अथ शैवेन विधिना सत्कुलजां कन्यामुद्वाहयतो जनकस्य लोकनिन्द्यत्वं दर्शयितुमाह अत इत्यादिना ।
अतो ब्राह्म्यन्वये मातापित्रोः सपिण्डे वा स्थिते भर्तुर्द्रव्ये स्वपित्रादिद्रव्ये चाधिकारस्याऽभावाद्धेतोः क्रोधाद्वा लोभतो वापि शैवैर्विधिभिः सत्कुलजां सद्वंशजातां कन्यामुद्वाहयन् यः स पिता लोकगर्हितो लोकनिन्दितो भवेत् ॥ ६१ ॥
पुत्रादिशैवीसन्ततिपर्यन्तरहितस्य प्राप्तपञ्चत्वस्य पुरुषस्य स्थावरादिसकलद्रव्येषु सोदकस्य वेदाध्यापकगुरोर्नरपतेश्च क्रमतोऽधिकारित्वमस्तीत्याह शैवीत्यादिना ।
शैवीतदन्वयाभावे सति सोदको ब्रह्मदो वेदाध्यापकः गुरुः नृपो राजा च मृतस्य वित्तं धनं शिवशासनात् शिवाज्ञातः क्रमतो हरेयुः ।
यथा शैवीतदन्वयासत्त्वे प्रथमतः सोदको मृतस्य वित्तं हरेत् ।
तदभावे वेदाध्यापकः तदसत्त्वे तु राजा चेति ॥ ६२ ॥
ननु केषां सपिण्डत्वं केषां सोदकत्वं केवलगोत्रजत्वं च केषामत आह पिण्डदादित्यादिना ।
हे प्रिये पिण्डदात् पिण्डदातारं पुरुषमारभ्य सप्तपुरुषाः सपिण्डाः कथिताः तत ऊर्ध्वं दशमान्ताः दशमपुरुषान्ताः सोदकाः स्युः ततः परं केवलगोत्रजा भवेयुः ।
पिण्डदादिति ल्यब्लोपे कर्मण्यधिकरणे चेति कर्मणि पञ्चमी ॥ ६३ ॥
विभक्तं द्रविणं यच्च संसृष्टं स्वेच्छया तु चेत् ।
अविभक्तविधानेन भजेरंस्तद्धनं पुनः ॥ ६४ ॥
अविभक्ते विभक्ते वा यस्य यादृग्विभागिता ।
मृतेऽपि तस्य दायादास्तादृग्विभवभागिनः ॥ ६५ ॥
ये यस्य धनहर्तारो भवेयुर्जीवनावधि ।
दद्युः पिण्डं त एवाऽस्य शैवभार्यासुतं विना ॥ ६६ ॥
लोकेऽस्मिन् जन्मसम्बन्धाद् यथाऽशौचं विधीयते ।
धनभागित्वसम्बन्धात् त्रिरात्रं विहितं तथा ॥ ६७ ॥
विभक्तस्य पश्चात् स्वेच्छया संसृष्टस्य द्रव्यस्याऽविभक्तविधानेनैव पुनर्विभागमाह विभक्तमित्यादिना ।
चेद्यदि विभक्तं यत् द्रविणं द्रव्यं स्वेच्छया संसृष्टं मिश्रीकृतं स्यात्तदा तद्धनं पुनरविभक्तविधानेन दायादा भजेरन् ॥ ६४ ॥
जीवतो यस्य पुरुषस्य विभक्ताविभक्ताखिलद्रव्येषु येषां यादृग्विभागित्वं तस्य मरणेऽपि तत्र तेषां तादृग्विभागित्वं स्यादेवेत्याह अविभक्ते इत्यादिना ।
यस्य पुरुषस्याऽविभक्ते विभक्ते वा द्रव्ये येषां दायादानां यादृग्विभागिता स्यात्तस्य पुंसो मृतेऽपि मरणेऽपि ते दायादास्तादृग्विभवभागिनो भवेयुः ॥ ६५ ॥
प्रमीतस्य यस्य पुंसो द्रविणं ये लभेरंस्तस्मै यावज्जीवनं त एव पिण्डं ददेरन्नित्याह ये इत्यादिना ।
ये पुमांसो यस्य पुंसो धनहर्तारो भवेयुस्त एव जीवनावधि जीवनपर्यन्तमस्य पुरुषस्य पिण्डं दद्युः ।
परन्तु शैवभार्यासुतं विना ।
तस्य तत्पिण्डदानेऽधिकारित्वं नास्तीत्यर्थः ।
शैवभार्यासुतमिति शैव्यास्तद्दुहित्रादीनां चोपलक्षणम् ॥ ६६ ॥
यथा जन्मसम्बन्धात् सर्वेषां बान्धवानां मरणजनननिमित्तकाशौचं जायते एवं धनभागित्वसम्बन्धाद्धनहारिणामपि त्रिरात्रमशौचं स्यादित्याह लोके इत्यादिना ।
जन्मसम्बन्धाद्यथाऽस्मिंल्लोके जने मरणजनननिमित्तकमशौचं विधीयते
पूर्णेऽशौचेऽथवाऽपूर्णे तत्कालाभ्यन्तरे श्रुते ।
श्रवणाच्छेषदिवसैर्विशुद्ध्येयुर्द्विजादयः ॥ ६८ ॥
कालातीते तु विज्ञाते खण्डेऽशौचं न विद्यते ।
पूर्णे त्रिरात्रं विहितं न चेत् संवत्सरात् परम् ॥ ६९ ॥
वर्षातीतेऽपि चेन्मातुः पितुर्वा मरणश्रुतौ ।
त्रिरात्रमशुचिः पुत्रस्तथा भर्तुः पतिव्रता ॥ ७० ॥
तथा धनभागित्वसम्बन्धाद्धनहर्तर्यपि त्रिरात्रमशौचं विहितम् ।
लोकः स्याद्भुवने जने इत्यमरः ॥ ६७ ॥
नन्वशौचकालाभ्यन्तर एव पूर्णं खण्डं वाऽशौचं शृण्वतामपरदेशस्थानां ब्राह्मणादीनामशौचश्रवणवासरादवशिष्टैरेवाशौचवास रैर्विशुद्धिः स्यात् तद्वासरमारभ्याऽपरैर्वा दशाहादिभिरित्याशङ्ङ्कायामाह पूर्णे इत्यादिना ।
पूर्णेऽशौचेऽथवाऽपूर्णे खण्डेऽशौचे तत्कालाभ्यन्तरेऽशौचकालमध्ये श्रुते सति श्रवणादशौचश्रवणदिवसाच्छेषदिवसैरवशिष्टैरहोरात्रैर्द्व् इजादयो ब्राह्मणादयो विशुद्ध्येयुः ।
श्रूयतेऽस्मिन्निति श्रवणं तस्मात् ।
करणाधिकरणयोश्च इत्यधिकरणे ल्युट् ॥ ६८ ॥
नन्वशौचकालव्यपगमे सति संवत्सराभ्यन्तर एव ज्ञातिमरणं शृण्वन्तो ब्राह्मणादयः कियद्भिरहोरात्रैर्विशुध्येयुरत आह कालातीते इत्यादिना ।
कालातीते त्वशौचकालातिक्रमणे तु खण्डेऽशौचे विज्ञाते सत्यशौचं न विद्यते ।
चेद्यदि संवत्सराद्वर्षात् परमूर्ध्वं दिनादिकमतीतं न भवेत्तदा अतीतेऽप्यशौचकाले पूर्णेऽशौचे विज्ञाते सति त्रिरात्रमशौचं विहितम् ।
कालस्यातीतं कालातीतमिति षष्ठीति सूत्रेण षष्ठीतत्पुरुषः ।
