०९

नवमोल्लासः

श्रीसदाशिव उवाच ।

वर्णाश्रमाचारधर्माः कथितास्तव सुव्रते ।
संस्कारान् सर्ववर्णानां शृणुष्व गदतो मम ॥ १ ॥

संस्कारेण विना देवि देहशुद्धिर्न जायते ।
नासंस्कृतोऽधिकारी स्याद् दैवे पैत्रे च कर्मणि ॥ २ ॥

अतो विप्रादिभिर्वर्णैः स्वस्ववर्णोक्तसंस्क्रिया ।
कर्तव्या सर्वथा यत्नैरिहामुत्र हितेप्सुभिः ॥ ३ ॥

जीवसेकः पुंसवनं सीमन्तोन्नयनं तथा ।
जातनाम्नी निष्क्रमणमन्नाशनमतः परम् ।
चूडोपनयनोद्वाहाः संस्काराः कथिता दश ॥ ४ ॥


ॐ नमो ब्रह्मणे

श्रीश्रीनाथपदाम्भोजे नियतं मतिरस्तु मे ।

एवमशेषान् वर्णाश्रमाचारधर्मान् कथयित्वेदानीं सर्ववर्णानामखिलान् संस्कारान् विवक्षन् श्रीसदाशिव उवाच वर्णाश्रमेत्यादि ।
गदतो मम कथयतो मत्तः ॥ १ � ३ ॥

ब्राह्मणक्षत्रियवैश्यानां जीवसेकादय उद्वाहान्ता दश संस्काराः सन्ति शूद्राणां वर्णसङ्कराणां चोपनयनाख्यसंस्कारवर्जिता जीवसेकादयो नवैव संस्काराः सन्तीत्याह जीवसेक इत्यादिना सार्द्धद्वयेन ॥ ४ ॥


शूद्राणां शूद्रभिन्नानामुपवीतं न विद्यते ।
तेषां नवैव संस्कारा द्विजातीनां दश स्मृताः ॥ ५ ॥

नित्यानि सर्वकर्माणि तथा नैमित्तिकानि च ।
काम्यान्यपि वरारोहे कुर्याच्छाम्भववर्त्मना ॥ ६ ॥

यानि यानि विधानानि येषु येषु च कर्मसु ।
पुरैव ब्रह्मरूपेण तान्युक्तानि मया प्रिये ॥ ७ ॥

संस्कारेषु च सर्वेषु तथैवान्येषु कर्मसु ।
विप्रादिवर्णभेदेन क्रमान्मन्त्राश्च दर्शिताः ॥ ८ ॥

सत्यत्रेताद्वापरेषु तत्तत्कर्मसु कालिके ।
प्रणवाद्यांस्तु तान् मन्त्रान् प्रयोगेषु नियोजयेत् ॥ ९ ॥

कलौ तु परमेशानि तैरेव मनुभिर्नराः ।
मायाद्यैः सर्वकर्माणि कुर्युः शङ्करशासनात् ॥ १० ॥

निगमागमतन्त्रेषु वेदेषु संहितासु च ।
सर्वे मन्त्रा मयैवोक्ताः प्रयोगो युगभेदतः ॥ ११ ॥

कलावन्नगतप्राणाः मानवा हीनतेजसः ।
तेषां हिताय कल्याणि कुलधर्मो निरूपितः ॥ १२ ॥

कलिदुर्बलजीवानां प्रयासाशक्तचेतसाम् ।
संस्कारादिक्रियास्तेषां सङ्क्षेपेणापि वच्मि ते ॥ १३ ॥


शूद्रभिन्नानां वर्णसङ्कराणाम् ।
तेषां शूद्राणां शूद्रभिन्नानाञ्च ।
द्विजातीनां ब्राह्मणक्षत्रियवैश्यानाम् ॥ ५ ॥ ६ ॥

विधानानि आकाङ्क्षितानीति शेषः ॥ ७ � ९ ॥

मायाद्यैः माया ह्रीमिति बीजम् आद्यं येषां मनूनाम् ते तैः ॥ १० � १३ ॥


सर्वेषां शुभकार्याणामादिभूता कुशण्डिका ।
तस्मादादौ प्रवक्ष्यामि शृणु तां देववन्दिते ॥ १४ ॥

रम्ये परिष्कृते देशे तुषाङ्गारादिवर्जिते ।
हस्तमात्रप्रमाणेन स्थण्डिलं रचयेत् सुधीः ॥ १५ ॥

तिस्रो रेखा विधातव्या प्रागग्रास्तत्र मण्डले ।
कूर्चेनाभ्युक्ष्य ताः सर्वा वह्निना वह्निमाहरेत् ॥ १६ ॥

आनीय वह्निं तत्पार्श्वे स्थापयेद्वाग्भवं स्मरन् ॥ १७ ॥

ततस्तस्मात् ज्वलद्दारु गृहीत्वा दक्षपाणिना ।
ह्री।
क्रव्यादेभ्यो नमः स्वाहा क्रव्यादांशं परित्यजेत् ॥ १८ ॥

इत्थं प्रतिष्ठितं वह्निं पाणिभ्यामात्मसम्मुखम् ।
उद्धृत्य तासु रेखासु मायाद्यां व्याहृतिं स्मरन् ॥ १९ ॥


ताम् कुशण्डिकाम् ॥ १४ ॥
कुशण्डिकामेवाह रम्ये इत्यादिभिः ।
स्थण्डिलम् चत्वरम् ॥ १५ ॥

तिस्र इत्यादि ।
तत्र मण्डले हस्तमात्रप्रमाणेन रचिते स्थण्डिले प्रागग्रास्तिस्रो रेखा विधातव्याः ।
ततः कूर्चेन हूमिति मन्त्रेण ता रेखा अभ्युक्ष्य जलेनाभिषिच्य वह्निना रमिति मन्त्रेण वह्निमाहरेत् आनयेत् ॥ १६ ॥

आनीयेत्यादि ।
वह्निमानीय वाग्भवम् ऐमिति मन्त्रं स्मरन् सन् तत्पार्श्वे स्थण्डिलस्य पार्श्वे स्थापयेत् ॥ १७ ॥

तत इत्यादि ।
ततः परं तस्माद्वह्नेरेकं ज्वलद्दारु प्रज्वलत्काष्ठं दक्षपाणिना गृहीत्वा ह्री।
क्रव्यादेभ्यो नमः स्वाहेति मन्त्रेण क्रव्यादांशं राक्षसभागं दक्षिणस्यां दिशि परित्यजेत् ॥ १८ ॥

इत्थमित्यादि ।
इत्थमनेन प्रकारेण प्रतिष्ठितं संस्कृतं वह्निं पाणिभ्यामुद्धृत्योत्थाप्य मायाद्यां ह्री।
बीजाद्यां व्याहृतिं स्मरन् सन् आत्मनः


संस्थाप्य तृणदारुभ्यां प्रबलीकृत्य पावकम् ।
समिधे द्वे घृताक्ते च हुत्वा तस्मिन् हुताशने ।
स्वकर्मविहितं नाम कृत्वा ध्यायेद्धनञ्जयम् ॥ २० ॥

बालार्कारुणसङ्काशं सप्तजिह्वं द्विमस्तकम् ।
अजारूढं शक्तिधरं जटामुकुटमण्डितम् ॥ २१ ॥

ध्यात्वैवं प्राञ्जलिर्भूत्वाऽवाहयेद्धव्यवाहनम् ॥ २२ ॥

मायामेह्येहि पदतः सर्वामर वदेत् प्रिये ।
हव्यवाहपदान्ते च मुनिभिः स्वगणैः सह ।
अध्वरं रक्ष रक्षेति नमः स्वाहा ततो वदेत् ॥ २३ ॥


सम्मुखं यथा स्यात्तथा तासु रेखासु संस्थाप्य तृणदारुभ्यां पावकमग्निं प्रबलीकृत्य च तस्मिन् हुताशनेऽग्नौ घृताक्ते घृतसंयुक्ते द्वे समिधौ काष्ठे हुत्वा प्रक्षिप्य वह्नेः स्वकर्मविहितं नाम च कृत्वा धनञ्जयमग्निं ध्यायेत् ॥ १९ ॥ २० ॥

वह्नेर्ध्यानमेवाह बालार्कारुणसङ्काशमित्यादि ।
बालो योऽर्कः सूर्यस्तद्वदरुणो लोहितवर्णः सङ्काशो दीप्तिर्यस्य तथाभूतम् ॥ २१ ॥

ध्यात्वेत्यादि ।
एवं हव्यवाहनमग्निं ध्यात्वा ततः प्राञ्जलिर्भूत्वा वक्ष्यमाणमन्त्रेण हव्यवाहनमावाहयेत् ॥ २२ ॥

वह्न्यावाहनमन्त्रमेवाह मायामित्यादिना सार्द्धेन ।
हे प्रिये पूर्वं मायां ह्रीमिति बीजं वदेत् ततः परमेह्येहीत्युक्त्वा तत् पदतः परं सर्वामरेति पदं वदेत् ।
ततो हव्यवाहेति पदस्यान्ते मुनिभिः स्वगणैः सह अध्वरं रक्ष रक्षेति वदेत् ।
ततो नमः स्वाहेति वदेत् ।
सकलपदयोजनया ह्री।
एह्येहि सर्वामरहव्यवाह मुनिभिः स्वगणैः सह अध्वरं रक्ष रक्ष नमः स्वाहेति मन्त्रो जातः ॥ २३ ॥


इत्यावाह्य हव्यवाहमयं ते योनिरुच्चरन् ।
यथोपचारैः सम्पूज्य सप्त जिह्वाः प्रपूजयेत् ॥ २४ ॥

काली कराली च मनोजवा च सुलोहिता चैव सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वनिरूपिणी च लेलायमानेति च सप्त जिह्वाः ॥ २५ ॥

ततोऽग्नेः पूर्वमारभ्य सह कीलालपाणिना ।
उत्तरान्तं महेशानि त्रिधा प्रोक्षणमाचरेत् ॥ २६ ॥

तथैव याम्यमारभ्य कौबेरान्तं हुताशितुः ।
त्रिधा पर्युक्षणं कुर्यात्ततो यज्ञीयवस्तुनः ॥ २७ ॥


इतीति ।
इत्यनेन मन्त्रेण हव्यवाहनमग्निमावाह्य वह्ने ते तवायं योनिरित्युच्चरन् सन् प्रणवादिनमोऽन्तेन नाममन्त्रेणोपचारैः पाद्यादिभिर्वह्निं यथावत् सम्पूज्य प्रणवादिनमोऽन्तनाममन्त्रेण गन्धपुष्पादिभिर्वह्नेः सप्त जिह्वाः प्रपूजयेत् ॥ २४ ॥

वह्नेः सप्तजिह्वा एवाह कालीत्यादिनैकेन ।
काल्याद्या विश्वनिरूपिण्यन्ता लेलायमाना अग्नेर्हविर्ग्रहणार्था एताः सप्तजिह्वाः ॥ २५ ॥

तत इति ।
हे महेशानि ततः परं सह कीलालपाणिना सजलेन हस्तेन पूर्वमारभ्योत्तरान्तमुत्तरपर्यन्तमग्नेस्त्रिधा त्रिवारं प्रोक्षणमाचरेत् ॥ २६ ॥

तथैवेत्यादि ।
ततस्तथैव सह कीलालपाणिनैव याम्यं दक्षिणमारभ्य कौबेरान्तमुत्तरपर्यन्तं हुताशितुर्वह्नेस्त्रिधा पर्युक्षणमभिषेचनं कुर्यात् ।
ततः परं यज्ञीयवस्तुनोऽपि त्रिधैव पर्युक्षणं कुर्यात् ॥ २७ ॥


परिस्तरेत्ततो दर्भैः पूर्वस्मादुत्तरावधि ।
उदक्संस्थैरुत्तराग्रैः प्रागग्रैरन्यदिक्स्थितैः ॥ २८ ॥

अग्निं दक्षिणतः कृत्वा गत्वा ब्रह्मासनान्तिकम् ।
वामाङ्गुष्ठकनिष्ठाभ्यां ब्रह्मणः कल्पितासनात् ॥ २९ ॥

गृहीत्वा कुशपत्रैकं ह्री।
निरस्तः परावसुः ।
इत्युक्त्वाग्नेर्दक्षिणस्यां निक्षिपेदुत्करादिना ॥ ३० ॥

सीद यज्ञपते ब्रह्मन्निदं ते कल्पितासनम् ।
सीदामीति वदन् ब्रह्मा विशेत्तत्रोत्तरामुखः ॥ ३१ ॥

सम्पूज्य गन्धपुष्पाद्यैर्ब्रह्माणं प्रार्थयेदिदम् ॥ ३२ ॥

गोपाय यज्ञं यज्ञेश यज्ञं पाहि बृहस्तपते ।
माञ्च यज्ञपतिं पाहि कर्मसाक्षिन्नमोऽस्तु ते ॥ ३३ ॥


परिस्तरेदिति ।
ततः परं पूर्वस्मात् पूर्वमारभ्य उत्तरावधि उत्तरपर्यन्तमुदक्संस्थैरुत्तरदिक्स्थितैरुत्तराग्रैरन्यदिक्स्थितैः प्रागग्रैर्दर्भैः कुशैः स्थण्डिलं परिस्तरेदाच्छादयेत् ॥ २८ ॥

अग्निमित्यादि ।
ततोऽग्निं दक्षिणतः कृत्वा ब्रह्मासनान्तिक गत्वा वामाङ्गुष्ठकनिष्ठाभ्यामङ्गुलिभ्यां ब्रह्मणः कल्पितादासनात् कुशपत्रैकमेकं कुशपत्रं गृहीत्वा ह्री।
निरस्तः परावसुरितिमन्त्रमुक्त्वा उत्करादिना सह तदेव कुशपत्रमग्नेर्दक्षिणस्यां दिशि निक्षिपेत् ॥ २९ ॥ ३० ॥

सीदेति ।
हे यज्ञपते ब्रह्मन् इदं ते त्वदर्थं कल्पितासनं वर्तते त्वं सीद अत्रोपविशेति ब्रह्माणं यज्ञकर्ता ब्रूयात् ततोऽहं सीदामीति वदन् ब्रह्मा उत्तरामुखो भूत्वा तत्रासने विशेत् ॥ ३१ ॥

सम्पूज्येत्यादि ।
ततो गन्धपुष्पादिभिर्ब्रह्माणं सम्पूज्य तमेवेदं प्रार्थयेत् ॥ ३२ ॥

इदं किं प्रार्थयेदित्यपेक्षायामाह गोपाय यज्ञमित्यादि ।
गोपाय रक्ष ॥ ३३ ॥


गोपयामि वदेत् ब्रह्मा ब्रह्माभावे स्वयं वदेत् ।
तत्र दर्भमयं विप्रं कल्पयेत् यज्ञसिद्धये ॥ ३४ ॥

ततो ब्रह्मन्निहागच्छागच्छेत्यावाह्य साधकः ।
पाद्यादिभिश्च सम्पूज्य यावद् यज्ञसमापनम् ।
तावद्भवद्भिः स्थातव्यमिति प्रार्थ्य नमेत्ततः ॥ ३५ ॥

सोदकेन करेणाग्नेरीशानाद् ब्रह्मणोऽन्तिकम् ।
त्रिधा पर्युक्ष्य वह्निञ्च त्रिः प्रोक्ष्य तदनन्तरम् ॥ ३६ ॥

आगत्य वर्त्मना तेन सूपविश्य निजासने ।
स्थण्डिलस्योत्तरे दर्भानुदगग्रान् परिस्तरेत् ॥ ३७ ॥

तेषु यज्ञीयवस्तूनि सर्वाण्यासादयेत् सुधीः ।
सोदकं प्रोक्षणीपात्रमाज्यस्थालीसमित्कुशान् ॥ ३८ ॥


गोपयामीति ।
यज्ञकर्त्रैवं प्रार्थितो ब्रह्मा गोपयामीति वदेत् ।
ब्रह्माभावे तु गोपयामीति स्वयमेव वदेत् ।
तत्र ब्रह्माभावे सति यज्ञसिद्धये दर्भमयं विप्रं कल्पयेत् ॥ ३४ ॥

तत इत्यादि ।
ततः परं साधको यज्ञकर्ता ब्रह्मन्निहागच्छागच्छेति मन्त्रेण ब्रह्माणमावाह्य पाद्यादिभिः सम्पूज्य च यावद्यज्ञसमापनं भवेत्तावद्भवद्भिरिह स्थातव्यमिति प्रार्थ्य च ततो ब्रह्माणं नमेत् ॥ ३५ ॥

सोदकेनेति ।
ततः सोदकेन करेण सजलेन हस्तेनाग्नेरीशानादीशानकोणमारभ्य ब्रह्मणोऽन्तिकं ब्रमसमीपपर्यन्तं त्रिधा वारत्रयं पर्युक्ष्याभिषिच्य वह्निञ्च त्रिर्वारत्रयं प्रोक्ष्य तदनन्तरं येन वर्त्मना ब्रह्मासनान्तिकं गतवानासीत्तेनैव वर्त्मनाऽगत्य निजासने सूपविश्य च यज्ञकर्ता स्थण्डिलस्योत्तरे देशे उदगग्रान् दर्भान् कुशान् आस्तरेत् ॥ ३६ ॥ ३७ ॥

तेष्विति ।
सुधीर्यज्ञसाधकस्तेषु दर्भेषु सर्वाणि यज्ञीयवस्तून्यासादयेत् स्थापयेत् ।
दर्भेषु यानि यज्ञीयवस्तूनि आसादयेत्तान्याह सोदकमित्यादिना ॥ ३८ ॥


आसाद्य स्रुक्स्रुवादीनि ह्रा।
ह्री।
ह्रूमिति मन्त्रकैः ।
दिव्यदृष्ट्या प्रोक्षणेन संस्कृत्य तदनन्तरम् ॥ ३९ ॥

पृथिव्यां दक्षिणं जानु पातयित्वा स्रुवे स्रुचा ।
घृतमादाय मतिमांश्चिन्तयन् हितमात्मनः ।
ह्री।
विष्णवे द्विठान्तेन प्रदद्यादाहुतित्रयम् ॥ ४० ॥

