पञ्चमोल्लासः
श्रीसदाशिव उवाच ।
त्वमाद्या परमा शक्तिः सर्वशक्तिस्वरूपिणी ।
तव शक्त्या वयं शक्ताः सृष्टिस्थितिलयादिषु ॥ १ ॥
तव रूपाण्यनन्तानि नानावर्णाकृतीनि च ।
नानाप्रयाससाध्यानि वर्णितुं केन शक्यते ॥ २ ॥
तव कारुण्यलेशेन कुलतन्त्रागमादिषु ।
तेषामर्चासाधनानि कथितानि यथामति ॥ ३ ॥
गुप्तसाधनमेतत्तु न कुत्रापि प्रकाशितम् ।
अस्य प्रसादात् कल्याणि मयि ते करुणेदृशी ॥ ४ ॥
ॐ नमो ब्रह्मणे ।
मन्त्रयन्त्रादिसंयुक्तस्य विशेषाराधनस्यैवाभिधाने प्रवृत्तः श्रीसदाशिव उवाच त्वमाद्या परमेत्यादि ॥ १ ॥
तवेति ।
नानावर्णाकृतीनि नाना अनेके वर्णा आकृतय आकाराश्च येषां रूपाणां तानि ॥ २ ॥
कारुण्यलेशेन दयाया लवेन ।
तेषां तव रूपाणाम् ॥ ३ ॥
एतत्तु अतःपरमुच्यमानन्तु ।
अस्य गुप्तसाधनस्य ॥ ४ ॥
त्वया पृष्टमिदानीं तन्नाहं गोपयितुं क्षमः ।
कथयामि तव प्रीत्यै मम प्राणाधिक प्रिये ॥ ५ ॥
सर्वदुःखप्रशमनं सर्वापद्विनिवारकम् ।
त्वत्प्राप्तिमूलमचिरात्तव सन्तोषकारणम् ॥ ६ ॥
कलिकल्मषदीनानां नृणां स्वल्पायुषां प्रिये ।
बहुप्रयासासक्तानामेतदेव परं धनम् ॥ ७ ॥
न चात्र न्यासबाहुल्यं नोपवासादिसंयमः ।
सुखसाध्यमबाहुल्यं भक्तानां फलदं महत् ॥ ८ ॥
तत्राऽदौ शृणु देवेशि मन्त्रोद्धारक्रमं शिवे ।
यस्य श्रवणमात्रेण जीवन्मुक्तोऽपि जायते ॥ ९ ॥
प्राणेशस्तैजसारूढो भेरुण्डाव्योमबिन्दुमान् ।
बीजमेतत् समुद्धृत्य द्वितीयमुद्धरेत् प्रिये ॥ १० ॥
सन्ध्या रक्तसमारूढा वामनेत्रेन्दुसंयुता ।
तृतीयं शृणु कल्याणि दीपसंस्थः प्रजापतिः ॥ ११ ॥
तत् गुप्तसाधनम् ॥ ५ ॥ ६ ॥
एतदेव अतःपरमुच्यमानं गुप्तसाधनमेव ॥ ७ ॥
अत्र अतःपरमुच्यमाने साधने ।
अबाहुल्यं बाहुल्यशून्यम् ॥ ८ ॥
तत्र साधने ॥ ९ ॥
तमेव मन्त्रोद्धारक्रममाह प्राणेश इत्यादिभिः ।
तैजसारूढः तैजसो रेफस्तमारूढः ।
प्राणेशो हकारो ।
भेरुण्डाव्योमबिन्दुमान् भेरुण्डा ईकारः व्योमबिन्दुरनुस्वारः ।
ताभ्यां विशिष्टो विधातव्यः ।
एवं ह्रीमित्येतद्बीजं समुद्धृत्य द्वितीयं बीजमुद्धरेत् ॥ १० ॥
तच्च किं बीजमत आह सन्ध्येत्यादि ।
रक्तसमारूढा रेफं समारूढा सन्ध्या तालव्यः शकारो वामनेत्रेन्दुसंयुता वामनेत्रमीकारः इन्दुरनुस्वारः ताभ्यां
गोविन्दबिन्दुसंयुक्तः साधकानां सुखावहः ।
बीजत्रयान्ते परमेश्वरि सम्बोधनं पदम् ॥ १२ ॥
वह्निकान्तावधि प्रोक्तो दशार्णोऽयं मनुः शिवे ।
सर्वविद्यामयी देवी विद्येयं परमेश्वरी ॥ १३ ॥
आद्यत्रयाणां बीजानां प्रत्येकं त्रयमेव वा ।
प्रजपेत् साधकाधीशः धर्मकामार्थसिद्धये ॥ १४ ॥
बीजमाद्यत्रयं हित्वा सप्तार्णाऽपि दशाक्षरी ।
कामवाग्भवताराद्या सप्तार्णाऽष्टाक्षरी त्रिधा ॥ १५ ॥
संयुक्ता कर्तव्या ।
एवं श्रीमिति द्वितीयं बीजमुद्धृतमासीत् ।
हे कल्याणि तृतीयं बीजं शृणु ।
तच्च किं बीजमत आह दीपसंस्थ इत्यादि ।
दीपसंस्थः दीपो रेफः तत्र स्थितः प्रजापतिः ककारो गोविन्दबिन्दुसंयुक्तः गोविन्द ईकारः बिन्दुरनुस्वारः ताभ्यां संयुक्तः करणीयः ।
एतादृशश्च ककारः साधकानां सुखावहः सुखप्रापको भवति ।
एवञ्च क्रीमिति तृतीयं बीजमुद्धृतमासीत् ।
बीजत्रयस्यान्ते वह्निकान्ता स्वाहा अवधिरन्तभूता यस्य एतादृशं परमेश्वरि इति सम्बोधनं पदं वदेत् ।
सकलपदयोजनया ह्री।
श्री।
क्री।
परमेश्वरि स्वाहेति मन्त्रो जातः ।
हे शिते अयं मनुर्मन्त्रो दशार्णो दशवर्णकः प्रोक्तः ।
वह्निकान्तावधिरिति पाठे तु मन्त्रो विशेष्यः तस्यैवेदं विशेषणमिति ज्ञातव्यम् ।
सर्वविद्यामयी सर्वविद्यास्वरूपेयं मन्त्रात्मिका देवी परमेश्वरी विद्यानाम ॥ ११ � १३ ॥
आद्येत्यादि ।
आद्यत्रयाणामेतस्यैव मन्त्रस्यादिभूतानां ह्री।
प्रभृतीनां त्रयाणां बीजानां मध्ये प्रत्येकं ह्रीमिति श्रीमिति क्रीमिति वा बीजं ह्री।
श्री।
क्रीमिति बीजत्रयमपि वा धर्मकामार्थसिद्धये साधकाधीशः साधकोत्तमः प्रजपेत् ।
एवन्तु पञ्चमन्त्रा आसन् ॥ १४ ॥
बीजमित्यादि ।
ह्री।
प्रभृत्याद्यबीजत्रयं हित्वा त्यक्त्वा दशाक्षरी मन्त्रात्मिका परमेश्वरी विद्या सप्तार्णाऽपि परमेश्वरि स्वाहेत्याकारा सप्ताक्षर्यपि
दशार्णामन्त्रणपदात् कालिके पदमुच्चरेत् ।
पुनराद्यत्रयं बीजं वह्निजायां ततो वदेत् ॥ १६ ॥
षोडशीयं समाख्याता सर्वतन्त्रेषु गोपिता ।
वध्वाद्या प्रणवाद्या चेदेषा सप्तदशी द्विधा ॥ १७ ॥
तव मन्त्रा ह्यसङ्ख्याताः कोटिकोट्यर्बृदास्तथा ।
सङ्क्षेपादत्र कथिता मन्त्राणां द्वादश प्रिये ॥ १८ ॥
येषु येषु च तन्त्रेषु ये ये मन्त्राः प्रकीर्तिताः ।
ते सर्वे तव मन्त्राः स्युस्त्वमाद्या प्रकृतिर्यतः ॥ १९ ॥
भवेत् ।
अनेन सहिताः षड्मन्त्रा अभूवन् ।
कामवाग्भवताराद्या क्लीमिति ऐमिति ओमिति वा बीजमाद्यं यस्यास्तथाभूता चेत् सप्तार्णा मन्त्ररूपा परमेश्वरी विद्या स्यात्तदा क्ली।
परमेश्वरि स्वाहेत्याकारा ऐ।
परमेश्वरि स्वाहेत्याकारा ॐ परमेश्वरि स्वाहेत्याकारा चाष्टाक्षर्यपि भवति ।
एवञ्चैषाऽष्टाक्षरी त्रिधा जाता ।
एतैस्त्रिभिः सहिता नव मन्त्रा वभूवुः ॥ १५ ॥
दशार्णेत्यादि ।
दशार्णस्य मनोरामन्त्रणपदात् परं कालिके इति पदमुच्चरेत् वदेत् ।
ततः परं ह्री।
प्रभृत्याद्यत्रयं बीजं पुनर्वदेत् ।
ततोऽनन्तरं वह्निजायां स्वाहेति पदं वदेत् ।
सकलपदयोजनया ह्री।
श्री।
क्री।
परमेश्वरि कालिके ह्री।
श्री।
क्री।
स्वाहेति मन्त्रो जातः ।
इयं षोडशी षोडशवर्णा मन्त्रात्मिका परमेश्वरी विद्या सर्वतन्त्रेषु गोपितापि तव प्रीत्यै मया समाख्याता सम्यक् कथिता ।
एतेन सहिता दश मन्त्रा अभवन् ।
चेद्यद्येषा षोडशी वध्वाद्या स्त्रीमिति बीजाद्या प्रणवाद्या ओङ्काराद्या वा स्यात् तदा स्त्रीं ह्रीं श्रीं क्रीं परमेश्वरि कालिके ह्रीं श्रीं क्रीं स्वाहेत्याकारा ॐ ह्रीं श्रीं क्रीं परमेश्वरि कालिके ह्रीं श्रीं क्रीं स्वाहेत्याकारा च सप्तदशी सप्तदशाक्षर्यपि भवेत् ।
एवञ्चैषा सप्तदशी द्विधा जाता ।
एताभ्यां मिलिता द्वादश मन्त्रा आसन् ॥ १६ � १८ ॥
सकलतन्त्रोक्तानां सर्वेषां मन्त्राणां पार्वतीसम्बन्धित्वे हेतुमाह त्वमाद्या प्रकृतिर्यत इति ॥ १९ ॥ २० ॥
एतेषां सर्वमन्त्राणाम् एकमेव हि साधनम् ।
कथयामि तव प्रीत्यै तथा लोकहिताय च ॥ २० ॥
कुलाचारं विना देवि शक्तिमन्त्रो न सिद्धिदः ।
तस्मात् कुलाचाररतः साधयेच्छक्तिसाधनम् ॥ २१ ॥
मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च ।
शक्तिपूजाविधावाद्ये पञ्चतत्त्वं प्रकीर्तितम् ॥ २२ ॥
पञ्चतत्त्वं विना पूजा अभिचाराय कल्पते ।
नेष्टसिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे ॥ २३ ॥
शिलायां शस्यवापे च यथा नैवाङ्कुरो भवेत् ।
पञ्चतत्त्वविहीनायां पूजायां न फलोद्भवः ॥ २४ ॥
प्रातःकृत्यं विना देवि नाधिकारी तु कर्मसु ।
तस्मादादौ प्रवक्ष्यामि प्रातःकृत्यं यथोचितम् ॥ २५ ॥
रजनीशेषयामस्य शेषार्द्धमरुणोदयः ।
तदा साधक उत्थाय मुक्तस्वापः कृतासनः ।
ध्यायेच्छिरसि शुल्काब्जे द्विनेत्रं द्विभुजं गुरुम् ॥ २६ ॥
तदेव साधनमाह कुलाचारमित्यादिभिः ॥ २१ ॥
पञ्चतत्त्वं विना शक्तिपूजाया निष्फलत्वादवश्यमेव पञ्चतत्त्वेन शक्तेः पूजा विधातव्येत्याह मद्यमित्यादिभिः ॥ २२ ॥
अभिचाराय हिंसाकर्मणे ।
हिंसाकर्माभिचारः स्यादित्यमरः ॥ २३ � २५ ॥
प्रातःकृत्यमाह रजनीशेषयामस्येत्यादिभिः ।
रजनीशेषयामस्य रात्रेरन्तिमस्य प्रहरस्य शेषार्द्धमन्तिमं दण्डचतुष्टयमरुणोदयः स्यात् ।
तदा तस्मिन्नेवारुणोदये काले मुक्तस्वापस्त्यक्तनिद्रः साधक उत्थाय कृतमासनं येन तथाभूत
श्वेताम्बरपरीधानं श्वेतमाल्यानुलेपनम् ।
वराभयकरं शान्तं करुणामयविग्रहम् ॥ २७ ॥
वामेनोत्पलधारिण्या शक्त्याऽलिङ्गितविग्रहम् ।
स्मेराननं सुप्रसन्नं साधकाभीष्टदायकम् ॥ २८ ॥
एवं ध्यात्वा कुलेशानि मानसैरुपचारकैः ।
पूजयित्वा जपेन्मन्त्री वाग्भवं बीजमुत्तमम् ॥ २९ ॥
यथाशक्ति जपं कृत्वा समर्प्य दक्षिणे करे ।
ततस्तु प्रणमेद्धीमान् मन्त्रेणाऽनेन सद्गुरुम् ॥ ३० ॥
आसनोपविष्टश्च सन् शिरसि शुक्लाब्जे श्वेतपद्मे स्थितं गुरुं ध्यायेदित्यन्वयः ।
द्विनेत्रमित्यादीनि द्वितीयान्तानि गुरुविशेषणानि ॥ २६ ॥
श्वेतेत्यादि ।
श्वेताम्बरपरीधानं परिधीयते यत्तत् परीधानम् ।
कर्मणि ल्युट् ।
परीत्यस्य दीर्घस्त्वार्षः ।
श्वेते अम्बरे वस्त्रे परीधाने यस्य तथाभूतम् ।
श्वेतमाल्यानुलेपनम् अनुलिप्यते यत्तदनुलेपनं चन्दनादि ।
श्वेते माल्यानुलेपने यस्य तम् ॥
वरेत्यादि ।
वराभयकरं वरोऽभयं च करयोर्यस्य तम् ।
शान्तं रागद्वेषादिशून्यम् ।
करुणामयविद्महं करुणामयः कृपाप्राचुर्यवान् विग्रहो देहो यस्य तम् ।
वामेनोत्पलधारिण्या शक्त्या वामहस्तेन कमलं दधत्या स्त्रिया आलिङ्गितविग्रहमाश्लिष्टशरीरम् ॥ २७ ॥ २८ ॥
एवमित्यादि ।
हे कुलेशानि मन्त्री साधकः एवं गुरुं ध्यात्वा मानसैर्मनःसङ्कल्पितैः पाद्यार्घ्याचमनीयादिभिरुपचारकैः पूजयित्वा चोत्तमं श्रेष्ठं वाग्भवम् ऐमिति बीजं जपेत् ॥ २९ ॥
जपम् ऐमिति बीजस्येति शेषः ॥ ३० ॥
भवपाशविनाशाय ज्ञानदृष्टिप्रदर्शिने ।
नमः सद्गुरवे तुभ्यं भुक्तिमुक्तिप्रदायिने ॥ ३१ ॥
नराकृतिपरब्रह्मरूपायाऽज्ञानहारिणे ।
कुलधर्मप्रकाशाय तस्मै श्रीगुरवे नमः ॥ ३२ ॥
प्रणम्यैवं गुरुं तत्र चिन्तयेन्निजदेवताम् ।
पूर्ववत् पूजयित्वा तां मूलमन्त्रजपञ्चरेत् ॥ ३३ ॥
यथाशक्ति जपित्वा तद् देवीवामकरेऽर्पयेत् ।
मन्त्रेणानेन मतिमान् प्रणमेदिष्टदेवताम् ॥ ३४ ॥
नमः सर्वस्वरूपिण्यै जगद्धात्र्यै नमोनमः ।
आद्यायै कालिकायै ते कर्त्र्यै हर्त्र्यै नमोनमः ॥ ३५ ॥
नमस्कृत्य वहिर्गच्छेद्वामपादपुरःसरम् ।
त्यक्त्वा मूत्रपुरीषञ्च दन्तधावनमाचरेत् ॥ ३६ ॥
