चतुर्थोल्लासः
श्रुत्वा सम्यक् परब्रह्मोपासनं परमेश्वरी ।
परमानन्दसम्पन्ना शङ्करं परिपृच्छति ॥ १ ॥
श्रीदेव्युवाच
कथितं यत्त्वया नाथ ब्रह्मोपासनमुत्तमम् ।
सर्वलोकप्रियकरं साक्षाद्ब्रह्मपदप्रदम् ॥ २ ॥
तेजोबुद्धिवलैश्वर्यदायकं सुखसाधनम् ।
तृप्ताऽस्मि जगदीशान तव वाक्यामृतप्लुता ॥ ३ ॥
यदुक्तं करुणासिन्धो यथा ब्रह्मनिषेवणात् ।
गच्छन्ति ब्रह्मसायुज्यं तथैव मम साधनात् ॥ ४ ॥
ॐ नमो ब्रह्मणे ।
परमेश्वरी शङ्करं किं परिपृच्छतीत्यपेक्षायामाह ।
कथितं यदित्यादि ॥ १ ॥ २ ॥
तेज इत्यादि ।
तृप्ताऽस्मि तद्ब्रह्मोपासनं श्रुत्वेति शेषः ।
तव वागमृतप्लुता तावकीनवाग्रूपपीयूषे निमग्ना ॥ ३ ॥
यदुक्तमित्यादि ।
हे करुणासिन्धो कृपासमुद्र ब्रह्मनिषेवणात् परब्रह्मण उपासनाद्यथा जना ब्रह्मसायुज्यं ब्रह्मत्वं गच्छन्ति प्राप्नुवन्ति तथैव मम
एतद्वेदितुमिच्छामि मदीयसाधनं परम् ।
ब्रह्मसायुज्यजननं यत्त्वया कथितं प्रभो ॥ ५ ॥
विधानं कीदृशं तस्य साधनं केन वर्त्मना ।
मन्त्रः को वाऽत्र विहितो ध्यानपूजादिकञ्च किम् ॥ ६ ॥
सविशेषं सावशेषमामूलाद्वक्तुमर्हसि ।
मम प्रीतिकरं देव लोकानां हितकारकम् ।
को ह्यन्यस्त्वामृते शम्भो भवव्याधिभिषग्गुरुः ॥ ७ ॥
इति देव्या वचः श्रुत्वा देवदेवो महेश्वरः ।
उवाच परया प्रीत्या पार्वतीं पार्वतीपतिः ॥ ८ ॥
श्रीसदाशिव उवाच ।
शृणु देवि महाभागे तवाराधनकारणम् ।
तव साधनतो येन ब्रह्मसायुज्यमश्नुते ॥ ९ ॥
साधनादपि ब्रह्मत्वं प्राप्नुवन्तीति यत्त्वयोक्तं तत्र किं कारणमस्तीत्येतद्वेदितुं ज्ञातुमहमिच्छामीति द्वितीयश्लोकगतैः पदैरन्वयः ॥ ४ ॥
एतदित्यादि ।
हे प्रभो ब्रह्मसायुज्यजननं ब्रह्मत्वोत्पादकमत एव परं श्रेष्ठं यन्मदीयं साधनं त्वया कथितं तच्च कीदृशं वर्तते एतदपि वेदितुमिच्छामि ॥ ५ ॥
तस्य मदीयसाधनस्य ।
अत्र मम साधने ॥ ६ ॥
सविशेषमित्यादि ।
सावशेषम् अवशेषपर्यन्तम् ।
आमूलात् मूलमारभ्य ।
त्वामृते त्वां विना ।
भवव्याधिभिषग्गुरुः जन्मरूपस्य व्याधेश्चिकित्सकराजः ॥ ७ ॥
इतीत्यादि ।
उवाच उत्तरमिति शेषः ॥ ८ ॥
पार्वतीपतिः पार्वतीं किमुत्तरमुवाचेत्यपेक्षायामाह शृणु देवीत्यादि ।
हे देवि हे महाभागे महाभाग्यशालिनि येन कारणेन तव साधनतो जनो ब्रह्मसायुज्यं ब्रह्मत्वमश्नुते लभते तन्मया कथ्यमानं तवाराधनकारणं त्वं शृण्वित्यन्वयः ॥ ९ ॥
त्वं परा प्रकृतिः साक्षाद् ब्रह्मणः परमात्मनः ।
त्वत्तो जातं जगत् सर्वं त्वं जगज्जननी शिवे ॥ १० ॥
महदाद्यणुपर्यन्तं यदेतत् सचराचरम् ।
त्वयैवोत्पादितं भद्रे त्वदधीनमिदं जगत् ॥ ११ ॥
त्वमाद्या सर्वविद्यानामस्माकमपि जन्मभूः ।
