०८

अष्टमोल्लासः

श्रुत्वा धर्मान् बहुविधान् भवानी भवमोचनी ।
हिताय जगतां माता भूयः शङ्करमब्रवीत् ॥ १ ॥

श्रीदेव्युवाच ।

श्रुतं बहुविधं धर्ममिहामूत्र सुखप्रदम् ।
धर्मार्थकामदं विघ्नहरं निर्वाणकारणम् ॥ २ ॥

साम्प्रतं श्रोतुमिच्छामि ब्रूहि वर्णाश्रमान् विभो ।
तत्र ये विहिताचाराः कृपया वद तानपि ॥ ३ ॥

श्रीसदाशिव उवाच ।

चत्वारः कथिता वर्णा आश्रमा अपि सुव्रते ।
आचाराश्चापि वर्णानामाश्रमाणां पृथक् पृथक् ॥ ४ ॥


आ।
नमो ब्रह्मणे ।

श्रुत्वेत्यादि ।
भवमोचनी भक्तसंसारभञ्जनशीला ।
जगतामिति काकाक्षिगोलकन्यायेन पूर्वोत्तराभ्यां पदाभ्यां सम्बध्यते ॥ १ ॥

किमब्रवीदित्यपेक्षायामाह श्रुतमित्यादि ॥ २ ॥

तत्र वर्णाश्रमेषु ॥ ३ ॥

एवं प्रेरितः सन् श्रीसदाशिव उवाच चत्वार इत्यादि ।
हे सुव्रते कृतादौ सत्यत्रेतादौ वर्णा आश्रमा अपि चत्वारः कथिताः ।
वर्णामाश्रमाणाञ्चाचाराश्चापि


कृतादौ कलिकाले तु वर्णाः पञ्च प्रकीर्तिताः ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रः सामान्य एव च ॥ ५ ॥

एतेषां सर्ववर्णानामाश्रमौ द्वौ महेश्वरि ।
तेषामाचारधर्मांश्च शृणुष्वाद्ये वदामि ते ॥ ६ ॥

पुरैव कथितं तावत् कलिसम्भवचेष्टितम् ।
तपःस्वाध्यायहीनानां नृणामल्पायुषामपि ।
क्लेशप्रयासाशक्तानां कुतो देहपरिश्रमः ॥ ७ ॥

ब्रह्मचर्याश्रमो नास्ति वानप्रस्थोऽपि न प्रिये ।
गार्हस्थ्यो भैक्षुकश्चैव आश्रमौ द्वौ कलौ युगे ॥ ८ ॥


पृथक् पृथक् कथिताः ।
कलिकाले तु वर्णाः पञ्चप्रकीर्तिताः ।
तान् दर्शयति ब्राह्मण इत्याद्यर्द्धेन ।
सामान्यो वर्णसङ्करः ॥ ४ ॥ ५ ॥

एतेषामिति ।
हे आद्ये महेश्वरि एतेषां ब्राह्मणादीनां सर्ववर्णानां द्वावाश्रमौ तेषां वर्णाश्रमाणामाचाररूपान् धर्मांश्च ते तवाग्रेऽहं वदामि त्वं शृणुष्वेत्यन्वयः ॥ ६ ॥

कलियुगे वर्तमानौ द्वावाश्रमावभिधास्यन्महादेवः पूर्वमाश्रमद्वयाभावे हेतुं दर्शयति पुरैवेत्यादिना सार्द्धेन ।
कलौ सम्भव उत्पत्तिर्येषां ते कलिसम्भवाः तेषां चेष्टितं पुरैव कथितम् ।
तावदित्यवधारणे ।
किञ्च तप इत्यादि ।
तपःस्वाध्यायहीनानां तपः कृच्छ्रादिकर्म स्वाध्यायो वेदपाठः ताभ्यां रहितानाम् ।
क्लेशप्रयासाशक्तानां क्लेश उपतापः प्रयासः परिश्रमः तयोर्निर्वलत्वादसमर्थानाम् ।
नत्वेतादृशानामेव किन्त्वल्पायुषामपि ।
एवम्भूतानां नृणां देहपरिश्रमः कुतो भवेत् न केनापि प्रकारेण भवेदित्यर्थः ॥ ७ ॥

ब्रह्मचर्येत्यादि ।
हे प्रिये अतः कलौ युगे ब्रह्मचर्याश्रमो नास्ति वानप्रस्थोऽपि नास्ति किन्तु गार्हस्थ्यभैक्षुकरूपौ द्वावेवाश्रमौ कलौ स्तः ॥ ८ ॥


गृहस्थस्य क्रियाः सर्वा आगमोक्ताः कलौ शिवे ।
नान्यमार्गैः क्रियासिद्धिः कदापि गृहमेधिनाम् ॥ ९ ॥

भैक्षुकेऽप्याश्रमे देवि वेदोक्तं दण्डधारणम् ।
कलौ नास्त्येव तत्त्वज्ञे यतस्तत् श्रौतसंस्कृतिः ॥ १० ॥

शैवसंस्कारविधिनाऽवधूताश्रमधारणम् ।
तदेव कथितं भद्रे सन्न्यासग्रहणं कलौ ॥ ११ ॥

विप्राणामितरेषाञ्च वर्णानां प्रबले कलौ ।
उभयत्राश्रमे देवि सर्वेषामधिकारिता ॥ १२ ॥

सर्वेषामेव संस्काराः कर्माणि शैववर्त्मना ।
विप्राणामितरेषाञ्च कर्मलिङ्गं पृथक् पृथक् ॥ १३ ॥


न केवलं कलौ युगे द्वयोराश्रमयोरेवाभावोऽस्ति किन्तु सर्वासां वैदिकक्रियाणामपीत्याह गृहस्थस्येत्यादिना ।
गृहमेधिनाम् गृहसङ्गमवतां गृहस्थानामित्यर्थः ॥ ९ ॥

कलौ युगे गार्हस्थ्याश्रम एव वैदिक्यः सर्वाः क्रिया निषिद्धा न सन्त्यपि तु भैक्षुकाश्रमेऽपीत्याह भैक्षुकेऽपीत्यादि ।
तत् वेदोक्तं दण्डधारणम् ।
श्रौतसंस्कृतिः वैदिकः संस्कारः ॥ १० ॥

यद्येवं तर्हि कलौ किन्नाम सन्न्यासग्रहणं तत्राह शैवेत्यादि ।
हे भद्रे शैवसंस्कारविधिना शिवप्रोक्तेन संस्कारविधानेनावधूताश्रमधारणं यत्तदेव कलौ युगे सन्न्यासग्रहणं कथितम् ॥ ११ ॥

ननु कलौ युगे ब्राह्मणादीनां सर्वेषामपि वर्णानां सन्न्यासाश्रमाधिकारित्वं सत्यादाविव ब्राह्मणक्षत्रियविशामेव वा तत्राह विप्राणामित्यादि ॥ १२ ॥

ननु प्रवले कलौ किं ब्राह्मणादयः सर्वे वर्णा एकाचारा एव भवेयुः पृथक् पृथगाचारा वा तत्राह सर्वेषामेवेत्यादि ।
विप्रादीनां सर्वेषामेव वर्णानां सर्वे


जातमात्रो गृहस्थः स्यात् संस्कारादाश्रमी भवेत् ।
गार्हस्थ्यं प्रथमं कुर्यात् यथाविधि महेश्वरि ॥ १४ ॥

तत्त्वज्ञाने समुत्पन्ने वैराग्यं जायते यदा ।
तदा सर्वं परित्यज्य सन्न्यासाश्रममाचरेत् ॥ १५ ॥

विद्यामुपार्जयेत् बाल्ये धनं दारांश्च यौवने ।
प्रौढे धर्म्याणि कर्माणि चतुर्थे प्रव्रजेत् सुधीः ॥ १६ ॥

मातरं पितरं बृद्धं भार्याञ्चैव पतिव्रताम् ।
शिशुञ्च तनयं हित्वा नावधूताश्रमं व्रजेत् ॥ १७ ॥

मातॄः पितॄन् शिशून् दारान् स्वजनान् बान्धवानपि ।
यः प्रव्रजति हित्वैतान् स महापातकी भवेत् ॥ १८ ॥


संस्काराः अन्यानि च सर्वाणि कर्माणि एकेन शैववर्त्मनैव साधनीयानि ।
शाम्भवैकवर्त्मसाध्यत्वेन सर्वेषामेव वर्णानां सर्वाणि कर्माणि कलौ समानान्येवेत्यर्थः ।
किन्तु विप्राणामितरेषां विप्रभिन्नानाञ्च कर्मलिङ्गं कर्मचिह्नं कलावपि पृथक् पृथगेवास्ति ॥ १३ ॥

ननु गार्हस्थ्याश्रमशालित्वं किं जन्मनैव भवेत् संस्कारेण वा तत्राह जातमात्र इत्यादि ।
ननु गार्हस्थ्यभैक्षुकयोर्मध्ये प्रथमं कमाश्रममाश्रायेत्तत्राह गार्हस्थ्यमित्यादि ॥ १४ ॥

तत्त्वज्ञाने ब्रह्मज्ञाने ॥ १५ ॥

ननु कस्यामवस्थायां गार्हस्थ्याश्रम आश्रयणीयः सन्न्यासश्च कस्यामवस्थायां ग्रहणीयस्तत्राह विद्यामित्यादि ।
वाल्ये शैशवे विद्यामुपार्जयेत् ।
यौवने धनं वित्तं दारान् भार्याञ्चोपार्जयेत् ।
प्रोढे तृतीये वयसि धर्म्याणि धर्मादनपेतानि कर्माणि कुर्यात् ।
सुधीर्विद्वांश्चतुर्थे वयसि प्रव्रजेत् सन्न्यसेत् ॥ १६ ॥ १७ ॥


मातृहा पितृहा स स्यात् स्त्रीवधी ब्रह्मघातकः ।
असन्तर्प्य स्वपित्रादीन् यो गच्छेद्भिक्षुकाश्रमे ॥ १९ ॥

ब्राह्मणो विप्रभिन्नश्च स्वस्ववर्णोक्तसंस्क्रियाम् ।
शैवेन वर्त्मना कुर्यादेष धर्मः कलौ युगे ॥ २० ॥

श्रीदेव्युवाच ।

को वा धर्मो गृहस्थस्य भिक्षुकस्य च किं विभो ।
विप्रस्य विप्रभिन्नानां संस्कारादीनि मे वद ॥ २१ ॥

श्रीसदाशिव उवाच ।

गार्हस्थ्यं प्रथमं धर्मं सर्वेषां मनुजन्मनाम् ।
तदेव कथयाम्यादौ शृणु कौलिनि तत्त्वतः ॥ २२ ॥

ब्रह्मनिष्ठो गृहस्थः स्यात् ब्रह्मज्ञानपरायणः ।
यद्यत् कर्म प्रकुर्वीत तद्ब्रह्मणि समर्पयेत् ॥ २३ ॥


मात्रादीन् परित्यज्य प्रव्रजतो मनुष्यस्य महापातकं भवेदित्याह मातॄरित्यादिद्वाभ्याम् ।
बहुवचनस्य बहूपलक्षकत्वात् पितॄन् पित्रादीनित्यर्थः ।
स्वजनान् स्वेनैव भर्तव्यानात्मीयान् जनान् ।
बान्धवान् असमर्थान् भ्रात्रादीन् ॥ १८ � २० ॥

ब्राह्मणादीन् पञ्चवर्णान् तेषां द्वावाश्रमौ सामान्यं धर्मञ्च श्रुत्वेदानीं तेषामशेषान् विशेषान् धर्मान् श्रोतुमिच्छन्ती श्रीदेव्युवाच को वा इत्यादि ।
किम् धर्मम् ॥ २१ ॥

श्रीदेव्यैवं प्रेरितः सन् श्रीसदाशिव उवाच गार्हस्थ्यमित्यादि ।
हे कौलिनि यतः सर्वेषां मनुजन्मनां मनुष्याणां गार्हस्थ्यं कर्म प्रथमं धर्मं भवत्यतस्तदेव धर्ममादौ कथयामि त्वं तत्त्वतः शृणु इत्यन्वयः ॥ २२ ॥

गार्हस्त्थ्यं धर्ममेवाह ब्रह्मनिष्ठ इत्यादिभिः ।
ब्रह्मणि निष्ठा यस्य स ब्रह्मनिष्ठः ॥ २३ ॥


न मिथ्याभाषणं कुर्यात् न च शाठ्यं समाचरेत् ।
देवतातिथिपूजासु गृहस्थो निरतो भवेत् ॥ २४ ॥

मातरं पितरञ्चैव साक्षात् प्रत्यक्षदेवताम् ।
मत्वा गृही निषेवेत सदा सर्वप्रयत्नतः ॥ २५ ॥

तुष्टायां मातरि शिवे तुष्टे पितरि पार्वति ।
तव प्रीतिर्भवेद्देवि परब्रह्म प्रसीदति ॥ २६ ॥

त्वमाद्ये जगतां माता पिता ब्रह्म परात्परम् ।
युवयोः प्रीणनं यस्मात् तस्मात् किं गृहिणान्तपः ॥ २७ ॥

आसनं शयनं वस्त्रं पानं भोजनमेव च ।
तत्तत्समयमाज्ञाय मात्रे पित्रे नियोजयेत् ॥ २८ ॥

श्रावयेन्मृदुलां वाणीं सर्वदा प्रियमाचरेत् ।
पित्रोराज्ञानुसारी स्यात् सत्पुत्रः कुलपावनः ॥ २९ ॥

औद्धत्यं परिहासञ्च तर्जनं परिभाषणम् ।
पित्रोरग्रे न कुर्वीत यदीच्छेदात्मनो हितम् ॥ ३० ॥

