०६

षष्ठोल्लासः

श्रीदेव्युवाच ।

यत्त्वया कथितं पञ्चतत्त्वं पूजादिकर्मणि ।
विशिष्य कथ्यतां नाथ यदि तेऽस्ति कृपा मयि ॥ १ ॥

स्रीसदाशिव उवाच ।

गौडी पैष्टी तथा माध्वी त्रिविधा चोत्तमा सुरा ।
सैव नानाविधा प्रोक्ता तालखर्जूरसम्भवा ॥ २ ॥

तथा देशविभेदेन नानाद्रव्यविभेदतः ।
बहुधेयं समाख्याता प्रशस्ता देवतार्चने ॥ ३ ॥

येन केन समुत्पन्ना येन केनाऽहृताऽपि वा ।
नात्र जातिविभेदोऽस्ति शोधिता सर्वसिद्धिदा ॥ ४ ॥


ॐ नमो ब्रह्मणे ।

मद्यादि पञ्चतत्त्वं विशेषतः श्रोतुमिच्छन्ती श्रीदेव्युवाच यत्त्वयेत्यादि ॥ १ ॥

देव्यैवं प्रार्थितः सन् श्रीसदाशिव उवाच गौडीत्यादि ।
गोडी गुडोद्भवा ।
पैष्टी पिष्टोद्भवा ।
माध्वी मधूकपुष्पोद्भवा ।
इति त्रिविधा त्रिःप्रकारा सुरा उत्तमा श्रेष्ठा प्रोक्ता ।
सैव सुरैव ।
सुराया नानाविधत्वमेव दर्शयन्नाह तालखर्जूरेत्यादि ।
इयं सुरा ॥ २ ॥ ३ ॥

येनेति ।
आहृता आनीता ।
अत्र सुराविषये ॥ ४ ॥


मांसन्तु त्रिविधं प्रोक्तं जलभूचरखेचरम् ।
यस्मात् तस्मात् समानीतं येन तेन विघातितम् ।
तत् सर्वं देवताप्रीत्यै भवेदेव न संशयः ॥ ५ ॥

साधकेच्छा बलवती देये वस्तुनि दैवते ।
यद्यदात्मप्रियं द्रव्यं तत्तदिष्टाय कल्पयेत् ॥ ६ ॥

बलिदानविधौ देवि विहितः पुरुषः पशुः ।
स्त्रीपशुर्न च हन्तव्यस्तत्र शाम्भवशासनात् ॥ ७ ॥

उत्तमास्त्रिविधा मत्स्याः शालपाठीनरोहिताः ।
मध्यमाः कण्टकैर्हीना अधमा बहुकण्टकाः ।
तेऽपि देव्यै प्रदातव्या यदि सुष्ठु विभर्जिताः ॥ ८ ॥

मुद्राऽपि त्रिविधा प्रोक्ता उत्तमादिविभेदतः ।
चन्द्रबिम्बनिभं शुभ्रं शालितण्डुलसम्भवम् ।
यवगोधूमजं वाऽपि घृतपक्वं मनोरमम् ॥ ९ ॥

मुद्रेयमुत्तमा मध्या भ्रष्टधान्यादिसम्भवा ।
भर्जितान्यन्यबीजानि अधमा परिकीर्तिता ॥ १० ॥


मांसस्य त्रिविधत्वमेव दर्शयति जलेत्यादिना ।
जलचरं कूर्मादिमांसम् ।
भूचरं छागादिमांसम् ।
खेचरं तित्तिरिहारीतादिमांसम् ।
तत् सर्वम् मांसम् ॥ ५ ॥
कल्पयेत् समर्पयेत् ॥ ६ ॥

बलिदानेति ।
पुरुषः पुंस्त्वावच्छिन्नः ।
तत्र बलिदानविधौ ॥ ७ ॥

मुद्रेति ।
चन्द्रबिम्बनिभम् चन्द्रमण्डलसदृशम् शुभ्रम् श्वेतम् शालितण्डुलसम्भवम् शष्कुल्यादि ।
भ्रष्टधान्यादिसम्भवा लाजादि ॥ ९ ॥ १० ॥


मांसं मीनश्च मुद्रा च पहलमूलानि यानि च ।
सुधादाने देवतायै सञ्ज्ञैषां शुद्धिरीरिता ॥ ११ ॥

विना शुद्द्ध्या हेतुदानं पूजनं तर्पणं तथा ।
निष्फलं जायते देवि देवता न प्रसीदति ॥ १२ ॥

शुद्धिं विना मद्यपानं केवलं विषभक्षणम् ।
चिररोगी भवेन्मन्त्री स्वल्पायुर्म्रियतेऽचिरात् ॥ १३ ॥

शेषतत्त्वं महेशानि निर्वीये प्रबले कलौ ।
स्वकीया केवला ज्ञेया सर्वदोषविवर्जिता ॥ १४ ॥

अथवाऽत्र स्वयम्भ्वादि कुसुमं प्राणवल्लभे ।
कथितं तत्प्रतिनिधौ कुसीदं परिकीर्तितम् ॥ १५ ॥

अशोधितानि तत्त्वानि पत्रपुष्पफलानि च ।
नैव दद्यान्महादेव्यै दत्त्वा वै नारकी भवेत् ॥ १६ ॥


मांसमित्यादि ।
देवतायै सुधादाने सुरासमर्पणे एषां मांसादीनां शुद्धिरिति सञ्ज्ञा ईरिता कथिता ॥ ११ ॥

मांसादीनां शुद्धिसञ्ज्ञाविधाने प्रयोजनं दर्शयन्नाह विना शुद्ध्येत्यादि ।
विना शुद्ध्या मांसादिकं विना हेतुदानम् सुरासमर्पणम् ॥ १२ ॥

शुद्धिमिति ।
शुद्धिम् मांसादिकम् ।
अचिरात् अत्यल्पमेव कालमतीत्य ॥ १३ ॥

शेषतत्त्वमिति ।
शेषतत्त्वम् मैथुनम् ।
निर्वीर्ये निस्तेजसि ।
स्वकीया आत्मीया शक्तिः ॥ १४ ॥

अथवेत्यादि ।
अत्र शेषतत्त्वविधौ ।
तत्प्रतिनिधौ स्वयम्भ्वादि कुसुमप्रतिनिधौ ।
कुसीदम् रक्तचन्दनम् ॥ १५ ॥

अशोधितानि सुरामांसादीनि महादेव्यै ददतः साधकस्य नरकगामित्वमाह अशोधितानीत्यादिना ॥ १६ ॥


श्रीपात्रस्थापनं कुर्यात् स्वीयया गुणशीलया ।
अभिषिञ्चेत् कारणेन सामान्यार्घ्योदकेन वा ॥ १७ ॥

आदौ बालां समुच्चार्यं त्रिपुरायै ततो वदेत् ।
नमःशब्दावसाने च इमां शक्तिमुदीरयेत् ॥ १८ ॥

पवित्रीकुरुशब्दान्ते मम शक्तिं कुरु द्विठः ॥ १९ ॥

अदीक्षिता यदा नारी कर्णे मायां समुच्चरेत् ।
शक्तयोऽन्याः पूजनीयाः नाऽर्ह्यास्ताडनकर्मणि ॥ २० ॥

अथात्मयन्त्रयोर्मध्ये मायागर्भं त्रिकोणकम् ।
वृत्तं षट्कोणमालिख्य चतुरस्रं लिखेद्वहिः ॥ २१ ॥


श्रीपात्रेत्यादि ।
स्वीयया शक्त्या सह ।
अभिषिञ्चेत् स्वीयां शक्तिमिति शेषः ।
कारणेन सुरया ॥ १७ ॥

ननु केन मन्त्रेण स्वीया शक्तिरभिषेक्तव्येत्याकाङ्क्षायां तदभिषेकमन्त्रमाह आदावित्यादिना सार्द्धेन ।
आदौ बालाम् ऐ।
क्ली।
सौरिति समुच्चार्य ततस्त्रिपुरायै इति वदेत् ।
ततस्तदन्ते पठितस्य नमः शब्दस्यावसानेऽन्ते इमां शक्तिमुदीरयेदुच्चरेत् ।
तदन्ते च पठितस्य पवित्रीकुरुशब्दस्यान्ते मम शक्तिं कुरु इति वदेत् ।
ततो द्विठः स्वाहेति वदेत् ।
योजनया ऐ।
क्ली।
सौः त्रिपुरायै नमः इमां शक्तिं पवित्रीकुरु मम शक्तिं कुरु स्वाहेति स्वीयाभिषेके मन्त्रो जातः ॥ १८ ॥ १९ ॥

अदीक्षितेति ।
मायाम् ह्री।
बीजम् ।
अन्याः तत्रोपविष्टाः स्वीयाभिन्नाः ताडनकर्मणि मैथुनकर्मणि ॥ २० ॥

अथेत्यादि ।
अथानन्तरमात्मयन्त्रयोरात्मनो यन्त्रराजस्य च मध्ये मायागर्भं माया ह्री।
बीजं गर्भे यस्यैवम्भूतं त्रिकोणकं तद्बहिर्वृत्तं तद्बहिश्च षट्कोणं मण्डलमालिख्य ततोऽपि बहिश्चतुरस्रं चतुष्कोणं मण्डलं लिखेत् ॥ २१ ॥


अस्रकोणे पूर्णशैलमुड्डीयानन्तथैव च ।
जालन्धरं कामरूपं सचतुर्थीनमोऽन्तकम् ।
निजनामादिबीजाढ्यं पूजयेत् साधकोत्तमः ॥ २२ ॥

षट्कोणेषु षडङ्गानि मूलेनैव त्रिकोणकम् ।
मायामाधारशक्तिञ्च नमोऽन्तेन प्रपूजयेत् ॥ २३ ॥

नमसा क्षालिताधारं संस्थाप्य तत्र पूर्ववत् ।
वृत्तोपरि यजेद्वह्नेः कलाः स्वस्वादिमाक्षरैः ॥ २४ ॥


अस्रकोणे इति ।
ततो निजनामादिबीजाढ्यमात्मनामसम्बन्ध्यादिमाक्षररूपबीजस ंयुक्तं सचतुर्थीनमोऽन्तकं सचतुर्थि चतुर्थीसहितं नमोऽन्तकं नमोऽन्ते यस्य तथाभूतं पूर्णशैलम् उड्डीयानं जालन्धरं कामरूपं चास्रकोणे चतुष्कोणमण्डलस्य चतुर्षु कोणेषु साधकोत्तमः पूजयेत् ।
पूं पूर्णशैलाय पीठाय नमः इत्यनेन प्रथमकोणे पूर्णशैलम् ।
उम् उड्डीयानाय पीठाय नमः इत्यनेन द्वितीयकोणे उड्डीयानम् ।
जां जालन्धराय पीठाय नमः इत्यनेन तृतीयकोणे जालन्धरम् ।
कां कामरूपाय पीठाय नमः इत्यनेन चतुर्थकोणे कामरूपं पूजयेदित्यर्थः ॥ २२ ॥

षट्कोणेष्विति ।
ततः षट्कोणमण्डलस्य षट्कोणेषु ह्रा।
नमः ह्री।
नमः ह्रू।
नमः ह्रै।
नमः ह्रौ।
नमः ह्र।
ः नमः इति मन्त्रैः षडङ्गानि षट्कोणाधिष्ठातृदैवतानि प्रपूजयेत् ।
मूलेनैव मन्त्रेण त्रिकोणकं त्रिकोणाधिष्ठातृदैवतं प्रपूजयेत् ।
मायामित्यादि ।
पूर्वं मायां ह्री।
बीजं ततो नमोऽन्तेन नमसाऽन्तेन सहाधारशक्तिञ्च वदेत् ।
योजनया ह्री।
आधारशक्तये नम इति मन्त्रो जातः ।
अनेन मन्त्रेण मण्डले आधारदेवतां पूजयेत् ॥ २३ ॥

नमसेति ।
ततो नमसा नमोमन्त्रेण क्षालितमाधारं पूर्ववत् कलशस्थापने इव तत्र मण्डले संस्थाप्य वृत्तोपरि वर्तुलमण्डलोपरि संस्थापिताधारे वह्नेः कलाः


धूम्राऽर्चिर्ज्वलिनी सूक्ष्मा ज्वालिनी विष्फुलिङ्गिनी ।
सुश्रीः सुरूपा कपिला हव्यकव्यवहा तथा ॥ २५ ॥

सचतुर्थीनमोऽन्तेन पूज्या वह्नेः कला दश ॥ २६ ॥

म वह्निमण्डलायेति दशान्ते च कलात्मने ।
अवसाने नमो दत्त्वा पूजयेद्वह्निमण्डलम् ॥ २७ ॥

ततोऽर्घ्यपात्रमानीय फट्कारेण विशोधितम् ।
आधारे स्थापयित्वा तु कलाः सूर्यस्य द्वादश ।
कभादिवर्णबीजेन ठडान्तेन प्रपूजयेत् ॥ २८ ॥

तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।
सुधूम्रा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ २९ ॥


यजेत् ।
वह्नेर्याः कलाः यजेत्ता आह ।
धूम्राद्या दशकलाः पूज्याः ।
यथा धूं धूम्रायै नमः इति धूम्रा ।
अम् अर्चिषे नमः इत्यनेनार्चिः ।
ज्वं ज्वलिन्यै नमः इति ज्वलिनी ।
सूं सूक्ष्मायै नमः इत्यनेन सूक्ष्मा ।
ज्वां ज्वालिन्यै नमः इत्यनेन ज्वालिनी ।
विं विष्फुलिङ्गिन्यै नमः इति विष्फुलिङ्गिनी ।
सुं सुश्रिये नमः इति सुश्रीः ।
सुं सुरूपायै नमः इत्यनेन सुरूपा ।
कं कपिलायै नमः इति कपिला ।
हं हव्यकव्यवहायै नमः इत्यनेन हव्यकव्यवहा पूज्येति ॥ २४ � २६ ॥

ममित्यादि ।
पूर्वं मं वह्निमण्डलायेति दत्त्वा ततो दशान्ते कलात्मने इति दत्त्वा अवसाने तदन्ते च नमो दत्त्वा वह्निमण्डलं पूजयेत् ।
मं वह्निमण्डलाय दशकलात्मने नमः इति मन्त्रेणाधारे वह्निमण्डलमर्चयेदित्यर्थः ॥ २७ ॥