अनेन केन मन्त्रेणेत्यपेक्षायां तमेव मन्त्रमाह भवपाशविनाशायेति ।
भवपाशविनाशाय संसाररूपस्य पाशस्य विनाशकाय ।
ज्ञानदृष्टिप्रदर्शिने ज्ञानरूपां दृष्टिं प्रदर्शयितुं शीलं यस्य तस्मै ॥ ३१ ॥ ३२ ॥
प्रणम्येत्यादि ।
एवमुक्तप्रकारेण गुरुं प्रणम्य प्रकर्षेण भक्तिश्रद्धातिशयेन नत्वा तत्र शिरसि शुक्लाब्जे आसीनां निजदेवतां साधकश्चिन्तयेद्ध्यायेत् ।
ततः पूर्ववत् गुरुवन्मानसैरुपचारकैस्तां निजदेवतां पूजयित्वा ह्री।
श्री।
क्रीमित्यादिकस्य मूलमन्त्रस्य जपञ्चरेत् कुर्यात् ॥ ३३ ॥ ३४ ॥
तं मन्त्रमेवाह ।
नमः सर्वेति ॥ ३५ ॥ ३६ ॥
ततो गत्वा जलाभ्यासे स्नानं कृत्वा यथाविधि ।
आदावप उपस्पृश्य प्रविशेत् सलिले ततः ॥ ३७ ॥
नाभिमात्रजले स्थित्वा मलानामपनुत्तये ।
सकृत् स्नात्वा तथोन्मज्य मान्त्रमाचमनञ्चरेत् ॥ ३८ ॥
आत्मविद्याशिवैस्तत्त्वैः स्वाहान्तैः साधकाग्रणीः ।
त्रिरप्राश्याऽपो द्विरुन्मृज्य त्वाचमेत् कुलसाधकः ॥ ३९ ॥
कुलयन्त्रं मन्त्रगर्भं विलिख्य सलिले सुधीः ।
मूलमन्त्रं द्वादशधा तस्योपरि जपेत् प्रिये ॥ ४० ॥
तेजोरूपं जलं ध्यात्वा सूर्यमुद्दिश्य देशिकः ।
तत्तोयैरत्र्यञ्जलीन् दत्त्वा तेनैव पाथसा त्रिधा ।
अभिषिच्य स्वमूर्द्धानं सप्तच्छिद्राणि रोधयेत् ॥ ४१ ॥
तत इत्यादि ।
जलाभ्यासे वारिनिकटे ।
स्नानविधिमेवाह आदावप इत्यादिभिः ।
अपो जलानि ।
सलिले जले ॥ ३७ ॥
मन्त्रैः कार्यं मान्त्रम् ॥ ३८ ॥
आचमनमन्त्रानेव दर्शयन्नाह आत्मेत्यादि ।
स्वाहा अन्तो येषां तथाभूतैः आत्मविद्याशिवतत्त्वैः आत्मतत्त्वाय स्वाहा विद्यातत्त्वाय स्वाहा शिवतत्त्वाय स्वाहेति मन्त्रैरित्यर्थः ।
साधकाग्रणीः साधकश्रेष्ठः ।
कुलसाधकोऽपो जलानि त्रिर्वारत्रयं प्राश्य प्रपीय द्विर्वारद्वयमुन्मृज्य इत्येवमाचम्य ह्री।
प्रभृतीनां मन्त्राणां मध्ये कश्चिदपि मन्त्रो गर्भे यस्यैवम्भूतं त्रिकोणात्मकं कुलयन्त्रं सलिले जले विलिख्य सुधीर्धीरः साधकस्तस्य कुलयन्त्रस्योपरि ह्री।
श्री।
क्रीमित्याद्यात्मकं मूलमन्त्रं द्वादशधा द्वादशवारञ्जपेदिति द्वितीयेनान्वयः ॥ ३९ ॥ ४० ॥
तेजोरूपमिति ।
देशिकः साधकः कुलयन्त्रसम्बन्धि जलं तेजोरूपं ध्यात्वा तत्तोयैः कुलयन्त्रसम्बन्धिभिर्जलैस्त्र्यञ्जलीन् सूर्यमुद्दिश्य दत्त्वा तेनैव
ततस्तु देवताप्रीत्यै त्रिर्निमज्य जलान्तरे ।
उत्थाय गात्रं सम्मार्ज्य पिदध्याच्छुद्धवाससी ॥ ४२ ॥
मृत्स्नया भस्मना वाऽपि त्रिपुण्ड्रं बिन्दुसंयुतम् ।
ललाटे तिलकं कुर्याद्गायत्र्या बद्धकुन्तलः ॥ ४३ ॥
वैदिकीं तान्त्रिकीञ्चैव यथानुक्रमयोगतः ।
सन्ध्यां समाचरेन्मन्त्री तान्त्रिकीं शृणु कथ्यते ॥ ४४ ॥
आचम्य पूर्ववत्तोयैस्तीर्थान्यावाहयेच्छिवे ॥ ४५ ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ ४६ ॥
कुलयन्त्रसम्बन्धिनैव पाथसा जलेन स्वमूर्द्धानं त्रिधा त्रिवारमभिषिच्य सप्तच्छिद्रानि कर्णनेत्रनासामुखविवराणि हस्तद्वयाङ्गुलिभी रोधयेत् ॥ ४१ ॥
ततस्त्विति ।
ततस्तु सप्तच्छिद्ररोधनादनन्तरं तु देवताप्रीत्यै सङ्कल्प्य जलान्तरे त्रिर्वारत्रयं निमज्ज्य तत उत्थाय गात्रं सम्मार्ज्य वस्त्रेण प्रोक्ष्य च शुद्धवाससी धौतवस्त्रे पिदध्यात् आच्छादयेत् परिदध्यादित्यर्थः ॥ ४२ ॥
मृत्स्नयेति ।
ततो गायत्र्या बद्धकुन्तलो निबद्धकेशः सन् मृत्स्नया प्रशस्तया मृत्तिकया तादृशेनैव भस्मना वाऽपि बिन्दुसंयुतं त्रिपुण्ड्रं तिलकं ललाटे कुर्यात् ॥ ४३ ॥
वैदिकीमिति ।
ततो मन्त्री साधको यथानुक्रमयोगतोऽनुक्रमेणैव वैदिकीं तान्त्रिकीञ्च सन्ध्यां समाचरेत् कुर्यात् ।
तयोर्मध्ये तान्त्रिकीं सन्ध्यां त्वं शृणु मया कथ्यते ॥ ४४ ॥
तान्त्रिकीं सन्ध्यामेवाह आचम्येत्यादिभिः ।
हे शिवे पूर्ववदाचम्य तोये जले तीर्थान्यावाहयेत् ॥ ४५ ॥
ननु केन मन्त्रेण कानि वा तीर्थान्यावाहयेदित्यपेक्षायामाह गङ्गे चेत्यादि ।
सन्निधिम् आसत्तिम् ॥ ४६ ॥
मन्त्रेणानेन मतिमान् मुद्रयाऽङ्कुशसञ्ज्ञया ।
आवाह्य तीर्थं सलिले मूलं द्वादशधा जपेत् ॥ ४७ ॥
ततस्तत्तोयतो बिन्दूंस्त्रिधा भूमौ विनिक्षिपेत् ।
मध्यमानामिकायोगान्मूलोच्चारणपूर्वकम् ॥ ४८ ॥
सप्तवारं स्वमूर्द्धानमभिषिच्य ततो जलम् ।
वामहस्ते समादाय छादयेद्दक्षपाणिना ॥ ४९ ॥
ईशानवायुवरुणवह्नीन्द्रबीजपञ्चकम् ।
प्रजप्य वेदधा तोयं दक्षहस्ते समानयेत् ॥ ५० ॥
मन्त्रेणेति ।
मतिमान् साधकोऽनेन अनन्तरमेवोक्तेन मन्त्रेणाङ्कुशसञ्ज्ञया मुद्रया सलिले जले तीर्थमावाह्य मूलं मन्त्रं सलिले एव द्वादशधा जपेत् ।
अङ्कुशमुद्रा यथा ज्ञानार्णवे ।
दक्षमुष्टिं विधायाथ तर्जन्यङ्कुशरूपिणी ।
अङ्कुशाख्या महामुद्रा त्रैलोक्याकर्षणक्षमेति ॥ ४७ ॥
तत इत्यादि ।
ततः परं मूलमन्त्रस्योच्चारणं पूर्वं यत्र कर्मणि तत् मूलोच्चारणपूर्वकं मध्यमानामिकायोगात्तत्तोयतो बिन्दून् त्रिधा त्रिवारं भूमौ विनिक्षिपेत् ॥ ४८ ॥
सप्तवारमिति ।
मूलोच्चारणपूर्वकं मध्यमानामिकायोगात् तेनैव जलेन सप्तवारं स्वमूर्द्धानमात्मीयं मस्तकमभिषिच्य ततः परं वामहस्ते जलं समादाय गृहीत्वा दक्षपाणिनाऽच्छादयेत् ॥ ४९ ॥
ईशानेत्यादि ।
दक्षपाणिनाऽच्छाद्य च ईशानवायुवरुणवह्नीन्द्रस्वामिकं ह।
य।
व।
र।
लमित्येतद्बीजपञ्चकं वेदधा चतुर्वारं प्रजप्य तत्तोयं दक्षहस्ते समानयेत् ॥ ५० ॥
वीक्ष्य तेजोमयं ध्यात्वा चेडयाऽकृष्य साधकः ।
देहान्तःकलुषं तेन रेचयेत् पिङ्गलाख्यया ॥ ५१ ॥
निष्कृष्य पुरतो वज्रशिलायामस्त्रमुच्चरन् ।
त्रिवारं ताडयन् मन्त्री हस्तौ प्रक्षालयेत्ततः ॥ ५२ ॥
आचम्योक्तेन मन्त्रेण सूर्यायार्घ्यं निवेदयेत् ॥ ५३ ॥
तारमायाहंस इति घृणिसूर्य ततःपरम् ।
इदमर्घ्यं तुभ्यमुक्त्वा दद्यात् स्वाहेत्युदीरयन् ॥ ५४ ॥
ततो ध्यायेन्महादेवीं गायत्रीं परदेवताम् ।
प्रातर्मध्याह्नसायाह्ने त्रिरूपां गुणभेदतः ॥ ५५ ॥
प्रातर्ब्राह्मीं रक्तवर्णां द्विभुजाञ्च कुमारिकाम् ।
कमण्डलुं तीर्थपूर्णमच्छमालाञ्च विभ्रतीम् ।
कृष्णाजिनाम्बरधरां हंसारूढां शुचिस्मिताम् ॥ ५६ ॥
वीक्ष्येति ।
साधको जनो दक्षहस्ते समानीतं तज्जलं वीक्ष्य विलोक्य तेजोमयं तेजोरूपं ध्यात्वा ईडया नाड्या आकृष्य च पिङ्गलाख्यया नाड्या तेन जलेन देहान्तःकलुषं शरीरान्तःपापं रेचयेन्निष्कर्षयेत् ॥ ५१ ॥
निष्कृष्येति ।
मन्त्री साधक एवं देहान्तःकलुषं निष्कृष्य पुरतोऽग्रे मनःकल्पितायां वज्रशिलायामस्त्रं फडिति मन्त्रमुच्चरन् जपन् सन् त्रिवारं ताडयेत् आहन्यात् ।
ततोऽनन्तरं हस्तौ प्रक्षालयेद्धावेत् ॥ ५२ ॥
आचम्येति ।
तत उक्तेन मन्त्रेणाचम्य सूर्यायार्घ्यं निवेदयेद्दद्यात् ॥ ५३ ॥
ननु केन मन्त्रेण सूर्यायार्घ्यं निवेदनीयमत आह तारेत्यादि ।
पूर्वं तारमायाहंस इत्युक्त्वा ततःपरं घृणिसूर्येत्युक्त्वा ततश्च परमिदमर्घ्यं तुभ्यमित्युक्त्वा ततोऽनन्तरं स्वाहेत्युदीरयन् कीर्तयन् साधकः सूर्यायार्घ्यं दद्यात् ।
ओ।
ह्री।
हंस घृणिसूर्य इदमर्घ्यं तुभ्यं स्वाहेति मन्त्रेणार्घ्यं निवेदयेदित्यर्थः ॥ ५४ ॥ ५५ ॥
रज आदिगुणभेदात् प्रातर्मध्याह्नसायाह्ने त्रिरूपत्वं प्रदर्शयन् गायत्र्या ध्यानमेवाह प्रातर्ब्राह्मीमित्यादिभिः ।
प्रातरिति ।
रक्तवर्णाम् रक्तो लोहितो
मध्याह्ने तां श्यामवर्णां वैष्णवीञ्च चतुर्भुजाम् ।
शङ्खचक्रगदापद्मधारिणीं गरुडासनाम् ॥ ५७ ॥
पीनोत्तुङ्गकुचद्वन्द्वां वनमालाविभूषिताम् ।
युवतीं सततं ध्यायेन्मध्ये मार्तण्डमण्डले ॥ ५८ ॥
सायाह्ने वरदां देवीं गायत्रीं संस्मरेद् यतिः ।
शुक्लां शुक्लाम्बरधरां वृषासनकृताश्रयाम् ॥ ५९ ॥
त्रिनेत्रां वरदां पाशं शूलञ्च नृकरोटिकाम् ।
विभ्रतीं करपद्मैश्च वृद्धां गलितयौवनाम् ॥ ६० ॥
वर्णो यस्यास्ताम् ।
द्विभुजां द्वौ भुजौ बाहू यस्यास्तथाभूताम् ।
तीर्थपूर्णं गङ्गादितीर्थजलैः पूरितं कमण्डलुम् अच्छमालां स्वच्छमाल्यञ्च पाणिभ्यां विभ्रतीं दधतीम् ।
कृष्णाजिनाम्बरधरां नीलचर्मरूपं वस्त्रं परिदधतीम् ।
हंसारूढां हंसः पक्षिविशेषस्तमारूढाम् ।
शुचिस्मितां शुचि पवित्रं शुभ्रं वा स्मितमीषद्धासो यस्यास्ताम् ।
कुमारिकां कन्यकाम् ।
ब्राह्मीं ब्रह्मणः शक्तिम् ।
एवम्भूतां गायत्रीं देवीं प्रातःकाले ध्यायेत् ।
अग्रेऽप्येवमेवान्वयः कर्तव्यः ॥ ५६ ॥
मध्याह्न इति ।
तां गायत्रीम् ॥ ५७ ॥
पीनेति ।
पीनं वृहत्तुङ्गमुन्नतं कुचद्वन्द्वं यस्याः तथाभूताम् ॥ ५८ ॥
सायाह्ने इत्यादि ।
यतिः निर्जितेन्द्रियव्यूहः ।
ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते इत्यमरः ।
वृषासनकृताश्रयाम् वृषरूपमासनं यस्य स वृषासनः शिवः स एव कृत आश्रयो निजाधारो यया तथाभूताम् ।
अथवा वृषरूपं यदासनं तदात्मकः कृत आश्रयो यया तथाभूताम् ॥ ५९ ॥
त्रिनेत्रमिति ।
नृकरोटिकाम् नरकपालम् ।
गलितयौवनां ध्वस्ततारुण्याम् ॥ ६० ॥
एवं ध्यात्वा महादेव्यै जलानामञ्जलित्रयम् ।
दत्वा जपेत्तु गायत्रीं दशधा शतधाऽपि वा ॥ ६१ ॥
गायत्रीं शृणु देवेशि वदामि तव भावतः ।
आद्यायै पदमुच्चार्य विद्महे तदनन्तरम् ॥ ६२ ॥
परमेश्वर्यै धीमहि तन्नः काली प्रचोदयात् ।
एषा तु तव गायत्री महापापप्रणाशिनी ॥ ६३ ॥
त्रिसन्ध्यमेतां प्रजपन् सन्ध्यायाः फलमाप्नुयात् ।
ततस्तु तर्पयेद्भद्रे देवर्षिपितृदेवताः ॥ ६४ ॥
प्रणवं सद्वितीयाख्यां तर्पयामि नमः पदम् ।
शक्तौ तु प्रणवे मायां नमःस्थाने द्विठं वदेत् ॥ ६५ ॥
एवमित्यादि ।
महादेव्यै गायत्र्यै दशधा शतधाऽपि वा दशवारं शतवारं वेत्यर्थः ॥ ६१ ॥
गायत्रीमित्यादिना गायत्रीं वक्तुमुपक्रमते ।
भावतः प्रीतितः ॥ ६२ ॥
तां गायत्रीमेवाह आद्यायै इत्यादिना ।
पूर्वमाद्यायै इति पदमुच्चार्य तदनन्तरं विद्महे इति पदमुच्चरेत् ।
