तृतीयोल्लासः
श्रीदेव्युवाच ।
देवदेव महादेव देवतानां गुरोर्गुरो ।
वक्ता त्वं सर्वशास्त्राणां मन्त्राणां साधनस्य च ॥ १ ॥
कथितं यत् परं ब्रह्म परमेशं परात्परम् ।
यस्योपासनतो मर्त्यो भुक्तिं मुक्तिञ्च विन्दति ॥ २ ॥
केनोपायेन भगवन् परमात्मा प्रसीदति ।
किं तस्य साधनं देव मन्त्रः को वा प्रकीर्तितः ॥ ३ ॥
किं ध्यानं किं विधानञ्च परेशस्य परात्मनः ।
तत्त्वेन श्रोतुमिच्छामि कृपया कथय प्रभो ॥ ४ ॥
श्रीसदाशिव उवाच ।
अतिगुह्यं परं तत्त्वं शृणु मत्प्राणवल्लभे ।
ॐ नमो ब्रह्मणे ।
कवल्यार्थं परमात्मैव ध्येयः पूज्यः सुखाराध्यश्चेत्याकर्ण्य तद्ध्यानादिकं जिज्ञासुः सदाशिवं प्रशंसन्ती देव्युवाच ।
देवदेवेत्यादि ।
देवतानां गुरोर्बृहस्पतेरपि गुरो ।
विन्दति लभते ।
तस्य परमात्मनः ।
तत्त्वेन याथार्थ्येन ॥ १- ४ ॥
रहस्यमेतत् कल्याणि न कुत्रापि प्रकाशितम् ।
तव स्नेहेन वक्ष्यामि मम प्राणाधिकं परम् ॥ ५ ॥
ज्ञेयं भवति तद्ब्रह्म सच्चिद्विश्वमयं परम् ।
तथा तत्त्वस्वरूपेण लक्षणैर्वा महेश्वरि ॥ ६ ॥
सत्तामात्रं निर्विशेषमवाङ्मनसगोचरम् ।
असत्त्रिलोकीसद्भानं स्वरूपं ब्रह्मणः स्मृतम् ॥ ७ ॥
समाधियोगैस्तद्वेद्यं सर्वत्र समदृष्टिभिः ।
द्वन्द्वातीतैर्निर्विकल्पैर्देहात्माध्यासवर्जितैः ॥ ८ ॥
अथोत्तरयन् सदाशिव उवाच ।
अतिगुह्यमित्यादि ।
अतिगुह्यमतिरहस्यं परं तत्त्वं परं ब्रह्म ।
तत्त्वं ब्रह्मणि याथार्थ्ये इति कोशः ।
रहस्यं गुह्यम् ॥ ५ ॥
ज्ञेयमित्यादि ।
हे महेश्वरि सच्चिद्विश्वमयं सत् सदा स्थायि चित् चैतन्यं विश्वमशेषं जगत् एतत् स्वरूपं यदतिगुह्यं तत् परं ब्रह्म ।
तत्त्वस्वरूपेण ब्रह्मणः स्वरूपेण लक्षणेन तटस्थैर्वा लक्षणैर्यथावत् ज्ञेयं भवति ।
लक्ष्यते ज्ञायते पदार्थो यैः तानि लक्षणानि तैः ।
करणे ल्युट् ॥ ६ ॥
ननु किं तत्तत्त्वस्वरूपं येन परं ब्रह्म ज्ञेयं भवेदित्यपेक्षायां ब्रह्मणः स्वरूपं निरूपयति सत्तामात्रमित्यादि ।
यत् सत्तामात्रं केवलपरमार्थसत्त्वस्वरूपम् ।
निर्विशेषं स्वगतभेदरहितम् ।
अवाङ्मनसगोचरं वचो मनसश्चाग्राह्यम् ।
असत्त्रिलोकीसद्भानम् असत्या मिथ्याभूतायास्त्रिलोक्याः सद्भानं सद्वद्ज्ञानं यस्मात् तद्ब्रह्मणः स्वरूपं स्मृतम् ॥ ७ ॥
तच्च ब्रह्मस्वरूपं परमहंसैरेव वेदितव्यमित्याह समाधीत्यादिना ।
सर्वत्र समदृष्टिभिः सर्वत्रारिमित्रादौ समा तुल्या दृष्टिर्येषां तैः ।
द्वन्द्वातीतैः अतिक्रान्तसुखदुःखशीतोष्णादिभिः ।
निर्विकल्पैर्नानाविधकल्पनाशून्यैः ।
देहात्माध्यासवर्जितैः शरीरनिष्ठात्मत्वबुद्धिरहितैर्योगिभिः ।
समाधियोगैः समाधिश्चित्तैकाग्र्यम्
यतो विश्वं समुद्भूतं येन जातञ्च तिष्ठति ।
यस्मिन् सर्वाणि लीयन्ते ज्ञेयं तद्ब्रह्म लक्षणैः ॥ ९ ॥
स्वरूपबुद्ध्या यद्वेद्यं तदेव लक्षणैः शिवे ।
लक्षणैराप्तुमिच्छूनां विहितं तत्र साधनम् ॥ १० ॥
तत्साधनं प्रवक्ष्यामि शृणुष्वावहिता प्रिये ।
तत्रादौ कथयाम्याद्ये मन्त्रोद्धारं महेशितुः ॥ ११ ॥
योगाः परमेश्वरैकपरतासम्यग्दर्शनादयः तै करणैः तद्ब्रह्म वेद्यं भवति ।
अथवा समाधीयते चित्तमस्मिन्निति समाधिः परमेश्वरः उपसर्गे घोः किरित्यधिकरणे किः ।
तत्र योगाः सम्यग्दर्शनादयो येषां तैः समाधियोगैर्जनैः ॥ ८ ॥
तटस्थलक्षणानि दर्शयन्नाह यतो विश्वमित्यादि ।
यतो हेतुभूतात् विश्वमशेषं जगत् समुद्भूतं जातम् ।
जातञ्च सद्विश्वं येनावलम्बनभूतेन तिष्ठति ।
प्रलयकाले सर्वाणि चराण्यचराणि च भूतानि यस्मिन् लीयन्ते लीनानि भवन्ति तद्ब्रह्म तटस्थैरेतैर्लक्षणैर्ज्ञेयं वेदितव्यम् ॥ ९ ॥
स्वरूपलक्षणेन तटस्थलक्षणेन च वेदितव्यस्य ब्रह्मणो भेदो नास्तीति प्रतिपादयितुमाह स्वरूपबुद्ध्येत्यादि ।
हे शिवे स्वरूपबुद्ध्या यद्ब्रह्म वेद्यं ज्ञेयं भवति तदेव ब्रह्म तटस्थैरपि लक्षणैर्वेद्यं भवेत् ।
स्वरूपलक्षणेन ब्रह्माधिगन्तुमिच्छतां जनानां साधनानपेक्षत्त्वात्तटस्थैरेव लक्षणैस्तदधिगन्तुमिच्छतां साधनमभिधातुमाह लक्षणैरित्यादि ।
तत्र स्वरूपलक्षणतटस्थलक्षणेषु मध्ये तटस्थैर्लक्षणैर्ब्रह्माप्तुमधिगन्तुमिच्छूनां जनानां साधनं विहितम् ॥ १० ॥
तदित्यादि ।
