एकादशोल्लासः
श्रुत्वा शाम्भवधर्माणि वर्णाश्रमविभेदतः ।
अपर्णा परया प्रीत्या पप्रच्छ शङ्करं प्रति ॥ १ ॥
श्रीदेव्युवाच ।
वर्णाश्रमाचारधर्माः संस्कारा लोकसिद्धये ।
कथिताः कृपया मह्यं सर्वज्ञेन त्वया प्रभो ॥ २ ॥
ओ।
नमो ब्रह्मणे ।
कलौ लोकानां प्रायशो नास्तिकत्वात् संशयापन्नमानसत्वात् कामक्रोधाद्यभिभूतत्वात् सर्वदेन्द्रियसुखाकाङ्क्षित्वाच्च सदाशिवप्रोक्तसन्मार्गाननुष्ठानात्तन्निषिद्धदुर्वर्त्मनः सेवनाच्चानेकविधं पापमुत्पद्यते ।
ततश्च तेषां कथं विमुक्तिरित्याशयवती पार्वती शङ्करं पृच्छति स्मेत्याह श्रुत्वेत्यादिना ।
वर्णा ब्राह्माणादयश्चाश्रमौ गार्हस्थ्यभैक्षुकौ च तेषां विभेदतः शाम्भवधर्माणि शम्भुप्रोक्तधर्माणि श्रुत्वा अपर्णा व्रतत्यक्तपत्रा पार्वती परयोत्तमया प्रीत्या शङ्करं कल्याणकर्तारं महादेवं प्रतिपप्रच्छ ॥ १ ॥
किं प्रप्रच्छेत्याकाङ्क्षायां प्रष्टव्यमेवाभिधातुमुपक्रमते वर्णाश्रमेत्यादि वक्तुमर्हसीत्यन्तं श्लोकत्रयम् ।
प्रभो हे स्वामिन् यद्यपि लोकसिद्धये लोकनिर्वाहनिष्पत्तये वर्णानामाश्रमाणां चाचारा धर्माः संस्काराश्च सर्वज्ञेन सर्वं जानता त्वया कृपया मह्यं मामुद्दिश्य कथिता उक्ताः ॥ २ ॥
कलौ दुर्वृत्तयो लोकाः कामक्रोधान्धचेतसः ।
नास्तिकाः संशयात्मानः सदेन्द्रियसुखैषिणः ॥ ३ ॥
भवन्निगदितं वर्त्म नानुष्ठास्यन्ति दुर्धियः ।
तेषां का गतिरीशान विशेषाद्वक्तुमर्हसि ॥ ४ ॥
श्रीसदाशिव उवाच ।
साधु पृष्टं त्वया देवि लोकानां हितकारिणि ।
त्वं जगज्जननी दुर्गा जन्मसंसारमोचनी ॥ ५ ॥
तथापि कलौ लोका जना भवन्निगदितं भवता कथितं वर्त्म मार्गं नानुष्ठास्यन्ति नानुचरिष्यन्तीति द्वितीयेनान्वयः ।
शिवोक्तवर्त्माननुष्ठाने हेतुं दर्शयन् लोकान् विशिनष्टि कलौ दुर्वृत्तय इत्यादिना ।
कथम्भूताः लोकाः दुर्वृत्तयः दुष्टे कर्मणि वृत्तिर्दुष्टा वा वृत्तिर्येषां ते ।
दुष्टे कर्मणि वर्तमाना इत्यर्थः ।
पुनः कामक्रोधान्धचेतसः कामक्रोधाभ्यामन्धञ्चेतो येषां तथाभूताः ।
नास्तिका परलोकादिकं नास्तीति बुद्धिशालिनः ।
संशयात्मानः परलोकादिकमस्ति नास्ति वेति सन्देहापन्नमानसाः ।
सदेन्द्रियसुखैषिणः सर्वदा रसनादीन्द्रियसुखाकाङ्क्षिणः ॥ ३ ॥
दुर्धियः दुर्बुद्धयः ।
ईशान हे ऐश्वर्यशालिन् तेषां लोकानां का गतिः को विमुक्तेरुपायः स्यादिति विशेषाद्वक्तुं कथयितुमर्हसि त्व योग्यो भवसि ।
गतिर्ज्ञाने दशायां च मार्गे यात्राभ्युपाययोरिति कोषः ॥ ४ ॥
शम्भुरिदानीमपर्णाप्रश्नं स्तौति साधु पृष्टमित्यदिना ।
देवि हे द्युतिमति त्वया साधु मनोरमं पृष्टम् ।
साधुप्रश्ने हेतुं दर्शयन्नाह लोकानामिति ।
कीदृशि देवि लोकानां हितकारिणि जनानामभीष्टोत्पादयित्रि ।
लोकानां हितकारिणीत्वे बीजं दर्शयन्नाह त्वमित्यादि ।
त्वं जगज्जननी जगतां जनयित्री जगज्जननीत्वाल्लोकानां हितकारिणी लोकानां हितकारिणीत्वाच्च साधु पृष्टमिति योज्यम् ।
त्वमाद्या जगतां धात्री पालयित्री परात्परा ।
त्वयैव धार्यते देवि विश्वमेतच्चराचरम् ॥ ६ ॥
त्वमेव पृथ्वी त्वं वारि त्वं वायुस्त्वं हुताशनः ।
त्वं वियत्त्वमहङ्कारस्त्वं महत्तत्त्वरूपिणी ॥ ७ ॥
त्वमेव जीवो लोकेऽस्मिंस्त्वं विद्या परदेवता ।
इन्द्रियाणि मनोबुद्धिर्विश्वेषां त्वं गतिः स्थितिः ॥ ८ ॥
त्वमेव वेदाः प्रणवः स्मृतयस्त्वं हि संहिताः ।
निगमागमतन्त्राणि सर्वशास्त्रमयी शिवा ॥ ९ ॥
जन्मसंसारमोचनी जन्मनः उत्पत्तेः संसारात् पुनःपुनर्यातायातकर्तुः कलत्रपुत्रादेश्च मुक्तिकर्त्री त्वम् ।
अत एव दुःखेन गम्यते ज्ञायते या सा दुर्गा दुर्ज्ञेया च त्वम् ॥ ५ ॥
त्वमिति ।
त्वं जगतामाद्या आदिभूताऽसि ।
जगतां धात्री पोष्ट्री च त्वम् ।
पालयित्री जगतां रक्षिका च त्वमेव ।
परात् श्रेष्ठादपि परा श्रेष्ठा च त्वम् ।
हे देवि कान्तिमति चराचरं जङ्गमस्थावरमेतद्विश्वं त्वयैव धार्यते ॥ ६ ॥
त्वमेवेति ।
त्वमेव पृथ्वी भूमिः त्वं वारि जलं त्वमेव वायुः पवनः त्वं च हुताशनोऽग्निः त्वं वियदाकाशं त्वं चाहङ्कारः ।
महत्तत्त्वरूपिणी च त्वमेव ॥ ७ ॥
त्वमेवेति ।
अस्मिंल्लोके यो जीवस्तद्रूपा च त्वमेव ।
विद्या आत्मज्ञानरुपा च त्वमेव ।
परदेवता श्रेष्ठदेवता च त्वमेवासि ।
इन्द्रियाणि नेत्रादीनि मनो हृदयं बुद्धिः शास्त्रादितत्त्वज्ञानम् तत्तद्रूपा च त्वमेवासि ।
विश्वेषां या गतिः स्थितिश्च तद्रूपा च त्वमेव ॥ ८ ॥
त्वमेवेति ।
वेदा यजुरादयः तद्रूपा च त्वमेवासि ।
प्रणव ओङ्काररूपा च त्वम् ।
स्मृतयो मन्वादिकथितधर्मशास्त्राणि तद्रूपा च
महाकाली महालक्ष्मीर्महानीलसरस्वती ।
महोदरी महामाया महारौद्री महेश्वरी ॥ १० ॥
सर्वज्ञा त्वं ज्ञानमयी नास्त्यवेद्यं तवाऽन्तिके ।
तथापि पृच्छसि प्राज्ञे प्रीतये कथयामि ते ॥ ११ ॥
सत्यमुक्तं त्वया देवि मनुजानां विचेष्टितम् ।
जानन्तोऽपि हितं मत्ताः पापैराशु सुखप्रदैः ॥ १२ ॥
त्वम् ।
संहिता महाभारतादयस्तद्रूपा च त्वमेवासि ।
निगमः शम्भुप्रश्नतः पार्वतीमुखजातः पद्यरूपो ग्रन्थविशेषः ।
आगमश्च शिवमुखागतगिरिजाननयातवासुदेवमतपद्यरूपग्रन्थविशेष एव ।
तन्त्रं चाऽम्बिकामुद्दिश्य शिवोक्तो गणेशलिखितो ग्रन्थविशेष एव ।
तत्तद्रूपा च त्वमेव ।
सर्वशास्त्रमयी वेदान्तादिसकलशास्त्ररूपा च त्वम् ।
शिवा कल्याणैकनिलयभूता च त्वमसि ॥ ९ ॥
महेति ।
जगत्संहर्त्रीत्वान्महाकाली त्वम् ।
सम्पत्तिवृद्धिहेतुत्वान्महालक्ष्मीश्च त्वमेव ।
विद्याप्रदात्रीत्वान्महानीलसरस्वती च त्वमेवासि ।
प्रलये अशेषजगत्कुक्षित्वान्महोदरी त्वम् ।
जगन्मोहयित्रीत्वान्महामाया च त्वम् ।
महारौद्री अत्युग्रा च त्वम् ।
महेश्वरी महैश्वर्यविशिष्टा च त्वम् ॥ १० ॥
सर्वज्ञेति ।
सर्वज्ञा अशेषपदार्थज्ञात्री ज्ञानमयी मोक्षविषयप्रज्ञास्वरूपा च त्वमसि ।
अतस्तवाऽन्तिके त्वन्निकटे अवेद्यमप्रज्ञेयं किञ्चिदपि नास्ति ।
ननु किञ्चिदपि ममावेद्यं नास्ति चेत् कथं पृच्छामीत्याशङ्कमानां प्रत्याह तथापीति ।
यद्यप्येवं तथापि प्राज्ञे हे प्रकृष्टज्ञानवति प्रीतये पृच्छसि ममेति शेषः अहमपि ते तव प्रीतये कथयामि ।
ते तवाग्रतः ते तुभ्यमिति वा ।
काकाक्षिगोलकन्यायेन प्रीतये इति पूर्वोत्तराभ्यां क्रियाभ्यां सम्बध्यते ॥ ११ ॥
अधुना पूर्वोक्तमेवानुवदन्नुत्तरं दातुं प्रक्रमते सत्यमुक्तमित्यादि ।
हे देवि मनुजानां मानवानां विचेष्टितं विरुद्धं चेष्टितं त्वया सत्यमुक्तम् ।
विचेष्टितमेवाह जानन्त इत्यादिना ।
आत्मनो हितं जानन्तोऽपि मनुजाः सद्वर्त्म
नाऽचरिष्यन्ति सद्वर्त्म हिताहितबहिष्कृताः ।
तेषां निःश्रेयसार्थाय कर्तव्यं यत्तदुच्यते ॥ १३ ॥
अनुष्ठानं निषिद्धस्य त्यागो विहितकर्मणः ।
नॄणां जनयतः पापं क्लेशशोकामयप्रदम् ॥ १४ ॥
स्वानिष्टमात्रजननात् परानिष्टोपपादनात् ।
तदेव पापं द्विविधं जानीहि कुलनायिके ॥ १५ ॥
परानिष्टकरात् पापात् मुच्यते राजशासनात् ।
अन्यस्मान्मुच्यते मर्त्यः प्रायश्चित्त्या समाधिना ॥ १६ ॥
साधुमार्गं नाचरिष्यन्ति नानुष्ठास्यन्ति ।
सद्वर्त्मानाचरणे हेतुं वदन्मनुजान् विशिनष्टि ।
कथम्भूता मनुजाः आशु सुखप्रदैर्झटिति सुखप्रापकैरवैधस्त्रीगमनसुरापानादिभिः पापैः कर्मभिर्मत्ताः अत एव हिताहिताभ्यां बहिष्कृताः अतो नाचरिष्यन्तीति भावः ।
तेषां मनुजानां निःश्रेयसार्थाय मुक्तये यत् कर्तव्यं विधेयं तदुच्यते ॥ १२ ॥ १३ ॥
प्रथमतो निषिद्धकर्मानुष्ठानविहितकर्माननुष्ठानाभ्यां पापोत्पत्तिरिति ब्रूते अनुष्ठानमित्यादिना ।
निषिद्धस्य कर्मणोऽनुष्ठानमाचरणं विहितस्य कर्मणस्त्यागोऽनाचरणं नॄणां क्लेशशोकामयप्रदं दुःखशोकव्याधिप्रदायकं पापं जनयतः उत्पादयतः ॥ १४ ॥
अथ पूर्वोक्तपापस्य सहेतुकं द्वैविध्यं सम्पादयति स्वानिष्टेत्यादिना ।
कुलनायिके हे कुलेश्वरि स्वानिष्टमात्रजननात् आत्मन एवानीप्सितस्योत्पादनात् तथा परानिष्टोपपादनादन्यानाकाङ्क्षितस्यापि जननात् तदेव पूर्वोक्तं पापं द्विविधं द्विप्रकारकं जानीहि प्रतीहि ॥ १५ ॥
एवं द्विविधपापोत्पत्तिं प्रदर्श्येदानीं तस्माद्विमुक्तेरुपायं वदति परानिष्टेत्यादिना ।
परानिष्टकरादन्यस्याप्यनाकाङ्क्षितोत्पादकात् पापात् राजशासनात्
प्रायश्चित्त्याऽथवा दण्डैर्न पूता ये कृतांहसः ।
नरकान्न निवर्तन्ते इहामुत्र विगर्हिताः ॥ १७ ॥
तत्रादौ कथयाम्याद्ये नृपशासननिर्णयम् ।
यल्लङ्घनान्महेशानि राजा यात्यधमां गतिम् ॥ १८ ॥
भृत्यान् पुत्रानुदासीनान् प्रियानपि तथाऽप्रियान् ।
शासने च तथा न्याये समदृष्ट्याऽवलोकयेत् ॥ १९ ॥
स्वयं चेत् कृतपापः स्यात् पीडयेदकृतांहसः ।
उपवासैश्च दानैस्तान् परितोष्य विशुध्यति ॥ २० ॥
राजदण्डात् मर्त्यो जनो मुच्यते मुक्तो भवति ।
कर्मकर्तरि लट् ।
अन्यस्मात् स्वानिष्टमात्रजनकात् तु पापात् प्रायश्चित्त्या प्रायश्चित्तेन समाधिना चित्तवृत्तिनिरोधेन च मुच्यते ॥ १६ ॥