अतीतमित्यतिपूर्वादिणो भावेक्तः ।
नाशौचं प्रसवस्यास्ति व्यतीतेषु दिनेष्वपि इति देवलवचनात् मरणविषयकमिदं वचनम् ॥ ६९ ॥
संवत्सरे व्यतीतेऽपि मातापित्रोर्मरणं शृण्वतः पुत्रस्य स्वामिनो मरणं शृण्वत्याः पतिव्रतायाश्च त्रिरात्रमशौचं स्यादित्याह वर्षातीतेऽपीत्यादिना
अशौचाभ्यन्तरे यस्मिन्नशौचान्तरमापतेत् ।
गुर्वशौचेन मर्त्यानां शुद्धिस्तत्र विधीयते ॥ ७१ ॥
अशौचानां गुरुत्वञ्च कालव्यापित्वगौरवात् ।
व्याप्यव्यापकयोर्मध्ये गरीयो व्यापकं स्मृतम् ॥ ७२ ॥
यद्यशौचान्तदिवसे पतेदपरसूतकम् ।
पूर्वाशौचेन शुद्धिः स्यादघवृद्ध्या दिनद्वयम् ॥ ७३ ॥
वर्षातीतेऽपि संवत्सरातिक्रमणेऽपि चेद्यदि मातुः पितुर्वा मरणश्रुतिः स्यात्तदा तयोर्मरणश्रुतौ सत्यां पुत्रः त्रिरात्रमशुचिः स्यात् तथा भर्तुः स्वामिनो मरणश्रुतौ पतिव्रता स्त्री त्रिरात्रमशुचिः स्यात् ॥ ७० ॥
एकस्मिन्नशौचे सति तच्छेषवासराऽसमाप्तावेव विषमकालव्यापकाशौचान्तरनिपाते सत्यधिकदिनव्यापकेनाऽशौचेन मर्त्यानां शुद्धिः स्यादित्याह अशौचाभ्यन्तर इत्यादिना ।
यस्मिन्नशौचे सत्यशौचाभ्यन्तरेऽशौचमध्येऽशौचान्तरं विषमकालव्यापकम् अपरमशौचम् आपतेदागच्छेत्तस्मिन्नशौचे जाते सति गुर्वशौचेनाऽधिकदिनव्यापकेनाऽशोचेनाऽपगतेन मर्त्यानां शुद्धिर्विधीयते ॥ ७१ ॥
अथाशौचानां गुरुत्वं निरूपयति अशौचानामित्यादिना ।
कालव्यापित्वगौरवात् कालव्यापकत्वे गुरुत्वाद्धेतोरशौचानां गुरुत्वं भवेत् ।
अधिककालव्यापकत्वादशौचानां गुरुत्वमल्पकालव्यापकत्वाच्च लघुत्वमित्यर्थः ।
व्याप्यव्यापकयोरशौचयोर्मध्ये व्यापकमशौचं गरीयो गुरुतरं स्मृतम् ॥ ७२ ॥
नन्वशौचान्तदिनेऽपरस्मिन्नशोचे पतिते सति पूर्वाशौचेनैव शुद्धिः स्यात् पराशौचेन वेत्याशङ्कायामाह यदीत्यादिना ।
अशौचान्तदिवसेजननाशौचस्यान्तिमेऽहोरात्रे यद्यपरसूतकं तदन्यजनननिमित्तकखण्डाशौचं पतेत्तदा पूर्वाशौचेनैव व्यतीतेन शुद्धिः स्यात् ।
यदि त्वशौचान्तदिवसे पूर्णाशौचान्तरोपनिपाते सत्यघवृद्धिर्भवेत् तदाऽघवृद्ध्या पूर्वाशौचान्तदिवसावधिकं दिनद्वयमशौचं स्यात् ।
सूतकमिति तु मृतकस्याऽप्युपलक्षणम् ।
तत्राप्येवमेवावगन्तव्यम् ॥ ७३ ॥
तावत् पितृकुलाशौचंयावन्नोद्वहनं स्त्रियाः ।
जातेपरिणये पित्रोर्मृतौ त्र्यहमुदाहृतम् ॥ ७४ ॥
विवाहानन्तरं नारी पतिगोत्रेण गोत्रिणी ।
तथा गृहीतृगोत्रेण दत्तपुत्रस्य गोत्रिता ॥ ७५ ॥
सुतमादाय सम्मत्या जनन्या जनकस्य च ।
स्वगोत्रनामान्युल्लिख्य संस्कुर्यात् स्वजनैः सह ॥ ७६ ॥
ननु स्त्रीणां तातकुल एवाऽशौचे सत्यशौचं भवेद्भर्तृकुल एव वा किमुभयत्रापीत्याशङ्कायामाह तावदित्यादिना ।
यावदुद्वहनमुद्वाहो न भवेत्तावत् कालपर्यन्तं स्त्रियाः पितृकुलाशौचं पितृकुलसम्बन्ध्यशौचं स्यात् ।
एतेन विवाहात् परतो भर्तृकुलसम्बन्ध्येव स्त्रिया अशौचं भवेदिति सूचितम् ।
ननु उद्वाहादूर्ध्वमुत्पादकयोर्मातापित्रोरपि मृतौ नार्या अशौचं न स्यादित्यत आह जाते इत्यादिना ।
परिणये विवाहे जाते सत्यपि पित्रोर्मृतौ मातुः पितुश्च मरणे सति स्त्रियाः त्र्यहं त्रिदिनमशौचमुदाहृतम् ॥ ७४ ॥
ननु वैवाहिकसम्बन्धाज्जननसम्बन्धस्य बलवत्तरत्वस्योक्तत्वान्नार्याः पितृकुल एवाशौचे सत्यशौचं युक्तं नतु पतिकुलाशौचे सतीत्यत आह विवाहान्तरमित्यादिना ।
विवाहानन्तरमुद्वाहात् परतो नारी स्त्री पतिगोत्रेण गोत्रिणी स्यात् ।
विवाहादूर्ध्वं पितृगोत्राद्बहिर्भूतत्वात् तत्राशौचे सति स्त्रिया अशौचं न स्यादिति भावः ।
ननु दत्तकपुत्रस्य जनकगोत्रेण गोत्रवत्त्वमादातुर्गोत्रेण वेति सन्देहं निराकुर्वन्नाह तथेत्यादिना ।
तथा तेन प्रकारेण दत्तपुत्रस्य गृहीतृगोत्रेण गोत्रिता गोत्रवत्ता स्यात् ॥ ७५ ॥
इदानीं मातापित्रोः सम्मत्या पुत्रमादाय गृहीत्रा स्वगोत्रनामान्युच्चार्य तत्संस्कारो विधेय इत्याह सुतमित्यादिना ।
जनन्या जनयित्र्या जनकस्योत्पादकस्य च सम्मत्या सुतं तत्पुत्रमादाय गृहीत्वा स्वगोत्रनामान्युल्लिख्याऽत्मनो गोत्रनामधेयान्युच्चार्य गृहीता स्वजनैर्बान्धवैः सह संस्कारं कुर्यात् ॥ ७६ ॥
औरसेऽपि यथा पित्रोर्धने पिण्डेऽधिकारिता ।
आदात्रोर्दत्तके तद्वद्यतोऽस्य पितरौ हि तौ ॥ ७७ ॥
आपञ्चाब्दं शिशुं गृह्णन् सवर्णात् परिपालयेत् ।
पञ्चवर्षाधिको बालो दत्तको न प्रशस्यते ॥ ७८ ॥
भ्रातृपुत्रोऽपि दत्तश्चेद्गृहीतैव भवेत् पिता ।
उत्पादकः पितृव्यः स्यात् सर्वकर्मसु कालिके ॥ ७९ ॥
यो यस्य धनहर्ता स्यात् स तद्धर्माणि पालयेत् ।
संरक्षेन्नियमांस्तस्य तद्बन्धून् परितोषयेत् ॥ ८० ॥