हे प्रिये तत्साधनं तटस्थलक्षणैर्वेद्यस्य ब्रह्मणः साधनमहं प्रवक्ष्यामि अवहिता सावधाना सती त्वं शृणुष्व ।
तत्र साधने वक्तव्ये आदौ प्रथमतो महेशितुर्महेश्वरस्य मन्त्रोद्धारं कथयामि ॥ ११ ॥
प्रणवं पूर्वमुद्धृत्य सच्चित्पदमुदाहरेत् ।
एकं पदान्ते ब्रह्मेति मन्त्रोद्धारः प्रकीर्तितः ॥ १२ ॥
सन्धिक्रमेण मिलितः सप्तार्णोऽयं मनुर्मतः ।
तारहीनेन देवेशि षड्वर्णोऽयं मनुर्भवेत् ॥ १३ ॥
सर्वमन्त्रोत्तमः साक्षाद्धर्मार्थकाममोक्षदः ।
नात्र सिद्धाद्यपेक्षाऽस्ति नारिमित्रादिदूषणम् ॥ १४ ॥
न तिथिर्न च नक्षत्रं न राशिगणनं तथा ।
कुलाकुलादिनियमो न संस्कारोऽत्र विद्यते ।
सर्वथा सिद्धमन्त्रोऽयं नात्र कार्या विचारणा ॥ १५ ॥
बहुजन्मार्जितैः पुण्यैः सद्गुरुर्यदि लभ्यते ।
तदा तद्वक्त्रतो ज्ञात्वा जन्मसाफल्यमाप्नुयात् ॥ १६ ॥
मन्त्रोद्धारमेव कथयति प्रणवमित्यादिना ।
पूर्वं प्रथमं प्रणवमोङ्कारमुद्धृत्य ततोऽनन्तरं सच्चित्पदमुदाहरेत् वदेत् ।
सच्चित्पदान्ते च एकं ब्रह्मेत्युदाहरेत् ।
ततश्च ओ।
सच्चिदेकं ब्रह्मेत्याकारको मन्त्रो निष्पन्नः ।
मन्त्रोद्धारोऽयमेव प्रकीर्तितः कथितः ॥ १२ ॥
सन्धीति ।
हे देवेशि सन्धिक्रमेण मिलितः सङ्गतोऽयं मनुर्मन्त्रः सप्तार्णः सप्तवर्णको मतः ।
तारहीनेन प्रणवत्यागेनायं पूर्वोक्त एव मनुः षड्वर्णो भवेत् ॥ १३ ॥
अथेमं मन्त्रं स्तौति सर्वेत्यादिना ।
अयं मन्त्रः सर्वेषु मन्त्रेषूत्तमः श्रेष्ठः ।
सर्वमन्त्रोत्तमत्वमेवाह साक्षादित्यादिना ॥ १४ ॥
न तिथिरिति ।
तिथिर्न गणनीयेति शेषः ॥ १५ ॥
अथैतस्य मन्त्रस्य ग्रहीतुः पुरुषस्य सर्वोत्तमत्वं प्रतिपादयितुमाह वह्वित्यादि ।
तद्वक्त्रतः सद्गुरुमुखात् मन्त्रमिमं ज्ञात्वा ॥ १६ ॥
चतुर्वर्गं करे कृत्वा परत्रेह च मोदते ॥ १७ ॥
स धन्यः स कृतार्थश्च स कृती स च धार्मिकः ।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥ १८ ॥
सर्वशास्त्रेषु निष्णातः सर्वलोकप्रतिष्ठितः ।
यस्य कर्णपथोपान्तप्राप्तो मन्त्रमहामणिः ॥ १९ ॥
धन्या माता पिता तस्य पवित्रं तत्कुलं शिवे ।
पितरस्तस्य सन्तुष्टा मोदन्ते त्रिदशैः सह ।
गायन्ति गायनीं गाथां पुलकाञ्चितविग्रहाः ॥ २० ॥
अस्मत्कुले कुलश्रेष्ठो जातो ब्रह्मोपदेशिकः ।
किमस्माकं गयापिण्डैः किं तीर्थैः श्राद्धतर्पणैः ॥ २१ ॥
किं दानैः किं जपैर्होमैः किमन्यैर्बहुसाधनैः ।
वयमक्षयतृप्ताः स्म सत्पुत्रस्यास्य साधनात् ॥ २२ ॥
चतुर्वर्गमिति ।
धर्मार्थकाममोक्षैरुपलक्षितो वर्गः समूहश्चतुर्वर्गस्तम् ।
त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैरित्यमरः ।
परत्र परलोके ॥ १७ ॥
निष्णातो निपुणः ।
कर्णपथस्योपान्तं प्राप्तः कर्णपथोपान्तप्राप्तः ।
मन्त्र एव महामणिः ॥ १८ ॥ १९ ॥
पितर इति ।
गीयते इति गायनी ताम् ।
ल्युट् वेति बाहुलकात् कर्मणि ल्युट् ।
पुलकैः रोमहर्षणैरञ्चिता अधिगता विग्रहा देहा येषां तथाभूताः सन्तः ।
[पुलकाङ्कितविग्रहा इति पाठेऽप्यङ्कितं चिह्नितमित्यर्थः] ॥ २० ॥
तां गाथामेवाह अस्मत्कुल इत्यादिभ्यां द्वाभ्याम् ।
ब्रह्मोपदेशिकः ब्रह्मोपदेशवान् ।
अक्षयतृप्ताः अविनश्वरतृप्तिमन्त्रः ॥ २१ ॥ २२ ॥
शृणु देवि जगद्वन्द्ये सत्यं सत्यं मयोच्यते ।
परब्रह्मोपासकानां किमन्यैः साधनान्तरैः ॥ २३ ॥
मन्त्रग्रहणमात्रेण देही ब्रह्ममयो भवेत् ।
ब्रह्मभूतस्य देवेशि किमवाप्यं जगत्त्रये ॥ २४ ॥
किं कुर्वन्ति ग्रहा रुष्टा वेतालाश्चेटकादयः ।
पिशाचा गुह्यका भूता डाकिन्यो मातृकादयः ।
तस्य दर्शनमात्रेण पलायन्ते पराङ्मुखाः ॥ २५ ॥
रक्षितो ब्रह्ममन्त्रेण प्रावृतो ब्रह्मतेजसा ।
किं विभेति ग्रहादिभ्यो मार्तण्ड इव चापरः ॥ २६ ॥
तं दृष्ट्वा ते भयापन्नाः सिंहं दृष्ट्वा यथा गजाः ।
विद्रवन्ति च नश्यन्ति पतङ्गा इव पावके ॥ २७ ॥
न तस्य दुरितं किञ्चिद्ब्रह्मनिष्ठस्य देहिनः ।
सत्यपूतस्य शुद्धस्य सर्वप्राणिहितस्य च ।
को वोपद्रवमन्विच्छेदात्मापघातकं विना ॥ २८ ॥
शृण्वित्यादि ।
साधनान्तरैः साधनविशेषैः ॥ २३ ॥
मन्त्रेत्यादि ।
किमवाप्यं किं लब्धव्यमस्ति अपि तु सर्वं वस्तु लब्धमेवास्तीत्यर्थः ॥ २४ ॥
