दशमोल्लासः
श्रीदेव्युवाच ।
कुशण्डिकाविधिर्नाथ संस्काराश्च दश श्रुताः ।
वृद्धिश्राद्धविधिं देव कृपया मे प्रकाशय ॥ १ ॥
कस्मिन् कस्मिंश्च संस्कारे प्रतिष्ठासु च कास्वपि ।
कुशण्डिकाविधानञ्च वृद्धिश्राद्धञ्च शङ्कर ॥ २ ॥
कर्तव्यं वा न कर्तव्यं तन्ममाचक्ष्व तत्वतः ।
मत्प्रीतये महेशान जीवानां मङ्गलाय च ॥ ३ ॥
श्रीसदाशिव उवाच ।
जीवसेकाद्विवाहान्तदशसंस्कारकर्मसु ।
यत्र यद्विहितं भद्रे सविशेषं प्रकीर्तितम् ॥ ४ ॥
तदेव कार्यं मनुजैस्तत्वज्ञैर्हितमिच्छुभिः ।
अन्यत्र यद्विधातव्यं तच्छृणुष्व वरानने ॥ ५ ॥
ओ।
नमो ब्रह्मणे ।
कुशण्डिकाया जीवसेकादिविवाहान्तानां दशविधसंस्काराणाञ्च विधिं श्रुत्वेदानीं वृद्धिश्राद्धविधिं कुशण्डिकाया वृद्धिश्राद्धस्य च कस्मिन् कस्मिन् कर्मणि कार्यत्वमकार्यत्वं वा वर्तते तदपि श्रोतुमिच्छन्ती श्रीदेव्युवाच कुशण्डिकाविधिरित्यादि ॥
आचक्ष्व ब्रूहि ॥ १ ॥ २ ॥ ३ ॥
श्रीदेव्यैवं प्रार्थितः सन् श्रीसदाशिव उवाच जीवसेकादित्यादि ।
जीवसेकाज्जीवसेकमारभ्य ॥ ४ ॥ ५ ॥
वापीकूपतडागानां देवप्रतिकृतेस्तथा ।
गृहारामव्रतादीनां प्रतिष्ठाकर्मसु प्रिये ॥ ६ ॥
सर्वत्र पञ्चदेवानां मातॄणामपि पूजनम् ।
वसोर्धारा च कर्तव्या वृद्धिश्राद्धकुशण्डिके ॥ ७ ॥
स्त्रीणां विधेयकृत्येषु वृद्धिश्राद्धं न विद्यते ।
देवतापितृतृप्त्यर्थं भोज्यमेकं समुत्सृजेत् ॥ ८ ॥
देवमात्रार्चनं तत्र वसुधारा कुशण्डिका ।
भक्त्या स्त्रिया विधातव्या ऋत्विजा कमलानने ॥ ९ ॥
पुत्रश्च पौत्रो दौहित्रो ज्ञातयो भगिनीसुतः ।
जामातर्त्विग्दैवपित्रे शस्ताः प्रतिनिधौ शिवे ॥ १० ॥
वृद्धिश्राद्धं प्रवक्ष्यामि तत्त्वतः शृणु कालिके ॥ ११ ॥
कृत्वा नित्योदितं कर्म मानवः सुसमाहितः ।
गङ्गां यज्ञेश्वरं विष्णुं वास्त्वीशं भूपतिं यजेत् ॥ १२ ॥
वापीत्यादि ।
देवप्रतिकृतेः देवताप्रतिमायाः ॥ ६ ॥
पञ्चदेवानां ब्रह्मादीनाम् ।
मातॄणां गौर्यादीनाम् ॥ ७ ॥
स्त्रीणामित्यादि ।
स्त्रीणामिति कृत्यानां कर्तरि वेत्यनेन कर्तरि षष्ठी ।
समुत्सृजेत् स्त्रीति शेषः ॥ ८ ॥
तत्र स्त्रीभिर्विधेयेषु कर्मसु ।
ऋत्विजा आत्मप्रतिनिधिना पुरोहितेन ॥ ९ ॥
ननु पुरोहित एव प्रतिनिधिः प्रशस्तो भवति तदन्योऽपि वा कश्चित् तत्राह पुत्र इत्यादि ॥ १० ॥ ११ ॥
अथ वृद्धिश्राद्धविधिमाह कृत्वेत्यादिभिः ।
नित्योदितं कर्म कृत्वा पूर्वाभिमुखो मानवः सुसमाहितोऽतिसावधानः सन् प्रणवादिनमोऽन्तेन नाममन्त्रेण गन्धपुष्पादिभिर्गङ्गां यज्ञेश्वरं विष्णुं वास्त्वीशं भूपतिं भूमिस्वामिनं पुरुषञ्च क्रमतो यजेत् पूजयेत् ॥ १२ ॥
ततो दर्भमयान् विप्रान् कल्पयेत् प्रणवं स्मरन् ।
पञ्चभिर्नवभिर्वाऽपि सप्तभिस्त्रिभिरेव वा ॥ १३ ॥
निर्गर्भैश्च कुशैः साग्रैर्दक्षिणावर्तयोगतः ।
सार्द्धद्वयावर्तनेन ऊर्द्ध्वाग्रैरचयेद् द्विजान् ॥ १४ ॥
वृद्धिश्राद्धे पार्वणादौ षड्विप्राः परिकीर्तिताः ।
एकोद्दिष्टे तु कथित एक एव द्विजः शिवे ॥ १५ ॥
ततो विप्रान् कुशमयानेकस्मिन्नेव भाजने ।
कौबेराभिमुखान् कृत्वा स्नापयेदमुना सुधीः ॥ १६ ॥
ह्री।
शन्नो देवीरभीष्टये शन्नो भवन्तु पीतये ।
शंयोरभिस्रवन्तु नः ॥ १७ ॥
ततस्तु गन्धपुष्पाभ्यां पूजयेत् कुशभूसुरान् ॥ १८ ॥
तत इत्यादि ।
ततः परं प्रणवमोङ्कारं स्मरन् सन् मानवो दर्भमयान् विप्रान् कल्पयेत् रचयेत् ।
दर्भमयब्राह्मणनिर्माणविधानमाह पञ्चभिरित्यादिना सार्द्धेन ।
निर्गर्भैर्गर्भशून्यैः साग्रैरग्रसहितैरूर्द्धाग्रैर्नवभिः सप्तभिः पञ्चभिस्त्रिभिरेव वा कुशैर्दक्षिणावर्तयोगतः सार्द्धद्वयावर्तनेन द्विजान् विप्रान् रचयेत् ॥ १३ ॥ १४ ॥
ननु कति दर्भमया ब्राह्मणाः कल्पयितव्या इत्यपेक्षायामाह वृद्धिश्राद्धे इत्यादि ॥ १५ ॥
तत इत्यादि ।
ततः परं सुधीर्वृद्धिश्राद्धकर्ता एकस्मिन्नेव भाजने पात्रे कुशमयान् विप्रान् कौबेराभिमुखानुत्तरमुखान् कृत्वाऽमुना वक्ष्यमाणेन मन्त्रेण स्नापयेत् ॥ १६ ॥
कुशमयब्राह्मणस्नापनार्थं मन्त्रमेवाह ।
ह्री।
शन्न इत्याद्यम् ॥ १७ ॥
ततस्त्वित्यादि ।
ततस्तु प्रणवादिनमोऽन्तेन नाममन्त्रेण गन्धपुष्पाभ्यां कुशभूसुरान् कुशमयब्राह्मणान् पूजयेत् ॥ १८ ॥
पश्चिमे दक्षिणे चैव युग्मयुग्मक्रमात् सुधीः ।
षट्पात्राणि सदर्भाणि स्थापयेत्तुलसीतिलैः ॥ १९ ॥
पात्रद्वये पश्चिमायां याम्ये पात्रचतुष्टये ।
पूर्वास्यावुत्तरमुखान् षड्विप्रानुपवेशयेत् ॥ २० ॥
दैवपक्षं पश्चिमायां दक्षिणे वामयाम्ययोः ।
पितुर्मातामहस्यापि पक्षौ द्वौ विद्धि पार्वति ॥ २१ ॥
नान्दीमुखाश्च पितरो नान्दीमुख्यश्च मातरः ।
मातामहादयोऽप्येवं मातामह्यादयोऽपि च ।
श्राद्धे नाम्न्याभ्युदयिके समुल्लेख्या वरानने ॥ २२ ॥
पश्चिमे इत्यादि ।
ततस्तु सुधीः कर्मसाधकः पश्चिमे दक्षिणे चैव युग्म युग्मक्रमात् सदर्भाणि कुशसहितानि तुलसीतिलैश्च युक्तानि षट्पात्राणि स्थापयेत् ॥ १९ ॥
पात्रद्वये इत्यादि ।
ततः पश्चिमायां दिशि स्थापिते पात्रद्वये याम्ये दक्षिणे स्थापिते पात्रचतुष्टये च क्रमतः पूर्वास्यौ पूर्वमुखौ उत्तरमुखांश्च कुशमयान् षड्विप्रानुपवेशयेत् ॥ २० ॥
दैवपक्षमित्यादि ।
हे पार्वति पश्चिमायां दिशि दैवं पक्षं त्वं विद्धि जानीहि ।
दक्षिणे तु वामयाम्ययोर्वामभागे दक्षिणभागे च क्रमतः पितुर्मातामहस्यापि द्वौ पक्षौ विद्धि ॥ २१ ॥
नान्दीमुखाश्चेत्यादि ।
हे वरानने देवि आभ्युदयिके नाम्नि श्राद्धे पितरः पित्रादयो नान्दीमुखा मातरो मात्रादयश्च नान्दीमुख्यः समुल्लेख्याः समुच्चार्याः ।
एवं मातामहादयोऽपि नान्दीमुखाः मातामह्यादयोऽपि नान्दीमुख्यः समुल्लेख्याः ॥ २२ ॥
दक्षावर्तेनोत्तरास्यो दैवं कर्म समाचरेत् ।
वामावर्तेन दक्षारयः पितृकर्माणि साधयेत् ॥ २३ ॥
सर्वं कर्म प्रकुर्वीत दैवादिक्रमतः शिवे ।
लङ्घनान्मातृमातॄणां श्राद्धं तद्विफलं भवेत् ॥ २४ ॥
कौबेराभिमुखोऽनुज्ञावाक्यं दैवे प्रकल्पयेत् ।
याम्यास्यः कल्पयेद्वाक्यं पित्र्ये मातामहेऽपि च ।
तत्रादौ दैवपक्षे तु वाक्यं शृणु शुचिस्मिते ॥ २५ ॥
कालादीनि निमित्तानि समुल्लिख्य ततः परम् ।
तत्तत्कर्माभ्युदयार्थमुक्त्वा साधकसत्तमः ॥ २६ ॥
दक्षावर्तेनेत्यादि ।
दक्षिणावर्तेनोत्तरास्य उत्तरमुखः सन् दैवं कर्म समाचरेत् कुर्यात् ।
वामावर्तेन दक्षास्यो दक्षिणमुखः सन् पितृकर्माणि साधयेत् ॥ २३ ॥
सर्वमित्यादि ।
हे शिवे दैवादिक्रमत एव सर्वं कर्म प्रकुर्वीत ।
ननु पितृकर्मसाधनाय दक्षिणावर्तेनैव दक्षिणामुखभवने को दोषस्तत्राह लङ्घनादित्यादि ।
मातृमातॄणां मातुर्मात्रादीनां लङ्घनात्तच्छ्राद्धं विफलं भवेत् ।
मातृमातॄणामिति मातुः पित्रादीनामप्युपलक्षणम् ॥ २४ ॥
कौबेरेत्यादि ।
कौबेराभिमुखो उत्तराभिमुखो भूत्वा दैवपक्षेऽनुज्ञावाक्यं कल्पयेत् रचयेत् ।
याम्यास्यो दक्षिणमुखो भूत्वा पित्र्ये पक्षे मातामहे अपि पक्षे अनुज्ञावाक्यं कल्पयेत् ॥ २५ ॥
दैवपक्षे प्रकल्पनीयं यदनुज्ञावाक्यं तदेवाह कालादीनीत्यादिभिः ।
प्रथमतः कालादीनि निमित्तानि समुल्लिख्य ततः परं तत्तत्कर्माभ्युदयार्थमुक्त्वा साधकसत्तमो गोत्रनामोच्चारणपूर्वकं पित्रादीनां त्रयाणां मात्रादीनामपि तिसॄणां तथैव मातामहादीनां त्रयाणां मातामह्यादीनामपि तिसॄणां षष्ठ्यन्तं नाम कीर्तयेत् ।