जातद्विविधपापानां प्रायश्चित्तदण्डाभ्यां पूतत्वाभावे सर्वदा नरकस्थायित्वं दर्शयितुमाह प्रायश्चित्त्येति ।
ये कृतांहसः कृतपापा जनाः प्रायश्चित्त्या दण्डैर्वा पूताः पवित्रा न बभूवुः इह लोके परलोके च विगर्हिता विनिन्दिताः सन्तस्ते नरकान्न निवर्तन्ते तत्रैव तिष्ठन्तीत्यर्थः ॥ १७ ॥
अथ राजशासननिर्णयं वदंस्तमुल्लङ्घयतो भूपतेर्नरकगामित्वमाह तत्रादावित्यादिना ।
हे आद्ये हे महेशानि तत्र प्रायश्चित्तनृपशासनयोर्मध्ये आदौ प्रथमतो नृपशासननिर्णयं कथयामि ।
यस्य लङ्घनात् राजाऽधमां गतिं याति ॥ १८ ॥
नृपशासननिर्णयमेवाह भृत्यानित्यादिना ।
भृत्यान् भर्तव्यानमात्यादीन् पुत्रानात्मजान् उदासीनान् शत्रुमित्रभिन्नान् प्रियान् हितान् तथा अप्रियान् अहितांश्च शासने तथा न्याये च राजा समदृष्ट्या तुल्यदृष्ट्याऽवलोकयेत् पश्येत् ॥ १९ ॥
नन्वकृतकिल्विषान् पुरुषान् दण्डयतः स्वयं कृतकल्मषस्य नृपस्य कथं शुद्धिस्तत्राह स्वयं चेदित्यादिना ।
चेद्यदि राजा स्वयं कृतपापः स्यात् तदा
वधार्हं मन्यमानः स्वं कृतपापो नराधिपः ।
त्यक्त्वा राज्यं वनं प्राप्य तपसाऽत्मानमुद्धरेत् ॥ २१ ॥
गुरुदण्डं नैव राजा विदध्याल्लघुपापिषु ।
न लघुं गुरुपापेषु विना हेतुं विपर्यये ॥ २२ ॥
तस्मिन् यच्छासने शास्या अनेकोन्मार्गवर्तिनः ।
पापेभ्यो निर्भये शस्तो लघुपापे गुरुर्दमः ॥ २३ ॥
सकृत्कृतापराधेन सत्रपे बहुमानिनि ।
पापाद्भीरौ प्रशस्तः स्याद् गुरुपापे लघुर्दमः ॥ २४ ॥
उपवासैर्दानैश्च विशुध्यति ।
चेद्यदि अकृतांहसोऽकृतपापान् अन्यान् पीडयेद्दण्डयेत् तदा दानैस्तानकृतांहसः परितोष्य उपवासैर्दानैश्च विशुध्यति ।
अत्र पापतारतभ्यादुपवासदानयोस्तारतम्यं बोद्धव्यम् ॥ २० ॥
अथात्मानं वधार्हं मन्यमानस्य कृतदुष्कृतस्य भूपतेः प्रायश्चित्तमाह वधार्हमित्यादिना ।
स्वमात्मानं वधार्हं वधयोग्यं मन्यमानः कृतपापो नराधिपो राज्यं त्यक्त्वा वनं प्राप्य तपसाऽत्मानमुद्धरेत् शोधयेत् ॥ २१ ॥
अथ दण्डवैपरीत्ये हेतावसति लघुपापे गुरुदण्डं गुरुपापे च लघुदण्डं निषेधति गुर्वित्यादिना ।
विपर्यये दण्डवैपरीत्ये हेतुं विना लघुपापिषु जनेषु गुरुदण्डं राजा नैव विदध्यान्न कुर्यात् ।
गुरुपापेषु जनेषु लघुदण्डं न विदध्यात् ॥ २२ ॥
विना हेतुं विपर्यये इत्यनेन वैपरीत्ये कारणसत्त्वे विपरीतदण्डं विदध्यादेवेति ध्वनितमतो हेतुदर्शनपूर्वकं विपरीतदण्डं विदधाति तस्मिन्नित्यादिना श्लोकद्वयेन ।
यच्छासने यस्योन्मार्गवर्तिनो जनस्य शासनेऽनेकोन्मार्गवर्तिनो बहवोऽसद्वर्त्मसु वर्तमाना जनाः शास्या भवन्ति तस्मिन् पापेभ्यो बहुभ्योऽपि दुरितेभ्यो निर्भये भयहीनेऽपि जने लघुपापेऽपि गुरुर्दमः शस्तः ॥ २३ ॥
सकृदिति ।
सकृत्कृतापराधेन सत्रपे सलज्जे बहुमानिनि सबहुमाने पापादेकस्मादपि भीरौ भयशीले जने गुरुपापेऽपि लघुर्दमः प्रशस्तः ॥ २४ ॥
स्वल्पापराधी कौलश्चेत् ब्राह्मणो लघुपापकृत् ।
बहुमान्योऽपि दण्ड्यः स्याद्वचोभिरवनीभृता ॥ २५ ॥
न्यायं दण्डं प्रसादं च विचार्य सचिवैः सह ।
यो न कुर्यान्महीपालः स महापातकी भवेत् ॥ २६ ॥
न त्यजेत् पितरौ पुत्रो न त्यजेयुर्नृपं प्रजाः ।
न त्यजेत् स्वामिनं भार्या विना तानतिपापिनः ॥ २७ ॥
राज्यं धनं जीवनं च धार्मिकस्य महीपतेः ।
संरक्षेयुः प्रजा यत्नैरन्यथा यान्त्यधोगतिम् ॥ २८ ॥
मातरं भगिनीञ्चापि तथा दुहितरं शिवे ।
गन्तारो ज्ञानतो ये च महागुरुनिघातकाः ॥ २९ ॥
अथ कृताल्पापराधयोर् बहुमान्ययोरपि कौल-ब्राह्मणयोर् दण्डमाह स्वल्पापराधीत्यादिना ।
बहुमान्योऽपि कौलः स्वल्पापराधी चेत् स्यात्
तादृग् ब्राह्मणोऽपि लघुपापकृच् चेत् तदाऽवनीभृता राज्ञा वचोभिर् दण्ड्यः स्यात् ॥ २५ ॥
अथ सहामात्यैर् विचारम् अकृत्वैव दण्डादिकं विदधतो महीपालस्य
महापातकित्वमाह न्यायमित्यादिना ।
सचिवैर् मन्त्रिभिः सह विचार्य न्यायं दण्डं प्रसादं च यो महीपालो न कुर्यात्
स महापातकी भवेत् ॥ २६ ॥
अथ स्त्रीपुत्रप्रजानां धर्ममाह न त्यजेतित्यादिना ।
पुत्रः पितरौ मातापितरौ न त्यजेत् ।
प्रजाः नृपं राजानं न त्यजेयुः ।
भार्या स्वामिनं पतिं न त्यजेत् ।
नन्व् अतिपातकिनोऽपि पित्रादयो न हातव्यास् - तत्राह विनेति ।
अतिपापिनस्तान् पित्रादीन्विना ।
अतिपातकिनस्ते त्याज्या एवेत्यर्थः ॥ २७ ॥
धार्मिकभूपते राज्यादिकमरक्षन्तीनां प्रजानां दोषमाह राज्यमित्यादिना ।
धार्मिकस्य महीपते राज्यं धनं जीवनं च प्रजा यत्नैः संरक्षेयुः ।
अन्यथा राज्यादिकमरक्षन्त्यस्ता अधोगतिं यान्ति ॥ २८ ॥
कुलधर्मं समाश्रित्य पुनस्त्यक्तकुलक्रियाः ।
विश्वासघातिनो लोका अतिपातकिनः स्मृताः ॥ ३० ॥
मातरं भगिनीं कन्यां गच्छतो निधनं दमः ।
तासामपि सकामानां तदेव विहितं शिवे ॥ ३१ ॥
मातापितृस्वसुस्तल्पं स्नुषां श्वश्रूं गुरुस्त्रियम् ।
पितामहस्य वनितां तथा मातामहस्य च ॥ ३२ ॥
पित्रोर्भ्रातुः सुतां जायां भ्रातुः पत्नीं सुतामपि ।
भागिनेयीं प्रभोः पत्नीं तनयाञ्च कुमारिकाम् ॥ ३३ ॥
पित्रादयोऽतिपातकिनश्चेत्त्याज्या इत्युक्तं ते च के इत्याकाङ्क्षायामतिपातकिनो निरूपयति मातरमित्यादिना श्लोकद्वयेन ।
हे शिवे मातरं जननीं भगिनीं स्वसारं तथा दुहितरं पुत्रीं चापि ज्ञानतो ये गन्तारो भवन्ति तथा ज्ञानतो महागुरूणां मात्रादीनां निघातकाः हन्तारो ये ।
कुलधर्मं समाश्रित्य पुनस्त्यक्तकुलक्रिया ये ।
ये च विश्वासघातिनो लोकाः तेऽतिपातकिनः स्मृताः ॥ २९ ॥ ३० ॥
अथ मात्रादिगामिनः पुरुषस्य सकामानां तासां च दण्डमाह मातरमिति ।
हे शिवे मातरं जनयित्रीं तथा भगिनीं तथा कन्यां पुत्रीं च गच्छतः पुंसो निधनं मरणमेव दमो दण्डः ।
सकामानां तासामपि तदेव मरणमेव दमनं विहितम् ॥ ३१ ॥
अथ मातृस्वस्रादिगामिनां पुंसां तासामपि सकामानां दण्डमाह मातापित्रित्यादिना पापादस्माद्विमुक्तय इत्यन्तेन सार्धत्रयेण ।
मातापित्रोः स्वसुस्तल्पं शय्यां मैथुनेच्छया गच्छतां तथा स्नुषां पुत्रवधूं तथा श्वश्रूं श्वशुरपत्नीं तथा गुरुस्त्रियं तथा पितामहस्य मातामहस्य च वनितां स्त्रियं
तथा पित्रोर् भ्रातुः सुतां मातुल-पितृव्ययो पुत्रीम् तयोर् एव जायां भार्यां च तथा भ्रातुः पत्नीं
गच्छतां पापिनां लिङ्गच्छेदो दण्डो विधीयते ।
आसामपि सकामानां दमो नासानिकृन्तनम् ।
गृहान्निर्यापणं चैव पापादस्माद्विमुक्तये ॥ ३४ ॥
सपिण्डदारतनयाः स्त्रियं विश्वासिनामपि ।
सर्वस्वहरणं केशवपनं गच्छतो दमः ॥ ३५ ॥
स्त्रीभिरेताभिरज्ञानाद् भवेत् परिणयो यदि ।
ब्राह्मेण वापि शैवेन ज्ञात्वा तास्तत्क्षणं त्यजेत् ॥ ३६ ॥
सवर्णं दारान् यो गच्छेत् अनुलोमपरस्त्रियम् ।
दमस्तस्य धनादानं मासैकं कणभोजनम् ॥ ३७ ॥
तस्यैव सुतामपि तथा भागिनेयीं स्वसृतनयाम् तथा प्रभोः पत्नीं, तस्यैव तनयां पुत्रीं च
तथा कुमारिकाम् अविवाहितां स्त्रियं
गच्छतां पापिनां
लिङ्गच्छेदः शिश्नकर्तनं दण्डो विधीयते ।
सकामानाम् आसाम् अप्य् अस्मात् पापात् विमुक्तये नासानिकृन्तनं नासिकाच्छेदनं गृहान्निर्यापणं च दमो दण्डो विधीयते ॥ ३२ � ३४ ॥
अथ सपिण्डपत्नीतनयागामिनो विश्वसितस्त्रीगामिनश्च दण्डमाह सपिण्डेत्यादिना ।
सपिण्डानां दारांस्तनयाश्च विश्वासिनामपि स्त्रियं गच्छतो जनस्य सर्वस्वहरणं सर्वधनादानं केशवपनं केशमुण्डनं च दमो भवेत् ॥ ३५ ॥
अथाज्ञानतो वेदोक्तशिवोक्तविधिभ्यां सपिण्डादि-तनयादिभिर् जात-विवाहस्य
यद् विधेयं तदाह स्त्रीभिरित्यादिना ।
एताभिः सपिण्डादि-तनयादिभिः स्त्रीभिर् ब्राह्मेण वेदोक्तविधिना शैवेन शिवोक्तविधिना वा यद्य् अज्ञानात् परिणयो विवाहो भवेत्
तदा ज्ञात्वा ताः स्त्रीस् तत्-क्षणमेव त्यजेत् ॥ ३६ ॥
ननु सवर्णदारान् सवर्णान्तर-वर्ण-दारांश्च गच्छतः कथं विशुद्धिस्तत्राह सवर्णेत्यादिना ।
यः पुमान् सवर्ण-दारान् गच्छेत् तथाऽनुलोम-परस्त्रियं च यो गच्छेत् ।
यथा ब्राह्मणः क्षत्रियां क्षत्रियो वैश्यामेवम् ।
तस्य धनादानं मासैकं कण-भोजनं च दमो ज्ञेयः ॥ ३७ ॥
राजन्यवैश्यशूद्राणां सामान्यानां वरानने ।
ब्राह्मणीं गच्छतां ज्ञानाल्लिङ्गच्छेदो दमः स्मृतः ॥ ३८ ॥
ब्राह्मणीं विकृतां कृत्वा देशान्निर्यापयेन्नृपः ।
वीरस्त्रीगामिनां तासामेवमेव दमो विधिः ॥ ३९ ॥
दुरात्मा यस्तु रमते प्रतिलोमपरस्त्रिया ।
दण्डस्तस्य धनादानं त्रिमासं कणभोजनम् ॥ ४० ॥
सकामायाः स्त्रियाश्चापि दण्डस्तद्वद्विधीयते ।
बलात्कारगता भार्या त्याज्या पाल्या भवेत् शिवे ॥ ४१ ॥
अथ ज्ञान-पूर्वक-ब्राह्मणी-गमने क्षत्रियादीनां स-कामायास् तस्याश् च दण्डम् आह राजन्येत्यादिना ।
वरानने श्रेष्ठ-वदने ज्ञानाद् ब्राह्मणीं गच्छतां राजन्य-वैश्य-शूद्राणां सामान्यानाम् अन्त्यजानां च लिङ्ग-च्छेदो दमो दण्डः स्मृतः ॥ ३८ ॥
सकामां ब्राह्मणीमपि विकृताम् एकाङ्गहीनां कृत्वा
नृपो देशान् निर्यापयेन् निःसारयेत् ।