तस्य ब्रह्मभूतस्य दर्शनमात्रेण पराङ्मुखाः सन्तो ग्रहादयः पलायन्ते ॥ २५ ॥
रक्षित इत्यादि ।
ब्रह्मभूतो जनो ग्रहादिभ्यो विभेति भीतो भवति किम् ।
किन्तु न विभेतीत्यर्थः ।
मार्तण्ड इव सूर्य इव ॥ २६ ॥
तमित्यादि ।
तं परब्रह्मोपासकम् ।
ते ग्रहादयः ।
विद्रवन्ति पलायन्ते ।
पतङ्गा इव शलभा इव ॥ २७ ॥
शुद्धस्य निर्मलान्तःकरणस्य ॥ २८ ॥
ये द्रुह्यन्ति खलाः पापाः परब्रह्मोपदेशिने ।
स्वद्रोहं ते प्रकुर्वन्ति नातिरिक्ता यतः सतः ॥ २९ ॥
स तु सर्वहितः साधुः सर्वेषां प्रियकारकः ।
तस्यानिष्टे कृते देवि को वा स्यान्निरुपद्रवः ॥ ३० ॥
मन्त्रार्थं मन्त्रचैतन्यं यो न जानाति साधकः ।
शतलक्षप्रजप्तोऽपि तस्य मन्त्रो न सिद्ध्यति ॥ ३१ ॥
अतोऽस्यार्थञ्च चैतन्यं कथयामि शृणु प्रिये ।
अकारेण जगत्पाता संहर्ता स्यादुकारतः ॥ ३२ ॥
मकारेण जगत्स्रष्टा प्रणवार्थ उदाहृतः ।
सच्छब्देन सदा स्थायि चिच्चैतन्यं प्रकीर्तितम् ॥ ३३ ॥
एकमद्वैतमीशानि वृहत्त्वाद्ब्रह्म गीयते ।
मन्त्रार्थः कथितो देवि साधकाभीष्टसिद्धिदः ॥ ३४ ॥
य इत्यादि ।
ये पापाः पापशालिनः खला दुर्जनाः परब्रह्मोपदेशिने जनाय द्रुह्यन्ति तस्यापकारं विदधति ते पापाः स्वद्रोहमेव प्रकुर्वन्ति ।
परब्रह्मोपदेशिने इति क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोप इति सम्प्रदानत्वात् चतुर्थी सम्प्रदाने इति चतुर्थी ।
परब्रह्मोपदेशिजनद्रोहकरणात् स्वस्यैवापकारस्योत्पादने हेतुं दर्शयन्नाह नातिरिक्ता इत्यादि ।
यतो हेतोः सतः साधोर्ब्रह्मभूताद्ब्रह्मोपदेशिनो जनात् तेऽतिरिक्ता भिन्ना न भवन्ति अतः स्वद्रोहमेव प्रकुर्वन्तीति भावः ॥ २९ ॥
स तु ब्रह्मनिष्ठस्तु ॥ ३० ॥
मन्त्रार्थमिति ।
तस्य साधकस्य ।
यतो न सिद्ध्यति अतः प्रथमतः प्रणवार्थं निरूपयति अकारेणेत्यादिना ॥ ३१ ॥ ३२ ॥
अथ सच्चिदादिपदार्थमाह सच्छब्देनेत्यादिना ॥ ३३ ॥ ३४ ॥
मन्त्रचैतन्यमेतत्तु तदधिष्ठातृदेवता ।
तज्ज्ञानं परमेशानि भक्तानां सिद्धिदायकम् ॥ ३५ ॥
अस्याधिष्ठातृ देवेशि सर्वव्यापि सनातनम् ।
अवितर्क्यं निरातङ्कं वाचातीतं निरञ्जनम् ॥ ३६ ॥
वाङ्मायाकमलाद्येन तारहीनेन पार्वति ।
दीयते विविधा विद्या माया श्रीः सर्वतोमुखी ॥ ३७ ॥
तारेण तारहीनेन प्रत्येकं सकलं पदम् ।
युग्मयुग्मक्रमेणाऽपि मन्त्रोऽयं विविधो भवेत् ॥ ३८ ॥
अथ मन्त्रचैतन्यमभिधत्ते मन्त्रेत्यादिना ।
हे परमेशानि या तस्य मन्त्रस्याधिष्ठात्री देवता तस्या यत् ज्ञानमेतदेव मन्त्रचैतन्यं जानीहीत्यन्वयः ।
तच्चाधिष्ठातृदेवताज्ञानं भक्तानां सिद्धिदायकं भवेत् ॥ ३५ ॥
नन्वस्य मन्त्रस्य काऽधिष्ठात्री देवतेत्यपेक्षायामाह अस्येत्यादि ।
हे देवेशि सर्वव्यापि सकलपदार्थव्यापनशीलम् ।
सनातनं प्रागभावध्वंसरहितम् ।
अवितर्क्यमनूहनीयम् ।
निराकारमाकृतिशून्यम् ।
वाचातीतमतिक्रान्तवाक् ।
निरञ्जनम् मनश्चक्षुराद्यविषयभूतम् ।
यद्ब्रह्म तदस्य मन्त्रस्याधिष्ठातृ भवेत् ॥ ३६ ॥
वागित्यादि ।
हे पार्वति वाङ्मायाकमलाद्येन ऐमिति ह्रीमिति श्रीमिति बीजमाद्यं यस्य तथाभूतेन ।
तारहीनेन प्रणवरहितेन पूर्वोक्तेन मन्त्रेण क्रमतो विविधा अनेकप्रकारा विद्या दीयते विविधा माया दीयते सर्वतो मुखं यस्या एवम्भूता श्रीर्लक्ष्मीर्दीयते ।
यथा ऐं सच्चिदेकं ब्रह्मेत्यनेन मन्त्रेण विद्या दीयते ।
ह्रीं सच्चिदेकं ब्रह्मेत्यनेन माया दीयते ।
श्रीं सच्चिदेकं ब्रह्मेत्यनेन तु श्रीरिति ॥ ३७ ॥
अथैतस्यैव मन्त्रस्य नानाविधत्वं सम्पादयति तारेणेत्यादिना ।
पूर्वोक्तमन्त्रस्य प्रत्येकं पदं सकलं वा पदं तारेण प्रणवेन सहितं कर्तव्यं
ऋषिः सदाशिवो ह्यस्य छन्दोऽनुष्टुवुदाहृतम् ।
देवता परमं ब्रह्म सर्वान्तर्यामि निर्गुणम् ॥ ३९ ॥
चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः ।
अङ्गन्यासकरन्यासौ कथयामि शृणु प्रिये ॥ ४० ॥
तारं सच्चिदेकमिति ब्रह्मेति सकलं ततः ।
अङ्गुष्ठतर्जनीमध्यानामिकासु महेश्वरि ॥ ४१ ॥
कनिष्ठयोः करतलपृष्ठयोः सुरवन्दिते ।
नमः स्वाहा वषट् हू।
वौषट् फडन्तैर्यथाक्रमम् ॥ ४२ ॥
तारहीनेन प्रणवत्यागेनोपलक्षितं वा विधेयम् ।
ततश्चायं मन्त्रो विविधो भवेत् ।