तथैव घृतमादाय ध्यायन् देवं प्रजापतिम् ।
वायव्यादग्निकोणान्तं जुहुयादाज्यधारया ॥ ४१ ॥

पुनराज्यं समादाय ध्यायन्देवं पुरन्दरम् ।
नैरृतादीशकोणान्तं जुहुयादाज्यधारया ॥ ४२ ॥

ततोऽग्नेरुत्तरे याम्ये मध्ये च परमेश्वरि ।
अग्निं सोमम् अग्नीषोमौ समुल्लिख्य यथाक्रमात् ॥ ४३ ॥


आसाद्येति ।
दर्भेषु सोदकप्रोक्षणीपात्रादीनि वस्तूनि स्रुक्स्रुवादीनि यज्ञीयानि पात्राणि चासाद्य संस्थाप्य ह्रा।
ह्री।
ह्रूमिति मन्त्रकैर्दिव्यदृष्ट्या प्रोक्षणेन च तानि संस्कृत्य तदनन्तरं पृथिव्यां दक्षिणं जानु पातयित्वा स्रुचा स्रुवे यज्ञीये पात्रे घृतमादाय गृहीत्वा मतिमान् यज्ञसाधक आत्मनो हितं चिन्तयन् सन् द्विठान्तेन स्वाहान्तेन ह्री।
विष्णवे इति मन्त्रेण विष्णुमुद्दिश्याहुतित्रयं प्रदद्यात् ॥ ३९ ॥ ४० ॥

तथैवेत्यादि ।
तथैव स्रुचा स्रुवे एव घृतमादाय ह्री।
बीजाद्येन सचतुर्थीस्वाहान्तेन नाममन्त्रेण प्रजापतिं देवं ध्यायन् सन् तमुद्दिश्य वायव्यात् वायव्यं कोणमारभ्याग्निकोणान्तं घृतधारया जुहुयात् ॥ ४१ ॥

पुनरित्यादि ।
पुनः स्रुचा स्रुवे आज्यं घृतं समादाय पुरन्दरं देवं ध्यायन् सन् तमुद्दिश्य ह्री।
बीजाद्येन सचतुर्थीस्वाहान्तेन नाममन्त्रेण नैरृतानैरृतं कोणमारभ्येशकोणान्तमीशानकोणपर्यन्तमाज्यधारया जुहुयात् ॥ ४२ ॥

तत इत्यादि ।
हे परमेश्वरि ततः परम् अग्नेरुत्तरे भागे याम्ये दक्षिणे भागे मध्ये च यथाक्रमात् क्रमेणैवाग्निं सोमम् अग्नीषोमौ च समुद्दिश्य मायाद्येन


सचतुर्थीनमोऽन्तेन मायाद्येनाहुतित्रयम् ।
हुत्वा विधेयकर्मोक्तं होमं कुर्याद्विचक्षणः ॥ ४४ ॥

आहुतित्रयदानान्तं धाराहोमं प्रचक्षते ॥ ४५ ॥

यदुद्दिश्याहुतिं दद्यात् देयोद्देशोऽपि तत्कृते ।
समाप्य प्रकृतं कर्म स्विष्टकृद्धोममाचरेत् ॥ ४६ ॥

प्रायश्चित्तात्मको होमः कलौ नास्ति वरानने ।
स्विष्टिकृता व्याहृतिभिः प्रायश्चित्तं विधीयते ॥ ४७ ॥

पूर्ववद्धविरादाय ब्रह्माणं मनसा स्मरन् ।
अस्मिन् कर्मणि देवेश प्रमादाद्भ्रमतोऽपि वा ॥ ४८ ॥


ह्री।
बीजाद्येन सचतुर्थीनमोऽन्तेन नाममन्त्रेणाहुतित्रयं हुत्वा विचक्षणः सुधीर्यज्ञसाधको विधेयकर्मोक्तं विधेये ऋतुसंस्कारादौ कर्मण्युक्तं होमं कुर्यात् ॥ ४३ ॥ ४४ ॥

आहुतीत्यादि ।
विष्णूद्देश्यकाहुतित्रयदानम् आरभ्य अग्न्याद्युद्देश्यकाहुतित्रयदानान्तं धाराहोमं प्रचक्षते प्रवदन्ति ॥ ४५ ॥

यदित्यादि ।
यद्दैवतमुद्दिश्याहुतिं दद्यात् तत्कृते तदर्थं देयोद्देशोऽपि देयस्य वस्तुन उद्देश उल्लेखोऽपि कर्तव्यः ।
यथा ह्री।
विष्णवे स्वाहा हविरिदं विष्णवे एवमेवेति विधेयकर्माङ्गभूतं प्रकृतं कर्म होमकर्मैवं समाप्य स्विष्टकृद्धोमं शोभनाभीष्टकारकं होममाचरेत् ॥ ४६ ॥

प्रायश्चित्तेत्यादि ।
कलौ युगे प्रायश्चित्तात्मकहोमाभावात् स्विष्टिकृता होमेन व्याहृतिभिर्होमेन च प्रायश्चित्तं विधीयते ॥ ४७ ॥

अथ स्विष्टकृद्धोमाचरणविधिमाह पूर्ववदित्यादिभिः ।
पूर्ववत् स्रुचा स्रुवे हविर्घृतमादाय ब्रह्माणं प्रजापतिं मनसा स्मरन् सन् तमुद्दिश्य मायाद्येन ह्री।
बीजाद्येन स्वाहान्तेन -


न्यूनाधिकं कृतं यच्च सर्वं स्विष्टकृतं कुरु ।
मायाद्येनामुना देवि स्वाहान्तेनाहुतिं हुनेत् ॥ ४९ ॥

त्वमग्ने सर्वलोकानां पावनः स्विष्टकृत् प्रभुः ।
यज्ञसाक्षी क्षेमकर्ता सर्वान् कामान् प्रपूरय ।
अनेन हवनं कुर्यात् मायया वह्निजायया ॥ ५० ॥

इत्थं स्विष्टकृतं होमं समाप्य क्रतुसाधकः ।
कर्मणोऽस्य परब्रह्मन्नयुक्तं विहितञ्च यत् ॥ ५१ ॥

तच्छान्त्यै यज्ञसम्पत्त्यै व्याहृत्या हूयते विभो ।
मायादिवह्निजायान्तैर्भूर्भुवः स्वरिति त्रिभिः ॥ ५२ ॥


अस्मिन् कर्मणि देवेश प्रमादाद्भूमतोऽपि वा ।
न्यूनाधिकं कृतं यच्च सर्वं स्विष्टकृतं कुरु ॥

इत्यमुना मन्त्रेणाहुतिं हुनेत् दद्यात् ॥ ४८ ॥ ४९ ॥

त्वमित्यादि ।
ततोऽग्निमुद्दिश्याऽदिभूतया मायया ह्री।
बीजेनान्तभूतया वह्निजायया स्वाहया च संयुक्तेन �

त्वमग्ने सर्वलोकानां पावनः स्विष्टकृत् प्रभुः ।

यज्ञसाक्षी क्षेमकर्ता सर्वान् कामान् प्रपूरय ॥

इत्यनेन मन्त्रेण हवनं कुर्यात् ॥ ५० ॥

इत्थमित्यादि ।
इत्थमनेन प्रकारेण स्विष्टकृतं होमं समाप्य क्रतुसाधको यज्ञकर्ता ।

कर्मणोऽस्य परब्रह्मन्नयुक्तं विहितञ्च विहितञ्च यत् ।

तच्छान्त्यै यज्ञसम्पत्त्यै व्याहृत्या हूयते विभो ॥

इति परं ब्रह्म सम्प्रार्थ्य परं ब्रह्मैवोद्दिश्य च मायादिवह्निजायान्तैः ह्री।
बीजादिभिः स्वाहान्तैर्भूर्भुवःस्वरिति त्रिभिर्मन्त्रैराहुतित्रितयं दद्यात् ।
तथैव ह्री।


आहुतित्रितयं दद्यात् त्रितयेन तथैव च ।
हुत्वाग्नौ यजमानेन दद्यात् पूर्णाहुतिं बुधः ॥ ५३ ॥

स्वयं चेत् कर्मकर्ता स्यात् स्वयमेवाहुतिं क्षिपेत् ।
अभिषेकविधानादावेवमेव विधिः स्मृतः ॥ ५४ ॥

आदौ मायां समुच्चार्य ततो यज्ञपते वदेत् ।
पूर्णो भवतु यज्ञो मे हृष्यन्तु यज्ञदेवताः ।
फलानि सम्यक् यच्छन्तु वह्निकान्तावधिर्मनुः ॥ ५५ ॥

मन्त्रेणानेन मतिमानुत्थाय सुसमाहितः ।
फलताम्बूलसहिताहुतिं दद्याद्धुताशने ॥ ५६ ॥

दत्तपूर्णाहुतिर्विद्वान् शान्तिकर्म समाचरेत् ।
प्रोक्षणीपात्रतोयेन कुशैः सम्मार्जयेच्छिरः ॥ ५७ ॥


बीजाद्येन स्वाहान्तेन भूरादित्रितयेनैकधाहुतिं दद्यात् ।
बुधो यज्ञसाधक एवं हुत्वा यजमानेन सह विष्णुमुद्दिश्य वक्ष्यमाणमन्त्रेणाग्नौ पूर्णाहुतिं दद्यात् ॥ ५१ � ५३ ॥

स्वयञ्चेदित्यादिश्लोकस्तु स्पष्टार्थः ॥ ५४ ॥

येन मन्त्रेण पूर्णाहुतिं दद्यात् तमेव मन्त्रमाह आदावित्यादिना सार्द्धेन ।
आदौ मायां ह्री।
बीजं समुच्चार्य ततो यज्ञपते इति वदेत् ततः पूर्णो भवतु यज्ञो मे हृष्यन्तु यज्ञदेवताः फलानि सम्यग्यच्छन्तु इति वदेत् ।
योजनया ह्री।
यज्ञपते पूर्णो भवतु यज्ञो मे हृष्यन्तु यज्ञदेवताः फलानि सम्यग् यच्छन्तु स्वाहेति मनुर्जातः अयं मनुर्वह्निकान्तावधिः स्वाहान्तः प्रोक्तः ॥ ५५ ॥

मन्त्रेणेत्यादि ।
मतिमान् यज्ञसाधको यजमानेन सहोत्थाय सुसमाहितः अतिसावधानः सन् अनेन मन्त्रेण फलताम्बूलसहिताहुतिं हुताशनेऽग्नौ दद्यात् ॥ ५६ ॥

दत्तेत्यादि ।
एवं दत्तपूर्णाहुतिः सन् विद्वान् यज्ञसाधकः शान्तिकर्म समाचरेत् ।
शान्तिकर्माचरणस्यैव विधिमाह प्रोक्षणीपात्रेत्यादिभिः ॥ ५७ ॥


आपः सुमित्रियाः सन्तु भवन्त्वोषधयो मम ।
आपो रक्षन्तु मां नित्यमापो नारायणः स्वयम् ॥ ५८ ॥

आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातनः ।
इत्याभ्यां मार्जनं कृत्वा भूमौ बिन्दून् विनिक्षिपेत् ॥ ५९ ॥

ये द्विषन्ति च मां नित्यं यांश्च द्विष्मो नरान् वयम् ।
आपो दुर्भित्रियास्तेषां सन्तु भक्षन्तु तानपि ॥ ६० ॥

अनेनेशानदिग्भागे बिन्दून् प्रक्षिप्य तान् कुशान् ।
हित्वा कृताञ्जलिर्भूत्वा प्रार्थयेद्धव्यवाहनम् ॥ ६१ ॥

बुद्धिं विद्यां बलं मेधां प्रज्ञां श्रद्धं यशः श्रियम् ।
आरोग्यं तेज आयुष्यं देहि मे हव्यवाहन ॥ ६२ ॥

इति प्रार्थ्य वीतिहोत्रं विसृजेदमुना शिवे ॥ ६३ ॥


शिरःसम्मार्जनार्थमाप इत्यादिकं मन्त्रद्वयमाह आप इति ।
हे आपो भवत्यो मम सुमित्रियाः सन्तु ओषधयश्च भवन्तु इत्येवमन्वयः ।
सुमित्राण्येव सुमित्रियाः स्वार्थे ष्ण्यः तस्येयादेशः ॥ ५८ ॥

आप इत्यादेरर्थो वक्ष्यते ।
इत्याभ्यां मन्त्राभ्यां शिरसो मार्जनं कृत्वा भूमौ कुशैर्बिन्दून् विनिःक्षिपेन् ॥ ५९ ॥

भूमौ बिन्दूनां निक्षेपणस्य मन्त्रमाह ये द्विषन्तीति ॥ ६० ॥

अनेनेत्यादि ।
अनेन मन्त्रेणेशानदिग्भागे कुशैर्बिन्दून् प्रक्षिप्य तान् कुशानपि तत्रैव हित्वा त्यक्त्वा कृताञ्चलिर्भूत्वा हव्यवाहनमग्निं प्रार्थयेत् ॥ ६१ ॥

अग्निं किं प्रार्थयेदित्यपेक्षायामाह बुद्धिमित्यादि ।
बुद्धिम् शास्त्रादितत्त्वज्ञानम् ।
विद्याम् आत्मज्ञानम् ।
मेधाम् धारणावतीं धियम् ।
प्रज्ञाम् सारासारविवेकनैपुण्यम् ॥ ६२ ॥

इतीति ।
हे शिवे इति वीतिहोत्रमग्निं प्रार्थ्याऽमुना वक्ष्यमाणेन मन्त्रेण तमेव विसृजेत् ॥ ६३ ॥


यज्ञ यज्ञपतिं गच्छ यज्ञं गच्छ हुताशन ।
स्वां योनिं गच्छ यज्ञेश पूरयास्मन्मनोरथम् ॥ ६४ ॥

अग्ने क्षमस्व स्वाहेति मन्त्रेणाग्नेरुदग्दिशि ।
दत्वा दध्नाऽहुतिं वह्निं दक्षिणस्यां विचालयेत् ॥ ६५ ॥

ब्रह्मणे दक्षिणां दत्त्वा भक्त्या नत्वा विसर्जयेत् ।
ततस्तु तिलकं कुर्यात् स्रुवसंलग्नभस्मना ॥ ६६ ॥

मायां कामं समुच्चार्य सर्वशान्तिकरो भव ।
ललाटे तिलकं कुर्यात् मन्त्रेणानेन याज्ञिकः ॥ ६७ ॥

शान्तिरस्तु शिवं चास्तु वासवाग्निप्रसादतः ।
मरुतां ब्रह्मणश्चैव वसुरुद्रप्रजापतेः ॥ ६८ ॥


अग्निविसर्जनस्यैव मन्त्रमाह यज्ञेति ।
हे यज्ञ त्वं यज्ञपतिं विष्णुं गच्छ प्राप्नुहि ।
हे हुताशन त्वं यज्ञं गच्छ ।
हे यज्ञेश यज्ञकर्तस्त्वं स्वां योनिमात्मीयस्थानं गच्छ ।
हे यज्ञादिक त्वमस्मन्मनोरथमस्माकं कामं पूरय ।
यज्ञयज्ञपतिमित्यादिनाऽग्ने क्षमस्व स्वाहेत्यन्तेनानेन मन्त्रेणाग्नेरुदग्दिशि दध्नाहुतिं दत्वा दक्षिणस्यां दिशि वह्निमनेनैव मन्त्रेण विचालयेत् ॥ ६४ ॥ ६५ ॥

ब्रह्मणे इत्यादिस्तु स्पष्टार्थः ॥ ६६ ॥
ननु केन मन्त्रेण ललाटे तिलकं कर्तव्यं तत्राह मायामित्यादि ।
मायां ह्री।
बीजं कामं क्ली।
बीजं समुच्चार्य सर्वशान्तिकरो भवेति वदेत् ।
योजनया ह्री।
क्ली।
सर्वशान्तिकरो भवेति मन्त्रो जातः ।
याज्ञिको यज्ञकर्ताऽनेन मन्त्रेण ललाटे तिलकं कुर्यात् ॥ ६७ ॥
शान्तिरित्यादि ।
शिवम् कल्याणम् ।
मरुतामित्यादावपि प्रसादत इत्यस्य योजना कर्तव्या ॥ ६८ ॥


अनेन मनुना पुष्पं धारयेन्मस्तकोपरि ।
स्वशक्त्या दक्षिणां दद्यात् होमप्रकृतकर्मणोः ॥ ६९ ॥

इति ते कथिता देवि सर्वकर्मकुशण्डिका ।
प्रयोज्या शुभकर्मादौ यत्नतः कुलसाधकैः ॥ ७० ॥

प्रकृते कर्मणि शिवे चरुर्येषां कुलागमः ।
सिद्ध्यर्थं कर्मणान्तेषां चरुकर्म निगद्यते ॥ ७१ ॥

चरुस्थाली प्रकर्तव्या ताम्री वा मृत्तिकोद्भवा ॥ ७२ ॥

कुशण्डिकोक्तविधिना द्रव्यसंस्करणावधि ।
कृत्वा कर्म चरुस्थालीमानयेदात्मसम्मुखे ॥ ७३ ॥

अक्षतामब्रणां दृष्ट्वा प्रादेशपरिमाणकम् ।
पवित्रकुशमेकञ्च स्थालीमध्ये नियोजयेत् ॥ ७४ ॥


अनेनेति ।
अनेन शान्तिरस्त्वित्यादिना प्रजापतेरित्यन्तेन मनुना मस्तकोपरि पुष्पं धारयेत् ।
ततो होमप्रकृतकर्मणोः स्वशक्त्या दक्षिणां यज्ञसाधकाय ब्राह्मणाय दद्यात् ॥ ६९ ॥ ७० ॥

प्रकृत इत्यादि ।
प्रकृते कर्मणि ऋतुसंस्कारादौ ।
चरुः देवतार्थं परमान्नम् ।
कुले आगम आगमनं यस्य चरोः स कुलागमः ॥ ७१ ॥

