सप्तमोल्लासः
श्रुत्वाऽद्याकालिकादेव्या मन्त्रोद्धारं महाफलम् ।
सौभाग्यमोक्षजननं ब्रह्मज्ञानैकसाधनम् ॥ १ ॥
प्रातःकृत्यं तथा स्नानं सन्ध्यां सम्विद्विशोधनम् ।
न्यासपूजाविधानञ्च बाह्याभ्यन्तरभेदतः ॥ २ ॥
बलिप्रदानं होमञ्च चक्रानुष्ठानमेव च ।
महाप्रसादस्वीकारं पार्वती हृष्टमानसा ।
विनयावनता देवी प्रोवाच शङ्करं प्रति ॥ ३ ॥
श्रीदेव्युवाच ।
सदाशिव जगन्नाथ जगतां हितकारक ।
कृपया कथितं देव पराप्रकृतिसाधनम् ॥ ४ ॥
सर्वप्राणिहितकरं भोगमोक्षैककारणम् ।
विशेषतः कलियुगे जीवानामाशु सिद्धिदम् ॥ ५ ॥
ओ।
नमो ब्रह्मणे ।
श्रुत्वेत्यादि ।
महाफलम् महत् फलं यस्य तथाभूतम् ॥ १- ३ ॥
पार्वती शङ्करं प्रति किं प्रोवाचेत्यपेक्षायामाह सदाशिवेत्यादि ॥ ४ ॥ ५ ॥
तव वागमृताम्भोधौ निमज्जन्मम मानसम् ।
नोत्थातुमीहते स्वैरं भूयः प्रार्थयतेऽचिरात् ॥ ६ ॥
पूजाविधौ महादेव्याः सूचितं न प्रकाशितम् ।
स्तोत्रञ्च कवचं देव तदिदानीं प्रकाशय ॥ ७ ॥
श्रीसदाशिव उवाच ।
शृणु देवि जगद्वन्द्ये स्तोत्रमेतदनुत्तमम् ।
पठनात् श्रवणाद्यस्य सर्वसिद्धीश्वरो भवेत् ॥ ८ ॥
असौभाग्यप्रशमनं सुखसम्पद्विवर्द्धनम् ।
अकालमृत्युहरणं सर्वापद्विनिवारणम् ॥ ९ ॥
श्रीमदाद्याकालिकायाः सुखसन्निध्यकारणम् ।
स्तवस्यास्य प्रसादेन त्रिपुरारिरहं शिवे ॥ १० ॥
स्तोत्रस्यास्य ऋषिर्देवि सदाशिव उदाहृतः ।
छन्दोऽनुष्टुब्देवताऽद्या कालिका परिकीर्तिता ।
धर्मकामार्थमोक्षेषु विनियोगः प्रकीर्तितः ॥ ११ ॥
तवेत्यादि ।
तव वागमृताम्भोधौ त्वदीयवाग्रूपसुधासमुद्रे निमज्जत् मम मानसं हृदयन्ततः स्वैरं स्वच्छन्दमुत्थातुं नेहते न वाञ्छति किन्तु भूयः पुनरप्यचिरादतिशीघ्रमेव त्वद्वागमृतं प्रार्थयते ॥ ६ ॥ ७ ॥
पार्वत्यैवं प्रार्थितः सन् श्रीसदाशिव उवाच शृण्वित्यादि ।
अनुत्तमम् न उत्तमं यस्मात्तथाभूतम् ॥ ८ ॥ ९ ॥
त्रिपुरारिः त्रीणि स्वर्गभूमिपातालात्मकानि पुराणि यस्य सः त्रिपुरोऽसुरविशेषः तस्यारिः शत्रुः ॥ १० ॥
अथास्य स्तोत्रस्य ऋष्यादिकमाह स्तोत्रस्येत्यादिना सार्द्धेन ॥ ११ ॥
ह्री।
काली श्री।
कराली च क्री।
कल्याणी कलावती ।
कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥ १२ ॥
कालिका कालमाता च कालानलसमद्युतिः ।
कपर्दिनी करालास्या करुणामृतसागरा ॥ १३ ॥
कृपामयी कृपाधारा कृपापारा कृपागमा ।
कृशानुः कपिला कृष्णा कृष्णानन्दविवर्द्धिनी ॥ १४ ॥
कालरात्रिः कामरूपा कामपाशविमोचनी ।