त्वं जानासि जगत् सर्वं न त्वां जानाति कश्चन ॥ १२ ॥
त्वं काली तारिणी दुर्गा षोडशी भुवनेश्वरी ।
धूमावती त्वं बगला भैरवी छिन्नमस्तका ॥ १३ ॥
त्वमन्नपूर्णा वाग्देवी त्वं देवी कमलालया ।
सर्वशक्तिस्वरूपा त्वं सर्वदेवमयी तनुः ॥ १४ ॥
अथ परमेश्वरीसाधनस्य ब्रह्मसायुज्यजनकत्वे तद्गतं ब्रह्मसारूप्यमेव कारणमस्तीत्यभिधातुमुपक्रमते त्वं परा प्रकृतिरित्यादि ।
यत इति शेषः ।
परमा माया शक्तिर्वा यस्य स परमः अतति सर्वं व्याप्नोतीत्यात्मा परमश्चासावात्मा चेति परमात्मा तस्य परमात्मनो ब्रह्मणो यतस्त्वं साक्षात्पराऽत्युत्कृष्टा प्रकृतिरसीत्येवमन्वयः कार्यः ॥ १० ॥
महत्तत्त्वमादिर्यस्य तन्महदादि ॥ ११ ॥
किञ्च त्वमाद्येत्यादि ।
आद्या आदिभूता ।
नत्वन्येषामेव जगतां जननी त्वमसि किन्त्वस्माकं शङ्करादीनामपि जन्मभूरुत्पत्तिस्थानं त्वम् ।
जगज्जननीत्वात् सर्वं जगत् त्वं जानासि ।
त्वत्तो जातत्वात् कश्चन अपि त्वां तु न जानाति ॥ १२ ॥
किञ्च त्वं कालीत्यादि ॥ १३ ॥
वाग्देवी सरस्वती ।
कमलालया लक्ष्मीः ।
तनुः तवेति शेषः ॥ १४ ॥
त्वमेव सूक्ष्मा स्थूला त्वं व्यक्ताव्यक्तस्वरूपिणी ।
निराकाराऽपि साकारा कस्त्वां वेदितुमर्हति ॥ १५ ॥
उपासकानां कार्यार्थं श्रेयसे जगतामपि ।
दानवानां विनाशाय धत्से नानाविधास्तनूः ॥ १६ ॥
चतुर्भुजा त्वं द्विभुजा षड्भुजाऽष्टभुजा तथा ।
त्वमेव विश्वरक्षार्थं नानाशस्त्रास्त्रधारिणी ॥ १७ ॥
तत्तद्रूपविभेदेन मन्त्रयन्त्रादिसाधनम् ।
कथितं सर्वतन्त्रेषु भावाश्च कथितास्त्रयः ॥ १८ ॥
पशुभावः कलौ नास्ति दिव्यभावोऽपि दुर्लभः ।
वीरसाधनकर्माणि प्रत्यक्षाणि कलौ युगे ॥ १९ ॥
कुलाचारं विना देवि कलौ सिद्धिर्न जायते ।
तस्मात् सर्वप्रयत्नेन साधयेत् कुलसाधनम् ॥ २० ॥
कुलाचारेण देवेशि ब्रह्मज्ञानं प्रजायते ।
ब्रह्मज्ञानयुतो मर्त्यो जीवन्मुक्तो न संशयः ॥ २१ ॥
त्वमित्यादि ।
सूक्ष्मा परमाणुरूपा ।
स्थूलरूपत्वात् व्यक्तम् परमाणुरूपत्वाच्चाव्यक्तं स्वं रूपं विद्यते यस्याः तथात्वम् ।
वस्तुतो निराकाराऽपि आकृतिशून्याऽपि त्वं साकारा आकारविशिष्टा भवसि ।
अतः त्वां वेदितुं ज्ञातुं कोऽर्हति योग्यो भवति न कोऽपीत्यर्थः ॥ १५ ॥
ननु वस्तुतो यदि निराकारैवाहं तर्हि किमर्थं नानाविधमाकारं दधामि तत्राह उपासकानामित्यादि ॥ १६ ॥
ता नानाविधास्तनूरेव दर्शयन्नाह चतुर्भुजेत्यादि ॥ १७ ॥ १८ ॥
अथ पशुभावादिप्रसङ्गात् कलौ युगे वीरभावस्यैव विद्यमानत्वेन प्रत्यक्षफलदायकानि वीरसाधनकर्माण्येव साधनीयानीत्येवाह पशुभाव इत्यादिभिः ॥ १९ � २१ ॥
ज्ञानेन मेध्यमखिलममेध्यं ज्ञानतो भवेत् ।
ब्रह्मज्ञाने समुत्पन्ने मेध्यामेध्यं न विद्यते ॥ २२ ॥