चरुकर्मैवाह चरुस्थालीत्यादिभिः ॥ ७२ ॥

कुशण्डिकेत्यादि ।
कुशण्डिकोक्तविधिना द्रव्यसंस्करणावधि द्रव्यसंस्कारपर्यन्तं सर्वं कर्म कृत्वा चरुस्थालीमात्मसम्मुखे देशे आनयेत् ॥ ७३ ॥

अक्षतामिति ।
ततोऽक्षतामभग्नामब्रणामच्छिद्रां चरुस्थालीं दृष्ट्वा प्रादेशपरिमाणकमेकं पवित्रकुशं स्थालीमध्ये नियोजयेत् स्थापयेत् ॥ ७४ ॥


आनीय तण्डुलांस्तत्र संस्थाप्य स्थण्डिलान्तिके ।
यस्मिन् कर्मणि ये देवाः पूजनीयाः सुरार्चिते ॥ ७५ ॥

तत्तन्नाम चतुर्थ्यन्तमुक्त्वा त्वाजुष्टमीरयन् ।
गृह्णामि निर्वपामीति प्रोक्षामीति क्रमाद्वदन् ॥ ७६ ॥

गृहीत्वा निर्वपेत् स्थाल्यां प्रोक्षयेज्जलबिन्दुना ।
प्रत्येकञ्चतुरो मुष्टीन् देवमुद्दिश्य तण्डुलान् ॥ ७७ ॥

ततो दुग्धं सिताञ्चैव दत्वा पाकविधानतः ।
सुपचेत् संस्कृते वह्नौ सावधानेन सुव्रते ॥ ७८ ॥

सुपक्वं कोमलं ज्ञात्वा दद्यात् तत्र घृतस्रुवम् ॥ ७९ ॥


आनीयेत्यादि ।
ततस्तत्र यज्ञस्थाने तण्डुलानानीय स्थण्डिलान्तिके संस्थाप्य च यस्मिन् ऋतुसंस्कारादौ कर्मणि ये देवाः पूजनीयास्तत्तन्नाम चतुर्थ्यन्तमुक्त्वा ततः परं त्वाजुष्टमितीरयन् वदन् ततः परं क्रमादेव गृह्णामीति निर्वपामीति प्रोक्षामीति च वदन् सन् प्रत्येकं देवमुद्दिश्य चतुरो मुष्टीन् चतुर्मुष्टिपरिमितांस्तण्डुलान् गृहीत्वा स्थाल्यां निर्वपेत् जलबिन्दुना प्रोक्षयेच्च ।
अमुकदेवाय त्वाजुष्टं गृह्णामीति मन्त्रेण तण्डुलानादायामुकदेवाय त्वाजुष्टं निर्वपामीति मन्त्रेण स्थाल्यां निःक्षिपेत् ।
अमुकदेवाय त्वाजुष्टं प्रोक्षामीति मन्त्रेण जलबिन्दुना तानभिषिञ्चेच्चेत्यर्थः ।
तु आजुष्टमिति छेदः ।
आजुष्टम् प्रीतिः ।
आजुष्टमिति क्रियाविशेषणम् ॥ ७५ � ७७ ॥

तत इति ।
हे सुव्रते ततः परं क्रमेण दुग्धं सिताञ्च स्थाल्यां दत्त्वा सावधानेन मनसा संस्कृते वह्नौ पाकविधानतश्चरुं सुपचेत् ॥ ७८ ॥

सुपक्वमिति ।
ततः सुपक्वं कोमलं चरुं ज्ञात्वा तत्र घृतस्रुवं घृतपूर्णस्रुवं दद्यात् ॥ ७९ ॥


अग्नेरुत्तरतः पात्रं विनिधाय कुशोपरि ।
पुनस्त्रिधा घृतं दत्त्वा स्थालीमाच्छादयेत् कुशैः ॥ ८० ॥

ततः सृवे चरुस्थाल्या घृताधारणपूर्वकम् ।
किञ्चिच्चरुं समादाय जानुहोमं समाचरेत् ॥ ८१ ॥

धाराहोमं ततः कृत्वा प्रधानीभूतकर्मणि ।
यत्र ये विहिता देवास्तन्मन्त्रैराहुतीर्हुनेत् ॥ ८२ ॥

समाप्य प्रकृतं होमं स्विष्टिकृद्धोमपूर्वकम् ।
प्रायश्चित्तात्मकं हुत्वा कुर्यात् कर्मसमापनम् ॥ ८३ ॥

संस्कारेषु प्रतिष्ठासु विधिरेषः प्रकीर्तितः ।
विधेयः शुभकर्मादौ कर्मसंसिद्धिहेतवे ॥ ८४ ॥

अथोच्यते महामाये गर्भाधानादिकाः क्रियाः ।
तत्रादावृतुसंस्कारः कथ्यते क्रमतः शृणु ॥ ८५ ॥


अग्नेरिति ।
ततश्चरुपात्रमग्नेरुत्तार्याग्नेरुत्तरतो देशे कुशोपरि विनिधाय संस्थाप्य च पुनस्त्रिधा त्रिवारं तत्र घृतं दत्त्वा कुशैः स्थालीमाच्छादयेत् ॥ ८० ॥

तत इति ।
ततः परं घृताधारणपूर्वकं घृतसेचनपूर्वकं चरुस्थाल्याः सकाशात् किञ्चिच्चरुं सृवे समादाय गृहीत्वा जानुहोमं समाचरेत् कुर्यात् ।
पृथिव्यां दक्षिणं जानु पातयित्वा यो होमो विधीयते स एव जानुहोमो ज्ञातव्यः ॥ ८१ ॥

धारेत्यादि ।
ततो धाराहोमं कृत्वा यत्र यस्मिन् प्रधानीभूतकर्मणि ये देवाः पूज्या विहितास्तन्मन्त्रैस्तेषां देवानां मन्त्रैराहुतीर्हुनेद्दद्यात् ॥ ८२ ॥

समाप्येति ।
एवं प्रकृतहोमं समाप्य स्विष्टिकृद्धोमपूर्वकं प्रायश्चित्तात्मकं हुत्वा होमं कृत्वा कर्मसमापनं होमकर्मणः समाप्तिं कुर्यात् ॥ ८३ � ८५ ॥


कृतनित्यक्रियः शुद्धः पञ्च देवान् समर्चयेत् ।
ब्रह्मा दुर्गा गणेशश्च ग्रहा दिक्पतयस्तथा ॥ ८६ ॥

स्थण्डिलस्येन्द्रदिग्भागे घटेष्वेतान् प्रपूजयेत् ।
ततस्तु मातृकाः पूज्या गौर्याद्याः षोडश क्रमात् ॥ ८७ ॥

गौरी पद्मा शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा शान्तिः पुष्टिर्धृतिः क्षमा ।
आत्मनो देवता चैव तथैव कुलदेवता ॥ ८८ ॥

आयान्तु मातरः सर्वास्त्रिदशानन्दकारिकाः ।
विवाहव्रतयज्ञानां सर्वाभीष्टं प्रकल्प्यताम् ॥ ८९ ॥

यानशक्तिसमारूढाः सौम्यमूर्तिधराः सदा ।
आयान्तु मातरः सर्वा यज्ञोत्सवसमृद्धये ॥ ९० ॥

इत्यावाह्य मातृगणान् स्वशक्त्या परिपूज्य च ।
देहल्यां नाभिमात्रायां प्रादेशपरिमाणतः ।
सप्त वा पञ्च वा बिन्दून् दद्यात् सिन्दूरचन्दनैः ॥ ९१ ॥


ऋतुसंस्कारविधिमाह कृतनित्यक्रिय इत्यादिभिः ।
ननु कान् पञ्चदेवान् समर्चयेदित्यपेक्षायामाह ब्रह्मेत्यादि ॥ ८६ ॥

स्थण्डिलस्येत्यादि ।
स्थण्डिलस्य चत्वरस्येन्द्रदिग्भागे पूर्वभागे संस्थापितेषु पञ्चसु घटेष्वेतान् ब्रह्मादीन् देवान् गन्धपुष्पादिभिः प्रपूजयेत् ॥ ८७ ॥

पूज्या गौर्याद्याः षोडशमातृका एव दर्शयति गौरीत्यादिना सार्द्धेन ॥ ८८ ॥

अथ गौर्यादिषोडशमातृकावाहनार्थं मन्त्रद्वयमाह आयान्तु मातरः सर्वा इत्यादि ॥ ८९ ॥ ९० ॥

इतीत्यादि ।
इत्याभ्यां मन्त्राभ्यां मातृगणानावाह्य स्वशक्त्या गन्धपुष्पादिभिः परिपूज्य च नाभिमात्रायां नाभिपरिमितायां देहल्यां प्रादेशपरिमाणतः


प्रत्येकबिन्दुं मतिमान् कामं मायां रमां स्मरन् ।
घृतधारामविच्छिन्नां दत्त्वा तत्र वसुं यजेत् ॥ ९२ ॥

वसुधारां प्रकल्प्यैवं मयोक्तेनैव वर्त्मना ।
विरच्य स्थण्डिलं धीरो वह्निस्थापनपूर्वकम् ।
होमद्रव्याणि संस्कृत्य पचेच्चरुमनुत्तमम् ॥ ९३ ॥

प्राजापत्यश्चरुश्चात्र वायुनामा हुताशनः ।
समाप्य धाराहोमान्तं कृत्यमार्तवमारभेत् ॥ ९४ ॥

ह्री।
प्रजापतये स्वाहा चरुणैवाहुतित्रयम् ।
प्रदायैकाहुतिं दद्यादिमं मन्त्रमुदीरयन् ॥ ९५ ॥


परिमाणतः प्रादेशपरिमिते देशे सप्त वा पञ्च वा बिन्दून् सिन्दूरचन्दनैर्दद्यात् ॥ ९१ ॥

प्रत्येकेत्यादि ।
मतिमान् कर्मसाधकः कामं क्लीमिति मायां ह्रीमिति रमां श्रीमिति च बीजं स्मरन् प्रत्येकबिन्दुमविच्छिन्नां घृतधारां दत्त्व तत्रैव वसुं देवं गन्धपुष्पादिभिर्यजेत् ॥ ९२ ॥

वसुधारामित्यादि ।
मयोक्तेनैव वर्त्मनैवमनेन प्रकारेण वसुधारां प्रकल्प्य सम्पाद्य धीरो विचक्षणः कर्मसाधकः स्थण्डिलं चत्वरं विरच्य तत्र वह्निस्थापनपूर्वकं होमद्रव्याणि संस्कृत्य च अनुत्तमं न विद्यते उत्तमो यस्मादेवम्भूतं चरुं पचेत् ॥ ९३ ॥

प्राजापत्य इत्यादि ।
अत्र ऋतुसंस्कारकर्मणि यश्चरुः पच्यते सः प्राजापत्यः प्रजापतिदेवताको भवति ।
हुताशनोऽग्निश्च वायुनामा भवति ।
ततः पूर्वोक्तेन विधिना धाराहोमान्तं कर्म समाप्य कृत्यं कर्तव्यम् आर्तवमृतुसंस्कारकर्मारभेत् ॥ ९४ ॥

ह्रोमित्यादि ।
ह्री।
प्रजापतये स्वाहेति मन्त्रेण प्रजापतिमुद्दिश्य चरुणैवाहुतित्रयं प्रदाय इमं वक्ष्यमाणं मन्त्रमुदीरयन् सन् एकाहुतिं दद्यात् ॥ ९५ ॥


विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आंसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ ९६ ॥

आज्येन चरुणा वापि साज्येन चरुणापि वा ।
सूर्यं प्रजापतिं विष्णुं ध्यायन्नाहुतिमुत्सृजेत् ॥ ९७ ॥

गर्भं धेहि शिनीवाली गर्भं धेहि सरस्वती ।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ ९८ ॥

ध्यात्वा देवीं शिनीवालीं सरस्वत्यश्विनौ तथा ।
स्वाहान्तमनुनाऽनेन दद्यादाहुतिमुत्तमाम् ॥ ९९ ॥

ततः कामं बधूं मायां रमां कूर्चं समुच्चरन् ।
अमुष्यै पुत्रकामायै गर्भमाधेहि सद्विठम् ।
उक्त्वा ध्यात्वा रविं विष्णुं जुहुयात् संस्कृतेऽनले ॥ १०० ॥


एकाहुतिदानार्थं मन्त्रमाह विष्णुर्योनिमिति ।
पिंशतु दीपयतु ॥ ९६ ॥

आज्येनेत्यादि ।
विष्णुर्योनिमित्यादिना मन्त्रेणाज्येन घृतेन वा चरुणैव वा साज्येन सघृतेन चरुणा वा सूर्यं प्रजापतिं विष्णुञ्च ध्यायन् सन् तानेवोद्दिश्यैकामाहुतिमुत्सृजेद्दद्यात् ॥ ९७ ॥ ९८ ॥

ध्यात्वेत्यादि ।
अनेन गर्भं धेहि शिनीवालीत्यादिना स्वाहान्तेन मनुना शिनीवालीं देवीं तथा सरस्वत्यश्विनौ सरस्वतीसहितावश्विनौ देवौ च ध्यात्वा उत्तमामाहुतिं दद्यात् ॥ ९९ ॥

तत इत्यादि ।
ततः परं कामं क्लीमिति बधूं स्त्रीमिति मायां ह्रीमिति रमां श्रीमिति कूर्चं हूमिति च बीजं समुच्चरन् सद्विठं स्वाहासहितममुष्यै पुत्रकामायै गर्भमाधेहीत्युक्त्वा क्ली।
स्त्री।
ह्री।
श्री।
हू।
अमुष्यै पुत्रकामायै गर्भमाधेहि स्वाहेति मन्त्रमुच्चार्य रविं विष्णुञ्च ध्यात्वा सङ्कृतेऽनले जुहुयात् ॥ १०० ॥


यथेयं पृथिवी देवी ह्युत्ताना गर्भमादधे ।
तथा त्वं गर्भमाधेहि दशमे मासि सूतये ।
स्वाहान्तेनाऽमुना विष्णुं ध्यायन्नाहुतिमाहरेत् ॥ १०१ ॥

पुनराज्यं समादाय ध्यात्वा विष्णुं परात्परम् ।
विष्णो ज्येष्ठेन रूपेण नार्यामस्यां वरीयसम् ।
सुतमाधेहि ठद्वन्द्वमुक्त्वा वह्नौ हविस्त्यजेत् ॥ १०२ ॥

कामेन पुटितां मायां मायया पुटितां वधूम् ।
पुनः कामञ्च मायाञ्च पठित्वाऽस्याः शिरः स्पृशेत् ॥ १०३ ॥

पतिपुत्रवतीभिश्च नारीभिः परिवेष्टितः ।
शिरश्चालभ्य हस्ताभ्यां बध्वाः क्रोडाञ्चले पतिः ॥ १०४ ॥

विष्णुं दुर्गां विधिं सूर्यं ध्यात्वा दद्यात् फलत्रयम् ।
ततः स्विष्टिकृतं हुत्वा प्रायश्चित्त्या समापयेत् ॥ १०५ ॥


यथेयमिति ।
सूतये प्रसवाय ।
स्वाहान्तेनामुना यथेयं पृथिवीत्यादिना मन्त्रेण विष्णुं ध्यायंस्तमेवोद्दिश्याहुतिमाहरेद्वह्नौ दद्यात् ॥ १०१ ॥

पुनरित्यादि ।
पुनराज्यं घृतं समादाय गृहीत्वा परादपि परं श्रेष्ठं विष्णुं ध्यात्वा तमेवोद्दिश्य विष्णो ज्येष्ठेन रूपेण नार्यामस्यां वरीयसं सुतमाधेहि स्वाहेति मन्त्रमुक्त्वा वह्नौ हविर्घृतं त्यजेदित्यन्वयः ।
ज्येष्ठेन श्रेष्ठेन रूपेण विशिष्टम् वरीयसमतिवरमतिश्रेष्ठमित्यर्थः ।
ठद्वन्द्वं स्वाहा ॥ १०२ ॥

कामेनेति ।
ततः कामेन क्लीमिति बीजेन पुटितामादावन्ते च संयुक्तां मायां ह्री।
बीजं तथैव मायया ह्री।
बीजेन पुठितां वधूं स्त्री।
बीजं पुनः कामं क्ली।
बीजं च मायां ह्री।
बीजं च पठित्वा योजनया क्ली।
ह्री।
क्ली।
ह्री।
स्त्री।
ह्री।
क्ली।
ह्रीमिति मन्त्रं पठित्वा अस्या भार्यायाः शिरः स्पृशेत् ॥ १०३ ॥

पतीत्यादि ।
पतिपुत्रवतीभिर्नारीभिः परिवेष्टितः पतिर्हस्ताभ्यां बध्वाः शिरश्चालभ्य स्पृष्ट्वा तस्या एव क्रोडाञ्चले हस्ताभ्यां विष्णुं दुर्गां विधिं


यद्वा प्रदोषसमये गौरीशङ्करपूजनात् ।
भास्करार्घ्यप्रदानाच्च दम्पत्योः शोधनं भवेत् ॥ १०६ ॥

आर्तवं कथितं कर्म गर्भाधानमथो शृणु ॥ १०७ ॥

तद्रात्रावन्यरात्रौ वा युग्मायां निशि भार्यया ।
सदनाभ्यन्तरं गत्वा ध्यात्वा देवं प्रजापतिम् ॥ १०८ ॥

स्पृशन् पत्नीं पठेद्भर्ता मायाबीजपुरःसरम् ।
आवयोः सुप्रजायै त्वं शय्ये शुभकरी भव ॥ १०९ ॥

आरुह्य भार्यया शय्यां प्राङ्मुखो वाप्युदङ्मुखः ।
उपविश्य स्त्रियं पश्यन् हस्तमाधाय मस्तके ।
वामेन पाणिनाऽलिङ्ग्य स्थाने स्थाने मनुं जपेत् ॥ ११० ॥


प्रजापतिं सूर्यञ्च ध्यात्वा फलत्रयं दद्यात् ।
समापयेत् आर्तवं कर्मेति शेषः ॥ १०४ ॥ १०५ ॥