आदात्रोर्मातापित्रोर्धने पिण्डे च दत्तकपुत्रस्य सदृष्टान्तमधिकारित्वमाह औरसेऽपीत्यादिना ।
अपिशब्दः पिण्डेन योजनीयः ।
पित्रोर्धने पिण्डेऽपि यथौरसे पुत्रेऽधिकारिता वर्तते तद्वदादात्रोरपि धने पिण्डे च दत्तकेऽधिकारिता स्यात् ।
दत्तकस्याऽदात्रोः पिण्डादावधिकारित्वे हेतुं दर्शयन्नाह यत इत्यादिना ।
यतोऽस्य दत्तकस्य तौ आदातारौ हीति निश्चितौ पितरौ स्यातामतस्तद्धन पिण्डयोस्तस्याऽधिकारितेत्यर्थः ॥ ७७ ॥
ननु कियद्धायनो बालो दत्तकः प्रशस्तोऽत आह आपञ्चाब्दमित्यादिना ।
सवर्णात् समानवर्णादापञ्चाब्दं पञ्चाब्दपर्यन्तं शिशुं बालं गृह्णन् ब्राह्मणादिः परिपालयेद्रक्षेत् ।
पञ्च जब्दा वर्षाणि यस्य स पञ्चाब्दस्तस्मादा इत्यापञ्चाब्दम् ।
आङ्मर्यादाभिविध्योरित्यव्ययीभावः ।
पञ्चवर्षाधिको यो बालोः असौ दत्तको न प्रशस्यते ॥ ७८ ॥
दत्तस्य भ्रातुष्पुत्रस्याप्यादाता तत्पितृव्य एव पिता स्यात् तज्जनकस्तु तत्पितृव्यः स्यादित्याह भ्रातृपुत्रोऽपीत्यादिना ।
हे कालिके चेद्यदि भ्रातृपुत्रोऽपि दत्तो भवेत्तदा सर्वेषु कर्मसु गृहीतैव तस्य पिता भवेत् उत्पादको जनकस्तु तस्य पितृव्यः स्यात् ॥ ७९ ॥
धनहारिणा पुरुषेण धनस्वामिनो धर्मा नियमाश्च संरक्षणीयास्तदबान्धवाश्च सन्तोषणीया इत्याह य इत्यादिना ।
यः पुमान् यस्य पुंसो धनहर्ता
कानीना गोलकाः कुण्डा अतिपातकिनश्च ये ।
नाऽशौचं मरणे तेषां नैव दायाधिकारिता ॥ ८१ ॥
लिङ्गच्छेदो दमो येषां यासां नासानिकृन्तनम् ।
महापातकिनाञ्चापि मृतौ नाऽशौचमाचरेत् ॥ ८२ ॥
नृणामुद्देशहीनानां परिवारान् धनान्यपि ।
पालयेद्रक्षयेद्राजा यावद्द्वादशवत्सरम् ॥ ८३ ॥
स्यात् स तस्य धर्माणि पालयेत् तस्य नियमांश्च संरक्षेत् तस्य बन्धूनपि परितोषयेत् ॥ ८० ॥
कानीनगोलकादीनां दायाधिकारित्वं तेषां मरणेऽशौचं च नेत्याह कानीना इत्यादिना ।
ये कानीनाः पितुर्वेश्मन्यप्रकाशं कन्ययोत्पादिताः ये च गोलका मृते भर्तरि जाराज्जाताः ये च कुण्डा जीवत्येव पत्यौ जारजाः ये चोक्तलक्षणा अतिपातकिनस्तेषां मरणेऽशौचं न स्यात् तेषां दायाधिकारिता च नैव स्यात् ।
अमृते जारजः कुण्डो मृते भर्तरि गोलकः इत्यमरः ॥ ८१ ॥
नासाकर्तनदण्डकापराधकर्त्रीणां स्त्रीणां लिङ्गच्छेदनदण्डकापराधकारिणां महापातकिनाञ्च पुंसामपि मृतावशौचं नाऽचरणीयमित्याह लिङ्गच्छेद इत्यादिना ।
येषां पुरुषाणां लिङ्गच्छेदः शिश्नकर्तनं दमो दण्डो विहितस्तेषां यासां नासानिकृन्तनं नासिकाकर्तनं दण्डस्तासां स्त्रीणां महापातकिनां ब्रह्मघातकादीनाञ्चापि मृतौ मरणेऽशौचं नाचरेन्न कुर्यात् ॥ ८२ ॥
अनुद्दिष्टानां मनुष्याणां परिवारान् धनानि च द्वादशवर्षपर्यन्तं राज्ञा रक्षितव्यानीत्याह नृणामित्यादिना ।
उद्देशहीनानामनुद्दिष्टानां नृणां मनुष्याणां परिवारान् यावद् द्वादशवत्सरं द्वादशवर्षपर्यन्तं राजा पालयेत् ।
तेषां धनान्यपि स एव रक्षयेत् ॥ ८३ ॥
द्वादशाब्दे गते तेषां दर्भदेहान् विदाहयेत् ।
त्रिरात्रान्ते तत्सुताद्यैः प्रेतत्वं परिमोचयेत् ॥ ८४ ॥
ततस्तत्परिवारेभ्यः पुत्रादिक्रमतो धनम् ।
विभज्य नृपतिर्दद्यादन्यथा पातकी भवेत् ॥ ८५ ॥
न कोऽपि रक्षिता यस्य दीनस्याऽपद्गतस्य च ।
तस्यैव नृपतिः पाता यतो भूपः प्रजाप्रभुः ॥ ८६ ॥
यद्यागच्छेदनुद्दिष्टो विभागान्तेऽपि कालिके ।
तस्यैव दाराः पुत्राश्च धनं तस्यैव नान्यथा ॥ ८७ ॥
द्वादशवर्षादूर्ध्वमनुद्दिष्टानां पुंसां कुशमयानि शरीराणि राज्ञा तत्पुत्रादिभिर्दाहयितव्यानि त्रिरात्रान्ते तेषां प्रेतत्वञ्च मोचयितव्यमित्याह द्वादशाब्द इत्यादिना ।
द्वादशाब्दे द्वादशवर्षे गते याते सति तेषामुद्देशहीनानां नृणां दर्भदेहान् कुशमयशरीराणि राजा तत्सुताद्यैरनुद्दिष्टानां पुत्रादिभिर्विदाहयेत् ।
त्रिरात्रान्ते तेषां प्रेतत्वञ्च तैरेव परिमोचयेत् ॥ ८४ ॥
ततः परमुद्देशरहितजनस्वामिकं द्रव्यं विभज्य पुत्रादिक्रमतस्तत्परिवारेभ्यो नृपेण देयमित्याह तत इत्यादिना ।
ततस्तद्दाहानन्तरं तदीयं धनं विभज्य पुत्रादिक्रमतस्तत्परिवारेभ्यो नृपतिर्दद्यात् ।
नन्वेवमकुर्वतो नरपतेः को दोषोऽत आह अन्यथेति ।
अन्यथा एतदकुर्वन् नृपतिः पातकी भवेत् ॥ ८५ ॥
विपत्तिं प्राप्तोऽनन्यरक्षको मर्त्यो राज्ञैव पालनीय इत्याह न कोऽपीत्यादिना ।
आपद्गतस्य विपत्तिं प्राप्तस्य दीनस्य दरिद्रस्य यस्य पुंसः कोऽपि रक्षिता न विद्यते तस्य नृपतिरेव पाता रक्षकः स्यात् ।
यतो भूप एव प्रजानां प्रभुः स्वामी भवेत् ।