तत इत्यादि ।
ततोऽनन्तरं फट्कारेण फटा मन्त्रेण विशोधितमर्घ्यपात्रमानीयाऽधारे स्थापयित्वा तत्र सूर्यस्य द्वादशकलाः सानुस्वारेण ठडान्तेन ठडौ अन्तौ यस्य कभादिवर्णबीजस्य तत् ठडान्तं तेन कभादिवर्णबीजेन कादिभादि वर्णरूपेण बीजेन सहितेन सचतुर्थीनमोऽन्तेन नाममन्त्रेण प्रपूजयेत् ॥ २८ ॥

याः सूर्यकलाः प्रपूजयेत्ता आह तपिनीत्याद्येकेन ।
यथा कं भं तपिन्यै नमः इति तपिनीम् खं बं तापिन्यै नमः इति तापिनीम् गं फं धूम्रायै नमः इति


अं सूर्यमण्डलायेति द्वादशान्ते कलात्मने ।
नमोऽन्तेनाऽर्घ्यपात्रे तु पूजयेत् सूर्यमण्डलम् ॥ ३० ॥

विलोममातृकां तद्वन्मूलमन्त्रं समुच्चरन् ।
त्रिभागं पूरयेन्मन्त्री कलशस्थेन हेतुना ॥ ३१ ॥

विशेषार्घ्यजलैः शेषं पूरयित्वा समाहितः ।
षोडशस्वरबीजेन नाममन्त्रेण पूजयेत् ।
सचतुर्थीनमोऽन्तेन कलाः सोमस्य षोडश ॥ ३२ ॥


धूम्राम् घं पं मरीच्यै नमः इति मरीचिम् ङं नं ज्वालिन्यै नमः इति ज्वालिनीम् चं धं रुचये नमः इति रुचिम् छं दं सुधूम्रायै नमः इति सुधूम्राम् जं थं भोगदायै नमः इति भोगदाम् झं तं विश्वायै नमः इति विश्वाम् ञं णं बोधिन्यै नमः इति बोधिनीम् टं ढं धारिण्यै नमः इति धारिणीम् ठं डं क्षमायै नमः इति क्षमां प्रपूजयेदिति ॥ २९ ॥

अमित्यादि ।
पूर्वम् अं सूर्यमण्डलायेत्युक्त्वा ततो द्वादशान्ते कलात्मने इति वदेत् ।
योजनया अं सूर्यमण्डलाय द्वादशकलात्मने इति आसीत् नमोऽन्तेनानेन मन्त्रेणार्घ्यपात्रे सूर्यमण्डलं पूजयेत् ॥ ३० ॥

विलोमेत्यादि ।
ततो मन्त्री साधकस्तद्वत् कलशपूरणे इव विलोममातृकां सानुस्वारान् क्षकारादीनकारान्तान् वर्णान् समुच्चरन् तेषामन्ते मूलमन्त्रञ्च ससुच्चरन् सन् कलशस्थेन हेतुना सुरयाऽर्घ्यपात्रस्य त्रिभागं पूरयेत् ॥ ३१ ॥

विशेषेत्यादि ।
समाहितः सावधानः सन् अर्घ्यपात्रस्य शेषञ्चतुर्थं भागं विशेषार्घ्यजलैः पूरयित्वा सानुस्वारेण षोडशस्वरबीजेन सहितेन सचतुर्थीनमोऽन्तेन नाममन्त्रेण सोमस्य षोडशकलाः अर्घ्यपात्रस्य तोये पूजयेत् ॥ ३२ ॥


अमृता मानदा पूषा तुष्टिः पुष्टीरतिर्धृतिः ।
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ।
पूऋणा पूर्णामृता कामदायिन्यः शशिनः कलाः ॥ ३३ ॥

ऊं सोममण्डलायेति षोडशान्ते कलात्मने ।
नमोऽन्तेन यजेन्मन्त्री पूर्ववत् सोममण्डलम् ॥ ३४ ॥

दूर्वाक्षतं रक्तपुष्पं बर्वरामपराजिताम् ।
मायया प्रक्षिपेत् पात्रे तीर्थमावाहयेदपि ॥ ३५ ॥


याः सोमस्य कलाः पूजयेत्ता आह अमृतेत्यादिना सार्द्धेन ।
यथा अम् अमृतायै नमः इत्यमृताम् आं मानदायै नमः इति मानदाम् इं पूषायै नमः इति पूषाम् ईं तुष्टये नमः इति तुष्टिम् उं पुष्टये नमः इति पुष्टिम् ऊं रतये नमः इति रतिम् ऋं धृतये नमः इति धृतिं ॠं शशिन्यै नमः इति शशिनीम् ऌं चन्द्रिकायै नमः इति चन्द्रिकां ॡं कान्तये नमः इति कान्तिम् एं ज्योत्स्नायै नमः इति ज्योत्स्नाम् ऐं श्रियै नमः इति श्रियं ॐ प्रीतये नमः इति प्रीतिम् औम् अङ्गदायै नमः इत्यङ्गदाम् अं पूर्णायै नमः इति पूर्णाम् अंः पूर्णामृतायै नमः इत्यनेन पूर्णामृतां पूजयेदिति ॥ ३३ ॥

ऊमित्यादि ।
पूर्वम् ऊं सोममण्डलायेत्युक्त्वा ततः षोडशान्ते कलात्मने इति वदेत् ।
योजनया ऊं सोममण्डलाय षोडशकलात्मने इत्यासीत् ।
नमोऽन्तेनानेन मन्त्रेण मन्त्री साधकः पूर्ववत् कलशतोय इवार्घ्यपात्रतोये सोममण्डलं यजेत् ॥ ३४ ॥

दूर्वेत्यादि ।
ततो दूर्वया सहितानक्षतान् रक्तं पुष्पं बर्वरां वर्वरापत्रमपराजिताञ्च पुष्पं मायया ह्री।
बीजेन पात्रे प्रक्षिपेत् तत्रैव तीर्थमप्यावाहयेत् ॥ ३५ ॥


कवचेनाऽवगुण्ठ्याऽस्त्रमुद्रया रक्षणञ्चरेत् ।
धेन्वा चैवामृतीकृत्य छादयेन्मत्स्यमुद्रया ॥ ३६ ॥

मूलं सञ्जप्य दशधा देवतावाहनञ्चरेत् ।
आवाह्य पुष्पाञ्जलिना पूजयेदिष्टदेवताम् ।
अखण्डाद्यैः पञ्चमन्त्रैर्मन्त्रयेत्तदनन्तरम् ॥ ३७ ॥

अखण्डैकरसानन्दाकरे परसुधात्मनि ।
स्वच्छन्दस्फुरणामत्र निधेहि कुलरूपिणि ॥ ३८ ॥

अनङ्गस्थामृताकारे शुद्धज्ञानकलेवरे ।
अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ॥ ३९ ॥


कवचेनेति ।
ततः कवचेन हूबीजेनावगुण्ठ्यावगुण्ठनमुद्रयाऽर्घ्यपात्रस्थं सुधातोयं वेष्टयित्वाऽस्त्रमुद्रया तस्यैव रक्षणञ्चरेत् कुर्यात् ।
धेन्वा मुद्रया च तदेवाऽमृतीकृत्य मत्स्यमुद्रयाच्छादयेत् ॥ ३६ ॥

मूलमिति ।
ततोऽर्घ्यपात्रस्थसुधातोयस्योपरि मूलं मन्त्रं दशधा दशवारं सञ्जप्य तत्रैव देवतावाहनञ्चरेत् ।
इष्टदेवतामावाह्य च पुष्पाञ्जलिना पूजयेत् ।
तदनन्तरमखण्डाद्यैः पञ्चमन्त्रैस्तदेव सुधातोयं मन्त्रयेत् मन्त्रितं कुर्यात् ॥ ३७ ॥

तानेवाखण्डादीन् पञ्चमन्त्रान् क्रमतो दर्शयति अखण्डैकेत्यादि ।
हे कुलरूपिणि अखण्डैकरसानन्दाकरे पूर्णप्रधानानुरागानन्दजनके परसुधात्मनि श्रेष्ठसुरास्वरूपेऽत्र वस्तुनि स्वच्छन्दस्फुरणां स्वतन्त्रां विस्फूर्तिं निधेहि स्थापय ।
गुणे रागे द्रवे रस इत्यमरः ॥ ३८ ॥

अनङ्गेत्यादि ।
हे अनङ्गस्थामृताकारे कामस्थामृतस्वरूपे हे शुद्धज्ञानकलेवरे शुद्धज्ञानरूपशरीरे त्वं क्लिन्नरूपिणि स्तिमितरूपिण्यस्मिन् सुरारूपे वस्तुनि अमृतत्वं निधेहि स्थापय ॥ ३९ ॥


तद्रूपेणैकरस्यञ्च कृत्वाऽर्घ्यं तत्स्वरूपिणि ।
भूत्वा कुलामृताकारं मयि विस्फुरणं कुरु ॥ ४० ॥

ब्रह्माण्डरससम्भूतमशेषरससम्भवम् ।
आपूरितं महापात्रं पीयूषरसमावह ॥ ४१ ॥

अहन्तापात्रभरितमिदन्तापरमामृतम् ।
पराहन्तामये वह्नौ होमस्वीकारलक्षणम् ॥ ४२ ॥

इत्यामन्त्र्य ततस्तस्मिन् शिवयोः सामरस्यकम् ।
विभाव्य पूजयेद्धूपदीपावपि च दर्शयेत् ॥ ४३ ॥


तद्रूपेणेत्यादि ।
हे तत्स्वरूपिणि तत्तत्स्वरूपशालिनि त्वं तद्रूपेण प्रधानमाधुर्यरसरूपेणार्घ्यमर्चार्थं मद्यमैकरस्यं प्रधानमाधुर्यरसविशिष्टं कृत्वा कुलामृताकारं सुधारूपं वस्तु च भूत्वा मयि विस्फुरणं विस्फूर्तिं कुरु ॥ ४० ॥

ब्रह्माण्डेत्यादि ।
हे देवि सुरया पूरितं महापात्रं प्रति ब्रह्माण्डरससम्भूतं ब्रह्माण्डे ये रसास्तेभ्यः सञ्जातमत एवाशेषरससम्भवम् अशेषस्य सर्वस्य रसस्य सम्भवो यत्र तथाभूतं पीयूषरसमावहाऽनय ॥ ४१ ॥

अहन्तेत्यादि ।
अहन्ताऽहम्भावः तद्रूपे पात्रे भरितं धारितं यदिदन्तापरमामृतम् इदन्ता मदीयमिदं मदीयमिदमित्येतद्भावः तद्रूपं यत् परमममृतं तस्य पराहन्तामये परा याऽहन्ताऽहम्भावस्तद्रूपे वह्नौ होमस्वीकारलक्षणं कुर्यात् ।
अहन्तारूपपात्रसहितं तत्स्थापितेदन्तारूपपरमामृतं पराहन्तारूपे वह्नौ जुहुयादित्यर्थः ॥ ४२ ॥

इतीति ।
इति एतैः पञ्चभिर्मन्त्रैर्मद्यमामन्त्र्य ततोऽनन्तरं तस्मिन्मद्ये शिवयोः शिवायाः शिवस्य च सामरस्यमैकरस्यं विभाव्य विचिन्त्य तन्मद्यं पूजयेत् तस्योपरि धूपदीपावपि च दर्शयेत् ॥ ४३ ॥


इति श्रीपात्रसंस्कारः कथितः कुलपूजने ।
अकृत्वा पापभाङ्मन्त्री पूजा च विफला भवेत् ॥ ४४ ॥

घटश्रीपात्रयोर्मध्ये पात्राणि स्थापयेद्बुधः ।
गुरुपात्रं भोगपात्रं शक्तिपात्रमतः परम् ॥ ४५ ॥

योगिनीवीरपात्रे च बलिपात्रं ततः परम् ।
पाद्याचमनयोः पात्रं श्रीपात्रेण नव क्रमात् ।
सामान्यार्घ्यस्य विधिना पात्राणां स्थापनञ्चरेत् ॥ ४६ ॥

कलशस्थामृतेनैव त्रिभागं परिपूर्य च ।
माषप्रमाणं पात्रेषु शुद्धिखण्डं नियोजयेत् ॥ ४७ ॥

वामाङ्गुष्ठानामिकाभ्याममृतं पात्रसंस्थितम् ।
गृहीत्वा शुद्धिखण्डेन दक्षया तत्त्वमुद्रया ।
सर्वत्र तर्पणं कुर्यात् विधिरेषः प्रकीर्तितः ॥ ४८ ॥


इतीति ।
अकृत्वा श्रीपात्रसंस्कारमिति शेषः ॥ ४४ ॥

ननु घटश्रीपात्रयोर्मध्ये किङ्किं पात्रं स्थापयेत् तत्राह गुरुपात्रमित्यादि ॥ ४५ ॥

श्रीपात्रेण सह नव पात्राणि क्रमात् स्थापयेत् ।
ननु केन विधिना पात्राणि स्थापयेत् तत्राह सामान्यार्घ्यस्येत्यादि ॥ ४६ ॥

कलशस्थेत्यादि ।
कलशस्थामृतेनैव तेषां पात्राणां त्रिभागं परिपूर्य माषप्रमाणं शुद्धिखण्डं मांसादिखण्डं पात्रेषु नियोजयेत् स्थापयेत् ॥ ४७ ॥

वामेत्यादि ।
वामाङ्गुष्ठानामिकाभ्यां दक्षया च तत्त्वमुद्रया शुद्धिखण्डेन सहितं पात्रसंस्थितममृतं गृहीत्वा सर्वत्र तर्पणं कुर्यात् ।
सर्वत्र तर्पणे एष विधिः प्रकीर्तितः ॥ ४८ ॥


श्रीपात्रात् परमं बिन्दुं गृहीत्वा शुद्धिसंयुतम् ।
आनन्दभैरवं देवं भैरवीञ्च प्रतर्पयेत् ॥ ४९ ॥

गुरुपात्रामृतेनैव तर्पयेद् गुरुसन्ततिम् ।
सहस्रारे निजगुरुं सपत्नीकं प्रतर्प्य च ।
वाग्भवाद्यस्वस्वनाम्ना तद्वद्गुरुचतुष्टयम् ॥ ५० ॥

ततः स्वहृदयाम्भोजे भोगपात्रामृतेन च ।
आद्यां कालीं तर्पयामि निजबीजपुरःसरम् ॥ ५१ ॥

स्वाहान्तेन त्रिधा मन्त्री तर्पयेदिष्टदेवताम् ।
शक्तिपात्रामृतैस्तद्वदङ्गावरणतर्पणम् ॥ ५२ ॥


श्रीपात्रादिति ।
श्रीपात्राच्छुद्धिसंयुतं परमं बिन्दुं गृहीत्वा हसक्षमलवरयूम् आनन्दभैरवाय वषट् आनन्दभैरवं तर्पयामि नम इत्यनेनानन्दभैरवं देवं सहक्षमलवरयीम् आनन्दभैरव्यै वौषट् आनन्दभैरवीं तर्पयामि स्वाहेत्यनेनानन्दभैरवीञ्च प्रतर्पयेत् ॥ ४९ ॥