तदनन्तरं परमेश्वर्यै धीमहि तन्नः काली प्रचोदयादित्युच्चरेत् ।
योजनया आद्यायै विद्महे परमेश्वर्यै धीमहि तन्नः काली प्रचोदयादित्याकारा गायत्र्यासीत् ।
एतद्गायत्र्यर्थस्तु आद्यायै परमेश्वर्यै आद्यां परमेश्वरीं प्राप्तुं यां वयं विद्महे मन्यामहे धीमहि चिन्तयामश्च तत् जगत्कारणत्वेन अतिप्रसिद्धा काली नोऽस्मान् प्रचोदयात् प्रेरयेत् धर्मार्थकाममोक्षेषु विनियोजयेदित्यर्थ इति ॥ ६३ ॥
त्रिसन्ध्यमिति ।
एताम् केवलां तव गायत्रीम् ।
ततस्तु गायत्रीजपादनन्तरं तु ॥ ६४ ॥
ननु केन केन मन्त्रेण देवर्षिपितृदेवतास्तर्पयितव्या इत्याकाङ्क्षायां तर्पणमन्त्रमाह प्रणवमित्यादिना ।
पूर्वं प्रणवमोङ्कारं वदेत् ।
ततः सद्वितीयाख्यां
मूलान्ते सर्वभूतान्ते निवासिन्यै पदं वदेत् ।
सर्वस्वरूपां ङेयुक्तां सायुधाऽपि तथा पठेत् ॥ ६६ ॥
सावरणां सचतुर्थीं तद्वदेव परात्पराम् ।
आद्यायै कालिकायै त इदमर्घ्यं ततो द्विठः ॥ ६७ ॥
अनेनार्घ्यं महादेव्यै दत्त्वा मूलं जपेत् सुधीः ।
यथाशक्ति जपं कृत्वा देव्या वामकरेऽर्पयेत् ॥ ६८ ॥
द्वितीयया विभक्त्या सहितामाख्यां नामधेयं वदेत् ।
ततश्च परं तर्पयामीति नम इति च पदं वदेत् ।
शक्तौ तु शक्तिविषये तु प्रणवे प्रणवस्थाने मायां ह्रीमिति बीजं वदेत् ।
नमःस्थाने द्विठं स्वाहेति पदं वदेत् ।
एतेन ओ।
देवांस्तर्पयामि नम इति मन्त्रेण देवान् ओमृषींस्तर्पयामि नम इत्यनेन ऋषीन् ओ।
पितॄंस्तर्पयामि नम इति मन्त्रेण पितॄन् ह्री।
आद्यां कालीं तर्पयामि स्वाहेत्यनेनाद्यां कालीं तर्पयेदिति ज्ञापितम् ॥ ६५ ॥
मूलान्त इत्यादि ।
मूलस्य ह्री।
श्री।
क्री।
परमेश्वरि स्वाहेति मन्त्रस्यान्ते यत् सर्वभूतेति पदं तस्यान्ते निवासिन्यै इति पदं वदेत् ।
ततो ङेयुक्तां सर्वस्वरूपां वदेत् ।
ततः तथा ङेयुक्ता सायुधेत्यपि पदं वदेत् ।
ततः तद्वदेव सचतुर्थीमेव परात्परां वदेत् ।
ततः आद्यायै कालिकायै ते इदमर्घ्यमिति वदेत् ।
ततो द्विठः स्वाहेति पदं वदेत् ।
सकलपदयोजनया ह्री।
श्री।
क्री।
परमेश्वरि स्वाहा सर्वभूतनिवासिन्यै सर्वस्वरूपायै सायुधायै सावरणायै परात्परायै आद्यायै कालिकायै ते इदमर्घ्यं स्वाहेति मन्त्र आसीत् ॥ ६६ ॥ ६७ ॥
अनेनेति ।
अनेनानन्तरमेवोक्तेन मन्त्रेण महादेव्यै अर्घ्यं दत्त्वा सुधीर्धीरः साधको मूलं मन्त्रं जपेत् ।
यथाशक्ति जपं कृत्वा च जपजन्यं फलं देव्या वामकरेऽर्पयेत् दद्यात् ॥ ६८ ॥
प्रणम्य देवीं पूजार्थं जलमादाय साधकः ।
नत्वा तीर्थं पठन् स्तोत्रं देवताध्यानतत्परः ॥ ६९ ॥
यागमण्डपमागत्य पाणिपादौ विशोधयेत् ।
ततो द्वारस्य पुरतः सामान्यार्घ्यं प्रकल्पयेत् ॥ ७० ॥
त्रिकोणवृत्तभूबिम्बं मण्डलं रचयेत् सुधीः ।
आधारशक्तिं सम्पूज्य तत्राऽधारं नियोजयेत् ॥ ७१ ॥
अस्त्रेण पात्रं प्रक्षाल्य हृन्मन्त्रेण प्रपूर्य च ।
निक्षिप्य गन्धं पुष्पञ्च तीर्थान्यावाहयेत्ततः ॥ ७२ ॥
आधारपात्रतोयेषु वह्न्यर्कशशिमण्डलम् ।
पूजयित्वा तद्दशधा मायाबीजेन मन्त्रयेत् ॥ ७३ ॥
प्रणम्येति ।
ततः साधको देवीं प्रणम्य पूजार्थं जलमादाय गृहीत्वा तीर्थं नत्वा च स्तोत्रं पठन् देवताध्यानतत्परः सन् यागमण्डपं यजनगृहमागत्य पाणिपादौ विशोधयेत् धावेत् ।
ततो द्वारस्य पुरतोऽग्रे सामान्यार्घ्यं प्रकल्पयेत् रचयेत् ॥ ६९ ॥ ७० ॥
ननु सामान्यार्घ्यं किं नामेत्यत आह त्रिकोणेत्यादि ।
सुधीर्विचक्षणः त्रिकोणञ्च वृत्तञ्च भूबिम्बं चैतेषां समाहारः त्रिकोणवृत्तभूविम्बं मण्डलं रचयेत् ।
पूर्वं त्रिकोणं ततस्तद्वहिरभितो वृत्तं वर्तुलं ततस्तद्वहिर्भूबिम्बं चतुष्कोणञ्च मण्डलं कुर्यादित्यर्थः ।
तत्र रचिते मण्डले ओ।
आधारशक्तये नम इति मन्त्रेण गन्धपुष्पादिभिराधारशक्तिं सम्पूज्य सामान्यार्घ्यं पात्रस्थापनाय तस्मिन्नेव रचिते मण्डले कमप्याधारं नियोजयेत् स्थापयेत् ॥ ७१ ॥
अस्त्रेणेति ।
अस्त्रेण फडिति मन्त्रेण पात्रं प्रक्षाल्याऽधारे संस्थाप्य च हृन्मन्त्रेण नमोमन्त्रेण जलैः प्रपूर्य च तत्र गन्धं चन्दनादिकं पुष्पञ्च निक्षिप्य ततःपरं तत्र तीर्थान्यावाहयेत् ॥ ७२ ॥
आधारेति ।
ततः आधारश्च पात्रञ्च तोयञ्च तान्याधारपात्रतोयानि तेषु वह्न्यर्कशशिमण्डलं पूजयित्वा आधारे वह्निमण्डलं पात्रेऽर्कमण्डलं तोये च
प्रदर्शयेद्धेनुयोनिं सामान्यार्घ्यमिदं स्मृतम् ।
ततस्तज्जलपुष्पैश्च पूजयेद् द्वारदेवताः ॥ ७४ ॥
गणेशं क्षेत्रपालञ्च वटुकं योगिनीं तथा ।
गङ्गाञ्च यमुनाञ्चैव लक्ष्मीं वाणीं ततो यजेत् ॥ ७५ ॥
किञ्चित् स्पृशन् वामशाखां वामपादपुरःसरम् ।
स्मरन् देव्याः पदाम्भोजं मण्डपं प्रविशेत् सुधीः ॥ ७६ ॥
शशिमण्डलं वक्ष्यमाणमन्त्रेण गन्धपुष्पादिभिरर्चयित्वेत्यर्थः ।
दशधा दशवारं मायाबीजेन ह्रीमितिबीजेन तज्जलं मन्त्रयेत् ॥ ७३ ॥
प्रदर्शयेदिति ।
ततः तस्योपरि धेनुयोनी मुद्रे प्रदर्शयेत् ।
इदमेव सामान्यार्घ्यं स्मृतम् ।
ततःपरं तज्जलपुष्पैः सामान्यार्घ्यसम्बन्धितोयकुसुमैर्द्वारदेवताः पूजयेत् ।
धेनुमुद्रा यथा ।
अन्योन्याभिमुखाश्लिष्टा कनिष्ठानामिका पुनः ।
तथा च तर्जनीमध्या धेनुमुद्राऽमृतप्रदेति ॥ ७४ ॥
या द्वारदेवताः पूजयेत्ता एव दर्शयन्नाह गणेशमित्यादि ।
गां गणेशाय नम इति मन्त्रेण गणेशम् क्षां क्षेत्रपालाय नम इति मन्त्रेण क्षेत्रपालम् वां वटुकाय नम इत्यनेन वटुकम् यां योगिन्यै नम इत्यनेन योगिनीम् गां गङ्गायै नम इत्यनेन गङ्गाम् यां यमुनायै नम इति मन्त्रेण यमुनाम् श्री।
लक्ष्म्यै नम इत्यनेन लक्ष्मीम् ऐ।
सरस्वत्यै नम इति मन्त्रेण वाणीं गन्धपुष्पादिभिर्यजेत् पूजयेत् ॥ ७५ ॥
किञ्चिदिति ।
ततो वामशाखां द्वारस्थितचतुष्काष्ठानां मध्ये वामं काष्ठं किञ्चित् स्पृशन् देव्याः पदाम्भोजञ्च स्मरन् सुधीः साधको वामपादपुरःसरं यथा स्यात् तथा मण्डपं देवीयजनमण्डपं देवीयजनमन्दिरं प्रविशेत् ॥ ७६ ॥
नैरृत्यां दिशि वास्त्वीशं ब्रह्माणञ्च समर्चयन् ।
सामान्यार्घ्यस्य तोयेन प्रोक्षयेद्यागमन्दिरम् ॥ ७७ ॥
अनन्तरं साधकेन्द्रो दिव्यदृष्ट्यवलोकनैः ।
दिव्यानुत्सारयेद्विघ्नानस्त्राद्भिश्चान्तरीक्षगान् ॥ ७८ ॥
पार्ष्णिघातत्रिभिर्भौमानिति विघ्नान्निवारयेत् ।
चन्दनागुरुकस्तूरीकर्पूरैर्यागमण्डपम् ॥ ७९ ॥
धूपयेत् स्वोपवेशार्थं चतुरस्रं त्रिकोणकम् ।
विलिख्य पूजयेत्तत्र कामरूपाय हृन्मनुः ॥ ८० ॥
तत्राऽसनं समास्तीर्य काममाधारशक्तितः ।
कमलासनाय नमो मन्त्रेणैवासनं यजेत् ॥ ८१ ॥
नैरृत्यामित्यादि ।
मण्डपं प्रविश्य च तत्रैव नैरृत्यां दिशि प्रणवादिनमोऽन्तेन मन्त्रेण गन्धपुष्पादिभिर्वास्त्वीशं ब्रह्माणं च समर्चयन् पूजयन् सन् सामान्यार्घ्यस्य तोयेन यागमन्दिरं प्रोक्षयेत् प्रसिञ्चेत् ॥ ७७ ॥
अनन्तरमिति ।
अनन्तरं ततःपरमेव साधकेन्द्रो दिव्यदृष्ट्यवलोकनैः निमेषशून्या दृष्टिर्दिव्यदृष्टिस्तयाऽवलोकनैर्निरीक्षणैः ।
दिवि भवा दिव्यास्तान् विघ्नानुत्सारयेन्निवारयेत् ।
अन्तरिक्षगान् गगनगतान् विघ्नांस्तु अस्त्राद्भिः फडिति मन्त्रेण जलैश्चोत्सारयेत् ।
भौमान् भूमिभवान् विघ्नांस्तु पार्ष्णिघातत्रिभिः त्रिभिः पादतलाघातैर्निवारयेत् ।
ततो यागमण्डपं चन्दनागुरुकस्तूरीकर्पूरैर्धूपयेत् वासयेत् ।
ततः स्वोपवेशार्थं त्रिकोणकं तद्वहिश्चतुरस्रं चतुष्कोणञ्च मण्डलं विलिख्य तत्र लिखिते मण्डले तदधिष्ठातृदैवतं कामरूपं कामरूपाय हृत् कामरूपाय नम इति यो मनुर्मन्त्रस्तेन गन्धपुष्पादिभिः पूजयेत् ॥ ७८ � ८० ॥
तत्रेति ।
ततस्तत्र मण्डले आसनमास्तीर्याच्छाद्य पूर्वं कामं क्लीमिति बीजमुच्चार्य ततः आधारशक्तीति वदेत् ।
आधारशक्तितश्च परं कमलासनाय
उपविश्यासने विद्वान् प्राङ्मुखो वाप्युदङ्मुखः ।
बद्धवीरासनो मन्त्री विजयां परिशोधयेत् ॥ ८२ ॥
तारं मायां समुच्चार्य अमृते अमृतोद्भवे ।
अमृतवर्षिणि ततोऽमृतमाकर्षय द्विधा ॥ ८३ ॥
सिद्धिं देहि ततो ब्रूयात् कालिकां मे ततः परम् ।
वशमानय ठद्वन्द्वं संविदाशोधने मनुः ॥ ८४ ॥
मूलमन्त्रं सप्तवारं प्रजप्य विजयोपरि ।
आवाहन्यादिमुद्राञ्च धेनुयोनी प्रदर्शयेत् ॥ ८५ ॥
नम इति वदेत् ।
योजनया क्लीमाधारशक्तिकमलासनाय नम इति मन्त्रो जातः ।
अनेनैव मन्त्रेणासनं तदधिष्ठातृदैवतं यजेत् ॥ ८१ ॥
विजयां भङ्गाम् ॥ ८२ ॥
ननु केन मन्त्रेण विजयां परिशोधयेदित्यपेक्षायां तच्छोधनमन्त्रमेवाह तारमित्यादिद्वाभ्याम् ।
पूर्वं तारं प्रणवं मायां ह्रीमिति बीजञ्च समुच्चार्य ततःपरम् अमृते अमृतोद्भवे अमृतवर्षिणि इति ब्रूयात् ।
ततोऽमृतमिति ब्रूयात् ।
ततो द्विधा द्विवारमाकर्षयेति ब्रूयात् ।
ततश्च सिद्धिं देहीति ब्रूयात् ।
ततःपरं कालिकां मे इति ब्रूयात् ।
ततश्च वशमानयेति ठद्वन्द्वं स्वाहेति ब्रूयात् ।
सकलपदयोजनया ओ।
ह्री।
अमृते अमृतोद्भवे अमृतवर्षिणि अमृतमाकर्षयाकर्षय सिद्धिं देहि कालिकां मे वशमानय स्वाहेति मन्त्रो जातः ।
संविदाशोधने भङ्गायाः शोधनेऽयमेव मनुः प्रोक्तः ॥ ८३ ॥ ८४ ॥
मूलमन्त्रमिति ।
विजयोपरि मूलमन्त्रं सप्तवारं प्रजप्य आवाह्यते यया सा आवाहनी मुद्रा सा मुद्रा आदिर्यस्याः सा आवाहन्यादिः सा चासौ मुद्रा चेत्यावाहन्यादिमुद्रा ताम् ।
धेनुयोनी च मुद्रे विजयोपरि प्रदर्शयेत् ।
आवाहन्यादिमुद्रा यथा दक्षिणामूर्तिसंहितायाम् ।
गुरुं पद्मे सहस्रारे यथा सङ्केतमुद्रया ।
त्रिधैव तर्पयेद्देवीं हृदि मूलं समुच्चरन् ॥ ८६ ॥
वाग्भवं वदयुग्मञ्च वाग्वादिनि पदं ततः ।
मम जिह्वाग्रे स्थिरीभव सर्वसत्ववशङ्करि ।
स्वाहान्तेनैव मनुना जुहुयात् कुण्डलीमुखे ॥ ८७ ॥
स्वीकृत्य संविदां वामकर्णोर्द्ध्वे श्रीगुरुं नमेत् ।
दक्षिणे च गणेशानमाद्यां मध्ये सनातनीम् ।
कृताञ्जलिपुटो भूत्वा देवीध्यानपरायणः ॥ ८८ ॥