ततो विश्वेषां देवानां चेति पदमुदीरयेदुच्चारयेत् ।
ततः श्राद्धपदमुदीरयेत् ।
पित्रादीनां त्रयाणां तु मात्रादीनां तथैव च ।
मातामहानां च मातामह्यादीनामपि प्रिये ॥ २७ ॥
ष।
ष्ठ्यन्तं कीर्तयेन्नाम गोत्रोच्चारणपूर्वकम् ।
विश्वेषाञ्चैव देवानां श्राद्धं पदमुदीरयेत् ॥ २८ ॥
कुशनिर्मितयोः पश्चात् विप्रयोरहमित्यपि ।
करिष्ये परमेशानीत्यनुज्ञावाक्यमीरितम् ॥ २९ ॥
विश्वान् देवान् परित्यज्य पितृपक्षे तु पार्वति ।
तथा मातामहस्यापि पक्षेऽनुज्ञा प्रकीर्तिता ॥ ३० ॥
पश्चात् कुशनिर्मितयोर्विप्रयोरहमित्यप्युदीरयेत् ।
ततः करिष्ये इत्युदीरयेत् ।
सकलपदयोजनया विष्णुरो।
तत्सत् ओ।
अद्यामुकमास्यमुकपक्षेऽमुकतिथावमुककर्माभ्युदयार्थम मुकगोत्राणां नान्दीमुखानां पितृपितामहप्रपितामहानाममुकामुकामुकदेवशर्मणाममु कगोत्राणां नान्दीमुखीनां मातृपितामहीप्रपितामहीनाममुक्यमुक्यमुकीनां देवीनां च अमुकगोत्राणां नान्दीमुखानां मातामहप्रमातामहवृद्धप्रमातामहानाममुकामुकामुक् अदेवशर्मणां च अमुकगोत्राणां नान्दीमुखीनां मातामहीप्रमातामहीवृद्धप्रमातामहीनाममुक्यमुक्य- मुकीनां देवीनां च विश्वेषां देवानामाभ्युदयिकं श्राद्धं कुशनिर्मितयोर्विप्रयोरहं करिष्ये इति वाक्यं जातम् ।
हे परमेशानि दैवपक्षे इत्येतदेवानुज्ञावाक्यमीरितं कथितम् ॥ २६ � २९ ॥
पितृपक्षे मातामहपक्षे च यदनुज्ञावाक्यं प्रकल्पनीयं तदाह विश्वानित्यादिना ।
हे पार्वति पितृपक्षे तथा मातामहस्यापि पक्षे विश्वान् देवान् परित्यज्यानुज्ञा प्रकीर्तिताऽनुज्ञावाक्यं कथितम् ।
पितृपक्षेऽनुज्ञावाक्यं यथा ओ।
अद्य अमुके मास्यमुकपक्षेऽमुकतिथावमुककर्माभ्युदयार्थममुकगोत्रा णां नान्दीमुखानां पितृपितामहप्रपितामहानाममुकामुकामुकदेवशर्मणाम् अमुकगोत्राणां नान्दीमुखीनां मातृपितामहीप्रपितामहीनाममुक्यमुक्यमुकीनां देवीनां चाप्याभ्युदयिकं श्राद्धं कुशनिर्मितयोर्विप्रयोरहं करिष्ये इति ।
मातामहपक्षेऽप्येवमेवानुज्ञावाक्यं प्रकल्पनीयम् ॥ ३० ॥
ततो जपेद्ब्रह्मविद्यां गायत्रीं दशधा शिवे ॥ ३१ ॥
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमोऽस्तु पुष्ट्यै स्वाहायै नित्यमेव भवन्त्विति ॥ ३२ ॥
पठित्वैनं त्रिधा हस्ते जलमादाय सत्तमः ।
व।
हू।
फडिति मन्त्रेण श्राद्धद्रव्याणि शोधयेत् ॥ ३३ ॥
आग्नेय्यां पात्रमेकन्तु संस्थाप्य कुलनायिके ।
रक्षोघ्नममृतं प्रोच्य यज्ञरक्षां कुरुष्व मे ।
इत्युक्त्वा भाजने तस्मिंस्तुलसीदलसंयुतम् ॥ ३४ ॥
निधाय सलिलं देवि देवादिक्रमतः सुधीः ।
विप्रेभ्यो जलगण्डूषं दत्वा दद्यात् कुशासनम् ॥ ३५ ॥
ततः अनुज्ञावाक्यकल्पनादनन्तरम् ॥ ३१ ॥ ३२ ॥
पठित्वैनमित्यादि ।
एनं देवताभ्य इत्याद्यं भवन्त्वितीत्यन्तं मन्त्रं त्रिधा त्रिवारं पठित्वा ततः सत्तमः श्राद्धकर्ता हस्ते जलमादाय व।
हू।
फडिति मन्त्रेण श्राद्धद्रव्याणि शोधयेत् ॥ ३३ ॥
आग्नेय्यामित्यादि ।
तत आग्नेय्यां दिश्येकं पात्रं संस्थाप्य प्रथमतो रक्षोघ्नममृतं प्रोच्य ततो मे यज्ञरक्षां कुरुष्वेति वदेत् ।
योजनया रक्षोघ्नममृतमसि मम यज्ञरक्षां कुरुष्वेति मन्त्रो जातः ।
इतीमं मन्त्रमुक्त्वा तस्मिन्नाग्नेय्यां दिशि संस्थापिते भाजने तुलसीयवसंयुतं सलिलं जलं निधाय संस्थाप्य ततः सुधीः श्राद्धकर्ता दैवादिक्रमतः कुशमयेभ्यो विप्रेभ्यो जलगण्डूषं दत्त्वा विश्वेदेवा इदमासनं वो नम इति वाक्येन विश्वेभ्यो देवेभ्योऽमुकगोत्र नान्दीमुख पितरमुकदेवशर्मन् अमुकगोत्र नान्दीमुख पितामहामुकदेवशर्मन्नमुकगोत्र नान्दीमुख प्रपितामहामुकदेवशर्मन्निदमासनं वः स्वधेति वाक्येन पित्रादिभ्योऽमुकगोत्रे नान्दीमुखि मातरमुकि देवि अमुकगोत्रे नान्दीमुखि पितामहि अमुकि देवि
तत आवाहयेद्विद्वान् विश्वान् देवान् पितॄंस्तथा ।
मातॄर्मातामहांश्चापि तथा मातामहीः शिवे ॥ ३६ ॥
आवाह्य पूजयेदादौ विश्वान् देवांस्ततो यजेत् ।
पितृत्रयं तथा मातृत्रयं मातामहत्रयम् ॥ ३७ ॥
अमुकगोत्रे नान्दीमुखि प्रपितामहि अमुकि देवि इदमासनं वः स्वधेति वाक्येन मात्रादिभ्योऽमुकगोत्र नान्दीमुख मातामहामुकदेवशर्मन्नमुकगोत्र नान्दीमुख प्रमातामहामुकदेवशर्मन्नमुकगोत्र नान्दीमुख वृद्धप्रमातामहामुकदेवशर्मन्निदमासनं वः स्वधेति वाक्येन मातामहादिभ्योऽमुकगोत्रे नान्दीमुखि मातामह्यमुकि देवि अमुकगोत्रे नान्दीमुखि प्रमातामह्यमुकि देवि अमुकगोत्रे नान्दीमुखि वृद्धप्रमातामह्यमुकि देवि इदमासनं वः स्वधेति वाक्येन मातामह्यादिभ्योऽपि कुशासनं दद्यात् ॥ ३४ ॥ ३५ ॥
तत इत्यादि ।
ततो विद्वान् श्राद्धकर्ता विश्वेदेवा इहागच्छतेह तिष्ठतेह सन्निधत्त मम पूजां गृह्णीतेति वाक्येन विश्वान् देवान् अमुकगोत्रा नान्दीमुखाः पितृपितामहप्रपितामहा अमुकामुकदेवशर्माणः इहागच्छतेह तिष्ठतेह सन्निधत्त मम पूजां गृह्णीतेति वाक्येन पितॄन् पित्रादीन् तथा अमुकगोत्रा नान्दीमुख्यो मातृपितामहीप्रपितामह्योऽमुक्यमुक्यमुक्यो देव्य इहागच्छतेह तिष्ठतेह सन्निधत्त मम पूजां गृह्णीतेति वाक्येन मातॄर्मात्रादीरपि अमुकगोत्रा नान्दीमुखा मातामहप्रमातामहवृद्धप्रमातामहा अमुकामुकामुकदेवशर्माण इहागच्छतेह तिष्ठतेह सन्निधत्त मम पूजां गृह्णीतेति वाक्येन मातामहान् मातामहादीनपि अमुकगोत्रा नान्दीमुख्यो मातामहीप्रमातामहीवृद्धप्रमातामह्योऽमुक्यमुक्यमुक्यो देव्य इहागच्छतेह तिष्ठतेह सन्निधत्त मम पूजां गृह्णीतेति वाक्येन मातामहीर्मातामह्यादीश्चापि कुशासने आवाह्येत् ॥ ३६ ॥
आवाह्येत्यादि ।
एवं विश्वेदेवादीनावाह्य विश्वेदेवा एतानि पाद्यार्घ्याचमनादीनि वो नम इति वाक्येन पाद्यार्घ्याचमनादिभिर्धूपैर्दीपैर्वासोभिश्चाप्यादौ
मातामहीत्रयं चापि पाद्यार्घ्याचमनादिभिः ।
धूपैर्दीपैश्च वासोभिः पूजयित्वा वरानने ।
पात्राणां पातनप्रश्नं कुर्याद्दैवक्रमात् शिवे ॥ ३८ ॥
मण्डलं रचयेदेकं मायया चतुरस्रकम् ।
द्वे द्वे च मण्डले कुर्यात् तद्वत्पक्षद्वयोरपि ॥ ३९ ॥
वारुणप्रोक्षितेष्वेषु पात्राण्यासाद्य साधकः ।
तेन क्षालितपात्रेषु सर्वोपकरणैः सह ।
पानार्थपाथसान्नानि क्रमेण परिवेशयेत् ॥ ४० ॥
विश्वान् देवान् पूजयेत् ।
ततः ओ।
अद्यामुकगोत्रा नान्दीमुखाः पितृपितामहप्रपितामहा अमुकामुकामुकदेवशर्माण एतानि गन्धपुष्पधूपदीपादीनि वः स्वधेति वाक्येन पितृत्रयं तथैवामुकगोत्रा नान्दीमुख्यो मातृपितामहीप्रपितामह्योऽमुक्यमुक्यमुक्यो देव्य एतानि पाद्यादीनि वः स्वधेति वाक्येन मातृत्रयं तथैव प्रकल्पितेन वाक्येन मातामहत्रयं तथैव कल्पितवाक्येन मातामहीत्रयं चापि क्रमतः पाद्यादिभिर्यजेत् पूजयेत् ।
हे वरानने शिवे एवं विश्वदेवादीन् पूजयित्वा ततो दैवक्रमात् देवपक्षादिक्रमतः पात्राणि पातयिष्ये इति पात्राणां पातनप्रश्नं ब्राह्मणं प्रति कुर्यात् ॥ ३७ ॥ ३८ ॥
मण्डलमित्यादि ।
ततः ओ।
पातयेति ब्राह्मणात्तदुत्तरं प्राप्य दैवपक्षे मायया ह्री।
बीजेन चतुरस्रकं चतुष्कोणमेकं मण्डलं रचयेत् ।
पक्षद्वयोरपि पितृपक्षमातामहपक्षयोरपि तद्वत् ह्री।