कादम्बिनी कलाधारा कलिकल्मषनाशिनी ॥ १५ ॥
कुमारीपूजनप्रीता कुमारीपूजकालया ।
कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥ १६ ॥
कदम्बवनसञ्चारा कदम्बवनवासिनी ।
कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥ १७ ॥
किशोरी कलकण्ठा च कलनादनिनादिनी ।
कादम्बरीपानरता तथा कादम्बरीप्रिया ॥ १८ ॥
अथाद्याकालीस्वरूपाख्यं शतनामस्तोत्रं कथयति ह्री।
कालीत्यादि ।
कपर्दीशकृपान्विता कपर्दो जटाजुटोऽस्यास्तीति कपर्दी स चासावीशो जगत्प्रभुश्चेति कपर्दीशस्तत्र या कृपा तयान्विता युक्ता ॥ १२ ॥
करालास्या करालं दन्तुरमास्यं मुखं यस्याः सा ।
करालो दन्तुरे तुङ्गे इत्यमरः ॥ १३ ॥
कृपागमा कृपया स्वकारुण्येनैव गम्यते ज्ञायते या सा तथा ।
ग्रहदवृनिश्चिगम इति कर्मण्यच् ॥ १४ � १७ ॥
कलकण्ठा कलो गम्भीरशब्दयुक्तः कण्ठो यस्याः सा ॥ १८ ॥
कपालपात्रनिरता कङ्कालमाल्यधारिणी ।
कमलासनसन्तुष्टा कमलासनवासिनी ॥ १९ ॥
कमलालयमध्यस्था कमलामोदमोदिनी ।
कलहंसगतिः क्लैव्यनाशिनी कामरूपिणी ॥ २० ॥
कामरूपकृतावासा कामपीठविलासिनी ।
कमनीया कल्पलता कमनीयविभूषणा ॥ २१ ॥
कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी ।
कारणामृतसन्तोषा कारणानन्दसिद्धिदा ॥ २२ ॥
कारणानन्दजापेष्टा कारणार्चनहर्षिता ।
कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥ २३ ॥
कस्तूरीसौरभामोदा कस्तूरीतिलकोज्ज्वला ।
कस्तूरीपूजनरता कस्तूरीपूजकप्रिया ॥ २४ ॥
कस्तूरीदाहजननी कस्तूरीमृगतोषिणी ।
कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ।
कर्पूरमालाभरणा कर्पूरचन्दनोक्षिता ॥ २५ ॥
कर्पूरकारणाह्लादा कर्पूरामृतपायिनी ।
कर्पूरसागरस्नाता कर्पूरसागरालया ॥ २६ ॥
कूर्चबीजजपप्रीता कूर्चजापपरायणा ।
कुलीना कौलिकाराध्या कौलिकप्रियकारिणी ॥ २७ ॥
कङ्कालमाल्यधारिणी शरीरास्थिमालाधारणशीला ।
स्याच्छरीरास्थि कङ्काल इत्यमरः ॥ १९ � २६ ॥
कुलाचारा कौतुकिनी कुलमार्गप्रदर्शिनी ।
काशीश्वरी कष्टहर्त्री काशीशवरदायिनी ॥ २८ ॥
काशीश्वरकृतामोदा काशीश्वरमनोरमा ॥ २९ ॥
कलमञ्जीरचरणा क्वणत्काञ्चीविभूषणा ।
काञ्चनाद्रिकृतागारा काञ्चनाचलकौमुदी ॥ ३० ॥
कामबीजजपानन्दा कामबीजस्वरूपिणी ।
कुमतिघ्नी कुलीनार्तिनाशिनी कुलकामिनी ॥ ३१ ॥
क्री।
ह्री।
श्री।
मन्त्रवर्णेन कालकण्टकघातिनी ।
इत्याद्याकालिकादेव्याः शतनाम प्रकीर्तितम् ॥ ३२ ॥
ककारकूटघटितं कालीरूपस्वरूपकम् ॥ ३३ ॥
पूजाकाले पठेद्यस्तु कालिकाकृतमानसः ।