निस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः इत्यमरः ॥ ८६ ॥
द्रव्यविभागान्तेऽप्यागतस्याऽनुद्दिष्टस्यैव पत्न्यादयो भवेयुरित्याह यदीत्यादिना ।
हे कालिके विभागान्तेऽप्यनुद्दिष्टो जनो यद्यागच्छेत् तदा
न समर्थः पुमान् दातुं पैतृकं स्थावरञ्च यत् ।
स्वजनायाऽथवाऽन्यस्मै दायादानुमतिं विना ॥ ८८ ॥
यत्तु स्वोपार्जितं रिक्थं स्थावरं स्थावरेतरम् ।
अस्थावरं पैतृकं च स्वेच्छया दातुमर्हति ॥ ८९ ॥
स्थिते पुत्रेऽथवा पत्न्यां कन्यायां तत्सुतेऽपि वा ।
जनके च जनन्यां वा भ्रातर्येवं स्वसर्यपि ॥ ९० ॥
स्वार्जितं स्थावरधनमस्थावरधनञ्च यत् ।
अस्थावरं पैतृकञ्च दातुं सर्वं क्षमो भवेत् ॥ ९१ ॥
तस्यैव दारा भार्या पुत्राश्च तस्यैव धनमपि तस्यैव एतत्सर्वमन्यथा न भवेत् ॥ ८७ ॥
अंशिकानामननुमतौ पितृस्वामिकस्थावरद्रव्यं कस्मैचिदपि दातुं न कोऽपि शक्नुयादित्याह न समर्थ इत्यादिना ।
स्थावरं चेत्यत्राऽवधारणार्थकश्चशब्दः पैतृकस्थावराभ्यां द्वाभ्यामपि सम्बध्यते ।
तदाऽयमर्थः ।
दायादानुमतिं विना अंशिकानामनुमतेरभावे पैतृकमेव स्थावरमेव यत् द्रव्यं तत्स्वजनायान्यस्मै वा दातुं पुमान् समर्थः शक्तो न भवेत् ।
अन्वाचयसमाहारेतरेतरसमुच्चये ।
विनियोगे तुल्ययोगितावधारणहेतुषु ।
पादस्य पूरणेऽप्युक्तं नवस्वर्थेषु चाव्ययम् ॥ ८८ ॥
पैतृकं स्थावरञ्च यदित्यनेन स्वोपार्जितस्थावराद्यखिलद्रव्यस्य लब्धस्य पैतृकस्य च जङ्गमद्रव्यस्य स्वच्छन्दं दानं कुर्यादिति सूचितं तदेव पुनर्विस्पष्टयितुमाह यत्त्वित्यादिना ।
यत्तु स्वोपार्जितं स्थावरं स्थावरेतरं जङ्गमं च रिक्थं धनं यच्च लब्धं पैतृकं पितृसम्बन्धि अस्थावरं जङ्गमं धनं तत्तु स्वेच्छया दातुमर्हति ॥ ८९ ॥
अतिसन्निकृष्टतरपुत्राद्यननुमतावपि आत्मोपार्जितस्थावरादिसकलद्रव्यं पैतृकञ्चाऽस्थावरधनं दातुं पुमान् समर्थो भवेदित्याह स्थित इत्यादिनाक्षमो
धनमेवं विधानेन दत्तं वा धर्मसात्कृतम् ।
पुंसा तदन्यथा कर्तुं पुत्राद्यैर्नैव शक्यते ॥ ९२ ॥
धर्मार्थं स्थापितं रिक्थं दाता रक्षितुमर्हति ।
न प्रभुः पुनरादातुं धर्मो ह्यस्य यतः प्रभुः ॥ ९३ ॥
मूलं वा तदुपस्वत्वं यथासङ्कल्पमम्बिके ।
स्वयं वा तत्प्रतिनिधिर्धर्मार्थं विनियोजयेत् ॥ ९४ ॥
भवेदित्यन्तेन श्लोकद्वयेन ।
पुत्रे आत्मजेऽपि स्थिते सति पत्न्यां भार्यायामथवा कन्यायां दुहितरि स्थितायां तत्सुते कन्यापुत्रे वा जनके पितरि वा स्थिते जनन्यां मातरि वा स्थितायामेवं भ्रातरि सोदरे स्थिते स्वसर्यपि भगिन्यामपि स्थितायां स्वार्जितमात्मोपार्जितं यत् स्थावरं धनं यच्चाऽस्थावरधनं जङ्गम द्रव्यं यच्च पैतृकमप्यस्थावरं धनं तत् सर्वं दातुं पुमान् क्षमः समर्थो भवेत् ॥ ९० ॥ ९१ ॥
शङ्करोक्तेन विधानेन पुरुषेण दत्तं धर्मार्थं च स्थापितं द्रव्यं तत् पुत्रादिभिर्नैवान्यथा कर्तुं शक्यमित्याह धनमित्यादिना ।
पुंसा पुरुषेणैवं विधानेन शिवोक्तेनैतादृशेन विधिना यत् धनं दत्तं यद्वा धनं धर्मसात्कृतं धर्माधीनं कृतं धर्मार्थं स्थापितमिति यावत् ।
तत् धनं पुत्राद्यैरन्यथाकर्तुं नैव शक्यते ॥ ९२ ॥
धर्मार्थस्थापितद्रव्यस्य धर्मस्वामिकत्वात् दातुः पुनरग्राह्यत्वं तद्रक्ष्यत्वञ्चाह धर्मार्थमित्यादिना ।
धर्मार्थं स्थापितं यद्रिक्थं धनं तद्रक्षितुं दाताऽर्हति ।
तत् धनं पुनरादातुं गृहीतुं दाता न प्रभुरधिपः ।
यतोऽस्य धनस्य ।
हीति निश्चितौ ।
धर्मः प्रभुः स्वामी ॥ ९३ ॥
मूलधनं तदुपस्वत्वं वाऽत्मनाऽत्मप्रतिनिधिना वा यथासङ्कल्पं धर्मार्थं विनियोजयितव्यमित्याह मूलमित्यादिना ।
हे अम्बिके यथासङ्कल्पं सङ्कल्पमनतिक्रम्य मूलं वा धनं तदुपस्वत्वं वा स्वयमात्मैव वा तत्प्रतिनिधिरात्मनः प्रतिनिधिर्वा धर्मार्थं विनियोजयेत् ।
मुख्यस्याभावे तत्सदृशो य उपादीयते स प्रतिनिधिः ॥ ९४ ॥
स्वोपार्जितधनस्यार्धं दायादायाऽपि चेत् धनी ।
दद्यात् स्नेहेन तच्चान्यो नान्यथा कर्तुमर्हति ॥ ९५ ॥
यदि स्वोपार्जितस्यार्धमेकस्मै धनहारिणाम् ।
ददात्यन्यैश्च दायादैः प्रतिरोद्धुं न शक्यते ॥ ९६ ॥
एकेन पितृवित्तेन यत्र वित्तमुपार्जितम् ।
पित्र्ये समांशा दायादा न लाभार्हा विनाऽर्जकम् ॥ ९७ ॥
पैतृकाणि च वित्तानि नष्टेऽप्युद्धारयेत्तु यः ।
दायादानां तद्धनेभ्य उद्धर्ता द्व्यंशमर्हति ॥ ९८ ॥
ननूपार्जकजनेन प्रेमतो दायहारिणेऽपि दत्तं स्वोपार्जितद्रव्यस्यार्धमन्यः पुमानन्यथा कर्तुमर्हति न वेत्यत आह स्वोपार्जितधनस्येत्यादिना ।