बीजेन चतुष्कोणे द्वे द्वे मण्डले कुर्यात् ॥ ३९ ॥
वारुणेत्यादि ।
ततः साधको जनो वारुणप्रोक्षितेषु वमिति बीजेनाभिषिक्तेष्वेषु मण्डलेषु क्रमतः पात्राण्यासाद्य संस्थाप्य तेन वमिति बीजेन क्षालितेषु पात्रेषु सर्वैरुपकरणैः पानार्थपाथसा पानार्थेन जलेन च सहान्नानि क्रमेण दैवादिक्रमतः परिवेशयेत् ॥ ४० ॥
ततो मधुयवान् दत्वा ह्रा।
ह्रू।
फडिति मन्त्रकैः ।
सम्प्रोक्ष्यान्नानि सर्वाणि विश्वान् देवांस्तथा पितॄन् ॥ ४१ ॥
मातॄर्मातामहान् मातामहीरुल्लिख्य तत्त्ववित् ।
निवेद्य देवीं गायत्रीं देवताभ्यस्त्रिधा पठेत् ॥ ४२ ॥
शेषान्नपिण्डयोः प्रश्नौ कुर्यादाद्ये ततः परम् ॥ ४३ ॥
तत इत्यादि ।
ततः परमन्नेषु मधुयवान् दत्त्वा ह्रा।
ह्रू।
फडिति मन्त्रकैः सर्वाण्यन्नानि सम्प्रोक्ष्याभिषिच्य तत्त्ववित् जनो विश्वान् देवान् तथा पितॄन् पित्रादीन् तथा मातॄर्मात्रादींस्तथा मातामहान्मातामहादीन् तथा मातामहीर्मातामह्यादीरप्युल्लिख्योच्चार्य विश्वदेवादिभ्यः सर्वाण्यन्नानि निवेद्य विश्वेदेवाः पानार्थोदकमधुयवसर्वोपकरणसहितमेतदन्नं वो नम इति वाक्येन विश्वेभ्यो देवेभ्योऽमुकगोत्रा नान्दीमुखाः पितृपितामहप्रपितामहा अमुकामुकामुकदेवशर्माणः पानार्थोदकमधुयवसर्वोपकरणान्वितमेतदन्नं वःस्वधेति वाक्येन पित्रादिभ्योऽमुकगोत्रा नान्दीमुख्यो मातृपितामहीप्रपितामह्योऽमुक्यमुक्यमुक्यो देव्यः पानार्थोदकमधुयवसर्वोपकरणान्वितमेतदन्नं वःस्वधेति वाक्येन मात्रादिभ्योऽमुकगोत्रा नान्दीमुखा मातामहप्रमातामहवृद्धप्रमातामहा अमुकामुकामुकदेवशर्माण एतत् पानार्थोदकमधुयवसर्वोपकरणान्वितमन्नं वःस्वधेति वाक्येन मात्रादिभ्योऽमुकगोत्रा नान्दीमुख्यो मातामहीप्रमातामहीवृद्धप्रमातामह्योऽमुक्यमुक्यमुक्यो देव्यः पानार्थोदकमधुयवसर्वोपकरणान्वितमेतदन्नं वःस्वधेति वाक्येन मातामह्यादिभ्योऽपिसोपकरणान्यन्नानि क्रमेण दत्त्वा गायत्रीं देवीं दशधा पठेत् ।
ततो देवताभ्य इत्याद्यं भवन्त्वितीत्यन्तं मन्त्रं त्रिधा पठेत् हे आद्ये ततः परं शेषान्नमस्ति क्व देयमिति पिण्डदानं करिष्ये इति च शेषान्नपिण्डयोः प्रश्नौ विप्रं प्रति कुर्यात् ॥ ४१ � ४३ ॥
दत्तशेषैरक्षताद्यैर्मालूरफलसन्निभान् ।
द्विजात् प्राप्तोत्तरः पिण्डान् रचयेद्द्वादश प्रिये ॥ ४४ ॥
अन्यं तु कल्पयेदेकं पिण्डं तत्सममम्बिके ।
आस्तरेन्नैरृते दर्भान् मण्डले यवसंयुतान् ॥ ४५ ॥
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः ।
अग्निदग्धाश्च ये केऽपि व्यालव्याघ्रहताश्च ये ॥ ४६ ॥
ये बान्धवाबान्धवा वा येऽन्यजन्मनि बान्धवाः ।
मद्दत्तपिण्डतोयाभ्यां ते यान्तु तृप्तिमक्षयाम् ॥ ४७ ॥
दत्त्वा पिण्डमपिण्डेभ्यो मन्त्राभ्यां सुरवन्दिते ।
प्रक्षाल्य हस्तावाचान्तः सावित्रीं प्रजपंस्ततः ।
देवताभ्यस्त्रिधा जप्त्वा मण्डलानि प्रकल्पयेत् ॥ ४८ ॥
दत्तशेषैरित्यादि ।
ततः परं द्विजात् इष्टेभ्यो दीयतामिति ओ।
कुरुष्वेति प्राप्तोत्तरः सन् दत्तशेषैर्दत्तेभ्योऽवशिष्टैरक्षताद्यैर्मालूरफलसन्निभान् विल्वफलतुल्यान् द्वादश पिण्डान् रचयेत् ॥ ४४ ॥
अन्यन्त्वित्यादि ।
ततस्तेभ्योऽन्यमपि तत्समं बिल्वफलतुल्यमेकं पिण्डं कल्पयेत् ।
ततो नैरृते कोणे कल्पिते चतुष्कोणमण्डले यवसंयुतान् दर्भान् कुशानास्तरेदाच्छादयेत् ॥ ४५ ॥
दत्त्वेत्यादि ।
हे सुरवन्दिते ये मे कुले इत्यादिभ्यां ते यान्तु तृप्तिमक्षयामित्यन्ताभ्यां द्वाभ्यां मन्त्राभ्यामपिण्डेभ्यः पिण्डहीनेभ्यो नैरृतकोणे कल्पिते चतुष्कोणे मण्डले आच्छादितेषु दर्भेषु पूर्वरचितद्वादशपिण्डातिरिक्तं पश्चाद्रचितं त्रयोदशं पिण्डं दत्त्वा हस्तौ प्रक्षाल्य तत आचान्तः कृताचमनः सन् सावित्रीं गायत्रीं द्वादशधा प्रजपन् देवताभ्य इति मन्त्रं त्रिधा जप्त्वा मण्डलानि प्रकल्पयेत् ॥ ४६ � ४८ ॥
उच्छिष्टपात्रपुरतः पूर्वोक्तविधिना बुधः ।
द्वे द्वे च मण्डले देवि रचयेत् पितृतः क्रमात् ॥ ४९ ॥
पूर्वमन्त्रेण सम्प्रोक्ष्य कुशांस्तेष्वास्तरेत् कृती ।
अभ्युक्ष्य वायुना दर्भान् पितृदर्भक्रमात् शिवे ।
ऊर्द्ध्वे मूले च मध्ये च त्रींस्त्रीन् पिण्डान्निवेदयेत् ॥ ५० ॥
आमन्त्रणेन प्रत्येकं नामोच्चार्य महेश्वरि ।
स्वधया वितरेत् पिण्डं यवमाध्वीकसंयुतम् ॥ ५१ ॥
ननु केन विधिना कुत्र स्थाने कियन्ति वा मण्डलानि कल्पयितव्यानीत्याकाङ्क्षायामाह उच्छिष्टेत्यादि ।
हे देवि बुधः प्राज्ञः श्राद्धकर्ता पूर्वोक्तेन विधिना पितृतः क्रमादुच्छिष्टपात्राणां पुरतो द्वे द्वे चतुष्कोणे मण्डले रचयेत् ॥ ४९ ॥
पूर्वमन्त्रेणेत्यादि ।
हे शिवे ततो वमिति बीजरूपेण पूर्वमन्त्रेण मण्डलानि सम्प्रोक्ष्याऽभिषिच्य कृती विचक्षणः श्राद्धकर्ता तेषु मण्डलेषु कुशानास्तरेत् ।
ततो वायुना यमिति बीजेन दर्भानभ्युक्ष्याऽभिषिच्य पितृदर्भक्रमात् दर्भाणां मूले मध्ये चोर्द्ध्वे च पित्रादिभ्यो मात्रादिभ्यो मातामहादिभ्यो मातामह्यादिभ्यश्च क्रमेणैव त्रींस्त्रीन् पिण्डान्निवेदयेत् दद्यात् ॥ ५० ॥
ननु केन केन वाक्येन पित्रादिभ्यः पिण्डा निवेदयितव्या इत्यपेक्षायामाह आमन्त्रणेनेत्यादि ।
हे महेश्वरि आमन्त्रणेन सम्बोधनविभक्त्या विशिष्टं पित्रादीनां प्रत्येकं नामोच्चार्य स्वधया यवमाध्वीकसंयुतं मधुयवाभ्यां संयुक्तं पिण्डं वितरेत् ।
अमुकगोत्र नान्दीमुख पितरमुकदेवशर्मन्नेष मधुयवयुतः पिण्डस्ते स्वधेति वाक्येन दर्भमूले पित्रे अमुकगोत्र नान्दीमुख पितामह अमुकदेवशर्मन्नेष मधुयवयुतः पिण्डस्ते स्वधेति वाक्येन दर्भमध्ये पितामहाय अमुकगोत्र नान्दीमुख प्रपितामह अमुकदेवशर्मन्नेष मधुयवयुतः पिण्डस्ते स्वधेति वाक्येन दर्भोर्द्ध्वे भागे प्रपितामहायाऽमुकगोत्रे
पिण्डान्ते पिण्डशेषञ्च विकीर्य लेपभाजिनः ।
प्रीणयेत् करलेपेन नैकोद्दिष्टेष्वयं विधिः ॥ ५२ ॥
देवतापितृतृप्त्यर्थं सावित्रीं दशधा जपेत् ।
देवताभ्यस्त्रिधा जप्त्वा पिण्डान् सम्पूजयेत्ततः ॥ ५३ ॥
गोत्रे नान्दीमुखि मातरमुकि देवि मधुयवयुत एष पिण्डस्ते स्वधेति वाक्येन दर्भमूले मात्रे अमुकगोत्रे नान्दीमुखि पितामह्यमुकि देवि मधुयवयुत एष पिण्डस्ते स्वधेति वाक्येन दर्भमध्ये पितामह्यै अमुकगोत्रे नान्दीमुखि प्रपितामह्यमुकि देवि मधुयवयुत एष पिण्डस्ते स्वधेति वाक्येन दर्भाग्रे प्रपितामह्यै अमुकगोत्र नान्दीमुख मातामहामुकदेवशर्मन्नेष मधुयवयुतः पिण्डस्ते स्वधेत्यनेन वाक्येन दर्भमूले मातामहाय अमुकगोत्र नान्दीमुख प्रमातामह अमुकदेवशर्मन्नेष मधुयवयुतः पिण्डस्ते स्वधेत्यनेन वाक्येन दर्भमध्ये प्रमातामहाय अमुकगोत्र नान्दीमुख वृद्धप्रमातामह अमुकदेवशर्मन्नेष मधुयवयुतः पिण्डस्ते स्वधेत्यनेन दर्भाग्रे वृद्धप्रमातामहाय अमुकगोत्रे नान्दीमुखि मातामह्यमुकि देवि मधुयवयुत एष पिण्डस्ते स्वधेत्यनेन दर्भमूले मातामह्यै अमुकगोत्रे नान्दीमुखि प्रमातामह्यमुकि देवि मधुयवयुत एष पिण्डस्ते स्वधेत्यनेन दभमध्ये प्रमातामह्यै अमुकगोत्रे नान्दीमुखि वृद्धप्रमातामह्यमुकि देवि मधुयवयुत एष पिण्डस्ते स्वधेति वाक्येन दर्भाग्रे वृद्धप्रमातामह्यै च पिण्डं दद्यादित्यर्थः ॥ ५१ ॥