गुर्वित्यादि ।
गुरुपात्रामृतेनैव गुरुसन्ततिं गुरुसमूहं तर्पयेत् ।
ननु केन मन्त्रेण कुत्र वा स्थाने गुरुसन्ततिं तर्पयेत्तत्राह सहस्रारे इत्यादि ।
सहस्रारे पद्मे सपत्नीकं निजगुरुं प्रतर्प्य वाग्भवम् ऐ।
बीजमाद्यं यस्य तथाभूतेन स्वस्वनाम्ना निजगुरुणा सह गुरुचतुष्टयं तद्वन्निजगुरुवत् प्रतर्पयेत् ।
यथा ऐ।
सपत्नीकममुकानन्दनाथं श्रीगुरुं तर्पयामि नम इत्यनेन निजगुरुम् ऐ।
सपत्नीकं परमगुरुन्तर्पयामि नम इति परमम् ऐ।
सपत्नीकं परापरगुरुन्तर्पयामि नम इति परापरगुरुम् ऐ।
सपत्नीकं परमेष्टिगुरुन्तर्पयामि नम इति परमेष्टिगुरुं प्रतर्पयेदिति ॥ ५० ॥

तत इत्यादि ।
ततोऽनन्तरं निजबीजपुरःसरं यथास्यात्तथा स्वाहान्तेन स्वाहारूपेणान्तेन सहाद्यां कालीन्तर्पयामीत्युच्चरन्मन्त्री साधको भोगपात्रामृतेन


योगिनीपात्रसंस्थेन सायुधां सपरीकराम् ।
सन्तर्प्य कालिकामाद्यां वटुकेभ्यो बलिं हरेत् ॥ ५३ ॥

स्ववामभागे सामान्यं मण्डलं रचयेत् सुधीः ।
सम्पूज्य स्थापयेत्तत्र सामिषान्नं सुधान्वितम् ॥ ५४ ॥

वाङ्मायाकमलावञ्च वटुकाय नमः पदम् ।
सम्पूज्य पूर्वभागे च वटुकस्य बलिं हरेत् ॥ ५५ ॥


स्वहृदयाम्भोजे इष्टदेवतां त्रिधा त्रिवारन्तर्पयेत् ।
ह्री।
श्री।
क्री।
परमेश्वरि स्वाहा आद्यां कालीन्तर्पयामि स्वाहेति मन्त्रेण तर्पयेदित्यर्थः ।
ततः शक्तिपात्रामृतैस्तद्वदेवाङ्गावरणतर्पणं कुर्यात् ।
अङ्गदेवतास्तर्पयामि स्वाहेत्यनेनाङ्गदेवताः आवरणदेवतास्तर्पयामि स्वाहेत्यनेनावरणदेवताश्च तर्पयेदित्यर्थः ॥ ५१ ॥ ५२ ॥

योगिनीत्यादि ।
योगिनीपात्रसंस्थेनामृतेन ह्री।
श्री।
क्री।
परमेश्वरि स्वाहा सायुधां सपरीकरामाद्यां कालीं तर्पयामि स्वाहेति मन्त्रेण सायुधामायुधविशिष्टां सपरीकरां परिवारसहितामाद्यां कालिकां सन्तर्प्य वटुकेभ्यो बलिं हरेत् दद्यात् ॥ ५३ ॥
वटुकादिभ्यो बलिदानस्य विधिमाह स्ववामभागे इत्यादि ।
सुधीः धीरः स्ववामभागे सामान्यञ्चतुष्कोणं मण्डलं रयेयेत् ।
तन्मण्डलं सम्पूज्य तत्र मण्डले चतुर्दिक्षु तन्मध्ये च सुधान्वितं सुरासंयुक्तं सामिषान्नं मांसादिसहितमन्नं स्थापयेत् ॥ ५४ ॥
वाङ्मायेत्यादि ।
वाङ्मायाकमलावञ्च ऐ।
ह्री।
श्री।
सहितं व।
चेति बीजमुक्त्वा वटुकाय नम इति पदं वदेत् ।
योजनया ऐ।
ह्री।
श्री।
व।
वटुकाय नम इति मन्त्रो जातः ।
अनेनैव मन्त्रेण मण्डलस्य पूर्वभागे वटुकं सम्पूज्य तत्रैव एषः सुधामिषान्वितान्नवलिः ऐ।
ह्री।
श्री।
वं वटुकाय नम इति मन्त्रेण वटुकस्य बलिं हरेत् दद्यात् ॥ ५५ ॥


ततस्तु यां योगिनीभ्यः स्वाहा याम्यां हरेद्वलिम् ॥ ५६ ॥

षड्दीर्घयुक्तं सम्वर्तं क्षेत्रपालाय हृन्मनुः ।
अनेन क्षेत्रपालाय बलिं दद्यात्तु पश्चिमे ॥ ५७ ॥

खान्तबीजं समुद्धृत्य षड्दीर्घ स्वरसंयुतम् ।
ङेऽन्तं गणपतिं चोक्त्वा वह्निजायान्ततो वदेत् ॥ ५८ ॥

उत्तरस्यां गणेशाय बलिमेतेन कल्पयेत् ।
मध्ये तथा सर्वभूतबलिं दद्याद् यथाविधि ॥ ५९ ॥

ह्री।
श्री।
सर्वपदञ्चोक्त्वा विघ्नकृद्भ्यस्ततो वदेत् ।
सर्वभूतेभ्य इत्युक्त्वा हू।
फट् स्वाहा मनुर्मतः ॥ ६० ॥


ततस्त्विति ।
ततोऽनन्तरम् एषः सुधामिषान्वितान्नवलिर्यां योगिनीभ्यः स्वाहेति मन्त्रेण याम्यां मण्डलस्य दक्षिणे भागे योगिनीभ्यो बलिं हरेत् ॥ ५६ ॥

षडित्यादि ।
षड्दीर्घयुक्तं सम्वर्तं क्षकारमुक्त्वा ततः क्षेत्रपालायेत्युक्त्वा ततो हृत् नम इति वदेत् ।
सर्वपदयोजनया क्षा।
क्षी।
क्षू।
क्षै।
क्षौ।
क्ष।
ः क्षेत्रपालाय नम इति मनुर्जातः ।
एषः सुधामिषान्वितान्नवलिरित्याद्येनानेनैव मनुना मण्डलस्य पश्चिमे भागे क्षेत्रपालाय बलिं दद्यात् ॥ ५७ ॥

खान्तेत्यादि ।
षड्दीर्घस्वरसंयुतं खान्तबीजं स्वस्यान्तो गकारस्तद्रूपं बीजं समुद्धृत्य ततो ङेऽन्तं गणपतिञ्चोक्त्वा ततो वह्निजायां स्वाहेति वदेत् ।
योजनया गा।
गी।
गू।
गै।
गौ।
ग।
ः गणपतये स्वाहेति मन्त्रो जातः ।
एषः सुधामिषान्वितान्नवलिरित्याद्येनानेनैव मन्त्रेण उत्तरस्यां मण्डलस्योत्तरे भागे गणेशाय बलिं कल्पयेद्दद्यात् ।
तथैव मण्डलस्य मध्ये यथाविधि विधिवत् सर्वभूतवलिं दद्यात् ॥ ५८ ॥ ५९ ॥

सर्वभूतेभ्यो बलिदानस्य मन्त्रमाह एकेन ह्रीमिति ।
ह्री।
श्री।
सर्वपदमुक्त्वा ततो विघ्नकृद्भ्यः इति वदेत् ।
ततः सर्वभूतेभ्य इत्युक्त्वा हूं फट्


ततः शिवायै विधिवद्वलिमेकं प्रकल्पयेत् ।
गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि ॥ ६१ ॥

शुभाशुभं फलं व्यक्तं ब्रूहि गृह्ण बलिं तव ।
मूलमेष बलिः पश्चात् शिवायै नम इत्यपि ।
चक्रानुष्ठानमेतत्तु तवाग्रे कथितं शिवे ॥ ६२ ॥

चन्दनागुरुकस्तूरिवासितं सुमनोहरम् ।
पुष्पं गृहीत्वा पाणिभ्यां करकच्छपमुद्रया ॥ ६३ ॥

नीत्वा स्वहृदयाम्भोजे ध्यायेदाद्यां परात्पराम् ॥ ६४ ॥


स्वाहेति वदेत् ।
योजनया ह्री।
श्री।
सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हू।
फट् स्वाहेति मनुर्जातः ।
एष सुधामिषान्वितान्नवलिरित्याद्योऽयमेव मनुः सर्वभूतेभ्यो वलिदाने मतः ॥ ६० ॥

तत इति ।
ततोऽनन्तरं शिवायै फेत्कारिकायै विधिवदेकं वलिं प्रकल्पयेत् दद्यात् ।
शिवायै बलिदानस्य मन्त्रमाह सार्द्धेन ।
गृह्णेति ।
गृह्ण देवि महाभागे इत्याद्युक्त्वा मूलमन्त्रं वदेत् ।
ततः एष बलिरित्युक्त्वा पश्चात् शिवायै नम इत्यपि वदेत् ।
सकलपदयोजनया गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि शुभाशुभफलं व्यक्तं ब्रूहि गृह्ण बलिं तव ह्री।
श्री।
क्री।
परमे स्वाहा एष बलिः शिवायै नम इति मन्त्री जातः ।
अनेनैव शिवायै बलिं दद्यात् ॥ ६१ ॥ ६२ ॥

चन्दनेत्यादि ।
ततश्चन्दनागुरुकस्तूरिवासितं सुमनोहरं पुष्पं पाणिभ्यां गृहीत्वा करकच्छपमुद्रया हृदि नीत्वा च स्वहृदयाम्भोजे परात्परामाद्यां कालीं ध्यायेत् ॥ ६३ ॥ ६४ ॥


सहस्रारे महापद्मे सुषुम्नाब्रह्मवर्त्मना ।
नीत्वा सानन्दितां कृत्वा बृहन्निश्वासवर्त्मना ।
दीपाद्दीपान्तरमिव तत्र पुष्पे नियोज्य च ॥ ६५ ॥

यन्त्रे निधापयेन्मन्त्री दृढभक्तिसमन्वितः ।
कृताञ्जलिपुटो भूत्वा प्रार्थयेदिष्टदेवताम् ॥ ६६ ॥

देवेशि भक्तिसुलभे परिवारसमन्विते ।
यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ॥ ६७ ॥

क्रीमाद्ये कालिके देवि परिवारादिभिः सह ।
इहागच्छ द्विधा प्रोक्त्वा इह तिष्ठ द्विधा पुनः ॥ ६८ ॥

इह शब्दात् सन्निधेहि इह सन्निपदात्ततः ।
रुध्यस्व पदमाभाष्य मम पूजां गृहाण च ॥ ६९ ॥

इत्थमावाहनं कृत्वा देव्याः प्राणान् प्रतिष्ठयेत् ॥ ७० ॥


सहस्रारे इति ।
स्वहृदयाम्भोजे ध्यात्वा चाद्यां कालीं ततः सुषुम्ना या नाडी तद्रूपेण ब्रह्मवर्त्मना सहस्रारे महापद्मे नीत्वा प्रापय्य सुधापायनया सानन्दितामानन्दयुताञ्च कृत्वा दीपाद्दीपान्तरमिवान्यं दीपमिव तस्या एव काल्याः सकाशादपरामाद्यां कालीं वृहन्निश्वासवर्त्मना नासापुटेन वहिरानीय तत्र पाणिसंस्थे पुष्पे नियोज्य संस्थाप्य च दृढभक्तिसमन्वितो मन्त्री हस्तस्थपुष्पस्थापितां देवीं यन्त्रे निधापयेत् स्थापयेत् ।
ततः कृताञ्जलिपुटो भूत्वेष्टदेवतां प्रार्थयेत् ॥ ६५ ॥ ६६ ॥

किं प्रार्थयेत्तत्राह देवेशीत्यादि ॥ ६७ ॥

क्रीमाद्ये इत्यादि ।
क्रीमाद्ये कालिके देवि परिवारादिभिः सहेति प्रोच्य ततो द्विधा द्विवारमिहागच्छेति च प्रोच्य ततः पुनर्द्विधा इह तिष्ठेति _______________________________________

आ।
ह्री।
क्रो।
श्री।
वह्निजायाप्रतिष्ठामत्र ईरितः ।
अमुष्या देवतायाश्च प्राणा इह ततः परम् ।
प्राणा इति ततः पञ्चबीजानि तदनन्तरम् ॥ ७१ ॥

अमुष्या जीव इह च स्थित इत्युच्चरेत् पुनः ।
पञ्चबीजान्यमुष्याश्च सर्वेन्द्रियाणि कीर्तयेत् ॥ ७२ ॥

पुनस्तत्पञ्चबीजानि अमुष्यावचनात्ततः ।
वाङ्मनोनयनघ्राणश्रोत्रत्वक्पदतो वदेत् ॥ ७३ ॥

प्राणा इहागत्य सुखं चिरन्तिष्ठन्तु ठद्वयम् ॥ ७४ ॥


प्रोच्य ततः पुनरिह शब्दात् सन्निधेहीति प्रोच्य तत इह सन्नीतिपदात् रुध्यस्वेतिपदमाभाष्य ततो मम पूजां गृहाणेति वदेत् ।
सकलपदयोजनया क्रीमाद्ये कालिके देवि परिवारादिभिः सहेहागच्छेहागच्छेह तिष्ठेह तिष्ठेह सन्निधेहि इह सन्निरुध्यस्व मम पूजां गृहाणेति मन्त्रो जातः ।
इत्थमनेन प्रकारेणानेन मन्त्रेण देव्या आवाहनं कृत्वा तस्या एव प्राणान् प्रतिष्ठयेत् प्राणप्रतिष्ठां कुर्यादित्यर्थः ॥ ६८-७० ॥