यो जानाति परं ब्रह्म सर्वव्यापि सनातनम् ।
किमस्त्यमेध्यं तस्याग्रे सर्वं ब्रह्मेति जानतः ॥ २३ ॥
त्वं सर्वरूपिणी देवी सर्वेषां जननी परा ।
तुष्टायां त्वयि देवेशि सर्वेषां तोषणं भवेत् ॥ २४ ॥
सृष्टेरादौ त्वमेकाऽसीत् तमोरूपमगोचरम् ।
त्वत्तो जातं जगत् सर्वं परब्रह्मसिसृक्षया ॥ २५ ॥
महत्तत्त्वादिभूतान्तं त्वया सृष्टमिदं जगत् ।
निमित्तमात्रं तद्ब्रह्म सर्वकारणकारणम् ॥ २६ ॥
सद्रूपं सर्वतोव्यापि सर्वमावृत्य तिष्ठति ।
सदैकरूपं चिन्मात्रं निर्लिप्तं सर्ववस्तुषु ॥ २७ ॥
न करोति न चाऽश्नाति न गच्छति न तिष्ठति ।
सत्यं ज्ञानमनाद्यन्तमवाङ्मनसगोचरम् ॥ २८ ॥
मेध्यम् पवित्रम् ॥ २२ ॥
य इति ।
सनातनम् सर्वदैकरूपम् ॥ २३ ॥ २४ ॥
अगोचरम् आकृतिशून्यत्वात् वाङ्मनसयोरप्यविषयभूतम् ॥ २५ ॥
महदित्यादि ।
भूतान्तं पृथिवीपर्यन्तम् ।
सर्वकारणकारणम् सर्वेषां महदादीनां कारणानामपि कारणं निमित्तभूतम् ॥ २६ ॥
सद्रूपमित्यादि ।
सद्रूपं सर्वदा स्थायिस्वरूपम् ।
सर्वमावृत्य निश्शेषं पदार्थमावेष्ट्य सर्ववस्तुषु स्थितमपि निर्लिप्तमसम्बद्धम् ॥ २७ ॥
नेत्यादि ।
न चाश्नाति न च भुङ्क्ते ।
सत्यम् यथार्थस्वरूपम् ।
ज्ञानं
तदिच्छामात्रमालम्ब्य त्वं महायोगिनी परा ।
करोषि पासि हंस्यन्ते जगदेतच्चराचरम् ॥ २९ ॥
तव रूपं महाकालो जगत्संहारकारकः ।
महासंहारसमये कालः सर्वं ग्रसिष्यति ॥ ३० ॥
कलनात् सर्वभूतानां महाकालः प्रकीर्तितः ।
महाकालस्य कलनात् त्वमाद्या कालिका परा ॥ ३१ ॥
कालसङ्ग्रसनात् काली सर्वेषामादिरूपिणी ।
कालत्वादादिभूतत्वादाद्या कालीति गीयते ॥ ३२ ॥
पुनः स्वरूपमासाद्य तमोरूपं निराकृतिः ।
वाचातीतं मनोगम्यं त्वमेकैवाऽवशिष्यसे ॥ ३३ ॥
साकाराऽपि निराकारा मायया बहुरूपिणी ।
त्वं सर्वादिरनादिस्त्वं कर्त्री हर्त्री च पालिका ॥ ३४ ॥
समस्तपदार्थावबोधः तत्स्वरूपम् ।
अनाद्यन्तम् न विद्यते आदिः कारणम् अन्तो नाशश्च यस्य तथाभूतम् ॥ २८ ॥
तदित्यादि ।
तदिच्छामात्रम् परब्रह्मण इच्छामेव ।
अन्ते प्रलयकाले ॥ २९ ॥ ३० ॥
कलनादित्यादि ।
कलनात् ग्रसनात् ॥ ३१ ॥
आदिरूपिणी कारणस्वरूपा ॥ ३२ ॥
पुनरित्यादि ।
निराकृति आकारशून्यम् ।
वाचातीतम् अतिक्रान्तवाक् ।
मनोऽगम्यम् मनसोऽप्यप्राप्यम् ॥ ३३ ॥
साकारेत्यादि ।
सर्वादिः सर्वेषां कारणभूता सर्वकारणत्वादेव न विद्यते आदिः कारणं यस्यास्तथाभूता त्वमसि ॥ ३४ ॥
अतस्ते कथितं भद्रे ब्रह्ममन्त्रेण दीक्षितः ।
यत्फलं समवाप्नोति तत्फलं तव साधनात् ॥ ३५ ॥
नानाऽचारेण भावेन देशकालाधिकारिणाम् ।
विभेदात् कथितं देवि कुत्रचिद्गुप्तसाधनम् ॥ ३६ ॥
ये यत्राधिकृता मर्त्यास्ते तत्र फलभागिनः ।