अथ वीर-स्त्रियो गच्छतां तासां च दण्डम् आह वीरेति ।
वीर-स्त्री-गामिनां स-कामानां तासां चैवम् एव पूर्ववद् एव दमो विधिर् विधातव्य इत्यर्थः ।
विधिर् इति वि पूर्वकाद् धाञः उपसर्गे धोः किरिति कर्मणि किः ॥ ३९ ॥
अथ सवर्णोत्तमवर्णस्त्रीगामिनां पुंसां तस्याश्च सकामाया दण्डमाह दुरात्मेत्यादिना ।
यो दुरात्मा दुष्टचित्तो दुर्बुद्धिर् दुस्वभावो वा प्रतिलोम-परस्त्रिया सह रमते ।
यथा शूद्रो वैश्ययेत्यवेम् ।
तस्य पुंसो धनादानं त्रिमासं कण-भोजनं च दण्डो भवति ॥ ४० ॥
सकामायाः स्त्रियाश्च तद्वत् पूर्ववद् दण्डो विधीयते ।
अथ बलात्कारेण परपुरुष-रमिताया अबलायास् त्यागः पालनं च पुंसा विधेयम् इत्याह बलादित्यादिना ।
हे शिवे बलात्कारेण परपुंसा गता या भार्या
सा त्याज्या, ग्रासादिभिः सा पाल्या च भवेत् ॥ ४१ ॥
ब्राह्मी भार्याऽथवा शैवी कामतो वाप्यकामतः ।
सर्वथा हि परित्याज्या स्याच्चेत् परगता सकृत् ॥ ४२ ॥
गच्छतां वारनारीषु गवादिपशुयोनिषु ।
शुद्धिर्भवति देवेशि त्रिरात्रं कणभोजनात् ॥ ४३ ॥
गच्छतां कामतः पुंसः स्त्रियाः पायुं दुरात्मनाम् ।
वध एव विधातव्यो भूभृता शम्भुशासनात् ॥ ४४ ॥
बलात्कारेण यो गच्छेदपि चाण्डालयोषितम् ।
वधस्तस्य विधातव्यो न क्षन्तव्यः कदापि सः ॥ ४५ ॥
अथ कामाकामाभ्यां परगतयोर् ब्राह्मी-शैव्योर् भार्ययोस् त्याग एवोचित इत्याह ब्राह्मीत्यादिना ।
ब्राह्मी वेदोक्त-विधिना परिणीता
अथवा शैवी शिवोक्तविधानेन परिणीता भार्या
सकृद् एक-वारम् अपि पर-गता चेत्
तदा सर्वथा सर्वप्रकारेण परित्याज्या स्यात् ॥ ४२ ॥
अथ वेश्या-गामिनां पशु-योनि-गामिनां च प्रायश्चित्तम् आह गच्छतामित्यादिना ।
हे देवेशि वारनारीषु वेश्यासु तथा गवादि-पशुयोनिषु गच्छतां जनानां
त्रिरात्रं कण-भोजनाच् छुद्धिर् भवति ॥ ४३ ॥
अथ स्त्रीपुंसयोः पायुं गच्छतां प्रायश्चित्तमाह गच्छतामित्यादिना ।
पुंसः पुरुषस्य स्त्रियाश्च पायुं गुदं कामतो गच्छतां दुरात्मनां
भूभृता राज्ञा शम्भुशासनाद् वध एव विधातव्यः ॥ ४४ ॥
बलात्कारेण परस्त्रीगामिनामपि वध एव दण्ड इत्याह बलादित्यादिना ।
बलात्कारेण चाण्डालयोषितमपि यो गच्छेत्तस्यापि वधो विधातव्यः ।
कदापि स न क्षन्तव्यः ।
अपि शब्देन ब्राह्मण्यादिगामिनां तु सुतरामेव वधो विधातव्य इति ध्वनितम् ॥ ४५ ॥
परिणीतास्तु या नार्यो ब्राह्मैर्वा शैववर्त्मभिः ।
ता एव दारा विज्ञेया अन्याः सर्वाः परस्त्रियः ॥ ४६ ॥
कामात् परस्त्रियं पश्यन् रहः सम्भाषयन् स्पृशन् ।
परिष्वज्योपवासेन विशुध्येद् द्विगुणक्रमात् ॥ ४७ ॥
कुर्वत्येवं सकामा या परपुंसा कुलाङ्गना ।
उक्तोपवासविधिना स्वात्मानं परिशोधयेत् ॥ ४८ ॥
ब्रुवन्निन्द्यं वचः स्त्रीषु पश्यन् गुह्यं परस्त्रियाः ।
हसन् गुरुतरं मर्त्यः शुध्येद् द्विरुपवासतः ॥ ४९ ॥
अथोक्तवक्ष्यमाणेषु तत्तच्छ्लोकेष्वाकाङ्क्षितत्वात् स्वस्त्रीः परस्त्रीश्च निरूपयति परिणीता इत्यादिना ।
ब्राह्मैर्वेदोक्तवर्त्मभिः शिवोक्तवर्त्मभिर्वा यास्तु नार्यः परिणीता उद्वाहितास्ता एव दाराः स्वस्त्रियो विज्ञेया अन्यास्तद्भिन्नाः सर्वाः परस्त्रियो विज्ञेयाः ॥ ४६ ॥
अथ कामतः परस्त्रीदर्शनादिकं कुर्वतः प्रायश्चित्तमाह कामादित्यादिना ।
कामात् परस्त्रियं पश्यन् तथा रह एकान्ते सम्भाषयन् तया सहाऽलापं कुर्वन् तथा स्पृशंश्च परिष्वज्य तामालिङ्ग्य च द्विगुणक्रमादुपवासेन जनो विशुध्येत् ।
यथा कामतः परस्त्रीदर्शने एकोपवासेन सम्भाषणे उपवासद्वयेन स्पर्शने उपवासचतुष्टयेन आलिङ्गने अष्टभिस्तैः शुद्धिः ॥ ४७ ॥
अथ सह परपुंसा सम्भाषणादिकं कुर्वत्याः सकामायाः स्त्रिया अपि तदेव प्रायश्चित्तमित्याह कुर्वतीत्यादिना ।
या कुलाङ्गना कुलपालिका स्त्री सकामा सती परपुंसा सह एवं सम्भाषणादिकं कुर्वती वभूव सा पूर्वोक्तोपवासविधिना आत्मानं परिशोधयेत् ॥ ४८ ॥
ननु स्त्रीषु दुर्वचो वदतः परस्त्रीगुह्यं पश्यतो गुरुतरान् हसतश्च कथं शुद्धिस्तत्राह ब्रुवन्नित्यादिना ।
स्त्रीषु निन्द्यमव्यक्तं वचो ब्रुवन् तथा परस्त्रिया गुह्यं गोप्यप्रदेशं पश्यन् तया गुरुतरं हसन्मर्त्यो द्विरुपवासतः शुध्येत् ॥ ४९ ॥
दर्शयन्नग्नमात्मानं कुर्वन्नग्नं तथा परम् ।
त्रिरात्रमशनं त्यक्त्वा शुद्धो भवति मानवः ॥ ५० ॥
पत्न्याः पराभिगमनं प्रमाणयति चेत् पतिः ।
नृपस्तदा तां तज्जारं शास्यात् शास्त्रानुसारतः ॥ ५१ ॥
प्रमाणे यद्यशक्तः स्यात् दयितोपपतेः पतिः ।
त्यक्त्वा तां पोषयेद् ग्रासैस्तिष्ठेच्चेत् पतिशासने ॥ ५२ ॥
रममाणामुपपतौ पश्यन् पत्नीं पतिस्तदा ।
निघ्नन् वनितया जारं वधार्हो नैव भूभृतः ॥ ५३ ॥
नन्वात्मानं नग्नं दर्शयतः परञ्च तादृशं कुर्वतः कथं शुद्धिस्तत्राह दर्शयन्नित्यादिना ।
आत्मानं नग्नं दर्शयन् तथा परं नग्नं कुर्वन्मानवो द्विरात्रमशनं भोजनं त्यक्त्वा शुद्धो भवति ।
आत्मा देहमनोब्रह्मस्वभावधृतिबुद्धिष्वि ति कोषः ॥ ५० ॥
अथ स्वपतिप्रमाणितान्यपुरुषगमनायाः स्त्रियाः तज्जारस्य च दण्डमाह पत्न्या इत्यादिना ।
पतिश्चेद्यदि पत्न्याः पराभिगमनं प्रमाणयति तदा नृपस्तां तस्या जारं च शास्त्रानुसारतः पूर्वोक्तविधानतः शास्यात् ॥ ५१ ॥
अथोपपतिप्रमाणाशक्तपतिकायाः शङ्कितव्यभिचारायाः स्त्रियास्त्यागपोषणे विधातव्ये इत्याह प्रमाणेत्यादिना ।
दयितोपपतेः पत्न्या जारस्य प्रमाणे यदि पतिरशक्तः स्यात्तर्हि तां दयितां त्यक्त्वा चेद् यदि पतिशासने तिष्ठेत् भर्तुराज्ञां न लङ्घेत तदा ग्रासैः कवलैः पोषयेत् ॥ ५२ ॥
ननु सहोपपतिना रममाणां पत्नीमवलोक्य सजारां तां घ्नतस्तद्भर्तुर्वधार्हत्वं स्यान्न वेति सन्दिहानां गिरिजां प्रति ब्रूते रममाणामित्यादिना ।
पतिर्भर्ता यदोपपतौ रममाणां पत्नीं पश्यन्नासीत्तदा वनितया सह जारं निघ्नन् पतिर्भूभृतो राज्ञो वधार्हो नैव भवेत् ।
तदा निघ्नन्नित्यनेनाऽन्यकाले निघ्नतो वधार्हत्वं स्यादेवेति ध्वनितम् ॥ ५३ ॥
भर्तुर्निवारणं यत्र गमने येन भाषणे ।
प्रयाणाद्भाषणात्तत्र त्यागार्हा स्यात् कुलाङ्गना ॥ ५४ ॥
मृते पत्यौ स्वधर्मेण पतिबन्धुवशे स्थिता ।
अभावे पितृबन्धूनां तिष्ठन्ती दायमर्हति ॥ ५५ ॥
द्विर्भोजनं परान्नं च मैथुनामिषभूषणम् ।
पर्यङ्गं रक्तवासश्च विधवा परिवर्जयेत् ॥ ५६ ॥
नाङ्गमुद्वर्तयेद्वासैर्ग्राम्यालापमपि त्यजेत् ।
देवव्रता नयेत् कालं वैधव्यं धर्ममाश्रिता ॥ ५७ ॥
अथ भर्तृनिषिद्धस्थाने गच्छन्त्यास्तन्निषिद्धमन्यपुरुषेण सह भाषणं च कुर्वत्याः स्त्रियास्त्यागार्हत्वं विदधाति भर्तुरित्यादिना ।
यत्र स्थाने गमने येन पुंसा सह भाषणे च भर्तुर्निवारणं जातं तत्र प्रयाणाद्भाषणाच्च कुलाङ्गनापि त्यागार्हा स्यात् ॥ ५४ ॥
अथ प्रसङ्गात् पतिबान्धवादिवशे स्वधर्मेण तिष्ठन्त्या मृतपतिकाया दायभाक्त्वमाह मृत इत्यादिना ।
पत्यौ मृते सति पतिबन्धुवशे स्वधर्मेण स्थिता पतिबन्धूनामभावे पितृबन्धूनां वशे तिष्ठन्ती सती स्त्री दायमर्हति ॥ ५५ ॥
अनन्तरोक्तश्लोके विधवा धर्माणामाकाङ्क्षितत्वात्तान्निरुपयति द्विर्भोजनमित्यादिश्लोकद्वयेन ।
विधवा स्त्री द्विर्भोजनं परस्यान्नं मैथुनं रतिम् आमिषं मांसादिकं भूषणमलङ्कारं पर्यङ्कं खट्वां रक्तवासो रक्तं वस्त्रं च परिवर्जयेत् ॥ ५६ ॥
नाङ्गमिति ।
वैधव्यं धर्ममाश्रिता विधवा वासैः पिष्टैर्घृष्टैर्वा सुगन्धिद्रव्यैः अङ्गं नोद्वर्तयेत् नोत्सादयेत् ।
वास्यते यैस्ते वासाः करणेऽच् ।
ग्राम्यमालापमपि त्यजेत् ।
ननु ग्राम्यालापाभावे कथं कालं क्षिपेत्तत्राह देवेत्यादिना ।
देवव्रता सती कालं नयेत् स्वेष्टनामादिकीर्तनादिना कालं क्षिपेदित्यर्थः ॥ ५७ ॥
न विद्यते पिता यस्य शिशोर्माता पितामहः ।
नियतं पालने तस्य मातृबन्धुः प्रशस्यते ॥ ५८ ॥
मातुर्माता पिता भ्राता मातुर्भ्रातुः सुतास्तथा ।
मातुः पितुः सोदराश्च विज्ञेयाः मातृबान्धवाः ॥ ५९ ॥
पितुर्माता पिता भ्राता पितुर्भ्रातुः स्वसुः सुताः ।
पितुः पितुः सोदराश्च विज्ञेयाः पितृबान्धवाः ॥ ६० ॥
पत्युर्माता पिता भ्राता पत्युर्भ्रातुः स्वसुः सुताः ।
पत्युः पितुः सोदराश्च विज्ञेयाः पतिबान्धवाः ॥ ६१ ॥
पित्रे मात्रे पितुः पित्रे पितामह्यै तथा स्त्रियै ।
अयोग्यसूनवे पुत्रहीनमातामहाय च ॥ ६२ ॥
ननु मृतमातापितृपितामहस्य शिशोः पालने पितृबन्धुमातृबन्ध्वोर्मध्ये कतरस्य प्राशस्त्यमिति पृच्छन्तीं देवीं प्रत्याह न विद्यत इत्यादिना ।
यस्य शिशोः पिता माता पितामहश्च न विद्यते तस्य पालने नियतं निश्चितं मातृबन्धुः प्रशस्यते ॥ ५८ ॥
ननु के ते मातृबन्ध्वादय इत्याह मातुरित्यादिना ।
मातुर्माता मातामही मातुः पिता मातामहः मातुर्भ्राता मातुलः तथा मातुर्भ्रातुः सुताः मातुलपुत्राः मातुः पितुर्मातामहस्य सोदराश्च मातृबान्धवा विज्ञेयाः ॥ ५९ ॥
अथ पितृबान्धवानाह पितुरित्यादिना ।