पुटाञ्जलिमधः कुर्यादियमावाहनी भवेत् ।
इयन्तु विपरीतेन तदा वै स्थापनी भवेत् ॥
ऊर्द्ध्वाङ्गुष्ठकमुष्टिभ्यां तदेयं सन्निधापनी ।
अन्ताङ्गृष्ठकमुष्टिभ्यां तदेयं सन्निरोधिनीति ॥ ८५ ॥
गुरुमिति ।
ऐ।
अमुकानन्दनाथं श्रीगुरुं तर्पयामि नमः इति मन्त्रेण सङ्केतमुद्रया गुरूपदिष्टया तत्त्वमुद्रया सहस्रारे सहस्रदले पद्मे गुरुं यथावत्रिधा विजयया तर्पयेत् ।
मूलं मन्त्रं समुच्चरन् सन् ह्री।
आद्यां कालीं तर्पयामि स्वाहेति मन्त्रेण तत्त्वमुद्रयैव हृदये देवीं विजयया त्रिधैव तर्पयेत् ॥ ८६ ॥
वाग्भवमिति ।
पूर्वं वाग्भवम् ऐमिति बीजं वदेत् ।
ततो वदयुग्मं वदेत् ।
ततो वाग्वादिनि इति पदं वदेत् ।
ततो मम जिह्वाग्रे स्थिरीभव सर्वसत्त्ववशङ्करि इति वदेत् ।
योजनया ऐ।
वद वद वाग्वादिनि मम जिह्वाग्रे स्थिरीभव सर्वसत्त्ववशङ्करि मन्त्रो जातः ।
स्वाहान्तेनैवामुना मनुना कुण्डलीमुखे विजयां जुहुयात् दद्यात् ॥ ८७ ॥
स्वीकृत्येति ।
एवं संविदां भङ्गां स्वीकृत्य गृहीत्वा वामकर्णस्योर्ध्वदेशे ओ।
श्रीगुरुभ्यो नम इति मन्त्रेण श्रीगुरुं नमेत् ।
दक्षिणे दक्षिणकर्णस्योर्द्ध्वदेशे
पूजाद्रव्याणि सर्वाणि दक्षिणे स्थापयेत् सुधीः ।
वामे सुवासितं तोयं कुलद्रव्याणि यानि च ॥ ८९ ॥
अस्त्रान्तमूलमन्त्रेण सामान्यार्घ्योदकेन च ।
सम्प्रोक्ष्य सर्ववस्तूनि वेष्टयेज्जलधारया ।
वह्निबीजेन देवेशि वह्नेः प्राकारमाचरेत् ॥ ९० ॥
पुष्पं चन्दनसंयुक्तमादाय करयोर्द्वयोः ।
अस्त्रेण घर्षयित्वा तत् प्रक्षिपेत् करशुद्धये ॥ ९१ ॥
तर्जनीमध्यमाभ्याञ्च वामपाणितले शिवे ।
ऊर्ध्वोर्द्ध्वतालत्रितयं दत्वा दिग्बन्धनं ततः ।
अस्त्रेण छोटिकाभिश्च भूतशुद्धिमथाऽचरेत् ॥ ९२ ॥
ओ।
गणेशाय नम इति मन्त्रेण गणेशानं नमेत् ।
ओ।
सनातन्यै आद्यायै काल्यै नम इत्यनेन मध्ये ललाटदेशे सनातनीमाद्यां कालिकां नमेत् ॥ ८८ ॥
पूजेति ।
पूजाद्रव्याणि पुष्पादीनि ।
कुलद्रव्याणि मद्यादीनि ॥ ८९ ॥
अस्त्रान्तेति ।
ततः अस्त्रान्तमूलमन्त्रेण फडन्तेन मूलमन्त्रेण सामान्यार्घ्योदकेन च सर्ववस्तूनि सम्प्रोक्ष्याभिषिञ्च्य जलधारया वेष्टयेत् ।
हे देवेशि ततो वह्निबीजेन रमिति बीजेन वह्नेः प्राकारमावरणमाचरेत् कुर्यात् ॥ ९० ॥
पुष्पमिति ।
ततः करशुद्धये चन्दनसंयुक्तं पुष्पं द्वयोः करयोरादाय गृहीत्वा अस्त्रेण फडिति मन्त्रेण तत् पुष्पं घर्षयित्वा प्रक्षिपेत् ॥ ९१ ॥
तर्जनीति ।
हे शिवे ततः तर्जनीमध्यमाभ्यामङ्गुलिभ्यां वामपाणितले ऊर्ध्वोर्द्ध्वं तालत्रितयं दत्त्वा ततोऽस्त्रेण फडिति मन्त्रेण छोटिकाभिरङ्गुलिध्वनिभिश्च दिग्बन्धनमाचरेत् ।
अथ दिग्बन्धनादनन्तरं भूतशुद्धिमाचरेत् ॥ ९२ ॥
स्वाङ्के निधाय च करावुत्तानौ साधकोत्तमः ।
मनो निवेश्य मूले च हुङ्कारेणैव कुण्डलीम् ॥ ९३ ॥
उत्थाप्य हंसमन्त्रेण पृथिव्या सहितां तु ताम् ।
स्वाधिष्ठानं समानीय तत्वं तत्वे नियोजयेत् ॥ ९४ ॥
गन्धादिघ्राणसंयुक्तां पृथिवीमप्सु संहरेत् ।
रसादिजिह्वया सार्द्धं जलमग्नौ विलापयेत् ॥ ९५ ॥
रूपादिचक्षुषा सार्द्धमग्निं वायौ विलाप्य च ।
स्पर्शादित्वग्युतं वायुमाकाशे प्रविलापयेत् ॥ ९६ ॥
अहङ्कारे हरेद् व्योम सशब्दं तन्महत्यपि ।
महत्तत्वञ्च प्रकृतौ तां ब्रह्मणि विलापयेत् ॥ ९७ ॥
भूतशुद्ध्याचरणप्रकारमेवाह स्वाङ्के इत्यादिभिः ।
साधकोत्तमः स्वाङ्के स्वक्रोडे उत्तानौ करौ निधाय संस्थाप्य मूले मूलाधारचक्रे च मनो निवेश्य हूङ्कारेणैव कुण्डलीमुत्थाप्य हंसमन्त्रेण हंसः इत्यात्मकेनैव मन्त्रेण पृथिव्या सहितां तां कुण्डलीं शक्तिं स्वाधिष्ठानं स्वाधिष्ठानचक्रं समानीय तत्वं पृथिव्यादिकं तत्वे जलादौ नियोजयेत् विलापयेत् ॥ ९३ ॥ ९४ ॥
पृथिव्यादेस्तत्वस्य जलादितत्वे विलापनप्रकारमेव दर्श्यन्नाह गन्धादीत्यादि ।
गन्ध आदिर्यस्य तद्गन्धादि एवम्भूतञ्च तद्घ्राणं नासा चेति गन्धादिघ्राणे तेन संयुक्तां पृथिवीम् अप्सु जलेषु संहरेत् विलापयेत् ।
घ्राणादीति पाठे तु घ्रायते नासिकया गृह्यते यः स घ्राणो गन्ध एव ।
जलादिकमप्यग्न्यादावेवमेव विलापयेत् ॥ ९५ ॥ ९६ ॥
अहङ्कार इति ।
अहङ्कारे सशब्दं शब्दसहितं व्योम आकाशं हरेत् विलापयेत् ।
तत् अहङ्कारतत्त्वं महति महत्तत्त्वे हरेत् ।
महत्तत्त्वञ्च प्रकृतौ विलापयेत् ।
तां प्रकृतिं ब्रह्मणि विलापयेत् ॥ ९७ ॥
इत्थं विलाप्य मतिमान् वामकुक्षौ विचिन्तयेत् ।
पुरुषं कृष्णवर्णञ्च रक्तश्मश्रुविलोचनम् ॥ ९८ ॥
रक्तचर्मधरं क्रुद्धमङ्गुष्ठपरिमाणकम् ।
सर्वपापस्वरूपञ्च सर्वदाऽधोमुखस्थितम् ॥ ९९ ॥
ततस्तु वामनासायां यं बीजं धूम्रवर्णकम् ।
सञ्जिन्त्य पूरयेत्तेन वायुं षोडशमात्रया ।
तेन पापात्मकं देहं शोषयेत् साधकाग्रणीः ॥ १०० ॥
नाभौ रं रक्तवर्णञ्च ध्यात्वा तज्जातवह्निना ।
चतुःषष्ट्या कुम्भकेन दहेत् पापरतान्तनूम् ॥ १०१ ॥
इत्थमिति ।
मतिमान् साधक इत्थममुना प्रकारेण पृथिव्यादितत्त्वं विलाप्य वामकुक्षौ वामे उदरे कृष्णवर्णं सर्वपापस्वरूपं पुरुषं विचिन्तयेत् ।
रक्तश्मश्रुविलोचनमित्यादीनि द्वितीयान्तपदानि सर्वपापस्वरूपस्य पुरुषस्यैव विशेषणानि ।
रक्तश्मश्रुविलोचनम् रक्ते लोहितवर्णे श्मश्रुविलोचने यस्य तथाभूतम् ॥ ९८ ॥ ९९ ॥
ततस्त्विति ।
ततोऽनन्तरन्तु वामनासायां धूम्रवर्णकं यं बीजं सञ्चिन्त्य तदेव बीजं जपन् साधकस्तेन वामनासारन्ध्रेण षोडशमात्रया वायुं पूरयेदाकर्षेत् ।
साधकाग्रणीः साधकोत्तमस्तेन पूरितेन वायुना पापात्मकं पापमात्मनि स्वस्मिन् यस्य एवम्भूतदेहं शोषयेत् ॥ १०० ॥
नाभाविति ।
ततो नाभौ रक्तवर्णं रमिति बीजं ध्यात्वा तदेव बीजं जपन्नपि तज्जातवह्निना ततो रमिति बीजादुत्पन्नेनाग्निना चतुःषष्ट्या कुम्भकेन पापरतां निजां तनूं दहेत् ॥ १०१ ॥
ललाटे वारुणं बीजं शुक्लवर्णं विचिन्त्य च ।
द्वात्रिंशता रेचकेन प्लावयेदण्टाम्भसा ॥ १०२ ॥
आपादशीर्षपर्यन्तमाप्लाव्य तदनन्तरम् ।
उत्पन्नं भावयेद्देहं नवीनं देवतामयम् ॥ १०३ ॥
पृथ्वीबीजं पीतवर्णं मूलाधारे विचिन्तयन् ।
तेन दिव्यावलोकेन दृढीकुर्यान्निजां तनूम् ॥ १०४ ॥
हृदये हस्तमादाय आ।
ह्री।
क्रो।
हंस उच्चरन् ।
सोऽहं मन्त्रेण तद्देहे देव्याः प्राणान् निधापयेत् ॥ १०५ ॥
भूतशुद्धिं विधायेत्थं देवीभावपरायणः ।
समाहितमनाः कुर्यात् मातृकान्यासमम्बिके ॥ १०६ ॥
ललाटे इति ।
ततो ललाटे शुक्लवर्णं वारुणं वमिति बीजं सञ्चिन्त्य तदेव बीजं जपन्नपि द्वात्रिंशता रेचकेनामृताम्भसा वारुणबीजच्युतेनामृतरूपेण जलेन दग्धां तनूं प्लावयेत् ॥ १०२ ॥
आपादेति ।
एवमापादशीर्षपर्यन्तं देहमाप्लाव्य तदनन्तरं देवतामयं देवतादेहस्वरूपं नवीनमुत्पन्नं देहं भावयेत् चिन्तयेत् ॥ १०३ ॥
पृथ्वीति ।
ततो मूलाधारे पीतवर्णं लमित्याकारकं पृथ्वीबीजं विचिन्तयन् सन् तेन लमिति बीजेन दिव्यावलोकेन च निजां तनूं दृढीकुर्यात् ॥ १०४ ॥
हृदये इति ।
ततो हृदये हस्तमादाय निधाय आ।
ह्री।
क्रो।
हंस इत्युच्चरन् साधकः सोऽहं मन्त्रेण तद्देहं तस्मिन्नवीने देहे देव्याः प्राणान् प्रतिष्ठयेत् आ।
ह्री।
क्रो।
हंसः सोऽहमिति मन्त्रेण तत्र देहे देव्याः प्राणानां प्रतिष्ठां कुर्यादित्यर्थः ॥ १०५ ॥
देवीभावपरायणः देवीस्वरूपोऽहमिति चिन्तनतत्परः ॥ १०६ ॥
मातृकाया ऋषिर्ब्रह्मा गायत्रीछन्द ईरितम् ।
देवता मातृका देवी बीजं व्यञ्जनसञ्ज्ञकम् ॥ १०७ ॥
स्वराश्च शक्तयः सर्गः कीलकं परिकीर्तितम् ।
लिपिन्यासे महादेवि विनियोगप्रयोगिता ।
ऋषिन्यासं विधायैवं कराङ्गन्यासमाचरेत् ॥ १०८ ॥
अम् आं मध्ये कवर्गञ्च इम् ईं मध्ये चवर्गकम् ।
उम् ऊं मध्ये टवर्गन्तु एम् ऐं मध्ये तवर्गकम् ॥ १०९ ॥
ॐ औं मध्ये पवर्गन्तु यादिक्षान्तं वरानने ।
बिन्दु सर्गान्तराले च षडङ्गे मन्त्र ईरितः ॥ ११० ॥
विन्यस्य न्यासविधिना ध्यायेन्मातृसरस्वतीम् ॥ १११ ॥
अथ मातृकान्यासक्रममेव दिदर्शयिष्यन् मातृकाया ऋष्यादिकमाह मातृकाया इत्यादिना ।
सर्गः विसर्गः ।
विनियोगप्रयोगिता विनियोगस्य प्रयोगित्वम् विनियोगः प्रयोक्तव्य इत्यर्थः ।
अस्या मातृकाया ब्रह्मा ऋषिर्गायत्री छन्दः ।
मातृका सरस्वती देवी देवता ।
हलो बीजम् ।
स्वराः शक्तयः ।
विसर्गः कीलकम् ।
धर्मार्थकाममोक्षावाप्तये लिपिन्यासे विनियोगः ।
शिरसि ब्रह्मणे ऋषये नमः ।
मुखे गायत्र्यै छन्दसे नमः ।
हृदये मातृकायै सरस्वत्यै देव्यै देवतायै नमः ।
गुह्ये व्यञ्जनाय बीजाय नमः ।
पादयोः स्वरेभ्यः शक्तिभ्यो नमः ।
सर्वाङ्गेषु विसर्गाय कीलकाय नमः ।
धर्मार्थकाममोक्षावाप्तये लिपिन्यासे विनियोगः ।
एवम् ऋषिन्यासं विधाय कृत्वा कराङ्गन्यासमाचरेत् कुर्यात् ॥ १०७ ॥ १०८ ॥
कराङ्गन्यासक्रममेवाह अम् आं मध्ये इत्यादिना ।
अम् आं मध्ये स्थितं कवर्गम् इम् ईं मध्ये स्थितं चवर्गम् उम् ऊं मध्ये स्थितं टवर्गम् एम् ऐं मध्ये स्थितं तवर्गम् ॐ औं मध्ये स्थितं पवर्गम् बिन्दुसर्गान्तराले अनुस्वारविसर्गमध्ये
पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षःस्थलां
भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलशं विद्याञ्च हस्ताम्बुजै- र्विभ्राणां विषदप्रभां त्रिनयनां वाग्देवतामाश्रये ॥ ११२ ॥
स्थितं यादिक्षान्तञ्च वर्णमङ्गुष्ठादिषु हृदयादिषु च षट्सु षट्सु अङ्गेषु न्यासविधिना यथाक्रमं विन्यस्य मातृसरस्वतीं ध्यायेदित्यन्वयः ।
यथा अं कं खं गं घं ङम् आम् अङ्गुष्ठाभ्यां नमः ।
इं चं छं जं झं ञम् ईं तर्जनीभ्यां स्वाहा ।
उं टं ठं डं ढं णम् ऊं मध्यमाभ्यां वषट् ।
एं तं थं दं धं नम् ऐम् अनामिकाभ्यां हुम् ।
ॐ पं फं बं भं मम् औं कनिष्ठाभ्यां वौषट् ।
अं यं रं लं वं शं षं सं हं लं क्षम् अः करतलकरपृष्ठाभ्यां फट् ।