मातरं पितरं वीक्ष्य नत्वोत्तिष्ठेत् ससम्भ्रमः ।
विनाऽज्ञया नोपविशेत् संस्थितः पितृशासने ॥ ३१ ॥


शाठ्यम् अनार्जवम् ॥ २४ � २६ ॥
यस्मात् मातुः पितुश्च तोषणात् ॥ २७ ॥
आसनमित्यादि ।
शय्यतेऽस्मिन्निति शयनम् शय्याम् ।
पीयते यत्तत् पानम् पेयं जलादिकमित्यर्थः ।
भोजनम् भोज्यं वस्तु ।
तत्तत्समयम् आसनादिसमर्पणसमयम् ।
नियोजयेत् समर्पयेत् ॥ २८ ॥ २९ ॥

औद्धत्यम् अविनीतत्वम् ।
तर्जनम् भृत्यादीनां भर्त्सनम् ॥ ३० ॥

ससम्भ्रमः सादरः ॥ ३१ ॥


विद्याधनमदोन्मत्तो यः कुर्यात् पितृहेलनम् ।
स याति नरकं घोरं सर्वधर्मवहिष्कृतः ॥ ३२ ॥

मातरं पितरं पुत्रं दारानतिथिसोदरान् ।
हित्वा गृही न भुञ्जीयात् प्राणैः कण्ठगतैरपि ॥ ३३ ॥

वञ्चयित्वा गुरून् बन्धून् यो भुङ्क्ते स्वोदरम्भरः ।
इहैव लोकगर्ह्योऽसौ परत्र नारकी भवेत् ॥ ३४ ॥

गृहस्थो गोपयेद्दारान् विद्यामभ्यासयेत् सुतान् ।
पोषयेत् स्वजनान् बन्धूनेष धर्मः सनातनः ॥ ३५ ॥

जनन्या वर्द्धितो देहो जनकेन प्रपोषितः ।
स्वजनैः शिक्षितः प्रीत्या सोऽधमस्तान् परित्यजेत् ॥ ३६ ॥

एषामर्थे महेशानि कृत्वा कष्टशतान्यपि ।
प्रीणयेत् सततं शक्त्या धर्मो ह्येष सनातनः ॥ ३७ ॥

स धन्यः पुरुषो लोके स कृती परमार्थवित् ।
ब्रह्मनिष्ठः सत्यसन्धो यो भवेद्भुवि मानवः ॥ ३८ ॥

न भार्यां ताडयेत् क्वापि मातृवत् पालयेत् सदा ।
न त्यजेत् घोरकष्टेऽपि यदि साध्वी पतिव्रता ॥ ३९ ॥


पितृहेलनम् मातापित्रोस्तिरस्कारम् ॥ ३२ ॥ ३३ ॥

गुरून् पित्रादीन् ।
लोकगर्ह्यः जननिन्द्यः ॥ ३४ ॥ ३५ ॥

स्वजनैः बन्धुभिः ॥ ३६ ॥

एषां जनन्यादीनाम् ।
प्रीणयेत् जनन्यादीन् तोषयेत् ॥ ३७ ॥

धन्यः सुकृती ।
कृती विचक्षणः ।
सत्यसन्धः सत्यप्रतिज्ञः ॥ ३८ ॥ ३९ ॥


स्थितेषु स्वीयदारेषु स्त्रियमन्यां न संस्पृशेत् ।
दुष्टेन चेतसा विद्वानन्यथा नारकी भवेत् ॥ ४० ॥

विरले शयनं वासं त्यजेत् प्राज्ञः परस्त्रिया ।
अयुक्तभाषणञ्चैव स्त्रियं शौर्यन्न दर्शयेत् ॥ ४१ ॥

धनेन वाससा प्रेम्णा श्रद्धया मृदुभाषणैः ।
सततं तोषयेद्दारान् नाप्रियं क्वचिदाचरेत् ॥ ४२ ॥

उत्सवे लोकयात्रायां तीर्थेष्वन्यनिकेतने ।
न पत्नीं प्रेषयेत् प्राज्ञः पुन्नामात्यविवर्जिताम् ॥ ४३ ॥

यस्मिन्नरे महेशानि तुष्टा भार्या पतिव्रता ।
सर्वो धर्मः कृतस्तेन भवतीप्रिय एव सः ॥ ४४ ॥

चतुर्वर्षावधि सुतान् लालयेत् पालयेत् पिता ।
ततः षोडशपर्यन्तं गुणान् विद्याञ्च शिक्षयेत् ॥ ४५ ॥

विंशत्यब्दाधिकान् पुत्रान् प्रेरयेद् गृहकर्मसु ।
ततस्तांस्तुल्यभावेन मत्वा स्नेहं प्रदर्शयेत् ॥ ४६ ॥

कन्याऽप्येवं पालनीया शिक्षणीयाऽतियत्नतः ।
देया वराय विदुषे धनरत्नसमन्विता ॥ ४७ ॥


दुष्टेन चेतसा विकृतेन मनसा ॥ ४० ॥

विरले निर्जनस्थाने ॥ ४१ ॥ ४२ ॥

अन्यनिकेतने परगृहे ॥ ४३ ॥ ४४ ॥

ततः चतुर्भ्यो वर्षेभ्य ऊर्द्ध्वम् ॥ ४५ ॥

प्रेरयेत् प्रवर्तयेत् ।
तान् विंशत्यब्दाधिकान् पुत्रान् ॥ ४६ ॥

एवम् पुत्रवत् ॥ ४७ ॥


एवं क्रमेण भ्रातॄंश्च स्वसृभ्रातृसुतानपि ।
ज्ञातीन् मित्राणि भृत्यांश्च पालयेत्तोषयेद् गृही ॥ ४८ ॥

ततः स्वधर्मनिरतानेकग्रामनिवासिनः ।
अभ्यागतानुदासीनान् गृहस्थः परिपालयेत् ॥ ४९ ॥

यद्येवं नाचरेद्देवि गृहस्थो विभवे सति ।
पशुरेव स विज्ञेयः स पापी लोकगर्हितः ॥ ५० ॥

निद्रालस्यं देहयत्नं केशविन्यासमेव च ।
आसक्तिमशने वस्त्रे नातिरिक्तं ससाचरेत् ॥ ५१ ॥

युक्ताहारो युक्तनिद्रो मितवाङ्मितमैथुनः ।
स्वच्छो नम्रः शुचिर्दक्षो युक्तः स्यात् सर्वकर्मसु ॥ ५२ ॥

शूरः शत्रौ विनीतः स्यात् बान्धवे गुरुसन्निधौ ।
जुगुप्सितान् न मन्येत नावमन्येत मानिनः ॥ ५३ ॥

सौहार्दं व्यवहारांश्च प्रवृत्तिं प्रकृतिं नृणाम् ।
सहवासेन तर्कैश्च विदित्वा विश्वसेत्ततः ॥ ५४ ॥


ततः भ्रात्रादीनां पालनात्तोषणाच्चोर्द्ध्वम् ।
उदासीनान् मित्रामित्रभिन्नान् ॥ ४८ ॥ ४९ ॥

धने सत्येवमकुर्वतो गृहस्थस्य पातकाश्रयत्वं लोकगर्हितत्वञ्च स्यादित्याह यदीत्यादिना ॥ ५० ॥

आसक्तिम् आसङ्गम् ।
अतिरिक्तम् अधिकम् ॥ ५१ ॥

युक्ताहारः परिमितभोजनः ।
स्वच्छः कपटादिशून्यः ।
शुचिः वाह्याभ्यन्तरशौचसम्पन्नः ।
दक्षः निरालस्यः ।
युक्तः उद्योगवान् ॥ ५२ ॥

शूरः विक्रान्तः ।
नावमन्येत न अनाद्रियेत ॥ ५३ ॥

तर्कैः पर्यालोचनैः ॥ ५४ ॥


त्रसेद्द्वेष्टुरपि क्षुद्रात् समयं वीक्ष्य बुद्धिमान् ।
प्रदर्शयेदात्मभावान्नैव धर्मं विलङ्घयेत् ॥ ५५ ॥

स्वीयं यशः पौरुषञ्च गुप्तये कथितञ्च यत् ।
कृतं यदुपकाराय धर्मज्ञो न प्रकाशयेत् ॥ ५६ ॥

जुगुप्सितप्रवृत्तौ च निश्चितेऽपि पराजये ।
गुरुणा लघुना चापि यशस्वी न विवादयेत् ॥ ५७ ॥

विद्याधनयशोधर्मान् यतमान उपार्जयेत् ।
व्यसनञ्चासतां सङ्गं मिथ्याद्रोहं परित्यजेत् ॥ ५८ ॥

अवस्थानुगताश्चेष्टाः समयानुगताः क्रियाः ।
तस्मादवस्थां समयं वीक्ष्य कर्म समाचरेत् ॥ ५९ ॥

योगक्षेमरतो दक्षो धार्मिकः प्रियबान्धवः ।
मितवाङ्मितहासः स्यान्मान्याग्रे तु विशेषतः ॥ ६० ॥

जितेन्द्रियः प्रसन्नात्मा सुचिन्त्यः स्याद्दृढव्रतः ।
अप्रमत्तो दीर्घदर्शी मात्रास्पर्शान् विचारयेत् ॥ ६१ ॥


त्रसेत् विभीयात् ।
द्वेष्टुः शत्रोः ।
क्षुद्रात् लघोः ।
आत्मभावान् स्वप्रभावान् आत्मनः कोशदण्डजानि तेजांसि ।
स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजमित्यमरः ॥ ५५ � ५७ ॥

यतमानः यत्नं कुर्वाणः ॥ ५८ ॥ ५९ ॥

योगक्षेमरतः योगोऽप्राप्तस्वीकारः प्राप्तस्य परिपालनं क्षेमः तयोरनुरक्तः ॥ ६० ॥

जितेन्द्रिय इत्यादि ।
सुचिन्त्यः सुष्टु चिन्त्यं स्मरणीयं शास्त्रादि यस्य सः ।
मात्रास्पर्शान् मीयन्ते विषया एताभिरिति मात्रा इन्द्रियवृत्तयः तासां स्पर्शान् विषयेषु सम्बन्धान् ॥ ६१ � ६५ ॥


सत्यं मृदु प्रियं धीरो वाक्यं हितकरं वदेत् ।
आत्मौत्कर्ष्यं तथा निन्दां परेषां परिवर्जयेत् ॥ ६२ ॥

जलाशयाश्च वृक्षाश्च विश्रामगृहमध्वनि ।
सेतुः प्रतिष्ठितो येन तेन लोकत्रयं जितम् ॥ ६३ ॥

सन्तुष्टौ पितरौ यस्मिन्ननुरक्ताः सुहृद्गणाः ।
गायन्ति यद्यशो लोकास्तेन लोकत्रयं जितम् ॥ ६४ ॥

सत्यमेव व्रतं यस्य दया दीनेषु सर्वथा ।
कामक्रोधौ वशे यस्य तेन लोकत्रयं जितम् ॥ ६५ ॥

विरक्तः परदारेषु निष्पृहः परवस्तुषु ।
दम्भमात्सर्यहीनो यस्तेन लोकत्रयं जितम् ॥ ६६ ॥

न बिभेति रणाद्यो वै सङ्ग्रामेऽप्यपराङ्मुखः ।
धर्मयुद्धे मृतो वाऽपि तेन लोकत्रयं जितम् ॥ ६७ ॥

असंशयात्मा सुश्रद्धः शाम्भवाचारतत्परः ।
मच्छासने हितो यश्च तेन लोकत्रयं जितम् ॥ ६८ ॥

ज्ञानिना लोकयात्रायै सर्वत्र समदृष्टिना ।
क्रियन्ते येन कर्माणि तेन लोकत्रयं जितम् ॥ ६९ ॥

शौचन्तु द्विविधं देवि बाह्याभ्यन्तरभेदतः ।
ब्रह्मण्यात्मार्पणं यत्तत् शौचमान्तरिकं स्मृतम् ॥ ७० ॥


निस्पृहः निराकाङ्क्षः ॥ ६६ � ६८ ॥

सर्वत्र शत्रुमित्रादौ ॥ ६९ ॥ ७० ॥


अद्भिर्वा भस्मना वाऽपि मलानामपकर्षणम् ।
देहशुद्धिर्भवेद्येन बहिःशौचं तदुच्यते ॥ ७१ ॥

गङ्गा नद्यो ह्रदा वाप्यस्तथा कूपाश्च क्षुल्लकाः ।
सर्वं पवित्रजननं स्वर्णदी क्रमतः प्रिये ॥ ७२ ॥

भस्माऽत्र याज्ञिकं श्रेष्ठं मृत्स्ना तु मलवर्जिता ।
वासोऽजिनतृणादीनि मृद्वज्जानीहि सुव्रते ॥ ७३ ॥

किमत्र बहुनोक्तेन शौचाशौचविधौ शिवे ।
मनःपूतं भवेद्येन गृहस्थस्तत्तदाचरेत् ॥ ७४ ॥

निद्रान्ते मैथुनस्यान्ते त्यागान्ते मलमूत्रयोः ।
भोजनान्ते मले स्पृष्टे बहिःशौचं विधीयते ॥ ७५ ॥

सन्ध्या त्रैकालिकी कार्या वैदिकी तान्त्रिकी क्रमात् ।
उपासनाया भेदेन पूजां कुर्याद् यथाविधि ॥ ७६ ॥

ब्रह्ममन्त्रोपासकानां गायत्रीजपनात् प्रिये ।
ज्ञानात् ब्रह्मेति तद्वाच्यं सन्ध्या भवति वैदिकी ॥ ७७ ॥


अद्भिरिति ।
अद्भिर्जलैर्वा भस्मना वा येन देहशुद्धिर्भवेत्तेन मृत्तिकावस्त्रचर्मतृणादिरूपवस्तुना वापि मलानामपकर्षणं दूरीकरणं यत्तत् वहिःशौचमुच्यते इत्यन्वयः ॥ ७१ ॥