पितुर्माता पितामही पितुः पिता पितामहः पितुर्भ्राता पितृव्यः पितुर्भ्रातुः सोदरस्य सुताः पितुःस्वसुर्भगिन्याश्च सुताः पितुः पितुः पितामहस्य सोदराश्च पितृबान्धवा विज्ञेयाः ॥ ६० ॥
अथ पतिबान्धवानाह पत्युरित्यादिना ।
पत्युर्माता श्वश्रूः पत्युः पिता श्वशुरः पत्युर्भ्राता सोदरः पत्युर्भ्रातुः सुताः पुत्राः पत्युःस्वसुर्भगिन्याश्च सुताः पत्युःपितुः श्वशुरस्य सोदराश्च पतिबान्धवा विज्ञेयाः ॥ ६१ ॥
अथ दरिद्रेभ्यः पित्रादिभ्यो भोजनादिकं पुरुषेण नरपतिर्दापयेदित्याह पित्रे इत्यादिद्वयेन ।
हे अम्बिके जगज्जननि पित्रे तथा मात्रे तथा
मातामह्यै दरिद्रेभ्य एभ्यो वासस्तथाऽशनम् ।
दापयेन्नृपतिः पुंसा यथाविभवमम्बिके ॥ ६३ ॥
दुर्वाच्यं कथयन् पत्नीमेकाहमशनं त्यजेत् ।
त्र्यहं सन्ताडयन् रक्तं पातयन् सप्त वासरान् ॥ ६४ ॥
क्रोधाद्वा मोहतो भार्यां मातरं भगिनीं सुताम् ।
वदन्नुपोष्य सप्ताहं विशुध्येच्छिवशासनात् ॥ ६५ ॥
शण्ढेनोद्वाहितां कन्यां कालातीतेऽपि पार्थिवः ।
जानन्नुद्वाहयेत् भूयो विधिरेषः शिवोदितः ॥ ६६ ॥
पितुःपित्रे पितामहाय पितामह्यै च तथा अयोग्यसूनवे अयोग्यपुत्रायै स्त्रियै पुत्रहीनमातामहाय च तादृश्यै मातामह्यै च दरिद्रेभ्य एभ्यः पित्रादिभ्यो यथाविभवं विभवमनतिक्रम्य वासो वस्त्रं तथाऽशनं भोज्यं नृपतिः पुंसा दापयेत् ॥ ६२ ॥ ६३ ॥
अथ पत्न्यै दुर्वाच्यं कथयतस्तां ताडयतस्तस्या रक्तं च पातयतः क्रमतः प्रायश्चित्तमहा दुर्वाच्यमित्यादिना ।
पत्नीं प्रति दुर्वाच्यमवक्तव्यं वचः कथयन् जन एकाहमशनं भोजनं त्यजेत् तां सन्ताडयंस्त्र्यहमशनं त्यजेत् ।
तस्या रक्तं पातयन् सप्त वासरानशनं त्यजेत् ॥ ६४ ॥
अथ क्रोधादितः स्वभार्यायां मातृत्वादि वदतः प्रायश्चित्तमाह क्रोधादित्यादिना ।
क्रोधादमर्षान्मोहतोऽविवेकाद्वा भार्यां मातरं भगिनीं सुतां पुत्रीं वा वदन् पुमान् शिवशासनात् सप्ताहमुपोष्य विशुध्येत् ॥ ६५ ॥
नपुंसकपरिणीताया नार्याः पुनरुद्वाहो राज्ञा विधापयितव्य इत्याह शण्ढेनेत्यादिना ।
कालेऽतीतेऽपि जानन् पार्थिवो भूपः शण्ढेन नपुंसकेनोद्वाहितां कन्यां भूयः पुनरुद्वाहयेत् ।
ननु वेदाद्यसम्मतत्वान्नेदं मान्यं तत आह विधिरिति ।
एषः शिवोदितः शिवभाषितो विधिः ।
शण्ढ इति शमेर्ढ इति ढः ॥ ६६ ॥
परिणीता न रमिता कन्यका विधवा भवेत् ।
साप्युद्वाह्या पुनः पित्रा शैवधर्मेष्वयं विधिः ॥ ६७ ॥
उद्वाहाद् द्वादशे पक्षे पत्यन्तात् गतहायने ।
प्रसूते तनयं योग्यं न सा पत्नी न सः सुतः ॥ ६८ ॥
आगर्भात् पञ्चमासान्तर्गर्भं या स्रावयेद्धिया ।
तदुपायकृतं ताञ्च यातयेत्तिव्रताडनैः ॥ ६९ ॥
पञ्चमात् परतो मासात् या स्त्री भ्रूणं प्रपातयेत् ।
तत्प्रयोक्तुश्च तस्याश्च पातकं स्याद्बधोद्भवम् ॥ ७० ॥
अथ पत्यरमिताया मृतभर्तृकायाः कन्यायाः पुनरुद्वाहः पित्रा कार्य इत्याह परिणीतेत्यादिना ।
या परिणीता विवाहिता कन्या भर्त्रा न रमिता सती विधवा भवेत् सा परिणीतापि कन्या पित्रा पुनरुद्वाह्या भवेत् ।
अत्र प्रमाणं दर्शयति शैवेति ।
विधिरयं शैवधर्मेषु निरूपितः ॥ ६७ ॥
अथोद्वाहात् षष्ठे मासि प्रसूतपुष्टतनयाया भर्तृमरणात् वर्षे याते प्रसूततनयायाश्च स्त्रियास्तत्पत्नीत्वं बालस्य तत्सुतत्वञ्च व्यावर्तयति उद्वाहादित्यादिना ।
उद्वाहाद् द्वादशे पक्षे षष्ठे मासि योग्यं पुष्टं यं तनयं या प्रसूते उत्पादयति पत्यन्तात् गतहायने पतिमरणात् याते वर्षे यं तनयं या प्रसूते सा पत्नी न स्यात् स च सुतो न स्यात् ।
तां पुंश्चलीन्तं च जारजातं विदित्वा तयोस्त्यागं कुर्यादिति भावः ॥ ६८ ॥
अथ गर्भाशयमारभ्य पञ्चमासाभ्यन्तर एव गर्भं स्त्रावयन्त्याः स्त्रियास्तदुपायकर्तुश्च दण्डमाह आगर्भादित्यादिना ।
आगर्भाद्गर्भमारभ्य पञ्चमासान्तः पञ्चमासाभ्यन्तरे गर्भं धिया बुद्ध्या या स्रावयेत्ताम् तदुपायकृतं गर्भस्रावोपायकर्तारं च तीव्रताडनैर्भूपो यातयेत् पीडयेत् ॥ ६९ ॥
अथ पञ्चममासादूर्ध्वं गर्भं स्रावयन्त्याः स्त्रियास्तत्प्रयोक्तुश्च नृवधजन्यं पातकमाह पञ्चमादित्यादिना ।
पञ्चमान्मासात् परतो या स्त्री भ्रूणं गर्भं प्रपातयेत् तस्यास्तत्प्रयोक्तुर्जनस्य च वधोद्भवं मनुष्यवधजन्यं पातकं स्यात् ॥ ७० ॥
यो हन्ति ज्ञानतो मर्त्यं मानवः क्रूरचेष्टितः ।
वधस्तस्य विधातव्यः सर्वथा धरणीभृता ॥ ७१ ॥
प्रमादाद् भ्रमतोऽज्ञानात् घ्नन्तन्नरमरिन्दमः ।
द्रविणादानतस्तीव्रताडनैस्तं विशोधयेत् ॥ ७२ ॥
स्वतो वा परतो वापि वधोपायं प्रकुर्वतः ।
अज्ञानवधिनां दण्डो विहितस्तस्य पापिनः ॥ ७३ ॥
मिथः सङ्ग्रामयोद्धारमाततायिनमागतम् ।
निहत्य परमेशानि न पापार्हो भवेन्नरः ॥ ७४ ॥
ततश्च कथं विमुक्तिः स्यादिति पृच्छन्तीं पार्वतीं प्रत्याह य इत्यादिना ।
यः क्रूरचेष्टितो मानवो ज्ञानतो मर्त्यं मनुष्यं हन्ति तस्य सर्वथा सर्वप्रकारेण धरणीभृता राज्ञा वधो विधातव्यः ।
तत एव तस्य शुद्धिर्नान्यथेति भावः ॥ ७१ ॥
अथ प्रमादादिभिर्मानवं मारयतो विशुद्धिं दर्शयति प्रमादादित्यादिना ।
प्रमादादनवधानतया भ्रमतोऽज्ञानाद्वा यो नरं हन्ति तं घ्नन्तं जनमरिन्दमो विपक्षदमनकर्ता राजा द्रविणादानतो द्रव्यहरणतस्तीव्रताडनैश्च विशोधयेत् ॥ ७२ ॥
अथ स्वतः परतो वा नरवधोपायं कुर्वतो दण्डमाह स्वत इत्यादिना ।
स्वतः परतो वा यो वधोपायं करोति तस्य वधोपायं प्रकुर्वतः पापिनः अज्ञानवधिनामज्ञानतो नरहन्तॄणां यो दण्डः स विहितः ॥ ७३ ॥
ननु सङ्ग्रामहतयोद्धृकस्य निहतागताततायिनश्च वधार्हत्वं स्यान्न वेत्याशङ्कायामाह मिथ इत्यादिना ।
हे परमेशानि मिथः परस्परं सङ्ग्रामे योद्धारं निहत्य तथाऽगतमाततायिनं च निहत्य नरः पापार्हः पापभाक् न भवेत् ।
आततायिनो यथा �
अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारापहारी च षडेते आततायिनः ॥
इति ॥ ७४ ॥
अङ्गच्छेदे विधातव्यं भूभृताऽङ्गनिकृन्तनम् ।
प्रहारे च प्रहरणं नृषु पापं चिकीर्षुषु ॥ ७५ ॥
विप्रान् गुरूनवगुरेत् प्रहरेद् यो दुरासदः ।
धनादानाद्धस्तदाहात् क्रमतस्तं विशोधयेत् ॥ ७६ ॥
शस्त्रादिक्षतकायस्य षण्मासात् परतो मृतौ ।
प्रहर्ता दण्डनीयः स्याद् वधार्हो न हि भूभृतः ॥ ७७ ॥
राष्ट्रविप्लाविनो राज्यं जिहीर्षून्नृपवैरिणाम् ।
रहो हितैषिणो भृत्यान् भेदकान्नृपसैन्ययोः ॥ ७८ ॥
अथाङ्गच्छेदादिकं कुर्वतो दण्डमाह अङ्गेत्यादिना ।
पापं चिकीर्षुषु कर्तुमिच्छुषु नृषु भूभृता भूपेनाऽङ्गच्छेदे सत्यङ्गनिकृन्तनमङ्गच्छेदनं प्रहारे च प्रहरणं विधातव्यम् ॥ ७५ ॥
अथ ब्राह्मणगुरुहननार्थं दण्डादिकमुद्यच्छतस्तान् प्रहरतश्च क्रमतः प्रायश्चित्तमाह विप्रानित्यादिना ।
यो दुरासदो दुष्टो जनो विप्रान् गुरूंश्च हन्तुमिति शेषः ।
अवगुरेत् दण्डादिकमुत्क्षिपेत् तान् प्रहरेद्वा तं क्रमतो धनादानात् हस्तदाहाद्राजा विशोधयेत् ॥ ७६ ॥
अथ शस्त्रादिक्षतशरीरस्य षण्मासात् परतो मरणे सति प्रहर्तुर्दण्डनीयत्वं वधानर्हत्वं चाह शस्त्रादीत्यादिना ।
शस्त्रादिना क्षतः कायो यस्य तस्य पुंसः षण्मासात् परतो मृतौ सत्यां प्रहर्ता भूमृतो राज्ञो दण्डनीयः स्यात् वधार्हो नैव स्यात् ॥ ७७ ॥
अथ देशोपद्राविणः राज्यहरणेच्छून् नृपतिविपक्षाणां रहो हिताकाङ्क्षिणो नृपसैन्यभेदकभृत्यान् राज्ञा सह योद्धुमिच्छुः प्रजाः पान्थपीडकशस्त्रिणश्च घ्नतो महीपतेः पातकभागित्वं नेत्याह राष्ट्रेत्यादिश्लोकद्वयेन ।
राष्ट्रविप्लाविनो देशोपद्रावकान् राज्यं जिहीर्षून् राज्यहरणेच्छून्नृपवैरिणां राज्ञः शत्रूणां रहो
योद्धुमिच्छूः प्रजा राज्ञा शस्त्रिणः पान्थपीडकान् ।
हत्वा नरपतिस्त्वेतान् नैव किल्विषभाग् भवेत् ॥ ७९ ॥
यो हन्यान्मानवं भर्तुराज्ञयापरिहार्यया ।
भर्तुरेव वधस्तत्र प्रहर्तुर्न शिवाज्ञया ॥ ८० ॥
अयत्नपुंसः पशुना शस्त्रैर्वा म्रियते नरः ।
धनदण्डेन वा कायदमेनाऽस्य विशोधनम् ॥ ८१ ॥
बहिर्मुखान्नृपाज्ञासु नृपाग्रे प्रौढवादिनः ।
दूषकान् कुलधर्माणां शास्याद्राजा विगर्हितान् ॥ ८२ ॥
हितैषिणो रहसि हितकाङ्क्षिणो नृपसैन्ययोर्भेदकान् नृपस्य सैन्यस्य च भेदं कुर्वतो भृत्यान् अमात्यादीन् तथा राज्ञा सह योद्धुमिच्छूः प्रजाः तथा पान्थपीडकान् शस्त्रिणश्चैतान् हत्वा नरपतिः किल्विषभाक्नैव भवेत् ॥ ७८ ॥ ७९ ॥
अथाऽपरिहार्यप्रभ्वाज्ञालङ्घनाशक्तेन भृत्येन मानुषं घातयतो भर्तुरेव वधो विधातव्यो न भृत्यस्येत्याह य इत्यादिना ।
भर्तुरपरिहार्ययाऽनुल्लङ्घनीययाऽज्ञया यो मानवं हन्यात् तस्य प्रहर्तुस्तत्र हनने न वधः किन्तु शिवाज्ञया भर्तुरेव वधो विहितः ।
अपरिहार्ययेत्यनेन भर्त्राज्ञालङ्घनशक्तो भृत्यो यदि मानवं हन्यात् तदा तस्यैव वध इति सूचितम् ॥ ८० ॥
नन्वनवधानस्य यस्य पुंसः शस्त्रादिभिर्मनुष्यो म्रियते तस्य विशुद्धिः कथं स्यात्तत्राह अयत्नेत्यादिना ।
अयत्नपुंसो यत्नहीनस्य यस्य पुरुषस्य पशुना गवाश्वादिना शस्त्रैः खड्गादिभिर्वा नरो म्रियते अस्य पुंसो धनदण्डेन कायदण्डेन वा विशोधनं भवेत् ॥ ८१ ॥