इति करन्यासः ।
हृदयादिन्यासो यथा अं कं खं गं घं ङम् आं हृदयाय नमः ।
इं चं छं जं झम् अम् ईं शिरसे स्वाहा ।
उं टं ठं डं ढं णम् ऊं शिखायै वषट् ।
एं तं थं दं धं नम् ऐं कवचाय हुम् ।
ॐ पं फं बं भं मम् औं नेत्रत्रयाय वौषट् ।
अं यं रं लं वं शं षं सं हं लं क्षम् अः अस्त्राय फट् ।
इति षडङ्गे न्यासेऽयमेव मन्त्र ईरितः कथितः ॥ १०९-१११ ॥
मातृसरस्वतीध्यानमेवाह पञ्चाशल्लिपिभिरिति ।
वाग्देवतां सरस्वतीमाश्रये भजे इत्यन्वयः ।
कथम्भूतां वाग्देवताम् पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षक्षःस्थला म् पञ्चाशता वर्णैर्विभक्तानि पृथक् पृथक् भूतानि मुखदोःपन्मध्यवक्षःस्थलानि यस्यास्तथाभूताम् ।
तत्र दोर्बाहुः पद् पादः ।
पुनः कथम्भूताम् भास्वन्मौलिनिबद्धचन्द्रशकलाम् भास्वन्मौलौ दीप्यमाने किरीटे निबद्धं चन्द्रशकलं चन्द्रखण्डं यया ताम् ।
चूडा किरीटं केशाश्च संयता मौलयस्त्रय इत्यमरः ।
पुनः कथम्भूताम् आपीनतुङ्गस्तनीम् आपीनौ अतिमहान्तौ तुङ्गावुन्नतौ स्तनौ यस्यास्तथाभूताम् ।
पुनः कथम्भूताम् हस्ताम्बुजैः पाणिकमलैर्ज्ञानमुद्राम् अक्षगुणमक्षमाल्यम् सुधाढ्यकलशममृतयुक्तं घटं विद्याञ्च
ध्यात्वैवं मातृकां देवीं षट्सु चक्रेषु विन्यसेत् ।
हक्षौ भ्रूमध्यगे पद्मे कण्ठे च षोडश स्वरान् ॥ ११३ ॥
हृदम्बुजे कादिठान्तान् विन्यस्य कुलसाधकः ।
डादिफान्तान् नाभिदेशे बादिलान्तांश्च लिङ्गके ॥ ११४ ॥
मूलाधारे चतुष्पत्रे वादिसान्तान् प्रविन्यसेत् ।
इत्यन्तर्मनसा न्यस्य मातृकार्णान् वहिर्न्यसेत् ॥ ११५ ॥
विभ्राणां दधतीम् ।
पुनः कीदृशीम् विशदप्रभाम् विशदा शुभ्रा प्रभा यस्यास्ताम् ।
पुनः कीदृशीम् त्रीणि नयनानि नेत्राणि यस्यास्तथाभूताम् ॥ ११२ ॥
ध्यात्वेति ।
एवं मातृकां देवीं ध्यात्वा षट्सु चक्रेषु विन्यसेत् ।
षट्सु चक्रेषु मातृकाया न्यासस्य क्रममेवाह हक्षावित्यादिना ।
भ्रूमध्यगे विशुद्धाख्ये द्विदले पद्मे हक्षौ वर्णौ विन्यसेत् ।
कण्ठे कण्ठस्थिते आज्ञाख्ये षोडशपत्रे पद्मे षोडश स्वरान् न्यसेत् ।
हृदम्बुजे अनाहताख्ये द्वादशदले हृदयपद्मे कादिठान्तान् द्वादशवर्णान् विन्यस्य कुलसाधको नाभिदेशस्थिते मणिपूरकाख्ये दशदले पद्मे डादिफान्तान् दशवर्णान् विन्यसेत् ।
लिङ्गके लिङ्गदेशस्थे स्वाधिष्ठानाख्ये षड्दले पद्मे वादिलान्तान् षड्वर्णान् विन्यसेत् ।
चतुष्पत्रे मूलाधारे वादिसान्तांश्चतुरो वर्णान् प्रविन्यसेत् ।
यथा भ्रूमध्यगे पद्मे हं नमः क्षं नमः ।
कण्ठगे पद्मे अं नमः आं नमः इं नमः ईं नमः उं नमः ऊं नमः ऋं नमः ॠं नमः ऌं नमः ॡं नमः एं नमः ऐं नमः ॐ नमः औं नमः अं नमः अः नमः ।
हृद्गते पद्मे कं नमः खं नमः गं नमः घं नमः ङं नमः चं नमः छं नमः जं नमः झं नमः ञं नमः टं नमः ठं नमः ।
नाभिगते पद्मे डं नमः ढं नमः णं नमः तं नमः थं नमः दं नमः धं नमः नं नमः पं नमः फं नमः ।
लिङ्गगते पद्मे बं नमः भं नमः मं नमः यं नमः रं नमः लं नमः ।
मूलाधारे वं नमः शं नमः षं नमः सं नमः ।
इति षट्चक्रेषु मातृकान्यासक्रमः ।
ललाटमुखवृत्ताक्षिश्रुतिघ्राणेषु गण्डयोः ।
ओष्ठदन्तोत्तमाङ्गास्य दोःपत् सन्ध्यग्रगेषु च ॥ ११६ ॥
पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयांसयोः ।
ककुद्यंशे च हृत्पूर्वं पाणिपादयुगे ततः ॥ ११७ ॥
जठराननयोर्न्यस्येन्मातृकार्णान् यथाक्रमम् ।
इत्थं लिपिं प्रविन्यस्य प्राणायामं समाचरेत् ॥ ११८ ॥
मायाबीजं षोडशधा जप्त्वा वामेन वायुना ।
पूरयेदात्मनो देहं चतुःषष्ट्या तु कुम्भयेत् ॥ ११९ ॥
इत्यनेन प्रकारेण मनसा मातृकार्णान् मातृकावर्णानन्तरभ्यन्तरे न्यस्य वहिरपि न्यसेत् ॥ ११३ � ११५ ॥
मातृकावर्णानां वहिर्न्यासस्य क्रममाह ललाटेत्यादिना ।
ललाटमुखवृत्तादिषु मातृकार्णान् यथाक्रमं न्यस्येदिति तृतीयेनान्वयः ।
यथा ललाटे अं नमः मुखवृत्ते आं नमः दक्षेऽक्ष्णि इं नमः वामेऽक्ष्णि ईं नमः दक्षश्रुतौ उं नमः वामकर्णे ऊं नमः दक्षघ्राणे ऋं नमः वामनासायाम् ॠं नमः दक्षगण्डे ऌं नमः वामकपोले ॡ नमः ओष्ठे एं नमः अधरे ऐं नमः ऊर्द्ध्वदन्तपङ्क्तौ ॐ नमः अधोदन्तपङ्क्तौ औं नमः उत्तमाङ्गे अं नमः आस्यविवरे अः नमः वाह्वोः दशानां सन्धीनामग्रेषु क्रमतः कं नमः खं नमः गं नमः घं नमः ङं नमः चं नमः छं नमः जं नमः झं नमः ञं नमः ।
पादयोः दशानां सन्धीनामग्रेषु क्रमतः टं नमः ठं नमः डं नमः ढं नमः णं नमः तं नमः थं नमः दं नमः धं नमः नं नमः ।
दक्षपार्श्वे पं नमः वामपार्श्वे फं नमः पृष्ठे बं नमः नाभौ भं नमः जठरे मं नमः हृदये यं नमः दक्षस्कन्धे रं नमः वामस्कन्धे लं नमः ककुद्रूपेऽंशे वं नमः हृदयपूर्वे पाणियुगे शं नमः षं नमः हृत्पूर्वे पादयुगे सं नमः हं नमः जठराननयोः लं नमः क्षं नमः इति मातृकार्णानां वहिर्न्यासस्य क्रमः ॥ ११६ � ११८ ॥
ननु देवीमन्त्रस्य साधने कथं प्राणायामं विदध्यात् तत्राह मायाबीजमित्यादि ।
सुधीर्धीरो मायाबीजं ह्री।
बीजं षोडशधा षोडशवारं जप्त्वा
कनिष्ठानामिकाङ्गुष्ठैर्धृत्वा नासाद्वयं सुधीः ।
द्वात्रिंशता जपन् बीजं वायुं दक्षेण रेचयेत् ॥ १२० ॥
पुनः पुनस्त्रिरावृत्या प्राणायाम इति स्मृतः ।
प्राणायामं विधायेत्थमृषिन्यासं समाचरेत् ॥ १२१ ॥
अस्य मन्त्रस्य ऋषयो ब्रह्मा ब्रह्मर्षयस्तथा ।
गायत्र्यादीनि छन्दांसि आद्या काली तु देवता ॥ १२२ ॥
आद्याबीजं बीजमिति शक्तिर्माया प्रकीर्तिता ।
कमला कीलकं प्रोक्तं स्थानेष्वेतेषु विन्यसेत् ।
शिरो वदनहृद्गुह्यपादसर्वाङ्गकेषु च ॥ १२३ ॥
वामेन नासापुटेन वायुनाऽत्मनो देहं पूरयेत् ।
ततः कनिष्ठानामिकाङ्गुष्ठैर्नासाद्वयं धृत्वा चतुःषष्ट्या आवृत्त्या ह्री।
बीजं जपन् सन् वायुं कुम्भयेत् स्थिरं कुर्यात् ।
ततो द्वात्रिंशताऽवृत्त्या ह्री।
बीजं जपन् तेनैव दक्षनासापुटेनैव वायुं रेचयेत् त्यजेत् ।
पुनः पुनरावृत्या त्रिर्वारत्रयमेवं कुर्यात् ।
देवीमन्त्रस्य साधने इति एष प्राणायामः स्मृतः प्राणायामविधिः प्रोक्त इत्यर्थः ॥ ११९ � १२१ ॥
ऋषिन्यासक्रमं दर्शयंस्तस्य मन्त्रस्य ऋष्यादिकमाह अस्य मन्त्रस्येत्यादिना ।
अस्य मन्त्रस्य ह्री।
श्री।
क्री।
परमेश्वरि स्वाहेत्यस्य आद्याबीजं क्री।
बीजम् ।
माया ह्री।
बीजम् ।
कमला श्री।
बीजम् ।
एतेषु स्थानेषु ऋष्यादिकं विन्यसेत् ।
एतेषु केषु स्थानेषु विन्यसेत् तत्राह शिर इत्यादिना ।
यथा अस्य मन्त्रस्य ब्रह्मा ब्रह्मर्षयश्च ऋषयो गायत्र्यादीनि छन्दांसि आद्या काली देवता क्री।
बीजं ह्री।
शक्तिः श्री।
कीलकं धर्मार्थकाममोक्षावाप्तये ऋषिन्यासे विनियोगः ।
शिरसि ब्रह्मणे ब्रह्मर्षिभ्यश्चर्षिभ्यो नमः ।
मुखे गायत्र्यादिभ्यश्छन्दोभ्यो नमः ।
हृदये आद्यायै काल्यै देवतायै नमः ।
गुह्ये क्री।
बीजाय नमः ।
पादयोः ह्रो।
शक्तये नमः ।
सर्वाङ्गेषु श्री।
कीलकाय
मूलमन्त्रेण हस्ताभ्यामापादमस्तकावधि ।
मस्तकात् पादपर्यन्तं सप्तधा वा त्रिधा न्यसेत् ।
अयन्तु व्यापकन्यासो यथोक्तफलसिद्धिदः ॥ १२४ ॥
यद्बीजाद्या भवेद्विद्या तद्बीजेनाऽङ्गकल्पना ।
अथवा मूलमन्त्रेण षड्दीर्घेण विना प्रिये ॥ १२५ ॥
अङ्गुष्ठाभ्यां तर्जनीभ्यां मध्यमाभ्यां तथैव च ।
अनामाभ्यां कनिष्ठाभ्यां करयोस्तलपृष्ठयोः ।
नमःस्वाहावषट् हूञ्च वौषट् फट् क्रमशः सुधीः ॥ १२६ ॥
नमः ।
धर्मार्थकाममोक्षावाप्तये ऋषिन्यासे विनियोगः ।
इति ऋषिन्यासक्रमः ॥ १२२ ॥ १२३ ॥
अथ व्यापकन्यासं व्रूते मूलेत्यादिना ।
आपादमस्तकावधि पादमारभ्य मस्तकपर्यन्तं मस्तकमारभ्य पादपर्यन्तं च प्रतिहस्ताभ्यां मूलमन्त्रेण सप्तधा सप्तवारं त्रिधा वा न्यसेन्न्यासं कुर्यात् ।
मस्तकादिति ल्यब्लोपे कर्मण्यधिकरणे चेति कर्मणि पञ्चमी ॥ १२४ ॥
अथ कराङ्गन्यासविधिं निरूपयति यद्बीजाद्येत्यादिना ।
यद्बीजमाद्यं यस्याः सा यद्वीजाद्या मन्त्रात्मिका विद्या भवेत् ।
परार्द्धे षड्दीर्घेण विनेति निषेधात् आकारादि षड्दीर्घस्वरभाजा तेन बीजेनाऽङ्गकल्पना अङ्गुष्ठादि हृदयादि षडङ्गन्यासकल्पना कर्तव्येत्यर्थः ।
अथवा हे प्रिये षड्दीर्घेण विना अध्याह्रियमाणाकारादिषड्दीर्घस्वरशून्येन मूलमन्त्रेणैवाऽङ्गकल्पना कर्तव्या ॥ १२५ ॥
पूर्वमङ्गुष्ठादि षडङ्गन्यासक्रममाह अङ्गुष्ठाभ्यामित्यादिना सार्द्धेन ।
अङ्गुष्ठाभ्यां नमः अङ्गुष्ठावुद्दिश्य नम इत्युक्तमित्यर्थः ।
एवमग्रेऽप्यन्वयो विधेयः ।
सुधीः साधकः क्रमशः क्रमेण ह्रा।
अङ्गुष्ठाभ्यां नमः ह्री।
तर्जनीभ्यां स्वाहा ह्रू।
मध्यमाभ्यां वषट् ह्रै।
अनामिकाभ्यां नमः ह्रौ।
कनिष्ठाभ्यां वौषट् ह्र।
ः
हृदयाय नमः पूर्वं शिरसे वह्निवल्लभा ।
शिखायै वषडित्युक्तं कवचाय हुमीरितम् ॥ १२७ ॥
नेत्रत्रयाय वौषट् च अस्त्राय फडिति क्रमात् ।
षडङ्गानि विधायेत्थं पीठन्यासं समाचरेत् ॥ १२८ ॥
आधारशक्तिं कूर्मञ्च शेषं पृथ्वीं तथैव च ।
सुधाम्बुधिं मणिद्वीपं पारिजाततरुं ततः ॥ १२९ ॥
चिन्तामणिगृहञ्चैव मणिमाणिक्यवेदिकाम् ।
तत्र पद्मासनं वीरो विन्यसेत् हृदयाम्बुजे ॥ १३० ॥
करतलकरपृष्ठाभ्यां फट् ।
ह्री।
श्री।
क्री।
परमेश्वरि स्वाहा अङ्गुष्ठाभ्यां नमः एवं वा अङ्गुष्ठादिषडङ्गेषु न्यासं विदध्यादिति शेषः ॥ १२६ ॥
अथ हृदयादिषडङ्गन्यासमाह हृदयाय नम इत्यादिना ।
पूर्वं हृदयाय नमः हृदयमुद्दिश्य नम इत्युक्तमित्यर्थः ।
एवमग्रेऽप्यन्वयः ।
वह्निवल्लभा स्वाहा ।
ह्रा।
हृदयाय नमः ।
ह्री।
शिरसे स्वाहा ।
ह्रू।
शिखायै वषट् ।
ह्रै।
कवचाय हुम् ।
ह्रौ।
नेत्रत्रयाय वौषट् ।
ह्र।
ः अस्त्राय फट् इति ।
ह्री।
श्री।
क्री।
परमेश्वरि स्वाहा हृदयाय नमः एवं वा क्रमात् सुधीर्हृदयादिषडङ्गेषु न्यासं कुर्यात् ।