मन्त्रसिद्धिर्भवेदाशु तस्य काली प्रसीदति ॥ ३४ ॥
बुद्धिं विद्याञ्च लभते गुरोरादेशमात्रतः ।
धनवान् कीर्तिमान् भूयाद्दानशीलो दयान्वितः ॥ ३५ ॥
पुत्रपौत्रसुखैश्वर्यैर्मोदते साधको भुवि ॥ ३६ ॥
कूर्चजापपरायणा हू।
बीजजपतत्परा ॥ २७ � २९ ॥
कलमञ्जीरचरणा कलौ गम्भीरशब्दयुतौ मञ्जीरौ चरणयोर्यस्याः सा ॥ ३० ॥
कामबीजजपानन्दा कामबीजस्य क्लीमित्यस्य जपे आनन्दो यस्याः सा ॥ ३१ ॥ ३२ ॥
ककारकूटघटितम् ककारराशिसम्मिलितम् ॥ ३३ ॥
अथैतत्स्तोत्रपाठस्य फलमाह पूजाकाले इत्यादिभिः ॥ ३४ � ३६ ॥
भौमावास्यानिशाभागे मपञ्चकसमन्वितः ।
पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् ॥ ३७ ॥
पठित्वा शतनामानि साक्षात् कालीमयो भवेत् ।
नासाध्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन ॥ ३८ ॥
विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेत् ।
समुद्र इव गाम्भीर्ये वले च पवनोपमः ॥ ३९ ॥
तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवत् शुभदर्शनः ।
रूपे मूर्तिधरः कामो योषितां हृदयङ्गमः ॥ ४० ॥
सर्वत्र जयमाप्नोति स्तवस्यास्य प्रसादतः ।
यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् ॥ ४१ ॥
तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः ।
रणे राजकुले द्यूते विवादे प्राणसङ्कटे ॥ ४२ ॥
दस्युग्रस्ते ग्रामदाहे सिंहव्याघ्रावृते तथा ॥ ४३ ॥
अरण्ये प्रान्तरे दुर्गे ग्रहराजभयेऽपि वा ।
ज्वरदाहे चिरव्याधौ महारोगादिसङ्कुले ॥ ४४ ॥
बालग्रहादिरोगे च तथा दुःस्वप्नदर्शने ।
दुस्तरे सलिले वापि पोते वातविपद्गते ॥ ४५ ॥
भौमेत्यादि ।
भौमावास्यानिशाऽहागे मङ्गलवारयुक्तामावास्यासम्बन्धिमहानिशायामित्यर्थः ।
पृषोदरादित्वाद्भौमावास्येत्यत्र मालोपः ।
मपञ्चकसमन्वितः मद्यादिपञ्चकयुक्तः ॥ ३७ � ३९ ॥
तिग्मांशुरिव सूर्य इव दुष्प्रेक्ष्यो दुःखेन द्रष्टव्यः ॥ ४० � ४३ ॥
विचिन्त्य परमां मायामाद्यां कालीं परात्पराम् ।
यः पठेच्छतनामानि दृढभक्तिसमन्वितः ॥ ४६ ॥
सर्वापद्भ्यो विमुच्येत देवि सत्यं न संशयः ।
न पापेभ्यो भयन्तस्य न रोगेभ्यो भयं क्वचित् ॥ ४७ ॥
सर्वत्र विजयस्तस्य न कुत्रापि पराभवः ।
तस्य दर्शनमात्रेण पलायन्ते विपद्गणाः ॥ ४८ ॥
स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसम्पदाम् ।
स कर्ता जातिधर्माणां ज्ञातीनां प्रभुरेव सः ॥ ४९ ॥
वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे ।