ननु केन मन्त्रेण देव्याः प्राणान् प्रतिष्ठयेदित्यपेक्षायां प्राणप्रतिष्ठामन्त्रमाह चतुर्भिः आमित्यादि ।
आ।
ह्री।
क्रो।
श्रीमित्युक्त्वा वह्निजाया स्वाहा वक्तव्या ।
ततोऽमुष्या देवतायाः प्राणा इहेत्युक्त्वा ततः परं प्राणा इत्युच्चरेत् ।
ततः आ।
ह्रीमित्यादीनि पञ्चबीजानि वदेत् ।
तदनन्तरममुष्या जीव इह स्थित इत्युच्चरेत् ।
पुनः तान्येव पञ्चबीजानि वदेत् ।
ततोऽमुष्याः सर्वेन्द्रियाणीति वदेत् ।
पुनस्तानि पञ्चबीजानि वदेत् ।
ततोऽमुष्यावचनात् कथनात् परं वाङ्मनोनयनघ्राणश्रोत्रत्वक्पदं वदेत् ।
तस्माच्च पदात् प्राणा इहागत्य सुखं चिरन्तिष्ठन्त्विति वदेत् ।
ततः ठद्वयं स्वाहेति वदेत् ।
सकलपदयोजनया आ।
ह्री।
क्रो।
श्री।
स्वाहा आद्या कालीदेवतायाः प्राणा इह प्राणाः आ।
ह्री।


इति त्रिधा यन्त्रमध्ये लेलिहानाख्यमुद्रया ।
संस्थाप्य विधिवत् प्राणान् कृताञ्जलिपुटो वदेत् ॥ ७५ ॥

आद्ये कालि स्वागतन्ते सुस्वागतमिदन्तव ।
आसनञ्चेदमत्र त्वयाऽस्यतां परमेश्वरि ॥ ७६ ॥

ततो विशेषार्घ्य जलैस्त्रिधा मूलं समुच्चरन् ।
प्रोक्षयेद्देवशुद्ध्यर्थं षडङ्गैः सकलीकृतिः ।
ततः सम्पूजयेद्देवीं षोडशैरुपचारकैः ॥ ७७ ॥


क्रो।
श्री।
स्वाहा आद्याकालीदेवताया जीव इह स्थितः आ।
ह्री।
क्रो।
श्री।
स्वाहा आद्याकालीदेवतायाः सर्वेन्द्रियाणि आ।
ह्री।
क्रो।
श्री।
स्वाहा आद्याकालीदेवताया वाङ्मनोनयनघ्राणश्रोत्रत्वक्प्राणाः इहागत्य सुखं चिरन्तिष्ठन्तु स्वाहेति प्राणप्रतिष्ठामन्त्र ईरितः ॥ ७१ � ७४ ॥

इतीति ।
इत्यनेनैव प्राणप्रतिष्ठामन्त्रेण त्रिधा वारत्रयं गुरूपदिष्टया लेलिहानाख्यमुद्रया यन्त्रमध्ये देव्याः प्राणान् विधिवत् संस्थाप्य कृताञ्जलिपुटः सन् वदेत् ।
लेलिहानाख्यमुद्रा यथा दक्षिणामूर्तिसंहितायाम् ।

तर्जनीमध्यमानामाः समं कुर्यादधोमुखम् ।
अनामायां क्षिपेद्वृद्धामृजुं कृत्वा कनिष्ठिकाम् ।
लेलिहानाख्यमुद्रेयं जीवन्यासे प्रकीर्तितेति ॥ ७५ ॥

किं वदेदित्यपेक्षायामाह आद्ये इत्यादि ।
सुष्ठु आगतं स्वागतम् ॥ ७६ ॥

तत इत्यादि ।
ततो मूलं मन्त्रं त्रिधा समुच्चरन् देवशुद्ध्यर्थं विशेषार्घ्यजलैर्देवीं प्रोक्षयेत् अभिषिञ्चेत् ।
षडङ्गैः ह्रा।
हृदयाय नमः ह्री।
शिरसे स्वाहा ह्रू।
शिखायै वषट् ह्रै।
कवचाय हुम् ह्रौ।
नेत्रत्रयाय वौषट् ह्र।
ः अस्त्राय फट् इति मन्त्रैर्देव्याः सकलीकृतिः समस्तीकरणं विधेयम् ।
सकलीकरणं यथा ।

देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिरिति ॥ ७७ ॥


पाद्यार्घ्याचमनीयञ्च स्नानं वसनभूषणे ।
गन्धपुष्पे धूपदीपौ नैवेद्याचमने तथा ॥ ७८ ॥

अमृतञ्चैव ताम्बूलं तर्पणञ्च नतिक्रिया ।
प्रयोजयेदर्चनायामुपचारांश्च षोडश ॥ ७९ ॥

आद्याबीजमिदं पाद्यं देवतायै नमः पदम् ।
पाद्यञ्चरणयोर्दद्यात् शिरस्यर्घ्यं निवेदयेत् ॥ ८० ॥

स्वाहापदेन मतिमान् स्वधेत्याचमनीयकम् ।
मुखे नियोजयेन्मन्त्री मधुपर्कं मुखाम्बुजे ।
वंस्वधेति समुच्चार्य पुनराचमनीयकम् ॥ ८१ ॥


तानेव षोडशोपचारान् दर्शयति पाद्येत्यादिना ॥ ७८ ॥
अमृतं मद्यम् ।
प्रयोजयेत् निवेदयेत् ॥ ७९ ॥

अथ क्रमतः पाद्यादिषोडशोपचारसमर्पणविधिमाह आद्याबीजमित्यादिभिः ।
आद्याबीजमुक्त्वा इदं पाद्यं देवतायै नम इति पदं वदेत् ।
योजनया ह्री।
श्री।
क्री।
परमेश्वरि स्वाहेदं पाद्यमाद्याकालीदेवतायै नम इति मन्त्रो जातः ।
अनेन मन्त्रेण देव्याश्चरणयोः पाद्यं दद्यात् ।
स्वाहापदेन स्वाहापदघटितेन ह्री।
श्री।
क्रो।
परमेश्वरि स्वाहेदमर्घ्यमाद्यायै काल्यै स्वाहेति मन्त्रेण देव्याः शिरस्यर्घ्यं निवेदयेत् ॥ ८० ॥

स्वाहेत्यादि ।
स्वाहापदेनेति पूर्वान्वयि ।
मतिमान्मन्त्री स्वधेतिपदघटितेन ह्री।
श्री।
क्री।
परमेश्वरि स्वाहेदमाचमनीयमाद्यायै काल्यै स्वधेति मन्त्रेण देव्या मुखे आचमनीयकं नियोजयेद्दद्यात् ।
ह्री।
श्री।
क्री।
परमेश्वरि स्वाहा एष मधुपर्क आद्यायै काल्यै स्वधेति मन्त्रेण देव्या मुखाम्बुजे मधुपर्कं नियोजयेत् ।
ह्री।
श्री।
क्री।
परमेश्वरि स्वाहेदमाचमनीयमाद्यायै काल्यै वंस्वधेति समुच्चार्य पुनर्देवीमुखे आचमनीयकं नियोजयेत् ॥ ८१ ॥


स्नानीयं सर्वगात्रेषु वसनं भूषणानि च ।
निवेदयामि मनुना दद्यादेतानि देशिकः ॥ ८२ ॥

मध्यमानामिकाभ्याञ्च गन्धन्दद्याद्धृदम्बुजे ।
नमोऽन्तेन च मन्त्रेण वौषडन्तेन पुष्पकम् ॥ ८३ ॥

धूपदीपौ च पुरतः संस्थाप्य प्रोक्षणादिभिः ।
निवेदयामि मन्त्रेण उत्सृज्य तदनन्तरम् ॥ ८४ ॥

जयध्वनिमन्त्रमातः स्वाहेति मन्त्रपूर्वकम् ।
सम्पूज्य घण्टां वामेन वादयन् दक्षिणेन तु ॥ ८५ ॥

धूपं गृहीत्वा मतिमान् नासिकाधो नियोजयेत् ।
दीपन्तु दृष्टिपर्यन्तं दशधा भ्रामयेत् पुरः ॥ ८६ ॥


स्नानीयमित्यादि ।
ह्री।
श्री।
क्री।
परमेश्वरि स्वाहेदं स्नानीयमिदं वसनमेतानि भूषणानि चाद्यायै कालिकायै निवेदयामीति मनुना एतानि स्नानीयादीनि देव्याः सर्वगात्रेषु देशिकः साधको दद्यात् ॥ ८२ ॥

मध्यमेत्यादि ।
नमोऽन्तेन ह्री।
श्री।
क्री।
परमेश्वरि स्वाहा एष गन्ध आद्यायै काल्यै नम इति मन्त्रेण देव्या हृदम्बुजे मध्यमानामिकाभ्यामङ्गुलिभ्यां गन्धं दद्यात् ।
वौषडन्तेन ह्री।
श्री।
क्री।
परमेश्वरि स्वाहेदं पुष्पमाद्यायै काल्यै वौषडिति मन्त्रेण देव्यै पुष्पकं दद्यात् ॥ ८३ ॥

धूपेत्यादि ।
पुरतो देव्यग्रे धूपदीपौ संस्थाप्य प्रोक्षणादिभिः संशोध्य च ह्री।
श्री।
क्री।
परमेश्वरि स्वाहा एतौ धूपदीपावाद्यायै काल्यै निवेदयामीति मन्त्रेणोत्सृज्य देव्यै समर्प्य च तदनन्तरम् एते गन्धपुष्पे जयध्वनिमन्त्रमातः स्वाहेति मन्त्रपूर्वकं घण्टां सम्पूज्य वामेन हस्तेन तां घण्टां वादयन् सन् दक्षिणेन हस्तेन धूपं गृहीत्वा मतिमान् साधको देव्या नासिकाया अधो नियोजयेन्निवेदयेत् ।
दीपन्तु पुरो देव्यग्रे पादमारभ्य दृष्टिपर्यन्तं दशधा दशवारं भ्रामयेत् ॥ ८४ � ८६ ॥


ततः पात्रञ्च शुद्धिञ्च समादाय करद्वये ।
मूलं समुच्चरन् मन्त्री यन्त्रमध्ये निवेदयेत् ॥ ८७ ॥

परमं वारुणीकल्पं कोटिकल्पान्तकारिणि ।
गृहाण शुद्धिसहितं देहि मे मोक्षमव्ययम् ॥ ८८ ॥

ततः सामान्यविधिना पुरतो मण्डलं लिखेत् ।
तस्योपरि न्यसेत् पात्रं नैवेद्यपरिपूरितम् ॥ ८९ ॥

प्रोक्षणञ्चावगुण्ठञ्च रक्षणञ्चामृतीकृतम् ।
मूलेन सप्तधाऽमन्त्र्य अर्घ्याद्भिर्विनिवेदयेत् ॥ ९० ॥

मूलमेतत्तु सिद्धान्नं सर्वोपकरणान्वितम् ।
निवेदयामीष्टदेव्यै जुषाणेदं हविः शिवे ॥ ९१ ॥


तत इत्यादि ।
ततोऽनन्तरं पानपात्रं शुद्धिं मांसादिकञ्च करद्वये समादाय गृहीत्वा मूलं मन्त्रं तदन्ते इदं मद्यमिमां शुद्धिञ्चाद्यायै काल्यै निवेदयामीति च समुच्चरन् मन्त्री यन्त्रमध्ये देव्यै निवेदयेत् ॥ ८७ ॥

ततः प्रार्थनावाक्यमाह परममित्यादि ।
वारुणीकल्पम् मद्यम् ॥ ८८ ॥

तत इति ।
ततोऽनन्तरं सामान्यविधिना साधारणविधानेन पुरतोऽग्रे त्रिकोणञ्चतुष्कोणं वा मण्डलं लिखेत् ।
तस्य मण्डलस्योपरि नैवेद्यपरिपूरितं पात्रं न्यसेत् स्थापयेत् ॥ ८९ ॥

प्रोक्षणमिति ।
तत्पात्रस्थस्य नैवेद्यस्य फटा प्रोक्षणं हू।
बीजेनावगुण्ठनं वेष्टनं फटैव रक्षणं धेनुमुद्रया वं बीजेनामृतीकृतममृतीकरणञ्च विदध्यात् ।
ततो मूलमन्त्रेण सप्तधा तन्नैवेद्यमामन्त्र्यार्घ्याद्भिरर्घ्यजलैर्देव्यै निवेदयेत् ॥ ९० ॥

नैवेद्यनिवेदनमन्त्रमाहैकेन मूलमिति ।
पूर्वं मूलं वदेत् ।
ततः एतत् सर्वोपकरणान्वितं सिद्धान्नमिष्टदेवतायै निवेदयामीति वदेत् ।
ततः शिवे हविरिदं जुषाणेति वदेत् ।
योजनया ह्री।
श्री।
क्री।
परमेश्वरि स्वाहा एतत्


ततः प्राणादिमुद्राभिः पञ्चभिः प्राशयेद्धविः ॥ ९२ ॥

वामे नैवेद्यमुद्राञ्च विकचोत्पलसन्निभाम् ।
दर्शयेन्मूलमन्त्रेण पानार्थं तीर्थपूरितम् ॥ ९३ ॥

कलशं विनिवेद्याथ पुनराचमनीयकम् ।
ततः श्रीपात्रसंस्थेनामृतेन तर्पयेत् त्रिधा ॥ ९४ ॥

उत्तमाङ्गं हृदाधारपादसर्वाङ्गकेषु च ।
पञ्च पुष्पाञ्जलीन्दत्त्वा मूलमन्त्रेण देशिकः ॥ ९५ ॥

कृताञ्जलिपुटो भूत्वा प्रार्थयेदिष्टदेवताम् ।
तवावरणदेवांश्च पूजयामि नमो वदेत् ॥ ९६ ॥


सर्वोपकरणान्वितं सिद्धान्नमिष्टदेवतायै निवेदयामि शिवे हविरिदं जुषाणेति मन्त्रो नैवेद्यसमर्पणायासीत् ।
सिद्धान्नमित्यामान्नस्याप्युपलक्षणम् ॥ ९१ ॥

तत इत्यादि ।
ततोऽनन्तरम्प्राणाय स्वाहा अपानाय स्वाहा समानाय स्वाहा उदानाय स्वाहा व्यानाय स्वाहेति मन्त्रैर्गुरूपदिष्टाभिः पञ्चभिः प्राणादिमुद्राभिर्देवीं हविः प्राशयेत् भोजयेत् ॥ ९२ ॥

वाम इति ।
वामे हस्ते विकचोत्पलसन्निभां प्रफुल्लपङ्कजतुल्यां नैवेद्यमुद्राञ्च देवीं दर्शयेत् ।
ततो मूलमन्त्रेण तीर्थपूरितं मद्येन पूरितं कलशं पानार्थं देव्यै निवेद्य पुनराचमनीयकं दद्यात् ।
ततोऽनन्तरं श्रीपात्रसंस्थेनामृतेन सुरया त्रिधा त्रिवारं पूर्ववद्देवीं तर्पयेत् ॥ ९३ ॥ ९४ ॥