युग्मयुग्मक्रमेणापि प्रणवसहितस्तद्रहितो वायं पूर्वोक्तो मन्त्रो विविधोऽनेकप्रकारको भवेत् ।
तारसहितं तद्रहितं प्रत्येकं पदं यथा ॐ सत् ।
ॐ चित् ।
ॐ एकम् ।
ॐ ब्रह्म ।
सत् ।
चित् ।
एकम् ।
ब्रह्म इति ।
प्रणवसम्बद्धं तदसम्बद्धं समस्तं पदम् यथा ॐ सच्चिदेकं ब्रह्म ।
सच्चिदेकं ब्रह्मेति ।
युग्मयुग्मक्रमतो यथा ॐ सद्ब्रह्म ।
ॐ चिद्ब्रह्म ।
ॐ एकं ब्रह्म ।
ॐ सच्चित् ।
ॐ चिदेकम् ।
सद्ब्रह्म ।
चिद्ब्रह्म ।
एकं ब्रह्म ।
सच्चित् ।
चिदेकमिति ॥ ३८ ॥
अथास्य मन्त्रस्य ऋष्यादिकमाह ऋषिरित्यादिना सार्द्धेन ।
अस्य मन्त्रस्य ।
सर्वान्तर्यामि सर्वान्तर्नियन्तृ ॥
अस्य मन्त्रस्य सदाशिव ऋषिरनुष्टुप्छन्दः सर्वान्तर्यामि निर्गुणं परमं ब्रह्म देवता धर्मार्थकाममोक्षावाप्तये विनियोगः ।
शिरसि सदाशिवाय ऋषये नमः मुखेऽनुष्टुप्छन्दसे नमः हृदि सर्वान्तर्यामिनिर्गुणपरमब्रह्मणे देवतायै नमः धर्मार्थकाममोक्षावाप्तये विनियोगः ।
इति ऋषिन्यासं विधायाङ्गन्यासकरन्यासौ विधातव्यौ अतस्तावभिधातुमाह अङ्गन्यासेत्यादि ॥ ३९ ॥ ४० ॥
तयोर्मध्ये प्रथमतः करन्यासमाह तारमित्यादिभ्यां सार्द्धाभ्यां द्वाभ्याम् ।
हे महेश्वरि हे सुरवन्दिते नमःस्वाहावषठूंवौषट्फडन्तैः अन्तभूतैर्नमःस्वाहावषट्
न्यसेन्न्यासोक्तविधिना साधकः सुसमाहितः ।
हृदादिकरपर्यन्तमेवमेव विधीयते ॥ ४३ ॥
प्राणायामं ततः कुर्यान् मूलेन प्रणवेन वा ।
मध्यमानामिकाभ्याञ्च दक्षहस्तस्य पार्वति ॥ ४४ ॥
वामनासापुटं धृत्वा दक्षनासापुटेन च ।
पूअयेत् पवनं मन्त्री मूलमष्टमितं जपन् ॥ ४५ ॥
अङ्गुष्ठेन दक्षनासां धृत्वा कुम्भकयोगतः ।
जपेद्द्वात्रिंशताऽवृत्त्या ततो दक्षिणनासया ॥ ४६ ॥
शनैःशनैस्त्यजेद्वायुं जपन् षोडशधा मनुम् ।
वामनासापुटेऽप्येवं पूरकुम्भकरेचकम् ॥ ४७ ॥
पुनर्दक्षिणतः कुर्यात् पूर्ववत् सुरपूजिते ।
प्राणायामविधिः प्रोक्तो ब्रह्ममन्त्रस्य साधने ॥ ४८ ॥
हूंवौषट्फट्रूपैः पदैर्विशिष्टं तारं प्रणवं सदिति चिदिति एकमिति ब्रह्मेति ।
ततोऽनन्तरम् ।
ॐ सच्चिदेकं ब्रह्मेति सकलञ्च पदम् अङ्गुष्ठतर्जनीमध्यानामिकासु कनिष्ठयोः करतलपृष्ठयोश्च न्यासोक्तविधिना सुसमाहितोऽतिसावधानः सन् साधको यथाक्रमं न्यसेत् ।
क्रमो यथा ॐ अङ्गुष्ठाभ्यां नमः ।
सत्तर्जनीभ्यां स्वाहा ।
चिन्मध्यमाभ्यां वषट् ।
एकमनामिकाभ्यां हू।
।
ब्रह्म कनिष्ठाभ्यां वौषट् ।
ॐ सच्चिदेकं ब्रह्म करतलपृष्ठाभ्यां फट् ।
इति करन्यासः ।
अथाङ्गन्यासमाहार्द्धेन हृदित्यादि ।
हृदादिकरपर्यन्तं प्रत्येवमेव न्यासो विधीयते ।
यथा ॐ हृदयाय नमः ।
सच्छिरसे स्वाहा ।
चिच्छिखायै वषट् ।
एकं कवचाय हू।
।
ब्रह्म नेत्रत्रयाय वौषट् ।
ॐ सच्चिदेकं ब्रह्म करतलकरपृष्ठाभ्यां फट् इति ॥ ४१ � ४३ ॥
एवमङ्गन्यासकरन्यासौ विधाय प्राणायामो विधेय इत्याह प्राणायाममित्यादिना ।
ततोऽनन्तरम् ॐ सच्चिदेकं ब्रह्मेत्यादिमूलमन्त्रेण प्रणवेन ॐ कारणे
ततो ध्यानं प्रकुर्वीत साधकाभीष्टसाधनम् ॥ ४९ ॥
हृदयकमलमध्ये निर्विशेषं निरीहम् हरिहरविधिवेद्यं योगिभिर्ध्यानगम्यम् ।
जननमरणभीतिभ्रंसि सच्चित्स्वरूपम् सकलभुवनबीजं ब्रह्म चैतन्यमीडे ॥ ५० ॥
वा प्राणायामं कुर्यात् ॥
ननु प्राणायामः कथं विधातव्य इत्यपेक्षायां तद्विधानमाह मध्यमेत्यादिभिः सार्धैश्चतुर्भिः ।
हे पार्वति दक्षिणहस्तस्य मध्यमानामिकाभ्यामङ्गुलिभ्यां वामनासापुटं धृत्वा मन्त्री साधकोऽष्टमितं मूलमन्त्रं जपन् सन् दक्षिणनासापुटेन पवनं वायु पूरयेत् ।
ततो दक्षहस्तस्यैवाङ्गुष्ठेन दक्षनासापुटं धृत्वा कुम्भकयोगतो द्वात्रिंशता आवृत्त्या मूलमन्त्रं जपेत् ।
ततः षोडशधा मनुं मूलमन्त्रं जपन् सन् दक्षिणनासयैव शनैः शनैर्वायुं त्यजेत् ।
ततो वामनासापुटेऽप्येवमेव पूरककुम्भकरेचकं कुर्यात् क्रमेणैवाकृष्टं निश्चलं विमुक्तञ्च श्वासं विदध्यादित्यर्थः ।
पूर्ववत् पुनर्दक्षिणतोऽपि पूरककुम्भकरेचकं कुर्यात् ।
ब्रह्ममन्त्रस्य साधने एष प्राणायामविधिः प्रोक्तः ।
पूरकादिस्वरूपमाह योगियाज्ञवल्क्यः
नासिकोत्कृष्ट उच्छासो ध्मातः पूरक उच्यते ।
कुम्भको निश्चलश्वासो मुच्यमानस्तु रेचकः ॥
इति ॥ ४४ � ४८ ॥
इत्थं प्राणायामं कृत्वा परब्रह्मध्यानं कर्तव्यमित्याह तत इत्यादिना ॥ ४९ ॥