अथान्यदृतुसंस्कारस्य विधानमाह यद्वेत्याद्येकेन ।
प्रदोषसमये रात्र्यारम्भसमये ॥ १०६ ॥ १०७ ॥

अथ गर्भाधानक्रियाविधिमेवाह तद्रात्रावित्यादिभिः ।
तद्रात्रावृतुसंस्काररात्रावन्यरात्रौ वा युग्मायामेव निशि भार्यया सह सदनाभ्यन्तरं गत्वा प्रजापतिं देवं ध्यात्वा च पत्नीं स्पृशन् भर्ता मायाबीजपुरःसरं मायाबीजं ह्रीमिति पुरःसरमग्रेसरं यत्रैवम्भूतम् आवयोः सुप्रजायै त्वं शय्ये शुभकरी भवेति मन्त्रं पठेत् ॥ १०८ ॥ १०९ ॥

आरुह्येति ।
ततो भार्यया सह शय्यामारुह्य प्राङ्मुख उदङ्मुखो वा भूत्वा तत्रोपविश्य च स्त्रियं पश्यन् भर्ता तस्या मस्तके दक्षिणं हस्तमाधाय वामेन पाणिना तामालिङ्ग्य च स्थाने स्थाने मनुं जपेत् ॥ ११० ॥


शीर्षे कामं शतं जप्त्वा चिवुके वाग्भवं शतम् ।
कण्ठे रमां विंशतिधा स्तनद्वन्द्वे शतं शतम् ॥ १११ ॥

हृदये दशधा मायां नाभौ तां पञ्चविंशतिम् ।
जप्त्वा योनौ करं दत्त्वा कामेन सह वाग्भवम् ॥ ११२ ॥

शतमष्टोत्तरं जप्त्वा लिङ्गेऽप्येवं समाचरन् ।
विकाश्य मायया योनिं स्त्रियं गच्छेत् सुताप्तये ॥ ११३ ॥

रेतःसम्पातसमये ध्यात्वा विश्वकृतं पतिः ।
नाभेरधस्तात् चित्कुण्डे रक्तिकायां प्रपातयेत् ॥ ११४ ॥

शुक्रसेकान्तरे विद्वानिमं मन्त्रमुदीरयेत् ॥ ११५ ॥


ननु कस्मिन् कस्मिन् स्थाने कं कं मन्त्रं जपेदित्यपेक्षायामाह शीर्षे काममित्यादि ।
शीर्षे मस्तके कामं क्लीमिति मन्त्रं शतवारं जप्त्वा चिवुके ओष्ठाधराधोभागे च वाग्भवम् ऐमिति मन्त्रं शतवारं जप्त्वा कण्ठे च रमां श्रीमिति मन्त्रं विंशतिधा विंशतिवारं जप्त्वा स्तनद्वन्द्वे च श्रीमिति मन्त्रं शतं शतं जपेत् ॥ १११ ॥

हृदये इत्यादि ।
ततो भार्याया हृदये मायां ह्रीमिति मन्त्रं दशधा जप्त्वा नाभौ च तां मायां ह्रीमिति मन्त्रं पञ्चविंशतिवारं जप्त्वा योनौ च करं दत्त्वा कामेन क्लीमिति बीजेन सह वाग्भवम् ऐमिति मन्त्रमष्टोत्तरं शतं जप्त्वा लिङ्गेऽप्येवं क्ली।
ऐमिति मन्त्रस्य जपं समाचरन् पतिर्मायया ह्रीमिति मन्त्रेण योनिं विकाश्य व्यादाय सुताप्तये पुत्रप्राप्तये स्त्रियं गच्छेत् ॥ ११२ ॥ ११३ ॥

रेतःसम्पातेत्यादि ।
रेतःसम्पातसमये बीजसम्पातनकाले पतिर्विश्वकृतं प्रजापतिं ध्यात्वा नाभेरधस्ताच्चित्कुण्डे रक्तिकायां नाड्यां बीजं प्रपातयेत् ॥ ११४ ॥ ११५ ॥


यथाऽग्निना सगर्भा भूर्द्यौर्यथा वज्रधारिणा ।
वायुना दिग्गर्भवती तथा गर्भवती भव ॥ ११६ ॥

जाते गर्भे ऋतौ तस्मिन्नन्यस्मिन् वा महेश्वरि ।
तृतीये गर्भमासे तु चरेत् पुंसवनं गृही ॥ ११७ ॥

कृतनित्यक्रियो भर्ता पञ्च देवान् समर्चयेत् ।
गौर्यादिमातृकाश्चैव वसोर्धारां प्रकल्पयेत् ॥ ११८ ॥

वृद्धिश्राद्धं ततः कृत्वा पूर्वोक्तविधिना सुधीः ।
धाराहोमान्तमापाद्य कुर्यात् पुंसवनक्रियाम् ॥ ११९ ॥

प्राजापत्यश्चरुस्तत्र चन्द्रनामा हुताशनः ॥ १२० ॥

गव्ये दध्नि यवञ्चैकं द्वौ माषावपि निक्षिपेत् ।
पतिः पृच्छेत् स्त्रियं भद्रे किं त्वं पिवसि त्रिःकृतम् ॥ १२१ ॥

ततः सीमन्तिनी ब्रूयात् मायापुंसवनं त्रिधा ।
प्रसृतींस्त्रीन् पिवेन्नारी यवमाषयुतं दधि ॥ १२२ ॥


बीजसेकान्तरे यं मन्त्रं भर्ता पठेत्तमेव मन्त्रमाह यथाग्निनेति ।
भूः पृथ्वी ।
द्यौः स्वर्गः ।
वज्रधारिणा इन्द्रेण ॥ ११६ ॥ ११७ ॥

पुंसवनक्रियाविधिमेवाह कृतनित्यक्रिय इत्यादिभिः ।
कृतनित्यक्रियो भर्ता पूर्वोक्तान् ब्रह्मादीन् पञ्च देवान् समर्चयेत् ॥ ११८ ॥ ११९ ॥

तत्र पुंसवनक्रियायाम् ॥ १२० ॥

गव्ये इत्यादि ।
गव्ये गोसम्बन्धिनि दध्नि एकं यवं द्वौ माषावपि निःक्षिपेत् ।
ततो हे भद्रे पत्नि त्वं किं पिबसीति पतिस्त्रिःकृतं त्रिवारं स्त्रियं पृच्छेत् ॥ १२१ ॥

तत इति ।
ततः परं मायापुंसवनं ह्री।
पुंसवनमिति सीमन्तिनी स्त्री त्रिधा त्रिवारं ब्रूयात् ।
ततो नारी यागस्थानादन्यत्र गत्वा त्रीन् प्रसृतीन् यवमाषयुतं दधि पिवेत् ॥ १२२ ॥


जीवत्सुताभिर्वनितां यागस्थानं समानयेत् ।
संस्थाप्य वामभागे तां चरुहोमं समाचरेत् ॥ १२३ ॥

पूर्ववच्चरुमादाय मायां कूर्चं समुच्चरन् ।
ये गर्भविघ्नकर्तारो ये च गर्भविनाशकाः ॥ १२४ ॥

भूताः प्रेताः पिशाचाश्च वेताला वालघातकाः ।
तान् सर्वान् नाशय द्वन्द्वं गर्भरक्षां कुरु द्विठः ॥ १२५ ॥

मन्त्रेणानेन रक्षोघ्नं चिन्तयित्वा हुताशनम् ।
रुद्रं प्रजापतिं ध्यायन् ध्यायन् प्रदद्यात् द्वादशाहुतीः ॥ १२६ ॥

ततो माया चन्द्रमसे स्वाहेत्याहुतिपञ्चकम् ।
दत्त्वा भार्याहृदि स्पृष्ट्वा मायां लक्ष्मीं शतं जपेत् ॥ १२७ ॥


जीवदित्यादि ।
ततो जीवन्तः सुताः पुत्रा यासान्ता जीवत्सुतास्ताभिः स्त्रीभिः सह वनितां स्त्रियं यागस्थानं समानयेत् ।
तां वनितां वामभागे संस्थाप्य चरुहोमं समाचरेत् ॥ १२३ ॥

पूर्ववदिति ।
पूर्ववत् स्रुवे चरुमादाय गृहीत्वा मायां ह्रीमिति कूर्चं हूमिति च बीजं समुच्चरन् ये गर्भेत्यादि तान् सर्वानित्यन्तं वाक्यमुच्चरेत् ।
ततो नाशय द्वन्द्वमुच्चरेत् ।
ततो गर्भरक्षां कुर्विति वदेत् ।
ततो द्विठः स्वाहेति वदेत् ।
सकलपदयोजनया ह्री।
हू।
ये गर्भविघ्नकर्तारो ये च गर्भविनाशका भूताः प्रेताः पिशाचाश्च वेताला वालघातकास्तान् सर्वान्नाशय नाशय गर्भरक्षां कुरु स्वाहेति मन्त्रो जातः ।
अनेन मन्त्रेण रक्षोघ्नं रक्षोघ्ननामानं हुताशनमग्निं चिन्तयित्वा रुद्रं प्रजापतिञ्च ध्यायन् द्वादशाहुतीः प्रदद्यात् ॥ १२४ ॥ १२६ ॥

तत इत्यादि ।
ततः परं ह्री।
च्चन्द्रमसे स्वाहेति मन्त्रेणाहुतिपञ्चकं दत्त्वा भार्याहृदि स्पृष्ट्वा मायां लक्ष्मीं ह्री।
श्रीमिति मन्त्रं शतवारं जपेत् ॥ १२७ ॥


ततः स्विष्टिकृतं हुत्वा प्रायश्चित्त्या समापयेत् ।
ततस्तु पञ्चमे मासि दद्यात् पञ्चामृतं स्त्रियै ॥ १२८ ॥

शर्करा मधु दुग्धञ्च घृतं दधि समांशकम् ।
पञ्चामृतमिदं प्रोक्तं देहशुद्धौ विधीयते ॥ १२९ ॥

वाग्भवं मदनं लक्ष्मीं मायां कूर्चं पुरन्दरम् ।
पञ्चद्रव्योपरि शिवे प्रजप्य पञ्च पञ्चधा ।
एकीकृत्याऽमृतान्यत्र प्राशयेद्दयितां पतिः ॥ १३० ॥

सीमन्तोन्नयनं कुर्यान्मासि षष्ठेऽष्टमेऽपि वा ।
यावन्न जायतेऽपत्यं तावत् सीमन्तनक्रिया ॥ १३१ ॥

पूर्वोक्तधाराहोमान्तं कर्म कृत्वा स्त्रिया सह ।
उपविश्याऽसने प्राज्ञः प्रदद्यादाहुतित्रयम् ।
विष्णवे भास्वते धात्रे वह्निजायां समुच्चरन् ॥ १३२ ॥

ततश्चन्द्रमसं ध्यात्वा शिवनाग्नि हुताशने ।
सप्तधा हवनं कुर्यात् सोममुद्दिश्य मानवः ॥ १३३ ॥


समापयेत् पुंसवनं कर्मेति शेषः ॥ १२८ ॥

ननु किन्नाम पञ्चामृतमत आह शर्करेत्यादि ।
समांशकम् तुल्यभागम् ॥ १२९ ॥

वाग्भवमित्यादि ।
वाग्भवम् ऐमिति मदनं क्लीमिति लक्ष्मीं श्रीमिति मायां ह्रीमिति कूर्चं हूमिति पुरन्दरं लमिति च बीजं शर्करादिपञ्चद्रव्योपरि पञ्च पञ्चधा पञ्च पञ्चवारान् प्रजप्य शर्करादीनि अमृतानि एकीकृत्य पतिर्दयितां भार्याम् अत्र पञ्चमे मासि प्राशयेत् ॥ १३० ॥ १३१ ॥

सीमन्तोन्नयनक्रियाविधिमेवाह पूर्वोक्तेत्यादिभिः ।
प्राज्ञो विद्वान् पुरुषः स्त्रिया सहासने उपविश्य पूर्वोक्तधाराहोमान्तं कर्म कृत्वा पूर्वं विष्णवे इति


अश्विनौ वासवं विष्णुं शिवं दुर्गां प्रजापतिम् ।
ध्यात्वा प्रत्येकतो दद्यादाहुतीः पञ्चधा शिवे ॥ १३४ ॥

स्वर्णकङ्कतिकां भर्ता गृहीत्वा दक्षिणे करे ।
सीमन्ताद्वद्धकेशान्तः केशपाशे निवेशयेत् ॥ १३५ ॥

शिवं विष्णुं विधिं ध्यायन् मायाबीजं समुच्चरन् ॥ १३६ ॥

भार्ये कल्याणि सुभगे दशमे मासि सुव्रते ।
सुप्रसूता भव प्रीता प्रसादाद्विश्वकर्मणः ॥ १३७ ॥

आयुष्मती कङ्कतिका वर्चस्वी ते शुभं कुरु ।
ततः समापयेत् कर्म स्विष्टिकृद्धवनादिभिः ॥ १३८ ॥


भास्वते इति धात्रे इति समुच्चरन् ततो वह्निजायां स्वाहा समुच्चरन् विष्णवे स्वाहा सूर्याय स्वाहा प्रजापतये स्वाहेति च मन्त्रं प्रकीर्तयन् सन् विष्णुं सूर्यं प्रजापतिं चोद्दिश्याहुतित्रयं प्रदद्यात् ॥ १३२ - १३४ ॥

स्वर्णेत्यादि ।
ततो भर्ता दक्षिणे करे स्वर्णकङ्कतिकां सुवर्णमयीं प्रसाधनीं गृहीत्वा पूर्वं मायाबीजं ह्रीमिति बीजं समुच्चरन् ततो ।

भार्ये कल्याणि सुभगे दशमे मासि सुव्रते ।

सुप्रसूता भव प्रीता प्रसादाद्विश्वकर्मणः ।
आयुष्मती कङ्कतिका वर्चस्वी ते शुभं कुरु ।
इति मन्त्रं समुच्चरन् शिवं विष्णुं विधिं प्रजापतिञ्च ध्यायन् सन् सीमन्तात् सकाशात् वद्धकेशान्तः केशपाशे वद्धकेशाभ्यन्तरकेशसमूहे निवेशयेत् ।
आयुष्मतीत्यस्य भवेत्यनेनान्वयो विधेयः ।
ते इत्यस्य कङ्कतिकेत्यनेनान्वयः ॥ १३५-१३८ ॥


जातमात्रं सुतं दृष्ट्वा दत्त्वा स्वर्णं गृहान्तरे ।
पूर्वोक्तविधिना धीरो धाराहोमं समापयेत् ॥ १३९ ॥

ततः पञ्चाहुतीर्दद्यात् अग्निमिन्द्रं प्रजापतिम् ।
विश्वान् देवांश्च ब्रह्माणमुद्दिश्य तदनन्तरम् ॥ १४० ॥

मधुसर्पिः कांस्यपात्रे समानीयाऽसमांशकम् ।
वाग्भवं शतधा जप्त्वा प्राशयेत्तनयं पिता ॥ १४१ ॥

दक्षहस्तानामिकया मन्त्रमेनं समुच्चरन् ।
आयुर्वर्चो बलं मेधा वर्द्धतां ते सदा शिशो ॥ १४२ ॥

इत्यायुर्जननं कृत्वा गुप्तं नाम प्रकल्पयेत् ।
कृतोपनयने पुत्रे तेन नाम्ना समाह्वयेत् ॥ १४३ ॥

प्रायश्चित्तादिकं कृत्वा जातकर्म समापयेत् ।
नालछेदं ततो धात्री कुर्यादुत्साहपूर्वकम् ॥ १४४ ॥

यावन्न छिद्यते नालं तावच्छौचं न वाधते ।
प्रागेव नाडिकाछेदाद्दैवीं पैत्रीं क्रियाञ्चरेत् ॥ १४५ ॥


अथ जातकर्मविधिमाह जातमात्रमित्यादिभिः ।
दत्त्वा सुतायेति शेषः गृहान्तरे सूतिकागृहादन्यस्मिन् गृहे ।
तत इत्यादिस्तु स्पष्टार्थः ॥ १३९ ॥ १४० ॥

मध्विति ।
तदनन्तरं पञ्चाहुतिदानानन्तरं कांस्यपात्रेऽसमांशकं मधुसर्पिश्च समानीय तदुपरि वाग्भवम् ऐमिति मन्त्रं शतधा जप्त्वा आयुर्वर्चो वलं मेधा वर्द्धतां ते सदा शिशो इत्येनं मन्त्रं समुच्चरन् पिता दक्षहस्तानामिकयाङ्गुल्या मधुसर्पिस्तनयं प्राशयेत् ॥ १४१ ॥ १४२ ॥

इत्यायुर्जननमित्यादयस्तु स्पष्टार्थाः ॥ १४३ � १४५ ॥


कुमार्याश्चापि कर्तव्यमेवमेवममन्त्रकम् ।
षष्ठे वा चाष्टमे मासि नाम कुर्यात् प्रकाशतः ॥ १४६ ॥

स्नापयित्वा शिशुं माता परिधाप्याम्बरे शुभे ।
भर्तुः पार्श्वं समागत्य प्राङ्मुखं स्थापयेत् सुतम् ॥ १४७ ॥

अभिषिञ्चेत् शिशोर्मूर्ध्नि सहिरण्यकुशोदकैः ।
जाह्नवी यमुना रेवा सुपवित्रा सरस्वती ॥ १४८ ॥

नर्मदा वरदा कुन्ती सागराश्च सरांसि च ।
एते त्वामभिषिञ्चन्तु धर्मकामार्थसिद्धये ॥ १४९ ॥

ह्री।
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन महे रणाय चक्षुषे ॥ १५० ॥


कुमार्या इत्यादि ।
कुमार्याश्चाप्यमन्त्रकं मन्त्रहीनमेव जातकर्मैवमेव कर्तव्यम् ॥ १४६ ॥

अथ नामकरणस्य विधिमोह स्नापयित्वेत्यादिभिः ।
माता शिशुं स्नापयित्वा शुभे अम्बरे वस्त्रे परिधाप्य भर्तुः पार्श्वं समागत्य सुतं प्राङ्मुखं स्थापयेत् ॥ १४७ ॥