पिण्डान्ते इत्यादि ।
पिण्डान्ते पिण्डप्रदानान्ते पिण्डानभितः पिण्डशेषं विकीर्य विक्षिप्य ओ।
लेपभुजः पितरः प्रीयन्तामिति वाक्येन करलेपेन हस्तलग्नेनान्नेन लेपभाजिनश्चतुर्थाद्यान् पितॄन् प्रीणयेत् ।
एकोद्दिष्टेष्वयं विधिर्लेपभाजिपितृप्रीणनविधिर्नास्ति ॥ ५२ ॥
देवतेत्यादि ।
ततो देवतापितृतृप्त्यर्थं सावित्रीं गायत्रीं दशधा जपेत् ।
ततो देवताभ्य इति मन्त्रं त्रिधा जप्त्वा ततो गन्धपुष्पाभ्यां पिण्डान् सम्पूजयेत् ॥ ५३ ॥
प्रज्वाल्य धूपं दीपं च निमील्य नयनद्वयम् ।
दिव्यदेहधरान् पितॄनश्नतः कव्यमध्वरे ।
विभाव्य प्रणमेद्धीमानिमं मन्त्रमुदीरयन् ॥ ५४ ॥
पिता मे परमो धर्मः पिता मे परमं तपः ।
स्वर्गः पिता मे तत्तृप्तौ तृप्तमस्त्यखिलं जगत् ॥ ५५ ॥
ततो निर्माल्यमादाय प्रार्थयेदाशिषः पितॄन् ॥ ५६ ॥
आशिषो मे प्रदीयन्तां पितरः करुणामयाः ।
वेदाः सन्ततयो नित्यं वर्द्धन्तां बान्धवा मम ॥ ५७ ॥
पातारो मे विवर्द्धन्तां बहून्यन्नानि सन्तु मे ।
याचितारः सदा सन्तु मा च याचामि कञ्चन ॥ ५८ ॥
दैवादितो द्विजान् पिण्डान् विसृजेत्तदनन्तरम् ।
तथैव दक्षिणां कुर्यात् पक्षेषु त्रिषु तत्त्ववित् ॥ ५९ ॥
प्रज्वाल्येत्यादि ।
ततो धूपं दीपं च प्रज्वाल्य नयनद्वयं निमील्य दिव्यदेहधरान् अध्वरे यज्ञे कव्यं पित्र्यमन्नम् अश्नतः खादतः पितॄन् विभाव्य विचिन्त्येमं वक्ष्यमाणं मन्त्रमुदीरयन् कीर्तयन् धीमान् जनस्तान् प्रणमेत् ॥ ५४ ॥
तमेव मन्त्रमाह पिता मे इत्याद्यम् ॥ ५५ ॥
तत इत्यादि ।
ततः परं निर्माल्यं पुष्पाद्यादाय गृहीत्वा आशिषो मे प्रदीयन्तामित्याद्यं मा च याचामि कञ्चनेत्यन्तं मन्त्रद्वयमुदीरयन् कर्मसाधकः पितॄनाशिषः कामान् प्रार्थयेत् याचेत् ॥ ५६ � ५८ ॥
दैवादित इत्यादि ।
तदनन्तरं दैवादितो दैवपक्षादिक्रमतो ब्रह्मन् क्षमस्वेति पिण्ड गयां गच्छेति च वाक्यमुच्चरन् तत्त्ववित् साधको दर्भमयान् द्विजान् पिण्डांश्च विसृजेत् ।
तथैव दैवादिक्रमेणैव त्रिष्वपि पक्षेषु ओ।
तत्सत्
गायत्रीं दशधा जप्त्वा देवताभ्योऽपि पञ्चधा ।
दृष्ट्वा वह्निं रविं विप्रमिदं पृच्छेत् कृताञ्जलिः ॥ ६० ॥
इदं श्राद्धं समुच्चार्य साङ्गं जातमुदीरयेत् ।
द्विजो वदेत् सम्यगेव साङ्गं जातं विधानतः ॥ ६१ ॥
अङ्गवैगुण्यशान्त्यर्थं प्रणवं दशधा जपन् ।
अच्छिद्राभिविधानेन कुर्यात् कर्मसमापनम् ।
पात्रीयान्नानि पिण्डांश्च ब्राह्मणाय निवेदयेत् ॥ ६२ ॥
विप्राभावे गवाजेभ्यः सलिले वा विनिःक्षिपेत् ।
वृद्धिश्राद्धमिदं प्रोक्तं नित्यसंस्कारकर्मणि ॥ ६३ ॥
श्राद्धे पर्वणि कर्तव्ये पार्वणत्वेन कीर्तयेत् ॥ ६४ ॥
अद्येत्यादि कृतैतदाभ्युदयिकश्राद्धप्रतिष्ठार्थं हिरण्यादिकममुकगोत्रायामुकदेवशर्मणे ब्राह्मणाय दक्षिणां दातुमहमुत्सृजे इति वाक्येन यथाशक्ति हिरण्यादिकं दक्षिणां कुर्यात् ॥ ५९ ॥
गायत्रीमित्यादि ।
ततो गायत्रीं दशधा जप्त्वा देवताभ्य इति मन्त्रमपि पञ्चधा जप्त्वा वह्निं रविं च दृष्ट्वा कृताञ्चलिः सन् विप्रमिदं पृच्छेत् ॥ ६० ॥
विप्रं प्रति किं पृच्छेदित्यपेक्षायामाह इदमित्यादि ।
इदं श्राद्धं समुच्चार्य साङ्गं जातमित्युदीरयेत् ।
योजनया इदं श्राद्धं साङ्गं जातमित्येव विप्रं पृच्छेत् ।
ततो विधानतः सम्यगेव साङ्गं जातमिति द्विजो वदेत् ॥ ६१ ॥
अच्छिद्राभिविधानेन कृतमेतच्छ्राद्धकर्माऽच्छिद्रमस्त्विति वाक्येन ॥ ६२ ॥ ६३ ॥
एवमाभ्युदयिकश्राद्धविधिमुक्त्वेदानीं सविशेषेण तेनैव विधिना पार्वणादिकमपि श्राद्धं विधातव्यमित्याह श्राद्धे इत्यादिभिः ।
पर्वण्यमावास्यादौ कर्तव्ये श्राद्धे कल्पनीयेष्वनुज्ञावाक्येषु पार्वणत्वेन श्राद्धं कीर्तयेदुच्चारयेत् ॥ ६४ ॥
देवतादिप्रतिष्ठासु तीर्थयात्राप्रवेशयोः ।
पार्वणेन विधानेन श्राद्धमेतदुदीरयेत् ॥ ६५ ॥
नैतेषु श्राद्धकृत्येषु पितॄन्नान्दीमुखान् वदेत् ।
नमोऽन्तपुष्ट्यायित्यत्र स्वधायै पदमुच्चरेत् ॥ ६६ ॥
पित्रादित्रयमध्ये तु यो जीवति वरानने ।
तस्योर्द्ध्वतनमुल्लिख्य श्राद्धं कुर्याद्विचक्षणः ॥ ६७ ॥
जनकादिषु जीवत्सु त्रिषु श्राद्धं विवर्जयेत् ।
तेषु प्रीतेषु देवेशि श्राद्धयज्ञफलं लभेत् ॥ ६८ ॥
जीवत्पितरि कल्याणि नान्यश्राद्धाधिकारिता ।
मातुः श्राद्धं विना पत्न्यास्तथा नान्दीमुखं विना ॥ ६९ ॥
एकोद्दिष्टे तु कौलेशि विश्वदेवान्न पूजयेत् ।
एकमेव समुद्दिश्याऽनुज्ञावाक्यं प्रकल्पयेत् ॥ ७० ॥
दक्षिणाभिमुखो दद्यादन्नं पिण्डं च मानवः ।
यवस्थाने तिला देयाः सर्वमन्यच्च पूर्ववत् ॥ ७१ ॥
देवतादीत्यादि ।
देवतादिप्रतिष्ठासु तीर्थयात्राप्रवेशयोश्च कर्तव्ये श्राद्धे कल्पनीयेष्वनुज्ञावाक्येषु पार्वणेन विधानेनैतच्छ्राद्धमित्युदीरयेत् ॥ ६५ ॥
नैतेष्वित्यादि ।
एतेषु श्राद्धकृत्येषु पितॄन्नान्दीमुखान्न वदेत् किं च देवताभ्यः पितृभ्यश्चेति मन्त्रेण नमोऽन्ते पुष्ट्यै इत्यत्र स्वधायै इति पदमुच्चरेत् ।
अन्यत् सर्वं पूर्ववदेव विधेयम् ॥ ६६ ॥
ऊर्द्ध्वतनम् ऊर्द्ध्वभवम् ॥ ६७ ॥ ६८ ॥
जीवदित्यादि ।
हे कल्याणि पितरि जीवति सति पुत्रस्य मातुः पत्न्याश्च श्राद्धं विना तथा नान्दीमुखमाभ्युदयिकमपि श्राद्धं विना अन्यश्राद्धाधिकारिता नास्तीत्यन्वयः ॥ ६९ ॥
एकोद्दिष्टे श्राद्धे ॥ ७० ॥ ७१ ॥
प्रेतश्राद्धे विशेषोऽयं गङ्गाद्यर्चां विवर्जयेत् ।
मृतं समुल्लिखेत् प्रेतं वाक्ये दानेऽन्नपिण्डयोः ॥ ७२ ॥
एकमुद्दिश्य यत् श्राद्धमेकोद्दिष्टं तदुच्यते ।
प्रेतस्यान्ने च पिण्डे च मत्स्यं मांसं नियोजयेत् ॥ ७३ ॥
अशौचान्तात् द्वितीयेऽह्नि श्राद्धं यत् कुरुते नरः ।
प्रेतश्राद्धं विजानीहि तदेव कुलनायिके ॥ ७४ ॥
गर्भस्रावाज्जातमृतादन्यत्र मृतजातयोः ।
कुलाचारानुसारेण मानवोऽशौचमाचरेत् ॥ ७५ ॥
द्विजातीनां दशाहेन द्वादशाहेन पक्षतः ।
शूद्रसामान्ययोर्देवि मासेनाशौचकल्पना ॥ ७६ ॥
प्रेतश्राद्ध इत्यादि ।
प्रेतश्राद्धे गङ्गाद्यर्चां विवर्जयेत् न कुर्यात् ।
अनुज्ञावाक्येऽन्नपिण्डयोर्दाने च मृतं जनं प्रेतं समुल्लिखेदुच्चारयेत् ।
प्रेतश्राद्धेऽयं विशेषो विज्ञेयः ॥ ७२ ॥
ननु किन्नाम एकोद्दिष्टं श्राद्धं तत्राह एकमुद्दिश्येत्यादि ।
नियोजयेत् समर्पयेत् ॥ ७३ ॥
ननु प्रेतश्राद्धं किन्नाम तत्राह अशौचान्तादित्यादि ।
अशौचान्तात् अशौचस्यान्तो यत्रास्ति तदशौचान्तं तस्मात् ॥ ७४ ॥
अथ प्रसङ्गादशौचादिव्यवस्थामाह गर्भस्रावादित्यादिभिः ।
गर्भस्रावाद्गर्भपातात् जातमृतात् जातः सन्नेव मृतो जातमृतस्तस्माच्चान्यत्रान्ययोर्मृतजातयोः सतोर्मानवः स्वस्वकुलाचारानुसारेणाशौचमशुचिक्रियामाचरेत् कुर्यात् ॥ ७५ ॥
द्विजातीनामित्यादि ।
उपनीतसपिण्डमरणे शिशुजनने च द्विजातीनां ब्राह्मणक्षत्रियवैश्यानां क्रमतो दशाहेन द्वादशाहेन पक्षतः पक्षेणाशौचकलप्ना विज्ञेया ।
शूद्रसामान्ययोस्तु मासेनाशौचकल्पना विज्ञेया ।
शूद्रसामान्यवर्णयोरुपनयनस्थाने विवाहो ज्ञेयः ॥ ७६ ॥
असपिण्डमृतज्ञातौ त्रिरात्राशौचमिष्यते ।
शृण्वतोऽपि गताशौचे सपिण्डस्य मृतिं शिवे ॥ ७७ ॥
अशुचिर्नाधिकारी स्याद्दैवे स्याद्दैवे पित्र्ये च कर्मणि ।
ऋते कुलार्चनादाद्ये तथा प्रारब्धकर्मणः ॥ ७८ ॥