क्षुल्लकाः स्वल्पजलाशयाः ।
स्वल्पेऽपि क्षुल्लकस्त्रिष्वित्यमरः ।
सर्वम् गङ्गाजलादि ॥ ७२ ॥

भस्मेत्यादि ।
अत्र बहिःशौचविधौ ।
हे सुव्रते वासोऽजिनतृणादीन्यपि मृद्वन्मृत्तिकावन्मलवर्जितान्येव श्रेष्ठानि जानीहि ॥ ७३ � ७६ ॥

उपासनाभेददर्शनपूर्वकं सन्ध्याभेदं दर्शयति द्वाभ्याम् ब्रह्मेत्यादि ।
ब्रह्ममन्त्रोपासकानां गायत्र्या जपनात् तद्वाच्यं गायत्रीप्रतिपाद्यं ब्रह्म भवतीति ज्ञानाच्च वैदिकी सन्ध्या भवति ॥ ७७ ॥


अन्येषां वैदिकी सन्ध्या सूर्योपस्थानपूर्वकम् ।
अर्घ्यदानं दिनेशाय गायत्रीजपनं तथा ॥ ७८ ॥

अष्टोत्तरं सहस्रं वा शतं वा दशधाऽपि वा ।
जपानां नियमो भद्रे सर्वत्राह्निककर्मणि ॥ ७९ ॥

शूद्रसामान्यजातीनामधिकारोऽस्ति केवलम् ।
आगमोक्तविधौ देवि सर्वसिद्धिस्ततो भवेत् ॥ ८० ॥

प्रातः सूर्योदयः कालो मध्याह्नस्तदनन्तरम् ।
सायं सूर्यास्तसमयस्त्रिकालानामयं क्रमः ॥ ८१ ॥

श्रीदेव्युवाच ।

विप्रादिसर्ववर्णानां विहिता तान्त्रिकी क्रिया ।
त्वयैव कथिता नाथ सम्प्राप्ते प्रबले कलौ ॥ ८२ ॥


अन्येषामिति ।
अन्येषां ब्रह्ममन्त्रोपासकभिन्नानान्तु सूर्योपस्थानपूर्वकं दिनेशाय सूर्यायार्घ्यदानं तथा गायत्रीजपनं वैदिकी सन्ध्या भवति ॥ ७८ ॥

अथाऽह्निककर्मणि मन्त्रजपानां नियममाह अष्टोत्तरमित्यादिना ।
शतमपि अष्टोत्तरमेव ।
सर्वत्र वैदिके तान्त्रिके च ॥ ७९ ॥

ततः आगमोक्तविधितः ॥ ८० ॥

अथ सन्ध्याविध्यपेक्षितत्रिकालक्रममाह प्रातरित्यादिना ।
सूर्यस्योदयो यत्र स सूर्योदयः कालः ॥ ८१ ॥

पूर्वं श्रीसदाशिवेन सर्वेषां ब्राह्मणादिवर्णानां प्रबले कलौ युगे तान्त्रिक एव कर्मण्यधिकारोऽस्तीत्युक्तम् ।
सम्प्रति तु ब्राह्मणक्षत्रियवैश्यानां वैदिक्यामपि सन्ध्यायामधिकारोऽस्तीत्युच्यते एतदयुक्तं मन्वाना श्रीदेव्युवाच विप्रादीत्यादि ॥ ८२ ॥


तदिदानीं कथं देव विप्रान् वैदिककर्मणि ।
नियोजयसि तत्सर्वं विशेषाद्वक्तुमर्हसि ॥ ८३ ॥

श्रीसदाशिव उवाच ।

सत्यं ब्रवीषि तत्त्वज्ञे सर्वेषां तान्त्रिकी क्रिया ।
लोकानां भोगमोक्षाय सर्वकर्मसु सिद्धिदा ॥ ८४ ॥

इयन्तु ब्रह्मसावित्री यथा भवति वैदिकी ।
तथैव तान्त्रिकी ज्ञेया प्रशस्तोभयकर्मणि ॥ ८५ ॥

अतोऽत्र कथितं देवि द्विजानां प्रवले कलौ ।
गायत्र्यामधिकारोऽस्ति नान्यमन्त्रेषु कर्हिचित् ॥ ८६ ॥

ताराद्या कमलाद्या च वाग्भवाद्या यथाक्रमात् ।
ब्राह्मणक्षत्रियविशां सावित्री कथिता कलौ ॥ ८७ ॥

द्विजादीनां प्रभेदार्थं शूद्रेभ्यः परमेश्वरि ।
सन्ध्येयं वैदिकी प्रोक्ता प्रागेवाह्निककर्मणाम् ॥ ८८ ॥

अन्यथा शाम्भवैर्मार्गैः केवलैः सिद्धिभाग्भवेत् ।
सत्यं सत्यं पुनः सत्यं सत्यमेतन्न संशयः ॥ ८९ ॥


नियोजयसि प्रवर्तयसि ॥ ८३ ॥

अत्रोत्तरं श्रीसदाशिव उवाच सत्यमित्यादिभिः ॥ ८४-८६ ॥

ताराद्येत्यादि ।
कलौ युगे यथाक्रमात् क्रमेणैव ब्राह्मणक्षत्रियविशान्ताराद्या प्रणवाद्या कमलाद्या श्री।
बीजाद्या वाग्भवाद्या ऐ।
बीजाद्या सावित्री गायत्री कथिता ॥ ८७ ॥

द्विजादीनामिति ।
हे परमेश्वरि द्विजादीनां ब्राह्मणादीनां शूद्रेभ्यः प्रभेदार्थन्तान्त्रिकाणामाह्निककर्मणां प्रागेवेयं वैदिकी सन्ध्या करणीया प्रोक्ता ॥ ८८ ॥ ८९ ॥


कालात्ययेऽपि सन्ध्येयं कर्तव्या देववन्दिते ।
ओ।
तत्सत् ब्रह्म चोच्चार्य मोक्षेच्छुभिरनातुरैः ॥ ९० ॥

आसनं वसनं पात्रं शय्या यानं निकेतनम् ।
गृह्यकं वस्तुजातञ्ज स्वच्छात् स्वच्छं प्रशस्यते ॥ ९१ ॥

समाप्याह्निककर्माणि स्वाध्यायं गृहकर्म वा ।
गृहस्थो नियतं कुर्यान्नैव तिष्ठेन्निरुद्यमः ॥ ९२ ॥

पुण्यतीर्थे पुण्यतिथौ ग्रहणे चन्द्रसूर्ययोः ।
जपं दानं प्रकुर्वाणः श्रेयसां निलयो भवेत् ॥ ९३ ॥

कलावन्नगतप्राणा नोपवासः प्रशस्यते ।
उपवासप्रतिनिधावेकं दानं विधीयते ॥ ९४ ॥

कलौ दानं महेशानि सर्वसिद्धिकरं भवेत् ।
तत्पात्रं केवलं ज्ञेयो दरिद्रः सत्क्रियान्वितः ॥ ९५ ॥

मासवत्सरपक्षाणामारम्भदिनमम्बिके ।
चतुर्दश्यष्टमी शुक्ला तथैवैकादशी कुहूः ॥ ९६ ॥

निजजन्मदिनञ्चैव पित्रोर्मरणवासरः ।
वैधोत्सवदिनञ्चैव पुण्यकालः प्रकीर्तितः ॥ ९७ ॥


कालेत्यादि ।
हे देववन्दिते कालात्ययेऽपि सन्ध्याविधानकालव्यत्ययेऽपि अनातुरैर्जरादिनिमित्तकेनाऽपटुत्वेन शून्यैर्मोक्षेच्छुभिर्मोक्षाकाङ्क्षिभिर्जनैः ओ।
तत्सद्ब्रह्मेति ससुच्चार्येयं वैदिकी तान्त्रिकी च सन्ध्या कर्तव्या ॥ ९० ॥

गृह्यकं वस्तुजातम् गृहसम्बन्धि सर्वं वस्तु ॥ ९१ ॥

स्वाध्यायम् वेदाध्यायनम् ॥ ९२ � ९५ ॥


गङ्गानदी महानद्यो गुरोः सदनमेव च ।
प्रसिद्धं देवताक्षेत्रं पुण्यतीर्थं प्रकीर्तितम् ॥ ९८ ॥

त्यक्त्वा स्वाध्यायनं पित्रोः शुश्रूषान्दाररक्षणम् ।
नरकाय भवेत्तीर्थं तीर्थाय व्रजतां नृणाम् ॥ ९९ ॥

न तीर्थसेवा नारीणां नोपवासादिकाः क्रियाः ।
नैव व्रतानां नियमो भर्तुः शुश्रूषणं विना ॥ १०० ॥

भर्तैव योषितां तीर्थं तपो दानं व्रतं गुरुः ।
तस्मात् सर्वात्मना नारी पतिसेवां समाचरेत् ॥ १०१ ॥

पत्युः प्रियं सदा कुर्यात् वचसा परिचर्यया ।
तदाज्ञानुचरी भूत्वा तोषयेत् पतिबान्धवान् ॥ १०२ ॥

नेक्षेत् पतिं क्रूरदृष्ट्या श्रावयेन्नैव दुर्वचः ।
नाप्रियं मनसा वापि चरेद्भर्तुः पतिव्रता ॥ १०३ ॥

कायेन मनसा वाचा सर्वदा प्रियकर्मभिः ।
या प्रीणयति भर्तारं सैव ब्रह्मपदं लभेत् ॥ १०४ ॥

नान्यवक्त्रं निरीक्षेत नान्यैः सम्भाषणञ्चरेत् ।
न चाङ्गं दर्शयेदन्यान् भर्तुराज्ञानुसारिणी ॥ १०५ ॥


अथ जपदानविधावपेक्षितं पुण्यकालं पुण्यतीर्थञ्च क्रमत आह मासेत्यादिभिः ।
कुहूः नष्टचन्द्रकलाऽमावास्या ॥ ९६ � ९९ ॥

अथ स्त्रीधर्मानाह न तीर्थेत्यादिभिः सप्तभिः ॥ १०० ॥

सर्वात्मना सर्वप्रयत्नेन ॥ १०१ ॥

परिचर्यया सेवया ॥ १०२ � १०५ ॥


तिष्ठेत् पित्रोर्वशे बाल्ये भर्तुः सम्प्राप्तयौवने ।
वार्द्धक्ये पतिबन्धूनां न स्वतन्त्रा भवेत् क्वचित् ॥ १०६ ॥

अज्ञातपतिमर्यादामज्ञातपतिसेवनाम् ।
नोद्वाहयेत् पिता बालामज्ञातधर्मशासनाम् ॥ १०७ ॥

नरमांसं न भुञ्जीयात् नराकृतिपशूंस्तथा ।
बहूपकारकान् गाश्च मांसादान् रसवर्जितान् ॥ १०८ ॥

फलानि ग्राम्यवन्यानि मूलानि विविधानि च ।
भूमिजातानि सर्वाणि भोज्यानि स्वेच्छया शिवे ॥ १०९ ॥

अध्यापनं याजनञ्च विप्राणां व्रतमुत्तमम् ।
अशक्तौ क्षत्रियविशां वृत्तैर्निर्वाहमाचरेत् ॥ ११० ॥

राजन्यानाञ्च सद्वृत्तं सङ्ग्रामो भूमिशासनम् ।
अत्राशक्तौ वणिग्वृत्तं शूद्रवृत्तमथाश्रयेत् ॥ १११ ॥

वाणिज्याशक्तवैश्यानां शूद्रवृत्तमदूषणम् ।
शूद्राणां परमेशानि सेवावृत्तिं विधीयते ॥ ११२ ॥


स्वतन्त्रा स्वाधीना ॥ १०६ ॥ १०७ ॥

बहूपकारकानिति गोविशेषणेन तद्भोजननिषेधे हेतुर्दर्शितः ।
मांसादान् मांसभक्षकान् गृध्रादीन् ।
रसवर्जितान् आस्वादशून्यान् ॥ १०८ ॥ १०९ ॥

अथ ब्राह्मणवृत्तमाह अध्यापनमित्यादि ॥ ११० ॥

अथ क्षत्रियवृत्तमाह राजन्यानामित्याद्येकेन ।
अत्र सङ्ग्रामभूमिशासनरूपे सद्वृत्ते ॥ १११ ॥

अथ वैश्यानां शूद्राणाञ्च वृत्तमाह वाणिज्येत्यादिनैकेन ।
वैश्यानामपि वाणिज्यमुत्तमं वृत्तम् ॥ ११२ ॥


सामान्यानां तु वर्णानां विप्रवृत्त्यन्यवृत्तिषु ।
अधिकारोऽस्ति देवेशि देहयात्राप्रसिद्धये ॥ ११३ ॥

अद्वेष्टा निर्ममः शान्तः सत्यवादी जितेन्द्रियः ।
निर्मत्सरो निष्कपटः स्ववृत्तौ ब्राह्मणो भवेत् ॥ ११४ ॥

अध्यापयेत् पुत्रबुद्ध्या शिष्यान् सन्मार्गवर्तिनः ।
सर्वलोकहितैषी स्यात् पक्षपातविनिर्मुखः ॥ ११५ ॥

मिथ्यालापमसूयाञ्च व्यसनाप्रियभाषणम् ।
नीचैः प्रसक्तिं दम्भञ्च सर्वथा ब्राह्मणस्त्यजेत् ॥ ११६ ॥

युयुत्सा गर्हिता सन्धौ सम्मानैः सन्धिरुत्तमा ।
मृत्युर्जयो वा युद्धेषु राजन्यानां वरानने ॥ ११७ ॥