भविष्यन्ति तरिष्यन्ति मानुषा गतकिल्विषाः ॥ ३७ ॥
बहुजन्मार्जितैः पुण्यैः कुलाचारे मतिर्लभेत् ।
कुलाचारेण पूतात्मा साक्षाच्छिवमयो भवेत् ॥ ३८ ॥
यत्रास्ति भोगबाहुल्यं तत्र योगस्य का कथा ।
योगेऽपि भोगविरहः कौलस्तूभयमश्नुते ॥ ३९ ॥
तव साधनतो ब्रह्मत्वलाभे इदमेव कारणमस्तीत्याह अत इत्यादिना ॥ ३५ ॥
अथ साधनं केन वर्त्मनेति मदीयं साधनं परं कीदृशं वर्तते इति च यत् परमेश्वर्या पृष्टं तत्र मत्कथितेनैव मार्गेण सर्वं कर्म साधनीयं मदुक्तवर्त्मना नित्यनैमित्तिककर्मणां यत् साधनं तदेव तावकीनं साधनमित्युत्तरं दातुमुपक्रमते नानाचारेणेत्यादि ।
नानाभावेन च ।
विभेदात् विशेषात् ।
कुत्रचित् तन्त्रादिषु ॥ ३६ ॥
य इति ।
यत्र गुप्तसाधने व्यक्तसाधने वा ॥ ३७ ॥
अथ प्रवले कलौ युगे कुलमार्गेणैव सर्वं कर्म साधनीयमिति प्रतिपादनाय तमेव मार्गं स्तोतुमना महादेवः पूर्वं तन्मार्गवर्तिनं जनं प्रशंसति बहुजन्मेत्यादिभिः ।
साक्षाच्छिवमयः साक्षाच्छिवस्वरूपः ॥ ३८ ॥
यत्रेति ।
यत्र साधने ।
भोगविरहः भोगाभावः ।
उभयमश्नुते योगं भोगञ्च लभते ॥ ३९ ॥
एकश्चेत् कुलतत्त्वज्ञः पूजितो येन सुव्रते ।
सर्वे देवाश्च देव्यश्च पूजिता नात्र संशयः ॥ ४० ॥
पृथिवीं हेमसम्पूर्णां दत्त्वा यत् फलमाप्नुयात् ।
तस्मात् कोटिगुणं पुण्यं लभते कौलिकार्चनात् ॥ ४१ ॥
श्वपचोऽपि कुलज्ञानी ब्राह्मणादतिरिच्यते ।
कुलाचारविहीनस्तु ब्राह्मणः श्वपचाधमः ॥ ४२ ॥
कौलधर्मात् परो धर्मो नास्ति ज्ञाने तु मामके ।
यस्यानुष्ठानमात्रेण ब्रह्मज्ञानी नरो भवेत् ॥ ४३ ॥
सत्यं व्रबीमि ते देवि हृदि कृत्वाऽवधारय ।
सर्वधर्मोत्तमात् कौलात् परो धर्मो न विद्यते ॥ ४४ ॥
अयन्तु परमो मार्गो गुप्तोऽस्ति पशुसङ्कटे ।
व्यक्तीभविष्यत्यचिरात् संवृत्ते प्रबले कलौ ॥ ४५ ॥
कलिकाले प्रबृद्धे तु सत्यं सत्यं मयोच्यते ।
न स्थास्यति विना कौलान् पशवो मानवा भुवि ॥ ४६ ॥
यदा तु वैदिकी दीक्षा दीक्षा पौराणिकी तथा ।
न स्थास्यति वरारोहे तदैव प्रवलः कलिः ॥ ४७ ॥
एक इत्यादि ।
पूजिताः तेनेति शेषः ॥ ४० ॥ ४१ ॥
श्वपच इत्यादि ।
अतिरिच्यते उत्तमतावत्त्वाद्विशिष्यते ॥ ४२ ॥
कौलधर्मस्य सर्वधर्मोत्तमत्वे हेतुं दर्शयन्नाह यस्यानुष्ठानमात्रेणेत्यादि ॥ ४३ ॥ ४४ ॥
अयमित्यादि ।
पशुसङ्कटे पशुसमूहे ।
सम्वृत्ते सम्यक् प्रवृत्ते ॥ ४५ ॥ ४६ ॥
अथ तत्तद्युगविधेयाचारप्रसङ्गेन सङ्क्षेपतः कलियुगप्रबलतालक्षणानि कथयति यदा त्वित्यादिभिः ।
हे वरारोहे उत्तमे ॥ ४७ ॥
यदा तु पुण्यपापानां परीक्षा वेदसम्भवा ।
न स्थास्यति शिवे शान्ते तदैव प्रवलः कलिः ॥ ४८ ॥
क्वचिच्छिन्ना क्वचिद्भिन्ना यदा सुरतरङ्गिणी ।