अथ तद्ध्यानमाह हृदयेत्यादि ।
हृदयकमलस्य मध्ये स्थितं चैतन्यं चेतनं ब्रह्माहमीडे ध्यायामीत्यन्वयः ।
धातूनामनेकार्थत्वादीडधातोर्ध्यानेऽर्थेऽपि प्रवृत्तिः ।
निर्विशेषमित्यादीनि ब्रह्मणो विशेषणानि ।
निर्विशेषं नानाविधभेदशून्यम् ।
निरीहं निराकाङ्क्षम् प्राप्तसमस्तैश्वर्यमित्यर्थः ।
ध्यानगम्यम् ध्यानेनावगन्तव्यम् ।
जननमरणभीतिभ्रंसि जन्ममृत्युनिमित्तवभयापहन्तृ ।
ध्यात्वैवं परमं ब्रह्म मानसैरुपचारकैः ।
पूजयेत् परया भक्त्या ब्रह्मसायुज्यहेतवे ॥ ५१ ॥
गन्धं दद्यान्महीतत्त्वं पुष्पमाकाशमेव च ।
धूपं दद्याद्वायुतत्त्वं दीपं तेजः समर्पयेत् ।
नैवेद्यं तोयतत्त्वेन प्रदद्यात् परमात्मने ॥ ५२ ॥
ततो जप्त्वा महामन्त्रं मनसा साधकोत्तमः ।
समर्प्य ब्रह्मणे पश्चाद्वहिःपूजां समारभेत् ॥ ५३ ॥
उपस्थितानि द्रव्याणि गन्धपुष्पादिकानि च ।
वस्त्रालङ्करणादीनि भक्ष्यपेयानि यानि च ॥ ५४ ॥
मन्त्रेणानेन संशोध्य ध्यात्वा ब्रह्म सनातनम् ।
निमील्य नेत्रे मतिमानर्पयेत् परमात्मने ॥ ५५ ॥
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ५६ ॥
सच्चित्स्वरूपं सदास्थायिस्वरूपं ज्ञानस्वरूपञ्चेत्यर्थः ।
सकलभुवनबीजं समस्तस्य भुवनस्य कारणम् ॥ ५० ॥
एवं ब्रह्म ध्यात्वा तस्य पूजनं विधेयमित्याह ध्यात्वेत्यादिना ।
मानसैर्मनःसङ्कल्पितैः ।
ब्रह्मसायुज्यहेतवे ब्रह्मत्वनिमित्ताय ।
स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपीत्यमरः ॥
मानसानुपचारानेवाह गन्धमित्यादिना ॥ ५१ ॥ ५२ ॥
तत इति ।
महामन्त्रम् ॐ सच्चिदेकं ब्रह्मेत्याद्यात्मकम् ।
समर्प्य महामन्त्रजपहेतुकं फलं दत्त्वा ॥
वहिःपूजामेवाह उपस्थितानीत्यादिना ।
उपस्थितानि समीपे स्थितानि ॥
अनेन इतोऽनन्तरमेव वक्ष्यमाणेन मन्त्रेण ॥ ५३ � ५५ ॥
अथ गन्धपुष्पाद्यर्पणमन्त्रमेवाह ब्रह्मार्पणमिति ।
अर्प्यते दीयतेऽनेनेत्यर्पणं सृवादि यज्ञपात्रम् तदपि ब्रह्मैव ।
दीयमानं हविर्घृतादिकमपि ब्रह्मैव ।
ततो नेत्रे समुन्मील्य जप्त्वा मूलं स्वशक्तितः ।
तज्जपं ब्रह्मसात् कृत्वा स्तोत्रञ्च कवचं पठेत् ॥ ५७ ॥
स्तोत्रं शृणु महेशानि ब्रह्मणः परमात्मनः ।
यत् श्रुत्वा साधको देवि ब्रह्मसायुज्यमश्नुते ॥ ५८ ॥
नमस्ते सते सर्वलोकाश्रयाय नमस्ते चिते विश्वरूपात्मकाय ।
नमोऽद्वैततत्त्वाय मुक्तिप्रदाय नमो ब्रह्मणे व्यापिने निर्गुणाय ॥ ५९ ॥
त्वमेकं शरण्यं त्वमेकं वरेण्यं त्वमेकं जगत्कारणं विश्वरूपम् ।
ब्रह्मैवाग्निस्तस्मिन् ।
ब्रह्मणा कर्त्रा हुतं हवनमपि ब्रह्म ।
अग्निश्च कर्ता च हवनक्रिया चापि ब्रह्मैवेत्यर्थः ।
एवं ब्रह्मण्येव कर्मात्मके समाधिश्चित्तैकाग्र्यं यस्य तेन पुंसा ब्रह्मैव गन्तव्यं प्राप्तव्यं न तु फलान्तरमित्यर्थः ॥ ५६ ॥
तत इत्यादि ।
समुन्मील्य उद्घाट्य ।
मूलं मूलमन्त्रम् ।
ब्रह्मसात् ब्रह्माधीनम् ॥ ५७ ॥
स्तोत्रमिति ।
ब्रह्मसायुज्यमश्नुते ब्रह्मत्वं प्राप्नोति ॥ ५८ ॥
अथ तत्स्तोत्रमाह नमस्ते इत्यादि ।
सते सदा स्थायिने ।
सर्वलोकाश्रयाय सकललोकाधारभूताय ।
चिते चैतन्याय ।
विश्वरूप आत्मा यस्य तस्मै ।
अद्वैततत्त्वाय सजातीयविजातीयात्मगतमेदरहिततत्त्वाय ।
ब्रह्मणे अतिबृहते अत एव व्यापिने सकलवस्तुव्यापनशीलाय ।
निर्गुणाय सत्त्वादिगुणरहिताय ॥ ५९ ॥
त्वमेकं जगत्कर्तृपातृप्रहर्तृ त्वमेकं परं निश्चलं निर्विकल्पम् ॥ ६० ॥
भयानां भयं भीषणं भीषणानां गतिः प्राणिनां पावनं पावनानाम् ।
महोच्चैःपदानां नियन्तृ त्वमेकं परेषां परं रक्षकं रक्षकाणाम् ॥ ६१ ॥
परेश प्रभो सर्वरूपाप्रकाशिन् अनिर्द्देश्य सर्वेन्द्रियागम्य सत्य ।
अचिन्त्याक्षर व्यापकाव्यक्त तत्त्व जगद्भासकाधीश पायादपायात् ॥ ६२ ॥
त्वमित्यादि ।
एकं मुख्यं केवलं वा ।
शरणे रक्षणे साधु इति शरण्यम् ।
तत्र साधुरिति यत् ।
वरेण्यं वरणीयम् ।
जन्ममृत्युदुःखादिभीरुभिरुपासनीयमित्यर्थः ।
परं श्रेष्ठम् ।
निर्विकल्पं नानाविधकल्पनाशून्यम् ॥ ६० ॥
भयानामित्यादि ।
भीषणानां भयानकानामपि भीषणं भयानकम् ।
पावनानां पूतत्वजनकानामपि पावनम् पावित्र्यजनकम् ।