पञ्चवर्षाधिकान् मर्त्यान् दाहयेत् पितृकानने ।
भर्त्रा सह कुलेशानि न दहेत् कुलकामिनीम् ॥ ७९ ॥
तव स्वरूपा रमणी जगत्याच्छन्नविग्रहा ।
मोहाद्भर्तुश्चितारोहात् भवेन्नरकगामिनी ॥ ८० ॥
ब्रह्ममन्त्रोपासकांस्तु तेषामाज्ञानुसारतः ।
प्रवाहयेद्वा निखनेद्दाहयेद्वापि कालिके ॥ ८१ ॥
पुण्यक्षेत्रे च तीर्थे वा देव्याः पार्श्वे विशेषतः ।
कुलीनानां समीपे वा मरणं शस्तमम्बिके ॥ ८२ ॥
विभावयन् सत्यमेकं विस्मरन् जगतां त्रयम् ।
परित्यजति यः प्राणान् स स्वरूपे प्रतिष्ठति ॥ ८३ ॥
असपिण्डेत्यादि ।
असपिण्डमृतज्ञातौ सपिण्डभिन्ने गोत्रजे मृते सति त्रिरात्रमशौचमिष्यते ।
गताशौचेऽशौचे गते सति सपिण्डस्य मृतिं मरणं शृण्वतोऽपि जनस्य त्रिरात्राशौचमिष्यते ॥ ७७ ॥
अशुचिरित्यादि ।
हे आद्ये कुलार्चनात्तथा प्रारब्धकर्मणश्च ऋते कुलार्चन प्रारब्धकर्मभ्यामन्यस्मिन् दैवे पित्र्ये च कर्मण्यशुचिर्जनोऽधिकारी न स्यात् ॥ ७८ ॥
पितृकानने श्मशाने ॥ ७९ � ८२ ॥
विभावयन्निति ।
विभावयन् विचिन्तयन् ।
स्वरूपे परमात्मनि ॥ ८३ ॥
प्रेतभूमौ शवं नीत्वा स्नापयित्वा घृतोक्षितम् ।
उत्तराभिमुखं कृत्वा शाययेत्तं चितोपरि ॥ ८४ ॥
सम्बोधनान्तं तद्गोत्रं प्रेताख्यानं समुच्चरन् ।
दत्त्वा पिण्डं प्रेतमुखे दहेद्वह्निमनुं स्मरन् ॥ ८५ ॥
पिण्डन्तु रचयेत्तत्र सिद्धान्नैस्तण्डुलैश्च वा ।
यवगोधूमचूर्णैर्वा धात्रीफलसमं प्रिये ॥ ८६ ॥
स्थितेषु प्रेतपुत्रेषु ज्येष्ठे श्राद्धाधिकारिता ।
तदभावेऽन्यपुत्रादौ ज्येष्ठानुक्रमतो भवेत् ॥ ८७ ॥
अशौचान्तान्तदिवसे कृतस्नानो नरः शुचिः ।
मृतप्रेतत्वमुक्त्यर्थमुत्सृजेत्तिलकाञ्चनम् ॥ ८८ ॥
प्रेतभूमावित्यादि ।
प्रेतभूमौ शवं नीत्वा घृतोक्षितं घृताभ्यक्तं तं स्नापयित्वोत्तराभिमुखं कृत्वा चितोपरि तं शवं शाययेत् ॥ ८४ ॥
सम्बोधनान्तमित्यादि ।
सम्बोधनान्तं सम्बोधनविभक्त्यन्तं प्रेताख्यानं प्रेतनाम तद्गोत्रञ्च समुच्चरन् ओ।
अद्यामुकगोत्र प्रेत पितरमुकदेवशर्मन्नेष पिण्डस्ते स्वधेति वाक्यमुदीरयन् प्रेतमुखे पिण्डं दत्त्वा वह्निमनुं रमिति मन्त्रं स्मरन् सन् शवं दहेत् ॥
ज्येष्ठे पुत्रे ॥ ८५ � ८७ ॥
अशौचान्तेत्यादि ।
अशौचान्तान्तदिवसे अशौचान्ताद्वासरात् परस्मिन् वासरे ।
कृतस्नानः शुचिश्च सन्नरः ओ।
अद्येत्यादि अमुकगोत्रस्य प्रेतस्य पितुरमुकदेवशर्मणः प्रेतत्वविमुक्त्यर्थममुकगोत्रायामुकदेवशर्मणे ब्राह्मणाय दातुं काञ्चनसहितांस्तिलानहमुत्सृजे इति वाक्येन मृतप्रेतत्वविमुक्त्यर्थं तिलकाञ्चनमुत्सृजेत् ॥ ८८ ॥
गां भूमिं वसनं यानं पात्रं धातुविनिर्मितम् ।
भोज्यं बहुविधं दद्यात् प्रेतस्वर्गाय सत्सुतः ॥ ८९ ॥
गन्धं माल्यं फलं तोयं शय्यां प्रियकरीं तथा ।
यद् यत् प्रेतप्रियं द्रव्यं तत् स्वर्गाय समुत्सृजेत् ॥ ९० ॥
ततस्तु वृषभञ्चैकं त्रिशूलाङ्केन लाञ्छितम् ।
स्वर्णेनालङ्कृतं कृत्वा त्यजेत् तत्स्वरवाप्तये ॥ ९१ ॥
प्रेतश्राद्धोक्तविधिना श्राद्धं कृत्वाऽतिभक्तितः ।
ब्रह्मज्ञान् ब्राह्मणान् कौलान् क्षुधितानपि भोजयेत् ॥ ९२ ॥
दानेष्वशक्तो मनुजः कुर्वन् श्राद्धं स्वशक्तितः ।
बुभुक्षितान् भोजयित्वा प्रेतत्वं मोचयेत् पितुः ॥ ९३ ॥
आद्यैकोद्दिष्टमेतत्तु प्रेतत्वान्मुक्तिकारणम् ।
वर्षे वर्षे मृततिथौ दद्यादन्नं गतासवे ॥ ९४ ॥
बहुभिर्विधिभिः किं वा कर्मभिर्बहुभिश्च किम् ।
सर्वसिद्धिमवाप्नोति मानवः कौलिकार्चनात् ॥ ९५ ॥
विना होमाज्जपात् श्राद्धात् संस्कारेषु च कर्मसु ।
सम्पूर्णकार्यसिद्धिः स्यादेकया कौलिकार्चया ॥ ९६ ॥
गामित्यादि ।
ओ।
अद्यामुकगोत्रस्य प्रेतस्य पितुरमुकदेवशर्मणः स्वर्गार्थममुकगोत्रायामुकदेवशर्मणे ब्राह्मणाय गामिमामहं सम्प्रददे इति वाक्येन सत्सुतः प्रेतस्वर्गाय गां दद्यात् ।
इत्थमेव कल्पितेन तत्तद्वाक्येन भूम्यादिकमपि प्रेतस्वर्गाय दद्यात् ॥ ८९ ॥ ९० ॥
तत्स्वरवाप्तये प्रेतस्वर्गावाप्तये ॥ ९१ ॥ ९२ ॥
बुभुक्षितान् क्षुधितान् ॥ ९३ ॥
आद्येत्यादि ।
एतदाद्यमेकोद्दिष्टं तु मृतस्य प्रेतत्वान्मुक्तेः कारणं भवति ।
अतःपरं वर्षे वर्षे मृततिथौ करिष्यमाणे एकोद्दिष्टश्राद्धे मृतं प्रेतं नोच्चारयेदित्यवगन्तव्यम् ।
गतासवे विगतप्राणाय ॥ ९४ � ९६ ॥
शुक्लां चतुर्थीमारभ्य शुभकर्माणि साधयेत् ।
असितां पञ्चमीं यावत् विधिरेष शिवोदितः ॥ ९७ ॥
अन्यत्रापि विरुद्धेऽह्नि गुर्वर्त्विक्कौलिकाज्ञया ।
कर्माण्यपरिहार्याणि कर्मार्थी कर्तुमर्हति ॥ ९८ ॥
गृहारम्भः प्रवेशश्च यात्रा रत्नादिधारणम् ।
सम्पूज्याऽद्यां पञ्चतत्त्वैः कुर्यादेतानि कौलिकः ॥ ९९ ॥
सङ्क्षेपयात्रामथवा कुर्यात् साधकसत्तमः ।
ध्यायन् देवीं स्मरन्मन्त्रं नत्वा गच्छेद् यथामति ॥ १०० ॥
सर्वासु देवतार्चसु शारदीयोत्सवादिषु ।
तत्तत्कल्पोक्तविधिना ध्यानपूजां समाचरेत् ॥ १०१ ॥
आद्यापूजोक्तविधिना बलिहोमं प्रयोजयेत् ।
कौलार्चनं दक्षिणाञ्च कृत्वा कर्म समापयेत् ॥ १०२ ॥
गङ्गां विष्णुं शिवं सूर्यं ब्रह्माणं परिपूज्य च ।
उद्देश्यमर्चयेद्देवं सामान्यो विधिरीरितः ॥ १०३ ॥
कौलिकः परमं धर्मः कौलिकः परदेवता ।
कौलिकः परमं तीर्थं तस्मात् कौलं सदार्चयेत् ॥ १०४ ॥
सार्द्धत्रिकोटितीर्थानि ब्रह्माद्याः सर्वदेवताः ।
वसन्ति कौलिके देहे किन्न स्यात् कौलिकार्चनात् ॥ १०५ ॥
पूर्णाभिषिक्तः सत्कौलो यस्मिन् देशे विराजते ।
धन्यो मान्यः पुण्यतमः स देशः प्रार्थते सुरैः ॥ १०६ ॥
कृतपूर्णाभिषेकस्य साधकस्य शिवात्मनः ।
पुण्यपापविहीनस्य प्रभावं वेत्ति को भुवि ॥ १०७ ॥
शुक्लामित्यादि ।
असितां कृष्णाम् ।
यावदित्यवधौ ॥ ९७ � १०८ ॥
केवलं नररूपेण तारयन्नखिलं जगत् ।
शिक्षयन् लोकयात्राञ्च कौलो विहरति क्षितौ ॥ १०८ ॥
श्रीदेव्युवाच ।
पूर्णाभिषिक्तकौलस्य माहात्म्यं कथितं प्रभो ।
विधानमभिषेकस्य कृपया श्रावयस्व माम् ॥ १०९ ॥
श्रीसदाशिव उवाच ।
विधानमेतत् परमं गुप्तमासीद् युगत्रये ।
गुप्तभावेन कुर्वन्तो नरा मोक्षं ययुः पुरा ॥ ११० ॥
प्रवले कलिकाले तु प्रकाशे कुलवर्त्मनः ।
नक्तं वा दिवसे कुर्यात् सप्रकाशाभिषेचनम् ॥ १११ ॥
नाऽभिषेकं विना कौलः केवलं मद्यसेवनात् ।
पूर्णाभिषेकात् कौलः स्यात् चक्राधीशः कुलार्चकः ॥ ११२ ॥
तत्राभिषेकपूर्वेऽह्णि सर्वविघ्नोपशान्तये ।
यथाशक्त्युपचारेण विघ्नेशं पूजयेद्गुरुः ॥ ११३ ॥
पूर्णाभिषेकविधिं श्रोतुमिच्छन्ती श्रीदेव्युवाच ।
पूर्णाभिषिक्तकौलस्येत्यादि ॥ १०९ ॥
एवं प्रार्थितः सन् श्रीसदाशिव उवाच ।
विधानमित्यादि ॥ ११० ॥
नक्तं रात्रौ ॥ १११ ॥ ११२ ॥
अथ पूर्णाभिषेकस्य विधानमाह तत्रेत्यादिभिः ।
विघ्नेशम् गणपतिम् ॥ ११३ ॥
गुरुश्चेन्नाधिकारी स्यात् शुभपूर्णाभिषेचने ।
तदाऽभिषिक्तकौलेन संस्कारं साधयेत् प्रिये ॥ ११४ ॥
खान्तार्णं बिन्दुसंयुक्तं बीजमस्य प्रकीर्तितम् ॥ ११५ ॥
गणकोऽस्य ऋषिश्छन्दो निवृत् विघ्नस्तु देवता ।
कर्तव्यकर्मणो विघ्नशान्त्यर्थे विनियोगिता ॥ ११६ ॥
षड्दीर्घयुक्तमूलेन षडङ्गानि समाचरेत् ।
प्राणायामं ततः कृत्वा ध्यायेद् गणपतिं शिवे ॥ ११७ ॥
गुरुरित्यादि ।
चेत् यद्यनभिषिक्तत्वात् शुभपूर्णाभिषेचने गुरुरधिकारी न स्यात्तदाभिषिक्तकौलेन पूर्णाभिषेचनं संस्कारं नरः साधयेत् ॥ ११४ ॥