भविष्यति कुलेशानि तदैव प्रवलः कलिः ॥ ४९ ॥
यदा तु म्लेच्छजातीया राजानो धनलोलुपाः ।
भविष्यन्ति महाप्राज्ञे तदैव प्रवलः कलिः ॥ ५० ॥
यदा स्त्रियोऽतिदुर्दान्ताः कर्कशाः कलहे रताः ।
गर्हिष्यन्ति च भर्तारं तदैव प्रवलः कलिः ॥ ५१ ॥
यदा तु मानवा भूमौ स्त्रीजिताः कामकिङ्कराः ।
द्रुह्यन्ति गुरुमित्रादीन् तदैव प्रवलः कलिः ॥ ५२ ॥
यदा क्षौणी स्वल्पफला तोयदाः स्तोकवर्षिणः ।
असम्यक्फलिनो वृक्षास्तदैव प्रवलः कलिः ॥ ५३ ॥
भ्रातरः स्वजनामात्या यदा धनकणेहया ।
मिथः सम्प्रहरिष्यन्ति तदैव प्रवलः कलिः ॥ ५४ ॥
प्रकटे मद्यमांसादौ निन्दादण्डविवर्जिते ।
गूढपानं चरिष्यन्ति तदैव प्रवलः कलिः ॥ ५५ ॥
शान्ते हे संयतचित्ते ॥ ४८ ॥
सुरतरङ्गिणी गङ्गा ॥ ४९ ॥
यदा त्वित्यादि ।
अतिदुर्दान्ताः अतिदुःखेन दम्यन्ते याः तथाभूताः अतिदुःखेन दमनीया इत्यर्थः ।
कर्कशाः कठोराः ।
गर्हिष्यन्ति निन्दिष्यन्ति ॥ ५० � ५२ ॥
स्तोकवर्षिणः स्वल्पवर्षणशीलाः ॥ ५३ ॥
धनकणेहया वित्तलेशाकाङ्क्षया ॥ ५४ ॥
प्रकटे इत्यादि ।
प्रकटे प्रव्यक्ते मद्यमांसादौ निन्दादण्डविवर्जितेऽपि सति यदा गूढपानं जनाश्चरिष्यन्ति तदैव प्रवलः कलिर्ज्ञातव्यः ॥ ५५ ॥
सत्यत्रेताद्वापरेषु यथा मद्यादिसेवनम् ।
कलावपि तथा कुर्यात् कुलवर्त्मानुसारतः ॥ ५६ ॥
ये कुर्वन्ति कुलाचारं सत्यपूता जितेन्द्रियाः ।
व्यक्ताचारा दयाशीला न हि तान् बाधते कलिः ॥ ५७ ॥
गुरुशुश्रूषणे युक्ता भक्ता मातृपदाम्बुजे ।
अनुरक्ताः स्वदारेषु न हि तान् बाधते कलिः ॥ ५८ ॥
सत्यव्रताः सत्यनिष्ठाः सत्यधर्मपरायणाः ।
कुलसाधनसत्या ये न हि तान् बाधते कलिः ॥ ५९ ॥
कुलमार्गेण तत्त्वानि शोधितानि च योगिने ।
ये दद्युः सत्यवचसे न हि तान् बाधते कलिः ॥ ६० ॥
हिंसामात्सर्यरहिता दम्भद्वेषविवर्जिताः ।
कुलधर्मेषु निष्ठा ये न हि तान् बाधते कलिः ॥ ६१ ॥
कौलिकैः सह संसर्गं वसतिं कुलसाधुषु ।
कुर्वन्ति कौलसेवां ये न हि तान् वाधते कलिः ॥ ६२ ॥
नानावेशधराः कौलाः कुलाचारेषु निश्चलाः ।
सेवन्ते त्वां कुलाचारैर्न हि तान् बाधते कलिः ॥ ६३ ॥
सत्यत्रेतेत्यादि ।
यथा मद्यादिसेवनम् प्रकाशतः कृतवानिति शेषः ॥ ५६ ॥
नहि तान् बाधते तान्न पीडयति ॥ ५७ ॥
गुर्वित्यादि ।
युक्ताः सङ्गताः ।
अनुरक्ताः अनुरागवन्तः ॥ ५८ ॥
कुलसाधनसत्याः कुलसाधने यथार्थावधायिनः ॥ ५९ ॥
तत्त्वानि मद्यमांसादीनि ॥ ६० ॥
हिंसेति ।
हिंसामात्सर्यरहिताः प्राणवियोगानुकूलव्यापारो हिंसा अन्यशुभद्वेषो मात्सर्यम् ताभ्यां रहिताः ॥
वसतिं निवासम् ॥ ६१ � ६५ ॥
स्नानं दानं तपस्तीर्थं व्रतं तर्पणमेव च ।
ये कुर्वन्ति कुलाचारैर्न हि तान् बाधते कलिः ॥ ६४ ॥