तन्नाम्ना मानवाः सर्वे प्रणमन्ति ससम्भ्रमाः ॥ ५० ॥
दृष्ट्या तस्य तृणायन्ते ह्यणिमाद्यष्टसिद्धयः ।
आद्याकालीस्वरूपाख्यं शतनाम प्रकीर्तितम् ॥ ५१ ॥
अष्टोत्तरशतावृत्त्या पुरश्चर्याऽस्य गीयते ।
पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्टफलप्रदम् ॥ ५२ ॥
शतनामस्तुतिमिमामाद्याकालीस्वरूपिणीम् ।
पठेद्वा पाठयेद्वापि शृणुयाच्छ्रावयेदपि ॥ ५३ ॥
सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ ५४ ॥
प्रान्तरे तरुजलादिशून्ये ग्रामतो दूरेऽध्वनि ॥ ४४ � ४९ ॥
ससम्भ्रमाः सभयाः सादरा वा ॥ ५० ॥ ५१ ॥
अस्य शतनामस्तोत्रस्य ॥ ५२ � ५४ ॥
श्रीसदाशिव उवाच ।
कथितं परमं ब्रह्मप्रकृतेः स्तवनं महत् ।
आद्यायाः श्रीकालिकायाः कवचं शृणु साम्प्रतम् ॥ ५५ ॥
त्रैलोक्यविजयस्यास्य कवचस्य ऋषिः शिवः ।
छन्दोऽनुष्टुब्देवता च आद्या काली प्रकीर्तिता ॥ ५६ ॥
मायाबीजं बीजमिति रमा शक्तिरुदाहृता ।
क्री।
कीलकं काम्यसिद्धौ विनियोगः प्रकीर्तितः ॥ ५७ ॥
ह्रीमाद्या मे शिरः पातु श्री।
काली वदनं मम ।
हृदयं क्री।
परा शक्तिः पायात् कण्ठं परात्परा ॥ ५८ ॥
नेत्रे पातु जगद्धात्री कर्णौ रक्षतु शङ्करी ।
घ्राणं पातु महामाया रसनां सर्वमङ्गला ॥ ५९ ॥
दन्तान् रक्षतु कौमारी कपोलौ कमलालया ।
ओष्ठाधरौ क्षमा रक्षेत् चिबुकं चारुहासिनी ॥ ६० ॥
ग्रीवां पायात् कुलेशानी ककुत् पातु कृपामयी ।
द्वौ बाहू बाहुदा रक्षेत् करौ कैवल्यदायिनी ॥ ६१ ॥
स्कन्धौ कपर्दिनी पातु पृष्ठं त्रैलोक्यतारिणी ।
पार्श्वे पायादपर्णा मे कटिं मे कमठासना ॥ ६२ ॥
कवचं कथयितुं पार्वत्या पूर्वमेव प्रेरितः श्रीसदाशिव उवाच कथितमित्यादि ॥ ५५ ॥ ५६ ॥
मायाबीजं ह्रीमिति बीजम् ।
रमा श्रीम्बीजम् ॥ ५७ � ५९ ॥
चिबुकम् ओष्ठाधराधोभागम् ॥ ६० � ६२ ॥
नाभौ पातु विशालाक्षी प्रजास्थानं प्रभावती ।
ऊरू रक्षतु कल्याणी पादौ मे पातु पार्वती ॥ ६३ ॥
जयदुर्गाऽवतु प्राणान् सर्वाङ्गं सर्वसिद्धिदा ।
रक्षाहीनन्तु यत् स्थानं वर्जितं कवचेन च ॥ ६४ ॥
तत् सर्वं मे सदा रक्षेदाद्या काली सनातनी ।
इति ते कथितं दिव्यं त्रैलोक्यविजयाभिधम् ॥ ६५ ॥
कवचं कालिकादेव्या आद्यायाः परमाद्भुतम् ॥ ६६ ॥
पूजाकाले पठेद्यस्तु आद्याधिकृतमानसः ।
सर्वान् कामानवाप्नोति तस्याद्या सुप्रसीदति ।
मन्त्रसिद्धिर्भवेदाशु किङ्कराः क्षुद्रसिद्धयः ॥ ६७ ॥
अपुत्रो लभते पुत्रं धनार्थी प्राप्नुयाद्धनम् ।
विद्यार्थी लभते विद्यां कामी कामानवाप्नुयात् ॥ ६८ ॥