अथ गणपतिपूजाया विधानमेवाह खान्तार्णमित्यादिभिः ।
बिन्दुसंयुक्तमनुस्वारसहितं खान्तार्णं खस्यान्तिमं गकाररूपमक्षरम् अस्य विघ्नेशस्य बीजं प्रकीर्तितम् ॥ ११५ ॥
अथ ऋषिन्यासं विधातुं गणपतिबीजमन्त्रस्य ऋष्यादिकमाह गणक इत्यादिना ।
अस्य गणपतिबीजमन्त्रस्य गणक ऋषिनिवृच्छन्दो विघ्नो देवता कर्तव्यस्य शुभपूर्णाभिषेककर्मणो विघ्नशान्त्यर्थे विनियोगः ।
शिरसि गणकाय ऋषये नमः ।
मुखे निवृच्छन्दसे नमः ।
हृदये विघ्नाय देवतायै नमः ।
इति ऋषिन्यासं विदध्यात् ॥ ११६ ॥
षडित्यादि ।
ततः षड्दीर्घयुक्तेन मूलेन गणपतिबीजेनाङ्गुष्ठादीनि हृदयादीनि च षडङ्गानि प्रति न्यासं समाचरेत् ।
गाम् अङ्गुष्ठाभ्यां नमः ।
गीं तर्जनीभ्यां स्वाहा ।
गूं मध्यमाभ्यां वषट् ।
गैम् अनामिकाभ्यां हु।
।
गौं कनिष्ठाभ्यां वौषट् ।
गः करतलपृष्ठाभ्यां फट् ।
इत्युङ्गुष्ठादिषडङ्गन्यासम् ।
गां हृदयाय नमः ।
गीं शिरसे स्वाहा ।
गूं शिखायै वषट् ।
गौं कवचाय हु।
।
गौं नेत्रत्रयाय वौषट् ।
गः करतलपृष्ठाभ्यां फट् ।
इति हृदयादिषडङ्गन्यासं च विदध्यादित्यर्थः ।
ततो गमिति मन्त्रेण प्राणायामं कृत्वा गणपतिं ध्यायेत् ॥ ११७ ॥
सिन्दूराभं त्रिनेत्रं पृथुतरजठरं हस्तपद्मैर्दधानम् ।
खड्गं पाशाङ्कुशेष्टान्युरुकरविलसद्वारुणीपूर्णकुम्भकम् ।
बालेन्दूद्दीप्तमौलिं करिपतिवदनं बीजपूरार्द्रगण्डं भोगीन्द्राबद्धभूषं भजत गणपतिं रक्तवस्त्राङ्गरागम् ॥ ११८ ॥
ध्यात्वैवं मानसैरिष्ट्वा पीठशक्तीः प्रपूजयेत् ।
तीव्रा च ज्वालिनी नन्दा भोगदा कामरूपिणी ॥ ११९ ॥
उग्रा तेजस्वती सत्या मध्ये विघ्नविनाशिनी ।
पूर्वादितोऽर्चयित्वैताः पूजयेत् कमलासनम् ॥ १२० ॥
गणपतिध्यानमेवाहैकेन सिन्दूराभमित्यादि ।
हे भक्ता गणपतिं गणेशानं यूयं भजतेत्यन्वयः ।
कथम्भूतं गणपतिम् सिन्दूराभम् सिन्दूरेणाभा दीप्तिर्यस्य यस्मिन् वा तथाभूतम् ।
पुनः कीदृशम् त्रिनेत्रम् त्रिलोचनम् ।
पुनः कीदृशम् पृथुतरजठरम् अतिविशालकुक्षिम् ।
पुनः कीदृशम् हस्तपद्मैः पाणिकमलैः खड्गं पाशाङ्कुशेष्टानि पाशमङ्कुशं वरं च दधानं दधतम् ।
पुनः कीदृशम् उरुकरविलसद्वारुणीपूर्णकुम्भम् उरौ विशाले करे शुण्डायां विलसन् भासमानो वारुण्या मदिरया पूर्णः कुम्भो यस्य तथाभूतम् ।
पुनः कीदृशम् बालेन्दूद्दीप्तमौलिम् बालेन्दुनोद्दीप्तो मौलिः किरीटं यस्य तथाभूतम् ।
पुनः कीदृशम् करिपतिवदनम् करिपतेर्गजराजस्येव वदनं मुखं यस्य तथाभूतम् ।
पुनः कीदृशम् बीजपूरार्द्रगण्डम् बीजपूरेण मदप्रवाहेणार्द्रौ गण्डौ कपोलौ यस्य तथाभूतम् ।
पुनः कीदृशम् भोगीन्द्राबद्धभूषम् भोगीन्द्रेण सर्पराजेन बद्धा भूषा यस्य येन वा तथाभूतम् ।
पुनः कीदृशम् रक्तवस्त्राङ्गरागम् रक्तवस्त्रेणाङ्गे रागो रक्तत्वं यस्य तथाभूतम् ॥ ११८ ॥
ध्यात्वैवमित्यादि ।
एवं गणपतिं ध्यात्वा मानसैरुपचारैरिष्ट्वा पूजयित्वा च प्रणवादिनमोऽन्तेन नाममन्त्रेण गन्धपुष्पादिभिः पीठशक्तीः प्रपूजयेत् ।
याः
पुनर्ध्यात्वा गणेशानं पञ्चतत्त्वोपचारकैः ।
अभ्यर्च्य तच्चतुर्दिक्षु गणेशं गणनायकम् ॥ १२१ ॥
गणनाथं गणक्रीडं यजेत् कौलिकसत्तमः ।
एकदन्तं रक्ततुण्डं लम्बोदरगजाननौ ॥ १२२ ॥
महोदरञ्च विकटं धूम्राभं विघ्ननाशनम् ॥ १२३ ॥
ततो ब्राह्मीमुखाः शक्तीर्दिक्पालांश्च प्रपूजयन् ।
तेषामस्त्राणि सम्पूज्य विघ्नराजं विसर्जयेत् ॥ १२४ ॥
एवं सम्पूज्य विघ्नेशमधिवासनमाचरेत् ।
भोजयेच्च पञ्चतत्त्वैर्ब्रह्मज्ञान् कुलसाधकान् ॥ १२५ ॥
पीठशक्तीः प्रपूजयेत्ता आह तीब्रा चेत्यादिनैकेन ।
पूर्वादितः क्रमेणैतास्तीब्राद्या अर्चयित्वा प्रणवादिनमोऽन्तेन नाममन्त्रेण गन्धपुष्पादिभिः कमलासनं पूजयेत् ॥ ११९ ॥ १२० ॥
पुनरित्यादि ।
कौलिकसत्तमः पुनर्गणेशानं ध्यात्वा पञ्चतत्त्वोपचारकैः पूर्वोक्तमन्त्रशोधितैर्मद्यादिभिः पञ्चतत्त्वैरन्यैश्च पाद्यार्घ्याचमनीयादिभिरुपचारैरभ्यर्च्य च तच्चतुर्दिक्षु नमोऽन्तनाममन्त्रेण गन्धपुष्पादिभिर्गणेशादीन् क्रमतो यजेत् ॥ १२१ � १२३ ॥
तत इत्यादि ।
ततः परं प्रणवादिनमोऽन्तनाममन्त्रेण गन्धपुष्पादिभिर्ब्राह्मीमुखा ब्राह्मीप्रभृतीरष्टशक्तीरिन्द्रादीन् दिक्पालांश्च प्रपूजयन् तेषां दिक्पालानामस्त्राणि चं सम्पूज्य विघ्नराज क्षमस्वेति वाक्येन विघ्नराजं विसर्जयेत् ॥ १२४ ॥
एवमित्यादि ।
एवं विघ्नेशं सम्पूज्य वक्ष्यमाणेन विधिना अधिवासनमाचरेत् कुर्यात् ॥ १२५ ॥
ततः परदिने स्नातः कृतनित्योदितक्रियः ।
आजन्मकृतपापानां क्षयार्थं तिलकाञ्चनम् ।
उत्सृजेत् कौलतृप्त्यर्थं भोज्यञ्चैकमपि प्रिये ॥ १२६ ॥
अर्घ्यं दत्त्वा दिनेशाय ब्रह्मविष्णुशिवग्रहान् ।
अर्चयित्वा मातृगणान् वसुधारां प्रकल्पयेत् ॥ १२७ ॥
कर्मणोऽभ्युदयार्थाय वृद्धिश्राद्धं समाचरेत् ।
ततो गत्वा गुरोः पार्श्वं प्रणम्य प्रार्थयेदिदम् ॥ १२८ ॥
त्राहि नाथ कुलाचारनलिनीकुलवल्लभ ।
त्वत्पादाम्भोरुहछायां देहि मूर्ध्नि कृपानिधे ॥ १२९ ॥
आज्ञां देहि महाभाग शुभपूर्णाभिषेचने ।
निर्विघ्नं कर्मणः सिद्धिमुपैमि त्वत्प्रसादतः ॥ १३० ॥
शिवशक्त्याज्ञया वत्स कुरु पूर्णाभिषेचनम् ।
मनोरथमयी सिद्धिर्जायतां शिवशासनात् ॥ १३१ ॥
इत्थमाज्ञां गुरोः प्राप्य सर्वोपद्रवशान्तये ।
आयुर्लक्ष्मीवलारोग्यावाप्त्यै सङ्कल्पमाचरेत् ॥ १३२ ॥
तत इत्यादि ।
ततो दिनात् परदिने स्नातः कृतनित्योदितक्रियश्च सन् ओ।
अद्यामुकगोत्रः श्रीमदमुकदेवशर्मा आजन्मकृताशेषदुष्कृतक्षयकामोऽमुकगोत्रायामुकदेवशर्म।
ने ब्राह्मणाय दातुं काञ्चनसहितांस्तिलानहमुत्सृजे इति वाक्येनाजन्मकृतपापानां क्षयार्थं तिलकाञ्चनमुत्सृजेत् ।
तथैव कल्पितेन वाक्येन कौलतृप्त्यर्थमेकं भोज्यमप्युत्सृजेत् ॥ १२६ � १२८ ॥
यत् प्रार्थयेत्तदाह त्राहि नाथेत्यादिभ्यां द्वाभ्याम् ॥ १२९ � १३१ ॥
इत्थमित्यादि ।
इत्थं गुरोराज्ञां प्राप्य सर्वोपद्रवशान्तये आयुर्लक्ष्मीवलारोग्यप्राप्त्यै च ओ।
अद्यामुकगोत्रः श्रीमदमुकदेवशर्मा निःशेषोपद्रवध्वंसकाम
ततस्तु कृतसङ्कल्पो वस्त्रालङ्कारभूषणैः ।
कारणैः शुद्धिसहितैरभ्यर्च्य वृणुयाद् गुरुम् ॥ १३३ ॥
गुरुर्मनोहरे गेहे गैरिकादिविचित्रिते ।
चित्रध्वजपताकाभिः फलपल्लवशोभिते ॥ १३४ ॥
किङ्किणीजालमालाभिश्चन्द्रातपविभूषिते ।
घृतप्रदीपावलिभिस्तमोलेशविवर्जिते ॥ १३५ ॥
कर्पूरसहितैर्धूपैर्यक्षधूपैः सुवासिते ।
व्यजनैश्चामरैर्बर्हैर्दर्पणाद्यैरलङ्कृते ॥ १३६ ॥
सार्धहस्तमितां वेदीमुच्चकैश्चतुरङ्गुलाम् ।
रचयेन्मृण्मयीं तत्र चूर्णैरक्षतसम्भवैः ॥ १३७ ॥
आयुर्लक्ष्मीवलारोग्यकामश्च शुभपूर्णाभिषेचनमहं करिष्ये इति सङ्कल्पमाचरेत् कुर्यात् ॥ १३२ ॥
ततस्त्वित्यादि ।
ततस्तु कृतसङ्कल्पः शिष्यो वस्त्रालङ्कारभूषणैः शुद्धिसहितैर्मांसादिसहितैः कारणैर्मद्यैश्च गुरुमभ्यर्च्य ओ।
अद्यामुकगोत्रः श्री अमुकदेवशर्मा अमुकगोत्रं श्रीमन्तममुकानन्दनाथं गुरुत्वेन भवन्तं वस्त्रादिभिरहं वृणे इति वाक्येन गुरुं वस्त्रादिभिर्वृणुयात् ॥ १३३ ॥
गुरुरित्यादि ।
ततो गुरुर्गेहे गृहे सार्धहस्तमितामुच्चकैरुच्चत्वे चतुरङ्गुलां चतुरङ्गुलिपरिमितां मृण्मयीं वेदीं रचयेत् कल्पयेत् इति चतुर्थश्लोकगतैः पदैरन्वयः ।