अथ राजाज्ञालङ्घिनस्तदग्रे प्रौढवादिनः कुलधर्मदूषकांश्च राजा दण्डयेदित्याह बहिरित्यादिना ।
नृपाज्ञासु बहिर्मुखान् राजाज्ञालङ्घिनो नृपाग्रे प्रौढवादिनः प्रौढं वदतः तथा कुलधर्माणां दूषकांश्च विगर्हितान्निन्दितानेतान् राजा शास्यात् ॥ ८२ ॥
स्थाप्यापहारिणं क्रूरं वञ्चकं भेदकारिणम् ।
विवादयन्तं लोकांश्च देशान्निर्यापयेन्नृपः ॥ ८३ ॥
शुल्केन कन्यां दातॄंश्च पुत्रं शण्ढे प्रयच्छतः ।
देशान्निर्यापयेद्राजा पतितान् दुष्कृतात्मनः ॥ ८४ ॥
मिथ्यापवादव्याजेन परानिष्टं चिकीर्षवः ।
यथापवादं ते शास्या धर्मज्ञेन महीभृता ॥ ८५ ॥
यो यत्परिमितानिष्टं कुर्यात्तत्सम्मितं धनम् ।
नृपतिर्दापयेत्तेन जनायाऽनिष्टभागिने ॥ ८६ ॥
अथ न्यासापहारकादिकान्निजदेशतो नृपो निष्काशयेदित्याह स्थाप्येत्यादिना ।
स्थाप्यापहारिणं न्यासस्याऽपहर्तारं क्रूरं कठिनं निर्दयं वा तथा वञ्चकं तथा भेदकारिणं तथा लोकान् विवादयन्तं च जनं नृपो देशान्निर्यापयेन्निष्काशयेत् ॥ ८३ ॥
अथ शुल्कग्रहणपूर्वकं कन्यां पुत्रं च ददतो जनान् भूपो देशान्निःसारयेदित्याज्ञापयति शुल्केनेत्यादिना ।
शुल्केन दाननिमित्तकधनेन हेतुना कस्मैचिज्जनाय विशेषतः शण्ढे क्लीबे कन्यां दातॄन् तथा शुल्केनैव कस्मिन् विशेषतः शण्ढे पुत्रं च प्रयच्छतो ददतो दुष्कृतात्मनः पापहृदयान् पापबुद्धीन् वा पतितान् जनान् राजा देशान्निर्यापयेत् ।
शण्ढे इति सम्प्रदानस्याधिकरणत्वेन विवक्षितत्वात् सप्तम्यधिकरणे चेति सप्तमी ॥ ८४ ॥
अथ मिथ्यापवादच्छलेन परानिष्टजननाकाङ्क्षिणां दण्डमाह मिथ्येत्यादिना ।
मिथ्यापवादव्याजेन असत्यापवादच्छलेन परानिष्टमन्यानाकाङ्क्षितं चिकीर्षवो ये मानवास्ते धर्मज्ञेन धर्मं जानता महीभृता राज्ञा यथापवादं शास्याः ।
गुर्वपवादे गुरुशासनं लघ्वपवादे च लघुशासनं विधेयमित्यर्थः ॥ ८५ ॥
ननु विनैवापराधं परानिष्टं कुर्वतः पुंसः को दण्डो विधातव्यस्तत्राह य इत्यादिना ।
यो नरो यस्य यत् परिमितमनिष्टं कुर्यात्तेन तस्मै अनिष्टभागिने जनाय तत्सम्मितं धनं नृपतिर्दापयेत् ॥ ८६ ॥
मणिमुक्ताहिरण्यादिधातूनां स्तेयकारिणः ।
करस्य बाह्वोश्छेदो वा कार्यो मूल्यं विचारयन् ॥ ८७ ॥
महिषाश्वगवादीनां रत्नादीनां तथा शिशोः ।
बलेनाऽपहृतां नॄणां स्तेयिवद्विहितो दमः ॥ ८८ ॥
अन्नानामल्पमूलस्य वस्तुनस्तेयिनं नृपः ।
विशोधयेत्तं पक्षैकं सप्ताहं वाऽशयन् कणम् ॥ ८९ ॥
विश्वासघातके पुंसि कृतघ्ने सुरवन्दिते ।
यज्ञैर्व्रतैस्तपोदानैः प्रायश्चित्तैर्न निष्कृतिः ॥ ९० ॥
अथ मणिमुक्तादिधातुस्तेयिनां दण्डमाह मणीत्यादिना ।
मणिमुक्ताहिरण्यादीनां धातूनां स्तेयकारिणो नरस्य करस्य बाह्वोर्वा छेदं मण्यादीनां मूल्यं विचारयन् नृपः कुर्यात् ।
अल्पमूल्यकमण्यादिस्तेये करच्छेदो बहुमूल्यकमण्यादिस्तेये बाह्वोश्छेदः कार्य इत्यर्थः ॥ ८७ ॥
अथ बलात्कारेण महिषाश्वादीनामपहारकस्य दण्डमाह महिषेत्यादिना ।
महिषाश्वगवादीनां पशूनां तथा रत्नादीनां तथा शिशोश्च बलेनाऽपहृतामपहरतां नॄणां स्तेयिवद्दमो विहितः ॥ ८८ ॥
अथान्नस्य मण्यादिभिन्नाल्पमूल्यवस्तुनश्च स्तेयिनो विशुद्धिमाह अन्नानामित्यादिना ।
अन्नानां तथाऽल्पमूल्यस्य वस्तुनश्च स्तेयी यो नरस्तं पक्षैकं सप्ताहं वा कणमाशयन् भोजयन्नृपो विशोधयेत् ॥ ८९ ॥
अथाऽनेकयज्ञव्रतादिकं कुर्वतोरपि विश्वासघातककृतघ्नयोरनिष्कृतित्क्माह विश्वासेत्यादिना ।
हे सुरवन्दिते विश्वासघातके तथा कृतघ्ने उपकृतविनाशके च पुंसि यज्ञैरश्वमेधादिभिर्व्रतैः कृच्छूचान्द्रायणादिभिस्तपोभिर्दानैश्च प्रायश्चित्तैः पापविनाशकैरेतैर्निष्कृतिर्दुष्कृतान् सुक्तिर्न स्यात् ॥ ९० ॥
ये कूटसाक्षिणो मर्त्या मध्यस्था पक्षपातिनः ।
शास्यात्तांस्तीव्रदण्डेन देशान्निर्यापयेन्नृपः ॥ ९१ ॥
षट् साक्षिणः प्रमाणं स्युश्चत्वारस्त्र्य एव वा ।
अभावे द्वावपि शिवे प्रसिद्धौ यदि धार्मिकौ ॥ ९२ ॥
देशतः कालतो वापि तथा विषयतः प्रिये ।
परस्परमयुक्तञ्चेद् अग्राह्यं साक्षिणां वचः ॥ ९३ ॥
अन्धानां वाक् प्रमाणं स्याद्बधिराणां तथा प्रिये ।
मूकानामेडमूकानां शिरसाऽङ्गीकृतिर्लिपिः ॥ ९४ ॥
अथ साक्षित्वे मिथ्याभिधायिनां पक्षपातिमध्यस्थानां च दण्डमाह ये इत्यादिना ।
कूटसाक्षिणः साक्ष्ये मृषाभिधायिनो ये मर्त्यास्तथा पक्षपातिनो मध्यस्थाश्च ये तान् नृपस्तीव्रदण्डेन शास्यात्तथा देशान्निर्यापयेत् ॥ ९१ ॥
ननु कति साक्षिणः प्रमाणं भवेयुरित्यपेक्षायामाह षडित्यादिना ।
षट्चत्वारस्त्रयो वा साक्षिणः प्रमाणं स्युः ।
हे शिवे अभावे त्रिचतुरादिसाक्ष्यसत्त्वे यदि प्रसिद्धौ धार्मिकौ भवेतां तदा द्वावपि साक्षिणौ प्रमाणं स्याताम् ॥ ९२ ॥
स्थानादिभेदतः परस्परमसङ्गतं साक्षिणां वचो न प्रमाणमित्याह देशत इत्यादिना ।
हे प्रिये देशतः स्थानतः कालतो दिनप्रहरादितस्तथा विषयतो वस्तुतो वा चेद् यदि परस्परमयुक्तमसम्बन्धं साक्षिणां वचस्तदाऽग्राह्यं स्यात् ॥ ९३ ॥
ननु दर्शनाद्यशक्ता अन्धादयः साक्षिणो भवितुमर्हन्ति न वेत्याशङ्कायामाह अन्धानामित्यादिना ।
हे प्रिये अन्धानामचक्षुषां तथा बधिराणां श्रोत्रहीनानां वाक् प्रमाणं स्यात् मूकानामवाचां तथा एडमूकानां श्रोत्रवचोरहितानां शिरसाऽङ्गीकृतिः स्वीकारो लिपिरक्षरं च प्रमाणं स्यात् ॥ ९४ ॥
लिपिः प्रमाणं सर्वेषां सर्वत्रैव प्रशस्यते ।
विशेषाद्व्यवहारेषु न विनश्येच्चिरं यतः ॥ ९५ ॥
स्वीयार्थमपरार्थञ्चेत् कुर्वतः कल्पितां लिपिम् ।
दण्डस्तस्य विधातव्यो द्विपाद्यं कूटसाक्षिणः ॥ ९६ ॥
अभ्रमस्याऽप्रमत्तस्य यदङ्गीकरणं सकृत् ।
स्वीयार्थे तत्प्रमाणं स्याद्वचसो बहुसाक्षिणाम् ॥ ९७ ॥
यथा तिष्ठन्ति पुण्यानि सत्यमाश्रित्य पार्वति ।
तथाऽनृतं समाश्रित्य पातकान्यखिलान्यपि ॥ ९८ ॥
अतः सत्यविहीनस्य सर्वपापाश्रयस्य च ।
ताडनाद्दमनाद्राजा न पापार्हः शिवाज्ञया ॥ ९९ ॥
अथाऽन्यप्रमाणाल्लिपिप्रमाणस्य बहुकालस्थायित्वात् प्राशस्त्यमाह लिपिरित्यादिना ।
सर्वत्रैव कर्मणि विशेषात् क्रयविक्रयादिरूपव्यवहारेषु सर्वेषां लिपिः प्रमाणं प्रशस्यते ।
प्राशस्त्ये हेतुं दर्शयन्नाह न विनश्येदित्यादिना ।
यतश्चिरं बहुकालं लिपिर्न विनश्येच्चिरं तिष्ठेदित्यर्थः ॥ ९५ ॥
अथाऽक्षरं कल्पयतो दण्डमाह स्वीयार्थमित्यादिना ।
स्वीयार्थमपरार्थं वा कल्पितां लिपिं यः करोति तस्य तादृशीं लिपिं कुर्वतो जनस्य कूटसाक्षिणः साक्ष्येऽनृतं वदतो द्विपाद्यं द्विगुणो दण्डो राज्ञा विधातव्यः ॥ ९६ ॥
बहुसाक्षिवचोभ्योऽप्रमत्ताभ्रान्तजनः स्वयं कृतैकवारस्वीकाररूपप्रमाणस्याऽतिप्राशस्त्यं दर्शयितुमाह अभ्रमस्येत्यादिना ।
अभ्रमस्य भ्रान्तिरहितस्याप्रमत्तस्य सावधानस्य यत् सकृदेकवारमपि अङ्गीकरणं स्वीकारस्तत् स्वीयार्थे बहुसाक्षिणामपि वचसो भाषणादधिकं प्रमाणं स्यात् ॥ ९७ ॥
अथाऽसत्यस्याऽखिलपातकाश्रयत्वं व्याहरंस्तदाश्रयान्मानवान् दण्डयतो राज्ञः पापानर्हत्वमाह यथेत्यादिना शिवाज्ञयेत्यन्तेन श्लोकद्वयेन ।
हे पार्वति
सत्यं ब्रवीमि सङ्कल्प्य स्पृष्ट्वा कौलं गुरुं द्विजम् ।
गङ्गातोयं देवमूर्तिं कुलशास्त्रं कुलामृतम् ॥ १०० ॥
देवीनिर्माल्यमथवा कथनं शपथो भवेत् ।
तत्राऽनृतं वदन् मर्त्यः कल्पान्तं नरकं व्रजेत् ॥ १०१ ॥
अपापजनिकार्याणां त्यागे वा ग्रहणेऽपि वा ।
तत् कार्यं सर्वथा मर्त्यैः स्वीकृतं शपथेन यत् ॥ १०२ ॥
स्वीकारोल्लङ्घनाच्छुध्येत् पक्षमेकमभोजनैः ।
भ्रमेणापि तमुल्लङ्घ्य द्वादशाहं कणाशनैः ॥ १०३ ॥
यथा सत्यमाश्रित्य पुण्यानि तिष्ठन्ति तथाऽनृतमसत्यं समाश्रित्याऽखिलान्यपि पातकान्यपि तिष्ठन्ति ।
अतः सत्यविहीनस्य सर्वपापाश्रयस्य च जनस्य ताडनाद्दमनाद्धनदण्डाच्च राजा शिवाज्ञया पापार्हः पापभाक् न स्यात् ॥ ९८ ॥ ९९ ॥
अथ शपथस्वरूपं निरूपयंस्तत्राऽनृतं ब्रुवतो मर्त्यस्य नरकगामित्वं विदधाति सत्यमित्यादिना श्लोकद्वयेन ।
सत्यमहं ब्रवीमीति सङ्कल्प्य कौलं कुलीनं गुरुं निषेकादिकरं द्विजं ब्राह्मणं गङ्गातोयं गङ्गाजलं देवमूर्तिं देवताप्रतिमां कुलशास्त्रं तन्त्रादिकं कुलामृतमासवम् देवीनिर्माल्यं वा स्पृष्ट्वा कथनं शपथो भवेत् तत्र शपथेऽनृतं मिथ्यां वदन् मर्त्यः कल्पान्तं कल्पपर्यन्तं नरकं व्रजेत् नरकान्नरकान्तरं गच्छेत् ॥ १०० ॥ १०१ ॥
अथ शपथपूर्वकस्वीकृतापापजनककार्याणामवश्यकृत्यत्वमाह अपापेत्यादिना ।
न पापस्य जनिरुत्पत्तिर्येभ्यस्तेषां कार्याणां त्यागे वा ग्रहणेऽपि वा शपथेन मर्त्यैर्यत् स्वीकृतं तत् सर्वथा कार्यं न लङ्घनीयमित्यर्थः ।
ग्रहणेऽपि वेत्यनेन पापजनककर्मणां त्यागे एव यत् स्वीकृतं तस्यैवाऽवश्यकृत्यत्वमिति ध्वनितम् ॥ १०२ ॥
ननूल्लङ्घितशपथपूर्वकस्वीकृतापापजनककार्यो मनुष्यः कथं शुध्येत् तत्राह स्वीकारेत्यादि ।
स्विकारोल्लङ्घनादेकं पक्षमभोजनैर्जनः शुध्येत् ।