सहस्रावृत्तपाठेन वर्मणोऽस्य पुरस्क्रिया ।
पुरश्चरणसम्पन्नं यथोक्तफलदं भवेत् ॥ ६९ ॥
चन्दनागरुकस्तूरीकुङ्कुमै रक्तचन्दनैः ।
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद् यदि ॥ ७० ॥
प्रजास्थानम् उपस्थम् ॥ ६३ � ६६ ॥
अथ त्रैलोक्यविजयाभिधकवचपाठस्य फलमाह पूजाकाल इत्यादिभिः ॥ ६७ ॥ ६८ ॥
वर्मणः कवचस्य ॥ ६९ ॥ ७० ॥
शिखायां दक्षिणे बाहौ कण्ठे वा साधकः कटौ ।
तस्याऽद्या कालिका वश्या वाञ्छितार्थं प्रयच्छति ॥ ७१ ॥
न कुत्रापि भयं तस्य सर्वत्र विजयी कविः ।
अरोगी चिरजीवी स्यात् बलवान् धारणक्षमः ॥ ७२ ॥
सर्वविद्यासु निपुणः सर्वशास्त्रार्थतत्त्ववित् ।
वशे तस्य महीपाला भोगमोक्षौ करस्थितौ ॥ ७३ ॥
कलिकल्मषयुक्तानां निःश्रेयसकरं परम् ॥ ७४ ॥
श्रीदेव्युवाच ।
कथितं कृपया नाथ स्तोत्रं कवचमेव च ।
अधुना श्रोतुमिच्छामि पुरश्चर्याविधिं विभो ॥ ७५ ॥
श्रीसदाशिव उवाच ।
यो विधिर्ब्रह्ममन्त्राणां पुरश्चरणकर्मणि ।
स एवाऽद्याकालिकाया मन्त्राणां विधिरिष्यते ॥ ७६ ॥
अशक्ते साधके देवि जपपूजाहुतादिषु ।
पूजा सङ्क्षेपतः कार्या पुरश्चरणमेव च ॥ ७७ ॥
प्रयच्छति ददाति ॥ ७१ ॥ ७२ ॥
निपुणः प्रवीणः ॥ ७३ ॥ ७४ ॥
अथाद्याकालीमन्त्राणां पुरश्चरणविधिं शुश्रूषुः श्रीदेव्युवाच कथितमित्यादि ॥ ७५ ॥
श्रीदेव्यैवं प्रेरितः सन् श्रीसदाशिव उवाच यो विधिरित्यादि ॥ ७६ ॥
पुरश्चरणमेव च पुरश्चरणमपि च सङ्क्षेपतः कार्यम् ॥ ७७ ॥
यतो हि निरनुष्ठानात् स्वल्पानुष्ठानमुत्तमम् ।
सङ्क्षेपपूजनं भद्रे तत्रादौ शृणु कथ्यते ॥ ७८ ॥
आचम्य मूलमन्त्रेण ऋषिन्यासं समाचरेत् ।
करशुद्धिं ततः कुर्यात् न्यासञ्च करदेहयोः ॥ ७९ ॥
सर्वाङ्गव्यापकं कृत्वा प्राणायामं चरेत् सुधीः ।
ध्यानं पूजां जपञ्चेति सङ्क्षेपपूजने विधिः ॥ ८० ॥
पुरस्क्रियायां मन्त्राणां यत्र यो विहितो जपः ।
तस्माच्चतुर्गुणजपात् पुरश्चर्या विधीयते ॥ ८१ ॥
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ।
कृष्णां चतुर्दशीं प्राप्य कौजे वा शनिवासरे ।
पञ्चतत्त्वं समानीय पूजयित्वा जगन्मयीम् ॥ ८२ ॥
महानिशायामयुतं जपेन्मन्त्रमनन्यधीः ।
भोजयित्वा ब्रह्मनिष्ठान् पुरश्चरणकृद्भवेत् ॥ ८३ ॥
कुजवासरमारभ्य यावन्मङ्गलवासरम् ।
प्रत्यहं प्रजपेन्मन्त्रं सहस्रपरिसङ्ख्यया ॥ ८४ ॥
सङ्क्षेपपूजादिकरणे हेतुमाह यतो हीति ॥ ७८ ॥
सङ्क्षेपपूजनमेवाह आचम्येयादिभिः ॥ ७९ ॥
सर्वाङ्गव्यापकन्यासम् ॥ ८० ॥