इत्थमेवं विधानेन षडङ्गानि प्रति न्यासं विधाय पीठन्यासं समाचरेत् ॥ १२७ ॥ १२८ ॥
पीठन्यासाचरणक्रममेव दर्शयन्नाह आधारशक्तिमित्यादि ।
वीरो हृदयाम्बुजे हृत्पद्मे आधारशक्तिं न्यसेत् ।
तत्रैव कूर्मादिकमपि न्यसेत् ।
तत्र मणिमाणिक्यवेदिकायाम् ।
यथा हृदयाम्बुजे आधारशक्तये नमः कूर्माय नमः शेषाय नमः पृथ्व्यै नमः सुधाम्बुधये नमः मणिद्वीपाय नमः पारिजाततरवे नमः चिन्तामणिगृहाय नमः मणिमाणिक्यवेदिकायां पद्मासनाय नमः इति ॥ १२९ ॥ १३० ॥
दक्षवामांसयोर्वामकटौ दक्षकटौ तथा ।
धर्मं ज्ञानं तथैश्वर्यं वैराग्यं क्रमतो न्यसेत् ॥ १३१ ॥
मुखपार्श्वे नाभिदक्षपार्श्वे साधकसत्तमः ।
नङ्पूर्वाणि च तान्येव धर्मादीनि यथाक्रमम् ॥ १३२ ॥
आनन्दकन्दं हृदये सूर्यं सोमं हुताशनम् ।
सत्त्वं रजस्तमश्चैव बिन्दुयुक्तादिमाक्षरैः ।
केशरान् कर्णिकाञ्चैव पत्रेषु पीठनायिकाः ॥ १३३ ॥
मङ्गला विजया भद्रा जयन्ती चाऽपराजिता ।
नन्दिनी नारसिंही च वैष्णवीत्यष्टनायिकाः ॥ १३४ ॥
दक्षेत्यादि ।
दक्षिणांसादिषु क्रमतो धर्मादिकं न्यसेत् ।
यथा दक्षस्कन्धे धर्माय नमः वामस्कन्धे ज्ञानाय नमः वामकटौ ऐश्वर्याय नमः दक्षकटौ वैराग्याय नमः इति ॥ १३१ ॥
मुखेत्यादि ।
साधकसत्तमो मुखादिषु नञ् पूर्वाणि तान्येव धर्मादीनि यथाक्रमं क्रमेणैव न्यसेत् ।
यथा मुखे अधर्माय नमः वामपार्श्वे अज्ञानाय नमः नाभौ अनैश्वर्याय नमः दक्षपार्श्वे अवैराग्याय नमः इति ॥ १३२ ॥
आनन्देत्यादि ।
आनन्दकन्दादीन् हृदये न्यसेत् ।
बिन्दुयुक्तादिमाक्षरैः सानुस्वारैरादिमैरक्षरैः सह सत्त्वं रजस्तमश्च तत्रैव न्यसेत् ।
यथा हृदये आनन्दकन्दाय नमः सूर्याय नमः सोमाय नमः अग्नये नमः सं सत्त्वाय नमः रं रजसे नमः तं तमसे नमः केसरेभ्यो नमः कर्णिकायै नमः इति ।
हृदयाम्बुजस्य पत्रेषु पीठनायिका न्यसेत् ॥ १३३ ॥
पत्रेषु याः पीठनायिका न्यसेत्ता आह एकेन मङ्गलेत्यादि ।
यथा हृत्पद्मपत्रेषु क्रमतः मङ्गलायै नमः विजयायै नमः भद्रायै नमः जयन्त्यै नमः अपराजितायै नमः नन्दिन्यै नमः नारसिंह्यै नमः वैष्णव्यै नमः इति ॥ १३४ ॥
असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तो भयङ्करः ।
कपाली भीषणश्चैव संहारीत्यष्ट भैरवाः ।
दलाग्रेषु न्यसेदेतान् प्राणायामं ततश्चरेत् ॥ १३५ ॥
गन्धपुष्पे समादाय करकच्छपमुद्रया ।
हृदि हस्तौ समाधाय ध्यायेद्देवीं सनातनीम् ॥ १३६ ॥
ध्यानं तु द्विविधं प्रोक्तं सरूपारूपभेदतः ।
अरूपं तव यद्ध्यानमवाङ्मनसगोचरम् ॥ १३७ ॥
अव्यक्तं सर्वतो व्याप्तमिदमित्थंविवर्जितम् ।
अगम्यं योगिभिर्गम्यं कृच्छ्रैर्बहुशमादिभिः ॥ १३८ ॥
असिताङ्ग इति ।
असिताङ्गादीनेतानष्ट भैरवान् दलाग्रेषु न्यसेत् ।
यथा हृत्पद्मपत्राग्रेषु क्रमतः असिताङ्गाय भैरवाय नमः रुरवे भैरवाय नमः चण्डाय भैरवाय नमः क्रोधोन्मत्ताय भैरवाय नमः भयङ्कराय भैरवाय नमः कपालिने भैरवाय नमः भीषणाय भैरवाय नमः संहारिणे भैरवाय नमः इति ।
एवं पीठन्यासं विधाय ततः प्राणायामञ्चरेत् ॥ १३५ ॥
गन्धेति ।
ततो गुरूपदिष्टया करकच्छपमुद्रया गन्धपुष्पे समादाय गृहीत्वा हृदि हस्तौ समाधाय संस्थाप्य सनातनीमाद्यन्तशून्यां देवीं ध्यायेत् ॥ १३६ ॥
ध्यानमिति ।
हे देवि सरूपारूपभेदतः तव ध्यानन्तु द्विविधं प्रोक्तम् ।
तयोर्मध्ये अरूपं रूपरहितं तव यद्ध्यानं ध्येयं, तत्तु अवाङ्मनसगोचरम् वाचो मनसश्चाविषयभूतम् ।
ध्यायते यत्तत् ध्यानम् ।
बाहुलकात् कर्मणि ल्युट् ॥ १३७ ॥
अव्यक्तमित्यादि ।
इदमित्थंविवर्जितम् इदमित्थमेवेति सिद्धान्तरहितम् ।
अगम्यम् अज्ञेयम् ।
कृच्छ्रैः प्राजापत्यादिभिर्व्रतैः ।
शमोऽन्तःकरणसंयमः स आदिर्येषां ते शमादयः ।
बहवश्च ते शमादयः तैः ॥ १३८ ॥
मनसो धारणार्थाय शीघ्रं स्वाभीष्टसिद्धये ।
सूक्ष्मध्यानप्रबोधाय स्थूलध्यानं वदामि ते ॥ १३९ ॥
अरूपायाः कालिकायाः कालमातुर्महाद्युतेः ।
गुणक्रियानुसारेण क्रियते रूपकल्पना ॥ १४० ॥
मेघाङ्गीं शशिशेखरां त्रिनयनां रक्ताम्बरां बिभ्रतीं पाणिभ्यामभयं वरञ्च विलसद्रक्तारविन्दस्थिताम् ।
नृत्यन्तं पुरतो निपीय मधुरं माध्वीकमद्यं महा- कालं वीक्ष्य विकासिताननवरामाद्यां भजे कालिकाम् ॥
एवं ध्यात्वा स्वशिरसि पुष्पं दत्त्वा तु साधकः ।
पूजयेत् परया भक्त्या मानसैरुपचारकैः ॥ १४२ ॥
मनस इति ।
शीघ्रमिति पूर्वान्वयि ॥ १३९ ॥
ननु रूपवत एव पदार्थस्य स्थूलध्यानं सम्भवति मम त्वाद्यन्तशून्याया रूपरहितत्वात् कथं स्थूलध्यानं ब्रवीषीत्यत आह अरूपाया इत्यादि ॥ १४० ॥
स्थूलध्यानमेवाह मेघाङ्गीमिति ।
आद्यां कालिकामहं भजे इत्यन्वयः ।
कथम्भूतां कालिकाम् मेघाङ्गीम् मेघ इवाङ्गं यस्यास्तथाभूताम् ।
पुनः कथम्भूताम् शशिशेखराम् शशी शेखरे शिरसि यस्याः ताम् ।
पुनः कीदृशीम् त्रिनयनाम् त्रीणि नयनानि नेत्राणि यस्याः ताम् ।
पुनः कथम्भूताम् पाणिभ्यां हस्ताभ्यामभयं वरञ्च बिभ्रतीं दधतीम् ।
पुनः कीदृशीम् विकसद्रक्तारविन्दस्थितां विकसत् स्फुटद्रक्तारविन्दं लोहितं पद्मं तत्र स्थितामुपविष्टाम् ।
पुनः कथम्भूताम् मधुरं माध्वीकमद्यं मधूकपुष्पोद्भवं मद्यं निपीय पुरतोऽग्रे नृत्यन्तं महाकालं वीक्ष्य दृष्ट्वा विकासितमाननवरं मुखश्रेष्टं यस्याः तथाभूताम् ॥ १४१ ॥
एवमिति ।
एवममुना प्रकारेणाऽद्यां कालीं ध्यात्वा करकच्छपमुद्रया गृहीतं पुष्पं स्वशिरसि दत्त्वा साधकः परया भक्त्या मानसैरुपचारकैर्देवीं पूजयेत् ॥ १४२ ॥
हृत्पद्ममासनं दद्यात् सहस्त्रारच्युतामृतैः ।
पाद्यं चरणयोर्दद्यात् मनस्त्वर्घ्यं निवेदयेत् ॥ १४३ ॥
तेनाऽमृतेनाऽचमनं स्नानीयमपि कल्पयेत् ।
आकाशतत्त्वं वसनं गन्धन्तु गन्धतत्त्वकम् ॥ १४४ ॥
चित्तं प्रकल्पयेत् पुष्पं धूपं प्राणान् प्रकल्पयेत् ।
तेजस्तत्त्वन्तु दीपार्थे नैवेद्यञ्च सुधाम्बुधिम् ॥ १४५ ॥
अनाहतध्वनिं घण्टां वायुतत्त्वञ्च चामरम् ।
नृत्यमिन्द्रियकर्माणि चाञ्चल्यं मनसस्तथा ॥ १४६ ॥
पुष्पं नानाविधं दद्यादात्मनो भावसिद्धये ।
अमायमनहङ्कारमरागममदं तथा ॥ १४७ ॥
अमोहकमदम्भञ्च अद्वेषाक्षोभके तथा ।
अमात्सर्यमलोभञ्च दश पुष्पं प्रकीर्तितम् ॥ १४८ ॥
मानसैरुपचारकैर्देव्याः पूजनमेव दर्शयति हृत्पद्ममित्यादिभिः ।
देव्यै हृत्पद्ममासनं दद्यात् ।
सहस्रारच्युतामृतैः सहस्रदलपद्माद्गलितैरमृतैर्देव्याश्चरणयोः पाद्यं दद्यात् ।
एवमग्रेऽप्यन्वयः ॥ १४३ ॥
तेनेति ।
तेनामृतेन सहस्रारच्युतेन ॥ १४४ ॥
सुधाम्बुधिममृतसमुद्रम् ॥ १४५ ॥ १४६ ॥
पुष्पमिति ।
आत्मनो भावसिद्धये स्वाभिप्रेतपदार्थनिष्पत्तये ।
काल्यै देयानि नानाविधानि पुष्पाण्यभिधत्ते अमायमित्यादिना सार्द्धद्वयेन ।
मायाया अभावोऽमायं प्रथमं पुष्पम् ।
अनहङ्कारम् अहङ्कार आत्मन्यतिपूज्यत्वाभिमानः तदभावोऽनहङ्कारं द्वितीयं पुष्पम् ।
रागः क्रोधः तदभावोऽरागं तृतीयं पुष्पम् ।
मदो धनविद्यादिनिमित्तकं चित्तस्योत्सुकत्वं तदभावोऽमदं चतुर्थं पुष्पम् ॥ १४७ ॥
मोहोऽविवेकः तदभावोऽमोहकं पञ्चमं पुष्पम् ।
दम्भः कपटः तदभावोऽदम्भं षष्ठं पुष्पम् ।
द्वेषोऽप्रीतिः तदभावोऽद्वेषं सप्तमं पुष्पम् ।
क्षोभो
अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।
दया क्षमा ज्ञानपुष्पं पञ्च पुष्पं ततः परम् ।
इति पञ्चदशैः पुष्पैर्भावरूपैः प्रपूजयेत् ॥ १४९ ॥
सुधाम्बुधिं मांसशैलं भर्जितं मीनपर्वतम् ।
मुद्राराशिं सुभक्तञ्च घृताक्तं पायसं तथा ॥ १५० ॥
कुलामृतञ्च तत्पुष्पं पीठक्षालनवारि च ।
कामक्रोधौ विघ्नकृतौ वलिं दत्त्वा जपं चरेत् ॥ १५१ ॥
माला वर्णमयी प्रोक्ता कुण्डलीसूत्रयन्त्रिता ॥ १५२ ॥
व्यर्थमितस्ततः सञ्चलनम् तदभावोऽक्षोभकमष्टमं पुष्पम् ।
मात्सर्यमन्यशुभद्वेषः तदभावोऽमात्सर्यं नवमं पुष्पम् ।
लोभो धनाद्यागमे बहुधा जायमानेऽपि पुनर्बर्द्धमानोऽभिलाषः तदभावो अलोभं दशमं पुष्पम् ।
एवं दश पुष्पं प्रकीर्तितम् ॥ १४८ ॥
अहिंसा परपीडानिवृत्तिः ।
इन्द्रियनिग्रहः विषयेषु चक्षुरादिसंयमनम् ।
दया निष्कारणपरदुःखविनाशेच्छा ।
क्षमा परेणापकारे कृते तस्य प्रत्यपकारानाचरणम् ।
ज्ञानं सारासारविवेकनैपुण्यम् ।
भावरूपैः भाव्यन्ते चिन्त्यन्ते इति भावाः कर्मण्यच् ।
तद्रूपैः भाव्यमानैरित्यर्थः ॥ १४९ ॥
सुधाम्बुधिमिति ।
सुधाम्बुधिं मद्यसमुद्रम् ।
घृताक्तं घृतमिश्रितम् ॥ १५० ॥
कुलामृतमिति ।
कुलामृतं शक्तिघटितममृतविशेषम् ।
तत्पुष्पम् कुलपुष्पं स्त्रीपुष्पमित्यर्थः ।
पीठक्षालनवारि स्त्र्यङ्गविशेषधावनाम्भः ॥ १५१ ॥
नन्वाभ्यन्तरजपाचरणे कीदृशी माला जपविधानञ्च कीदृशं वर्तते इत्यपेक्षायामाह मालेत्यादि ।
कुण्डलीरूपेण सूत्रेण यन्त्रिता ग्रथिता वर्णमयी वर्णरूपा मालाऽभ्यन्तरजपे प्रोक्ता ॥ १५२ ॥
सबिन्दुं मन्त्रमुच्चार्य मूलमन्त्रं समुच्चरेत् ।
अकारादिलकारान्तमनुलोम इति स्मृतः ॥ १५३ ॥
पुनर्लकारमारभ्य श्रीकण्ठान्तं मनुं जपेत् ।
विलोम इति विख्यातः क्षकारो मेरुरुच्यते ॥ १५४ ॥
अष्टवर्गान्तिमैर्वर्णैः सहमूलमथाष्टकम् ।
एवमष्टोत्तरशतं जप्त्वाऽनेन समर्पयेत् ॥ १५५ ॥
सर्वान्तरात्मनिलये स्वान्तर्ज्योतिःस्वरूपिणि ।
गृहाणान्तर्जपं मातराद्ये कालि नमोऽस्तु ते ॥ १५६ ॥
समर्प्य जपमेतेन साष्टाङ्गं प्रणमेद्धिया ।
इत्यन्तर्यजनं कृत्वा बहिःपूजां समारभेत् ॥ १५७ ॥
सबिन्दुमिति ।
सबिन्दुं सानुस्वारमकारादिलकारान्तं वर्णमुच्चार्य मूलमन्त्रं समुच्चरेत् जपेत् ।
यथा अ।
ह्री।
श्री।
क्री।
परमेश्वरि स्वाहेति एवमेव जपेत् ।
जपेऽयमनुलोम इति स्मृतः ॥ १५३ ॥
पुनरित्यादि ।
पुनर्हकारस्यान्ते स्थितं लकारमारभ्यश्रीकण्ठान्तमकारान्तं सबिन्दुं वर्णमुच्चार्य मनुं जपेत् ।
यथा लं ह्री।
श्री।
क्री।
परमेश्वरि स्वाहा ।
हं ह्री।
श्री।
क्री।