अभिषिञ्चेदित्यादि ।
ततः पिता जाह्नवीत्यादिभिर्मन्त्रैः सहिरण्यकुशोदकैः शिशोः मूर्ध्न्यभिषिञ्चेत् ॥ १४८ ॥ १४९ ॥

आप इत्यादि ।
हे आपो हि यस्मात् यूयं मयोभुवः स्था मयः सुखं तस्य भावयित्र्यः प्रापयित्र्यो भवत ।
ता तस्मात् नोऽस्मान् ऊर्जेऽन्नाय दधातन स्थापयत ।
किञ्च महे महते रणाय रमणीयाय चक्षुषे दर्शनीयाय दधातन ।
अयमर्थः हे आपो यस्माद्यूयं सुखं प्रापयथ तस्मादस्मान् ऐहिकेनाऽन्नादिनाऽमुष्मिकेन च महारमणीयदर्शनीयेन ब्रह्मणा संयोजयतेति ।
हि ष्ठा इति अस्तेर्लोट् मध्यमपुरुषवहुवचनम् ।
दधातनेत्यपि दधातेर्लोट् मध्यमपुरुषबहुवचनं छन्दसि वहुलमित्यनेन सिद्धम् ।
मह इति महते इति पदस्य छान्दसत्वादकारतकारयोर्लोपे


ह्री।
यो वः शिवतमो रसस्तस्य भाजयतेह न ऊशतीरिव मातरः ॥ १५१ ॥

ह्री।
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ आपो जनयथा च नः ॥ १५२ ॥

अभिषिच्य त्रिभिर्मन्त्रैः पूर्ववद्वह्निसंस्क्रियाम् ।
कृत्वा सम्पाद्य धारान्तं दद्यात् पञ्चाहुतीः सुधीः ॥ १५३ ॥


सति महे इति भवति ।
रणायेति रमणीयशब्दस्य छन्दसि रणादेशः ।
चक्षुषे इति उस् प्रत्ययान्ताच्चतुर्थी ॥ १५० ॥

यो व इत्यादि ।
हे आपो वो युष्माकं शिवतमोऽत्यन्तकल्याणरूपो यो रसो निर्यासो मधुरस्तस्य रसस्येह नोऽस्मान् भाजयत भागिनः कुरुत तेन रसेन सम्बद्धानस्मान् कुरुतेत्यर्थः ।
किम्भूता यूयम् ऊशतीरिच्छावत्यः स्नेहेन मातर इव ।
अयमर्थः यथा स्नेहेन मातरः पुत्रान् तुल्यरसभागिनः कुर्वन्ति तथा यूयमप्यस्मान् कल्याणकारिरससम्बन्धान् कुरुतेति ।
ऊशतीरिति वश कान्तौ शतृप्रत्ययः तदन्तादीप्प्रत्ययः ततो जसि कृते निपातनात् पूर्वसवर्णदीर्घः ।
हे आपो वो युष्माकं तस्मै तस्मिन् रसेऽरमलं पर्याप्तं गमाम गच्छामेत्यर्थः ।
किञ्च वः तत्र रसे नोऽस्माकं भोगं यूयं जनयथ ।
यस्य रसस्य क्षयाय क्षये स्थाने जिन्वथ प्रीणयथ आब्रह्मस्तम्बपर्यन्तं जगदिति शेषः ।
अयमर्थः हे आपो युष्माकं यस्य रसस्य स्थाने जगद् यूयं प्रीणयथ तस्य विषये वयं तृप्तिं गच्छाम यूयञ्च नः तत्र सम्भोगं जनयथेति ।
तस्मै क्षयायेत्युभयत्रापि सप्तम्यर्थे चतुर्थी ।
गमाम इति लोटुत्तमपुरुषबहुवचनं गच्छादेशाभावश्छान्दसः ।
जनयथा इति छन्दसि दीर्घः ।
जिन्वथ इति छन्दसि सिद्धम् ॥ १५१ ॥ १५२ ॥

अभिषिच्येत्यादि ।
एतैस्त्रिभिर्मन्त्रैः शिशोर्मूर्ध्न्यभिषिच्य पूर्ववत् वह्निसंस्क्रियां कृत्वा धारान्तं धाराहोमान्तं कर्म च सम्पाद्य सुधीः पिता पञ्चाहुतीर्दद्यात् ॥ १५३ ॥


अग्नये प्रथमां दत्त्वा वासवाय ततः परम् ।
ततः प्रजानाम्पतये विश्वदेवेभ्य एव च ।
ब्रह्मणे चाहुतिं दद्याद्वह्नौ पार्थिवसञ्ज्ञके ॥ १५४ ॥

ततोऽङ्के पुत्रमादाय श्रावयेत् दक्षिणश्रुतौ ।
स्वल्पाक्षरं सुखोच्चार्यं शुभं नाम विचक्षणः ॥ १५५ ॥

श्रावयित्वा त्रिधा नाम ब्राह्मणेभ्यो निवेद्य च ।
ततः समापयेत् कर्म कृत्वा स्विष्टिकृदादिकम् ॥ १५६ ॥

कन्याया निष्क्रमो नास्ति बृद्धिश्राद्धं न विद्यते ।
नामान्नप्राशनं चूडां कुर्याद्धीमानमन्त्रकम् ॥ १५७ ॥

चतुर्थे मासि षष्ठे वा कुर्यान्निष्क्रमणं शिशोः ॥ १५८ ॥

कृतनित्यक्रियस्तातः सम्पूज्य गणनायकम् ।
स्नापयित्वा तु तनयं वस्त्रालङ्कारभूषितम् ।
संस्थाप्य पुरतो विद्वानिमं मन्त्रमुदीरयेत् ॥ १५९ ॥

ब्रह्मा विष्णुः शिवो दुर्गा गणेशो भास्करस्तथा ।
इन्द्रो वायुः कुवेरश्च वरुणोऽग्निर्बृहस्पतिः ।
शिशोः शुभं प्रकुर्वन्तु रक्षन्तु पथि सर्वदा ॥ १६० ॥


ननु कान्देवानुद्दिश्य पञ्चाहुतीर्दद्यादित्यपेक्षायामाह अग्नये इत्यादि ॥ १५४ ॥

तत इत्यादि ।
ततोऽङ्के क्रोडे पुत्रमादाय गृहीत्वा विचक्षणः पिता पुत्रस्य दक्षिणश्रुतौ दक्षिणे कर्णे स्वल्पाक्षरं सुखोच्चार्यं शुभं मङ्गलवाचकं नाम श्रावयेत् ॥ १५५ � १५८ ॥

अथ शिशुनिष्क्रमणक्रियाविधिमाह कृतनित्यक्रिय इत्यादिभिः ॥ १५९ ॥

यं मन्त्रमुदीरयेत्तमेव मन्त्रमाह ब्रह्मा विष्णुरिति ॥ १६० ॥


इत्युक्त्वाऽङ्के समादाय गीतवाद्यपुरःसरम् ।
बहिर्निष्क्रामयेद्बालं सानन्दैः स्वजनैः सह ॥ १६१ ॥

गत्वाऽध्वनि कियद्दूरं शिशुं सूर्यं निरीक्षयेत् ॥ १६२ ॥

ह्री।
तच्चक्षुर्देवहितं पुरस्ताच्छ्रक्रमुच्चरत् ।
पश्येम शरदः शतं जीवेम शरदः शतम् ॥ १६३ ॥

इत्यादित्यं दर्शयित्वा समागत्य निजालयम् ।
अर्घ्यं दत्त्वा दिनेशाय स्वजनान् भोजयेत् पिता ॥ १६४ ॥

षष्ठे मासि कुमारस्य मासि वाप्यष्टमे शिवे ।
पितृभ्राता पिता वापि कुर्यादन्नाशनक्रियाम् ॥ १६५ ॥

पूर्ववद्देवपूजादि वह्निसंस्करणं तथा ।
एवं धारान्तकर्माणि सम्पाद्य विधिवत् पिता ॥ १६६ ॥

दद्यात् पञ्चाहुतीस्तत्र शुचिनाग्नि हुताशने ।
अग्निमुद्दिश्य प्रथमां द्वितीयां वासवं स्मरन् ॥ १६७ ॥

ततः प्रजापतिं देवं विश्वान् देवान् ततः परम् ।
ब्रह्माणञ्च समुद्दिश्य पञ्चमीमाहुतिं त्यजेत् ॥ १६८ ॥


इतीत्यादि ।
इतीमं मन्त्रमुक्त्वाऽङ्के क्रोडे बालं समादाय गृहीत्वा सानन्दैः स्वजनैः सह गीतवाद्यपुरःसरं बालं बहिर्निष्क्रामयेत् ॥ १६१ ॥

गत्वेत्यादि ।
अध्वनि मार्गे कियद्दूरं गत्वा पिता शिशुं बालं सूर्यं निरीक्षयेद्दर्शयेत् ॥ १६२ ॥

येन मन्त्रेण शिशुं सूर्यं दर्शयेत्तं मन्त्रमाह ह्री।
तच्चक्षुरिति ।
पुरस्तादग्रतः शुक्रमुच्चरत् शुक्रमुल्लङ्घ्य गच्छत् तत्सूर्यरूपं देवहितं चक्षुर्वर्तते यद्वयं शतं शरदो वर्षाणि पश्येम यच्च पश्यन्तो वयं शतं शरदो जीवेम ॥ १६३ � १६५ ॥

अन्नप्राशनक्रियाविधिमाह पूर्ववदित्यादिभिः ॥ १६६ ॥

तत्र अन्नप्राशनक्रियायाम् ।
ननु कान्देवानुद्दिश्य पञ्चाहुतीर्दद्यादित्यपेक्षायामाह अग्निमित्यादि ॥ १६७ ॥ १६८ ॥


ततोऽग्नावन्नदां ध्यात्वा दत्तपञ्चाहुतिः पिता ।
तत्राथवा गृहेऽन्यस्मिन् वस्त्रालङ्कारशोभितम् ।
क्रोडे निधाय तनयं प्राशयेत् पायसामृतम् ॥ १६९ ॥

पञ्चप्राणाहुतेर्मन्त्रैर्भोजयित्वा तु पञ्चधा ।
ततोऽन्नव्यञ्जनादीनां दत्त्वा किञ्चित् शिशोर्मुखे ॥ १७० ॥

शङ्खतूर्यादिघोषेण प्रायश्चित्त्या समापयेत् ।
इत्यन्नप्राशनं प्रोक्तं चूडाविधिमतः शृणु ॥ १७१ ॥

तृतीये पञ्चमे वर्षे कुलाचारानुसारतः ।
चूडाकर्म शिशोः कुर्याद्बालसंस्कारसिद्धये ॥ १७२ ॥

देवपूजादिधारान्तं कर्म निष्पाद्य साधकः ।
सत्याग्नेरुत्तरे देशे वृषगोमयपूरितम् ॥ १७३ ॥

तिलगोधूमसंयुक्तं शरावं स्थापयेद् बुधः ।
कवोष्णं सलिलं चापि क्षुरमेकं सुशाणितम् ॥ १७४ ॥


तत इत्यादि ।
ततः परमन्नदां देवीं ध्यात्वा तामुद्दिश्याग्नौ दत्ताः पञ्चाहुतीर्येन स दत्तपञ्चाहुतिः पिता तत्राथवाऽन्यस्मिन् गृहे वस्त्रालङ्कारशोभितं तनयं क्रोडे निधाय संस्थाप्य पायसामृतं परमान्नरूपममृतं प्राशयेत् भोजयेत् ॥ १६९ ॥

पञ्चेत्यादि ।
प्राणाय स्वाहा अपानाय स्वाहा समानाय स्वाहा उदानाय स्वाहा व्यानाय स्वाहेत्यात्मकैः पञ्चप्राणाहुतेर्मन्त्रैः पुत्रं पायसं पञ्चधा भोजयित्वा ततोऽन्नव्यञ्जनादीनां किञ्चित् शिशोर्मुखे दत्वा शङ्खतूर्यादिघोष्।
एण प्रायश्चित्त्या चान्नप्राशनक्रियां समापयेत् ॥ १७० ॥ १७१ ॥

अथ चूडाकर्मविधिमाह तृतीय इत्यादिभिः ।
बुधो विचक्षणः साधकः कर्मनिष्पादकः पिता पूर्ववद्देवपूजादिधारान्तं कर्म निष्पाद्य सत्याग्नेः सत्यनाम्नो वह्नेरुत्तरे देशे वृषगोमयपूरितं तिलगोधूमसंयुक्तं शरावं कवोष्णमीषदुष्णं सलिलं जलं सुशाणितमेकं क्षुरञ्चापि स्थापयेत् ॥ १७२ � १७४ ॥


आसाद्य तनयं तत्र जनकः स्वीयवामतः ।
संस्थाप्य जननीक्रोडे कवोष्णसलिलैश्च तैः ॥ १७५ ॥

वारुणं दशधा जप्त्वा सम्मार्ज्य शिशुमूर्द्धजान् ।
मायया कुशपत्राभ्यां जुष्टिमेकां प्रकल्पयेत् ॥ १७६ ॥

मायां लक्ष्मीं त्रिधा जप्त्वा गृहीत्वा लौहजं क्षुरम् ।
छित्त्वा तु जुष्टिकामूलं मातृहस्ते निवेशयेत् ॥ १७७ ॥

कुमारमाता हस्ताभ्यामादाय गोमयान्विते ।
शरावे स्थापयेत् जुष्टिं नापिताय पिता वदेत् ॥ १७८ ॥

क्षुरमुण्डिन् शिशोः क्षौरं सुखं साधय ठद्वयम् ।
पठित्वा नापितं पश्यन् सत्यनामनि पावके ।
प्रजापतिं समुद्दिश्य प्रदद्यादाहुतित्रयम् ॥ १७९ ॥


आसाद्येत्यादि ।
ततो जनकः पिता तनयं पुत्रं तत्र सत्यनाम्नो वह्नेः समीपे आसाद्याऽनीय स्वीयवामतः आत्मनो वामे देशे जननीक्रोडे संस्थाप्य तैर्वह्नेरुत्तरे देशे स्थापितैः कवोष्णसलिलैर्वारुणं वरुणसम्बन्धि वमिति बीजं दशधा जप्त्वा शिशुमूर्द्धजान् बालककेशान् सम्मार्ज्य मायया ह्री।
बीजेन कुशपत्राभ्यामेकां जुष्टिं प्रकल्पयेत् ॥ १७५ ॥ १७६ ॥

मायामित्यादि ।
ततो मायां ह्री।
बीजं लक्ष्मीं श्री।
बीजञ्च त्रिधा जप्त्वा लौहजं क्षुरं गृहीत्वा जुष्टिकामूलं छित्त्वा मातृहस्ते जुष्टिकां निवेशयेत् स्थापयेत् ॥ १७७ ॥

कुमारेत्यादि ।
कुमारमाता हस्ताभ्यां जुष्टिकामादाय गृहीत्वा गोमयान्विते शरावे स्थापयेत् ।
ततो नापिताय पिता शिशुजनको वदेत् ॥ १७८ ॥

शिशोः पिता नापिताय किं वदेदित्यपेक्षायामाह क्षुरमुण्डिन्नित्यादि ।
हे क्षुरमुण्डिन्नापित शिशोः क्षौरं सुखं यथा स्यात्तथा त्वं साधय ठद्वयं स्वाहा ।


नापितेन कृतक्षौरं स्नापयित्वा शिशुं ततः ।
वस्त्रालङ्कारमाल्येन भूषयित्वाऽग्निसन्निधौ ॥ १८० ॥

स्ववामभागे संस्थाप्य स्विष्टिकृद्धोममाचरेत् ।
प्रायश्चित्तं ततः कृत्वा दद्यात् पूर्णाहुतिं पिता ॥ १८१ ॥

माया शिशो ते कुशलं कुरुतां विश्वकृद्विभुः ।
पठित्वैनं शिशोः कर्णे स्वर्णमय्या शलाकया ।
राजत्या लौहमय्या वा कर्णवेधं प्रकल्पयेत् ॥ १८२ ॥

आपोहिष्ठेति मन्त्रेण अभिषिच्य सुतं ततः ।
शान्त्यादिदक्षिणां कृत्वा चूडाकर्म समापयेत् ॥ १८३ ॥

गर्भाधानादिचूडान्तं समानं सर्वजातिषु ।
शूद्रसामान्यजातीनां सर्वमेतदमन्त्रकम् ॥ १८४ ॥

जातकर्मादिचूडान्तं कुमार्याश्चाप्यमन्त्रकम् ।
कर्तव्यं पञ्चभिर्वर्णैरेकं निष्क्रमणं विना ॥ १८५ ॥


क्षुरमुण्डिन्नित्याद्यं साधय स्वाहेत्यन्तं मनुं पठित्वा नापितं पश्यन् शिशुजनकः प्रजापतिं समुद्दिश्य सत्यनामनि पावकेऽग्नावाहुतित्रयं प्रदद्यात् ॥ १७९ ॥

नापितेनेति ।
ततो नापितेन कृतं क्षौरं यस्य तथाभूतं शिशुं स्नापयित्वा ततो वस्त्रालङ्कारमाल्येन भूषयित्वाऽग्निसन्निधौ स्ववामभागे संस्थाप्य च स्विष्टिकृतं होममाचरेत् कुर्यात् ॥ १८० ॥ १८१ ॥

मायेत्यादि ।
माया ह्री।
बीजम् ।
एनं ह्री।
शिशो इत्याद्यं विश्वकृद्विभुरित्यन्तं मन्त्रं शिशोः कर्णे पठित्वा स्वर्णमय्या सुवर्णविकारभूतया राजत्या रजतोद्भूतया लौहमय्या वा शलाकया शिशोः कर्णवेधं प्रकल्पयेत् कुर्यात् ॥ १८२ - १८५ ॥


अथोच्यते द्विजातीनामुपवीतक्रियाविधिः ।
यस्मिन् कृते द्विजन्मानो दैवपैत्राधिकारिणः ॥ १८६ ॥