जीवसेकादिसंस्काराः पितृश्राद्धादिकाः क्रियाः ।
ये कुर्वन्ति कुलाचारैर्न हि तान् बाधते कलिः ॥ ६५ ॥
कुलतत्त्वं कुलद्रव्यं कुलयोगिनमेव च ।
नमस्कुर्वन्ति ये भक्त्या न हि तान् बाधते कलिः ॥ ६६ ॥
कौटिल्यानृतहीनानां स्वच्छानां कुलमार्गिणाम् ।
परोपकारव्रतिनां साधूनां किङ्करः कलिः ॥ ६७ ॥
कलेर्दोषसमूहस्य महानेको गुणः प्रिये ।
सत्यप्रतिज्ञकौलानां श्रेयः सङ्कल्पमात्रतः ॥ ६८ ॥
अपरे तु युगे देवि पुण्यं पापञ्च मानसम् ।
नृणामासीत् कलौ पुण्यं केवलं न तु दुष्कृतम् ॥ ६९ ॥
कुलाचारविहीना ये सततासत्यभाषिणः ।
परद्रोहपरा ये च ते नराः कलिकिङ्कराः ॥ ७० ॥
कुलवर्त्मस्वभक्ता ये परयोषित्सु कामुकाः ।
द्वेष्टारः कुलनिष्ठानां ते ज्ञेयाः कलिकिङ्कराः ॥ ७१ ॥
युगाचारप्रसङ्गेन कलेः प्रावल्यलक्षणम् ।
सङ्क्षेपात् कथितं भद्रे प्रीतये तव पार्वति ॥ ७२ ॥
कुलतत्त्वम् स्त्रीकुसुमादि ।
कुलद्रव्यम् मद्यमांसादि ॥ ६६ ॥
कौटिल्येत्यादि ।
परोपकारव्रतिनाम् परोपकाररूपं व्रतमस्त्येषामिति परोपकारव्रतिनः तेषाम् ॥ ६७ ॥
कलेरिति ।
दोषसमूहस्य दोषसमूहवतः ॥
अपरे सत्यत्रेतादौ ॥ ६८ � ७२ ॥
प्रकटेऽत्र कलौ देवि सर्वे धर्माश्च दुर्बलाः ।
स्थास्यत्येकं सत्यमात्रं तस्मात् सत्यमयो भवेत् ॥ ७३ ॥
सत्यधर्मं समाश्रित्य यत् कर्म कुरुते नरः ।
तदेव सफलं कर्म सत्यं जानीहि सुव्रते ॥ ७४ ॥
न हि सत्यात् परो धर्मो न पापमनृतात् परम् ।
तस्मात् सर्वात्मना मर्त्यः सत्यमेकं समाश्रयेत् ॥ ७५ ॥
सत्यहीना वृथा पूजा सत्यहीनो वृथा जपः ।
सयथीनं तपो व्यर्थमूषरे वपनं यथा ॥ ७६ ॥
सत्यरूपं परं ब्रह्म सत्यं हि परमं तपः ।
सत्यमूलाः क्रियाः सर्वाः सत्यात् परतरो न हि ॥ ७७ ॥
अत एव मया प्रोक्तं दुष्कृते प्रवले कलौ ।
कुलाचारोऽपि सत्येन कर्तव्यो व्यक्तभावतः ॥ ७८ ॥
गोपनाद्धीयते सत्यं न गुप्तिरनृतं विना ।
तस्मात् प्रकाशतः कुर्यात् कौलिकः कुलसाधनम् ॥ ७९ ॥
कलेर्युगस्य प्रावल्ये सति सत्येनैव प्रव्यक्तः कुलाचारो विधातव्य इत्यभिधातुकामो महादेवः सत्यं प्रशंसिष्यन्नाह प्रकटेऽत्रेत्यादि ॥ ७३ ॥ ७४ ॥
नहीत्यादि ।
अनृतात् असत्यात् ।
सर्वात्मना सर्वप्रयत्नेन ।
आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म चेत्यमरः ।
समाश्रयेत् सम्यक् सेवेत ॥ ७५ ॥
ऊषरे क्षारमृत्तिकायुक्तदेशे ॥
अत एव सर्वेषां कर्मणां सत्यमूलत्वादेवेत्यर्थः ।
दुष्कृते पापिनि ॥ ७६ � ७८ ॥
हीयते हीनं भवति त्यक्तं भवतीत्यर्थः ॥ ७९ ॥
कुलधर्मस्य गुप्त्यर्थं नानृतं स्याज्जुगुप्सितम् ।
यदुक्तं कुलतन्त्रेषु न शस्तं प्रवले कलौ ॥ ८० ॥
कृते धर्मश्चतुष्पादः त्रेतायां पादहीनकः ।