धनी पुमांश्चेद्यदि स्नेहेन प्रेम्णा स्वोपार्जितधनस्यार्थं दायादायाऽपि धनहारिणेऽपि दद्यात्तदाऽन्यो जनस्तत्स्नेहेन दत्तं स्वोपार्जितधनार्धमन्यथा कर्तुं नार्हति न योग्यो भवति ।
इतोऽनन्तरं वक्ष्यमाणस्य वचनस्य बह्वंशिविषयत्वात् द्व्यंशिविषयकमिदं वचनम् ॥ ९५ ॥
ननु बहूनां दायादानामेकस्मै दीयमानं स्वोपार्जितधनस्यार्थम् अन्ये दायादाः प्रतिरोद्धुं शक्नुवन्ति न वेत्यत आह यदीत्यादिना ।
यद्यर्जको धनहारिणां दायादानां मध्ये एकस्मै धनहारिणे स्वोपार्जितस्य द्रयस्यार्धं ददाति तदाऽन्यैर्दायादैः प्रतिरोद्धुं वारयितुं न शक्यते ॥ ९६ ॥
ननु पैतृकद्रविणेनैवोपार्जिते वित्ते सर्वे दायादा भागार्हा भवेयुर्न वेत्याशङ्कायामाह एकेनेत्यादिना ।
यत्र येषु दायादेषु मध्ये येनैकेन दायादेन येन पितृवित्तेन पैतृकेण धनेन वित्तं धनमुपार्जितं ते सर्वे दायादास्तस्मिन् पित्र्ये पैतृके वित्ते समांशाः समभागिनः स्युः ।
तमर्जकं विना लाभार्हास्तु न स्युः ।
किन्त्वर्जक एवैको लाभार्ह इत्यर्थः ॥ ९७ ॥
विनष्टानि पैतृकद्रव्याण्युद्धरतो जनस्य तत्र भागद्वयहारित्वमन्येषां तु समभागित्वमित्याह पैतृकाणीत्यादिना ।
दायादानां मध्ये यस्तु दायादो
पुण्यं वित्तं च विद्या च नाश्रयेदशरीरिणम् ।
शरीरन्तु पितुर्यस्मात् किन्न स्यात् पैतृकं वसु ॥ ९९ ॥
पृथगन्नैः पृथग्वित्तैर्मनुजैर्यदुपार्जितम् ।
सर्वं तत् पितृसङ्क्रान्तं तदा स्वोपार्जितं कुतः ॥ १०० ॥
अतो महेशि स्वायासैर्येन यद्धनमर्जितम् ।
स्वोपार्जितं तदेव स्यात् स तत्स्वामी न चापरः ॥ १०१ ॥
नष्टेऽपि नाशेऽपि सति पैतृकाणि वितान्युद्धरेत् स उद्धर्ता तद्धनेभ्यो द्व्यंशं भागद्वयमर्हति अन्ये तु सममंशं लभन्त इत्यर्थः ॥ ९८ ॥
वपुषः पैतृकत्वेन वपुष्मदाश्रितानां विद्यावित्तादीनामपि पैतृकत्वसत्त्वात् पृथगन्नद्रव्यैरपि मनुष्यैस्तैरेवोपार्जितानां सर्वेषां धनानां पितृसम्बन्धत्वानपायात् स्वोपार्जितत्वं न सिद्ध्येदतो निजायासैरर्जितानां सकलद्रव्याणां स्वोपार्जितत्वमर्जकमात्रस्वामिकत्वञ्च ज्ञातव्यमित्येतदेवाह पुण्यमित्यादिना न चापरः इत्यन्तेन श्लोकत्रयेण ।
यस्माद्धेतोः पुण्यं धर्मं वित्तं धनं च विद्या शास्त्रादितत्त्वज्ञानं चाशरीरिणमदेहिनं नाश्रयेन्नावलम्बेत किन्तु शरीरिणमेवाऽश्रयेत् शरीरन्तु पितुः पितृसम्बन्धि भवति अतः किं वसु धनं पैतृकं पितृसम्बन्धि न भवेदपि तु सर्वं वसु पैतृकमेव भवेत् ॥ ९९ ॥
पृथगन्नैरिति ।
अतः पृथगन्नैर्विभिन्नभक्तैः पृथग्वित्तैर्विभक्तधनैरपि मनुजैर्मनुष्यैर्यदुपार्जितं तत्सर्वं पितृसङ्क्रान्तं पितृसम्बद्धं जातं तदा स्वोपार्जितं धनं कुतो भवेत् धनस्य स्वोपार्जितत्वं न सिद्ध्येदित्यर्थः ॥ १०० ॥
अत इति ।
हे महेशि अतो हेतोः स्वायासैरात्मपरिश्रमैर्येन पृथगन्नादिनाऽपृथगन्नादिना वा पुंसा यत् धनमर्जितं तदेव धनं स्वोपार्जितं स्यात् ।
सोऽर्जक एव तत्स्वामी स्वोपार्जितस्य धनस्य प्रभुर्न चापरोऽर्जकभिन्नः वामी ॥ १०१ ॥
मातरं पितरं देवि गुरुं चैव पितामहान् ।
मातामहान् करेणापि प्रहरन्नैव दायभाक् ॥ १०२ ॥
निघ्नन्नन्यानपि प्राणैर्न तेषां धनमाप्नुयात् ।
हतानामन्यदायादा भवेयुर्धनभागिनः ॥ १०३ ॥
नपुंसकाः पङ्गवश्च ग्रासाच्छादनमम्बिके ।
यावज्जिवनमर्हन्ति न ते स्युर्दायभागिनः ॥ १०४ ॥
सस्वामिकं प्राप्तधनं पथि वा यत्र कुत्रचित् ।
नृपस्तत्स्वामिने प्राप्त्रा दापयेत् सुविचारयन् ॥ १०५ ॥
मात्रादीन् पाणिनाऽपि प्रहरतो मानवस्य दायभागित्वं नैव स्यादित्याह मातरमित्यादिना ।
हे देवि मातरं जननीं पितरं जनकं गुरुं मन्त्रोपदेष्टारम् बहुवचनस्य बहूपलक्षकत्वात् पितामहान् पितामहादीन् मातामहांश्चापि मातामहादीनपि करेण पाणिनाऽपि प्रहरन्नरो दायभाक् नैव भवेत् ।
अपि शब्देन दण्डादिना मात्रादीन् प्रहरतस्तु सुतरामेव दायभागित्वं न भवेदिति सूचितम् ॥ १०२ ॥
भ्रात्रादीनपि धनार्थं मारयतः पुरुषस्य हतस्वामिकद्रव्ये निरंशकत्वमपरदायादानां समांशकत्वं स्यादित्याह निघ्नन्नित्यादिना ।
अन्यानपि मात्रादिभिन्नानपि जनान् प्राणैर्निघ्नन्मारयन्नरस्तेषां हतानां धनं नाप्नुयान्न लभेत ।
किन्तु हतानामन्ये हन्तुर्भिन्ना दायादा धनभागिनो भवेयुः ॥ १०३ ॥
अथाऽनंशानां पङ्गुक्लीबानां यावज्जीवनं ग्रासाच्छादनभागित्वं स्यादित्याह नपुंसका इत्यादिना ।
हे अम्बिके जगज्जननि नपुंसका पङ्गवश्च यावज्जीवनं जीवनपर्यन्तं केवलं ग्रासाच्छादनमर्हन्ति ।
ते दायभागिनो न स्युः ॥ १०४ ॥
नन्वध्वादौ लब्धस्य सस्वामिकद्रव्यस्य प्राप्तृजनगामित्वं स्यादात्मस्वामिगामित्वं वेत्यत आह सस्वामिकमित्यादिना ।