उत्तमाङ्गेत्यादि ।
ततो देशिकः साधको देव्याः उत्तमाङ्गे मस्तके हृदये आधारदेशे पादयोः सर्वाङ्गेषु च मूलमन्त्रेण पञ्च पुष्पाञ्जलीन् दत्वा कृताञ्जलिपुटो भूत्वेष्टदेवतां प्रार्थयेत् ।
यत् प्रार्थयेत्तदाहार्द्धेन तवेति ।
तवावरणदेवानित्युक्त्वा पूजयामि नम इति पदं वदेत् ।
योजनया इष्टदेवते तवावरणदेवान् पूजयामि नम इति प्रार्थनावाक्यमासीत् ॥ ९५ ॥ ९६ ॥


अग्निर्निरृतिवाय्वीशपुरतः पृष्ठतः क्रमात् ।
षडङ्गानि च सम्पूज्य गुरुपङ्क्तीः समर्चयेत् ॥ ९७ ॥

गुरुञ्च परमादिञ्च परापरगुरुन्तथा ।
परमेष्ठिगुरुञ्चैव यजेत् कुलगुरूनिमान् ॥ ९८ ॥

गुरुपात्रामृतेनैव त्रिस्त्रिस्तर्पणमाचरेत् ।
ततोऽष्टदलमध्ये तु पूजयेदष्टनायिकाः ॥ ९९ ॥

मङ्गला विजया भद्रा जयन्ती चाऽपराजिता ।
नन्दिनी नारसिंही च कौमारीत्यष्टमातरः ॥ १०० ॥


आवरणदेवानां पूजायाः प्रकारं दर्शयति अग्नीत्यादिभिः ।
अग्निनिरृतिवाय्वीशपुरतः पृष्ठतः यन्त्रस्याग्निकोणे नैरृतकोणे वायुकोणे ईशानकोणे पुरतोऽग्रे पृष्ठतः पश्चाद्भागे च क्रमतः ह्रा।
नमः ह्री।
नमः ह्रू।
नमः ह्रै।
नमः ह्रौ।
नमः ह्र।
नम इति मन्त्रैः षडङ्गानि षडङ्गदैवतानि सम्पूज्य गुरुपङ्क्तीर्गुरुश्रेणीः समर्चयेत् ॥ ९७ ॥

गुरुपङ्क्तीरेव दर्शयन्नाह गुरुञ्चेत्यादि ।
ओ।
गुरवे नमः ओ।
परमगुरवे नमः ओ।
परापरगुरवे नमः ओ।
परमेष्टिगुरुवे नमः इति मन्त्रैर्गन्धपुष्पादिभिर्यन्त्रमध्ये गुरुं परमादिं परम आदिर्यस्य तथाभूतं गुरुं तथैव परापरगुरुं परमेष्टिगुरुञ्चापीमान् कुलगुरून् क्रमतो यजेत् ॥ ९८ ॥

गुर्वित्यादि ।
गुरुपात्रामृतेनैव त्रिस्त्रिस्त्रिवारं त्रिवारं क्रमतो गुरूणां तर्पणमाचरेत् कुर्यात् ।
ततोऽनन्तरमष्टदलमध्येऽष्टपत्राणामभ्यन्तरे ओ।
मङ्गलायै नम इत्येवं प्रणवादिनमोऽन्तेन नाममन्त्रेण गन्धपुष्पादिभिरष्टनायिकाः पूजयेत् ॥ ९९ ॥

पूज्या अष्टनायिका आह मङ्गलेत्याद्येकेन ॥ १०० ॥


दलाग्रेषु यजेदष्टभैरवान् साधकोत्तमः ॥ १०१ ॥

असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तो भयङ्करः ।
कपाली भीषणश्चैव संहारोऽष्टौ च भैरवाः ॥ १०२ ॥

इन्द्रादिदशदिक्पालान् भूपुरान्तः प्रपूजयेत् ।
तेषामस्त्राणि तद्बाह्ये पूजयेत् तर्पयेत्ततः ॥ १०३ ॥

सर्वोपचारैः सम्पूज्य बलिं दद्यात् समाहितः ॥ १०४ ॥

मृगश्छागश्च मेषश्च लुलापः शूकरस्तथा ।
शल्लकी शशको गोधा कूर्मः खड्गी दश स्मृताः ॥ १०५ ॥

अन्यानपि पशून् दद्यात् साधकेच्छानुसारतः ॥ १०६ ॥


दलेत्यादि ।
दलाग्रेषु पत्राग्रेषु ओ।
असिताङ्गाय भैरवाय नम इत्येवं प्रणवादिनमोऽन्तेन नाममन्त्रेण गन्धपुष्पादिभिरष्टभैरवान् साधकोत्तमो यजेत् ॥ १०१ ॥

पूज्यानष्टभैरवानाह असिताङ्ग इत्याद्येकेन ॥ १०२ ॥

इन्द्रेत्यादि ।
ततः प्रणवादिनमोऽन्तेन नाममन्त्रेण गन्धपुष्पादिभिरिन्द्रादिदशदिक्पालान् भूपुराभ्यन्तरे प्रपूजयेत् ।
तेषामिन्द्रादीनामस्त्राणि वज्रादीनि प्रणवादिनमोऽन्तनाममन्त्रेण तद्बाह्ये भूपुराद्बहिः पूजयेत् ।
ततः परम् ओ।
इन्द्रं तर्पयामि नमः इत्येवं प्रणवादिना तर्पयामि नमः इत्यन्तेन नाममन्त्रेण इन्द्रादिदशदिक्पालांस्तर्पयेत् ॥ १०३ ॥

सर्वेत्यादि ।
पाद्यादिभिः सर्वोपचारैर्देवीं सम्पूज्य समाहितः सावधानो भूत्वा देव्यै बलिं दद्यात् ॥ १०४ ॥

ननु बलिदानविधौ कः कः पशुः प्रशस्तः स्यात्तत्राह मृग इत्यादि ।
लुलापो महिषः ।
मृगादयो दश बलिदानविधौ प्रशस्ताः स्मृताः ॥ १०५ ॥

अन्यानपीति ।
न तु मृगादय एव बलिदानविधौ प्रशस्ताः किन्तु साधकेच्छानुसारतोऽन्यानपि पशून् देव्यै दद्यात् ॥ १०६ ॥


सुलक्षणं पशुं देव्या अग्रे संस्थाप्य मन्त्रवित् ।
अर्घ्योदकेन सम्प्रोक्ष्य धेनुमुद्रामृतीकृतम् ॥ १०७ ॥

कृत्वा छागाय पशवे नम इत्यमुना सुधीः ।
सम्पूज्य गन्धसिन्दूरपुष्पनैवेद्यपाथसा ।
गायत्रीं दक्षिणे कर्णे जपेत् पाशविमोचनीम् ॥ १०८ ॥

पशुपाशाय शब्दान्ते विद्महे पदमुच्चरेत् ।
विश्वकर्मणि च पदात् धीमहीति पदं वदेत् ॥ १०९ ॥

ततश्चोदीरयेन् मन्त्री तन्नो जीवः प्रचोदयात् ।
एषा तु पशुगायत्री पशुपाशविमोचनी ॥ ११० ॥

ततः खड्गं समादाय कूर्चबीजेन पूजयेत् ।
तदग्रमध्यमूलेषु क्रमतः पूजयेदिमान् ॥ १११ ॥


अथ बलिदानविधिमाह सुलक्षणमित्यादिभिः ।
मन्त्रवित् मन्त्रज्ञः सुधीः धीरः साधकः सुलक्षणं रोगादिशून्यं पशुं देव्या अग्रे संस्थाप्य विशेषार्घ्योदकेन फट् मन्त्रेण सम्प्रोक्ष्याभिषिच्य धेनुमुद्रया वं बीजेनामृतीकृतं कृत्वा छागाय पशवे नम इत्यमुना मन्त्रेण गन्धसिन्दूरपुष्पनैवेद्यपाथसा सम्पूज्य च छागस्य दक्षिणे कर्णे पशुपाशविमोचनीं गायत्रीं जपेत् ।
छागायेति मृगादीनामप्युपलक्षणम् ।
पाथो जलम् ॥ १०७ ॥ १०८ ॥

पशुपाशविमोचनीं गायत्रीमाह पशुपाशेत्यादिना ।
मन्त्री साधकः पशुपाशायेति शब्दस्यान्ते विद्महे इति पदमुच्चरेत् ।
ततो विश्वकर्मणे इति पदात् धीमहीति पदं वदेत् ततः परं तन्नो जीवः प्रचोदयात् इत्युदीरयेदुच्चरेत् ।
योजनया पशुपाशाय विद्महे विश्वकर्मणे धीमहि तन्नो जीवः प्रचोदयात् इति गायत्री जाता ॥ १०९ ॥ ११० ॥

तत इत्यादि ।
कूर्चबीजेन हूमिति बीजेन ।
तदग्रमध्यमूलेषु खड्गाग्रमध्यमूलेषु ॥ १११ ॥


वागीश्वरीञ्च ब्रह्माणं लक्ष्मीनारायणौ ततः ।
उमामहेश्वरौ मूले पूजयेत् साधकोत्तमः ॥ ११२ ॥

अनन्तरं ब्रह्मविष्णुशिवशक्तियुताय च ।
खड्गाय नम इत्यन्तमनुना खड्गपूजनम् ॥ ११३ ॥

महावाक्येन चोत्सृज्य कृताञ्जलिपुटो वदेत् ।
यथोक्तेन विधानेन तुभ्यमस्तु समर्पितम् ॥ ११४ ॥

इत्थं निवेद्य च पशुं भूमिसंस्थन्तु कारयेत् ।
देवीभावपरो भूत्वा हन्यात्तीव्रप्रहारतः ॥ ११५ ॥

स्वयं वा भ्रातृपुत्रैर्वा भ्रात्रा वा सुहृदैव वा ।
सपिण्डेनाथ वा छेद्यो नारिपक्षं नियोजयेत् ॥ ११६ ॥


खड्गाग्रमध्यमूलेषु यान् पूजयेत्तानाहैकेन वागीश्वरीमिति ।
ओ।
वागीश्वरीब्रह्मभ्यां नम इत्येवं प्रणवादिनमोऽन्तनाममन्त्रेण गन्धपुष्पादिभिः खड्गाग्रे वागीश्वरीं सरस्वतीं ब्रह्माणञ्च ततः खड्गमध्ये लक्ष्मीनारायणौ ततः खड्गमूले उमामहेश्वरौ साधकोत्तमः पूजयेत् ॥ ११२ ॥

अनन्तरमिति ।
ततोऽनन्तरं ब्रह्मविष्णुशिवशक्तियुताय खड्गाय नम इत्यन्तमनुना खड्गपूजनं कुर्यात् ॥ ११३ ॥

महावाक्येनेति ।
ततो महावाक्येन विष्णुरो।
तत्सत् ओ।
अद्यामुकमास्यमुकपक्षेऽमुकतिथावमुकराशिस्थिते भास्करे समस्ताभीप्सितपदार्थसिद्धिकामोऽमुकगोत्रोऽमुकशर्माऽहमिष्।
तदेवतायै पशुमिमं सम्प्रददे इति महता वाक्येन छागमुत्सृज्य देव्यै समर्प्य कृताञ्चलिपुटो भूत्वा वदेत् ।
किं वदेत्तत्राह यथेत्यादि ॥ ११४ ॥

इत्थमिति ।
पशुं छागादिम् ।
स्वयं वा आत्मनैव वा ।
पशुहननेऽरिपक्षं न नियोजयेत् प्रवर्तयेत् ॥ ११५ ॥ ११६ ॥


ततः कवोष्णं रुधिरं वटुकेभ्यो बलिं हरेत् ।
सप्रदीपशीर्षबलिर्नमो देव्यै निवेदयेत् ॥ ११७ ॥

एवं बलिविधिः प्रोक्तः कौलिकानां कुलार्चने ।
अन्यथा देवताप्रीतिर्जायते न कदाचन ॥ ११८ ॥

ततो होमं प्रकुर्वीत तद्विधानं शृणु प्रिये ।
स्वदक्षिणे वालुकाभिर्मण्डलं चतुरस्रकम् ॥ ११९ ॥

चतुर्हस्तपरिमितं कृत्वा मूलेन वीक्षणम् ।
अस्त्रेण ताडयित्वा च तेनैव प्रोक्षणं चरेत् ॥ १२० ॥

कूर्चबीजेनावगुण्ठ्य देवतानामपूर्वकम् ।
स्थण्डिलाय नम इति यजेत् साधकसत्तमः ॥ १२१ ॥


तत इति ।
ततः परम् एष कवोष्णरुधिरवलिः ओ।
वटुकेभ्यो नम इति मन्त्रेण कवोष्णमीषदुष्णं रुधिरवलिं निवेदयेत् ॥ ११७ ॥

एवमिति ।
अन्यथा बलिविधेरभावात् ॥ ११८ ॥

अनन्तरकर्तव्यमाह तत इति द्वाभ्याम् ।
अथ होमविधानमाह स्वदक्षिणे इत्यादिभिः ।
स्वदक्षिणे देशे वालुकाभिश्चतुर्हस्तपरिमितं चतुरस्रकञ्चतुष्कोणं मण्डलं कृत्वा मूलेन मन्त्रेण तस्य वीक्षणं विलोकनञ्च कृत्वा अस्त्रेण फटा मन्त्रेण कुशेन ताडयित्वा च तेनैव फटैव मन्त्रेण मण्डलस्य प्रोक्षणं सेकञ्चरेत् ॥ ११९ ॥ १२० ॥

कूर्चेत्यादि ।
कूर्चबीजेन हूमिति बीजेन तन्मण्डलमवगुण्ठ्य वेष्टयित्वा देवतानामपूर्वकं स्थण्डिलाय नम इत्युच्चरन् साधकसत्तमो यजेत् अमुकदेवतास्थण्डिलाय नम इति मन्त्रेण गन्धपुष्पादिभिः स्थण्डिलं पूजयेदित्यर्थः ॥ १२१ ॥


प्रागग्रा उदगग्राश्च रेखाः प्रादेशसम्मिताः ।
तिस्रस्तिस्रो विधातव्यास्तत्र सम्पूजयेदिमान् ॥ १२२ ॥

प्रागग्रासु च रेखासु मुकुन्देशपुरन्दरान् ।
ब्रह्मवैवस्वतेन्दूंश्च उत्तराग्रासु पूजयेत् ॥ १२३ ॥

ततः स्थण्डिलमध्ये तु हसौःगर्भं त्रिकोणकम् ।
षट्कोणं तद्बहिर्वृत्तं ततोऽष्टदलपङ्कजम् ।
भूपुरं तद्बहिर्विद्वान् विलिखेद्यन्त्रमुत्तमम् ॥ १२४ ॥