अलोभी स्यात् प्रजावित्ते गृह्णीयात् सम्मितं करम् ।
रक्षन्नङ्गीकृतं धर्मं पुत्रवत् पालयेत् प्रजाः ॥ ११८ ॥

न्यायं युद्धं तथा सन्धिं कर्माण्यन्यानि यानि च ।
मन्त्रिभिः सह कुर्वीत विचार्य सर्वथा नृपः ॥ ११९ ॥


अथ वर्णसङ्कराणां वृत्तमाह सामान्यानामित्यादिनैकेन ॥ ११३ ॥

अथ ब्राह्मणधर्मानाह अद्वेष्टेत्यादिभिः ।
निर्ममः देहादिविषयकममताशून्यः ।
शान्तः संयतचित्तः ॥ ११४ ॥ ११५ ॥

मिथ्येत्यादि ।
असूयाम् गुणेषु सत्स्वपि परस्मिन् दोषारोपणम् ।
व्यसनम् द्यूतादिकर्म ।
दम्भम् स्वनिष्ठबहुमान्यत्वनिमित्तकचित्तसमुन्नतिम् ॥ ११६ ॥

अथ राजन्यधर्मानाह युयुत्सेत्यादिभिः ।
हे वरानने अति प्रशंसनीयवदने राजन्यानां क्षत्रियाणां सन्धौ सम्मेलने सति युयुत्सा युद्धेच्छा गर्हिता निन्दिता


धर्मयुद्धेन योद्धव्यं न्यायदण्डपुरस्क्रियाः ।
करणीया यथाशास्त्रं सन्धिं कुर्याद् यथाबलम् ॥ १२० ॥

उपायैः साधयेत् कार्यं युद्धं सन्धिञ्च शत्रुभिः ।
उपायानुगताः सर्वा जयक्षेमविभूतयः ॥ १२१ ॥

स्यान्नीचसङ्गाद्विरतः सदा विद्वज्जनप्रियः ।
धीरो विपत्तौ दक्षश्च शीलवान् सम्मितव्ययी ॥ १२२ ॥

निपुणो दुर्गसंस्कारे शस्त्रशिक्षाविचक्षणः ।
स्वसैन्यभावान्वेषी स्यात् शिक्षयेद्रणकौशलम् ॥ १२३ ॥

न हन्यान्मूर्च्छितान् युद्धे त्यक्तशस्त्रान् पराङ्मुखान् ।
वलानीतान् रिपून् देवि रिपुदारशिशूनपि ॥ १२४ ॥

जयलब्धानि वस्तूति सन्धिप्राप्तानि यानि च ।
वितरेत्तानि सैन्येभ्यो यथायोग्यविभागतः ॥ १२५ ॥

शौर्यं वृत्तञ्च योद्धॄणां ज्ञेयं राज्ञा पृथक् पृथक् ।
बहुसैन्याधिपं नैकं कुर्यादात्महिते रतः ॥ १२६ ॥


भवेत् ।
सन्धिस्तु तेषां सम्मानैरेवोत्तमो भवेत् ।
तेषां युद्धेषु तु मृत्युरेव वा जय एव वा उत्तमो भवेत् नतु पलायनादिकमित्यर्थः ॥ ११७ � ११९ ॥

पुरस्क्रिया सत्कारः ।
यथाबलम् बलमनतिक्रम्य बलपूर्वकमित्यर्थः ॥ १२० ॥ १२१ ॥

विरतः विरक्तः ।
धीरो धैर्यवान् ।
दक्षोऽनलसः ॥ १२२ ॥

निपुण इत्यादि ।
दुर्गसंस्कारे दुःखेन गच्छति विपक्षो यत्र तद्दुर्गम् पर्वतपरिखाप्राकारादिभिः दुर्गमं नगरम् तस्य संस्कारे ॥ १२३ ॥ १२४ ॥


नैकस्मिन् विश्वसेद्राजा नैकं न्याये नियोजयेत् ।
साम्यं क्रीडोपहासञ्च नीचैः सह विवर्जयेत् ॥ १२७ ॥

बहुश्रुतः स्वल्पभाषी जिज्ञासुर्ज्ञानवानपि ।
बहुमानोऽपि निर्दम्भो धीरो दण्डप्रसादयोः ॥ १२८ ॥

स्वयं वा चरदृष्ट्या वा प्रजाभावान् विलोकयेत् ।
एवं स्वजनभृत्यानां भावान् पश्येन्नराधिपः ॥ १२९ ॥

क्रोधाद्दम्भात् प्रमादाद्वा सम्मानं शासनं तथा ।
सहसा नैव कर्तव्यं स्वामिना तत्त्वदर्शिना ॥ १३० ॥

सैन्यसेनाधिपामात्यवनितापत्यसेवकाः ।
पालनीयाः सदोषाश्चेत् दण्ड्या राज्ञा यथाविधि ॥ १३१ ॥

उन्मत्तानसमर्थांश्च बालांश्च मृतबान्धवान् ।
ज्वराभिभूतान् वृद्धांश्च रक्षयेत् पितृवन्नृपः ॥ १३२ ॥

वैश्यानां कृषिवाणिज्यं वृत्तं विद्धि सनातनम् ।
येनोपायेन लोकानां देहयात्रा प्रसिद्धति ॥ १३३ ॥


वितरेत् दद्यात् ॥ १२५ � १२७ ॥

बहुश्रुत इत्यादि ।
बहुमानोऽपि भूरिसम्मानोऽपि राजा निर्दम्भो भूरिसम्माननिमित्तकचित्तसमुन्नतिशून्यो भवेत् ॥ १२८ ॥

स्वयंवेत्यादि ।
चरदृष्ट्या अन्यतत्त्वानुसन्धानप्रवीणो गूढपुरुषश्चरः तद्रूपया दृष्ट्या ।
प्रजाभावान् प्रजानामभिप्रायान् चेष्टा वा ॥ १२९ ॥

दम्भात् राज्यादिनिमित्तकाच्चित्तौत्सुक्यात् ॥ १३० ॥ १३१ ॥

मृतबान्धवान् मृता बान्धवा येषां तथाभूतान् ॥ १३२ ॥

अथ वैश्याचारान् वक्तुमुपक्रमते वैश्यानामित्यादिभिः ।
येन कृषिवाणिज्यकर्मरूपेणोपायेन ।
देहयात्रा शरीरनिर्वाहः ॥ १३३ ॥


अतः सर्वात्मना देवि वाणिज्यकृषिकर्मसु ।
प्रमादव्यसनालस्यं मिय्याशाठ्यं विवर्जयेत् ॥ १३४ ॥

निश्चित्य वस्तु तन्मूल्यमुभयोः सम्मतौ शिवे ।
परस्पराङ्गीकरणं क्रयसिद्धिस्ततो भवेत् ॥ १३५ ॥

मत्तविक्षिप्तबालानामरिग्रस्तनृणां प्रिये ।
रोगविभ्रान्तबुद्धीनामसिद्धौ दानविक्रयौ ॥ १३६ ॥

क्रयसिद्धिरदृष्टानां गुणश्रवणतो भवेत् ।
विपर्यये तद्गुणानामन्यथा भवति क्रयः ॥ १३७ ॥

कुञ्जरोष्ट्रतुरङ्गाणां गुप्तदोषप्रकाशनात् ।
वर्षातीतेऽपि तत्क्रेयमन्यथा कर्तुमर्हति ॥ १३८ ॥

धर्मार्थकाममोक्षाणां भाजनं मानवं वपुः ।
अतः कुलेशि तत्क्रेयो न सिद्धेन्मम शासनात् ॥ १३९ ॥

यवगोधूमधान्यानां लाभो वर्षे गते प्रिये ।
युक्तश्चतुर्थो धातूनामष्टमः परिकीर्तितः ॥ १४० ॥

ऋणे कृषौ च वाणिज्ये तथा सर्वेषु कर्मसु ।
यद्यदङ्गीकृतं मर्त्यैस्तत्कार्यं शास्त्रसम्मतम् ॥ १४१ ॥


सर्वात्मना सर्वप्रकारेण ॥ १३४ ॥
निश्चित्येत्यादि ।
निश्चित्य निर्णीय ।
तन्मूल्यम् निश्चितवस्तुमूल्यमपि निश्चित्य ।
उभयोः विक्रेतृक्रयकारकयोः ॥ १३५ ॥ १३६ ॥

अदृष्टानाम् वस्तूनाम् ।
विपर्यये वैपरीत्ये ॥ १३७ ॥ १३८ ॥

तत्क्रेयः मानववपुःक्रेयः ॥ १३९ ॥

उत्तमर्णेन मूलधनादधिकं ग्राह्यं लाभः ॥ १४० ॥ १४१ ॥


दक्षः शुचिः सत्यभाषी जितनिद्रो जितेन्द्रियः ।
अप्रमत्तो निरालस्यः सेवावृत्तौ भवेन्नरः ॥ १४२ ॥

प्रभुर्विष्णुसमो मान्यस्तज्जाया जननीसमा ।
मान्यास्तद्बान्धवा भृत्यैरिहामुत्र सुखेप्सुभिः ॥ १४३ ॥

भर्त्रुर्मित्राणि मित्राणि जानीयात्तदरीनरीन् ।
सभीतिः सर्वदा तिष्ठेत् प्रभोराज्ञां प्रतीक्षयन् ॥ १४४ ॥

अपमानं गृहच्छिद्रं गुप्त्यर्थं कथितञ्च यत् ।
भर्तुर्ग्लानिकरं यच्च गोपयेदतियत्नतः ॥ १४५ ॥

अलोभः स्यात् स्वामिधने सदा स्वामिहिते रतः ।
तत्सन्निधावसद्भाषं क्रीडां हास्यं परित्यजेत् ॥ १४६ ॥

न पापमनसा पश्येदपि तद्गृहकिङ्करीः ।
विविक्तशय्यां हास्यञ्च ताभिः सह विवर्जयेत् ॥ १४७ ॥

प्रभोः शय्यासनं यानं वसनं भाजनानि च ।
उपानद्भूषणं शस्त्रं नात्मार्थं विनियोजयेत् ॥ १४८ ॥

क्षमां कृतापराधश्चेत् प्रार्थयेद्यत्नतः प्रभोः ।
प्रागल्भ्यं प्रौढवादञ्च साम्याचारं विवर्जयेत् ॥ १४९ ॥


अथ सेवकधर्मानाह दक्ष इत्यादिभिः ।
दक्षः आत्मकार्येषु चतुरः ।
शुचिः स्वच्छः ।
अप्रमत्तः निजकार्येषु सावधानः ॥ १४२ � १४६ ॥

न पापेत्यादि ।
पापमनसा तस्य स्वामिनो गृहकिङ्करीरपि न पश्येत् का वार्ता तत्पत्नीपुत्र्यादीनाम् ।
विविक्तशय्याम् रहःशयनम् ।
ताभिः स्वामिगृहकिङ्करीभिः ॥ १४७ ॥ १४८ ॥

प्रागल्भ्यम् धार्ष्ट्यम् ॥ १४९ ॥


सर्वे वर्णाः स्वस्ववर्णैर्ब्राह्मोद्वाहं तथाऽशनम् ।
कुर्वीरन् भैरवीचक्रात्तत्त्वचक्रादृते शिवे ॥ १५० ॥

उभयत्र महेशानि शैवोद्वाहः प्रकीर्तितः ।
तथाऽदाने च पाने च वर्णभेदो न विद्यते ॥ १५१ ॥

श्रीदेव्युवाच ।

किमिदं भैरवीचक्रं तत्त्वचक्रञ्च कीदृशम् ।
तत्सर्वं श्रोतुमिच्छामि कृपया वक्तुमर्हसि ॥ १५२ ॥

श्रीसदाशिव उवाच ।

कुलपूजाविधौ देवि चक्रानुष्ठानमीरितम् ।
विशेषपूजासमये तत्कार्यं साधकोत्तमैः ॥ १५३ ॥

भैरवीचक्रविषये न तादृङ्नियमः प्रिये ।
यथासमयमासाद्य कुर्याच्चक्रमिदं शुभम् ॥ १५४ ॥

विधानमस्य वक्ष्यामि साधकानां शुभावहम् ।
आराधिता येन देवी तूर्णं यच्छति वाञ्छितम् ॥ १५५ ॥


अशनम् भोजनम् ।
ऋते विना ॥ १५० ॥

उभयत्र भैरवीचक्रे तत्त्वचक्रे च ॥ १५१ ॥

अथ भैरवीचक्रतत्त्वचक्रयोर्विधानं श्रोतुमिच्छन्ती श्रीदेव्युवाच किमिदमित्यादि ॥ १५२ ॥

एवं प्रार्थितः सन् श्रीसदाशिव उवाच कुलपूजेत्यादि ।
तत्कुलपूजाविधावुक्तं चक्रानुष्ठानम् ॥ १५३ ॥ १५४ ॥

अस्य भैरवीचक्रस्य ।
येन भैरवीचक्रविधानेन ।
यच्छति ददाति ॥ १५५ ॥


कुलाचार्यो रम्यभूमावास्तीर्याऽसनमुत्तमम् ।
कामाद्येनास्त्रबीजेन संशोध्योपविशेत्ततः ॥ १५६ ॥

सिन्दूरेण कुसीदेन केवलेन जलेन वा ।
त्रिकोणञ्चतुरस्रञ्च मण्डलं रचयेत् सुधीः ॥ १५७ ॥

विचित्रघटमानीय दध्यक्षतविमृक्षितम् ।
फलपल्लवसंयुक्तं सिन्दूरतिलकान्वितम् ॥ १५८ ॥

सुवासितजलैः पूर्णं मण्डले तत्र साधकः ।
प्रणवेन तु संस्थाप्य धूपदीपौ प्रदर्शयेत् ॥ १५९ ॥