पदानां स्थानानां मध्ये महोच्चैरत्युच्छ्रितं पदम् अथवा महोच्चैरत्युच्छ्रितं पदं येषां तेषां ब्रह्मादीनामपि नियन्तृ नियामकम् ।
परेषां श्रेष्ठानामपि ॥ ६१ ॥
परेशेत्यादि ।
परेश परेषां ब्रह्मादीनामप्यधिप ।
प्रभो नियन्तः ।
अनिर्देश्यशब्देन निर्देष्टुमशक्य ।
सर्वेन्द्रियागम्य सर्वैर्नेत्रादिभिरिन्द्रियैरप्राप्य ।
सत्य परमार्थसत्यशालिन् ।
अचिन्त्य मनसोऽप्यविषयभूत ।
न क्षरति चलतीत्यक्षरम् तत्सम्बोधने अक्षर ।
अव्यक्त रूपादिरहित ।
जगद्भासकानां चन्द्रसूर्यादीनामपीश्वर अथवा जगाद्भसकेति अधीशेति च भिन्नमेव पदम् ।
पायात् रक्षत् ।
अपायात् भक्तिबुद्ध्यादिविश्लेषात् ॥ ६२ ॥
तदेकं स्मरामस्तदेकं जपामः तदेकं जगत्साक्षिरूपं नमामः ।
सदेकं निधानं निरालम्बमीशं भवाम्भोधिपोतं शरण्यं व्रजामः ॥ ६३ ॥
पञ्चरत्नमिदं स्तोत्रं ब्रह्मणः परमात्मनः ।
यः पठेत् प्रयतो भूत्वा ब्रह्मसायुज्यमाप्नुयात् ॥ ६४ ॥
प्रदोषेऽदः पठेन्नित्यं सोमवारे विशेषतः ।
श्रावयेद्बोधयेत् प्राज्ञो ब्रह्मनिष्ठान् स्वबान्धवान् ॥ ६५ ॥
इति ते कथितं देवि पञ्चरत्नं महेशितुः ।
कवचं शृणु चार्वङ्गि जगन्मङ्गलनामकम् ।
पठनाद्धारणाद् यस्य ब्रह्मज्ञो जायते ध्रुवम् ॥ ६६ ॥
परमात्मा शिरः पातु हृदयं परमेश्वरः ।
कण्ठं पातु जगत्पाता वदनं सर्वदृग्विभुः ॥ ६७ ॥
करौ मे पातु विश्वात्मा पादौ रक्षतु चिन्मयः ।
सर्वाङ्गं सर्वदा पातु परं ब्रह्म सनातनम् ॥ ६८ ॥
तदित्यादि ।
तत् ब्रह्म ।
निधीयते जगद् यस्मिन् तन्निधानं जगदाश्रयभूतम् ।
निरालम्बम् आश्रयशून्यम् ॥ ६३ ॥
अथ पञ्चरत्नाख्यैतत्स्तोत्रपाठहेतुकं फलमाह पञ्चरत्नमित्यादिना ।
प्रयतः पवित्रः ॥
अदः स्तोत्रम् ॥ ६४ ॥ ६५ ॥
स्तोत्रं पठित्वा कवचं पठितव्यमतस्तदभिधातुमुपक्रमते इतीति ॥ ६६ ॥
तद् ब्रह्मकवचमेवाह परमात्मेत्यादि ।
चिन्मयः चैतन्यरूपः ॥ ६७ ॥ ६८ ॥
श्रीजगन्मङ्गलस्यास्य कवचस्य सदाशिवः ।
ऋषिश्छन्दोऽनुष्टुविति परमब्रह्म देवता ।
चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः ॥ ६९ ॥
यः पठेद् ब्रह्मकवचम् ऋषिन्यासपुरःसरम् ।
स ब्रह्मज्ञानमासाद्य साक्षाद्ब्रह्ममयो भवेत् ॥ ७० ॥
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेत् यदि ।
कण्ठे वा दक्षिणे बाहो सर्वसिद्धीश्वरो भवेत् ॥ ७१ ॥
इत्येतत् परमब्रह्मकवचं ते प्रकाशितम् ।
दद्यात् प्रियाय शिष्याय गुरुभक्ताय धीमते ॥ ७२ ॥
पठित्वा स्तोत्रकवचं प्रणमेत् साधकाग्रणीः ॥ ७३ ॥
नमस्ते परमं ब्रह्म नमस्ते परमात्मने ।
निर्गुणाय नमस्तुभ्यं सद्रूपाय नमो नमः ॥ ७४ ॥
अथास्य कवचस्य ऋष्यादिकमाह श्रीजगदित्यादिना ॥
अथ ब्रह्मकवचपठनजन्यं फलमाह य इत्यादिना ।
ऋषिन्यासः पुरःसरो यत्र तत् ।
ऋषिन्यासश्च अस्य श्रीजगन्मङ्गलनामकस्य कवचस्य सदाशिव ऋषिः अनुष्टुप्छन्दः परमब्रह्म देवता धर्मार्थकाममोक्षावाप्त्यै श्रीजगन्मङ्गलाख्यकवचपाठे विनियोगः ।
शिरसि सदाशिवाय ऋषये नमः ।
मुखेऽनुष्टप्छन्दसे नमः ।
हृदये परब्रह्मणे देवतायै नमः ।
धर्मार्थकाममोक्षावाप्तये श्रीजगन्मङ्गलाख्यकवचपाठे विनियोग इति ।
आसाद्य प्राप्य ।
ब्रह्ममयः ब्रह्मस्वरूपः ॥ ६९ � ७१ ॥
इतीति ।
ते तुभ्यं तवाग्रे वा ॥
प्रणमेत् परमात्मानमिति शेषः ।
साधकाग्रणीः साधकोत्तमः ॥
तत्प्रणमनमेवाह नम इत्यादिना ॥ ७२ � ७४ ॥
वाचिकं कायिकं वाऽपि मानसं वा यथामति ।
आराधने परेशस्य भावशुद्धिर्विधीयते ॥ ७५ ॥
एवं सम्पूज्य मतिमान् स्वजनैर्बान्धवैः सह ।
महाप्रसादं स्वीकुर्याद् ब्रह्मणः परमात्मनः ॥ ७६ ॥
पूजने परमेशस्य नावाहनविसर्जने ।
सर्वत्र सर्वकालेषु साधयेद् ब्रह्मसाधनम् ॥ ७७ ॥
अस्नातो वा कृतस्नानो भुक्तो वाऽपि बुभुक्षितः ।
पूजयेत् परमात्मानं सदा निर्मलमानसः ॥ ७८ ॥
अनेन ब्रह्ममन्त्रेण भक्ष्यपेयादिकञ्च यत् ।
दीयते परमेशाय तदेव पावनं महत् ॥ ७९ ॥
गङ्गातोये शिलादौ च स्पृष्टदोषोऽपि वर्तते ।
परब्रह्मार्पिते द्रव्ये स्पृष्टास्पृष्टं न विद्यते ॥ ८० ॥
ननु परमात्मानं प्रति कायिकवाचिकमानसास्त्रयोऽपि प्रणामा विधातव्यास्तेषां मध्ये एकतमो वा तत्राह वाचिकमित्यादि ।
यथामति परब्रह्मणे कायिकं वाचिकं मानसं वा प्रणमनं विदध्यात् ।