मूलेन पुष्पाञ्जलिना सम्पूज्य प्रणवेन तु ।
होमद्रव्याणि सम्प्रोक्ष्य कर्णिकायां यजेत् सुधीः ।
मायामाधारशक्त्यादीन् प्रत्येकं वा प्रपूजयेत् ॥ १२५ ॥


प्रागग्रा इति ।
प्राक् प्राच्यां दिश्यग्राणि यासां ताः प्रागग्राः ।
उदक् उदीच्यां दिश्यग्राणि यासां ता उदगग्राश्च ।
प्रादेशससम्मिताः प्रादेशेन परिमितास्तिस्रस्तिस्रो रेखाः स्थण्डिले विधातव्याः ।
तत्र तासु रेखासु इमान् सम्पूजयेत् ।
तर्जनीयुक्ते विस्तृतेऽङ्गुष्ठे प्रादेशः स्यात् ।
तथैवामरसिंहः ।

प्रादेशतालगोकर्णास्तर्जन्यादियुते तते ।

अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशोङ्गुल इति ॥ १२२ ॥

तासु रेखासु यान् पूजयेत्तान् दर्शयन्नाह प्रागग्रास्विति ।
प्रागग्रासु रेखासु प्रणवादिनमोऽन्तनाममन्त्रेण गन्धपुष्पादिभिः मुकुन्देशपुरन्दरान् विष्णुशिवेन्द्रान् क्रमतः पूजयेत् ।
उत्तराग्रासु रेखासु तु ब्रह्मवैवस्वतेन्दून् ब्रह्मयमचन्द्रान् पूजयेत् ॥ १२३ ॥

तत इति ।
ततोऽनन्तरं स्थण्डिलमध्ये ह्सौः मिलिता एव हकारसकारौकारविसर्गा गर्भे यस्य तथाभूतं त्रिकोणकं तद्बहिः षट्कोणं तद्बहिर्वृत्त च मण्डलं ततो वहिरष्टदलपङ्कजं ततोऽपि बहिश्चतुष्कोणञ्चतुर्द्वारं भूपुरञ्च विद्वान् विलिखेत् ॥ १२४ ॥

मूलेनेति ।
एवं लिखितमुत्तमं यन्त्रं मूलेन मन्त्रेण पुष्पाञ्जलिना सम्पूज्य प्रणवेन होमद्रव्याणि च सम्प्रोक्ष्याष्टदलपङ्कजस्य कर्णिकायां बीजकोशे


अग्न्यादिकोणे धर्मञ्च ज्ञानं वैराग्यमेव च ।
ऐश्वर्यं पूजयित्वा तु पूर्वादिषु दिशां क्रमात् ॥ १२६ ॥

अधर्ममज्ञानमिति अवैराग्यमनन्तरम् ।
अनैश्वर्यं यजेन्मन्त्री मध्येऽनन्तञ्च पद्मकम् ॥ १२७ ॥

कलासहितसूर्यस्य तथा सोमस्य मण्डलम् ।
प्रागादिकेशरेष्वेषु मध्ये चैताः प्रपूजयेत् ॥ १२८ ॥

पीता श्वेताऽरुणा कृष्णा धूम्रा तीव्रा तथैव च ।
स्फुलिङ्गिनी च रुचिरा ज्वलिनीति तथा क्रमात् ॥ १२९ ॥

प्रणवादिनमोऽन्तेन सर्वत्र पूजनं चरेत् ।
रं वह्नेरासनायेति नमोऽन्तेन प्रपूजयेत् ॥ १३० ॥


समुदितानेवाधारशक्त्यादीन् मायां ह्री।
बीजमुच्चरन् सुधीः साधको यजेत् ।
ह्री।
आधारशक्त्यादिभ्यो नम इति मन्त्रेण गन्धपुष्पादिभिः पूजयेदित्यर्थः ।
अथवा आधारशक्त्यादिकं प्रत्येकमेव प्रपूजयेत् ॥ १२५ ॥

अग्नीत्यादि ।
प्रणवादिनमोऽन्तनाममन्त्रेण गन्धपुष्पादिभिर्यन्त्रस्याग्न्यादिकोणे क्रमतो धर्मं ज्ञानं वैराग्यमैश्वर्यञ्च पूजयित्वा दिशां क्रमात् पूर्वादिषु दिक्षु अधर्ममज्ञानमवैराग्यम् एतदनन्तरमनैश्वर्यञ्च मन्त्री यजेत् ।
यन्त्रस्य मध्येऽनन्तं पद्मकञ्च यजेत् ॥ १२६ ॥ १२७ ॥

कलेत्यादि ।
पूर्वोक्ताभ्यामेव मन्त्राभ्यां गन्धपुष्पादिभिः कलासहितसूर्यस्य तथा कलासहितस्य सोमस्य च मण्डलं यन्त्रमध्ये एव प्रपूजयेत् ।
एषु प्रागादिकेशरेषु मध्ये च क्रमेणैताः प्रपूजयेत् ॥ १२८ ॥

याः प्रपूजयेत्ता आह पीतेत्याद्येकेन ।
पीताश्वेतादीनां मध्ये ज्वलिनीं मध्ये पूजयेत् ॥ १२९ ॥

प्रणवादीत्यादि ।
सर्वत्र देशे नमोऽन्तेन रं वह्नेरासनायेति मन्त्रेण यन्त्रमध्ये वह्नेरासनं प्रपूजयेत् ॥ १३० ॥


वागीश्वरीमृतुस्नातां नीलेन्दीवरलोचनाम् ।
वागीश्वरेण संयुक्तां ध्यात्वा मन्त्री तदासने ॥ १३१ ॥

मायया तौ प्रपूज्याथ विधिवद्वह्निमानयेत् ।
मूलेन वीक्षणं कृत्वा फटाऽवाहनमाचरेत् ॥ १३२ ॥

प्रणवं च ततो वह्नेर्योगपीठाय हृन्मनुः ।
यन्त्रे पीठं पूजयित्वा दिक्षु चैताः प्रपूजयेत् ।
वामा ज्येष्ठा तथा रौद्री अम्बिकेति यथाक्रमात् ॥ १३३ ॥

ततोऽमुक्या देवतायाः स्थण्डिलाय नमः पदम् ।
इति स्थण्डिलमापूज्य तन्मध्ये मूलरूपिणीम् ॥ १३४ ॥

ध्यात्वा वागीश्वरीं देवीं वह्निबीजपुरःसरम् ।
वह्निमुद्धृत्य मूलान्ते कूर्चमस्त्रं समुच्चरन् ॥ १३५ ॥

क्रव्यादेभ्यो वह्निजायां क्रव्यादांशं परित्यजेत् ।
अस्त्रेण वह्निं संवीक्ष्य कूर्चेनैवावगुण्ठयेत् ॥ १३६ ॥


वागीश्वरीमिति ।
ततो वागीश्वरेण ब्रह्मणा संयुक्तां नीलेन्दीवरलोचनां श्यामपङ्कजनेत्राम् ऋतुस्नातां वागीश्वरीं ध्यात्वा मन्त्री साधकस्तदासने तस्मिन् वह्निपीठे तौ वागीश्वरीब्रह्माणौ मायया ह्री।
बीजाद्येन नमोऽन्तेन नाममन्त्रेण प्रपूज्याथानन्तरं विधिवत् शरावेण कांस्यपात्रेण वा शुद्धमग्निमानयेत् ।
मूलेन मन्त्रेण वह्नेर्वीक्षणं कृत्वा फटा मन्त्रेण तस्यैवावाहनञ्चरेत् ॥ १३१ ॥ १३२ ॥

प्रणवमिति ।
पूर्वं प्रणवं वदेत् ततो वह्नेर्योगपीठायेति वदेत् ।
ततो हृत् नम इति वदेत् ।
योजनया ओ।
वह्नेर्योगपीठाय नम इति मनुर्जातः ।
अनेनैव मनुना यन्त्रे वह्नेः पीठं पूजयित्वा पीठात् पूर्वादिषु चतसृषु दिक्षु प्रणवादिनमोऽन्तनाममन्त्रेण गन्धपुष्पादिभिरेताश्च प्रपूजयेत् ।
पूर्वादिदिक्षु याः प्रपूजयेत्ता आह वामेत्याद्यर्द्धेन ॥ १३३ ॥

तत इति ।
ततोऽनन्तरम् अमुक्या देवतायाः स्थण्डिलाय नम इति सर्वं मन्त्रपदमुच्चरन् गन्धपुष्पादिभिः स्थण्डिलमापूज्य तन्मध्ये मूलदेवतारूपिणीं


धेन्वा चैवामृतीकृत्य हस्ताभ्यामग्निमुद्धरेत् ।
प्रादक्षिण्यक्रमेणाग्निं भ्रामयन् स्थण्डिलोपरि ॥ १३७ ॥

त्रिधा जानुस्पृष्टभूमिः शिवबीजं विचिन्तयन् ।
आत्मनोऽभिमुखीकृत्य योनियन्त्रे नियोजयेत् ॥ १३८ ॥

ततो मायां समुच्चार्य वह्निमूर्तिञ्च ङेयुताम् ।
नमोऽन्तेन प्रपूज्याथ रं वह्निपरतः सुधीः ।
चैतन्याय नमो वह्नेश्चैतन्यं परिपूजयेत् ॥ १३९ ॥


वागीश्वरीं देवीं ध्यात्वा वह्निबीजं पुरःसरं यत्र वह्निबीज पुरःसरं यथास्यात्तथा वह्निमुद्धृत्य रं बीजेन वह्निमुत्थाप्येत्यर्थः ।
मूलान्ते कूर्चं हू।
बीजमस्त्रं फडिति चा बीजं समुच्चरन् तदन्ते क्रव्यादेभ्य इत्युच्चरन् तदन्ते वह्निजाया स्वाहेत्युच्चरेत् ।
योजनया ह्री।
श्री।
क्री।
परमेश्वरि स्वाहा हू।
फट् क्रव्यादेभ्यः स्वाहेति मन्त्रो जातः ।
अनेनैव मन्त्रेण वह्नितो ज्वलद्दाहरूपं क्रव्यादांशं राक्षसभागं दक्षिणस्यां दिशि परित्यजेत् ।
ततोऽस्त्रेण फटा वह्निं संवीक्ष्य दृष्ट्वा कूर्चेनैव हू।
बीजेनैवावगुण्ठयेद्वह्निं वेष्टयेत् ॥ १३४ � १३६ ॥

धेन्वेति ।
धेन्वा मुद्रया चामृतीकृत्य हस्ताभ्यां पुनरग्निमुद्धरेत् उत्थापयेत् ।
उत्थाप्य च प्रादक्षिण्यक्रमेण स्थण्डिलोपरि त्रिधा त्रिवारमग्निं भ्रामयन् शिवबीजं शम्भुवीर्यरूपमग्निं विचिन्तयंश्च साधको जानुस्पृष्टभूमिः सन्नात्मनोऽभिमुखीकृत्य योनियन्त्रे त्रिकोणमण्डले नियोजयेत् स्थापयेत् ॥ १३७ ॥ १३८ ॥

तत इति ।
ततोऽनन्तरं मायां ह्री।
बीजं समुच्चार्य नमोऽन्तेन नमसाऽन्तेन सह ङेयुतां वह्निमूर्तिं समुच्चरेत् ।
योजनया ह्री।
वह्निमूर्तये नमः इति मन्त्रो जातः ।
अनेन मन्त्रेण वह्निमूर्तिं प्रपूज्याथानन्तरं सुधीः साधको रं वह्नेः परतः चैतन्याय नम इति वदेत् ।
योजनया रं वह्निचैतन्याय नम इति मनुर्जातः ।
अनेनैव मनुना वह्नेः चैतन्यं परिपूजयेत् ॥ १३९ ॥


नमसा वह्निमूर्तिञ्च चैतन्यं परिकल्प्य च ।
प्रज्वालयेत्ततो वह्निं मन्त्रेणानेन मन्त्रवित् ॥ १४० ॥

प्रणवं पूर्वमुद्धृत्य चित्पिङ्गलपदं तथा ।
हनद्वयं दह दह पच पचेति ततो वदेत् ॥ १४१ ॥

सर्वज्ञाज्ञापय स्वाहा वह्निप्रज्वालने मनुः ।
ततः कृताञ्जलिर्भूत्वा प्रकुर्यादग्निवन्दनम् ॥ १४२ ॥

अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं सर्वतोमुखम् ॥ १४३ ॥

इत्युपस्थाप्य दहनं छादयेत् स्थण्डिलं कुशैः ।
स्वेष्टनाम्ना वह्निनाम कृत्वाऽभ्यर्चनमाचरेत् ॥ १४४ ॥


नमसेति ।
नमसा मन्त्रेण वह्निमूर्तिं वह्नेः चैतन्यञ्च परिकल्प्य मनसा विरच्य ततोऽनेनानन्तरमेव वक्ष्यमाणेन मन्त्रेण मन्त्रवित् साधको वह्निं प्रज्वालयेदुद्दीपयेत् ॥ १४० ॥

वह्निप्रज्वालनमन्त्रमेवाह प्रणवमित्यादिना सार्द्धेन ।
पूर्वं प्रणवमुद्धृत्य उक्त्वा ततः परं चित्पिङ्गलपदं वदेत् ।
ततो हनद्वयं ततो दहदहेति ततः पचपचेति च वदेत् ।
ततः सर्वज्ञाज्ञापय स्वाहेति वदेत् योजनया ओ।
चित्पिङ्गल हन हन दह दह पच पच सर्वज्ञाज्ञापय स्वाहेति मन्त्रो जातः ।
अयं मनुर्वह्निप्रज्वालने स्मृतः ॥ १४१ ॥ १४२ ॥

अग्निवन्दनमन्त्रमाह अग्निं प्रज्वलितं वन्दे इत्याति ॥ १४३ ॥

इतीति ।
इत्यनेनैव मन्त्रेण दहनं वह्निमुपस्थाप्याभिवन्द्य स्थण्डिलं छादयेत् ।
ततः स्वेष्टनाम्ना वह्निनाम कृत्वा इतोऽनन्तरमेव वक्ष्यमाणेन मन्त्रेण वह्नेरभ्यर्चनमाचरेत् ॥ १४४ ॥


तारो वैश्वानरपदात् जातवेदपदं वदेत् ।
इहावहावहेत्युक्त्वा लोहिताक्षपदान्तरम् ॥ १४५ ॥

सर्वकर्माणि पदतः साधयान्तेऽग्निवल्लभा ।
इत्यभ्यर्च्य हिरण्यादिसप्तजिह्वाः प्रपूजयेत् ॥ १४६ ॥