सम्पूज्य गन्धपुष्पाभ्यां चिन्तयेदिष्टदेवताम् ।
सङ्क्षेपपूजाविधिना तत्र पूजां समाचरेत् ॥ १६० ॥

विशेषमत्र वक्ष्यामि शृणुष्वाऽमरवन्दिते ।
गुर्वादिनवपात्राणां नात्र स्थापनमिष्यते ॥ १६१ ॥


भैरवीचक्रानुष्ठानमेवाह कुलाचार्य इत्यादिभिः ।
कुलाचार्यः कुलगुरुः ।
रम्यभूमौ रमणीयायां भुव्युत्तममासनमास्तीर्याऽच्छाद्य कामाद्येन क्ली।
बीजाद्येनाऽस्त्रबीजेन फटा संशोध्य च ततस्तत्राऽसने उपविशेत् ॥ १५६ ॥

सिन्दूरेणेति ।
ततः सुधीः कोविदः सिन्दूरेण कुसीदेन रक्तचन्दनेन केवलेन जलेन वा त्रिकोणं मण्डलं तद्वहिश्चतुरस्रञ्चतुष्कोणञ्च मण्डलं रचयेत् ॥ १५७ ॥

विचित्रेत्यादि ।
ततःपरं विचित्रं विविधानि चित्राण्यालेख्यानि यत्रैवम्भूतं घटमानीय दध्यक्षतविमृक्षितं दध्नाऽक्षतैश्च सम्पृक्तं फलैः पल्लवैश्च संयुक्तं सिन्दूरतिलकैरन्वितं संयुतं कर्पूरादिभिः सुवासितैर्जलैः पूर्णञ्च कृत्वा प्रणवेन ओ।
कारेण तत्र मण्डले संस्थाप्य च साधको धूपदीपौ तं प्रदर्शयेत् ॥ १५८ ॥ १५९ ॥

सम्पूज्येति ।
ततो गन्धपुष्पाभ्यां घटं सम्पूज्य तत्रेष्टदेवतां चिन्तयेत् ।
सञ्चिन्त्य च पूर्वोक्तेन सङ्क्षेपपूजाविधिना तत्र कलशे इष्टदेवतायाः पूजां समाचरेत् कुर्यात् ॥ १६० ॥ १६१ ॥


यथेष्टं तत्त्वमादाय संस्थाप्य पुरतो व्रती ।
प्रोक्षयेदस्त्रमन्त्रेण दिव्यदृष्ट्याऽवलोकयेत् ॥ १६२ ॥

अलियन्त्रे गन्धपुष्पं दत्त्वा तत्र विचिन्तयेत् ।
आनन्दभैरवीं देवीम् आनन्दभैरवं तथा ॥ १६३ ॥

नवयौवनसम्पन्नां तरुणारुणविग्रहाम् ।
चारुहासामृताभाषोल्लसद्वदनपङ्कजाम् ॥ १६४ ॥

नृत्यगीतकृतामोदां नानाभरणभूषिताम् ।
विचित्रवसनां ध्यायेत् वराभयकराम्बुजाम् ॥ १६५ ॥

इत्यानन्दमयीं ध्यात्वा स्मरेदानन्दभैरवम् ॥ १६६ ॥


यथेष्टमिति ।
ततो व्रती साधको यथेष्टं तत्त्वं मद्यादिकमादाय पूरतोऽग्रे संस्थाप्य चाऽस्त्रमन्त्रेण फटा प्रोक्षयेत् जलेन सिञ्चेत् दिव्यदृष्ट्याऽवलोकयेच्च ॥ १६२ ॥

अलियन्त्रे इति ।
ततोऽलियन्त्रे मद्यपात्रे गन्धपुष्पं दत्त्वा तत्राऽलियन्त्रे एवाऽनन्दभैरवीं देवीन्तथाऽनन्दभैरवं देवं विचिन्तयेत् ॥ १६३ ॥

आनन्दभैरव्या ध्यानमेवाह नवयौवनसम्पन्नामिति ।
नवयौवनसम्पन्नां नवीनतारुण्यं सम्प्राप्ताम् ।
तरुणारुणविग्रहाम् नवीनसूर्यसदृशदेहाम् ।
चारुहासामृताभाषोल्लसद्वदनपङ्कजाम् चारुहासेन मनोहरहसनेनामृतभाषया सुधातुल्यभाषणेन चोल्लसद्देदीप्यमानं वदनपङ्कजं मुखकमलं यस्यास्तथाभूताम् ।
नृत्यगीतकृतामोदाम् नृत्यगीताभ्यां कृत आमोद आनन्दो यया ताम् ।
नानाभरणभूषिताम् अनेकविधभूषणालङ्कृताम् ।
विचित्रवसनाम् विचित्रमद्भुतं वसनं वस्त्रं यस्यास्ताम् ।
वराभयकराम्बुजाम् वरोऽभयञ्च कराम्बुजयोर्यस्यास्ताम् ।
एवम्भूतामानन्दभैरवीं ध्यायेत् ।
इत्येवमानन्दभैरवीं ध्यात्वा आनन्दभैरवं स्मरेत् ॥ १६४ � १६६ ॥


कर्पूरपूरधवलं कमलायताक्षम् दिव्याम्बराभरणभूषितदेहकान्तिम् ।
वामेन पाणिकमलेन सुधाढ्यपात्रम् दक्षेण शुद्धिगुटिकां दधतं स्मरामि ॥ १६७ ॥

ध्यात्वैवमुभयोस्तत्र सामरस्यं विचिन्तयन् ।
प्रणवादिनमोऽन्तेन नाममन्त्रेण देशिकः ।
सम्पूज्य गन्धपुष्पाभ्यां शोधयेत् कारणं ततः ॥ १६८ ॥

पाशादित्रिकबीजेन स्वाहान्तेन कुलार्चकः ।
अष्टोत्तरशतावृत्त्या जपन् हेतुं विशोधयेत् ॥ १६९ ॥

गृहकाम्यैकचित्तानां गृहिणां प्रबले कलौ ।
आद्यतत्त्वप्रतिनिधौ विधेयं मधुरत्रयम् ॥ १७० ॥


आनन्दभैरवध्यानमेवाहैकेन कर्पूरपूरधवलमिति ।
कर्पूरपूरधवलं कर्पूरप्रवाहवच्छुभ्रम् ।
कमलायताक्षम् कमलवदायते विस्तृते अक्षिणी यस्य तम् ।
दिव्याम्बराभरणभूषितदेहकान्तिम् दिव्यैरम्बराभरणैर्वस्त्रविभूषणैर्भूषितोऽलङ्कृतो यो देहस्तत्र कान्तिरधिका दीप्तिर्यस्य तथाभूतम् ।
वामेन पाणिकमलेन सुधाढ्यपात्रं मद्यसमन्वितं पात्रं दक्षेण पाणिकमलेन शुद्धिगुटिकाञ्च दधतमानन्दभैरवं स्मरामि चिन्तयामि ॥ १६७ ॥

ध्यात्वेति ।
एवमुभौ ध्यात्वा तत्राऽलियन्त्रे उभयोर्भैरवीभैरवयोः सामरस्यमैकरस्यं विचिन्तयन् देशिकः साधकः प्रणवादिनमोऽन्तेन नाममन्त्रेण गन्धपुष्पाभ्यां तौ सम्पूज्य ततः कारणं मद्यं शोधयेत् ॥ १६८ ॥

ननु केन मन्त्रेण मद्यं शोधयेत् तत्राह पाशादीत्यादि ।
स्वाहान्तेन स्वाहाऽन्तो यस्यैवम्भूतेन पाशादित्रिकबीजेन आ।
ह्री।
क्रोमिति बीजत्रयेण अष्टोत्तरशतावृत्त्या इममेव मन्त्रं जपन् कुलार्चको हेतुं मद्यं विशोधयेत् ॥ १६९ ॥ १७० ॥


दुग्धं सिता माक्षिकञ्च विज्ञेयं मधुरत्रयम् ।
अलिरूपमिदं मत्त्वा देवतायै निवेदयेत् ॥ १७१ ॥

स्वभावात् कलिजन्मानः कामविभ्रान्तचेतसः ।
तद्रूपेण न जानन्ति शक्तिं सामान्यबुद्धयः ॥ १७२ ॥

अतस्तेषां प्रतिनिधौ शेषतत्त्वस्य पार्वति ।
ध्यानं देव्याः पदाम्भोजे स्वेष्टमन्त्रजपस्तथा ॥ १७३ ॥

ततस्तु प्राप्ततत्त्वानि पललादीनि यानि च ।
प्रत्येकं शतधाऽनेन मनुना चाभिमन्त्रयेत् ॥ १७४ ॥

सर्वं ब्रह्ममयं ध्यात्वा निमील्य नयनद्वयम् ।
निवेद्य पूर्ववत् काल्यै पानभोजनमाचरेत् ॥ १७५ ॥


मधुरत्रयमेवाह दुग्धमित्यादि ।
अलिरूपं मद्यस्वरूपम् ।
इदं मधुरयत्रम् ॥ १७१ ॥

शक्तिं स्त्रियम् ॥ १७२ ॥

अत इत्यादि ।
हे पार्वति अतो हेतोः तेषां कलिजन्मनां शेषतत्त्वस्य मैथुनस्य प्रतिनिधौ देव्याः पदाम्भोजे ध्यानं विधेयम् तथा स्वेष्टमन्त्रस्य जपो विधेयः ॥ १७३ ॥

ततस्त्विति ।
ततः परं पललादीनि मांसादीनि यानि प्राप्ततत्वानि तानि प्रत्येकं शतधा जप्यमानेनानेन आ।
ह्री।
क्रो।
स्वाहेति मनुनाऽभिमन्त्रयेत् शोधयेदित्यर्थः ॥ १७४ ॥

सर्वमिति ।
ततो नयनद्वयं निमील्य सर्वं मद्यादितत्त्वं ब्रह्ममयं ब्रह्मस्वरूपं ध्यात्वा पूर्ववत् काल्यै निवेद्य च पूर्ववदेव पानभोजनमाचरेत् ॥ १७५ ॥


इदन्तु भैरवीचक्रं सर्वतन्त्रेषु गोपितम् ।
तवाग्रे कथितं भद्रे सारात्सारं परात्परम् ॥ १७६ ॥

विवाहो भैरवीचक्रे तत्त्वचक्रेऽपि पार्वति ।
सर्वथा साधकेन्द्रेण कर्तव्यः शैववर्त्मना ॥ १७७ ॥

विना परिणयं वीरः शक्तिसेवां समाचरन् ।
परस्त्रीगामिनां पापं प्राप्नुयान्नात्र संशयः ॥ १७८ ॥

सम्प्राप्ते भैरवीचक्रे सर्वे वर्णाः द्विजोत्तमाः ।
निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् ॥ १७९ ॥

नात्र जातिविचारोऽस्ति नोच्छिष्टादिविवेचनम् ।
चक्रमध्यगता वीरा मम रूपा नराख्यया ॥ १८० ॥

न देशकालनियमो न वा पात्रविचारणम् ।
येन केनाऽहृतं द्रव्यं चक्रेऽस्मिन् विनियोजयेत् ॥ १८१ ॥

दूरदेशात् समानीतं पक्वं वाऽपक्वमेव वा ।
वीरेण पशुना वापि चक्रमध्यगतं शुचि ॥ १८२ ॥

चक्रारम्भे महेशानि विघ्नाः सर्वे भयाकुलाः ।
बिभीतास्ते पलायन्ते वीराणां ब्रह्मतेजसा ॥ १८३ ॥


अथ भैरवीचक्रस्य माहात्म्यं वर्णयितुमुपक्रमते इदन्त्वित्यादि ॥ १७६ ॥ १७७ ॥

परिणयम् विवाहम् ॥ १७८ ॥ १७९ ॥

अत्र भैरवीचक्रे ॥ १८० ॥

द्रव्यं मद्यादि ॥ १८१ � १८३ ॥


पिशाचा गुह्यका यक्षा वेतालाः क्रूरजातयः ।
श्रुत्वात्र भैरवीचक्रं दूरं गच्छन्ति साध्वसम् ॥ १८४ ॥

तत्र तीर्थानि सर्वाणि महातीर्थादिकानि च ।
सेन्द्रामरगणाः सर्वे तत्रागच्छन्ति सादरम् ॥ १८५ ॥

चक्रस्थानं महातीर्थं सर्वतीर्थाधिकं शिवे ।
त्रिदशा यत्र वाञ्छन्ति तव नैवेद्यमुत्तमम् ॥ १८६ ॥

म्लेच्छेन श्वपचेनापि किरातेनापि हूणुना ।
आमं पक्वं यदानीतं वीरहस्तार्पितं शुचि ॥ १८७ ॥

दृष्ट्वा तु भैरवीचक्रं मम रूपांश्च साधकान् ।
मुच्यन्ते पशुपाशेभ्यः कलिकल्मषदूषिताः ॥ १८८ ॥

प्रबले कलिकाले तु न कुर्याच्चक्रगोपनम् ।
सर्वत्र सर्वदा वीरः साधयेत् कुलसाधनम् ॥ १८९ ॥

चक्रमध्ये वृथालापं चाञ्चल्यं बहुभाषणम् ।
निष्ठीवनमधोवायुं वर्णभेदं विवर्जयेत् ॥ १९० ॥

क्रूरान् खलान् पशून् पापान् नास्तिकान् कुलदूषकान् ।
निन्दकान् कुलशास्त्राणां चक्राद्दूरतरं त्यजेत् ॥ १९१ ॥

स्नेहाद्भयादानुरक्त्या पशुंश्चक्रे प्रवेशयन् ।
कुलधर्मात् परिभ्रष्टो वीरोऽपि नरकं व्रजेत् ॥ १९२ ॥