गर्भाष्टमेऽष्टमे वाऽब्दे कुर्यादुपनयं शिशोः ।
षोडशाब्दाधिको नोपनेतव्यो निष्क्रियोऽपि सः ॥ १८७ ॥

कृतनित्यक्रियो विद्वान् पञ्च देवान् समर्चयेत् ।
गौर्यादिमातृकाश्चैव वसुधारां प्रकल्पयेत् ॥ १८८ ॥

वृद्धिश्राद्धं ततः कुर्यात् देवतापितृतृप्तये ।
कुशण्डिकोक्तविधिना धाराहोमान्तमाचरेत् ॥ १८९ ॥

प्रातः कृताशनं बालं सुस्नातं समलङ्कृतम् ।
शिखां विना कृतक्षौरं क्षौमाम्बरविभूषितम् ॥ १९० ॥

छायामण्डपमानीय समुद्भवहुताशितुः ।
समीपे चात्मनो वामे संस्थाप्य विमलासने ॥ १९१ ॥


अथेत्यादि ।
द्विजातीनाम् ब्राह्मणक्षत्रियवैश्यानाम् ॥ १८६ ॥

गर्भेत्यादि ।
गर्भादष्टमे जननाद्वाष्टमेऽब्दे वर्षे शिशोर्बालस्योपनयमुपनयनं कुर्यात् ।
षोडशाब्दाधिको लङ्घितषोडशवर्षो बालो नोपनेतव्यः ।
स बालो निष्क्रियोऽपि दैवपित्र्यक्रियाविहीनोऽपि भवति ॥ १८७ ॥

अथोपवीतक्रियाविधिमाह कृतनित्यक्रिय इत्यादिभिः ।
पञ्च देवान् ब्रह्मादीन् ॥ १८८ ॥ १८९ ॥

प्रातरित्यादि ।
ततः प्रातः कृताशनं कृतमशनं भोजनं येन तथाभूतं शिखां विना कृतं क्षौरं यस्य तथाभूतं सुस्नातं सुष्ठु कृतस्नानं भूषणादिभिः समलङ्कृतं क्षौमाम्बरविभूषितं दुकूलवस्त्राभ्यामलङ्कृतं बालं छायामण्डपमानीय समुद्भवहुताशितुः समुद्भवनाम्नो वह्नेः समीपे आत्मनो वामे देशे विमलासने


शिष्यं वदेद्ब्रह्मचर्यं कुरु वत्स ततः शिशुः ।
ब्रह्मचर्यं करोमीति गुरवे विनिवेदयेत् ॥ १९२ ॥

ततो गुरुः प्रसन्नात्मा शिशवे शान्तचेतसे ।
काषायवाससी दद्यात् दीर्घायुष्ट्वाय वर्चसे ॥ १९३ ॥

मौञ्जीं कुशमयीं वापि त्रिवृतां ग्रन्थिसंयुताम् ।
तूष्णीं च मेखलां दद्यात् काषायाम्बरधारिणे ॥ १९४ ॥

मायामुच्चार्य सुभगा मेखलां स्यात् शुभप्रदा ।
इत्युक्त्वा मेखला बद्ध्वा मौनी तिष्ठेत् गुरोः पुरः ॥ १९५ ॥

यज्ञोपवीतं परमं पवित्रं बृहस्पतिर्यत् सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ १९६ ॥

मन्त्रेणानेन शिशवे दद्यात् कृष्णाजिनान्वितम् ।
यज्ञोपवीतं दण्डञ्च वैणवं खादिरञ्च वा ।
पालाशमथवा दद्यात् क्षीरवृक्षसमुद्भवम् ॥ १९७ ॥


संस्थाप्य च ब्रह्मचर्यं कुरु वत्सेति गुरुः शिष्यं वदेत् ।
ततः परं शिशुः ब्रह्मचर्यं करोमीति गुरवे विनिवेदयेत् ॥ १९० � १९२ ॥

तत इत्यादि ।
ततः परं प्रसन्नात्मा प्रसन्नमना गुरुः शान्तचेतसे शिशवे शिष्याय दीर्घायुष्ट्वाय दीर्घमायुर्यस्य स दीर्घायुस्तस्य भावो दीर्घायुष्ट्वं तस्मै वर्चसे तेजसे च काषायवाससी कषायेण रक्ते वस्त्रे दद्यात् ॥ १९३ ॥

मौञ्जीमिति ।
मौञ्जीं मुञ्जमयीं कुशमयीं वा त्रिवृतां ग्रन्थिसंयुतां मेखलामपि काषायाम्बरधारिणे शिशवे तूष्णीमेव दद्यात् ॥ १९४ ॥

मायामिति ।
पूर्वं मायां ह्रीमिति बीजमुच्चार्य ततः सुभगा मेखला स्याच्छुभप्रदेति मन्त्रमुक्त्वा कट्यां मेखलां बद्ध्वा मौनी सन् गुरोः पुरस्तिष्ठेत् ॥ १९५ ॥ १९६ ॥

मन्त्रेणेत्यादि ।
अनेन यज्ञोपवीतमित्यादिना बलमस्तु तेज इत्यन्तेन मन्त्रेण कृष्णाजिनान्वितं कृष्णवर्णमृगचर्मसंयुक्तं यज्ञोपवीतं शिशवे दद्यात् ।


आपो हि ष्ठेति मन्त्रेण मायया पुटितेन च ।
त्रिरावृत्त्या कुशाम्भोभिर्धृतदण्डोपवीतिनम् ।
अभिषिच्य ततस्तोयैः पूरयेद्वालकाञ्जलिम् ॥ १९८ ॥

तदञ्जलिं दिनेशाय दातारं ब्रह्मचारिणम् ।
तच्चक्षुरिति मन्त्रेण दर्शयेद्भास्करं गुरुः ॥ १९९ ॥

दृष्टभास्करमाचार्यो वदेन्माणवकं ततः ।
मम व्रते मनो धेहि मम चित्तं ददामि ते ।
जुषस्वैकमना वत्स मम वाचोऽस्तु ते शिवम् ॥ २०० ॥

हृदि स्पृष्ट्वा पठित्वैनं किन्नामाऽसीति तं वदेत् ।
शिष्यस्त्वमुकशर्माऽहं भवन्तमभिवादये ॥ २०१ ॥


वैणवं वेणुसमुद्भवं खादिरं खदिरसमुद्भवं पालाशं पलाशसमुद्भवं क्षीरवृक्षसमुद्भवं वा दण्डमपि शिशवे दद्यात् ॥ १९७ ॥

आपोहिष्ठेत्यादि ।
ततो मायया ह्री।
बीजेनादावन्ते च पुटितेन संयुक्तेनापो हि ष्ठेति मन्त्रेण कुशाम्भोभिर्धृतदण्डोपवीतिनं धृतदण्डमुपवीतवन्तं शिशुं त्रिरावृत्त्याऽभिषिच्य ततः परं तोयैर्जलैर्वालकाञ्जलिं पूरयेत् ॥ १९८ ॥

तदञ्जलिमित्यादि ।
दिनेशाय सूर्याय तदञ्जलिं दातारं ब्रह्मचारिणं बालकं तच्चक्षुरिति मन्त्रेण भास्करं गुरुर्दर्शयेत् ।
दातारमित्यत्र शीले तृन्प्रत्ययः ।
अत एव तदञ्जलिमित्यत्र कर्तृकर्मणोः कृतीत्यनेन कर्मणि प्राप्तायाः षष्ठ्या न लोकान्वयनिष्ठा खलर्थतृणमित्यनेन प्रतिषेधो जातः ॥ १९९ ॥

दृष्टभास्करमित्यादि ।
ततः परमाचार्यो गुरुः द्दष्टभास्करं दृष्टो भास्करो येन तथाभूतं माणवकं शिशुं वदेत् ।
आचार्यो बालकं किं वदेदित्यपेक्षायामाह मम व्रते इत्यादि ।
जुषस्व मम व्रतं सेवस्व ।
शिवं कल्याणम् ॥ २०० ॥

हृदीति ।
गुरुरेनं ममव्रतमित्यादिकं शिवमित्यन्तं मन्त्रं पठित्वा शिशोर्हृदि स्पृष्ट्वा वत्स त्वं किं नामासीति तं शिष्यं वदेत् ।
गुरुणैवमुक्तः शिष्यस्तु अमुकदेवशर्माहं भवन्तमभिवादये इति ब्रूयात् ॥ २०१ ॥


कस्य त्वं ब्रह्मचारीति गुरौ पृच्छति पार्वति ।
शिष्यः सावहितो ब्रूयाद्भवतो ब्रह्मचार्यहम् ॥ २०२ ॥

इन्द्रस्य ब्रह्मचारी त्वमाचार्यरते हुताशनः ।
इत्युक्त्वा सद्गुरुः पश्चाद्देवेभ्यस्तं समर्पयेत् ॥ २०३ ॥

त्वां प्रजापतये वत्स सवित्रे वरुणाय च ।
पृथिव्यै विश्वदेवेभ्यः सर्वदेवेभ्य एव च ।
समर्पयामि ते सर्वे रक्षन्तु त्वां निरन्तरम् ॥ २०४ ॥

ततो माणवको वह्निं दक्षिणावर्तयोगतः ।
गुरुं प्रदक्षिणीकृत्य स्वासने पुनराविशेत् ॥ २०५ ॥

गुरुः शिष्येण संस्पृष्टः समुद्भवहुताशने ।
पञ्चदेवान् समुद्दिश्य दद्यात् पञ्चाहुतीः प्रिये ॥ २०६ ॥


कस्येत्यादि ।
हे वत्स त्वं कस्य ब्रह्मचार्यसीति गुरौ पृच्छति सति शिष्यः सावहितः सावधानः सन् भवतो ब्रह्मचार्यहमिति ब्रूयात् ॥ २०२ ॥

इन्द्रस्येत्यादि ।
हे वत्स त्वमिन्द्रस्य ब्रह्मचार्यसि ते तव हुताशनोऽग्निराचार्यो गुरुर्भवति इति शिष्यमुक्त्वा सद्गुरुः पश्चात् तं शिष्यं देवेभ्यः समर्पयेत् ॥ २०३ ॥

ननु केभ्यो देवेभ्यो गुरुः शिष्यं समर्पयेदित्याकाङ्क्षायामाह त्वां प्रजापतये वत्सेत्यादि ॥ २०४ ॥

तत इत्यादि ।
ततः परं माणवको बालको दक्षिणावर्तयोगतो वह्निं गुरुञ्च प्रदक्षिणीकृत्य पुनः स्वासने आविशेत् ॥ २०५ ॥

गुरुरिति ।
गुरुः शिष्येण संस्पृष्टः सन् समुद्भवहुताशने समुद्भवसञ्ज्ञके अग्नौ पञ्चदेवान् समुद्दिश्य पञ्चाहुतीर्दद्यात् ॥ २०६ ॥


प्रजापतिस्तथा शक्रो विष्णुर्ब्रह्मा शिवस्तथा ॥ २०७ ॥

मायादिवह्निजायान्तैर्जुहुयात् स्वस्वनामभिः ।
अनुक्तमन्त्रे सर्वत्र विधिरेषः प्रकीर्तितः ॥ २०८ ॥

ततो दुर्गा महालक्ष्मीः सुन्दरी भुवनेश्वरी ।
इन्द्रादिदशदिक्पाला भास्करादिनवग्रहाः ॥ २०९ ॥

प्रत्येकनाम्ना हुत्वैतान् वाससाऽच्छाद्य बालकम् ।
पृच्छेन्माणवकं प्राज्ञो ब्रह्मचर्याभिमानिनम् ।
को वाऽश्रमस्ते तनय ब्रूहि किं ते मनोगतम् ॥ २१० ॥

ततः शिष्यः सावहितो धृत्वा गुरुपदद्वयम् ।
करोतु मामाश्रमिणं ब्रह्मविद्योपदेशतः ॥ २११ ॥


ननु कान् पञ्चदेवान् समुद्दिश्य पञ्चाहुतीर्दद्यादित्यपेक्षायां तान् पञ्च देवान् दर्शयति प्रजापतिरित्याद्यर्द्धेन ॥ २०७ ॥

ननु कैर्मन्त्रैः पञ्चदेवानुद्दिश्याहुतीर्दद्यात्तत्राह मायादीत्यादि ।
मायादिवह्निजायान्तैः ह्री।
बीजादिभिः स्वाहान्तैः स्वस्वनामभिः प्रजापत्यादीन् पञ्चदेवानुद्दिश्य जुहुयात् ।
ननु प्रजापत्यादिपञ्चदेवोद्देश्यक एव होमो मायादिवह्निजायान्तैः स्वस्वनामभिर्विधातव्यस्तदन्यदेवोद्देश्यकोऽपि वा तत्राह अनुक्तमन्त्रे इत्यादि ॥ २०८ ॥

तत इत्यादि ।
ततो ह्री।
बीजाद्येन स्वाहान्तेन प्रत्येकनाम्ना एतान् दुर्गामहालक्ष्म्यादीनुद्दिश्य हुत्वा वाससा वस्त्रेण बालकमाच्छाद्य हे तनय ते तवाश्रमः कः ते मनोगतं वा किं वर्तते त्वं ब्रूहि इति प्राज्ञो धीमान् गुरुर्ब्रह्मचर्याभिमानिन माणवकं बालकं पृच्छेत् ॥ २०९ ॥ २१० ॥

तत इत्यादि ।
ततः परं शिष्यः सावहितः सावधानः सन् गुरुपदद्वयं धृत्वा हे गुरो ब्रह्मविद्योपदेशतः सावित्र्या उपदेशेन मामाश्रमिणं भवान् करोत्विति प्रार्थयेत् ॥ २११ ॥


एवं प्रार्थयमानस्य दक्षकर्णे शिशोस्तदा ।
श्रावयित्वा त्रिधा तारं सर्वमन्त्रमयं शिवे ।
व्याहृतित्रयमुच्चार्य सावित्रीं श्रावयेद्गुरुः ॥ २१२ ॥

ऋषिः सदाशिवः प्रोक्तः छन्दस्त्रिष्टुबुदाहृतम् ।
अधिष्ठात्री तु सावित्री मोक्षार्थे विनियोगिता ॥ २१३ ॥

आदौ तत्सवितुः पश्चाद्वरेण्यं पदमुच्चरेत् ।
भर्गः पदान्ते देवस्य धीमहीति पदं वदेत् ॥ २१४ ॥

ततस्तु परमेशानि धियो यो नः प्रचोदयात् ।
पुनः प्रणवमुच्चार्य सावित्र्यर्थं गुरुर्वदेत् ॥ २१५ ॥


एवमित्यादि ।
तदा तस्मिन् काले एवं प्रार्ययमानस्य शिशोर्दक्षकर्णे सर्वमन्त्रमयं सकलमन्त्रस्वरूपं सकलमन्त्रप्रधानं वा तारं प्रणवं त्रिधा त्रिवारं श्रावयित्वा ततो भूरादिव्याहृतित्रयमुच्चार्य गुरुः सावित्रीं गायत्रीं श्रावयेत् ॥ २१२ ॥

अथ गायत्र्या ऋष्यादिकमाह ऋषिरित्यादिना ।
अस्या गायत्र्याः सदाशिव ऋषिस्त्रिष्टुप्छन्दः सावित्र्यधिष्ठात्री देवता मोक्षार्थे विनियोगः ।
शिरसि सदाशिवाय ऋषये नमः मुखे त्रिष्टुप्छन्दसे नमः हृदये सावित्र्यै अधिष्ठात्र्यै देवातायै नमः इति ऋषिन्यासं विधाय सावित्र्या जपो विधेयः ॥ २१३ ॥

सावित्रीमेवाह आदावित्यादिना सार्द्धेन ।
आदौ तत्सवितुरिति वदेत् ।
पश्चात् वरेण्यं पदमुच्चरेदुद्धरेत् ।
ततो भर्ग इति पदं वदेत् ।
तत्पदान्ते देवस्येति पदं वदेत् ।
तदन्ते धीमहीति पदं वदेत् ।
ततस्तु धियो यो नः प्रचोदयादिति वदेत् ।
सकलपदयोजनया तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् इत्याकारिका सावित्री जाता ।
सावित्र्यन्ते पुनः प्रणवमोङ्कारमुच्चार्य गुरुः सावित्र्यर्थं वदेत् ।
सावित्र्यर्थमिति प्रणवार्थस्य व्याहृत्यर्थस्य चाप्युपलक्षणम् ॥ २१४ ॥ २१५ ॥


त्र्यक्षरात्मकतारेण परेशः प्रतिपाद्यते ।
पाता हर्ता च संस्रष्टा यो देवः प्रकृतेः परः ॥ २१६ ॥

असौ देवस्त्रिलोकात्मा त्रिगुणं व्याप्य तिष्ठति ।
अतो विश्वमयं ब्रह्म वाच्यं व्याहृतिभिस्त्रिभिः ॥ २१७ ॥

तारव्याहृतिवाच्यो यः सावित्र्या ज्ञेय एव सः ।
जगद्रूपस्य सवितुः संस्रष्टुर्दीव्यतो विभोः ॥ २१८ ॥

अन्तर्गतं महद्वर्चो वरणीयं यतात्मभिः ।
ध्यायेम तत् परं सत्यं सर्वव्यापि सनातनम् ॥ २१९ ॥

यो भर्गः सर्वसाक्षीशो मनोबुद्धीन्द्रियाणि नः ।
धर्मार्थकाममोक्षेषु प्रेरयेद्विनियोजयेत् ॥ २२० ॥


प्रथमतः प्रणवार्थं व्याहृत्यर्थं चाभिदधाति द्वाभ्यां त्र्यक्षरात्मकेत्यादि ।
पाता जगतः पालको हर्ता तस्य संहारकः संस्रष्टा तस्यैवोत्पादकश्च प्रकृतेः परो दूर उत्तमो वा यः परेशः परमात्मा देवो दीप्त्यादिक्रियाश्रयोऽस्ति असौ परेशो देवः त्र्यक्षरात्मकतारेण अकारादित्रिवर्णात्मकेन प्रणवेन प्रतिपाद्यते बोध्यते ।
प्रणवप्रतिपाद्यो यो देवः असौ देवो यतस्त्रिलोकात्मा त्रिलोकस्वरूपो भवति त्रिगुणं सत्त्वादिकं व्याप्य तिष्ठति च अतो हेतोर्विश्वमयं विश्वस्वरूपं ब्रह्म लोकत्रयाभिधायिभिर्भूरादिभिस्त्रिभिर्व्याहृतिभिर्वाच्यं भवति ॥ २१६ ॥ २१७ ॥