सहस्रार्चिःपदं ङेऽन्तं हृदयाय नमो वदन् ।
षडङ्गं पूजयेद्वह्नेस्ततो मूर्तीर्यजेत् सुधीः ॥ १४७ ॥

जातवेदप्रभृतयो मूर्तयोऽष्टौ प्रकीर्तिताः ॥ १४८ ॥

ततो यजेदष्टशक्तीर्ब्राह्म्याद्यास्तदनन्तरम् ।
पद्माद्यष्टनिधीनिष्ट्वा यजेदिन्द्रादिदिक्पतीन् ॥ १४९ ॥


वह्न्यभ्यर्चनमन्त्रमेवाह तार इत्यादिना सार्द्धेन ।
पूर्वं तारः प्रणवो वाच्यः ततो वैश्वानरपदात् परं जातवेदपदं वदेत् ।
तत इहावहावहेत्युक्त्वा लोहिताक्षरूपपदान्तरं वदेत् ।
ततः सर्वकर्माणीति पदात्परं साधयेति पदं वदेत् ।
तदन्ते चाग्निवल्लभा स्वाहा वाच्या ।
योजनया ओ।
वैश्वानर जातवेद इहावहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहेति मनुरासीत् ।
इत्यनेनैव मनुना स्वेष्टदेवतानामानं वह्निमभ्यर्च्य ओ।
वह्नेर्हिरण्यादिसप्तजिह्वाभ्यो नमः इति मन्त्रेण वह्नेर्हिरण्यादिसप्तजिह्वा गन्धपुष्पादिभिः पूजयेत् ॥ १४५ ॥ १४६ ॥

सहस्रेत्यादि ।
ङेऽन्तं सहस्रार्चिःपदं ततो हृदयाय नम इति च पदं वदन् सहस्रार्चिषे हृदयाय नमः इति मन्त्रं समुच्चरन् साधको वह्नेर्हृदयं पूजयेत् ।
ततो वह्नेः षडङ्गेभ्यो नम इति मन्त्रेण गन्धपुष्पादिभिर्वह्नेः षडङ्गं पूजयेत् ।
ततो वह्निमूर्तिभ्यो नमः इति मन्त्रेण वह्नेर्मूर्तीः सुधीर्यजेत् ॥ १४७ ॥

ननु वह्नेः कति मूर्तयः सन्तीत्यपेक्षायामाह जातवेदेत्यादि ।
जातवेदप्रभृतयो वह्नेरष्टौ मूर्तयः प्रकीर्तिताः पूर्वमुक्ताः ॥ १४८ ॥

तत इति ।
ततोऽनन्तरं ब्राह्म्यादिभ्योऽष्टशक्तिभ्यो नम इति मन्त्रेण गन्धपुष्पादिभिर्ब्राह्म्याद्याः अष्ट शक्तीर्यजेत् ।
तदनन्तरं पद्माद्यष्टनिधिभ्यो नम


वज्राद्यस्त्राणि सम्पूज्य प्रादेशपरिमाणकम् ।
कुशपत्रद्वयं नीत्वा घृतमध्ये निधापयेत् ॥ १५० ॥

वामे ध्यायेदिडां नाडीं दक्षिणे पिङ्गलां तथा ।
मध्ये सुषुम्नां सञ्चिन्त्य दक्षभागात् समाहितः ॥ १५१ ॥

आज्यं गृहीत्वा मतिमान् दक्षनेत्रे हुताशितुः ।
मन्त्रेणानेन जुहुयात् प्रणवान्तेऽग्नये पदम् ॥ १५२ ॥

स्वाहान्तो मनुराख्यातो वामभागाद्धविर्हरेत् ।
वामनेत्रे हुनेद्वह्नेः ओ।
सोमाय द्विठो मनुः ॥ १५३ ॥


इति मन्त्रेण गन्धपुष्पादिभिः पद्माद्यष्टनिधीनिष्ट्वा सम्पूज्य इन्द्रादिदिक्पतीन् यजेत् ॥ १४९ ॥

वज्रेत्यादि ।
तत इन्द्रादीनाञ्च वज्राद्यस्त्राणि सम्पूज्य प्रादेशपरिमाणकं कुशपत्रद्वयं नीत्वा गृहीत्वा घृतमध्ये वामे दक्षिणे निधापयेत् स्थापयेत् ॥ १५० ॥

वामे इत्यादि ।
घृतस्य वामे भागे इडां नाडीं ध्यायेत् ।
दक्षिणे भागे पिङ्गलां नाडीं ध्यायेत् ।
मध्ये च सुषुम्नां नाडीं सञ्चिन्त्य समाहितः सन् दक्षभागादाज्यं घृतं गृहीत्वा हुताशितुरग्नेर्दक्षनेत्रेऽनेनानन्तरमेव वक्ष्यमाणेन मन्त्रेण मतिमान् साधको जुहुयात् ।
दक्षनेत्रे हवनस्य मन्त्रमाह प्रणवान्ते इत्यादिना ।
प्रणवस्यान्तेऽग्नये इति पदं वाच्यम् ।
योजनया ओ।
अग्नये इति मनुर्जातः ।
अयञ्च मनुः स्वाहान्त आख्यातः ।
ततो वामभागाद्धविर्हवनीयं घृतं हरेत् गृह्णीयात् ।
गृहीत्वा च हविर्वह्नेर्वामनेत्रे वक्ष्यमाणमन्त्रेण हुनेत् जुहुयात् ।
वामनेत्रे हवनस्य मन्त्रमाह ।
ओ।
सोमाय द्विठः ओ।
सोमाय स्वाहेति मनुः प्रोक्त इति ॥ १५१ � १५३ ॥


मध्यादाज्यं समानीय ललाटे हवनं चरेत् ।
अग्नीषोमौ सप्रणवौ तूर्यद्विवचनान्वितौ ॥ १५४ ॥

स्वाहान्तोऽयं मनुः प्रोक्तः पुनर्दक्षिणतो हविः ।
गृहीत्वा नमसा मन्त्री प्रणवं पूर्वमुद्धरेत् ॥ १५५ ॥

अग्नये च स्विष्टिकृते वह्निकान्तां ततो वदेत् ।
अनेन वह्निवदने जुहुयात् साधकोत्तमः ।
भूर्भुवः स्वर्द्विठान्तेन व्याहृत्या होममाचरेत् ॥ १५६ ॥

तारो वैश्वानरपदात् जातवेद इहावहा ।
वहलोहिपदान्ते च ताक्षसर्वपदं वदेत् ।
कर्माणि साधय स्वाहा त्रिधाऽनेनाहुतीर्हरेत् ॥ १५७ ॥


मध्यादिति ।
ततो मध्यादाज्यं समानीय गृहीत्वा वक्ष्यमाणमन्त्रेण वह्नेर्ललाटे हवनं चरेत् ।
ललाटे हवनस्य मन्त्रमाह अग्नीत्यादिना ।
तूर्यद्विवचनान्वितौ चतुर्थीद्विवचनयुक्तौ सप्रणवौ ओ।
कारसहितौ अग्नीषोमौ वक्तव्यौ ।
ततश्च ओ।
अग्नीषोमाभ्यामिति मनुर्जातः ।
अयं मनुः स्वाहान्तः प्रोक्तः ।
मन्त्री साधको नमसा मन्त्रेण पुनर्दक्षिणतो हविः गृहीत्वा पूर्वं प्रणवमुद्धरेत् वदेत् ।
ततोऽग्नये इति ततः स्विष्टिकृते इति ततो वह्निकान्ताञ्च वदेत् ।
योजनया ओ।
अग्नये स्विष्टिकृते स्वाहेति मनुर्जातः ।
अनेन मनुना साधकोत्तमो वह्निवदनेऽग्निमुखे जुहुयात् ।
शोभनेष्टिः स्विष्टिः तां करोतीति स्विष्टिकृत् क्विप् तस्मै ।
ततो द्विठान्तेन स्वाहान्तेन भूरिति भुवरिति स्वरिति च व्याहृत्या होममाचरेत् ॥ १५४ � १५६ ॥

तार इत्यादि ।
पूर्वं तारः प्रणवो वक्तव्यः ।
ततो वैश्वानरेति पदात् परं जातवेद इहावहावह लोहि इति वदेत् ।
तत्पदान्ते च ताक्षसर्वेति पदं वदेत् ।
ततः कर्माणि साधय स्वाहेति वदेत् ।
योजनया ओ।
वैश्वानर जातवेद


ततोऽग्नौ स्वेष्टमावाह्य पीठाद्यैः सह पूजनम् ।
कृत्वा स्वाहान्तमनुना मूलेन पञ्चविंशतीः ॥ १५८ ॥

हुत्वा वह्न्यात्मनोर्देव्या ऐक्यं सम्भावयन् धिया ।
एकादशाहुतीर्हुत्वा मूलेनैवाङ्गदेवताः ॥ १५९ ॥

हुत्वा स्वकाममुद्दिश्य तिलाज्यमधुमिश्रितैः ॥ १६० ॥

पुष्पैर्विल्वदलैर्वापि यथाविहितवस्तुभिः ।
यथाशक्त्याहुतिं दद्यान्नाष्टन्यूनां प्रकल्पयेत् ॥ १६१ ॥

ततः पूर्णाहुतिन्दद्यात् फलपत्रसमन्विताम् ।
स्वाहान्तमूलमन्त्रेण ततः संहारमुद्रया ।
तस्माद्देवीं समानीय स्थापयेत् हृदयाम्बुजे ॥ १६२ ॥


इहावहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहेति मनुर्जातः ।
अनेन मनुना त्रिधा वारत्रयमाहुतीर्हरेद्दद्यात् ॥ १५७ ॥

तत इत्यादि ।
ततोऽनन्तरमग्नौ स्वेष्टं देवतामावाह्य पूर्वोक्तमन्त्रेण पीठाद्यैः सह तस्य पूजनञ्च कृत्वा मूलरूपेण स्वाहान्तमनुना पञ्चविंशतिमाहुतीर्वह्नौ हुत्वा प्रक्षिप्य वह्न्यात्मनोः वह्नेरात्मनश्च देव्याश्चैक्यं धिया सम्भावयंश्चिन्तयन् मूलेनैवैकादशाहुतीः हुत्वा ओ।
अङ्गदेवताभ्यः स्वाहेति मन्त्रेणाङ्गदेवताश्चोद्दिश्य हुत्वा विष्णुरो।
तत्सत् ओ।
अद्यामुकमास्यमुकपक्षेऽमुकतिथावमुकराशिस्थिते भास्करेऽमुकाभीष्टार्थसिद्धिकामोऽमुकगोत्रः श्रीमदमुकशर्मा तिलाज्यादिमिश्रितैः पुष्पैर्विल्वपत्रादिभिर्वा सार्द्धं वह्नावाहुतिमहं ददे इति वाक्येन स्वकाममुद्दिश्य स्वाहान्तमूलमन्त्रेण तिलाज्यमधुमिश्रितैः पुष्पैरथवा विल्वदलैर्यथाविहितवस्तुभिर्वा सह यथाशक्ति वह्नावाहुतिं दद्यात् ।
अष्टन्यूनामाहुतिं न प्रकल्पयेत् ॥ १५८ � १६१ ॥

तत इति ।
ततोऽनन्तरं स्वाहान्तमूलमन्त्रेण फलपत्रसमन्वितां फलताम्बूलयुतां पूर्णाहुतिं वह्नौ दद्यात् ।
ततः परं संहारमुद्रया तस्माद्वह्नेर्देवीं समानीय हृदयाम्बुजे स्थापयेत् ॥ १६२ ॥


क्षमस्वेति च मन्त्रेण विसृजेत्तं हुताशनम् ।
कृतदक्षिणको मन्त्री अच्छिद्रमवधारयेत् ॥ १६३ ॥

हुतशेषं भ्रुवोर्मध्ये धारयेत् साधकोत्तमः ॥ १६४ ॥

एष होमविधिः प्रोक्तः सर्वत्रागमकर्मणि ।
होमकर्म समाप्यैवं साधको जपमाचरेत् ॥ १६५ ॥

विधानं शृणु देवेशि येन विद्या प्रसीदति ।
देवतागुरुमन्त्राणामैक्यं सम्भावयेद्धिया ॥ १६६ ॥

मन्त्रार्णा देवता प्रोक्ता देवता गुरुरूपिणी ।
अभेदेन यजेद्यस्तु तस्य सिद्धिरनुत्तमा ॥ १६७ ॥

गुरुं शिरसि सञ्चिन्त्य देवतां हृदयाम्बुजे ।
रसनायां मूलविद्यां तेजोरूपां विचिन्त्य च ।
त्रयाणान्तेजसाऽत्मानमेकीभूतं विचिन्तयेत् ॥१६८ ॥


क्षमस्वेति ।
ततः अग्ने क्षमस्वेति मन्त्रेण तं हुताशनमग्निं विसृजेत्तस्य विसर्जनं कुर्यात् ।
ततः कृता दक्षिणा येन स कृतदक्षिणको मन्त्री साधकः कृतमिदं होमकर्माच्छिद्रमस्त्वित्यवधारयेत् ।
ततो हुतशेषं भ्रुवोर्मध्यदेशे धारयेत् ॥ १६३-१६५ ॥

विधानमिति ।
जपाचरणविधानमेवाह देवतेत्यादिभिः ।
सम्भावयेत् सम्यक् विचिन्तयेत् ॥ १६६ ॥

देवताद्यैक्यसम्भावनप्रकारन्तत्फलञ्च दर्शयति मन्त्रेत्यादिना ।
मन्त्रार्णाः मन्त्रवर्णाः ।
अभेदेन ऐक्यभावेन ॥ १६७ ॥

मूलविद्याम् मूलमन्त्रात्मिकां विद्याम् ।
त्रयाणाम् गुरुदेवतामूलमन्त्राणाम् ॥ १६८ ॥


तारेण सम्पुटीकृत्य मूलमन्त्रञ्च सप्तधा ।
जप्त्वा तु साधकः पश्चान्मातृकापुटितं स्मरेत् ॥ १६९ ॥

मायाबीजं स्वशिरसि दशधा प्रजपेत् सुधीः ।
वदने प्रणवं तद्वत् पुनर्मायां हृदम्बुजे ।
प्रजप्य सप्तधा मन्त्री प्राणायामं समाचरेत् ॥ १७० ॥

ततो मालां समादाय प्रवालादिसमुद्भवाम् ।
माले माले महाभागे सर्वशक्तिस्वरूपिणि ॥ १७१ ॥

चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ।
इति सम्पूज्य मालां तां श्रीपात्रस्थामृतेन च ॥ १७२ ॥