भ्रमेणापि तं स्वीकारमुल्लङ्घ्य द्वादशाहं कणाशनैः शुध्येत् ॥ १०३ ॥
कुलधर्मोऽपि सत्येन विधिना चेन्न सेवितः ।
मोक्षाय श्रेयसे न स्यात् कौले पापाय केवलम् ॥ १०४ ॥
सुरा द्रवमयी तारा जीवनिस्तारकारिणी ।
जननी भोगमोक्षाणां नाशिनी विपदां रुजाम् ॥ १०५ ॥
दाहिनी पापसङ्घानां पावनी जगतां प्रिये ।
सर्वसिद्धिप्रदा ज्ञानबुद्धिविद्याविवर्धिनी ॥ १०६ ॥
मुक्तैर्मुमुक्षुभिः सिद्धैः साधकैः क्षितिपालकैः ।
सेव्यते सर्वदा देवैराद्ये स्वाभीष्टसिद्धये ॥ १०७ ॥
सम्यग्विधिविधानेन सुसमाहितचेतसा ।
पिबन्ति मदिरां मर्त्या अमर्त्या एव ते क्षितौ ॥ १०८ ॥
अथाऽविधिसेवितस्य कुलधर्मस्यापि पापजनकत्वमाह कुलेत्यादिना ।
सत्येन विधिना चेद् यदि सेवितो न स्यात् तदा कुलधर्मोऽपि कौले कुलीने मोक्षाय अपवर्गाय तथा श्रेयसे भद्राय च न स्यात् केवलं पापायैव भवति ।
अतो विधिनैव सेव्यः कुलधर्म इति भावः ॥ १०४ ॥
अथ सुरेत्यादिभिस्त्रिभिः पद्यैर्मद्यं स्तौति ।
सुरा द्रवमयी द्रवरूपा तारा भवति ।
या जीवनिस्तारकारिणी जीवानां निस्तारकर्त्री या भोगमोक्षाणां जननी उत्पादयित्री या विपदां विपत्तीनां रुजां रोगाणां च नाशिनी ॥ १०५ ॥
या पापसङ्घानां पापसमूहानां दाहिनी दग्ध्री ।
हे प्रिये या जगतां पावनी शुद्धिकर्त्री या सर्वसिद्धिप्रदा सर्वासां सिद्धीनां प्रदात्री या ज्ञानबुद्धिविद्याविवर्द्धिनी ।
मोक्षे धीर्ज्ञानम् शास्त्रादितत्त्वज्ञानं बुद्धिः आत्मज्ञानं विद्या तेषां विवर्धयित्री ॥
हे आद्ये मुक्तैर्मुक्तिशालिभिः मुमुक्षुभिर्मोक्षेप्सुभिः सिद्धैः साधकैः क्षितिपालकैः राजभिर्देवैश्च स्वाभीष्टसिद्धये सर्वदा या सेव्यते सा सुरा द्रवमयी तारा बोद्धव्येति पूर्वेणान्वयः ।
या सेत्यध्याहारलभ्ये ॥ १०६ ॥ १०७ ॥
सुरेत्यादिश्लोकत्रयेण मदिरां स्तुत्वेदानीं विधिपूर्वकतत्पानकर्तुः साक्षाद्देवत्वं प्रतिपादयति सम्यगित्यादिना ।
ये मर्त्याः सम्यग्विधिविधानेन सुसमाहितचेतसाऽतिसावधानमनसा
प्रत्येकतत्वस्वीकाराद्विधिना स्याच्छिवो नरः ।
न जाने पञ्चतत्वानां सेवनात् किं फलं भवेत् ॥ १०९ ॥
इयञ्चेत् वारुणी देवी निपीता विधिवर्जिता ।
नॄणां विनाशयेत् सर्वं बुद्धिमायुर्यशो धनम् ॥ ११० ॥
अत्यन्तपानान्मद्यस्य चतुर्वर्गप्रसाधनी ।
बुद्धिर्विनश्यति प्रायो लोकानां मत्तचेतसाम् ॥ १११ ॥
विभ्रान्तबुद्धेर्मनुजात् कार्याकार्यमजानतः ।
स्वानिष्टं च परानिष्टं जायतेऽस्मात् पदे पदे ॥ ११२ ॥
अतो नृपो वा चक्रेशो मद्ये मादकवस्तुषु ।
अत्यासक्तजनान् कायधनदण्डेन शोधयेत् ॥ ११३ ॥
मदिरां पिबन्ति ते क्षितौ पृथिव्याममर्त्या देवा एव भवन्ति ॥ १०८ ॥
अथ विधिसेवितमद्यादिपञ्चतत्त्वानामनिर्वचनीयफलत्वं दर्शयति प्रत्येकेत्यादिना ।
विधिना प्रत्येकतत्त्वस्वीकारात् मद्याद्येकैकतत्वाङ्गीकारान्नरः शिवः स्यात् पञ्चानामपि तत्वानां मद्यादीनां सेवनात् किं फलं भवेदिति तु न जाने ॥ १०९ ॥
अथ विधिवर्जितसुरापानस्य बुद्ध्यायुरादिसकलपदार्थविनाशकत्वमाह इयमित्यादिना ।
चेद् यदि विधिवर्जितेयं वारुणी मदिरा देवी निपीता स्यात्तदा नॄणां बुद्धिमायुर्यशोधनमित्यादि सर्वं विनाशयेत् ॥ ११० ॥
सुरात्यन्तपानस्य बुद्धिविनाशकत्वेऽतिपीतमद्यानां स्वपरानिष्टोत्पादकत्वस्य हेतुत्वात्तदत्यासक्तचेतसः पुमांसो नरेशचक्रेशाभ्यां दण्ड्या इत्याह अत्यन्तेत्यादिना शोधयेदित्यन्तेन श्लोकत्रयेण ।
मद्यस्याऽत्यन्तपानान्मत्तचेतसां लोकानां चतुर्वर्गप्रसाधनी धर्मार्थकाममोक्षाणां साधयित्री बुद्धिः प्रायो विनश्यति ॥ १११ ॥
कार्याकार्यमजानतोऽस्माद्विभ्रान्तबुद्धेर्मनुजात् स्वानिष्टं परानिष्टं च पदे पदे जायते ।
अतो मद्ये मादकवस्तुषु चाऽत्यासक्तान् जनान् नृपश्चक्रेशो वा कायधनदण्डेन शोधयेत् ॥ ११२ ॥ ११३ ॥
सुराभेदात् व्यक्तिभेदात् न्यूनेनाऽप्यधिकेन वा ।
देशकालविभेदेन बुद्धिभ्रंशो भवेन्नॄणाम् ॥ ११४ ॥
अत एव सुरामानादतिपानं न लक्ष्यते ।
स्खलद्वाक्पाणिपाद्दृग्भिरतिपानं विचारयेत् ॥ ११५ ॥
नेन्द्रियाणि वशे यस्य मदविह्वलचेतसः ।
देवतागुरुमर्यादोल्लङ्घिनो भयरूपिणः ॥ ११६ ॥
निखिलानर्थयोग्यस्य पापिनः शिवघातिनः ।
दहेज्जिह्वां हरेदर्थान् ताडयेत्तं च पार्थिवः ॥ ११७ ॥
विचलत्पादवाक्पाणिं भ्रान्तमुन्मत्तमुद्धतम् ।
तमुग्रं यातयेद्राजा द्रविणं चाहरेत्ततः ॥ ११८ ॥
मद्यादिविभेदतो न्यूनस्याऽधिकस्य च तस्य बुद्धिभ्रंशजनकत्वात्तन्मानादत्यन्तपानस्य ज्ञातुमशक्यत्वात् स्खलद्वागादिभिस्तल्लक्षणीयमित्याह सुरेत्यादिना विचारयेदित्यन्तेन श्लोकद्वयेन ।
सुराभेदात् व्यक्तिभेदाज्जनविशेषाद्देशकालयोर्विभेदेन च न्यूनेनापि अधिकेन वा मद्येन नॄणां बुद्धिभ्रंशो भवेत् ।
अत एव सुराया मानादतिपानं न लक्ष्यते किन्तु स्खलद्वाक्पाणिपद्दृग्भिरितस्ततो विचलद्भिर्वचोहस्तपादनेत्रैरतिपानं विचारयेत् विलक्षयेत् ॥ ११४ ॥ ११५ ॥
अथोल्लङ्घितदेवतागुरुमर्यादावशेन्द्रियमदिरामत्तस्य दण्डमाह नेन्द्रियाणीत्यादिश्लोकद्वयेन ।
यस्येन्द्रियाणि वशे न सन्ति तस्य मदविह्वलचेतसो मदिराविक्लवचित्तस्य देवतागुरुमर्यादोल्लङ्घिनो लङ्घितदेवनिषेकादिगुरुमर्यादस्य भयरूपिणो भीतिस्वरूपस्य निखिलानर्थयोग्यस्याऽशेषानर्थार्हस्य पापिनः पातकाश्रयस्य शिवघातिनः शिवाज्ञालङ्घनात्तद्धन्तुर्निजभद्रहन्तुर्वा नरस्य जिह्वां पार्थिवो दहेत् अर्थान् हरेत् तं च ताडयेत् ॥ ११६ ॥ ११७ ॥
अथ विचलत्पादादिकस्य मद्यमत्तस्य दण्डमाह विचलदित्यादिना ।
विचलत्पादवाक्पाणिं स्खलच्चरणवचोहस्तं भ्रान्तं भ्रमयुतमुन्मत्तमुन्मादवन्तमुद्धतमविनीतं तमुग्रं रौद्रं राजा यातयेत् ततो द्रविणं च आहरेत् ॥ ११८ ॥
अपवाग्वादिनं मत्तं लज्जाभयविवर्जितम् ।
धनादानेन तं शास्यात् प्रजाप्रीतिकरो नृपः ॥ ११९ ॥
शताभिषिक्तः कौलश्चेत् अतिपानात् कुलेश्वरि ।
पशुरेव स मन्तव्यः कुलधर्मबहिष्कृतः ॥ १२० ॥
पिबन्नतिशयं मद्यं शोधितं वाऽप्यशोधितम् ।
त्याज्यो भवति कौलानां दण्डनीयोऽपि भूभृतः ॥ १२१ ॥
ब्राह्मीं भार्यां सुरां मत्ताः पाययन्तो द्विजातयः ।
शुध्येयुर्भार्यया सार्धं पञ्चाहं कणभोजनात् ॥ १२२ ॥
असंस्कृतसुरापानात् शुध्येदुपवसंस्त्र्यहम् ।
भुक्त्वाऽप्यशोधितं मांसमुपवासद्वयं चरेत् ॥ १२३ ॥
अथाऽवाच्यवादिनो मत्तस्य दण्डमाह अपवागित्यादिना ।
अपवाग्वादिनम् अवक्तव्यं वचो वदन्तं लज्जाभयविवर्जितं तं मत्तं प्रजाप्रीतिकरो नृपो धनादानेन शास्यात् ॥ ११९ ॥
शताभिषिक्तकौलस्याऽप्यत्यन्तमद्यपानेन कुलधर्मबहिष्कृतत्वात् पशुत्वशालित्वमाह शतेत्यादिना ।
चेच्छब्दोऽप्यर्थे ।
हे कुलेश्वरि शताभिषिक्तः कौलोऽप्यतिपानात् पशुरेव मन्तव्यः यतः स कुलधर्माद्बहिष्कृतः ॥ १२० ॥
अथ संस्कृतासंस्कृतातिशयितमद्यपायिनो नरस्य राज्ञा दण्डनीयत्वं कौलहेयत्वं चाह पिबन्नित्यादिना ।
शोधितमशोधितं वाऽतिशयं बहुलं मद्यं पिबन्मर्त्यः कौलानां त्याज्यो भूभृतो दण्डनीयोऽपि भवति ॥ १२१ ॥
ननु ब्राह्मीं भार्यां मद्यं पाययन्तो द्विजाः कथं शुध्येयुस्तत्राह ब्राह्मीमित्यादिना ।
ब्राह्मीं वेदोक्तविधिना परिणीतां भार्यां सुरां पाययन्तो मत्ताः द्विजातयो भार्यया सार्धं पञ्चाहं कणभोजनाच्छुध्येयुः ॥ १२२ ॥
नन्वशोधितमद्यपानात् तादृङ्मांसभक्षणाच्च कथं शुध्येत्तत्राह असंस्कृते त्यादिना ।
असंस्कृतसुरापानात् त्र्यहं त्रिदिनमुपवसन् शुध्येत् ।
अशोधितं मांसमपि भुक्त्वा उपवासद्वयं चरेत् कुर्यात् ॥ १२३ ॥
असंस्कृते मीनमुद्रे खादन्नुपवसेदहः ।
अवैधं पञ्चमं कुर्वन् राज्ञो दण्डेन शुध्यति ॥ १२४ ॥
भुञ्जानो मानवं मांसं गोमांसं ज्ञानतः शिवे ।
उपोष्य पक्षं शुद्धः स्यात् प्रायश्चित्तमिदं स्मृतम् ॥ १२५ ॥
नराकृतिपशोर्मांसं मांसं मांसादनस्य च ।
अत्त्वा शुध्येन्नरः पापादुपवासैस्त्रिभिः प्रिये ॥ १२६ ॥
म्लेच्छानां श्वपचानां च पशूनां कुलवैरिणाम् ।
खादन्नन्नं विशुद्धः स्यात् पक्षमेकमुपोषितः ॥ १२७ ॥
उच्छिष्टं यदि भुञ्जीत ज्ञानादेषां कुलेश्वरि ।
शुध्येन्मासोपवासेनाऽज्ञानात् पक्षोपवासतः ॥ १२८ ॥
अथाशोधितमत्स्यमुद्रयोर्भोक्तुरवैधसुरतकर्तुश्च प्रायश्चित्तमाह असंस्कृत इत्यादिना ।
असङ्कृते अशोधिते मीनमुद्रे खादन्नरोऽहर्दिनमेकमुपवसेत् ।
अवैधं विधिवर्जितं पञ्चमं सुरतं कुर्वन्नरो राज्ञो दण्डेन शुध्यति ॥ १२४ ॥
ननु ज्ञानतो नरमांसं गोमांसञ्च खादतः पुंसः कथं शुद्धिस्तत्राह भुञ्जान इत्यादिना ।
हे शिवे ज्ञानतो मानवं मानवसम्बन्धिमांसं गोमांसञ्च भुञ्जानो नरः पक्षमेकमुपोष्य शुद्धः स्यात् ।
इदं तयोर्भक्षणे प्रायश्चित्तं स्मृतम् ॥ १२५ ॥
ननु भुक्तमनुष्याकृतिपशुमांसो मांसादकमांसभक्षकश्च पुमान् कथं शुध्येत्तत्राह नरेत्यादिना ।
हे प्रिये नराकृतिपशोर्वानरादेर्मांसादनस्य मांसभक्षकस्य व्याघ्रादेश्च मांसमत्त्वा भुक्त्वा नरस्त्रिभिरुपवासैः पापात् शुध्येत् ॥ १२६ ॥