एवं प्रणवार्थं व्याहृत्यर्थं च द्वाभ्यामभिधायेदानीं तार इत्यादिभिस्त्रिभिः सावित्र्यर्थमभिधत्ते तारेत्यादि ।
तारव्याहृतिवाच्यो यः परमात्मा स एव सवित्र्या अपि वाच्यो ज्ञेयः ।
परमात्मन एव यथा सावित्रीवाच्यत्वं भवेत्तथैव व्याख्याययति जगदरूपस्येत्यादि ।
सवितुरित्यस्य विवरणं जगद्रूपस्य संस्रष्टुरिति ।
देवस्येत्यस्य विवरणं दीव्यतो विभोरिति ।
भर्गपदार्थमाह अन्तर्गतं महद्वर्च इति ।
वरेण्यमित्यस्यार्थमाह यतात्मभिर्वरणीयमिति ।
धीमहीत्यस्य विवरणं


इत्थमर्थयुतां ब्रह्मविद्यामादिश्य सद्गुरुः ।
शिष्यं नियोजयेद्देवि गृहस्थाश्रमकर्मसु ॥ २२१ ॥

ब्रह्मचर्योचितं वेशं वत्सेदानीं परित्यज ।
शाम्भवोदितमार्गेण देवान् पितॄन् समर्चय ॥ २२२ ॥

ब्रह्मविद्योपदेशेन पवित्रं ते कलेवरम् ।
प्राप्ता गृहस्थाश्रमिता तदुक्तं कर्म कल्पय ॥ २२३ ॥


ध्यायेमेति ।
तत्पदार्थमाह परं सत्यं सर्वव्यापि सनातनमिति ।
य इत्यस्य विवरणं सर्वसाक्षीश इति ।
धिय इत्यस्य विवरणं मनोबुद्धीन्द्रियाणीति ।
प्रचोदयादित्यस्य विवरणं धर्मार्थकाममोक्षेषु प्रेरयेदिति ।
प्रेरयेदित्यस्य च विवरणं विनियोजयेदिति ।
तदेवं वाक्यार्थः ।
सवितुर्जगद्रूपस्य वस्तुनः संस्रष्टुर्देवस्य दीव्यतो विभोर्वरेण्यं यतात्मभिः संयतान्तःकरणैर्वरणीयमुपासनीयं तत् परमुत्तमं सत्यं यथार्थभूतं सर्वव्यापि सकलपदार्थव्यापनशीलं सनातनमाद्यन्तशून्यम् अन्तर्गतं महद्वर्चस्तेजो वयं धीमहि ध्यायेम ।
यः सर्वसाक्षीशः सर्वेषां शुभाशुभकर्मणां द्रष्टा नियन्ता च भर्गो नोऽस्माकं धियो मनोबुद्धीन्द्रियाणि प्रचोदयात् धर्मार्थकाममोक्षेषु प्रेरयेत् विनियोजयेदिति ।
अत्र यद्यपि सवितुर्भर्ग इति सवितृभर्गयोर्भेदः प्रतीयते तथापि परमार्थचिन्तायामभेद एवेति बोद्धव्यम् ॥ २१८ � २२० ॥

इत्थमित्यादि ।
हे देवि इत्थमनेन प्रकारेणार्थयुतां ब्रह्मविद्यां गायत्रीमादिश्य भिक्षार्थमितस्ततो गमयित्वा च सद्गुरुः शिष्यं गृहस्थाश्रमकर्मसु नियोजयेत् प्रवर्तयेत् ॥ २२१ ॥

गृहस्थाश्रमकर्मसु शिष्यस्य प्रवर्तनमाह ब्रह्मचर्येत्यादिभिः ।
हे वत्स त्वमिदानीं ब्रह्मचर्योचितं वेशं परित्यज शाम्भवोदितमार्गेण शम्भुप्रोक्तेन वर्त्मना देवान् पितॄंश्च समर्चय सम्यक् पूजय ॥ २२२ ॥

ब्रह्मेत्यादि ।
हे वत्स ब्रह्मविद्योपदेशेन ते तव कलेवरं शरीरं पवित्रमासीत् ।
इदानीं प्राप्ता या गृहस्थाश्रमिता तदुक्तं कर्म कल्पय कुरु ॥ २२३ ॥


उपवीतद्वयं दिव्यवस्त्रालङ्करणानि च ।
गृहाण पादुकाछत्रं गन्धमाल्यानुलेपनम् ॥ २२४ ॥

ततः काषायवसनं कृष्णाजिनसमन्वितम् ।
यज्ञसूत्रं मेखलाञ्च दण्डं भिक्षाकरण्डकम् ॥ २२५ ॥

आचारादर्जितां भिक्षां समर्प्य गुरवे शिवे ।
शुद्धोपवीतयुगलं परिधायाम्बरे शुभे ॥ २२६ ॥

गन्धमाल्यधरस्तूष्णीं तिष्ठेदाचार्यसन्निधौ ।
ततो गृहस्थाश्रमिणं शिष्यमेतद्वदेद्गुरुः ॥ २२७ ॥

जितेन्द्रियः सत्यवादी ब्रह्मज्ञानपरो भव ।
स्वाध्यायाऽश्रमकर्माणि यथाधर्मेण साधय ॥ २२८ ॥

इत्यादिश्य द्विजं पश्चात् समुद्भवहुताशने ।
मायादिप्रणवान्तेन भूर्भुवःस्वस्त्रयेण च ॥ २२९ ॥


उपवीतेत्यादि ।
हे वत्स त्वमिदानीमुपवीतद्वयं द्वे उपवीते दिव्यानि वस्त्रालङ्करणानि च पादुकाछत्रमुपानहं छत्रं च गन्धमाल्यानुलेपनमपि गृहाण ॥ २२४ ॥

तत इत्यादि ।
गुरुणैवमाज्ञापितः शिष्यः ततः परं काषायवसनं कषायेण रक्तं वस्त्रं कृष्णाजिनसमन्वितं यज्ञसूत्रं मेखलां दण्डं भिक्षाकरण्डकं भिक्षापात्रमाचारादर्जितां भिक्षाञ्च गुरवे समर्प्य दत्वा शुद्वोपवीतयुगलं शुभे अम्बरे वस्त्रे च परिधाय गन्धमाल्यधरः सन् तूष्णीमाचार्यसन्निधौ गुरुसमीपे तिष्ठेत् ।
ततो गृहस्थाश्रमिणं शिष्यं गुरुरेतद्वदेत् ॥ २२५ � २२७ ॥

ननु गृहस्थाश्रमिणं शिष्यं गुरुः किं वदेदित्यपेक्षायामाह जितेन्द्रिय इत्यादि ॥ २२८ ॥


हावयित्वा त्रिधाऽचार्यः स्विष्टिकृद्धोममाचरन् ।
दत्त्वा पूर्णाहुतिं भद्रे व्रतकर्म समापयेत् ॥ २३० ॥

जीवसेकादिसंस्कारा व्रतान्ताः पितृतो नव ।
उद्वाहः पितृतो वापि स्वतोऽपि सिध्यति प्रिये ॥ २३१ ॥

विवाहाह्नि कृतस्नानः कृतनित्यक्रियः कृती ।
पञ्चदेवान् समभ्यर्च्य गौर्यादिमातृकास्तथा ।
वसोर्धारां कल्पयित्वा वृद्धिश्राद्धं समाचरेत् ॥ २३२ ॥

रात्रौ प्रतिश्रुतं पात्रं गीतवाद्यपुरःसरम् ।
छायामण्डपमानीय उपवेश्य वरासने ॥ २३३ ॥

वासवाभिमुखं दाता पश्चिमाभिमुखो विशेत् ।
आचम्य स्वस्तिमृद्धिञ्च कथयेद्ब्राह्मणैः सह ॥ २३४ ॥


इतीत्यादि ।
द्विजं द्विजत्वशालिनं शिष्यमित्यादिश्य आज्ञाप्य पश्चात् समुद्भवहुताशने समुद्भवाख्ये वह्नौ मायादिप्रणवान्तेन ह्री।
बीजादिना ओ।
कारान्तेन भूर्भुवः स्वस्त्रयेण मन्त्रेण त्रिधा त्रिवारं शिष्येण हावयित्वा च स्विष्टकृतं होममाचरन्नाचार्यः पूर्णाहुतिं दत्त्वा व्रतकर्म यज्ञोपवीतक्रियां समापयेत् ॥ २२९ � २३१ ॥

अथोद्वाहक्रियाविधिमाह विवाहाह्नीत्यादिभिः ॥ २३२ ॥

रात्रावित्यादि ।
ततः प्रतिश्रुतमङ्गीकृतं पात्रं वरं गीतवाद्यपुरःसरं यथा स्यात्तथा रात्रौ छायामण्डपमानीय वरासने श्रेष्ठे पीटे वासवाभिमुखं पूर्वाभिमुखमुपवेश्य च कन्याया दाता पश्चिमाभिमुखो भूत्वा विशेत् ।
पश्चिमाभिमुख उपविष्टो दाता आचम्याचमनं कृत्वा कर्तव्येऽस्मिन् शुभविवाहकर्मणि स्वस्ति भवन्तो ब्रुवन्त्वित्युक्त्वा ब्राह्मणैः सह स्वस्ति न इन्द्रो बृद्धश्रवा इत्यादि स्वस्तिं कथयेत् ।
ततः कर्तव्येऽस्मिन् शुभविवाहकर्मणि ऋद्धिम्भवन्तोऽधिब्रुवन्त्वित्युक्त्वा


साधुप्रश्नं वरं पृच्छेदर्चनाप्रश्नमेव च ।
वरात् प्रश्नोत्तरं नीत्वा पाद्याद्यैर्वरमर्चयेत् ॥ २३५ ॥

समर्पयामि वाक्येन देयद्रव्यं समर्पयेत् ।
पादयोरर्पयेत् पाद्यं शिरस्यर्घ्यं निवेदयेत् ॥ २३६ ॥

आचम्यं वदने दद्यात् गन्धं माल्यं सुवाससी ।
दिव्याभरणरत्नानि यज्ञसूत्रं समर्पयेत् ॥ २३७ ॥

ततस्तु भाजने कांस्ये कृत्वा दधि घृतं मधु ।
समर्पयामि वाक्येन मधुपर्कं करेऽर्पयेत् ॥ २३८ ॥

वरोऽपि पात्रमादाय वामे पाणौ निधाय च ।
दक्षाङ्गुष्ठानामिकाभ्यां प्राणाहुत्युक्तमन्त्रकैः ॥ २३९ ॥


तैरेव सह ऋध्यताम् ऋध्यताम् ऋध्यताम् इत्यृद्धिञ्च कथयेत् वाचयेत् ॥ २३३ ॥ २३४ ॥

साध्वित्यादि ।
ततो दाता साधु भवानास्तामिति साधुप्रश्नं भवन्तमर्चयिष्याम इत्यर्चनाप्रश्नञ्च वरं पृच्छेत् ।
ततो वरात् साध्वहमासे इति ओमर्चयेति च प्रश्नोत्तरं नीत्वा समादाय पाद्याद्यैर्वरमर्चयेत् पूजयेत् पाद्यादीनि वराय समर्पयेदित्यर्थः ॥ २३५ ॥

ननु केन वाक्येन कुत्र कुत्र वा अङ्गे पाद्यादिकं समर्पयेदित्याकाङ्क्षायामाह समर्पयामीत्यादि ।
तुभ्यमिदं समर्पयामीति वाक्येन पाद्यादिदेयद्रव्यं वराय समर्पयेत् ॥ २३६ ॥ २३७ ॥

ततस्त्वित्यादि ।
ततस्तु कांस्ये भाजने दधि घृतं मधु च कृत्वा तुभ्यं समर्पयामीति वाक्येन मधुपर्कं वरस्य करे दक्षिणे हस्ते समर्पयेत् ॥ २३८ ॥

वरोऽपीत्यादि ।
वरोऽपि मधुपर्कपात्रमादाय गृहीत्वा वामे पाणौ निधाय संस्थाप्य च दक्षाङ्गुष्ठानामिकाभ्यामङ्गुलिभ्यां प्राणाय स्वाहेत्यादिकैः


पञ्चधाघ्राय तत्पात्रमुदीच्यां दिशि धारयेत् ।
मधुपर्कं समर्प्यैवं पुनराचामयेद्वरम् ॥ २४० ॥

दूर्वाक्षताभ्यां जामातुर्विधृत्य जानु दक्षिणम् ।
स्मृत्वा विष्णुं तत्सदिति मासपक्षतिथीस्ततः ॥ २४१ ॥

समुल्लिख्य निमित्तानि वृणुयाद्वरमुत्तमम् ।
गोत्रप्रवरनामानि प्रत्येकं प्रपितामहात् ॥ २४२ ॥

षष्ठ्यन्तानि समुच्चार्य वरस्य जनकावधि ।
द्वितीयान्तं वरं ब्रूयात् गोत्रप्रवरनामभिः ॥ २४३ ॥

तथैव कन्यामुल्लिख्य ब्राह्मोद्वाहेन पण्डितः ।
दातुं भवन्तमित्युक्त्वा वृणेऽहमिति कीर्तयेत् ॥ २४४ ॥


प्राणाहुत्युक्तमन्त्रैः पञ्चधा पञ्चवारं मधुपर्कमाघ्राय तत्पात्रं मधुपर्कपात्रमुदीच्यामुत्तरस्यां दिशि धारयेत् ।
एवं वराय मधुपर्कं समर्प्य पुनर्वरमाचामयेत् ॥ २३९ ॥ २४० ॥

दूर्वेत्यादि ।
ततो जामातुर्वरस्य दक्षिणं जानु विधृत्य प्रथमतो विष्णुं स्मृत्वा ततस्तत्सदिति समुल्लिख्योच्चार्य ततो मासप्रभृतीनि निमित्तानि समुल्लिख्य ततो वरस्य प्रपितामहात् प्रपितामहमारभ्य जनकावधेर्जनकपर्यन्तस्य त्रिपुरुषस्य प्रत्येकं षष्ठ्यन्तानि गोत्रप्रवरनामानि समुच्चार्य ततो गोत्रप्रवरनामभिर्विशिष्टं द्वितीयान्तं वरं ब्रूयात् ।
ततस्तथैव कन्यायाः प्रपितामहादेर्जनकपर्यन्तस्य त्रिपुरुषस्य षष्ठ्यन्तानि गोत्रप्रवरनामान्युल्लिख्य ततो गोत्रप्रवरनामभिर्विशिष्टां द्वितीयान्तां कन्यामुल्लिख्य ततो ब्राह्मोद्वाहेन दातुं भवन्तमित्युक्त्वा पण्डितः सम्प्रदाता वृणेऽहमिति कीर्तयेत् ।
योजनया विष्णुरो।
तत्सत् ओ।
अद्यामुकमास्यमुकपक्षेऽमुकतिथावमुकराशिस्थिते भास्करेऽमुकगोत्रः श्रीमदमुकदेवशर्मा अमुकगोत्रस्य अमुकप्रवरस्य श्रीमतो अमुकदेवशर्मणः प्रपौत्रम् अमुकगोत्रस्य अमुकप्रवरस्य


वृतोऽस्मीति वरो ब्रूयात् ततो दाता वदेद्वरम् ।
यथाविहितमित्युक्त्वा विवाहकर्म कुर्विति ।
वरो ब्रूयात् यथाज्ञानं करवाणि तदुत्तरम् ॥ २४५ ॥

ततः कन्यां समानीय वस्त्रालङ्कारभूषिताम् ।
वस्त्रान्तरेण सञ्च्छाद्य स्थापयेद्वरसम्मुखम् ॥ २४६ ॥

पुनर्वरं समभ्यर्च्य वासोऽलङ्करणादिभिः ।
वरस्य दक्षिणे पाणौ कन्यापाणिं नियोजयेत् ॥ २४७ ॥

तन्मध्ये पञ्चरत्नानि फलताम्बूलमेव वा ।
दत्त्वाऽर्चयित्वा तनयां वराय विदुषेऽर्पयेत् ॥ २४८ ॥


श्रीमदमुकदेवशर्मणः पौत्रम् अमुकगोत्रस्यामुकप्रवरस्य श्रीमदमुकदेवशर्मणः पुत्रम् अमुकगोत्रममुकप्रवरं श्रीमन्तममुकदेवशर्माणं वरम् अमुकगोत्रस्यामुकप्रवरस्य श्रीमदमुकदेवशर्मणः प्रपौत्रीम् अमुकगोत्रस्यामुकप्रवरस्य श्रीमदमुकदेवशर्मणः पौत्रीममुकगोत्रस्यामुकप्रवरस्य श्रीमदमुकदेवशर्मणः पुत्रीम् अमुकगोत्राममुकप्रवराममुकीं देवीं कन्यां ब्राह्मोद्वाहेन दातुं भवन्तमहं वृणे इति वाक्यं जातम् ।
अनेन वाक्येन दूर्वाक्षताभ्यामुत्तमं वरं वृणुयात् ॥ २४१ � २४४ ॥

वृत इत्यादि ।
ततो वृतोऽस्मीति वरो ब्रूयात् ।
ततो दाता यथाविहितमित्युक्त्वा विवाहकर्म कुरु इति वरं वदेत् यथाविहितं विवाहकर्म कुर्विति जामातरं ब्रूयादित्यर्थः ।
ततो यथाज्ञानं विवाहकर्म करवाणीति तदुत्तरं वरो ब्रूयात् ॥ २४५ ॥

तत इत्यादि ।
ततः परं वस्त्रालङ्कारभूषितां कन्यां वस्त्रान्तरेण सञ्च्छाद्य गृहात् समानीय वरसम्मुखं स्थापयेत् ॥ २४६ ॥