साध्वसं सभयम् ॥ १८४ ॥
तत्र चक्रस्थाने ॥ १८५ ॥ १८६ ॥
हूणुना जातिविशेषेण ।
आमम् अपक्वम् ॥ १८७ � १९१ ॥


ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः सामान्यजातयः ।
कुलधर्माश्रिता ये वै पूज्यास्ते देववत् सदा ॥ १९३ ॥

वर्णाभिमानाच्चक्रे तु वर्णभेदं करोति यः ।
स याति घोरनिरयमपि वेदान्तपारगः ॥ १९४ ॥

चक्रान्तर्गतकौलानां साधूनां शुद्धचेतसाम् ।
साक्षाच्छिवस्वरूपाणां पापशङ्का भवेत् कुतः ॥ १९५ ॥

यावद्वसन्ति चक्रेषु विप्राद्याः शैवमार्गिणः ।
तावत्तु शाम्भवाचारांश्चरेयुः शिवशासनात् ॥ १९६ ॥

चक्राद्विनिःसृताः सर्वे स्वस्ववर्णाश्रमोदितम् ।
लोकयात्राप्रसिद्ध्यर्थं कुर्युः कर्म पृथक् पृथक् ॥ १९७ ॥

पुरश्चर्याशतेनापि शवमुण्डचितासनात् ।
चक्रमध्ये सकृत् जप्त्वा तत् फलं लभते सुधीः ॥ १९८ ॥

भैरवीचक्रमाहात्म्यं को वा वक्तुं क्षमो भवेत् ।
सकृदेतत् प्रकुर्वाणः सर्वैः पापैः प्रमुच्यते ॥ १९९ ॥

षण्मासं भूमिपालः स्यात् वर्षं मृत्युञ्जयः स्वयम् ।
नित्यं समाचरन् मर्त्यो ब्रह्मनिर्वाणमाप्नुयात् ॥ २०० ॥


भयादानुरक्त्या भयहेतुकेनानुरागेण ॥ १९२ � १९५ ॥

चरेयुः कुर्युः ॥ १९६ ॥ १९७ ॥

पुरश्चर्येत्यादि ।
शवमुण्डचितासनात् शवासनात् मुण्डासनात् चितासनाच्च यत् फलं लभते ॥ १९८ ॥ १९९ ॥


बहुना किमिहोक्तेन सत्यं जानीहि कालिके ।
इहामुत्र सुखावाप्त्यै कुलमार्गो हि नापरः ॥ २०१ ॥

कलेः प्राबल्यसमये सर्वधर्मविवर्जिते ।
गोपनात् कुलधर्मस्य कौलोऽपि नारकी भवेत् ॥ २०२ ॥

कथितं भैरवीचक्रं भोगमोक्षैकसाधनम् ।
तत्त्वचक्रं कुलेशानि साम्प्रतं वच्मि तत् शृणु ॥ २०३ ॥

तत्त्वचक्रं चक्रराजं दिव्यचक्रं तदुच्यते ।
नात्राधिकारः सर्वेषां ब्रह्मज्ञान् साधकान् विना ॥ २०४ ॥

परब्रह्मोपासका ये ब्रह्मज्ञा ब्रह्मतत्पराः ।
शुद्धान्तःकरणाः शान्ताः सर्वप्राणिहिते रताः ॥ २०५ ॥

निर्विकारा निर्विकल्पा दयाशीला दृढव्रताः ।
सत्यसङ्कल्पका ब्राह्मास्त एवात्राऽधिकारिणः ॥ २०६ ॥

ब्रह्मभावेन तत्त्वज्ञे ये पश्यन्ति चराचरम् ।
तेषां तत्त्वविदां पुंसां तत्त्वचक्रेऽधिकारिता ॥ २०७ ॥

सर्वं ब्रह्ममयं भावश्चक्रेऽस्मिंस्तत्त्वसञ्ज्ञके ।
येषामुत्पद्यते देवि त एव तत्त्वचक्रिणः ॥ २०८ ॥


षण्मासमिति ।
भैरवीचक्रं षण्मासं समाचरन् मर्त्यो भूमिपालः स्यादित्येवमन्वयः ॥ २०० � २०३ ॥

अत्र चक्रराजे तत्त्वचक्रे ॥ २०४ ॥

शान्ताः रागद्वेषादिशून्याः ॥ २०५ ॥

तत्र तत्त्वचक्रे ॥ २०६ ॥ २०७ ॥

भावो भावना विचिन्तनेत्यर्थः ॥ २०८ ॥


न घटस्थापनाऽत्रास्ति न बाहुल्येन पूजनम् ।
सर्वत्र ब्रह्मभावेन साधयेत् तत्त्वसाधनम् ॥ २०९ ॥

ब्रह्ममन्त्री ब्रह्मनिष्ठो भवेच्चक्रेश्वरः प्रिये ।
ब्रह्मज्ञैः साधकैः सार्द्धं तत्त्वचक्रं समारभेत् ॥ २१० ॥

रम्ये सुनिर्मले देशे साधकानां सुखावहे ।
विचित्रासनमानीय कल्पयेद्विमलासनम् ॥ २११ ॥

तत्रोपविश्य चक्रेशः सहितो ब्रह्मसाधकैः ।
आसादयेत्तु तत्त्वानि स्थापयेदग्रतः शिवे ॥ २१२ ॥

तारादिप्राणबीजान्तं शतावृत्त्या जपन् मनुम् ।
सर्वतत्त्वेषु चक्रेश इमं मन्त्रमुदीरयेत् ॥ २१३ ॥

ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २१४ ॥


तत्त्वसाधनम् तत्त्वचक्रसाधनम् ॥ २०९ ॥ २१० ॥

अथ तत्त्वचक्रस्य विधानमाह रम्ये इत्यादिभिः ॥ २११ ॥

तत्र कल्पिते विमलासने आसादयेत् आनयेत् तत्त्वानि मद्यादीनि ॥ २१२ ॥

तारादीत्यादि ।
ततो मद्यादिषु सर्वतत्त्वेषु तारादिप्राणबीजान्तं तारः प्रणव आदिर्यस्य स तारादिः प्राणबीजं हंस इति बीजमन्तो यस्य सः प्राणबीजान्तः तारादिश्चासौ प्राणबीजान्तश्च तारादिप्राणबीजान्तस्तं मनुम् ओ।
हंस इति मन्त्रं शतावृत्त्या जपन् चक्रेश इमं वक्ष्यमाणं मन्त्रमुदीरयेत् ॥ २१३ ॥

मन्त्रमेवाह ब्रह्मार्पणमिति ॥ २१४ ॥


सप्तधा वा त्रिधा जप्त्वा तानि सर्वाणि शोधयेत् ॥ २१५ ॥

ततो ब्राह्मेण मनुना समर्प्य परमात्मने ।
ब्रह्मज्ञैः साधकैः सार्द्धं विदध्यात् पानभोजनम् ॥ २१६ ॥

ब्रह्मचक्रे महेशानि वर्णभेदं विवर्जयेत् ।
न देशकालनियमो न पात्रनियमस्तथा ॥ २१७ ॥

ये कुर्वन्ति नरा मूढा दिव्यचक्रे प्रमादतः ।
कुलभेदं वर्णभेदं ते गच्छन्त्यधमां गतिम् ॥ २१८ ॥

अतः सर्वप्रयत्नेन ब्रह्मज्ञैः साधकोत्तमैः ।
तत्त्वचक्रमनुष्ठेयं धर्मकामार्थमुक्तये ॥ २१९ ॥

श्रीदेव्युवाच ।

गृहस्थानामशेषेण धर्मानकथयत् प्रभो ।
सन्न्यासविहितात् धर्मान् कृपया वक्तुमर्हसि ॥ २२० ॥

श्रीसदाशिव उवाच ।

अवधूताश्रमो देवि कलौ सन्न्यास उच्यते ।
विधिना येन कर्तव्यस्तत् सर्वं शृणु साम्प्रतम् ॥ २२१ ॥


सप्तधेति ।
इमं मन्त्रं सप्तधा त्रिधा वा जप्त्वा सर्वाणि तानि मद्यादीनि शोधयेत् ॥ २१५ ॥

ब्राह्मेण मनुना ओ।
सच्चिदेकं ब्रह्मेति मन्त्रेण ॥ २१६ ॥

ब्रह्मचक्रे तत्त्वचक्रे ॥ २१७ � २१९ ॥

एवमशेषान् गृहस्थधर्मान् श्रुत्वा अधूना सन्न्यासिधर्मान् श्रोतुमिच्छन्ती श्रीदेव्युवाच गृहस्थानामित्यादि ॥ २२० ॥

एवं प्रेरितः सन् श्रीसदाशिव उवाच अवधूतेत्यादि ।
तत् विधानम् साम्प्रतमिदानीम् ॥ २२१ ॥


ब्रह्मज्ञाने समुत्पन्ने विरते सर्वकर्मणि ।
अध्यात्मविद्यानिपुणः सन्न्यासाश्रममाश्रयेत् ॥ २२२ ॥

विहाय वृद्धौ पितरौ शिशुं भार्यां पतिव्रताम् ।
त्यक्त्वाऽसमर्थान् बन्धूंश्च प्रव्रजन्नारकी भवेत् ॥ २२३ ॥

ब्राह्मणः क्षत्रियो वैश्यः शूद्रः सामान्य एव च ।
कुलावधूतसंस्कारे पञ्चानामधिकारिता ॥ २२४ ॥

सम्पाद्य गृहकर्माणि परितोष्याऽपरानपि ।
निर्ममो निलयाद्गच्छेन्निष्कामो विजितेन्द्रियः ॥ २२५ ॥

आहूय स्वजनान् बन्धून् ग्रामस्थान् प्रतिवासिनः ।
प्रीत्याऽनुमतिमन्विच्छेत् गृहाज्जिगमिषुर्जनः ॥ २२६ ॥

तेषामनुज्ञामादाय प्रणम्य परदेवताम् ।
ग्रामं प्रदक्षिणीकृत्य निरपेक्षो गृहादियात् ॥ २२७ ॥

मुक्तः संसारपाशेभ्यः परमानन्दनिर्वृतः ।
कुलावधूतं ब्रह्मज्ञं गत्वा सम्प्रार्थयेदिदम् ॥ २२८ ॥


सन्न्यासग्रहणविधानमेवाह ब्रह्मज्ञाने इत्यादिभिः ।
अध्यात्मविद्यानिपुणः आत्मविद्याभिज्ञः ॥ २२२ � २२४ ॥

सम्पाद्य साधयित्वा ।
अपरान् पित्रादिभिन्नान् ।
निर्ममः गृहादिविषयममताशून्यः निलयात् गृहात् ॥ २२५ ॥

अनुमतिमन्विच्छेत् अनुज्ञामादद्यात् ॥ २२६ ॥

निरपेक्षः निष्पृहः ।
इयात् गच्छेत् ॥ २२७ ॥

परमानन्दनिर्वृत्तः परमानन्दे निमग्नः ॥ २२८ ॥


गृहाश्रमे परब्रह्मन् ममैतद्विगतं वयः ।
प्रसादं कुरु मे नाथ सन्न्यासग्रहणं प्रति ॥ २२९ ॥

निवृत्तगृहकर्माणं विचार्य विधिवद्गुरुः ।
शान्तं विवेकिनं वीक्ष्य द्वितीयाश्रममादिशेत् ॥ २३० ॥

ततः शिष्यः कृतस्नानो यतात्मा विहिताह्निकः ।
ऋणत्रयविमुक्त्यर्थं देवर्षीनर्चयेत् पितॄन् ॥ २३१ ॥

देवा ब्रह्मा च विष्णुश्च रुद्रश्च स्वगणैः सह ।
ऋषयः सनकाद्याश्च देवब्रह्मर्षयस्तथा ॥ २३२ ॥

अत्र ये पितरः पूज्या वक्ष्यामि शृणु तानपि ॥ २३३ ॥

पिता पितामहश्चैव प्रपितामह एव च ।
माता पितामही देवि तथैव प्रपितामही ।
मातामहादयोऽप्येवं मातामह्यादयोऽपि च ॥ २३४ ॥


यत् प्रार्थयेत् तदाह गृहाश्रमे इत्यादिना ॥ २२९ ॥

शान्तम् उपरतचित्तम् ॥ २३० ॥

तत इति ।
ततः परं यतात्मा संयतमनाः शिष्यः कृतस्नानो विहिताह्निकश्च भूत्वा ऋणत्रयविमुक्त्यर्थं देवर्षीन् देवान् ऋषीन् पितॄश्चार्चयेत् पूजयेत् ॥ २३१ ॥

ऋणविमुक्त्यर्थं ये देवा ऋषयश्च पूज्यास्तानाह देवा इत्यादिना ।
ब्रह्मा च विष्णुश्च स्वगणैः सह रुद्रश्चैते देवाः सन्न्यासकर्मणि पूज्याः ।
सनक आद्यो येषां ते सनकाद्याः सनकसनन्दनसनातनाद्याः सनकसजातीया ऋषयः तथा देवर्षयो नारदादयो ब्रह्मर्षयो भृग्वादयश्च पूज्याः ॥ २३२ ॥

अत्र सन्न्यासकर्मणि ॥ २३३ ॥

ऋणविमुक्त्यर्थं पूज्यान् पितॄनेवाह पितेत्यादिना सार्द्धेन ।
एवं पित्रादिवन्मातामहादयोऽपि पूज्याः एवमन्वयः ।
आदिना प्रमातामहवृद्धप्रमातामहयोः प्रमातामहीवृद्धप्रमातामह्योश्च ग्रहणम् ॥ २३४ ॥


प्राच्यामृषीन् यजेद्देवान् दक्षिणस्यां पितॄन् यजेत् ।
मातामहान् प्रतीच्याञ्च पूजयेन्न्यासकर्मणि ॥ २३५ ॥