मनोहरेः इत्यादीनि सप्तम्यन्तानि पदानि गेहस्य विशेषणानि भवन्तीति ज्ञेयम् ।
चित्रध्वजपताकाभिश्च शोभिते ॥ १३४ ॥
किङ्किणीजालमालाभिः क्षुद्रघण्टिकासमूहमालाभिश्च भूषिते यक्षधूपैः शालवृक्षरसैः ।
बर्हैः मयूरपक्षैः ॥ १३५ ॥ १३६ ॥
पीतरक्तासितश्वेतश्यामलैः सुमनोहरम् ।
मण्डलं सर्वतोभद्रं विदद्यात् श्रीगुरुस्ततः ॥ १३८ ॥
स्वस्वकल्पोक्तविधिना मानसार्चावधिक्रियाम् ।
कृत्वा पूर्वोक्तमन्त्रेण पञ्चतत्त्वानि शोधयेत् ॥ १३९ ॥
संशोध्य पञ्चतत्त्वानि पुरःकल्पितमण्डले ।
स्वार्णं वा राजतं ताम्रं मृण्मयं घटमेव वा ॥ १४० ॥
क्षालितञ्चाऽस्त्रबीजेन दध्यक्षतविचर्चितम् ।
स्थापयेद्ब्रह्मबीजेन सिन्दूरेणाऽङ्कयेत् श्रिया ॥ १४१ ॥
क्षकाराद्यैरकारान्तैर्वर्णैर्बिन्दुविभूषितैः ।
मूलमन्त्रत्रिजापेन पूरयेत् कारणेन तम् ॥ १४२ ॥
अथवा तीर्थतोयेन शुद्धेन पाथसाऽपि वा ।
नवरत्नं सुवर्णं वा घटमध्ये विनिःक्षिपेत् ॥ १४३ ॥
ततः परं श्रीगुरुस्तत्र रचितायां वेद्यां पीतरक्ता सितश्वेतश्यामलैरक्षतसम्भवैश्चूर्णैः सुमनोहरं सर्वतोभद्रं मण्डलं विदध्यात् कुर्यात् ।
असितैर्नीलवर्णैः ।
श्यामलैर्हरिद्वर्णैः ॥ १३७ ॥ १३८ ॥
स्वस्वेत्यादि ।
ततः स्वस्वकल्पोक्तविधिना मानसार्चावधिक्रियां मानसपूजापर्यन्तां क्रियां कृत्वा पूर्वोक्तमन्त्रेण मद्यादीनि पञ्चतत्त्वानि शोधयेत् ॥ १३९ ॥
संशोध्येत्यादि ।
पूर्वोक्तेन मन्त्रेण पञ्चतत्त्वानि संशोध्य पुरःकल्पिते सर्वतोभद्रमण्डलेऽस्त्रबीजेन फटा मन्त्रेण क्षालितं धौतं दध्यक्षतविचर्चितं दध्यक्षतैर्विलिप्तं स्वार्णं सुवर्णभवं राजतं रजतोद्भवं ताम्रोद्भवं मृण्मयमेव वा घटं ब्रह्मबीजेन प्रणवेन स्थापयेत् ।
श्रिया श्री।
बीजेन सिन्दूरेणाऽङ्कयेच्च ॥ १४० ॥ १४१ ॥
क्षकाराद्यैरित्यादि ।
ततो बिन्दुविभूषितैरनुस्वारालङ्कृतैः क्षकाराद्यैरकारान्तैर्वर्णैः सह मूलमन्त्रस्य त्रिजापेन कारणेन मद्येनाऽथवा तीर्थतोयेन शुद्धेन
पनसोडुम्बराश्वत्थवकुलाम्रसमुद्भवम् ।
पल्लवं तन्मुखे दद्यात् वाग्भवेन कृपानिधिः ॥ १४४ ॥
शरावं मार्तिकं वापि फलाक्षतसमन्वितम् ।
रामां मायां समुच्चार्य स्थापयेत् पल्लवोपरि ॥ १४५ ॥
बध्नीयाद्वस्त्रयुग्मेन ग्रीवां तस्य वरानने ।
शक्तौ रक्तं शिवे विष्णौ श्वेतवासः प्रकीर्तितम् ॥ १४६ ॥
स्थां स्थीं मायां रमां स्मृत्वा स्थिरीकृत्य घटान्तरे ।
निःक्षिप्य पञ्चतत्त्वानि नवपात्राणि विन्यसेत् ॥ १४७ ॥
राजतं शक्तिपात्रं स्यात् गुरुपात्रं हिरण्मयम् ।
श्रीपात्रन्तु महाशङ्खं ताम्राण्यन्यानि कल्पयेत् ॥ १४८ ॥
पवित्रेणाऽन्येन पाथसा जलेनापि वा तं घटं पूरयेत् ।
ततो घटमध्ये नवरत्नं सुवर्णं वा विनिःक्षिपेत् ॥ १४२ ॥ १४३ ॥
तन्मुखे घटमुखे ।
वाग्भवेन ऐमिति मन्त्रेण ॥ १४४ ॥
शरावमित्यादि ।
ततः फलाक्षतसमन्वितं सुवर्णादिभवं मार्तिकं मृत्तिकोद्भवं वापि शरावं रमां श्रीमिति मायां ह्रीमिति च बीजं समुच्चार्य पल्लवोपरि स्थापयेत् ॥ १४५ ॥
तस्य घटस्य ।
ननु किं वर्णेन वस्त्रयुग्मेन घटस्य ग्रीवां बध्नीयादित्यपेक्षायामाह शक्तौ रक्तमित्यादि ॥ १४६ ॥
स्थां स्थीमित्यादि ।
ततः स्थां स्थीं मायां रमां स्मृत्वा स्थां स्थीं ह्री।
श्री।
स्थिरीभवेति मन्त्रं पठित्वा स्थिरीकृतघटान्तरे पञ्चतत्त्वानि निःक्षिप्य पूर्वोक्तविधिना नवपात्राणि विन्यसेत् स्थापयेत् ॥ १४७ ॥
ननु किं द्रव्योद्भवानि नवपात्राणि विन्यसेत्तत्राह राजतमित्यादि ।
महाशङ्खं नरकपालम् ॥ १४८ ॥ १४९ ॥
पाषाणदारुलौहानां पात्राणि परिवर्जयेत् ।
शक्त्या प्रकल्पयेत् पात्रं महादेव्याः प्रपूजने ॥ १४९ ॥
पात्राणां स्थापनं कृत्वा गुरून् देवीं प्रतर्पयेत् ।
ततस्त्वमृतसम्पूर्णघटमभ्यर्चयेत् सुधीः ॥ १५० ॥
दर्शयित्वा धूपदीपौ सर्वभूतबलिं हरेत् ।
पीठदेवान् पूजयित्वा षडङ्गन्यासमाचरेत् ॥ १५१ ॥
प्राणायामं ततः कृत्वा ध्यात्वाऽवाह्य महेश्वरीम् ।
स्वशक्त्या पूजयेदिष्टां वित्तशाठ्यं विवर्जयेत् ॥ १५२ ॥
होमान्तकृत्यं निष्पाद्य कुमारीशक्तिसाधकान् ।
पुष्पचन्दनवासोभिरर्चयेत् सद्गुरुः शिवे ॥ १५३ ॥
अनुगृह्णन्तु कौला मे शिष्यं प्रति कुलव्रताः ।
पूर्णाभिषेकसंस्कारे भवद्भिरनुमन्यताम् ॥ १५४ ॥
एवं पृच्छति चक्रेशे तं ब्रूयुर्गुरुमादरात् ।
महामायाप्रसादेन प्रभावात् परमात्मनः ।
शिष्यो भवतु पूर्णस्ते परतत्त्वपरायणः ॥ १५५ ॥
गुरून् देवीमिति आनन्दभैरवादीनामप्युलक्षणम् ।
प्रतर्पयेत् पूर्वोक्तेन तत्तन्मन्त्रेण ॥ १५० ॥
दर्शयित्वेत्यादि ।
ततो घटं प्रति धूपदीपौ दर्शयित्वा पूर्वोक्तमन्त्रेण सर्वभूतबलिं हरेत् दद्यात् ॥ १५१ ॥ १५२ ॥
होमान्तकृत्यं होमपर्यन्तं कर्तव्यं कर्म निष्पाद्य साधयित्वा ॥ १५३ ॥ १५४ ॥
परतत्त्वपरायणः परम्ब्रह्मतत्परः ॥ १५५ ॥
शिष्येण च गुरुर्देवीमर्चयित्वाऽर्चिते घटे ।
कामं मायां रमां जप्त्वा चालयेद्विमलं घटम् ॥ १५६ ॥
उत्तिष्ठ ब्रह्मकलश देवतात्मक सिद्धिद ।
त्वत्तोयपल्लवैः सिक्तः शिष्यो ब्रह्मरतोऽस्तु मे ॥ १५७ ॥
इत्थं सञ्चाल्य कलशमुत्तराभिमुखं गुरुः ।
मन्त्रैरेतैर्वक्ष्यमाणैरभिषिञ्चेत् कृपान्वितः ॥ १५८ ॥
शुभपूर्णाभिषेकस्य सदाशिव ऋषिः स्मृतः ।
छन्दोऽनुष्टुब्देवताऽद्या प्रणवं बीजमीरितम् ।
शुभपूर्णाभिषेकार्थे विनियोगः प्रकीर्तितः ॥ १५९ ॥
शिष्येणेत्यादि ।
ततो गुरुः शिष्येण देवीमर्चयित्वाऽर्चिते पूजिते घटे कामं मायां रमां क्ली।
ह्री।
श्रीमिति मन्त्रं जप्त्वा वक्ष्यमाणमन्त्रेण विमलं घटं चालयेत् ॥ १५६ ॥
घटचालनमन्त्रमेवाह उत्तिष्ठेत्याद्यम् ॥ १५७ ॥
इत्थमित्यादि ।
इत्थं कलशं घटं सञ्चाल्य कृपान्वितो गुरुरुत्तराभिमुखं शिष्यं वक्ष्यमाणैरेतैर्मन्त्रैरभिषिञ्चेत् ॥ १५८ ॥
अथ शुभपूर्णाभिषेकमन्त्राणामृष्यादिकमाह शुभपूर्णाभिषेकस्येत्यादिना सार्धेन ।
एषां शुभपूर्णाभिषेकमन्त्राणां सदाशिव ऋषिरनुष्टुप्छन्दः आद्या काली देवता प्रणवो बीजं शुभपूर्णाभिषेकार्थे विनियोगः ।
शिरसि सदाशिवाय ऋषये नमः ।
मुखेऽनुष्टुप्च्छन्दसे नमः ।
हृदये आद्यायै कालिकायै देवतायै नमः ।
गुह्ये प्रणवाय बीजाय नमः ।
शुभपूर्णाभिषेकार्थे विनियोगः इति ऋषिन्यासो विधातव्यः ॥ १५९ ॥
गुरवस्त्वाऽभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
दुर्गालक्ष्मीभवान्यस्त्वामभिषिञ्चन्तु मातरः ॥ १६० ॥
षोडशी तारिणी नित्या स्वाहा महिषमर्दिनी ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥ १६१ ॥
जयदुर्गा विशालाक्षी ब्रह्माणी च सरस्वती ।
एतास्त्वामभिषिञ्चन्तु वगला वरदा शिवा ॥ १६२ ॥
नारसिंही च वाराही वैष्णवी वनमालिनी ।
इन्द्राणी वारुणी रौद्री त्वाऽभिषिञ्चन्तु शक्तयः ॥ १६३ ॥
भैरवी भद्रकाली च तुष्टिः पुष्टिरुमा क्षमा ।
श्रद्धा कान्तिर्दया शान्तिरभिषिञ्चन्तु ते सदा ॥ १६४ ॥
महाकाली महालक्ष्मीर्महानीलसरस्वती ।
उग्रचण्डा प्रचण्डा त्वामभिषिञ्चन्तु सर्वदा ॥ १६५ ॥
मत्स्यः कूर्मो वराहश्च नृसिंहो वामनस्तथा ।
रामो भार्गवरामस्त्वामभिषिञ्चन्तु वारिणा ॥ १६६ ॥
असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तो भयङ्करः ।