द्विपादो द्वापरे देवि पादमात्रं कलौ युगे ॥ ८१ ॥
तत्रापि सत्यं वलवत् तपः खञ्जं दयाऽपि च ।
सत्यपादे कृते लोपे धर्मलोपः प्रजायते ।
तस्मात् सत्यं समाश्रित्य सर्वकर्माणि साधयेत् ॥ ८२ ॥
कुलाचारं विना यत्र नास्त्युपायः कुलेश्वरि ।
तत्रानृतप्रवेशश्चेत् कुतो निःश्रेयसं भवेत् ॥ ८३ ॥
सर्वथा सत्यपूतात्मा मन्मुखेरितवर्त्मना ।
सर्वं कर्म नरः कुर्यात् स्वस्ववर्णाश्रमोदितम् ॥ ८४ ॥
दीक्षां पूजां जपं होमं पुरश्चरणतर्पणम् ।
व्रतोद्बाहौ पुंसवनं सीमन्तोन्नयनन्तथा ॥ ८५ ॥
ननु कुलधर्मस्य गुप्त्यर्थं नानृतं स्याज्जुगुप्सितमिति कुलतन्त्रेषु भवतैवोक्तं तत्कथमिदानीमुच्यते तस्मात् प्रकाशतः कुर्यात् कौलिकः कुलसाधनमित्यत आह ।
कुलधर्मस्येत्यादि ॥ ८० ॥
कृत इत्यादि ।
कृते सत्ययुगे चतुष्पादो धर्म आसीदिति शेषः ।
समासान्तविवेरनित्यत्वान्न पादशब्दस्यान्तस्य लोपः ।
पादमात्रम् धर्मस्यावशिष्यते इति शेषः ॥ ८१ ॥
तत्रापीत्यादि ।
तत्रापि पादमात्रेऽपि ।
दयाऽपि च खञ्जा ।
लुष्यते इति लोपः ।
तस्मिन् कर्मणि घञ् ॥ ८२ ॥
कुलाचारमिति ।
यत्र प्रवले कलौ ।
निःश्रेयसं मुक्तिः ॥
तच्च किं सर्वं कर्म तत्रान दीक्षामित्यादि ।
पुरश्चरणतर्पणमिति समाहारद्वन्द्वः ॥ ८३ � ८५ ॥
जातकर्म तथा नामचूडाकरणमेव च ।
मृतक्रियां पितृश्राद्धं कुर्यादागमसम्मतम् ॥ ८६ ॥
तीर्थश्राद्धं वृषोत्सर्गं शारदोत्सवमेव च ।
यात्रां गृहप्रवेशञ्च नववस्त्रादिधारणम् ॥ ८७ ॥
वापीकूपतटागानां संस्कारं तिथिकर्म च ।
गृहारम्भप्रतिष्ठाञ्च देवानां स्थापनन्तथा ॥ ८८ ॥
दिवाकृत्यं निशाकृत्यं पर्वकृत्यं तथैव च ।
ऋतुमासवर्षकृत्यं नित्यं नैमित्तिकञ्च यत् ॥ ८९ ॥
कर्तव्यं यदकर्तव्यं त्याज्यं ग्राह्यञ्च यद्भवेत् ।
मयोक्तेन विधानेन तत् सर्वं साधयेन्नरः ॥ ९० ॥
न कुर्याद् यदि मोहेन दुर्मत्याऽश्रद्धयाऽपि वा ।
विनष्टः सर्वकर्मभ्यो विष्ठायां स भवेत् कृमिः ॥ ९१ ॥
यदि मन्मतमुत्सृज्य महेशि प्रबले कलौ ।
यदा यत् क्रियते कर्म विपरीताय तद्भवेत् ॥ ९२ ॥
नामचूडाकरणमेव च नामकरणं चूडाकरणञ्चेत्यर्थः ।
नववस्त्रादीत्यादिना नवीनभूषणादेः सङ्ग्रहः ।
गृहारम्भप्रतिष्ठाञ्च गृहारम्भं गृहप्रतिष्ठाञ्चेत्यर्थः ॥ ८६ � ९० ॥
प्रबले कलौ युगे सदाशिवमतमुल्लङ्य कर्माणि कुर्वतो जनस्य महापातकत्वं क्रियमाणानां कर्मणाञ्च नैष्फल्यमित्याह न कुर्यादित्यादिभिः ।
मोहेन अविवेकेन ।
अश्रद्धया विश्वासाभावेन ॥ ९१ ॥ ९२ ॥
मन्मतासम्मता दीक्षा साधकप्राणघातिनी ।
पूजाऽपि विफला देवि हुतं भस्मार्पणं यथा ।
देवता कुपिता तस्य विघ्नस्तस्य पदे पदे ॥ ९३ ॥
कलिकाले प्रवृद्धे तु ज्ञात्वा मच्छास्त्रमम्बिके ।