परमेश्वरि स्वाहेति एवम् ।
अयञ्च विलोम इति विख्यातः ।
क्षकारो मालाया मेरुरुच्यते ॥ १५४ ॥
अष्टेत्यादि ।
अथानन्तरमष्टानाम् अकुचुटुतुपुयशानां वर्गाणामन्तिमैः सबिन्दुभिः अःङञणनमवलरूपैर्वर्णैः सहाष्टकमष्टपरिमाणकं मूलं मन्त्रं जपेत् ।
अनेन इतोऽनन्तरमेव वक्ष्यमाणेन मन्त्रेण ॥ १५५ ॥
जपसमर्पणमन्त्रमेवाह सर्वान्तरात्मेति ।
सर्वान्तरात्मनिलये सर्वेषामन्तरात्मा हृदयं निलयो गृहं यस्याः तथाभूते ॥ १५६ ॥ १५७ ॥
विशेषार्घ्यस्य संस्कारस्तत्रादौ कथ्यते शृणु ।
यस्य स्थापनमात्रेण देवता सुप्रसीदति ॥ १५८ ॥
दृष्ट्वाऽर्घ्यपात्रं योगिन्यो ब्रह्माद्या देवतागणाः ।
भैरवा अपि नृत्यन्ति प्रीत्या सिद्धिं ददत्यपि ॥ १५९ ॥
स्ववामे पुरतो भूमौ सामान्यार्घ्यस्य वारिणा ।
मायागर्भं त्रिकोणञ्च वृत्तञ्च चतुरस्रकम् ॥ १६० ॥
विलिख्य पूजयेत्तत्र मायाबीजपुरःसरम् ।
ङेन्तामाधारशक्तिञ्च नमःशब्दावसानिकाम् ॥ १६१ ॥
ततः प्रक्षालिताधारं विन्यस्य मण्डलोपरि ।
मं वह्निमण्डलं ङेन्तं दशकलात्मने ततः ॥ १६२ ॥
नमोऽन्तेन च सम्पूज्य क्षालयेदर्घ्यपात्रकम् ।
अस्त्रेण स्थापयेत्तत्र आधारोपरि साधकः ॥ १६३ ॥
विशेषार्घ्यस्येति ।
तत्र बहिःपूजासमारम्भे ॥ १५८ ॥ १५९ ॥
विशेषार्घ्यस्य संस्कारमेवाह स्ववाम इत्यादिभिः ।
स्ववामे आत्मनो वामदेशे ।
पुरतो भूमौ अग्रतः पृथ्व्यां सामान्यार्घ्यस्य वारिणा करणेन माया ह्री।
बीजं गर्भे यस्येदृशं त्रिकोणं मण्डलं पूर्वं विलिख्य तद्वहिरभितो वृत्तं वर्तुलं तद्वहिःचतुरस्रं चतुष्कोणं मण्डलं विलिख्य तत्र मण्डले मायाबीजं ह्री।
बीजं पुरःसरं यस्या एवम्भूतां ङेविभक्त्यन्तां नमःशब्दोऽवसानेऽन्ते यस्यास्तथाभूतामाधारशक्तिं पूजयेत् ।
ह्री।
आधारशक्तये नम इति मन्त्रेणाधारशक्तिमर्चयेदित्यर्थः ॥ १६० ॥ १६१ ॥
तत इति ।
ततः आधारशक्तिपूजनादनन्तरं तन्मण्डलोपरि प्रक्षालिताधारं विन्यस्य संस्थाप्य पूर्वं ममित्युक्त्वा ततः ङेन्तं वह्निमण्डलमुक्त्वा ततो
अमर्कमण्डलायोक्त्वा द्वादशान्तकलात्मने ।
नमोऽन्तेन यजेत् पात्रं मूलेनैव प्रपूरयेत् ॥ १६४ ॥
त्रिभागमलिनाऽपूर्य शेषं तोयेन साधकः ।
गन्धपुष्पे तत्र दत्त्वा पूजयेदमुनाऽम्बिके ॥ १६५ ॥
षष्ठस्वरं बिन्दुयुक्तं ङेन्तं वै चन्द्रमण्डलम् ।
षोडशान्ते कलाशब्दादात्मने नम इत्यपि ॥ १६६ ॥
दशकलात्मने इति वदेत् ।
योजनया मं वह्निमण्डलाय दशकलात्मने इति मन्त्रो जातः ।
नमोऽन्तेनानेन मन्त्रेण आधारे वह्निमण्डलं सम्पूज्य अस्त्रेण फडिति मन्त्रेणाऽर्घ्यपात्रं क्षालयेत् ।
साधकस्तस्मिन्नाधारोपरि क्षालितमर्घ्यपात्रं स्थापयेत् ॥ १६२ ॥ १६३ ॥
अमित्यादि ।
पूर्वम् अम् अर्कमण्डलायेत्युक्त्वा ततो द्वादशान्ते कलात्मने इति वदेत् ।
योजनया अम् अर्कमण्डलाय द्वादशकलात्मने इति मन्त्रो जातः ।
अनेनैव नमोऽन्तेन मन्त्रेण पात्रमर्घ्यपात्राधिष्ठातृदैवतमर्कमण्डलं यजेत् पूजयेत् ।
मूलेनैव मन्त्रेणाऽर्घ्यपात्रं प्रपूरयेत् ॥ १६४ ॥
ननु केन वस्तुना पात्रं प्रपूरयेत् तत्राह त्रिभागमिति ।
अलिना मद्येन पात्रस्य त्रिभागमापूर्य शेषं तोयेन साधकः पूरयेत् ।
तत्र तोये गन्धपुष्पे दत्त्वाऽमुना इतोऽनन्तरमेव वक्ष्यमाणेन मन्त्रेण तत्रैव शशिमण्डलं पूजयेत् ॥ १६५ ॥
शशिमण्डलपूजनस्य मन्त्रमाह षष्टेत्यादिना ।
पूर्वं बिन्दुयुक्तमनुस्वारसहितं षष्ठस्वरम् कथयित्वा कलाशब्दात् परम् आत्मने नम इत्यपि कथयेत् ।
योजनया ऊं चन्द्रमण्डलाय षोडशकलात्मने नम इति मन्त्रः शशिमण्डलार्चने जातः ॥ १६६ ॥
ततस्तु श्रैफले पत्रे रक्तचन्दनचर्चितम् ।
दूर्वापुष्पं साक्षतञ्च कृत्वा तत्र निधापयेत् ॥ १६७ ॥
मूलेन तीर्थमावाह्य तत्र देवीं विभाव्य च ।
पूजयेत् गन्धपुष्पाभ्यां मूलं द्वादशधा जपेत् ॥ १६८ ॥
धेनुयोनी दर्शयित्वा धूपदीपौ प्रदर्शयेत् ।
तदम्बु प्रोक्षणीपात्रे किञ्चिन्निक्षिप्य साधकः ॥ १६९ ॥
आत्मानं देयवस्तूनि प्रोक्षयेत्तेन मन्त्रवित् ।
पूजासमाप्तिपर्यन्तमर्घ्यपात्रं न चालयेत् ॥ १७० ॥
विशेषार्घ्यस्य संस्कारः कथितोऽयं शुचिस्मिते ।
यन्त्रराजं प्रवक्ष्यामि समस्तपुरुषार्थदम् ॥ १७१ ॥
मायागर्भं त्रिकोणञ्च तद्बाह्ये वृत्तयुग्मकम् ।
तयोर्मध्ये युग्मयुग्मक्रमात् षोडश केसरान् ॥ १७२ ॥
ततस्त्विति ।
ततस्तु परं श्रैफले बिल्वसम्बन्धिनि पत्रे रक्तचन्दनचर्चितं रक्तचन्दनेन लिप्तं साक्षतमक्षतैर्विशिष्टं च दूर्वासहितं पुष्पं कृत्वा तत्र विशेषार्घ्यस्याग्रभागे निधापयेत् स्थापयेत् ॥ १६७ ॥
मूलेनेति ।
तत्र विशेषार्घ्यतोये ।
विभाव्य विचिन्त्य ॥ १६८ ॥
धेन्विति ।
विशेषार्घ्यतोये धेनुयोनी मुद्रे दर्शयित्वा तत्रैव धूपदीपावपि प्रदर्शयेत् ।
तदम्बु विशेषार्घ्यजलम् ॥ १६९ ॥
आत्मानमिति ।
प्रोक्षयेत् सिञ्चेत् ।
तेन प्रोक्षणीपात्रनिःक्षिप्तजलेन ॥ १७० ॥
विशेषेति ।
समस्तपुरुषार्थदम् धर्मार्थकाममोक्षदायकमित्यर्थः ॥ १७१ ॥
यन्त्रराजलेखनस्य विधानमाह मायागर्भमित्यादिभिः ।
माया ह्री।
बीजं गर्भे यस्यैवम्भूतं त्रिकोणं मण्डलं पूर्वं लिखेत् ।
ततस्तद्वाह्ये तदभितो वृत्तयुग्मकं वर्तुलमण्डलद्वयं लिखेत् ।
तयोर्वृत्तमण्डलयोर्मध्ये युग्मयुग्मक्रमात्
तद्बाह्येऽष्टदलं पद्मं तद्बहिर्भूपुरं लिखेत् ।
चतुर्द्वारसमायुक्तं सुरेखं सुमनोहरम् ॥ १७३ ॥
स्वार्णे वा राजते ताम्रे कुण्डगोलविलेपिते ।
स्वयम्भुकुसुमैर्युक्ते चन्दनागुरुकुङ्कुमैः ॥ १७४ ॥
कुशीदेनाथवा लिप्ते स्वर्णमय्या शलाकया ।
मालूरकण्टकेनापि मूलमन्त्रं समुच्चरन् ।
विलिखेत् यन्त्रराजन्तु देवताभावसिद्धये ॥ १७५ ॥
अथवोत्कीलरेखाभिः स्फाटिके विद्रुमेऽपि वा ।
वैदुर्ये कारयेत् यन्त्रं कारुकेण सुशिल्पिना ॥ १७६ ॥
षोडश केसरान् लिखेत् ।
तद्वाह्ये वृत्तमण्डलयोर्बहिरष्टदलं पद्मं लिखेत् ।
तद्बहिः पद्माद्बहिस्तदभितश्चतुर्द्वारसमायुक्तं सुरेखं शोभनरेखायुतं सुमनोहरमतिमनोरमं भूपुरं लिखेत् ॥ १७२ ॥ १७३ ॥
ननु यन्त्रमिदं कस्मिन्नाधारे केन वा करणेन लेखितव्यं तत्राह स्वार्णे इत्यादि ।
कुण्डगोलविलेपिते कुण्डैर्गोलैर्वा शक्तिविशेषघटितपुष्पविशेषैर्विलेपिते स्वयम्भुकुसुमैः शक्तिघटितैरव पुष्पविशेषैर्युक्ते चन्दनागुरुकुङ्कुमैर्वा लिप्ते केवलेन कुशीदेन रक्तचन्दनेन वा लिप्ते स्वार्णे सुवर्णनिर्मिते राजते रजतनिर्मिते ताम्रनिर्मिते वा पात्रे स्वर्णमय्या सुवर्णविकारभूतया शलाकया मालूरकण्टकेन बिल्वकण्टकेन वा मूलमन्त्रं समुच्चरन् सन् देवताभावसिद्धये देवताप्रीतिनिष्पत्तये यन्त्रराजं विलिखेत् ॥ १७४ ॥ १७५ ॥
अथवेति ।
अथवा सुशिल्पिना स्वकर्मविषयकातिनैपुण्यशालिना कारुकेण शिल्पिना उत्कीलरेखाभिरुत्खानिताभी रेखाभिः स्फाटिके विद्रुमे वैदुर्ये वा यन्त्रं कारयेत् ॥ १७६ ॥
शुभप्रतिष्ठितं कृत्वा स्थापयेद् भवनान्तरे ।
नश्यन्ति दुष्टभूतानि ग्रहरोगभयानि च ॥ १७७ ॥
पुत्रपौत्रसुखैश्वर्यैर्मोदते तस्य मन्दिरम् ।
दाता भर्ता यशस्वी च भवेत् यन्त्रप्रसादतः ॥ १७८ ॥
एवं यन्त्रं समालिख्य रत्नसिंहासने पुरः ।
संस्थाप्य पीठन्यासोक्तविधिना पीठदेवताः ।
सम्पूज्य कर्णिकान्ध्ये पूजयेन्मूलदेवताम् ॥ १७९ ॥
कलशस्थापनं वक्ष्ये चक्रानुष्ठानमेव च ।
येनानुष्ठानमात्रेण देवता सुप्रसीदति ।
मन्त्रसिद्धिर्भवेन्नूनमिच्छासिद्धिः प्रजायते ॥ १८० ॥
कलां कलां गृहीत्वा तु देवानां विश्वकर्मणा ।
निर्मितोऽयं स वै यस्मात् कलशस्तेन कथ्यते ॥ १८१ ॥
शुभेत्यादि ।
शुभप्रतिष्ठितम् शुभा प्रतिष्ठा सञ्जाताऽस्यैवम्भूतं यन्त्रराजं कृत्वा यो भवनान्तरे स्थापयेत् तस्य दुष्टभूतानि नश्यन्तीत्येवमन्वयः ॥ १७७ ॥ १७८ ॥
एवमित्यादि ।
एवं विधानेन यन्त्रं समालिख्य पुरोऽग्रे रत्नसिंहासने संस्थाप्य च पीठन्यासोक्तविधिना पीठदेवताः सम्पूज्य कर्णिकामध्ये पद्मबीजकोशमध्ये मूलदेवतां पूजयेत् ॥ १७९ ॥
अथ मद्यादिभिः पञ्चतत्त्वैर्महादेव्याः पूजाया विधानं वक्तुमुपक्रमते कलशेत्यादि ॥ १८० ॥
कलशं निर्वक्ति कलामित्यादिना ॥ १८१ ॥
षट्त्रिंशदङ्गुलायामं षोडशाङ्गुलमुच्चकैः ।
चतुरङ्गुलकं कण्ठं मुखं तस्य षडङ्गुलम् ।
पञ्चाङ्गुलिमितं मूलं विधानं घटनिर्मितौ ॥ १८२ ॥
सौवर्णं राजतं ताम्रं कांस्यजं मृत्तिकोद्भवम् ।
पाषाणं काचजं वाऽपि घटमक्षतमव्रणम् ।
कारयेद्देवताप्रीत्यै वित्तशाठ्यं विवर्जयेत् ॥ १८३ ॥
सौवर्णं भोगदं प्रोक्तं राजतं मोक्षदायकम् ।
ताम्रं प्रीतिकरं ज्ञेयं कांस्यजं पुष्टिबर्द्धनम् ॥ १८४ ॥
काचं वश्यकरं प्रोक्तं पाषाणं स्तम्भकर्मणि ।
मृण्मयं सर्वकार्येषु सुदृश्यं सुपरिष्कृतम् ॥ १८५ ॥
स्ववामभागे षट्कोणं तन्मध्ये ब्रह्मरन्ध्रकम् ।
तद्बहिर्वृत्तमालिख्य चतुरस्रं ततो वहिः ॥ १८६ ॥
अथ घटनिर्माणविधानमाह षट्त्रिंशदित्यादिना ।
षट्त्रिंशदङ्गुलायामं षट्त्रिंशदङ्गुलयः परिमाणं यस्य स षट्त्रिंशदङ्गुलः एवम्भूतः आयामो विस्तारो यस्य तथाभूतम् ।
षोडशाङ्गुलमुच्चकैः षोडशाङ्गुलयः परिमाणं यस्यैवम्भूतमुच्चं घटं कारयेदिति शेषः ।
तस्य घटस्य कण्ठं चतुरङ्गुलकं चतुरङ्गुलिपरिमितं मुखं षडङ्गुलं षडङ्गुलिपरिमितं मूलमधोदेशं तु पञ्चाङ्गुलिमितं कारयेत् ।
घटनिर्मितौ विधानमेतदेव प्रोक्तम् ॥ १८२ ॥
ननु कस्य कस्य वस्तुनः कलशः कारयितव्य इत्यपेक्षायामाह सौवर्णमित्यादि ।
अक्षतम् अभग्नम् ।
अव्रणम् छिद्रशून्यम् ॥ १८३ ॥
सौवर्णं सुवर्णजातं कलशमिति शेषः ॥ १८४ ॥ १८५ ॥
स्ववामेत्यादि ।
स्ववामभागे षट्कोणं मण्डलमालिख्य तन्मध्ये षट्कोणमण्डलमध्ये ब्रह्मरन्ध्रकं शून्यमेकमालिख्य तद्बहिः षट्कोणमण्डलस्य बहिर्वृत्तं मण्डलमालिख्य ततोऽपि बहिः चतुष्कोणं मण्डलमालिखेत् ॥ १८६ ॥
सिन्दूररजसा वाऽपि रक्तचन्दनकेन वा ।