कपाली भीषणश्च त्वामभिषिञ्चन्तु वारिणा ॥ १६७ ॥
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।
विप्रचित्ता महोग्रा त्वामभिषिञ्चन्तु सर्वदा ॥ १६८ ॥
अथ गुरवस्त्वाभिषिञ्चन्त्वित्यादीनभिषेकमन्त्रानेवाह त्वा त्वाम् ॥ १६० � १६२ ॥
त्वा त्वाम् ॥ १६३ ॥
ते इति कर्मणः शेषत्वेन विवक्षितत्वात् षष्ठी ॥ १६४ � १६९ ॥
इन्द्रोऽग्निः शमनो रक्षो वरुणः पवनस्तथा ।
धनदश्च महेशानः सिञ्चन्तु त्वां दिगीश्वराः ॥ १६९ ॥
रविः सोमो मङ्गलश्च बुधो जीवः सितः शनिः ।
राहुः केतुः सनक्षत्रा अभिषिञ्चन्तु ते ग्रहाः ॥ १७० ॥
नक्षत्रं करणं योगो वाराः पक्षौ दिनानि च ।
ऋतुर्मासो हायनस्त्वामभिषिञ्चन्तु सर्वदा ॥ १७१ ॥
लवणेक्षुसुरासर्पिर्दधिदुग्धजलान्तकाः ।
समुद्रास्त्वाऽभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥ १७२ ॥
गङ्गा सूर्यसुता रेवा चन्द्रभागा सरस्वती ।
सरयुर्गण्डकी कुन्ती श्वेतगङ्गा च कौशिकी ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥ १७३ ॥
अनन्ताद्या महानागाः सुपर्णाद्याः पतत्रिणः ।
तरवः कल्पवृक्षाद्याः सिञ्चन्तु त्वां महीधराः ॥ १७४ ॥
पातालभूतलव्योमचारिणः क्षेमकारिणः ।
पूर्णाभिषेकसन्तुष्टास्त्वाऽभिषिञ्चन्तु पाथसा ॥ १७५ ॥
दोर्भाग्यं दुर्यशो रोगा दौर्मनस्यं तथा शुचः ।
विनश्यन्त्वभिषेकेन परमब्रह्मतेजसा ॥ १७६ ॥
जीवो बृहस्पतिः ।
सितः शुक्रः ॥ १७० � १७२ ॥
सूर्यसुता सूर्यपुत्री यमुना ॥ १७३ ॥
अनन्ताद्याः शेषप्रभृतयः ।
सुपर्णाद्याः गरुडादयः ।
पतत्रिणः पक्षिणः ॥ १७४ ॥ १७५ ॥
अलक्ष्मीः कालकर्णी च डाकिन्यो योगिनीगणाः ।
विनश्यन्त्वभिषेकेण कालीबीजेन ताडिताः ॥ १७७ ॥
भूताः प्रेताः पिशाचाश्च ग्रहा येऽरिष्टकारकाः ।
विद्रुतास्ते विनश्यन्तु रमाबीजेन ताडिताः ॥ १७८ ॥
अभिचारकृता दोषा वैरिमन्त्रोद्भवाश्च ये ।
मनोवाक्कायजा दोषाः विनश्यन्त्वभिषेचनात् ॥ १७९ ॥
नश्यन्तु विपदः सर्वाः सम्पदः सन्तु सुस्थिराः ।
अभिषेकेण पूर्णेन पूर्णाः सन्तु मनोरथाः ॥ १८० ॥
इत्येकाधिकविंशत्या मन्त्रैः संसिक्तसाधकम् ।
पशोर्मुखाल्लब्धमन्त्रं पुनः संश्रावयेद् गुरुः ॥ १८१ ॥
पूर्वोक्तनाम्ना सम्बोध्य ज्ञापयन् शक्तिसाधकान् ।
दद्यादानन्दनाथान्तमाख्यानं कौलिको गुरुः ॥ १८२ ॥
श्रुतमन्त्रो गुरोर्यन्त्रे सम्पूज्य निजदेवताम् ।
पञ्चतत्त्वोपचारेण गुरुमभ्यर्चयेत्ततः ॥ १८३ ॥
गोभूहिरण्यवासांसि पानालङ्करणानि च ।
गुरवे दक्षिणां दत्त्वा यजेत् कौलान् शिवात्मकान् ॥ १८४ ॥
शुचः शोकाः ॥ १७६ ॥ १७७ ॥
अरिष्टकारकाः अशुभोत्पादकाः ॥ १७८ � १८१ ॥
पूर्वोक्तेत्यादि ।
ततः कौलिको गुरुः शक्तिसाधकान् ज्ञापयन् सन् पूर्वोक्तनाम्ना शिष्यं सम्बोध्य तस्याऽनन्दनाथान्तमाख्यानं नाम दद्यात् ।
यथा अमुकदेवशर्मन् त्वमेतद्दिनमारभ्याऽमुकानन्दनाथाख्योऽसीति ॥ १८२ ॥ १८३ ॥
गोभूहिरण्येत्यादि ।
ओ।
अद्येत्यादि कृतैतच्छुभपूर्णाभिषेककर्मणः साङ्गत्वार्थं गोभूहिरण्यादिदक्षिणाममुकगोत्रायामुकानन्दनाथाय गुरुवे तुभ्यमहं
कृतकौलार्चनो धीरः शान्तोऽतिविनयान्वितः ।
श्रीगुरोश्चरणौ स्पृष्ट्वा भक्त्या नत्वेदमर्थयेत् ॥ १८५ ॥
श्रीनाथ जगतां नाथ मन्नाथ करुणानिधे ।
परामृतप्रदानेन पूरयाऽस्मन्मनोरथम् ॥ १८६ ॥
आज्ञां मे दीयतां कौलाः प्रत्यक्षशिवरूपिणः ।
सच्छिष्याय विनीताय ददामि परमामृतम् ॥ १८७ ॥
चक्रेश परमेशान कौलपङ्कजभास्कर ।
कृतार्थं कुरु सच्छिष्यं देह्यमुष्मै कुलामृतम् ॥ १८८ ॥
आज्ञामादाय कौलानां परमामृतपूरितम् ।
सशुद्धिकं पानपात्रं शिष्यहस्ते समर्पयेत् ॥ १८९ ॥
हृद्याकृष्य गुरुर्देवीं स्रुवसंलग्नभस्मना ।
स्वस्य शिष्यस्य कौलानां कूर्चे च तिलकं न्यसेत् ॥ १९० ॥
ततः प्रसादतत्त्वानि कौलेभ्यः परिवेशयन् ।
चक्रानुष्ठानविधिना विदध्यात् पानभोजनम् ॥ १९१ ॥
इति ते कथितं देवि शुभपूर्णाभिषेचनम् ।
ब्रह्मज्ञानैकजननं शिवत्वफलसाधनम् ॥ १९२ ॥
नवरात्रं सप्तरात्रं पञ्चरात्रं त्रिरात्रकम् ।
अथ वाप्येकरात्रञ्च कुर्यात् पूर्णाभिषेचनम् ॥ १९३ ॥
सप्रददे इति वाक्येन यथाशक्ति गोभूहिरण्यादीनि दक्षिणां गुरवे दत्त्वा शिवात्मकान् शिवस्वरूपान् कौलान् यजेत् ॥ १८४ ॥
अर्थयेत् याचेत् ॥ १८५ ॥
यत् प्रार्थयेत्तदाह श्रीनाथेत्याद्येकेन ॥ १८६ � १९० ॥
संस्कारेऽस्मिन् कुलेशानि पञ्चकल्पाः प्रकीर्तिताः ।
नवरात्रे विधातव्यं सर्वतोभद्रमण्डलम् ॥ १९४ ॥
नवनाभं सप्तरात्रे पञ्चाब्जं पञ्चरात्रके ।
त्रिरात्रे चैकरात्रे च पद्ममष्टदलं प्रिये ॥ १९५ ॥
मण्डले सर्वतोभद्रे नवनाभेऽपि साधकैः ।
स्थापनीया नव घटाः पञ्चाब्जे पञ्चसङ्ख्यकाः ॥ १९६ ॥
नलिनेऽष्टदले देवि घटस्त्वेकः प्रकीर्तितः ।
अङ्गावरणदेवांश्च केसरादिषु पूजयेत् ॥ १९७ ॥
पूर्णाभिषेकसिद्धानां कौलानां निर्मलात्मनाम् ।
दर्शनात् स्पर्शनाद् घ्राणाद् द्रव्यशुद्धिर्विधीयते ॥ १९८ ॥
शाक्तैर्वा वैष्णवैः शैवैः सौरैर्गाणपतैरपि ।
कौलधर्माश्रितः साधुः पूजनीयोऽतियत्नतः ॥ १९९ ॥
शाक्ते शाक्तो गुरुः शस्तः शैवे शैवो गुरुर्मतः ।
वैष्णवे वैष्णवः सौरे सौरो गुरुरुदाहृतः ॥ २०० ॥
गाणपे गाणपश्चैव कौलः सर्वत्र सद्गुरुः ।
अतः सर्वात्मना धीमान् कौलाद् दीक्षां समाचरेत् ॥ २०१ ॥
पञ्चतत्त्वेन यत्नेन भक्त्या कौलान् यजन्ति ये ।
उद्धृत्य पुरुषान् सर्वांस्ते यान्ति परमां गतिम् ॥ २०२ ॥
तत इति ।
विदध्यात् कुर्यात् ॥ १९१ � १९६ ॥
नलिने पद्मे ॥ १९७ � २०० ॥
पशोर्वक्त्राल्लब्धमन्त्रः पशुरेव न संशयः ।
वीराल्लब्धमनुर्वीरः कौलाद्भवति ब्रह्मवित् ॥ २०३ ॥
शाक्ताभिषेकी वीरः स्यात् पञ्च तत्त्वानि शोधयेत् ।
स्वेष्टपूजाविधावेव न तु चक्रेश्वरो भवेत् ॥ २०४ ॥
वीरघाती वृथापायी वीराणां स्त्रीगमस्तथा ।
स्तेयी महापातकिनस्तत्संसर्गी च पञ्चमः ॥ २०५ ॥
कुलवर्त्म कुलद्रव्यं कुलसाधकमेव च ।
ये निन्दन्ति दुरात्मानस्ते गच्छन्त्यधमां गतिम् ॥ २०६ ॥
नृत्यन्ति रुद्रडाकिन्यो नृत्यन्ति रुद्रभैरवाः ।
मांसास्थिचर्वणानन्दाः सुराकौलद्विषां नृणाम् ॥ २०७ ॥
दयालवः सत्यशीलाः सदा परहितैषिणः ।
तान् गर्हयन्तो नरकान्निष्कृतिं यान्ति न क्वचित् ॥ २०८ ॥
उक्ता प्रयोगा बहवः कर्माणि विविधानि च ।
ब्रह्मैकनिष्ठकौलस्य त्यागानुष्ठानयोः समम् ॥ २०९ ॥
एकमेव परं ब्रह्म जगदावृत्य तिष्ठति ।
विश्वार्चया तदर्चा स्यात् यतः सर्वं तदन्वितम् ॥ २१० ॥
सर्वात्मना सर्वप्रयत्नेन ॥ २०१ � २०४ ॥
अथ पञ्चमहापातकिन आह वीरघातीत्याद्येकेन ॥ २०५ � २०७ ॥
गर्हयन्तः निन्दन्तः ॥ २०८ ॥ २०९ ॥
एकेति ।
तदर्चा परब्रह्मार्चनम् ।
तदन्वितम् परब्रह्मान्वितम् ॥ २१० ॥
फलासक्ताः कामपराः कर्मजालरताः प्रिये ।
पृथक्त्वेन यजन्तोऽपि तत् प्रयान्ति विशन्ति च ॥ २११ ॥
सर्वं ब्रह्मणि सर्वत्र ब्रह्मैव परिपश्यति ।
ज्ञेयः स एव सत्कौलो जीवन्मुक्तो न संशयः ॥ २१२ ॥
इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे वृद्धिश्राद्धादिमृतक्रियापूर्णाभिषेककथनं नाम दशमोल्लासः ।
फलासक्ता इत्यादि ।
अत इति शेषः ।
कर्मजालरताः कर्मसमूहानुरक्ताः ।
तत् परं ब्रह्म ॥ २११ ॥ २१२ ॥
इति श्रीमहानिर्वाणतन्त्रटीकायां दशमोल्लासः ।