अथ भुक्तम्लेच्छाद्यन्नस्य पुंसः प्रायश्चित्तमाह म्लेच्छानामित्यादिना ।
म्लेच्छानां यवनानां श्वपचानां चाण्डालानां कुलवैरिणां पशूनां चाऽन्नं खादन् जनः पक्षमेकमुपोषितः सन् विशुद्धः स्यात् ॥ १२७ ॥
ननु ज्ञानाज्ञानाभ्यां म्लेच्छाद्युच्छिष्टमन्नादिकं भुञ्जानः कथं शुध्येत्तत्राह उच्छिष्टमित्यादिना ।
हे कुलेश्वरि ज्ञानादेषां म्लेच्छादीनामुच्छिष्टमन्नादिकं
अनुलोमेन वर्णानामन्नं भुक्त्वा सकृत् प्रिये ।
दिनत्रयोपवासेन विशुद्धः स्यान्ममाज्ञया ॥ १२९ ॥
पशुश्वपचम्लेच्छानामन्नं चक्रार्पितं यदि ।
वीरहस्तार्पितं वापि तदश्नन्नैव पापभाक् ॥ १३० ॥
अन्नाभावे च दौर्भिक्ष्ये विपदि प्राणसङ्कटे ।
निषिद्धेनाऽदनेनापि रक्षन् प्राणान्न पातकी ॥ १३१ ॥
करिपृष्ठे तथाऽनेकोद्वाह्यपाषाणदारुषु ।
अलक्षितेऽपि दुष्याणां भक्ष्यदोषो न विद्यते ॥ १३२ ॥
यदि भुञ्जीत तदा मासोपवासेन नरः शुध्येत् ।
अज्ञानाद्यदि भुञ्जीत तदा पक्षोपवासतः शुध्येत् ॥ १२८ ॥
अथ क्रमतः क्षत्रियाद्यन्नमश्नतां ब्राह्मणादीनां प्रायश्चित्तमाह अनुलोमेनेत्यादिना ।
हे प्रिये अनुलोमेन क्रमेण वर्णानां सकृदन्नं भुक्त्वा ब्राह्मणादिर्दिनत्रयोपवासेन ममाज्ञया विशुद्धः स्यात् ।
यथा ब्राह्मणः क्षत्रियान्नमेवम् ॥ १२९ ॥
अथ चक्रार्पितस्य वीरहस्तार्पितस्य च पशुश्वपचम्लेच्छान्नस्य भोक्तुरपातकित्वमाह पश्वित्यादिना ।
पशुश्वपचम्लेच्छानामन्नं यदि चक्रार्पितं चक्रदत्तं वीरहस्तार्पितं वा स्यात्तदा तदन्नमश्नन् खादन् नरः पापभाक् नैव भवेत् ॥ १३० ॥
ननु दुर्भिक्षादौ निषिद्धवस्तुभोजनेन प्राणान् रक्षतो जनस्य पातकं भवेन्नवेत्याशङ्कमानां प्रत्याह अन्नेत्यादिना ।
दुर्लभा भिक्षा यत्र तत्र दुर्भिक्षे समये विपदि च देशोपद्रवपलायनादौ अन्नाभावे प्राणसङ्कटे सति निषिद्धेनाऽप्यदनेनाभोज्यस्यापि भोजनेन प्राणान् रक्षन् पातकी न भवेत् ॥ १३१ ॥
नौकादावन्नादिकमश्नतां न दोष इत्याह करीत्यादिना ।
करिपृष्ठे हस्तिनः पृष्ठे तथाऽनेकैरुद्वाह्येषु पाषाणेषु दारुषु च तथा दुष्याणां यवनादीनामलक्षितेऽपि यवनादीनामिदं भवति यवनादयोऽत्र वर्तन्ते एवमविज्ञातेऽपि स्थाने यद्वा
पशूनभक्ष्यमांसांश्च व्याधियुक्तानपि प्रिये ।
न हन्याद्देवतार्थेऽपि हत्वा च पातकी भवेत् ॥ १३३ ॥
कृच्छ्रव्रतं नरः कुर्याद् गोवधे बुद्धिपूर्वके ।
अज्ञानादाचरेदर्धं व्रतं शङ्करशासनात् ॥ १३४ ॥
न केशवपनं कुर्यात् न नखच्छेदनं तथा ।
न क्षारयोगं वसने यावन्न व्रतमाचरेत् ॥ १३५ ॥
उपवासैर्नयेत् मासं मासमेकं कणाशनैः ।
मासं भैक्षान्नमश्नीयात् कृच्छ्रव्रतमिदं शिवे ॥ १३६ ॥
दुष्याणां मलमूत्रादीनामलक्षितेऽपि सत्स्वपि तेषु तेषामविज्ञानेऽपि भक्ष्यदोषो न विद्यते ॥ १३२ ॥
अथ देवतार्थमभक्ष्यमांसान् व्याधियुतांश्च पशून्निघ्नतः पातकित्वमाह पशूनित्यादिना ।
हे प्रिये अभक्ष्यमांसान् व्याधियुक्तांश्च पशून् देवतार्थे न हन्यात् ।
अपीति निश्चितम् ।
ननु हनने को दोषस्तत्राह हत्वेति ।
हत्वा च जनः पातकी भवेत् ॥ १३३ ॥
अथ ज्ञानाज्ञानाकृतगोबधप्रायश्चित्तमाह कृच्छ्रेत्यादिना प्रिये इत्यन्तेन ।
ज्ञानपूर्वके गोवधे सति नरः कृच्छ्रव्रतं कुर्यात् ।
अज्ञानाद्गोवधे सति शङ्करशासनादर्धं व्रतमाचरेत् कुर्यात् ॥ १३४ ॥
न केशेति ।
यावद् व्रतं नाचरेत् तावत् केशवपनं केशानां मुण्डनं न कुर्यात् तथा नखच्छेदनं न कुर्यात् वसने वस्त्रे क्षारयोगं च न कुर्यात् ॥ १३५ ॥
ननु किं नाम कृच्छ्रव्रतमतस्तन्निरूपयति उपवासैरित्यादिना ।
हे शिवे उपवासैर्मासमेकं नयेत् यापयेत् ।
मासमेकं कणाशनैर्नयेत् ।
मासमेकं च भैक्षान्नं भिक्षासम्पन्नमन्नमश्नीयात् ।
इदं कृच्छ्रव्रतं ज्ञेयम् ॥ १३६ ॥
व्रतान्ते वापितशिराः कौलान् ज्ञातींश्च बान्धवान् ।
भोजयित्वा विमुक्तः स्याद् ज्ञानगोवधपातकात् ॥ १३७ ॥
अपालनवधाद्गोश्च शुध्येदष्टोपवासतः ।
बाहुजाद्या विशुध्येयुः पादन्यूनक्रमात् प्रिये ॥ १३८ ॥
गजोष्ट्रमहिषाश्वांश्च हत्वा कौलिनि कामतः ।
उपवासैस्त्रिभिः शुध्येन्मानवः कृतकिल्विषः ॥ १३९ ॥
मृगमेषाजमार्जारान् निघ्नन्नुपवसेदहः ।
मयूरशुकहंसांश्च सज्योतिरशनं त्यजेत् ॥ १४० ॥
व्रतान्ते इति ।
व्रतान्ते व्रतसमाप्तौ वापितशिराः मुण्डितमस्तकः सन् कौलान् ज्ञातीन् सगोत्रांश्च भोजयित्वा ज्ञानगोवधपातकाज्जनो विमुक्तः स्यात् ॥ १३७ ॥
अपालनेति ।
गोरपालनवधादरक्षणतो वधादष्टोपवासेन शुध्येत् ।
हे प्रिये बाहुजाद्याः क्षत्रियादयः पादन्यूनक्रमाद्विशुध्येयुः ।
क्षत्रियादिभिः क्रमतः पादपादन्यूनं व्रतं करणीयमिति भावः ॥ १३८ ॥
अथ गजोष्ट्रादिवधप्रायश्चित्तमाह गजोष्ट्रेत्यादिना ।
हे कौलिनि गजोष्ट्रमहिषाश्वान् बृहत्कायान् कामतो हत्वा कृतकिल्विषो मानवस्त्रिभिरुपवासैः शुध्येत् ॥ १३९ ॥
अथ मृगमेषादिवधप्रायश्चित्तमाह मृगेत्यादिना ।
मृगमेषामार्जारान् हरिणाविच्छागविडालान् निघ्नन्नरोऽहरेकदिनमुपवसेत् ।
मयूरशुकहंसांश्च निघ्नन्नरो ज्योतिषा सूर्येण सह वर्तमानं सज्योतिर्दिनमशनं त्यजेत् ।
दिवसेऽशनं त्यजन्नस्तं याते सूर्ये भुञ्जीतेत्यर्थः ।
ज्योतिर्ना भास्करेऽग्नौ च क्लीबं भद्योत दृष्टिष्विति रुद्रः ॥ १४० ॥
निहत्य सास्थिजन्तूंश्च नक्तमद्यात् निरामिषम् ।
निरस्थिजीविनो हत्वा मनस्तापेन शुद्ध्यति ॥ १४१ ॥
पशुमीनाण्डजान्निघ्नन् मृगयायां महीपतिः ।
न पापार्हो भवेद्देवि राज्ञो धर्मः सनातनः ॥ १४२ ॥
देवोद्देशं विना भद्रे हिंसां सर्वत्र वर्जयेत् ।
कृतायां वैधहिंसायां नरः पापैर्न लिप्यते ॥ १४३ ॥
सङ्कल्पितव्रतापूर्तौ देवनिर्माल्यलङ्घने ।
अशुचौ देवतास्पर्शे गायत्रीजपमाचरेत् ॥ १४४ ॥
अथ कृकलासाद्यस्थिमत्क्षुद्रजन्तून्निरस्थिजन्तूंश्च निघ्नतो नरस्य प्रायश्चित्तमाह निहत्येत्यादिना ।
निरस्थिसाहचर्यात् सास्थिजन्तूनस्थिमतः कृकलासादीन् क्षुद्रान् शरीरिणो निहत्य नक्तं रात्रौ निरामिषमामिषवर्जितमद्यात् भुञ्जीत ।
मयूरादिहननापेक्षया कृकलासादिहनने प्रवृत्तेराधिक्यात्तद्धनननिमित्तकदण्डतः कृकलासादिहनननिमित्तकदण्डस्य गुरुत्वमवगन्तव्यम् ।
निरस्थिजीविनोऽस्थिरहितजन्तून् हत्वा मनस्तापेन शुध्यति ॥ १४१ ॥
ननु मृगयायां मृगमीनादीन्निघ्नतो महीपालस्य मृगादिवधहेतुकं पापं भवेन्न वेति पृच्छन्तीं प्रत्याह पश्चित्यादिना ।
हे देवि पशुमीनाण्डजान् मृगव्याघ्रादिमत्स्यपक्षिणो मृगयायां निघ्नन् महीपतिः पापार्हो न भवेत् ।
यतोऽयं राज्ञः सनातनो नित्यो धर्मो भवति ॥ १४२ ॥
अथाऽवैधहिंसायाः पापजनकत्वादकर्तव्यत्वमाह देवेत्यर्धेन ।
हे भद्रे भद्रकारिणि देवोद्देश्यं कर्म विना सर्वत्र हिंसां वर्जयेत् ।
वैधहिंसायाः पापाजनकत्वात् कर्तव्यतामाह कृतायामित्याद्यर्धेन ।
वैधहिंसायां कृतायां सत्यां नरः पापैर्न लिप्यते ॥ १४३ ॥
ननु सङ्कल्पितं व्रतमसमापयतो देवनिर्माल्यं लङ्घयतोऽशौचानपगमे देवताः स्पृशतश्च पुंसः कथं शुद्धिस्तत्राह सङ्कल्पितेत्यादिना ।
सङ्कल्पितव्रतापूर्तौ
माता पिता ब्रह्मदाता महान्तो गुरवः स्मृताः ।
निन्दन्नेतान् वदन् क्रूरं शुध्येत् पञ्चोपवासतः ॥ १४५ ॥
एवमन्यान् गुरून् कौलान् विप्रान् गर्हन्नपि प्रिये ।
सार्धद्वयोपवासेन मुक्तो भवति पातकात् ॥ १४६ ॥
वित्तार्थी मानवो देशानखिलान् गन्तुमर्हति ।
निषिद्धकौलिकाचारं देशं शास्त्रमपि त्यजेत् ॥ १४७ ॥
गच्छंस्तु स्वेच्छया देशे निषिद्धकुलवर्त्मनि ।
कुलधर्मात्पतेद्भूयः शुध्येत् पूर्णाभिषेकतः ॥ १४८ ॥
सङ्कल्पितस्य व्रतस्याऽसमाप्तौ देवनिर्माल्यलङ्घने सति अशुचावशौचे देवतास्पर्शे च गायत्रीजपमाचरेत् ॥ १४४ ॥
अथ महतो गुरून्निरूपयंस्तान्निन्दतः क्रूरं ब्रुवतश्च पुंसः प्रायश्चित्तमाह मातेत्यादिना ।
माता जननी पिता जनको ब्रह्मदाता वेदाध्यापकश्चैते महान्तो गुरवः स्मृताः ।
एतान् महागुरून्निन्दन् क्रूरं वदंश्च नरः पञ्चोपवासतः शुध्येत् ॥ १४५ ॥
अथ मात्राद्यन्यगुरुकौलब्राह्मणनिन्दकानां प्रायश्चित्तमाह एवमित्यादिना ।
हे प्रिये एवमन्यान् मात्रादिभिन्नान् गुरून् कौलान् विप्रांश्च गर्हन्निन्दन् अपि वा क्रूरं वदंश्च नरः सार्धदयोपवासेन पातकात् मुक्तो भवति ॥ १४६ ॥
अथ वित्तोद्देश्यकसर्वदेशगमनार्हस्यापि मानवस्य कौलाचाररहितदेशाटनानर्हत्वमाह वित्तार्थीत्यादिना ।
वित्तार्थी मानवोऽखिलान् सर्वान् देशान् गन्तुमर्हति ।
निषिद्धः कौलिकानामाचारो यत्र तं देशं तादृशं शास्त्रमपि मानवस्त्यजेत् ॥ १४७ ॥
अथ धनलोभेन निषिद्धकौलिकाचारं देशं गच्छतो नरस्य कुलधर्मात् पतितत्त्वं पुनः पूर्णाभिषेकतः पूतत्वञ्चाह गच्छन्नित्यादिना ।
निषिद्धकुलवर्त्मनि
तपनोदयमारभ्य यामाष्टकमभोजनम् ।
उपवासः स विज्ञेयः प्रायश्चित्ते विधीयते ॥ १४९ ॥
पिबंस्तोयाञ्जलिञ्चैकं भक्षन्नपि समीरणम् ।
मानवः प्राणरक्षार्थं न भ्रश्येदुपवासतः ॥ १५० ॥
उपवासासमर्थश्चेद्रुजा वा जरसाऽपि वा ।