त्रिधा मूलेन सन्तर्प्य स्थिरचित्तो जपञ्चरेत् ।
अष्टोत्तरसहस्रं वाऽप्यथवाऽष्टोत्तरं शतम् ॥ १७३ ॥


तारेणेत्यादि ।
तारेण सम्पुटीकृत्य आदावन्ते च अकारादिक्षकारान्तैरेकपञ्चाशता वर्णैः संयुक्तं मूलमन्त्रं सप्तधा स्मरेत् जपेत् ।
आगमजस्यानित्यत्वात् जप्त्वेत्यत्र नेडागमः ॥ १६९ ॥

मायेति ।
ततः सुधीः साधकः स्वशिरसि मायाबीजं ह्री।
बीजं दशधा प्रजपेत् ।
ततो वदने स्वमुखे प्रणवं तद्वद्दशधा जपेत् ।
हृदम्बूजे पुनर्मायां ह्री।
बीजं सप्तधा प्रजप्य मन्त्री प्राणायामं पूर्ववत् समाचरेत् कुर्यात् ॥ १७० ॥

तत इति ।
ततोऽनन्तरं प्रवालादिसमुद्भवां विद्रुमादिसञ्जातां मालां समादाय गृहीत्वा माले माले इत्यादिना सिद्धिदा भवेत्यन्तेन मन्त्रेण तां मालां सम्पूज्य श्रीपात्रस्थामृतेन मालां सन्तर्पयामि स्वाहेत्यन्तेन मूलमन्त्रेण त्रिधा सन्तर्प्य च स्थिरचित्तो भूत्वाऽष्टोत्तरसहस्रमष्टोत्तरशतं वा मूलमन्त्रस्य जपञ्चरेत् कुर्यात् ॥ १७१ � १७३ ॥


प्राणायामन्ततः कृत्वा श्रीपात्रजलपुष्पकैः ।
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ॥ १७४ ॥

सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ।
इति मन्त्रेण मतिमान् देव्या वामकराम्बुजे ॥ १७५ ॥

तेजोरूपं जपफलं समर्प्य प्रणमेद्भुवि ।
ततः कृताञ्जलिर्भूत्वा स्तोत्रञ्च कवचं पठेत् ॥ १७६ ॥

ततः प्रदक्षिणीकृत्य विशेषार्घ्येण साधकः ।
विलोमार्घ्यप्रदानेन कुर्यादात्मसमर्पणम् ॥ १७७ ॥

इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतः ।
जाग्रत्स्वप्नसुषुप्त्यन्ते अवस्थासु प्रकीर्तयेत् ॥ १७८ ॥

मनसाऽन्ते वदेद्वाचा कर्मणा तदनन्तरम् ।
हस्ताभ्यां पदतः पद्भ्यामुदरेण ततः परम् ॥ १७९ ॥

शिश्नया यत् कृतञ्चोक्त्वा यत् स्मृतं पदतो वदेत् ।
यदुक्तं तत् सर्वमिति ब्रह्मार्पणमुदीरयेत् ।
भवत्वन्ते मां मदीयं सकलं तदनन्तरम् ॥ १८० ॥

आद्याकालीपदाम्भोजे अर्पयामि पदं वदेत् ।
प्रणवं तत्सदित्युक्त्वा कुर्यादात्मसमर्पणम् ॥ १८१ ॥


प्राणायमेत्यादि ।
ततः परं प्राणायामं कृत्वा श्रीपात्रजलपुष्पकैः गुह्यातिगुह्येत्यादिना महेश्वरि इत्यन्तेन मन्त्रेण मतिमान् साधकस्तेजोरूपं जपफलं देव्या वामकराम्बुजे समर्प्य भुवि दण्डवन्निपत्य देवीं प्रणमेत् ॥ १७४ � १७६ ॥

आत्मसमर्पणमन्त्रमाह तत इत्यादिभिः सार्द्धैश्चतुर्भिः ।
इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतः जाग्रत्स्वप्नसुषुप्त्यन्तेऽवस्थास्विति प्रकीर्तयेत् ।
ततो


ततः कृताञ्जलिर्भूत्वा प्रार्थयेदिष्टदेवताम् ।
मायाबीजं समुच्चार्य श्री आद्ये कालिके वदेत् ॥ १८२ ॥

पूजिताऽसि यथाशक्त्या क्षमस्वेति विसृज्य च ।
संहारमुद्रया पुष्पमाघ्राय स्थापयेत् हृदि ॥ १८३ ॥

ऐशान्यां मण्डलं कृत्वा त्रिकोणं सुपरिष्कृतम् ।
तत्र सम्पूजयेद्देवीं निर्माल्यपुष्पवारिणा ।
ह्री।
निर्माल्यपदञ्चोक्त्वा वासिन्यै नम इत्यपि ॥ १८४ ॥


मनसाऽन्ते वाचा तदनन्तरं कर्मणा तदनन्तरं हस्ताभ्यामिति वदेत् ।
तस्माच्च पदात् पद्भ्याम् ततः परमुदरेणेति च वदेत् ।
ततः परं शिश्नया यत् कृतञ्चोक्त्वा यत् स्मृतमिति वदेत् ।
ततश्च पदात् परं यदुक्तं तत्सर्वमिति वदेत् ।
ततो ब्रह्मार्पणमुदीरयेत् ।
ततो भवत्वित्यन्ते मां मदीयं सकलमित्युदीरयेत् ।
तदनन्तरमाद्याकालीपदाम्भोजेऽर्पयामीति पदं वदेत् ।
ततः प्रणवं तत्सदिति च वदेत् ।
सकलपदयोजनया इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्नया यत् कृतं यत् स्मृतं यदुक्तं तत् सर्वं ब्रह्मार्पणं भवतु मां मदीयं च सकलमाद्याकालीपदाम्भोजेऽर्पयामि ओ।
तत्सदिति मन्त्रो जातः ।
इमं मन्त्रमुक्त्वा काल्यै आत्मसमर्पणं कुर्यात् ॥ १७७ � १८१ ॥

तत इत्यादि ।
ततः परं कृताञ्जलिर्भूत्वेष्टदेवतां प्रार्थयेत् ।
किं प्रार्थयेदित्यपेक्षायामाह मायाबीजमित्यादि ।
मायाबीजं ह्रीं बीजं समुच्चार्य श्री आद्ये कालिके इति वदेत् ।
ततो यथाशक्त्या पूजितासि क्षमस्वेति प्रार्थनावाक्यमासीत् ।
अनेनैव वाक्येनेष्टदेवतां विसृज्य च संहारमुद्रया पुष्पमादाय आघ्राय च स्वहृदि स्थापयेत् ॥ १८२ � १८३ ॥

ऐशान्यामिति ।
तत ऐशान्यां दिशि सुपरिष्कृतं त्रिकोणं मण्डलं कृत्वा तत्र मण्डले वक्ष्यमाणमन्त्रेण निर्माल्यपुष्पवारिणा निर्माल्यवासिनीं देवीं


ब्रह्मविष्णुशिवादिभ्यः सर्वदेवेभ्य एव च ।
नैवेद्यं वितरेत् पश्चात् गृह्णीयात् शक्तिसाधकः ॥ १८५ ॥

स्वीयशक्तिं वामभागे संस्थाप्य पृथगासने ।
एकासनोपविष्टो वा पात्रं कुर्यात् मनोरमम् ॥ १८६ ॥

पानपात्रं प्रकुर्वीत न पञ्चतोलकाधिकम् ।
तोलकत्रितयान्न्यूनं स्वार्णं राजतमेव च ॥ १८७ ॥

अथवा काचजनितं नारिकेलोद्भवञ्च वा ।
आधारोपरि संस्थाप्य शुद्धिपात्रस्य दक्षिणे ॥ १८८ ॥

महाप्रसादमानीय पात्रेषु परिवेशयेत् ।
स्वयं वा भ्रातृपुत्रैर्वा ज्येष्ठानुक्रमतः सुधीः ॥ १८९ ॥


सम्पूजयेत् ।
निर्माल्यवासिन्याः पूजनस्य मन्त्रमाह ह्रीमित्याद्यर्द्धेन ।
ह्री।
निर्माल्यपदमुक्त्वा वासिन्यै नम इति वदेत् ।
योजनया ह्री।
निर्माल्यवासिन्यै नम इति मनुर्जातः ॥ १८४ ॥

ब्रह्मेत्यादि ।
नैवेद्यं देव्यर्पितान्नादि ।
वितरेत् दद्यात् ।
शक्तिसाधकः शक्तिसहितः साधकः ॥ १८५ ॥

देवीनैवेद्यग्रहणविधानमाह स्वीयशक्तिमित्यादिभिः ।
वामभागे पृथगासने स्वीयां शक्तिं संस्थाप्य स्वीयशक्त्या सहैकासने एवोपविष्टो वा साधकः पानभोजनार्थं मनोरमं रम्यं पात्रं कुर्यात् ॥ १८६ ॥

पानेत्यादि ।
पञ्चतोलकादधिकं तोलकत्रितयात् न्यूनञ्च पानपात्रं न प्रकुर्वीत ।
तच्च स्वार्णं सुवर्णोद्भवं राजतं रजतोद्भवमथवा काचजनितं नारिकेलोद्भवं वा पानपात्रं शुद्धिपात्रस्य दक्षिणे देशे आधारोपरि संस्थाप्य सुधीः धीरः साधको महाप्रसादमानीय स्वयं वा भ्रातृपुत्रैर्वा ज्येष्ठानुक्रमत एव पात्रेषु परिवेशयेत् ।
जन्मतोऽत्र ज्यैष्ठ्यं न ग्राह्यं किन्त्वभिषेकत इति बोध्यम् ॥ १८७ � १८९ ॥


पानपात्रे सुधा देया शौद्ध्ये शुद्ध्यादिकानि च ।
ततः सामयिकैः सार्द्धं पानभोजनमाचरेत् ॥ १९० ॥

आदावास्तरणार्थाय गृह्णीयात् शुद्धिमुत्तमाम् ।
ततोऽतिहृष्टमनसा समस्तः कुलसाधकः ॥ १९१ ॥

स्वस्वपात्रं समादाय परमामृतपूरितम् ।
मूलाधारादिजिह्वान्तां चिद्रूपां कुलकुण्डलीम् ॥ १९२ ॥

विभाव्य तन्मुखाम्भोजे मूलमन्त्रं समुच्चरन् ।
परस्पराज्ञामादाय जुहुयात् कुण्डलीमुखे ॥ १९३ ॥

अलिपानं कुलस्त्रीणां गन्धस्वीकारलक्षणम् ।
साधकानां गृहस्थानां पञ्चपात्रं प्रकीर्तितम् ॥ १९४ ॥

अतिपानात् कुलीनानां सिद्धिहानिः प्रजायते ॥ १९५ ॥


पानेत्यादि ।
पानपात्रे सुधा मदिरा देया शौद्ध्ये शुद्धिपात्रे शुद्ध्यादिकानि मांसमत्स्यादीनि च देयानि ।
ततः परं सामयिकैर्देव्यर्चनसमयाधिगतैर्जनैः सार्द्धं पानभोजनमाचरेत् ॥ १९० ॥

आदाविति ।
आदौ प्रथमतो मद्यस्थापनार्थायास्तरणार्थायोत्तमां शुद्धिं गृह्णीयात् ।
ततोऽतिहृष्टमनसा समस्तः सर्वः कुलसाधकः परमामृतपूरितमुत्तममद्यपूरितं स्वस्वपात्रं समादाय गृहीत्वा मूलाधारादिजिह्वान्तं व्याप्य स्थितां चिद्रूपाञ्चैतन्यस्वरूपां कुलकुण्डलिनीं विभाव्य विचिन्त्य तन्मुखाम्भोजे मूलमन्त्रं समुच्चरन् सन् परस्परस्याज्ञामादाय कुण्डलीमुखे जुहुयात् परमामृतं दद्यात् ॥ १९१ � १९३ ॥

अलीत्यादि ।
कुलस्त्रीणां गन्धस्वीकारलक्षणं मद्यसम्बन्धिगन्धाङ्गीकरणस्वरूपमेवालिपानं मद्यपानं प्रकीर्तितम् ।
गृहस्थानां साधकानां पञ्चपात्रं पञ्चपात्रपरिमाणकमलिपानं प्रकीर्तितं गृहस्थैः साधकैः पञ्चपात्रपरिमितमेव मद्यं


यावन्न चालयेद् दृष्टिं यावन्न चालयेन्मनः ।
तावत् पानं प्रकुर्वीत पशुपानमतः परम् ॥ १९६ ॥

पाने भ्रान्तिर्भवेद्यस्य घृणी च शक्तिसाधके ।
स पापिष्ठः कथं ब्रूयादाद्यां कालीं भजाम्यहम् ॥ १९७ ॥

यथा ब्रह्मार्पितेऽन्नादौ स्पृष्टदोषो न विद्यते ।
तथा तव प्रसादेऽपि जातिभेदं विवर्जयेत् ॥ १९८ ॥

एवमेव विधानेन कुर्यात् पानञ्च भोजनम् ।
हस्तप्रक्षालनं नास्ति तव नैवेद्यसेवने ।
लेपावनोदनं कुर्याद्वस्त्रेण पाथसाऽपि वा ॥ १९९ ॥

ततो निर्माल्यकुसुमं विधृत्य शिरसा सुधीः ।
यन्त्रलेपं कूर्चदेशे विहरेद्देववद्भुवि ॥ २०० ॥


इति श्रीमहानिर्वाणतन्त्र सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे श्रीपात्रस्थापनहोमचक्रानुष्ठानकथनं नाम षष्ठोल्लासः ।

पातव्यमित्यर्थः ।
गृहस्थानामित्यनेन पञ्चपात्रपरिमितादधिकमपि मद्यं पिबतां तद्भिन्नानां न दोष इति सूचितम् ।
ननु पञ्चपात्रपरिमितादधिकं मद्यं पिबतां गृहस्थसाधकानां को दोषस्तत्राह अतिपानादित्यादि ॥ १९४ ॥ १९५ ॥

यावदिति ।
चालयेत् घूर्णयेत् ॥ १९६ ॥

पान इति ।
घृणी जुगुप्सावान् ।
जुगुप्साकरणे घृणेत्यमरः ॥ १९७ ॥ १९८ ॥

एवमिति ।
लेपावनोदनम् हस्तलेपापनयनम् ॥ १९९ ॥

तत इति ।
कूर्चदेशे भ्रुवोर्मध्यदेशे ।
कूर्चमस्त्रीभ्रुवोर्मध्यमित्यमरः ॥ २०० ॥

इति श्रीमहानिर्वाणतन्त्रटीकायां षष्ठोल्लासः ।