पूर्वादिक्रमतो दद्यादासनानां द्वयं द्वयम् ।
देवादीन् क्रमतस्तत्राऽवाह्य पूजां समाचरेत् ॥ २३६ ॥

समर्च्य विधिवत्तेभ्यः पिण्डान् दद्यात् पृथक् पृथक् ।
पिण्डप्रदानविधिना दत्त्वा पिण्डं यथाक्रमम् ।
कृताञ्जलिपुटो भूत्वा प्रार्थयेत् पितृदेवताः ॥ २३७ ॥

तृप्यध्वं पितरो देवा देपर्षिमातृका गणाः ।
गुणातीतपदे यूयमनृणीकुरुताऽचिरात् ॥ २३८ ॥

इत्यानृण्यमर्थयित्वा प्रणम्य च पुनः पुनः ।
ऋणत्रयविनिर्मुक्त आत्मश्राद्धं प्रकल्पयेत् ॥ २३९ ॥


ननु कस्यां कस्यां दिशि देवानृषीन् पितॄंश्च पूजयेदित्यपेक्षायामाह प्राच्यामित्यादि ।
सन्न्यासकर्मणि देवानृषींश्च प्राच्यां पूर्वस्यां दिशि यजेत् ।
दक्षिणस्यां दिशि पितॄन् पित्रादीन् यजेत् ।
प्रतीच्यां पश्चिमायां दिशि मातामहान्मातामहप्रभृतीन् यजेत् पूजयेत् ॥ २३५ ॥

अथ सङ्क्षेपतो देवादीनां पूजाया विधानमाह पूर्वादिक्रमत इत्यादिभिः ।
पूर्वादिक्रमतः पूर्वादिक्रमेण तिसृषु दिक्ष्वासनानां द्वयं द्वयं दद्यात् ।
तत्रासनानां द्वये द्वये क्रमतो देवादीनावाह्य तेषां पूजां समाचरेत् कुर्यात् ॥ २३६ ॥

समर्च्येत्यादि ।
देवर्षिपितॄन् विधिवत् समर्च्य तेभ्यो देवर्षिपितृभ्यः पृथक् पृथक् पिण्डान् विधिवद्दद्यात् ।
वक्ष्यमाणेन पिण्डप्रदानविधिना देवादिभ्यो यथाक्रमं पिण्डं दत्वा कृताञ्जलिपुटो भूत्वा पितृदेवताः प्रार्थयेत् ॥ २३७ ॥

किं प्रार्थयेत्तत्राह तृप्यध्वमित्यादि ।
हे पितरो देवा देवर्षयो मातृगणाश्च यूयं तृप्यध्वं गुणातीतपदे अतिक्रान्तगुणे पदे व्रजन्तं मामचिरादतिशीघ्रमेव यूयमनृणी कूरुत ॥ २३८ ॥ २३९ ॥


पिता ह्यात्मैव सर्वेषां तत्पिता प्रपितामहः ।
आत्मन्यात्मार्पणार्थाय कुर्यादात्मक्रियां सुधीः ॥ २४० ॥

उत्तराभिमुखो भूत्वा पूर्ववत् कल्पितासने ।
आवाह्याऽत्मपितॄन् देवि दद्यात् पिण्डं समर्चयन् ॥ २४१ ॥

प्रागग्रान् दक्षिणाग्रांश्च पश्चिमाग्रान् यथाक्रमात् ।
पिण्डार्थमास्तरेद्दर्भानुदगग्रान् स्वकर्मणि ॥ २४२ ॥

समाप्य श्राद्धकर्माणि गुरुदर्शितवर्त्मना ।
युयुक्षुश्चित्तशुद्ध्यर्थमिमं मन्त्रं शतं जपेत् ॥ २४३ ॥

ह्री।
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
ऊर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय माऽमृतात् ॥ २४४ ॥

उपासनानुसारेण वेद्यां मण्डलपूर्वकम् ।
संस्थाप्य कलशं तत्र गुरुः पूजां समारभेत् ॥ २४५ ॥


आत्मश्राद्धकरणे हेतुं दर्शयन्नाह पिता हीत्यादि ।
हि यतः सर्वेषामात्मैव पिता तत्पिता पितामहः प्रपितामहश्च स्यात् अतः आत्मनि परमात्मनि आत्मनोऽर्पणार्थाय सुधीर्विद्वान् आत्मक्रियां कुर्यात् ॥ २४० ॥

सङ्क्षेपतः आत्मनश्च श्राद्धस्य विधानमाह उत्तराभिमुख इत्यादिना ।
आत्मपितॄन् आत्मस्वरूपान् पित्रादीन् ॥ २४१ ॥

प्रागग्रानिति ।
पिण्डार्थं देवर्षिपित्रुद्देश्यकपिण्डदानार्थं यथाक्रमात् क्रमेणैव प्राक् प्राच्यां दिश्यग्राणि येषां तान् प्रागग्रान् दक्षिणाग्रान् पश्चिमाग्रांश्च दर्भान् कुशानास्तरेदाच्छादयेत् ।
स्वकर्मणि आत्मश्राद्धक्रियायां तु उदक् उदीच्यामग्राणि येषां तथाभूतान् दर्भानास्तरेत् ॥ २४२ ॥ २४३ ॥

तमेव मन्त्रमाह ह्री।
त्र्यम्बकमित्यादिकम् ॥ २४४ ॥

उपासनेत्यादि ।
ततः उपासनाया अनुसारेण रचितायां वेद्यां मण्डलपूर्वकं कलशं संस्थाप्य तत्र कलशे शिष्यस्येष्टदेवतायाः पूजां गुरुः समारभेत् ॥ २४५ ॥


ततस्तु परमं ब्रह्म ध्यात्वा शाम्भववर्त्मना ।
विधाय पूजां ब्रह्मज्ञो वह्निस्थापनमाचरेत् ॥ २४६ ॥

प्रागुक्तसंस्कृते वह्नौ स्वकल्पोक्ताहुतिं गुरुः ।
दत्त्वा शिष्यं समाहूय साकल्यं हावयेत्तु तम् ॥ २४७ ॥

आदौ व्याहृतिभिर्हुत्वा प्राणहोमं प्रकल्पयेत् ।
प्राणापानौ समानश्चोदानव्यानौ च वायवः ॥ २४८ ॥

तत्त्वहोमं ततः कुर्याद्देहात्माध्यासमुक्तये ।
पृथिवी सलिलं वह्निर्वायुराकाशमेव च ॥ २४९ ॥

गन्धो रसश्च रूपश्च स्पर्शः शब्दो यथाक्रमात् ।
ततो वाक्पाणिपादाश्च पायूपस्थौ ततः परम् ॥ २५० ॥


ततस्त्विति ।
ततस्तु शिष्येष्टदेवतापूजनादनन्तरं तु ब्रह्मज्ञो गुरुः परमं ब्रह्म ध्यात्वा शाम्भववर्त्मना तस्य पूजां च विधाय वेद्यां वह्निस्थापनमाचरेत् कुर्यात् ॥ २४६ ॥

प्रागुक्तेत्यादि ।
ततः प्रागुक्तेन विधिना संस्कृते वह्नौ स्वकल्पोक्ताहुतिं स्वस्वकल्पे उक्तामाहुतिं दत्त्वा गुरुस्तं शिष्यं समाहूय तेन साकल्यमग्नौ हावयेत् ॥ २४७ ॥

आदाविति ।
आदौ प्रथमतो भूरादिभिर्व्याहृतिभिः साकल्यं हुत्वा ततः प्राणहोमं शरीरस्थप्राणादिपञ्चवायुहोमं प्रकल्पयेत् कुर्यात् ।
होतव्यान् प्राणादीन् पञ्चवायूनाह प्राणेत्याद्यर्द्धेन ॥ २४८ ॥

तत्त्वेति ।
ततः परं देहात्माध्यासमुक्तये शरीरनिष्ठात्मत्वज्ञानविमुक्त्यर्थं यथाक्रमं तत्त्वहोमं पृथ्वीजलादिचतुर्विंशतितत्त्वहवनं कुर्यात् ।
क्रमेणैव हवनीयानि चतुर्विंशतितत्त्वान्येवाह पृथिवीत्यादिनाऽहङ्कार इत्यन्तेन किञ्चिदधिकेन सपादद्वयेन ॥ २४९ ॥


श्रोत्रं त्वङ्नयनं जिह्वा घ्राणं बुद्धीन्द्रियाणि च ।
मनो बुद्धिश्च चित्तञ्चाहङ्कारो देहजाः क्रियाः ॥ २५१ ॥

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि यानि च ॥ २५२ ॥

एतानि मे पदान्ते च शुद्ध्यन्तां पदमुच्चरेत् ।
ह्री।
ज्योतिरहं विरजा विपाप्मा भूयासमित्यपि ॥ २५३ ॥

चतुर्विंशतितत्त्वानि कर्माणि दैहिकानि च ।
हुत्वाऽग्नौ निष्क्रियो देहं मृतवच्चिन्तयेत्ततः ॥ २५४ ॥


गन्ध इत्यादि ।
पृथिव्यादिपञ्चतत्त्वहवनानन्तरं गन्धादिपञ्चतत्त्वानि यथाक्रमात् होतव्यानि ।
ततो वागादिपञ्चकर्मेन्द्रियाणि हवनीयानि ।
ततः परं श्रोत्रादीनि पञ्चबुद्धीन्द्रियाणि होतव्यानि ।
ततो मन आदीनि चत्वारि तत्त्वानि हवनीयानि ।
ततो देहजाः क्रियाः होतव्याः ॥ २५० ॥ २५१ ॥

सर्वाणीति ।
ततः सर्वाणीन्द्रियकर्माणि यानि च प्राणकर्माणि तान्यपि हवनीयानि ॥ २५२ ॥

प्राणादिपञ्चवायूनां पृथिव्यादिचतुर्विंशतितत्त्वानां देहजक्रियाणां सर्वेन्द्रियकर्मणां प्राणादिवायुकर्मणाञ्च होमस्य मन्त्रमाह एतानीत्यादिना ।
पूर्वम् एतानि मे इत्युच्चरेत् ।
तत्पदान्ते च शुद्ध्यन्तामिति पदमुच्चरेत् ।
ततो ह्री।
ज्योतिरहं विरजा विपाप्पा भूयासमित्युच्चरेत् ।
ततो द्विठः स्वाहेत्यप्युच्चरेत् ।
योजनया एतानि मे शुद्ध्यन्तां ह्री।
ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहेति मन्त्रो जातः ।
अनेनैव प्राणादीनि प्राणकर्मपर्यन्तानि सर्वाणि जुहुयात् ।
यथा प्राणापानसमानोदानव्याना मे शुद्ध्यन्तां ह्री।
ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहेति प्राणादीन् जुहुयादिति ।
एवं सर्वत्र योजना ॥ २५३ ॥

चतुर्विंशतीत्यादि ।
एवं चतुर्विंशतितत्त्वानि दैहिकानि कर्माणि चाग्नौ हुत्वा निष्क्रियः क्रियाभ्यश्च निष्क्रान्तो भूत्वा ततो देहं मृतवच्चिन्तयेत् ॥ २५४ ॥


विभाव्य मृतवत् कायं रहितं सर्वकर्मणा ।
स्मरंस्तत् परमं ब्रह्म यज्ञसूत्रं समुद्धरेत् ॥ २५५ ॥

ऐ।
क्ली।
हू।
इति मन्त्रेण स्कन्धादुत्तार्य तत्त्ववित् ।
यज्ञसूत्रं करे कृत्वा पठित्वा व्याहृतित्रयम् ।
वह्निजायां समुच्चार्य घृताक्तमनले क्षिपेत् ॥ २५६ ॥

हुत्वैवमुपवीतञ्च कामबीजं समुच्चरन् ।
छित्वा शिखां करे कृत्वा घृतमध्ये नियोजयेत् ॥ २५७ ॥

ब्रह्मपुत्रि शिखे त्वं हि बालरूपा तपस्विनी ।
दीयते पावके स्थानं गच्छ देवि नमोऽस्तु ते ॥ २५८ ॥

कामं मायां कूर्चमन्त्रं वह्निजायामुदीरयन् ।
तस्मिन् सुसंस्कृते वह्नौ शिखाहोमं समाचरेत् ॥ २५९ ॥


विभाव्येति ।
सर्वकर्मणा रहितं मृतवच्च कायं देहं विभाव्य विचिन्त्य तत् जगत्कारणत्वेनातिप्रसिद्धं परमं ब्रह्म स्मरन् सन् यज्ञसूत्रं यज्ञोपवीतं समुद्धरेत् उरःस्थलात् स्कन्धं नयेत् ॥ २५५ ॥

ऐमित्यादि ।
ततः तत्त्ववित् ब्रह्मविज्जनः ऐ।
क्ली।
इमिति मन्त्रेण यज्ञसूत्रं स्कन्धादुत्तार्य करे हस्ते च कृत्वा व्याहृतित्रयं पठित्वा व्याहृतित्रयान्ते च वह्निजायां स्वाहेति पदं समुच्चार्य घृताक्तं घृतसंयुक्तं यज्ञसूत्रमनलेऽग्नौ क्षिपेत् ॥ २५६ ॥

हुत्वेति ।
एवं प्रकारेणोपवीतं यज्ञसूत्रमग्नौ हुत्वा कामबीजं क्लीमिति बीजं समुच्चरन् सन् शिखां छित्त्वा करे च कृत्वाष्टमध्ये नियोजयेत् स्थापयेत् ॥ २५७ ॥

ब्रह्मेति ।
ततो ब्रह्मपुत्रि इत्याद्यं नमोऽस्तुते इत्यन्तं मन्त्रमुदीरयन् एतन्मन्त्रान्ते च कामं क्लीमितिमायां ह्रीमिति कूर्चं हूमिति अस्त्रं फडिति वह्निजायां