तदा प्रत्युपवासञ्च भोजयेद्द्वादश द्विजान् ॥ १५१ ॥
परनिन्दां निजोत्कर्षं व्यसनायुक्तभाषणम् ।
अयुक्तं कर्म कुर्वाणो मनस्तापैर्विशुध्यति ॥ १५२ ॥
देशे स्वेच्छया गच्छंस्तु नरः कुलधर्मात् पतेत् भूयः पुनः पूर्णाभिषेकतः शुध्येत् ॥ १४८ ॥
अथोक्ततत्तच्छलोकेष्वाकाङ्क्षितत्वादुपवासं निरूपयति तपनोदयमित्यादिना ।
तपनोदयं सूर्योदयमारभ्य यामाष्टकं प्रहराष्टकं यदभोजनं स उपवासो विज्ञेयः ।
प्रायश्चित्ते स विधीयते क्रियते ॥ १४९ ॥
अथ एकाञ्जलितोयपानेनोपवासस्याऽविनाशित्वं कथयन्नाह पिबन्निति ।
प्राणरक्षणार्थमेकं तोयाञ्चलिं पिबन् समीरणं वायुं चापि भक्षन्मानवः उपवासतो न भ्रश्येत् पतेत् ।
एकाञ्जलितोयपानादुपवासो न विनश्येदिति तत्त्वम् ॥ १५० ॥
अथ रोगादिनोपवासं कर्तुमशक्नुवता जनेन प्रत्युपवासं द्वादशब्राह्मणा भोजयितव्या इत्याह उपवासेत्यादिना ।
रुजा रोगेण वा जरसा जीर्णत्वेन वा चेद्यदि उपवासासमर्थो नरः स्यात् तदा प्रत्युपवासमुपवासं प्रति द्वादश द्विजान् ब्राह्मणान् भोजयेत् ॥ १५१ ॥
अथ परनिन्दानिजोत्कर्षादिकंः कुर्वतः प्रायश्चित्तमाह परनिन्दा मित्यादिना ।
परस्यान्यस्य निन्दां निजोत्कर्षमात्मोत्कृष्टतां व्यसनायुक्तभाषणं परीवादादिसम्बद्धकथनम् अयुक्तमनुचितं कर्म च कुर्वाणो नरो मनस्तापैर्विशुध्यति ॥ १५२ ॥
अन्यानि यानि पापानि ज्ञानाज्ञानकृतान्यपि ।
नश्यन्ति जपनाद्देव्याः सावित्र्याः कौलभोजनात् ॥ १५३ ॥
सामान्यनियमान् पुंसां स्त्रीषु षण्डेषु योजयेत् ।
योषितां तु विशेषोऽयं पतिरेको महागुरुः ॥ १५४ ॥
महारोगान्विता ये च ये नराश्चिररोगिणः ।
स्वर्णदानेन पूताः स्युर्दैवे पैत्र्येऽधिकारिणः ॥ १५५ ॥
अपघातमृतेनापि दूषितं विद्युदग्निना ।
गृहं विशोधयेद्धोमैर्व्याहृत्या शतसङ्ख्यकैः ॥ १५६ ॥
अथ ज्ञानाज्ञानकृतावशिष्टपापानां गायत्रीजपात् कौलानामशनाच्च विनाश इत्याह अन्यानीत्यादिना ।
ज्ञानाज्ञानाभ्यां कृतान्यन्यान्यपि यानि पापानि तानि सावित्र्याः सवितृदेवताकाया गायत्र्या देव्या जपनात् कौलानां भोजनाच्च नश्यन्ति ॥ १५३ ॥
अथ पुरुषाणां साधारणनियमाः स्त्रीषु नपुंसकेष्वपि योजयितव्या इत्याह सामान्येत्यादिना ।
पुंसां पुरुषाणां सामान्यनियमान् स्त्रीषु षण्डेषु नपुंसकेषु च योजयेत् ।
योषितां स्त्रीणान्तु पतिरेको महागुरुः स्मृतोऽयं विशेषः ॥ १५४ ॥
अथ कुष्ठादिमहारोगान्वितचिररोगिणोरपि सुवर्णदानेन पूतत्वसत्त्वाद्देवपितृकर्माधिकारित्वमाह महारोगेत्यादिना ।
ये नरा महारोगान्विता ये च चिररोगिणस्ते स्वर्णदानेन पूताः सन्तो दैवे पैत्र्ये च कर्मणि अधिकारिणः स्युः ॥ १५५ ॥
नन्वपघातमृतेन विद्युदग्निना च दूषितस्य वेश्मनः कथं शुद्धिस्तत्राह अपघातेत्यादिना ।
अपघातमृतेनापघातप्राप्तमृत्युना सर्पव्याघ्रोद्बन्धनादिमृतेनेति यावत् ।
विद्युदग्निना चापि दूषितं गृहं व्याहृत्या भूराद्यैः शतसङ्ख्यकैर्होमैर्विशोधयेत् ॥ १५६ ॥
वापीकूपतडागेषु सास्थ्नां शवनिरीक्षणात् ।
उद्धृत्य कुणपं तेभ्यस्ततस्तान् परिशोधयेत् ॥ १५७ ॥
पूर्णाभिषेकमनुभिर्मन्त्रितैः शुद्धवारिभिः ।
पूर्णैस्त्रिसप्तकुम्भैस्तान् प्लावयेदिति शोधनम् ॥ १५८ ॥
यदि स्वल्पजलास्ते स्युः शवदुर्गन्धिदूषिताः ।
सपङ्कं सलिलं सर्वमुद्धृत्याप्लावयेत्तु तान् ॥ १५९ ॥
सन्ति भूरीणि तोयानि गजदघ्नानि तेषु च ।
शतकुम्भजलोद्धारैरभिषेकेण शोधयेत् ॥ १६० ॥
यद्येवं शोधिता न स्युर्मृतस्पृष्टजलाशयाः ।
अपेयसलिलास्तेषां प्रतिष्ठामपि नाचरेत् ॥ १६१ ॥
अथास्थिमज्जन्तुशवदूषितवापीकूपादीनां सामान्यतः शोधनमाह वापीत्यादिना ।
वापीकूपतडागेषु सास्थ्नामस्थिमतां शवनिरीक्षणात् कुणपदर्शनात्तेभ्यो वाप्यादिभ्यः कुणपं शवमुद्धृत्य ततस्तान् वाप्यादीन् परिशोधयेत् ॥ १५७ ॥
कथं शोधयेदित्याकाङ्क्षायां शोधनप्रकारमाह पूर्णेत्यादि ।
पूर्णाभिषेकमनुभिः पूर्णाभिषेकस्य मन्त्रैर्मन्त्रितैः शुद्धवारिभिः पवित्रजलैः पूर्णैस्त्रिसप्तकुम्भैरेकविंशतिघटैस्तान् वाप्यादीन् प्लावयेत् इति शोधनम् अयं शोधनप्रकारः ॥ १५८ ॥
अथाल्पजलत्वगजमितबहुजलत्वाभ्यां वाप्यादीनां भेदवत्त्वाच्छोधनविशेषमाह यदीत्यादिना श्लोकद्वयेन ।
शवदुर्गन्धदूषितास्ते वाप्यादयो यदि स्वल्पजलाः स्युस्तदा तेभ्यः सपङ्कं सर्वं सलिलं जलमुद्धृत्योक्तप्रकारेण तानाप्लावयेत् ॥ १५९ ॥
सन्तीति ।
तेषु वाप्यादिषु चेत् यदि गजदघ्नानि हस्तिपरिमाणानि भूरीणि बहूनि तोयानि जलानि सन्ति तदा शतकुम्भजलोद्धारैरेकविंशतिकुम्भजलैरभिषेकेण च तान् शोधयेत् ॥ १६० ॥
अथाशोधितवाप्यादीनामपेयजलत्वं प्रतिष्ठानर्हत्वञ्चाह यदीत्यादिना ।
मृतस्पृष्टजलाशयाः शवस्पृष्टवाप्यादयो यद्येवं शोधिता न स्युस्तदा तेऽपेयसलिला भवन्ति ।
स्नानमेषु जलैरेषां कुर्वन् कर्म वृथा भवेत् ।
दिनमेकं निराहारः शुध्येत् पञ्चामृताशनात् ॥ १६२ ॥
याचकं धनिनं दृष्ट्वा वीरं युद्धपराङ्मुखम् ।
दूषकं कुलधर्माणां मद्यपाञ्च कुलस्त्रियम् ॥ १६३ ॥
मित्रद्रोहकरं मर्त्यं स्वयं पापरतं बुधम् ।
पश्यन् सूर्यं स्मरन् विष्णुं सचेलः स्नानमाचरेत् ॥ १६४ ॥
खरकुक्कुटकोलांश्च विक्रीणन्तो द्विजातयः ।
नीचवृत्तिं चरन्तोऽपि शुध्येयुस्त्रिदिनव्रतात् ॥ १६५ ॥
तेषामशोधितवाप्यादीनां प्रतिष्ठामपि नाऽचरेन्न कुर्यात् ॥ १६१ ॥
अथाशोधितवाप्यादिजलैः स्नानादिकं कुर्वतो नरस्य प्रायश्चित्तं क्रियमाणस्य कर्मणो निष्फलत्वञ्चाह स्नानमित्यादिना ।
एष्वशोधितवाप्यादिषु स्नानं कुर्वन् तेषां च जलैरन्यच्च कर्म कुर्वन् नरो दिनमेकं निराहारः सन् पञ्चामृताशनात् शुध्येत् ।
क्रियमाणं च कर्म वृथा भवेत् ॥ १६२ ॥
अथ दृष्टधनिकयाचकयुद्धपराङ्मुखवीरादिकस्य पुंसः प्रायश्चित्तमाह याचकमित्यादिश्लोकद्वयेन ।
याचकं भिक्षुकं धनिनं दृष्ट्वा तथा युद्धपराङ्मुखं रणविमुखं वीरं शूरं कुलधर्माणां दूषकं जनं कुलस्त्रियञ्च मद्यपां मित्रद्रोहकरं मर्त्यं स्वयं पापरतं बुधं पण्डितं च दृष्ट्वा सूर्यं पश्यन् विष्णुं स्मरन्नरः सचेलः सवस्त्रः स्नानमाचरेत् ॥ १६३ ॥ १६४ ॥
ननु गर्दभादीन् विक्रीणतां नीचवृत्तिं च कुर्वतां द्विजानां कथं शुद्धिस्तत्राह खरेत्यादिना ।
खरकुक्कृटकोलान् गर्दभचरणायुधशूकरान् विक्रीणन्तो नीचवृत्तिञ्चापि चरन्तः कुर्वन्तो द्विजातयो ब्राह्मणास्त्रिदिनव्रतात् शुध्येयुः ॥ १६५ ॥
दिनमेकं निराहारो द्वितीयं कणभोजनः ।
अपरन्तु नयेदद्भिस्त्रिदिनव्रतमम्बिके ॥ १६६ ॥
गृहेऽनुद्घाटितद्वारेऽनाहूतः प्रविशन्नरः ।
वारितार्थप्रवक्ताऽपि पञ्चाहमशनं त्यजेत् ॥ १६७ ॥
आगच्छतो गुरून् दृष्ट्वा नोत्तिष्ठेद्यो मदान्वितः ।
तथैव कुलशास्त्राणि शुध्येदेकोपवासतः ॥ १६८ ॥
एतस्मिन् शाम्भवे शास्त्रे व्यक्तार्थपदबृंहिते ।
कूटेनार्थं कल्पयन्तः पतिता यान्त्यधोगतिम् ॥ १६९ ॥
ननु किं त्रिदिनव्रतमत आह दिनमित्यादि ।
निराहारः सन् दिनमेकं नयेत् यापयेत् ।
कणभोजनः सन् द्वितीयं दिनं नयेत् ।
अपरन्तु तृतीयं दिनन्तु अद्भिर्जलैर्नयेत् ।
हे अम्बिके त्रिदिनव्रतमिदं स्मृतम् ॥ १६६ ॥
अथ पिहितद्वारागारेऽनाहूतस्यैव प्रविशतो वारितार्थं कथयतश्च प्रायश्चित्तमाह गृह इत्यादिना ।
अनुद्घाटितद्वारे रुद्धद्वारे गृहे अनाहूत एव प्रविशन्नरो वारितार्थप्रवक्ताऽपि वारितस्यार्थस्य प्रकथयितापि नरः पञ्चाहमशनं त्यजेत् ॥ १६७ ॥
अथागच्छतः पित्रादीन् कुलशास्त्राणि च समीक्ष्याऽनुत्तिष्ठतः पुंसः प्रायश्चित्तमाह आगच्छत इत्यादिना ।
आगच्छतो गुरून् पित्रादीन् तथैवागच्छन्ति कुलशास्त्राणि च दृष्ट्वा यो मदान्वितो नोत्तिष्ठेत् स एकोपवासतः शुध्येत् ।
मदान्वित इत्यनेन रोगादिनिमित्तकयाऽशक्त्याऽनुत्तिष्ठतस्तु न दोषभागित्वमिति ध्वनितम् ॥ १६८ ॥
अधुना शम्भुप्रोक्तेऽस्मिन् शास्त्रे शब्दव्याजेनाऽर्थान्तरं कल्पयतां पतितत्वमधोगामित्वञ्चाह एतस्मिन्नित्यादिना ।
व्यक्तार्थपदबृंहिते विस्पष्टार्थपदवर्धिते
इदं ते कथितं देवि सारात्सारं परात्परम् ।
इहामुत्रार्थदं धर्म्यं पावनं हितकारकम् ॥ १७० ॥
इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे स्वपरानिष्ठजनकपापप्रायश्चित्तकथनं नाम एकादशोल्लासः ।
शाम्भवे शम्भुप्रोक्ते एतस्मिन् शास्त्रे कूटेन शब्दव्याजेनार्थं कल्पयन्तो नराः पतिताः सन्तोऽधोगतिं यान्ति ।
मायानिश्चलयन्त्रेषु कैतवानृतराशिषु ।
अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् ॥
इत्यमरः ॥ १६९ ॥
प्रकरणार्थमुपसंहरन्नाह इदमित्यादिना ।
हे देवि सारात्सारं न्याय्यादपि न्याय्यं परात्परमुत्तमादप्युत्तमम् इहामुत्रार्थदमिहलोके परलोके च फलदं धर्म्यं धर्मादनपेतं पावनं पावित्र्यकारकं हितकारणमिदं ते तुभ्यं कथितम् ।
सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिष्वित्यमरः ।
अर्थोऽभिधेयरैवस्तु प्रयोजननिवृत्तिष्वित्यमरः ॥ १७० ॥
इति श्रीमहानिर्वाणतन्त्रटीकायाम् एकादशोल्लासः ।