योऽन्यमार्गैः क्रियां कुर्यात् स महापातकी भवेत् ॥ ९४ ॥
व्रतोद्वाहौ प्रकुर्वाणो योऽन्यमार्गेण मानवः ।
स याति नरकं घोरं यावच्चन्द्रदिवाकरौ ॥ ९५ ॥
व्रते ब्रह्मवधः प्रोक्तः व्रात्यो मानवको भवेत् ।
केवलं सूत्रवाहोऽसौ चण्डालादधमोऽपि सः ॥ ९६ ॥
उद्वाहिताऽपि या नारी जानीयात् सा तु गर्हिता ।
उद्वोढाऽपि भवेत् पापी संसर्गात् कुलनायिके ।
वेश्यागमनजं पापं तस्य पुंसो दिने दिने ॥ ९७ ॥
तद्धस्तादत्रतोयादि नैव गृह्णन्ति देवताः ।
पितरोऽपि न चाश्नन्ति यतस्तन्मलपूयवत् ॥ ९८ ॥
तयोरपत्यं कानीनः सर्वधर्मवहिष्कृतः ।
दैवे पैत्रे कुलाचारे नाधिकारोऽस्य जायते ॥ ९९ ॥
भस्मार्पणम् अर्प्यते यत् तदर्पणम् कर्मणि ल्युट् भस्मन्यर्पणमिति सप्तमीतत्पुरुषः ।
भस्मार्पितमित्यर्थः ।
भस्मार्पितमित्येव वा पाठः ॥ ९३ � ९५ ॥
व्रते इत्यादि ।
अन्यमार्गेण जातसंस्कारोऽपि मानवको व्रात्यो भवेत् संस्कारहीनो भवेदित्यर्थः ॥ ९६ ॥
उद्वाहितेत्यादि ।
अन्यमार्गेणोद्वाहिता या नारी सा तु गर्हिता निन्दिता भवेदिति जानीयात् ।
तान्तु गर्हितामिति वा पाठः ।
संसर्गात्
अशाम्भवेन मार्गेण देवतास्थापनञ्चरेत् ।
न सान्निध्यं भवेत्तत्र देवतायाः कथञ्चन ।
इहामुत्र फलं नास्ति कायक्लेशो धनक्षयः ॥ १०० ॥
आगमोक्तविधि हित्वा यः श्राद्धं कुरुते नरः ।
श्राद्धं तद्विफलं सोऽपि पितृभिर्नरकं व्रजेत् ॥ १०१ ॥
तत्तोयं शोणितसमं पिण्डो मलमयो भवेत् ।
तस्मान्मर्त्यः प्रयत्नेन शाङ्करं मतमाश्रयेत् ॥ १०२ ॥
बहुनाऽत्र किमुक्तेन सत्यं सत्यं मयोच्यते ।
अशाम्भवं कृतं कर्म सर्वं देवि निरर्थकम् ॥ १०३ ॥
अस्तु तावत् परो धर्मः पूर्वधर्मोऽपि नश्यति ।
शाम्भवाचारहीनस्य नरकान्नैव निष्कृतिः ॥ १०४ ॥
मदुदीरितमार्गेण नित्यनैमित्तकर्मणाम् ।
साधनं यन्महेशानि तदेव तव साधनम् ॥ १०५ ॥
अन्यमार्गेणोद्वाहिताया नार्याः सङ्गमात् ।
तस्य कृतान्यविध्युद्वाहितनारीसंसर्गस्य ॥
तद्धस्तदत्तान्नतोयाद्यग्रहणे कारणमाह यत इत्यादि ।
तत् अन्नतोयादि ॥
तयोः अन्यमार्गोद्वाहितनारीतदुद्वोढृपुरुषयोः ।
अस्य कानीनस्य ॥ ९७ � ९९ ॥
तत्र अशाम्भवमार्गस्थापितदेवताप्रतिमायाम् ॥ १०० � १०३ ॥
निष्कृतिर्निस्तारः ॥ १०४ ॥ १०५ ॥
विशेषाराधनं तत्र मन्त्रयन्त्रादिसंयुतम् ।
भेषजं कलिरोगाणां श्रूयताङ्गदतो मम ॥ १०६ ॥
इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे जीवनिस्तारोपायप्रश्नो पराप्रकृतिसाधनोपक्रमो नाम चतुर्थोल्लासः ॥ २ ॥
भेषजम् औषधम् ।
गदतो मम कथयतो मत्तः ।
ममेत्यपादानस्य शेषत्वेन विवक्षितत्वात् शेषे षष्ठीति षष्ठी ॥ १०६ ॥
इति श्रीमहानिर्वाणतन्त्रटीकायां चतुर्थोल्लासः ।