अथ सङ्क्षेपपुरश्चरणमाह पुरस्क्रियायामित्यादिभिः ।
मन्त्राणां यत्र पुरस्क्रियायां यो जपो विहितस्तस्माच्चतुर्गुणजपात् होमादिकं विनैव पुरश्चर्या विधीयते ॥ ८१ ॥ ८२ ॥
अयुतम् दशसहस्रम् ॥ ८३ ॥
वसुसङ्ख्याजपेनैव भवेन्मन्त्रपुरस्क्रिया ॥ ८५ ॥
श्री आद्याकालिकामन्त्राः सिद्धमन्त्राः सुसिद्धिदाः ।
सदा सर्वयुगे देवि कलिकाले विशेषतः ॥ ८६ ॥
कालीरूपाणि बहुधा कलौ जाग्रति पार्वति ।
प्रबले कलिकाले तु रूपमेतज्जगद्धितम् ॥ ८७ ॥
नात्र सिद्ध्याद्यपेक्षास्ति नारि मित्रादिदूषणम् ।
नियमानियमेनापि जपन्नाद्यां प्रसादयेत् ॥ ८८ ॥
ब्रह्मज्ञानमवाप्नोति श्रीमदाद्याप्रसादतः ।
ब्रह्मज्ञानयुतो मर्त्यो जीवन्मुक्तो न संशयः ॥ ८९ ॥
न च प्रयासबाहुल्यं कायक्लेशोऽपि न प्रिये ।
आद्याकालीसाधकानां साधनं सुखसाधनम् ॥ ९० ॥
चित्तसंशुद्धिरेवात्र मन्त्रिणां फलदायिनी ॥ ९१ ॥
यावन्न चित्तकलिलं हातुमुत्सहते व्रती ।
तावत् कर्म प्रकुर्वीत कुलभक्तिसमन्वितः ॥ ९२ ॥
यथावद्विहितं कर्म चित्तशुद्धेर्हि कारणम् ।
आदौ मन्त्रं गुरोर्वक्त्राद् गृह्णीयाद् ब्रह्ममन्त्रवत् ॥ ९३ ॥
अथ तृतीयं पुरश्चरणमाह कुजेत्यादिना सार्द्धेन ।
यावन्मङ्गलवासरम् द्वितीयमङ्गलवारपर्यन्तमित्यर्थः ॥ ८४ � ८६ ॥
एतद्रूपम् आद्यायाः काल्या रूपम् ॥ ८७ ॥
अत्र आद्याकालीमन्त्रे ॥ ८८ � ९१ ॥
यावदिति ।
यावत् कालपर्यन्तं चित्तकलिलञ्चेतसः कालुष्यं हातुं त्यक्तुं नोत्सहते न शक्नोति तावदेव कुलभक्तिसमन्वितो भूत्वा व्रती नियमवान् साधकः
प्रातःकृत्यादिनियमान् कृत्वा कुर्यात् पुरस्क्रियाम् ।
चित्ते शुद्धे महेशानि ब्रह्मज्ञानं प्रजायते ।
ब्रह्मज्ञाने समुत्पन्ने कृत्याकृत्यं न विद्यते ॥ ९४ ॥
श्रीपार्वत्युवाच ।
कुलं किं परमेशान कुलाचारश्च किं विभो ।
लक्षणं पञ्चतत्त्वस्य श्रोतुमिच्छामि तत्त्वतः ॥ ९५ ॥
श्रीसदाशिव उवाच ।
सम्यक् पृष्टं कुलेशानि साधकानां हितैषिणि ।
कथयामि तव प्रीत्यै यथावदवधारय ॥ ९६ ॥
जीवः प्रकृतितत्त्वञ्च दिक्कालाकाशमेव च ।
क्षित्यप्तेजोवायवश्च कुलमित्यभिधीयते ॥ ९७ ॥
ब्रह्मबुद्ध्या निर्विकल्पमेतेष्वाचरणञ्च यत् ।
कुलाचारः स एवाद्ये धर्मकामार्थमोक्षदः ॥ ९८ ॥
कर्म प्रकुर्वीत न तु ततः परम् ।
तत्र कारणमाह यथावदिति ।
हि यतः ॥ ९२ � ९४ ॥
कुलकुलाचारादिकं जिज्ञासुः श्रीपार्वत्युवाच कुलं किमित्यादि ॥ ९५ ॥
एवं प्रेरितः सन् श्रीसदाशिव उवाच सम्यक् पृष्टमित्यादि ॥ ९६ ॥