शिखामाश्रित्य पितरो देवा देवर्षयस्तथा ।
सर्वाण्याश्रमकर्माणि निवसन्ति शिखोपरि ॥ २६० ॥

अतः सन्तर्प्य ताः सर्वा देवर्षिपितृदेवताः ।
शिखासूत्रपरित्यागाद्देही ब्रह्ममयो भवेत् ॥ २६१ ॥

यज्ञसूत्रशिखात्यागात् सन्न्यासः स्यात् द्विजन्मनाम् ।
शूद्राणामितरेषाञ्च शिखां हुत्वैव संस्क्रिया ॥ २६२ ॥

ततो मुक्तशिखासूत्रः प्रणमेत् दण्डवद् गुरुम् ।
गुरुरुत्थाप्य तं शिष्यं दक्षकर्णे वदेदिदम् ॥ २६३ ॥

तत्त्वमसि महाप्राज्ञ हंसः सोऽहं विभावय ।
निर्ममो निरहङ्कारः स्वभावेन सुखं चर ॥ २६४ ॥


स्वाहेति च बीजं कीर्तयन् तस्मिन् सुसंस्कृते वह्नौ शिखाया होमंसमाचरेत् कुर्यात् ॥ २५८ � २६० ॥

ब्रह्ममयो ब्रह्मस्वरूपः ॥ २६१ ॥

द्विजन्मनाम् ब्राह्मणक्षत्रियवैश्यानाम् इतरेषाम् वर्णसङ्कराणाम् ॥ २६२ ॥ २६३ ॥

ननु गुरुः शिष्यस्य दक्षिणे कर्णे किं वदेदित्यपेक्षायामाह तत्त्वमसीत्यादि ।
हे महाप्राज्ञ महामनीषिन् तत् जगत्कारणत्वेनातिप्रसिद्धं परं ब्रह्म त्वमेवासि अतोऽहमेव स परमात्मा स एवाहमस्मीति त्वं विभावय विचिन्तय ।
किञ्च निर्ममः पुत्रादिविषयकममताशून्यो निरहङ्कारो विद्यादिविषयनिमित्तकचित्तसमुन्नतिशून्यश्च सन् स्वभावेन सुखं यथा स्यात्तथा चर इतस्ततो गच्छ ।
अहमित्यस्यादेर्लोपस्त्वार्षः ॥ २६४ ॥


ततो घटञ्च वह्निञ्च विसृज्य ब्रह्मतत्त्ववित् ।
आत्मस्वरूपं तं मत्वा प्रणमेच्छिरसा गुरुः ॥ २६५ ॥

नमस्तुभ्यं नमो मह्यं तुभ्यं मह्यं नमो नमः ।
त्वमेव तत् तत्त्वमेव विश्वरूप नमोऽस्तु ते ॥ २६६ ॥

ब्रह्ममन्त्रोपासकानां तत्त्वज्ञानां जितात्मनाम् ।
स्वमन्त्रेण शिखाच्छेदात् सन्न्यासग्रहणं भवेत् ॥ २६७ ॥

ब्रह्मज्ञानविशुद्धानां किं यज्ञैः श्राद्धपूजनैः ।
स्वेच्छाचारपराणां तु प्रत्यवायो न विद्यते ॥ २६८ ॥

ततो निर्द्वन्द्वरूपोऽसौ निष्कामस्थिरमानसः ।
विहरेत् स्वेच्छया शिष्यः साक्षाद् ब्रह्ममयो भुवि ॥ २६९ ॥

आब्रह्मस्तम्बपर्यन्तं सद्रूपेण विभावयन् ।
विस्मरन्नामरूपाणि ध्यायन्नात्मानमात्मनि ॥ २७० ॥


तत इति ।
ततः परं घठं वह्निञ्च विसृज्य ब्रह्मतत्त्वविद् गुरुस्तं शिष्यमात्मस्वरूपं मत्वा वक्ष्यमाणमन्त्रेण शिरसा प्रणमेत् ॥ २६५ ॥

येन मन्त्रेण प्रणमेत् तमेव मन्त्रमाह नमस्तुभ्यमित्यादिकम् ॥ २६६ ॥

ब्रह्ममन्त्रोपासकानां तु सन्न्यासग्रहणे विशेषविधिमाह ब्रह्ममन्त्रेत्यादिना ।
तत्त्वज्ञानां ब्रह्मज्ञानिनां जितात्मनां जितमनसां ब्रह्ममन्त्रोपासकानां स्वमन्त्रेण शिखाच्छेदादेव सन्न्यासग्रहणं भवेत् ॥ २६७ ॥

ननु यज्ञश्राद्धादिकमकृत्वैव सन्न्यासं गृह्णतां ब्रह्ममन्त्रोपासकानां प्रत्यवायभागित्वं स्यात्तत्राह ब्रह्मज्ञानेत्यादि ॥ २६८ ॥

निर्द्वन्द्वरूपः सुखदुःखादियुगलानि द्वन्द्वानि तद्रहितो निर्द्वन्द्वस्तत्स्वरूपः ॥ २६९ ॥

आब्रह्मस्तम्बपर्यन्तं ब्रह्मारभ्य तृणादिगुच्छपर्यन्तं सद्रूपेण सत्यरूपेण विभावयन् विचिन्तयन् ॥ २७० ॥


अनिकेतः क्षमावृत्तो निःशङ्कः सङ्गवर्जितः ।
निर्ममो निरहङ्कारः सन्न्यासी विहरेत् क्षितौ ॥ २७१ ॥

मुक्तो विधिनिषेधेभ्यो निर्योगक्षेम आत्मवित् ।
सुखदुःखसमो धीरो जितात्मा विगतस्पृहः ॥ २७२ ॥

स्थिरात्मा प्राप्तदुःखोऽपि सुखे प्राप्तेऽपि निष्पृहः ।
सदानन्दः शुचिः शान्तो निरपेक्षो निराकुलः ॥ २७३ ॥

नोद्वेजकः स्याज्जीवानां सदा प्राणिहिते रतः ।
विगतामर्षभीर्दान्तो निःसङ्कल्पो निरुद्यमः ॥ २७४ ॥

शोकद्वेषविमुक्तः स्यात् शत्रौ मित्रे समो भवेत् ।
शीतवातातपसहः समो मानापमानयोः ॥ २७५ ॥


अनिकेत इत्यादि ।
अनिकेतः नियतवासशून्यः ।
क्षमावृत्तः क्षमैव वृत्तं यस्य सः ।
निःसङ्कः उद्वेगरहितः ।
सङ्गवर्जितः क्वचिदप्यनासक्तः ॥ २७१ ॥

मुक्त इत्यादि ।
निर्योगक्षेमः अप्राप्तस्वीकारो योगः प्राप्तपरिरक्षणं क्षेमः ताभ्यां रहितः ।
सुखदुःखसमः सुखदुःखे समे यस्य सः ।
जितात्मा जितदेहः ।
विगतस्पृहः उच्चावचेषु दृष्टमात्रेषु वस्तुषु इतस्ततो जिघृक्षा स्पृहाः विगता स्पृहा यस्य सः ॥ २७२ ॥

स्थिरेत्यादि ।
स्थिरात्मा स्थिरचित्तः स्थिरस्वभावो वा ।
निष्पृहः भोगाकाङ्क्षाशून्यः ।
शुचिः बाह्याभ्यन्तरशौचसम्पन्नः ।
शान्तः संयतान्तःकरणः ।
निरपेक्षः परापेक्षारहितः ।
निराकुलः आकुलताशून्यः ॥ २७३ ॥

नेत्यादि ।
नोद्वेजकः न भीतिजनकः ।
विगतामर्षभीः अपगतक्रोधभयः ।
दान्तः संयतवाह्येन्द्रियः ।
निरुद्यमः स्वदेहनिर्वाहार्थव्यापारशून्यः ॥ २७४ ॥

शोकेत्यादि ।
शत्रौ मित्रे च समः एकरूपः मानापमानयोरपि समः हर्षविषादशून्य इत्यर्थः ॥ २७५ ॥


समः शुभाशुभे तुष्टो यदृच्छाप्राप्तवस्तुना ।
निस्त्रैगुण्यो निर्विकल्पो निर्लोभः स्यादसञ्चयी ॥ २७६ ॥

यथा सत्यमुपाश्रित्य मृषा विश्वं प्रतिष्ठति ।
आत्माश्रितस्तथा देहो जानन्नेवं सुखी भवेत् ॥ २७७ ॥

इन्द्रियाण्येव कुर्वन्ति स्वं स्वं कर्म पृथक् पृथक् ।
आत्मा साक्षी विनिर्लिप्तो ज्ञात्वैवं मोक्षभाग् भवेत् ॥ २७८ ॥

धातुप्रतिग्रहं निन्दामनृतं क्रीडनं स्त्रिया ।
रेतस्त्यागमसूयाञ्च सन्न्यासी परिवर्जयेत् ॥ २७९ ॥

सर्वत्र समदृष्टिः स्यात् कीटे देवे तथा नरे ।
सर्वं ब्रह्मेति जानीयात् परिव्राट् सर्वकर्मसु ॥ २८० ॥

विप्रान्नं श्वपचान्नं वा यस्मात्तस्मात् समागतम् ।
देशं कालं तथा पात्रमश्नीयादविचारयन् ॥ २८१ ॥


सम इत्यादि ।
निस्त्रैगुण्यः त्रयो गुणा यस्मिन् स त्रिगुणः सकामः तस्य भावस्त्रैगुण्यम् तस्मान्निष्क्रान्तो निस्त्रैगुण्यः निष्कामः इत्यर्थः ।
निर्विकल्पः नानाविधकल्पनाशून्यः ।
निर्लोभः धनाद्यागमे बहुधा जायमानेऽपि पुनर्वर्द्धमानोऽभिलाषो लोभः तद्रहितः ।
असञ्चयी तत्तद्वस्तुसञ्चयाभाववान् ॥ २७६ ॥

यथेत्यादि ।
यथा सत्यं परमात्मानमेवोपाश्रित्यावलम्ब्य मृषा मिथ्याभूतमपि विश्वं प्रतिष्ठति सत्यवदास्ते तथैवात्मानमाश्रितो मिथ्यामूत एव देहः प्रतिष्ठति एवं जानन् सन्न्यासी सुखी भवेत् ॥ २७७ ॥

इन्द्रियाणीति ।
इन्द्रियाण्येव पृथक् पृथक् स्वं स्वं कर्म कुर्वन्ति ।
आत्मा तु साक्षी केवलं शुभाशुभकर्मणां द्रष्टा भवति ।
अत एव निर्लिप्तः तत्तत्कर्मभिर्वद्धो न भवति ।
एवं ज्ञात्वैव सन्न्यासी मोक्षभाग् भवेत् ॥ २७८ ॥

अनृतम् अयथार्थभाषणम् ।
असूयाम् सत्स्वपि गुणेषु दोषारोपणम् ॥ २७९ � २८१ ॥


अध्यात्मशास्त्राध्ययनैः सदा तत्त्वविचारणैः ।
अवधूतो नयेत् कालं स्वेच्छाचारपरायणः ॥ २८२ ॥

सन्न्यासिनां मृतं कायं दाहयेन्न कदाचन ।
सम्पूज्य गन्धपुष्पाद्यैर्निखनेद्वाप्सु मज्जयेत् ॥ २८३ ॥

अप्राप्तयोगमर्त्यानां सदा कामाभिलाषिणाम् ।
स्वभावाज्जायते देवि प्रवृत्तिः कर्मसङ्कुले ॥ २८४ ॥

तत्रापि ते सानुरक्ता ध्यानार्चाजपसाधने ।
श्रेयस्तदेव जानन्तु यत्रैव दृढनिश्चयाः ॥ २८५ ॥

अतः कर्मविधानानि प्रोक्तानि चित्तशुद्धये ।
नामरूपं बहुविधं तदर्थं कल्पितं मया ॥ २८६ ॥

ब्रह्मज्ञानादृते देवि कर्मसन्न्यसनं विना ।
कुर्वन् कल्पशतं कर्म न भवेन्मुक्तिभाग् जनः ॥ २८७ ॥

कुलावधूतस्तत्त्वज्ञो जीवन्मुक्तो नराकृतिः ।
साक्षान्नारायणं मत्वा गृहस्थस्तं प्रपूजयेत् ॥ २८८ ॥


अध्यात्मशास्त्राध्ययनैः वेदान्तशास्त्रपाठैः ।
तत्त्वविचारणैः ब्रह्मतत्त्वविवेचनैः ॥ २८२ ॥

निखनेत् शुचौ भूमौ गर्तं विधाय तत्रैव निदध्यात् ।
अप्सु जलेषु ॥ २८३ ॥

अप्राप्तयोगमर्त्यानाम् न प्राप्तो योगो ब्रह्मज्ञानसम्बन्धो यैस्तथाभूतानाम् ।
कर्मसङ्कुले कर्मसमूहे ॥ २८४ ॥

तत्रापि तत्रैवापि ।
अप्राप्तयोगमर्त्याः ।
सानुरक्ताः अनुरागवन्तः ।
तदेव अर्चादिकर्मैव ॥ २८५ ॥


यतेर्दर्शनमात्रेण विमुक्तः सर्वपातकात् ।
तीर्थव्रततपोदानसर्वयज्ञफलं लभेत् ॥ २८९ ॥


इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे वर्णाश्रमाचारधर्मकथनं नामाष्टमोल्लासः ।

तदर्थम् अप्राप्तयोगमर्त्यार्थम् ॥ २८६ � २८९ ॥

इति श्रीमहानिर्वाणतन्त्रटीकायाम् अष्टमोल्लासः ।