पथि मार्गे यत्र कुत्रचिद्वा
अस्वामिकानां जीवानामस्वामिकधनस्य च ।
प्राप्ता तत्र भवेत् स्वामी दशमांशं नृपेऽर्पयेत् ॥ १०६ ॥
स्थावरं धनमन्यस्मै स्थिते सान्निध्यवर्तिनि ।
योग्ये क्रेतरि विक्रेतुं न शक्तः स्थावराधिपः ॥ १०७ ॥
सान्निध्यवर्तिनां ज्ञातिः सवर्णो वा विशिष्यते ।
तयोरभावे सुहृदो विक्रेत्रिच्छा गरीयसी ॥ १०८ ॥
स्थाने सस्वामिकं प्राप्तं धनं सुविचारयन्नृपः तत्स्वामिने प्राप्तधनस्यापि पतये प्राप्त्रा पुंसा दापयेन् ॥ १०५ ॥
नन्वस्वामिकाः प्राप्ता गवाश्वादयो जीवास्तादृशानि प्राप्तानि धनानि च प्राप्तारं पुमांसं गच्छेयुर्वसुधाधिपं वेत्याशङ्कायामाह अस्वामिकानामित्यादिना ।
अस्वामिकानां स्वामिरहितानां जीवानां गवाश्वादीनामस्वामिकस्य धनस्य च प्राप्ता जनस्तत्र तेषु प्राप्तेषु स्वामी भवेत् ।
तत्र च दशममंशं प्राप्ता नृपेऽर्पयेद्दद्यात् ।
जीवानामिति धनस्येति च कर्तृकर्मणोः कृतीति कर्मणि षष्ठी ॥ १०६ ॥
ननु स्थावरद्रव्यस्वामिना दूरस्थयोग्यसमीपस्थयोः क्रायकयोर्मध्ये कतरस्मै स्थावरं धनं विक्रेतुं शक्येत तत्राह स्थावरमित्यादिना ।
सान्निध्यवर्तिनि समीपस्थायिनि योग्ये क्रयार्हे क्रेतरि क्रायके स्थिते सत्यन्यस्मै दूरवर्तिने पुंसे स्थावरं धनं विक्रेतुं स्थावराधिपो जनः शक्तो न भवेत् किन्तु सान्निध्यवर्तिने एव विक्रेतुं शक्नुयादित्यर्थः ।
सन्निधिरेव सान्निध्यम् ।
चतुर्वर्णादीनां स्वार्थे उपसङ्ख्यानमिति स्वार्थे ष्यञ् ॥ १०७ ॥
नन्वनेकेषां सन्निधिवर्तिनां मध्ये कतमस्य स्थावरद्रव्यक्रयणे वैशिष्ट्यमत आह सान्निध्येत्यादिना ।
सान्निध्यवर्तिनां मध्ये ज्ञातिर्गोत्रजो विशिष्यते सवर्णः समानवर्णो वा विशिष्यते तयोर्ज्ञातिसवर्णयोरभावे सुहृदो मित्राणि विशिष्यन्ते ।
ननु बहूनां गोत्रजानां सवर्णानां सुहृदाञ्च मध्ये कतमस्मै स्थावरं द्रव्यं तत्स्वामी विक्रीणीतेत्यत आह विक्रेत्रिच्छेति ।
विक्रेतुर्विक्रयकर्तुरिच्छा
निर्णीतमूल्येऽप्यन्येन स्थावरस्य क्रयोद्यमे ।
तन्मूल्यं चेत् समीपस्थो राति क्रेता न चापरः ॥ १०९ ॥
मूल्यं दातुमशक्तश्चेत् सम्मतो विक्रयेऽपि वा ।
सन्निधिस्थस्तदाऽन्यस्मै गृही शक्तोऽतिविक्रये ॥ ११० ॥
क्रीतं चेत् स्थावरं देवि परोक्षे प्रतिवासिनः ।
श्रवणादेव तन्मूल्यं दत्त्वाऽसौ प्राप्तुमर्हति ॥ १११ ॥
गरीयसी गुरुतरा भवेत् ।
क्रमत एव तेषां मध्ये यस्मै विक्रेतुमिच्छेत्तस्मै एव विकीणीतेति भावः ॥ १०८ ॥
नन्वन्यनिर्णीतमूल्यं स्थावरं वित्तं तन्मूल्यं ददता समीपस्थायिना क्रीयेत निर्णीतमूल्येनाऽन्येन वेत्याशङ्कायामाह निर्णीतेत्यादि ।
स्थावरस्य वित्तस्य क्रयोद्यमे सति अन्येन समीपस्थभिन्नेन पुंसा निर्णीतमूल्येऽपि मूल्ये निर्णीतेऽपि सति तन्मूल्यम् अन्यनिर्णीतमूल्यकस्थावरद्रव्यमूल्यं चेद्यदि समीपस्थो जनो राति ददाति तदाऽपरः समीपस्थभिन्नो जनः क्रेता क्रायको न भवेत् किन्तु समीपस्थ एव मूल्यं दत्त्वा क्रीणीयादित्यर्थः ॥ १०९ ॥
स्थावरधनस्य मूल्यं दातुमशक्नुवति तद्विक्रये सम्मतिं वापि कुर्वति समीपस्थायिनि जने दूरस्थाय तद्विक्रेतुं तत्स्वामी शक्नोतीत्यत आह मूल्यमित्यादिना ।
सन्निधिस्थः समीपस्थायी जनश्चेद्यदि स्थावरस्य मूल्यं दातुमशक्तो भवेत् तस्य विक्रयेऽपि वा सम्मतः सम्मतिमान् भवेत् तदा गृही गृहस्थोऽन्यस्मै सन्निधिस्थभिन्नाय विक्रये शक्नोति शक्तो भवति ॥ ११० ॥
ननु समीपस्थायिनः परोक्ष एवान्येन क्रीतं स्थावरं वित्तं क्रेतैव प्राप्तुमर्हति तत् श्रुत्वैव तन्मूल्यं ददत् समीपस्थायी वेत्याशङ्कायामाह क्रीतञ्चेदित्यादिना ।
हे देवि चेद्यदि प्रतिवासिनः सन्निधिस्थायिनो जनस्य परोक्षे स्थावरं द्रव्यमन्येन क्रीतं भवेत् तदा श्रवणादेव तन्मूल्यम् अन्यक्रीतस्थावरद्रव्यमूल्यं
क्रेता तत्र गृहारामान् विनिर्माति भनक्ति वा ।
मूल्यं दत्त्वापि नाप्नोति स्थावरं सन्निधिस्थितः ॥ ११२ ॥
करहीनाऽप्रतिहता वन्यारण्यातिदुर्गमा ।
अनादिष्टोऽपि तां भूमिं सम्पन्नां कर्तुमर्हति ॥ ११३ ॥
बहुप्रयाससाध्यायास्तस्या भूमिर्महीभृते ।
दत्त्वा दशांशं भुञ्जीयात् भूमिस्वामी यतो नृपः ॥ ११४ ॥
मूल्यं दत्त्वाऽसौ प्रतिवासी प्राप्तुम् अर्हति ।
श्रवणादेवेत्यनेन कालान्तरे तन्मूल्यं दत्त्वाऽपि स्थावरद्रव्यं प्राप्तुं नार्हतीति सूचितम् ॥ १११ ॥
क्रायकजनविनिर्मितमन्दिरारामं तद्भग्नमन्दिरोपवनं वा क्रीतं स्थावरधनं मूल्यं दत्त्वापि समीपस्थायी नाप्तुमर्हतीत्याह क्रेतेत्यादिना ।