प्रथमतस्तत्र कुलं निर्वक्ति जीव इत्याद्येकेन ।
जीवादयो नव कुलमित्यभिधीयते कथ्यते ॥ ९७ ॥
अथैकेन कुलाचारं निर्वक्ति ब्रह्मबुद्ध्येति ।
हे आद्ये एतेषु जीवप्रकृत्यादिषु ब्रह्मबुद्ध्या निर्विकल्पं नानाविधकल्पनाशून्यं यदाचरणं स एव धर्मकामार्थमोक्षदः कुलाचारोऽभिधीयते ॥ ९८ ॥
बहुजन्मार्जितैः पुण्यैस्तपोदानदृढव्रतैः ।
क्षीणाघानां साधकानां कुलाचारे मतिर्भवेत् ॥ ९९ ॥
कुलाचारगता बुद्धिर्भवेदाशु सुनिर्मला ।
तदाद्याचरणाम्भोजे मतिस्तेषां प्रजायते ॥ १०० ॥
सद्गुरोः सेवया प्राप्य विद्यामेनां परात्पराम् ।
कुलाचाररता भूत्वा पञ्चतत्त्वैः कुलेश्वरीम् ॥ १०१ ॥
यजन्तः कालिकामाद्यां कुलज्ञाः साधकोत्तमाः ।
इह भुक्त्वाऽखिलान् भोगान् ब्रजन्त्यन्ते निरामयम् ॥ १०२ ॥
महौषधं यज्जीवानां दुःखविस्मारकं महत् ।
आनन्दजनकं यच्च तदाद्यतत्त्वलक्षणम् ॥ १०३ ॥
असंस्कृतञ्च यत्तत्त्वं मोहदं भ्रमकारणम् ।
विवादरोगजननन्त्याज्यं कौलैः सदा प्रिये ॥ १०४ ॥
ग्राम्यवायव्यवन्यानामुद्भूतं पुष्टिवर्द्धनम् ।
बुद्धितेजोबलकरं द्वितीयतत्त्वलक्षणम् ॥ १०५ ॥
अथ कुलाचारस्य सुदुर्लभत्वमाह बहुजन्मार्जितैरित्यादिना ॥ ९९ ॥
अथ कुलाचारस्य अत्युत्तमफलत्वमाह कुलाचारगतेत्यादिभिः ॥
विद्यामेनाम मन्त्रऊपाम् ॥ १०० ॥ १०१ ॥
निरामयम् सर्वोपद्रवरहितं मोक्षपदम् ॥ १०२ ॥
अथ क्रमतो मद्यादिपञ्चतत्त्वानां लक्षणमाह महौषधमित्यादिभिः ॥ १०३ ॥
तत्त्वम् आद्यतत्त्वम् ॥ १०४ ॥
ग्राम्येत्यादि ।
ग्राम्या ग्रामोद्भवाश्छागादयश्च वायव्या वायूद्भवास्तित्तिरिहारीतादयश्च वन्या वनोद्भवा हरिणादयश्च ते तेषाम् ॥ १०५ ॥
जलोद्भवं यत् कल्याणि कमनीयं सुखप्रदम् ।
प्रजावृद्धिकरञ्चाऽपि तृतीयतत्त्वलक्षणम् ॥ १०६ ॥
सुलभं भूमिजातञ्च जीवानां जीवनञ्च यत् ।
आयुर्मूलं त्रिजगतां चतुर्थतत्त्वलक्षणम् ॥ १०७ ॥
महानन्दकरं देवि प्राणिनां सृष्टिकारणम् ।
अनाद्यन्तजगन्मूलं शेषतत्त्वस्य लक्षणम् ॥ १०८ ॥
आद्यतत्त्वं विद्धि तेजो द्वितीयं पवनं प्रिये ।
अपस्तृतीयं जानीहि चतुर्थं पृथिवीं शिवे ॥ १०९ ॥
पञ्चमं जगदाधारा वियद्विद्धि वरानने ॥ ११० ॥
इत्थं ज्ञात्वा कुलेशानि कुलन्तत्त्वानि पञ्च च ।
आचारं कुलधर्मस्य जीवन्मुक्तो भवेन्नरः ॥ १११ ॥
इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे स्तोत्रकवच कुलतत्त्व लक्षण कथनं नाम सप्तमोल्लासः ।
कमनीयमाकाङ्क्षणीयम् ॥ १०६ � १११ ॥
इति श्रीमहानिर्वाणतन्त्रटीकायां सप्तमोल्लासः ।