निर्माय मण्डलं तत्र यजेदाधारदेवताम् ।
मायामाधारशक्तिञ्च ङेनमोऽन्तां समुद्धरेत् ॥ १८७ ॥
नमसा क्षालिताधारं स्थापयेन्मण्डलोपरि ।
अस्त्रेण क्षालितं कुम्भं तत्राऽधारे निवेशयेत् ॥ १८८ ॥
क्षकाराद्यैरकारान्तैर्वर्णैर्बिन्दुसमायुतैः ।
मूलं समुच्चरन् मन्त्री कारणेन प्रपूरयेत् ॥ १८९ ॥
आधारकुम्भतीर्थेषु वह्न्यर्कशशिमण्डलम् ।
पूर्ववत् पूजयेत् विद्वान् देवीभावपरायणः ॥ १९० ॥
रक्तचन्दनसिन्दूररक्तमाल्यानुलेपनैः ।
भूषयित्वा तु कलशं पञ्चीकरणमाचरेत् ॥ १९१ ॥
नन्विदं मण्डलं केन द्रव्येण लेखनीयं तत्राह सिन्दूरेत्यादि ।
तत्र मण्डले ॥
ननु केन मन्त्रेणाऽधारदेवतां यजेत्तत्राह मायामिति ।
पूर्वं मायां ह्री।
बीजमुद्धरेत् ततो ङे नमोऽन्तामाधारशक्तिमुद्धरेत् ।
योजनया ह्री।
आधारशक्तये नमः इति मन्त्र आधारदेवतायजने जातः ॥ १८७ ॥
नमसेति ।
नमसा नम इति मनुना ।
अस्त्रेण फडिति मन्त्रेण ॥ १८८ ॥
क्षकारेत्यादि ।
क्षकार आद्यो येषाम् अकारश्चान्त्यो येषान्तैर्बिन्दुसमायुतैरनुस्वारसहितैर्वर्णैः सह मूलं समुच्चरन् क्षं लं हं सं षं शं वं लं रं यं मं भं बं फं पं नं धं दं थं तं णं ढं डं ठं टं ञं झं जं छं चं ङं घं गं खं कम् अंः अम् औं ॐ ऐम् एं ॡम् ऌं ॠम् ऋम् ऊम् उम् ईम् इम् आम् अं ह्री।
श्री।
क्री।
परमेश्वरि स्वाहेति मन्त्रं प्रजपन्मन्त्री साधकः कारणेन मद्येन कलशं प्रपूरयेत् ॥ १८९ ॥
आधारेति ।
तीर्थम् मद्यम् ।
पूर्ववत् विशेषार्घ्यस्य संस्कारे इव ॥ १९० ॥ १९१ ॥
फटा दर्भेण सन्ताड्य हू।
बीजेनावगुण्ठयेत् ।
ह्री।
दिव्यदृष्ट्या संवीक्ष्य नमसाऽभ्युक्षणं चरेत् ॥ १९२ ॥
मूलेन गन्धं त्रिर्दद्यात् पञ्चीकरणमीरितम् ।
प्रणम्य कलशं रक्तपुष्पं दत्त्वा विशोधयेत् ॥ १९३ ॥
ओ।
एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् ।
कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् ॥ १९४ ॥
सूर्यमण्डलमध्यस्थे वरुणालयसम्भवे ।
अमाबीजमये देवि शुक्रशापाद्विमुच्यताम् ॥ १९५ ॥
ननु पञ्चीकरणं किं नाम तत्राह फटेत्यादि ।
फटा मन्त्रेण दर्भेण कुशेन कलशं सन्ताड्य हूमिति बीजेनावगुण्ठनमुद्रयाऽवगुण्ठयेद्वेष्टयेत् ।
ह्री।
बीजेन दिव्यदृष्ट्या कलशं संवीक्ष्य दृष्ट्वा नमसा मन्त्रेण कलशस्याभ्युक्षणमभिषेकं चरेत् कुर्यात् ।
मूलेन मन्त्रेण कलशे त्रिर्वारत्रयं गन्धं दद्यात् ।
इदमेव पञ्चीकरणमीरितं कथितम् ।
विशोधयेत् मद्यमिति शेषः ॥ १९२ ॥ १९३ ॥
ननु केन केन मन्त्रेण मद्यं शोधयेदित्यपेक्षायां तच्छोधनमन्त्रानेव कमत आह एकमेवेति ।
हे सुधे देवि ध्रुवं नित्यं स्थूलसूक्ष्ममयं स्थूलसूक्ष्मस्वरूपम् एकमेवाद्वैतमेव यत्परं ब्रह्म अस्ति तेन परब्रह्मणा ते तव कचोद्भवां ब्रह्महत्यामहं नाशयामीत्यन्वयः ॥ १९४ ॥
सूर्येत्यादि ।
हे वरुणालयसम्भवे वरुणस्यालयो गृहं वरुणालयः समुद्रः तस्मात् सम्भव उत्पत्तिर्यस्याः तथाभूते ।
अत एव हे अमाबीजमये अमा अमृतमयी नित्या चान्द्री षोडशी कला तद्रूपं यच्चन्द्रमसो बीजं तत्स्वरूपे अत एव हे सूर्यमण्डलमध्यस्थे सूर्यमण्डलाभ्यन्तरस्थायिनि सुधे देवि शुक्रशापात्त्वया विमुच्यतां विमुक्तया भूयताम् ॥ १९५ ॥
वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि ।
तेन सत्येन ते देवि ब्रह्महत्या व्यपोहतु ॥ १९६ ॥
ह्री।
हंसः शुचिसद् वसुरन्तरिक्षस- द्धोता वेदिसदतिथिर्दुरोणसत् ।
नृसद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ १९७ ॥
वारुणेन च बीजेन षड्दीर्घस्वरभाजिना ।
ब्रह्मशापविशब्दान्ते मोचितायै पदं वदेत् ।
सुधादेव्यै नमः पश्चात् सप्तधा ब्रह्मशापनुत् ॥ १९८ ॥
अङ्कुशं दीर्घषट्केन युतं श्रीमायया युतम् ।
सुधा पश्चाद् ब्रह्मशापं मोचयेति पदं ततः ।
अमृतं स्रावयद्वन्द्वं द्विठान्तो मनुरीरितः ॥ १९९ ॥
वेदानामिति ।
हे देवि सुधे आनन्दमयमानन्दस्वरूपं यद्ब्रह्म तत्स्वरूपं यत् प्रणवरूपं वेदानां बीजं तेन सत्येन प्रणवरूपवेदबीजेन ते तव ब्रह्महत्या व्यपोहतु नश्यतु ॥ १९६ ॥ १९७ ॥
वारुणेनेति ।
ब्रह्मशापविशब्दस्यान्ते मोचितायै इति पदं वदेत् ।
पश्चात् सुधादेव्यै नमः इति वदेत् ।
योजनया ब्रह्मशापविमोचितायै सुधादेव्यै नमः इति मन्त्रो जातः ।
अयं मन्त्रः षड्दीर्घस्वरभाजिना वारुणेन बीजेन संयोज्य यथा वा।
वी।
वू।
वै।
वौ।
व।
ः ब्रह्मशापविमोचितायै सुधादेव्यै नमः इति सप्तधा सप्तवारं पठितोऽयं मन्त्रो ब्रह्मशापनुत् ब्रह्मशापमोचको भवति ॥ १९८ ॥
अङ्कुशमिति ।
पूर्वं दीर्घषट्केन युतमङ्कुशं क्रो।
वदेत् ।
पश्चात् श्रीमायया युतं श्री।
ह्री।
बीजयुक्तं सुधेति पदं वदेत् ।
पश्चात् कृष्णशापमिति मोचयेति च पदं वदेत् ।
ततोऽमृतं वदेत् ।
ततः स्रावयद्वन्द्वं वदेत् ।
योजनया
एवं शापान्मोचयित्वा यजेत्तत्र समाहितः ।
आनन्दभैरवं देवमानन्दभैरवीं तथा ॥ २०० ॥
हसक्षमलशब्दान्ते वरयू।
मिलितं वदेत् ।
आनन्दभैरवं ङेऽन्तं वषडन्तो मनुर्मतः ॥ २०१ ॥
अस्याऽस्यं विपरीतञ्च श्रवणे वामलोचना ।
सुधादेव्यै वौषडन्तो मनुरस्याः प्रपूजने ॥ २०२ ॥
सामरस्यं तयोस्तत्र ध्यात्वा तदमृतप्लुतम् ।
द्रव्यं विभाव्य तस्योर्द्ध्वे मूलं द्वादशधा जपेत् ॥ २०३ ॥
क्रा।
क्री।
क्रू।
क्रै।
क्रौ।
क्र।
ः श्री।
ह्री।
सुधाकृष्णशापं मोचयामृतं स्रावय स्रावयेति मन्त्रो जातः ।
अयं मनुर्द्विठान्तः स्वाहान्त ईरितः कथितः ॥ १९९ ॥
एवमिति ।
एवमुक्तक्रमेण पूर्वोक्तैः षड्भिर्मन्त्रैर्ब्रह्मशापान्मोचयित्वा तत्र मद्ये आनन्दभैरवं देवं तथाऽनन्दभैरवीं देवीं समाहितः सावधानः सन् यजेत् ॥ २०० ॥
उभयोर्यजनस्य मन्त्रमाह द्वाभ्याम् हसेति ।
हसक्षमलशब्दस्यान्ते मिलितं वरयूमिति पदं वदेत् ।
ततो ङेऽन्तमानन्दभैरवं वदेत् ।
योजनया हसक्षमलवरयू।
आनन्दभैरवायेति मनुर्जातः ।
अयं मनुर्वषडन्तो वषट्शब्दान्तो मतः ॥ २०१ ॥
अस्येत्यादि ।
अस्य हसक्षमलवरयूमित्यस्याऽस्यं मुखं विपरीतं पठनीयम् ।
श्रवणे ऊकारस्थाने वामलोचनमीकारः पठनीयः ।
ततः सुधादेव्यै इति पठनीयम् ।
योजनया सहक्षमलवरयी।
आनन्दभैरव्यै सूधादेव्यै इति मनुर्जातः ।
अस्या आनन्दभैरव्याः प्रपूजने वौषडन्तो वौषट्शब्दान्तोऽयमेव मनुर्मतः ।
ध्यानं तूभयोरग्रे वक्ष्यति ॥ २०२ ॥
सामरस्यन्ति ।
तत्र मद्ये तयोरानन्दभैरव्यानन्दभैरवयोः सामरस्यमैकरस्यं ध्यात्वा तदमृतप्लुतं तत्सामरस्यरूपामृतप्लुतं द्रव्यं मद्यं विभाव्य विचिन्त्य तस्य मद्यस्योर्द्ध्वे द्वादशधा द्वादशवारं मूलं मन्त्रं जपेत् ॥ २०३ ॥
मूलेन देवताबुद्ध्या दत्त्वा पुष्पाञ्जलिं ततः ।
दर्शयेद्धूपदीपौ च घण्टावादनपूर्वकम् ॥ २०४ ॥
इत्थं तीर्थस्य संस्कारः सर्वदा देवपूजने ।
व्रते होमे विवाहे च तथैवोत्सवकर्मणि ॥ २०५ ॥
मांसमानीय पुरतस्त्रिकोणमण्डलोपरि ।
फटाऽभुक्ष्य वायुवह्निबीजाभ्यां मन्त्रयेत्त्रिधा ॥ २०६ ॥
कवचेनावगुण्ठ्याथ संरक्षेच्चास्त्रमन्त्रतः ।
धेन्वा वममृतीकृत्य मन्त्रमेतमुदीरयेत् ॥ २०७ ॥
विष्णोर्वक्षसि या देवी या देवी शङ्करस्य च ।
मांसं मे पवित्रीकुरु कुरु तद्विष्णोः परमं पदम् ॥ २०८ ॥
मूलेनेति ।
ततो देवताबुद्ध्या मूलेन मन्त्रेण मद्ये पुष्पाञ्जलिं दत्त्वा घण्टावादनपूर्वकं तस्योपरि धूपदीपौ च दर्शयेत् ॥
तीर्थस्य मद्यस्य ॥ २०४ ॥ २०५ ॥
अथ मांससंस्कारविधिमाह त्रिभिः मांसमिति ।
मांसमानीय पुरतोऽग्रे त्रिकोणमण्डलोपरि संस्थाप्य फटा मन्त्रेणाऽभ्युक्ष्याऽभिषिच्य वायुवह्निबीजाभ्यां य।
र।
बीजाभ्यां त्रिधा त्रिवारं मन्त्रयेत् ॥ २०६ ॥
कवचेनेति ।
ततः कवचेन हु।
बीजेन मांसमवगुण्ठ्यावगुण्ठनमुद्रया वेष्टयित्वा अस्त्रमन्त्रतः फट्मन्त्रेण संरक्षेत् ।
धेन्वा मुद्रया व।
बीजेन मांसममृतीकृत्य एतमितोऽनन्तरमेव वक्ष्यमाणं मन्त्रमुदीरयेदुच्चरेत् ॥ २०७ ॥
तमेव मन्त्रमाह विष्णोरिति ।
विष्णोर्वक्षसि या देवी तिष्ठति या देवी शङ्करस्य च वक्षसि तिष्ठति सा त्वं मे मम मांसं पवित्रीकुरु ।
एवं शोधितमांससमर्पणात् मम तत्प्रधानं विष्णोः पदं कुरु ॥ २०८ ॥
इत्थं मीनं समानीय प्रोक्तमन्त्रेण संस्कृतम् ।
मन्त्रेणाऽनेन मतिमांस्तं मीनमभिमन्त्रयेत् ॥ २०९ ॥
ओ।
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥ २१० ॥
तथैव मुद्रामादाय शोधयेदमुना प्रिये ।
ओ।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् ॥ २११ ॥
ओ।
तद्विप्रासो विपण्यवो जागृवांसः समिन्धते ।
विष्णोर्यत् परमं पदम् ॥ २१२ ॥
अथवा सर्वतत्त्वानि मूलेनैव विशोधयेत् ।
मूले तु श्रद्दधानो यः किं तस्य दलशाखया ॥ २१३ ॥
केवलं मूलमन्त्रेण यद्द्रव्यं शोधितं भवेत् ।
तदेव देवताप्रीत्यै सुप्रशस्तं मयोच्यते ॥ २१४ ॥
यथा कालस्य सङ्क्षेपात् साधकानवकाशतः ।
सर्वं मूलेन संशोध्य महादेव्यै निवेदयेत् ॥ २१५ ॥
अथ मीनसंस्कारविधिमाह इत्थमित्यादिना ।
प्रोक्तमन्त्रेण मांसशोधने कथितेन मन्त्रेण ।
अनेनान्तरोक्तेन ॥ २०९ ॥
तमेव मन्त्रमाह त्र्यम्बकं यजामह इति ॥ २१० ॥
मुद्राशोधनमन्त्रमेवाह तद्विष्णोरिति ।
सूरयो विद्वांसः परमत्युत्कृष्टं तत् अविदुषामप्रत्यक्षं विष्णोः पदं सदा पश्यन्ति ।
अत्र दृष्टान्तमाह दिवीत्यादि ।
आततं विस्तृतं चक्षुर्दिवि स्थितमन्धानामगोचरं सूर्यमिव ॥ २११ ॥ २१२ ॥
अथवेति ।
सर्वतत्त्वानि मद्यादीनि ॥ २१३ � २१५ ॥
न चात्र प्रत्यवायोऽस्ति नाङ्गवैगुण्यदूषणम् ।
सत्यं सत्यं पुनः सत्यमिति शङ्गरशासनम् ॥ २१६ ॥
इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे मन्त्रोद्धारकलशस्थापनतत्त्वसंस्कारो नाम पञ्चमोल्लासः ।
नेति ।
अत्र मूलमन्त्रेणैव शोधितानां सर्वतत्त्वानां महादेव्यै समर्पणे ॥ २१६ ॥
इति श्रीमहानिर्वाणतन्त्रटीकायां पञ्चमोल्लासः ।