क्रेता जनस्तत्र क्रीते स्थावरे यदि गृहारामान् गृहाण्युपवनानि च विनिर्माति करोति तत्र विनिर्मितानेव तान् भनक्ति आमर्दयति वा तदा सन्निधिस्थितोऽपि जनो मूल्यं दत्त्वापि स्थावरधनं नाप्नोति न लभते ॥ ११२ ॥
भूमिपालेनाऽनाज्ञापितेनापि पुंसा जलोद्भवा काननोद्भवा च करहीना खिला भूमिः सम्पन्ना कर्तव्येत्याह करहीनेत्यादिना ।
वन्या जलोद्भवाऽरण्या काननोद्भवा चातिदुर्गमाऽत एवाऽप्रतिहता खिलाऽत एव करहीना राजग्राह्यभागरहिता या भूमिस्तां भूमिमनादिष्टोऽपि भूपेनाऽनाज्ञप्तोऽपि पुरुषः सम्पन्नां शस्याद्यां कर्तुमर्हति ।
वने जले भवा वन्या ।
दिगादिभ्यो यदिति यत् ।
पयः कीलालममृतं जीवनं भुवनं वनम् इत्यमरः ।
अरण्ये भवा आरण्या अरण्याण्ण इति णः ॥ ११३ ॥
अनेकायाससाध्यवन्यारण्यक्षितिजातवस्तुनो दशमांशं भूमिस्वामित्वाद्राज्ञे समर्प्यावशिष्टं सर्वं स्वयं भोक्तव्यमित्याह वह्वित्यादिना ।
यतो नृपो राजा भूमिस्वामि अतो बहुप्रयाससाध्याया अनेकपरिश्रमनिष्पाद्यायास्तस्या वन्याया
वापीकूपतडागानां खननं वृक्षरोपणम् ।
परानिष्टकरे देशे न गृहं कर्तुमर्हति ॥ ११५ ॥
देवार्थं दत्तकूपादौ तथा स्रोतस्वतीजले ।
पानाधिकारिणः सर्वे सेचनेऽन्तिकवासिनः ॥ ११६ ॥
यत्तोयसेचनाल्लोका भवेयुर्जलकातराः ।
न सिञ्चेयुर्जलं तस्मादपि सन्निधिवर्तिनः ॥ ११७ ॥
धनानामविभक्तनामंशिनां सम्मतिं विना ।
तथाऽनिर्णीतवित्तानामसिद्धौ न्यासविक्रयौ ॥ ११८ ॥
आरण्यायाश्च भूमेर्जातस्य वस्तुनो दशांशं दशमांशं महीभृते राज्ञे दत्त्वाऽवशिष्टं स्वयं भुञ्चीत ॥ ११४ ॥
अन्यानाकाङ्क्षितोत्पादके स्थाने वाप्यादीनां खननं वृक्षाणामारोपणं गेहस्य निर्माणं च न विधेयमित्याह वापीत्यादिना ।
वाप्यादिखननवृक्षरोपणगृहकरणसत्त्वात् परानिष्टकरेऽन्यानीण्सितोत्पादके देशे वापीकूपतडागानां खननं तथा वृक्षरोपणं तथा गृहमपि कर्तुं जनो नार्हति ॥ ११५ ॥
देवार्थदत्तकूपादिजले नदीजले च सर्वेषां पानाधिकारिता सेकाधिकारिता तु तन्निकटस्थायिनामेवेत्याह देवार्थमित्यादिना ।
देवार्थं दत्तकूपादौ तथा स्रोतस्वतीजले नदीवारिणि सर्वे पानाधिकारिणः सेचने त्वन्तिकवासिनो निकटस्थायिन एवाधिकारिणो भवेयुः ।
स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा इत्यमरः ॥ ११६ ॥
ननु यत् पानीयसेचनतस्तत्समीपस्थायिनो लोका जना व्याकुला भवेयुस्तज्जलं सेचनीयं न वेत्यत आह यत्तोयेत्यादिना ।
यत्तोयसेचनाद्यस्य कूपादेर्वारिणः सेकाल्लोका जना जलकातराः पानीयव्याकुला भवेयुस्तस्माज्जलं सन्निधिवर्तिनोऽपि न सिञ्चेयुः दूरवर्तिनान्तु का वार्ता ॥ ११७ ॥
दायादासम्मतयोरविभक्तद्रव्यन्यासविक्रययोर्निर्णयरहित द्रव्यन्यासविक्रययोश्च सिद्धत्वं न भवेदित्याह धनानामित्यादिना ।
अंशिनां दायादानां सम्मतिं
स्थाप्यानां बद्धवित्तानां ज्ञानान्नष्टेऽप्ययत्नतः ।
तन्मूल्यं दापयेत्तेन स्वामिने सर्वर्था नृपः ॥ ११९ ॥
अभिमत्या स्थापकस्य पश्वादिन्यस्तवस्तुनाम् ।
व्यवहारे कृते तत्र धार्ता सम्पोषयेत् पशून् ॥ १२० ॥
लाभे नियोजयेद्द्यत्र स्थावरादीनि मानवः ।
नियमेन विना काललाभयोरन्यथा भवेत् ॥ १२१ ॥
विना अविभक्तानां धनानां न्यासविक्रयावसिद्धौ सिद्धौ न भवेताम् ।
तथाऽनिर्णीतवित्तानां वित्तानि इमानि अस्यैवेति वित्तानि इमानि इयन्ति वेति निर्णयरहितद्रव्याणां स्थापनविक्रयौ सिद्धौ न स्याताम् ॥ ११८ ॥
यस्यालये न्यस्तद्रव्याणां बद्धद्रव्याणाञ्च ज्ञानपूर्वकादयत्नान्नाशो भवेत् तेन पुंसा तन्मूल्यं तत्स्वामिने नृपतिना दापयितव्यमित्याह स्थाप्यानामित्यादिना ।
ज्ञानादयत्नतो ज्ञानपूर्वकादयत्नात् स्थाप्यानां न्यासवित्तानां बद्धवित्तानाञ्च नष्टेऽपि नाशेऽपि सति यद्गेहे स्थापितानि बद्धानि च वित्तानि नष्टानि तेन पुंसा तन्मूल्यं स्थापितबद्धवित्तमूल्यं स्वामिने तद्वित्ताधिपतये नृपो राजा सर्वथा सर्वप्रकारेण दापयेत् ।
ज्ञानान्नष्टेऽप्ययत्नत इति वदता सदाशिवेन तद्रक्षायै यत्नसत्त्वेऽपि कथञ्चित्तन्नाशे सति तन्मूल्यं नृपेण न दापयितव्यमिति सूचयामास ॥ ११९ ॥
स्थापकसम्मत्या कृतन्यस्तपश्वादिवस्तुव्यवहारेणैव पुंसा स्थापिताः पशवः सम्पोषयितव्या इत्याह अभिमत्येत्यादिना ।
स्थापकस्य द्रव्यन्यासकस्याऽभिमत्या सम्मत्या पश्वादिन्यस्तवस्तूनां व्यवहारे कृते सति तत्र तेषु न्यस्तवस्तुषु मध्ये पशून् धार्ता धारकः पुरुषः सम्पोषयेत् ।
सञ्ज्ञापूर्वकविधेरनित्यत्वात् पश्वादिन्यस्तवस्तुनामित्यत्र नामीति न दीर्घत्वम् ।