ननु परब्रह्मणे कायिकस्यैव प्रणामस्यौचित्यं नतु वाचिकमानसयोरत आह आराधन इत्यादि ।
भावशुद्धिरन्तःकरणशुद्धत्वम् ॥ ७५ ॥
एवमित्यादि ।
सम्पूज्य परमात्मानमिति शेषः ॥
साधयेत् निष्पादयेत् ॥ ७६ � ७८ ॥
अथ ब्रह्मणो महाप्रसादस्य माहात्म्यं वर्णयितुमुपक्रमते अनेनेत्यादि ।
ब्रह्ममन्त्रेण ॐ सच्चिदित्याद्यात्मकेन ब्रह्मार्पणमित्याद्यात्मकेन वा ॥
शिलादौ शालग्रामशिलादौ ॥ ७९ ॥ ८० ॥
पक्वं वाऽपि न पक्वं वा मन्त्रेणानेन मन्त्रितम् ।
साधको ब्रह्मसात् कृत्वा भुञ्जीयात् स्वजनैः सह ॥ ८१ ॥
नात्र वर्णविचारोऽस्ति नोच्छिष्टादिविवेचनम् ।
न कालनियमोऽप्यत्र शौचाशौचं तथैव च ॥ ८२ ॥
यथाकाले यथादेशे यथायोगेन लभ्यते ।
ब्रह्मसात् कृतनैवेद्यमश्नीयादविचारयन् ॥ ८३ ॥
आनीतं श्वपचेनापि श्वमुखादपि निःसृतम् ।
तदन्नं पावनं देवि देवानामपि दुर्लभम् ॥ ८४ ॥
किं पुनर्मनुजादीनां वक्तव्यं देववन्दिते ।
परमेशस्य नैवेद्यसेवनाद् यत् फलं भवेत् ॥ ८५ ॥
महापातकयुक्तो वा युक्तो वाप्यन्यपातकैः ।
सकृत् प्रसादग्रहणात् मुच्यते नात्र संशयः ॥ ८६ ॥
सार्द्धत्रिकोटितीर्थेषु स्नानदानेन यत्फलम् ।
तत् फलं लभते मर्त्यो ब्रह्मार्पितनिषेवणात् ॥ ८७ ॥
अश्वमेधादिभिर्यज्ञैरिष्ट्वा यत् फलमश्नुते ।
भक्षिते ब्रह्म नैवेद्ये तस्मात् कोटिगुणं लभेत् ॥ ८८ ॥
जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि ।
महाप्रसादमाहात्म्यं वर्णितुं नैव शक्यते ॥ ८९ ॥
पक्वमिति ।
मन्त्रेण ॐ तत् सदित्याद्यात्मकेन ॥
नात्रेति ।
अत्र ब्रह्मणो महाप्रसादे ॥
आनीतमिति ।
श्वपचेन चाण्डालेनाप्यानीतं यदन्नं तद्ब्रह्मसात्कृतं सत् पावनं भवेत् ॥
अश्नुते लभते ॥ ८१ � ८९ ॥
यत्र कुत्र स्थितो वापि प्राप्य ब्रह्मार्पितामृतम् ।
गृहीत्वा कीकशो वाऽपि ब्रह्मसायुज्यमाप्नुयात् ॥ ९० ॥
यदि स्यान्नीचजातीयमन्नं ब्रह्मणि भावितम् ।
तदन्नं ब्राह्मणैर्ग्राह्यमपि वेदान्तपारगैः ॥ ९१ ॥
जातिभेदो न कर्तव्यः प्रसादे परमात्मनः ।
योऽशुद्धबुद्धिं कुरुते स महापातकी भवेत् ॥ ९२ ॥
वरं पापशतं कुर्याद्वरं विप्रबधं प्रिये ।
परब्रह्मार्पिते ह्यन्ने न कुर्यादवहेलनम् ॥ ९३ ॥
ये त्यजन्ति नरा मूढा महामन्त्रेण संस्कृतम् ।
अन्नतोयादिकं भद्रे पितॄंस्ते पातयन्त्यधः ॥ ९४ ॥
स्वयमप्यन्धतामिस्रे पतन्त्याहूतसम्प्लवम् ।
ब्रह्मसात्कृतनैवेद्यद्वेष्टॄणां नास्ति निष्कृतिः ॥ ९५ ॥
पुण्यायन्ते क्रियाः सर्वाः सुषुप्तिः सुकृतायते ।
स्वेच्छाचारोऽत्र विहितो महामन्त्रस्य साधने ॥ ९६ ॥
यत्रेत्यादि ।
अमृतम् शीधु ।
कीकशो वापि चाण्डालोऽपि ॥ ९० ॥
यदीति ।
नीचजातीयं चाण्डालादिसम्बन्धि ।
ब्रह्मणि भावितं चिन्तितं ब्रह्मणेऽर्पितमित्यर्थः ॥ ९१ ॥ ९२ ॥
वरमित्यादि ।
वरमीषत् प्रियम् ।
देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीवं मनाक् प्रिये इत्यमरः ।
अवहेलनम् तिरस्कारम् ॥ ९३ ॥ ९४ ॥
स्वयमित्यादि ।
अन्धतामिस्रे नरके ।
आहूतस्य विश्वस्य सम्प्लवः सलिले सम्यक् प्लवनं यत्र तत्कालपर्यन्तम् प्रलयकालपर्यन्तमित्यर्थः ।
निष्कृतिर्निस्तारः ॥ ९५ ॥
पुण्येत्यादि ।
सर्वा अपुण्या अपि क्रियाः पुण्यायन्ते पुण्या इवाचरन्तीत्यर्थः ॥ ९६ ॥
किं तस्य वैदिकाचारैस्तान्त्रिकैर्वाऽपि तस्य किम् ।
ब्रह्मनिष्ठस्य विदुषः स्वेच्छाचारो विधिः स्मृतः ॥ ९७ ॥
कृतेनास्य फलं नास्ति नाकृतेनापि किल्विषम् ।
न विघ्नः प्रत्यवायो,अस्य ब्रह्ममन्त्रस्य साधनात् ॥ ९८ ॥
अस्मिन् धर्मे महेशि स्यात् सत्यवादी जितेन्द्रियः ।
परोपकारनिरतो निर्विकारः सदाशयः ॥ ९९ ॥
मात्सर्यहीनोऽदम्भी च दयावान् शुद्धमानसः ।
मातापित्रोः प्रीतिकारी तयोः सेवनतत्परः ॥ १०० ॥
ब्रह्मश्रोता ब्रह्ममन्ता ब्रह्मान्वेषणमानसः ।
यतात्मा दृढबुद्धिः स्यात् साक्षाद्ब्रह्मेति भावयन् ॥ १०१ ॥
न मिथ्याभाषणं कुर्यान्न परानिष्टचिन्तनम् ।
परस्त्रीगमनञ्चैव ब्रह्ममन्त्री विवर्जयेत् ॥ १०२ ॥
तत्सदिति वदेद्देवि प्रारम्भे सर्वकर्मणाम् ।
ब्रह्मार्पणमस्तु वाक्यं पानभोजनकर्मणोः ॥ १०३ ॥
येनोपायेन मर्त्यानां लोकयात्रा प्रसिद्ध्यति ।
तदेव कार्यं ब्रह्मज्ञैरिदं धर्मं सनातनम् ॥ १०४ ॥
किमित्यादि ।
विदुषः सर्वं ब्रह्मैवेति जानतः ।