पुनरित्यादि ।
ततो दाता वासोऽलङ्करणादिभिर्वरं पुनः समभ्यर्च्य वरस्य दक्षिणे पाणौ कन्यापाणिं कन्याया दक्षिणं हस्तं नियोजयेत् स्थापयेत् ॥ २४७ ॥

तन्मध्ये इत्यादि ।
ततस्तन्मध्ये पाणिमध्ये पञ्चरत्नानि फलताम्मूलमेव वा दत्वा तनयां पुत्रीमर्चयित्वा विदुषे धीमते वरायार्पयेत् दद्यात् ॥ २४८ ॥


प्राग्वत्त्रिपुरुषाख्यानं निमित्ताख्यानमेव च ।
आत्मनः काममुद्दिश्य चतुर्थ्यन्तं वरं वदेत् ॥ २४९ ॥

कन्याभिधां द्वितीयान्तामर्चितां समलङ्कृताम् ।
साच्छादनां प्रजापतिदेवताकामुदीरयन् ॥ २५० ॥

तुभ्यमहमिति प्रोच्य दद्यात् सम्प्रददे वदन् ।
वरः स्वस्तीति स्वीकुर्यात् सम्प्रदाता वरं वदेत् ॥ २५१ ॥

धर्मे चार्थे च कामे च भवता भार्यया सह ।
वर्तितव्यं वरो बाढमुक्त्वा कामस्तुतिं पठेत् ॥ २५२ ॥


ननु केन वाक्येन वराय कन्या समर्पयितव्येत्याकाङ्क्षायामाह प्राग्वदित्यादि ।
प्राग्वत् पूर्ववत् त्रिपुरुषाख्यानं निमित्ताख्यानञ्च कृत्वाऽत्मनः काममप्युद्दिश्य ततश्चतुर्थ्यन्तं वरं वदेत् ।
ततो द्वितीयान्तामर्चितां समलङ्कृतां साच्छादनां प्रजापतिदेवताकां कन्याभिधामुदीरयंस्तुभ्यमहमिति प्रोच्य ततः सम्प्रददे इति वदंस्तनयां दद्यात् ।
योजनया विष्णुरो।
तत्सत् ओ।
अद्यामुकमास्यमुकपक्षेऽमुकतिथावमुकराशिस्थिते भास्करेऽमुकाभीष्टासिद्धिकामोऽमुकगोत्रः श्रीमदमुकशर्माऽमुकगोत्रस्याऽमुकप्रवरस्य श्रीमदमुकदेवशर्मणः प्रपौत्राय अमुकगोत्रस्याऽमुकप्रवरस्य श्रीमदमुकदेवशर्मणः पौत्राय अमुकगोत्रस्यामुकप्रवरस्य श्रीमदमुकदेवशर्मणः पुत्राया अमुकगोत्रायाऽमुकप्रवराय श्रीमतेऽमुकदेवशर्मणे वराय अमुकगोत्रस्याऽमुकप्रवरस्य श्रीमदमुकदेवशर्मणः प्रपौत्रीममुकगोत्रस्यामुकप्रवरस्य श्रीमदमुकदेवशर्मणः पौत्रीममुकगोत्रस्यामुकप्रवरस्य श्रीमदमुकदेवशर्मणः पुत्रीममुकगोत्राममुकप्रवरामर्चितां समलङ्कृतां साच्छादनां प्रजापतिदेवताकाममुकीं देवीमेनां कन्यां तुभ्यमहं सम्प्रददे इति वाक्येन विदुषे वराय तनयां समर्पयेदित्यर्थः ।
वरः स्वस्तीत्युक्त्वा भार्यां स्वीकुर्यात् ।
ततः सम्प्रदाता वरं वदेत् ॥ २४९ � २५१ ॥

सम्प्रदाता वरं प्रति किं वदेदित्यपेक्षायामाह धर्मे चेत्यादि ।
हे जामातः धर्मे चार्थे च कामे च भार्यया सह भवता वर्तितव्यम् ।
ततो वरो


दाता कामो गृहीताऽपि कामायाऽदाच्च कामिनीम् ।
कामेन त्वां प्रगृह्णामि कामः पूर्णोऽस्तु चावयोः ॥ २५३ ॥

ततो वदेत् सम्प्रदाता कन्यां जामातरं प्रति ।
प्रजापतिप्रसादेन युवयोरभिवाञ्छितम् ।
पूर्णमस्तु शिवञ्चास्तु धर्मं पालयतं युवाम् ॥ २५४ ॥

तत आच्छाद्य वस्त्रेण सम्प्रदाता सुमङ्गलैः ।
परस्परशुभालोकं कारयेद्वरकन्ययोः ॥ २५५ ॥

ततो हिरण्यरत्नानि यथाशक्त्यनुसारतः ।
जामात्रे दक्षिणां दद्यादच्छिद्रमवधारयेत् ॥ २५६ ॥


बाढमित्युक्त्वा कामस्तुतिं पठेत् ।
बाढमङ्गीकरणम् ।
भृशप्रतिज्ञयोर्बाढमित्यमरः ॥ २५२ ॥

कामस्तुतिमेवाह दाता काम इति ।
कामो दाता भवति काम एव गृहीता भवति कामः कामाय कामिनीमदात् हे भार्ये कामेन त्वामहं प्रगृह्णामि आवयोः कामः पूर्णोऽस्तु ॥ २५३ ॥

तत इत्यादि ।
ततः कामस्तुतिपठनादनन्तरं सम्प्रदाता कन्यां जामातरं वरञ्च प्रति वदेत् ।
किं वदेदित्यपेक्षायामाह प्रजापतिप्रसादेनेत्यादि ॥ २५४ ॥

तत इत्यादि ।
ततः सम्प्रदाता वस्त्रेण वरकन्ये आच्छाद्य सुमङ्गलैर्गीतवाद्यादिभिर्वरकन्ययोः परस्परशुभालोकं कारयेत् ॥ २५५ ॥

तत इत्यादि ।
तत ओ।
अद्येत्यादि कृतस्यास्य शुभविवाहकर्मणः साङ्गत्वार्थं हिरण्यादिदक्षिणाममुकगोत्रायामुकदेवशर्मणे वराय तुभ्यमहं सम्प्रददे इति वाक्येन सम्प्रदाता जामात्रे यथाशक्त्यनुसारतो हिरण्यरत्नानि दक्षिणां दद्यात् ।
ततः कृतमिदं शुभविवाहकर्माऽच्छिद्रमस्तु इत्यवधारयेत् ॥ २५६ ॥


वरस्तु भार्यया सार्द्धं तद्रात्रौ दिवसेऽपि वा ।
कुशण्डिकोक्तविधिना वह्निस्थापनमाचरेत् ॥ २५७ ॥

योजकाख्यः पावकोऽत्र प्राजापत्यश्चरुः स्मृतः ।
धारान्त कर्म सम्पाद्य दद्यात् पञ्चाहुतीर्वरः ॥ २५८ ॥

शिवं दुर्गां तथा विष्णुं ब्रह्माणं वज्रधारिणाम् ।
ध्यात्वैकैकं समुद्दिश्य जुहुयात् संस्कृतेऽनले ॥ २५९ ॥

भार्यायाः पाणियुगलं गृह्णीयादित्युदीरयन् ।
पाणिं गृह्णामि सुभगे गुरुदेवरता भव ।
गार्हस्थ्यं कर्म धर्मेण यथावदनुशीलय ॥ २६० ॥

घृतेन स्वामिदत्तेन लाजैर्भ्रात्राहृतैः शिवे ।
प्रजापतिं समुद्दिश्य दद्यात् वेदाहुतीर्वधूः ॥ २६१ ॥

प्रदक्षिणीकृत्य वह्निमुत्थाय भार्यया सह ।
दुर्गां शिवं रमां विष्णुं ब्राह्मीं ब्रह्माणमेव च ।
युग्मं युग्मं समुद्दिश्य त्रिस्त्रिधा हवनं चरेत् ॥ २६२ ॥


वरस्त्वित्यादि ।
तदनन्तरमिति शेषः ।
दिवसेऽपि वा तस्या एव रात्रेः परस्मिन् दिने वा ॥
अत्र विवाहकर्मणि ॥ २५७ ॥ २५८ ॥

ननु कान्देवानुद्दिश्य सभार्यो वरः पञ्चाहुतीर्दद्यादित्यपेक्षायामाह शिवमित्यादि ॥ २५९ ॥

भार्याया इति ।
ततो वर इति वक्ष्यमाणं मन्त्रमुदीरयन् कीर्तयन् भार्यायाः पाणियुगलं गृह्णीयात् ।
तमेव मन्त्रमाह पाणिं गृह्णामि सुभगे इत्यादि ॥ २६० ॥

घृतेनेत्यादि ।
हे शिवे ततो वधूर्भार्या स्वामिदत्तेन घृतेन भ्रात्राहृतैर्दत्तैर्लाजैश्च प्रजापतिं समुद्दिश्य वेदाहुतीश्चतस्र आहुतीर्दद्यात् ॥ २६१ ॥

प्रदक्षिणीकृत्येत्यादि ।
ततो वरो भार्यया सहोत्थाय वह्निं प्रदक्षणीकृत्य दुर्गां शिवञ्च रमां विष्णुञ्च ब्राह्मीं ब्रह्माणमेव च युग्मं युग्मं समुच्चार्य त्रिस्त्रिधा त्रिवारं त्रिवारं हवनं चरेत् कुर्यात् ॥ २६२ ॥


अश्ममण्डलिकासप्तारोहौ कुर्यादमन्त्रकम् ।
निशायां चेत् तदा स्त्रीभिः पश्येद् ध्रुवमरुन्धतीम् ॥ २६३ ॥

प्रत्यावृत्यासने सम्यगुपविश्य वरस्तदा ।
स्विष्टिकृद्धोमतः पूर्णाहुत्यन्तेन समापयेत् ॥ २६४ ॥

ब्राह्मो विवाहो विहितो दोषहीनः सवर्णया ।
कुलधर्मानुसारेण गोत्रभिन्नासपिण्डया ॥ २६५ ॥

ब्राह्मोद्वाहेन या ग्राह्या सैव पत्नी गृहेश्वरी ।
तदनुज्ञां विना ब्राह्मविवाहं नाचरेत् पुनः ॥ २६६ ॥

तस्या अपत्ये तद्वंशे विद्यमाने कुलेश्वरि ।
शैवोद्भवान्यपत्यानि दायार्हाणि भवन्ति न ॥ २६७ ॥

शैवा तदन्वयाश्चैव लभेरन् धनभाजिनः ।
यथाविभवमाच्छादं ग्रासञ्च परमेश्वरि ॥ २६८ ॥

शैवो विवाहो द्विविधः कुलचक्रे विधीयते ।
चक्रस्य नियमेनैको द्वितीयो जीवनावधि ॥ २६९ ॥


अश्ममण्डलिकेत्यादि ।
ततः सभार्यो वरोऽमन्त्रकं मन्त्रवर्जितमेवाश्ममण्डलिकासप्तारोहौ पाषाणारोहणं सप्तमण्डलिकारोहञ्च कुर्यात् ।
चेत् यदि निशायां तदारोहौ कुर्यात्तदा स्त्रीभिः परिवृतः सभार्यो वरो ध्रुवमरुन्धतीञ्च पश्येत् ॥ २६३ ॥

समापयेत् विवाहकर्मेति शेषः ॥ २६४ � २६६ ॥

तस्या इत्यादि ।
तस्या ब्राह्मोद्वाहेन गृहीतायाः पत्न्याः अपत्ये आत्मजे आत्मजायां वा ॥ २६७ ॥

धनभाजिनो जनात् ॥ २६८ ॥ २६९ ॥


चक्रानुष्ठानसमये स्वगणैः शक्तिसाधकैः ।
परस्परेच्छयोद्वाहं कुर्याद्वीरः समाहितः ॥ २७० ॥

भैरवीवीरवृन्देषु स्वाभिप्रायं निवेदयेत् ।
आवयोः शाम्भवोद्वाहे भवद्भिरनुमन्यताम् ॥ २७१ ॥

तेषामनुज्ञामादाय जप्त्वा सप्ताक्षरं मनुम् ।
अष्टोत्तरशतावृत्त्या प्रणमेत् कालिकां पराम् ॥ २७२ ॥

ततो वदेत् तां रमणीं कौलानां सन्निधौ शिवे ।
अकैतवेन चित्तेन पतिभावेन मां वृणु ॥ २७३ ॥

गन्धपुष्पाक्षतैर्वृत्वां सा कौला दयितं ततः ।
सुश्रद्दधाना देवेशि करौ दद्यात् करोपरि ॥ २७४ ॥


अथ शाम्भवोद्वाहविधिमाह चक्रानुष्ठानेत्यादिभिः ।
स्वगणैः शक्तिसाधकैः सह चक्रानुष्ठानसमये परस्परेच्छया परस्परस्य भैरव्या वीरस्य चाकाङ्क्षया समाहितः सावधानः सन् वीर उद्वाहं कुर्यात् ॥ २७० ॥ २७१ ॥

तेषामित्यादि ।
तेषां भैरवीवीरवृन्दानामनुज्ञामनुमतिमादाय गृहीत्वा सप्ताक्षरं परमेश्वरि स्वाहेति मनुमष्टोत्तरशतावृत्त्या जप्त्वा वीरः परमामुत्तमां कालिकां प्रणमेत् ॥ २७२ ॥

तत इत्यादि ।
हे शिवे पार्वति ततो वीरः कौलानां सन्निधौ समीपे हे रमणि त्वमकैतवेन व्याजशून्येन चित्तेन पतिभावेन मां वृण्विति तां रमणीं वदेत् ॥ २७३ ॥

गन्धेत्यादि ।
हे देवेशि ततः सा कौला सुश्रद्दधाना सती गन्धपुष्पाक्षतैर्दयितं प्रियं वृत्वा तस्य करोपरि स्वकीयौ करौ दद्यात् ॥ २७४ ॥


ततोऽभिषिञ्चेत् चक्रेशो मन्त्रेणानेन दम्पती ।
तदा चक्रस्थिताः कौला ब्रूयुः स्वस्तीति सादरम् ॥ २७५ ॥

राजराजेश्वरी काली तारिणी भुवनेश्वरी ।
बगला कमला नित्या युवां रक्षन्तु भैरवी ॥ २७६ ॥

अभिषिञ्चेत् द्वादशधा मधुना वाऽर्घ्यपाथसा ।
ततस्तौ प्रणतौ विद्वान् श्रावयेद्वाग्भवं रमाम् ॥ २७७ ॥

यद्यदङ्गीकृतं तत्र ताभ्यां पाल्यं प्रयत्नतः ।
शाम्भवोक्तविधानेन कुलीनाभ्यां कुलेश्वरि ॥ २७८ ॥

वयोवर्णविचारोऽत्र शैवोद्वाहे न विद्यते ।
असपिण्डां भर्तृहीनामुद्वहेच्छम्भुशासनात् ॥ २७९ ॥

परिणीता शैवधर्मे चक्रनिर्धारणेन या ।
अपत्यार्थी ऋतुं दृष्ट्वा चक्रातीते तु तां त्यजेत् ॥ २८० ॥


तत इत्यादि ।
ततःपरं चक्रेशोऽनेन वक्ष्यमाणेन मन्त्रेण तौ दम्पती जायापती अभिषिञ्चेत् ।
तदा तस्मिन् काले चक्रस्थिताः कौलाः सादरं यथा स्यात्तथा स्वस्तीति ब्रूयुर्वदेयुः ॥ २७५ ॥

ननु केन मन्त्रेण चक्रेशो दम्पती अभिषिञ्चेदित्यपेक्षायामाह राजराजेश्वरीत्यादि ॥ २७६ ॥

अभिषिञ्चेदित्यादि ।
चक्रेशोऽनेनैव मन्त्रेण मधुना मद्येन वाऽर्घ्यपाथसाऽर्घ्यजलेन वा द्वादशधा द्वादशवारं दम्पती अभिषिञ्चेत् ।
ततः प्रणतौ दम्पती प्रति विद्वांश्चक्रेशो वाग्भवम् ऐमिति रमां श्रीमिति च बीजं श्रावयेत् ॥ २७७ ॥

तत्र शाम्भवोद्वाहकर्मणि ।
ताभ्यां जायापतिभ्याम् ॥ २७८ ॥ २७९ ॥

परिणीतेत्यादि ।
चक्रनिर्धारणेन चक्रनियमेन शैवधर्मे या स्त्री परिणीता उदूढा आसीत्तां स्त्रियं चक्रातीते सति अपत्यार्थी वीरः द्वितोयमृतुं दृष्ट्वा त्यजेत् ॥ २८० ॥


शैवभार्योद्भवापत्यमनुलोमेन मातृवत् ।
समाचरेद्विलोमेन तत्तु मामान्यजातिवत् ॥ २८१ ॥

एषां सङ्करजातीनां सर्वत्र पितृकर्मसु ।
भोज्यप्रदानं कौलानां भोजनं विहितं भवेत् ॥ २८२ ॥

नृणां स्वभावजं देवि प्रियं भोजनमैथुनम् ।
सङ्क्षेपाय हितार्थाय शैवधर्मे निरूपितम् ॥ २८३ ॥

अत एव महेशानि शैवधर्मनिषेवणात् ।
धर्मार्थकाममोक्षाणां प्रभुर्भवति नान्यथा ॥ २८४ ॥


इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे कुशण्डिकादशविधसंस्कारविधिर्नाम नवमोल्लासः ।

शैवभार्येत्यादि ।
अनुलोमेन वर्णेन शैवभार्योद्भवापत्यं मातृवत् कर्म समाचरेत् कुर्यात् ।
यथा ब्राह्मणात् क्षत्रियायां शैव्यां भार्यायां जातमपत्यं क्षत्रियावत् कर्म समाचरेदित्येवम् विलोमेन वर्णेन यत् शैवभार्योद्भवापत्यं तत्तु सामान्यजातिवत् पञ्चमवर्णवत् कर्म समाचरेत् ॥ २८१ � २८४ ॥

इति श्रीमहानिर्वाणतन्त्रटीकायां नवमोल्लासः ।