आगमजस्याप्यनित्यत्वात् धार्तेत्यत्रार्धधातुकस्येडूलादेरिति नेडागमः ॥ १२० ॥
काललाभयोर्नियममकृत्वैव यस्मिंल्लाभे स्थावरादिद्रव्याणि प्रयोज्यन्ते तस्य अन्यथात्वं भवेदित्याह लाभे इत्यादिना ।
काललाभयोर्नियमेन विना यत्र
साधारणानि वस्तूनि लाभार्थं नैव योजयेत् ।
मृते पितरि सर्वेषामंशिनां सम्मतिं विना ॥ १२२ ॥
क्रमव्यत्ययमूल्येन द्रव्याणां विक्रये सति ।
नृपस्तदन्यथा कर्तुं क्षमो भवति पार्वति ॥ १२३ ॥
जननञ्चापि मरणं शरीराणां यथा सकृत् ।
दानं तथैव कन्याया ब्राह्मोह्वाहः सकृत् सकृत् ॥ १२४ ॥
लाभे फले स्थावरादीनि वस्तूनि मानवो नियोजयेत् ।
स लाभोऽन्यथा भवेत् ।
नीवीपरिपणं मूलधनं लोभोऽधिकं फलम् इत्यमरः ॥ १२१ ॥
पितुर्मरणादूर्ध्वं सर्वभ्रातॄणां सम्मतेरभावे सामान्यद्रव्याणि लाभार्थं नैव प्रयोक्तव्यानीत्याह साधारणानीत्यादिना ।
पितरि मृते सति सर्वेषामंशिनां सम्मतिं विना साधारणानि सामान्यानि वस्तूनि लाभार्थं फलार्थं नैव योजयेत् ॥ १२२ ॥
विपरीतक्रमकेण मूल्येन स्थावरादिद्रव्याणां जातं विक्रयणमन्यथा कर्तुं नृपेण शक्यत इत्याह क्रमेत्यादिना ।
हे पार्वति क्रमस्य व्यत्ययो विपर्ययो यत्र तथाभूतेन मूल्येन द्रव्याणां विक्रये सति स्वल्पमूल्येन भूयिष्ठमूल्यानां भूयिष्ठमूल्येन च स्वल्पमूल्यानां द्रव्याणां विक्रयणे सति तद्विक्रयणमन्यथा कर्तुं नृपो नराधिपः क्षमो भवति ॥ १२३ ॥
ननु वेदोक्तविधिभिरेकेनोद्वाहिता कन्या जीवत्येव तस्मिन्मृते वा पुनस्तैरेव विधिभिरन्येनोद्वाह्या भवेन्न वेत्यत आह जननमित्यादिना ।
यथा शरीराणां जननमुत्पत्तिर्मरणं मृतिश्चापि सकृदेकवारमेव भवति ।
तथैव दानं कन्याया ब्राह्मोद्वाहश्च सकृत् सकृदेव भवति ।
ब्राह्मोद्वाह इति व्याहरता महादेवेनैकेनोद्वाहिताया अपि कन्यायाः शैवविधिभिस्तु पुनरुद्वाहो भवत्येवेति सूचयाम्बभूवे ॥ १२४ ॥
नैकपुत्रः सुतं दद्यान्नैकस्त्रीकस्तथा स्त्रियम् ।
नैककन्यः सुतां शैवोद्वाहे पितृहितः पुमान् ॥ १२५ ॥
दैवे पित्र्ये च वाणिज्ये राजद्वारे विशेषतः ।
यद्विदध्यात् प्रतिनिधिस्तन्नियन्तुः कृतिर्भवेत् ॥ १२६ ॥
न दण्डार्हः प्रतिनिधिस्तथा दूतोऽपि सुव्रते ।
नियोक्तृकृतदोषेण विधिरेष सनातनः ॥ १२७ ॥
ऋणे कृषौ च वाणिज्ये तथा सर्वेषु कर्मसु ।
यद्यदङ्गीकृतं लोकैस्तत्कार्यं धर्मसम्मतम् ॥ १२८ ॥
एकपुत्रेणैकस्त्रीकेणैकपुत्रीकेण च पितृहितेन पुंसा पुत्रदानं स्त्रीदानं शैवोद्वाहे कन्यादानञ्च नैव कार्यमित्याह नैकपुत्र इत्यादिना ।
एकपुत्रः पुमान् सुतं पुत्रं कस्मैचिन्न दद्यात् ।
तथैकस्त्रीकः स्त्रियं न दद्यात् ।
एककन्यश्च शैवोद्वाहे सुतां कन्यां न दद्यात् ।
पुत्रादीनामदाने हेतुं दर्शयन् पुमांसं विशिनष्टि कथम्भूतः पुमान् पितृहितः यतः पितृभ्यो हितोऽतो न दद्यादित्यर्थः ॥ १२५ ॥
प्रतिनिधिना विहितं यद्यद्दैवादिकं कर्म तत् सर्वमात्मनैव विहितं भवेदित्याह दैव इत्यादिना ।
दैवे पित्र्ये वाणिज्ये च कर्मणि विशेषतो राजद्वारे च प्रतिनिधिर्यद्विदध्यात्तन्नियन्तुः प्रवर्तयितुः कृतिर्भवेत् ।
दैवे पित्र्ये वाणिज्ये इति निर्धारणे सप्तमी ।
क्रियते इति कृतिः ।
स्त्रियां क्तिन्निति कर्मणि क्तिन् ॥ १२६ ॥
ननु नियन्त्रा कृतेनापराधेन प्रतिनिधिदूतौ दण्डनीयौ भवेतां न वेत्यत आह नेत्यादिना ।
हे सुव्रते शोभनव्रतशालिनि नियोक्तृकृतदोषेण नियन्तृविहितापराधेन प्रतिनिधिः तथा दूतश्चारोऽपि दण्डार्हो न भवेत् ।
एष सनातनो नित्यो विधिर्विधानम् ॥ १२७ ॥
ऋणकृष्यादावन्येषु च सकलकर्मसु निखिलस्याऽङ्गीकृतस्याऽवश्यकरणीयतामाह ऋण इत्यादिना ।
ऋणे कृषौ वाणिज्ये वणिक्कर्मणि च तथाऽन्येषु सर्वेषु
अधीशेनावितं विश्वं नाशं यान्ति निनङ्क्षवः ।
तत्पातॄन् पाति विश्वेशस्तस्माल्लोकहितो भवेत् ॥ १२९ ॥
इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे सनातनव्यवहारकथनं नाम द्वादशोल्लासः ।
कर्मसु लोकैर्जनैर्धर्मसम्मतं यद्यदङ्गीकृतं तत् सर्वं कार्यं विधातव्यम् ।
धर्मसम्मतमित्यनेन पापसम्मतं स्वीकृतं सर्वथा लोकानामकरणीयमिति ध्वनितम् ॥ १२८ ॥
आत्मनो भद्रमभिलष्यद्भिर्मानवैर्लोकहितैरेव भवितव्यमित्याह अधीशेनेत्यादिना ।
यतोऽधीशेन जगदीश्वरेणावितं रक्षितं विश्वं संसारं निनङ्क्षवो नाशयितुमिच्छवो जनाः स्वयं नाशं यान्ति प्राप्नुवन्ति तत्पातॄन् विश्वपालकांस्तु विश्वेशः पाति रक्षति तस्माद्धेतोर्लोकहितो जनो भवेत् ।
नश्यत्यत्रान्तर्भावितोण्यर्थः ॥ १२९ ॥
इति श्रीमहानिर्वाणतन्त्रटीकायां द्वादशोल्लासः ।