स्वेच्छाचार एव विधिः ।
अस्य ब्रह्मनिष्ठस्य ॥ ९७ ॥ ९८ ॥
अस्मिन्नित्यादि ।
सदाशयः साध्वभिप्रायः ॥
मात्सर्यहीनः अन्यशुभद्वेषरहितः ।
अदम्भी कपटताशून्यः ।
तयोः मातापित्रोः ॥ ९९ ॥ १०० ॥
ब्रह्मेत्यादि ।
यतात्मा संयतचित्तः ।
ब्रह्म साक्षादस्तीति भावयन् चिन्तयन् ॥
ब्रह्मार्पणमस्त्विति वाक्यम् ॥
लोकयात्रा लोकनिर्वाहः ॥ १०१ � १०४ ॥
अथ सन्ध्याविधिं वक्ष्ये ब्रह्ममन्त्रस्य शाम्भवि ।
यां कृत्वा ब्रह्मसम्पत्तिं लभन्ते भुवि मानवाः ॥ १०५ ॥
प्रातर्मध्याह्नसायाह्ने यथादेशे यथाऽसने ।
पूर्ववत् परमब्रह्म ध्यात्वा साधकसत्तमः ॥ १०६ ॥
अष्टोत्तरशतं देवि गायत्रीजपमाचरेत् ।
जपं समर्प्य विधिवत् पूर्ववत् प्रणमेत् सुधीः ॥ १०७ ॥
एषा सन्ध्या मया प्रोक्ता सर्वथा ब्रह्मसाधने ।
यदनुष्ठानतो मन्त्री शुद्धान्तःकरणो भवेत् ॥ १०८ ॥
गायत्रीं शृणु चार्वङ्गि सर्वपापप्रणाशिनीम् ।
परमेश्वरं ङेऽन्तमुक्त्वा विद्महे तदनन्तरम् ॥ १०९ ॥
परतत्त्वाय पदतो धीमहीति वदेत् प्रिये ।
अथेति ।
यां सन्ध्याम् ।
ब्रह्मसम्पत्तिम् ब्रह्मरूपां सम्पदम् ॥
तत्सन्ध्याविधिमेवाह प्रातरित्यादिना ।
यदनुष्ठानतः यदाचरणतः ॥ १०५ � १०८ ॥
तां ब्रह्मगायत्रीमेवाह परमेश्वरमित्यादिना सार्द्धेन ।
हे प्रिये ईशानि ङेऽन्तं ङेविभक्त्यन्तं परमेश्वरं पदमुक्त्वा विद्महे इति पदं वदेत् ।
तदनन्तरं विद्महे इति पदानन्तरं परतत्त्वायेति पदं वदेत् ।
परतत्त्वायेति पदतः परं धीमहीति पदं वदेत् ।
तदनन्तरं धीमहीति पदानन्तरं तन्नो ब्रह्म प्रचोदयादिति वदेत् ।
ततश्च परमेश्वराय विद्महे परतत्त्वाय धीमहि तन्नो ब्रह्म प्रचोदयादित्याकारिका ब्रह्मगायत्री सम्पन्नासीत् ।
ब्रह्मगायत्र्यर्थस्तु परतत्त्वाय परमेश्वराय परतत्त्वं परमेश्वरमाप्तुं यद्ब्रह्म वयं विद्महे मन्यामहे धीमहि चिन्तयामश्च तद्ब्रह्म
तदनन्तरमीशानि तन्नो ब्रह्म प्रचोदयात् ।
इयं श्रीब्रह्मगायत्री चतुर्वर्गप्रदायिनी ॥ ११० ॥
पूजनं यजनञ्चैव स्नानं पानञ्च भोजनम् ।
यद्यत्कर्म प्रकुर्वीत ब्रह्ममन्त्रेण साधयेत् ॥ १११ ॥
ब्राह्मे मुहूर्ते चोत्थाय प्रणम्य ब्रह्मदं गुरुम् ।
ध्यात्वा च परमं ब्रह्म यथाशक्ति मनुं स्मरेत् ।
पूर्ववत् प्रणमेद् ब्रह्म प्रातःकृत्यमिदं स्मृतम् ॥ ११२ ॥
द्वात्रिंशता सहस्रेण जपेनास्य पुरस्क्रिया ।
तद्दशांशेन हवनं तर्पणं तद्दशांशतः ॥ ११३ ॥
सेचनं तद्दशांशेन तद्दशांशेन सुन्दरि ।
ब्राह्मणान् भोजयेन्मन्त्री पुरश्चरणकर्मणि ॥ ११४ ॥
भक्ष्याभक्ष्यविचारोऽत्र त्याज्यं ग्राह्यं न विद्यते ।
न कालशुद्धिनियमो न वा स्थाननिरूपणम् ॥ ११५ ॥
नोऽस्मान् प्रचोदयात् प्रेरयेत् धर्मार्थकाममोक्षेषु विनियोजयेदित्यर्थ इति ॥ १०९ ॥ ११० ॥
पूजनमिति ।
साधयेत् तत्तत्कर्मेति शेषः ।
अथ प्रातःकृत्यमाह ब्राह्मे इत्यादिना ।
मनुम् ॐ सच्चिदेकं ब्रह्मेत्यादिमन्त्रम् ॥ १११ ॥ ११२ ॥
अथ ब्रह्ममन्त्रस्य पुरश्चरणविधिमाह द्वात्रिंशतेत्यादिना ।
अस्य ब्रह्ममन्त्रस्य पुरस्क्रिया पुरश्चरणम् ।
तद्दशांशेन जपदशमांशेन हवनं होमः ।
तद्दशांशतः होमदशा,म्शतः ।
तद्दशांशेन तर्पणदशांशेन सेचनं मार्जनम् ।
तद्दशांशेन मार्जनद्दशांशेन ॥
भक्ष्येत्यादि ।
अत्र ब्रह्ममन्त्रस्य पुरश्चरणकर्मणि ॥ ११३ � ११५ ॥
अभुक्तो वाऽपि भुक्तो वा स्नातो वाऽस्नात एव वा ।
साधयेत् परमं मन्त्रं स्वेच्छाचारेण साधकः ॥ ११६ ॥
विनाऽयासं विना क्लेशं स्तोत्रञ्च कवचं विना ।
विना न्यासं विना मुद्रां विना सेतुं वरानने ॥ ११७ ॥
विना चौरगणेशादिजपञ्च कुल्लुकां विना ।
अकस्मात् परमब्रह्मसाक्षात्कारो भवेद् ध्रुवम् ॥ ११८ ॥
सङ्कल्पोऽस्मिन् महाहन्त्रे मानसः परिकीर्तितः ।
साधने ब्रह्ममन्त्रस्य भावशुद्धिर्विधीयते ॥ ११९ ॥
सर्वं ब्रह्ममयं देवि भावयेत् ब्रह्मसाधकः ।
न चाऽस्य प्रत्यवायोऽस्ति नाङ्गवैगुण्यमेव च ।
महामनोः साधने तु व्यङ्गं साङ्गायते ध्रुवम् ॥ १२० ॥
कलौ पापयुगे घोरे तपोहीनेऽतिदुस्तरे ।
निस्तारबीजमेतावत् ब्रह्ममन्त्रस्य साधनम् ॥ १२१ ॥
साधनानि बहूक्तानि नानातन्त्रागमादिषु ।
कलौ दुर्बलजीवानामसाध्यानि महेश्वरि ॥ १२२ ॥
अभुक्त इत्यादि ।
न भुक्तमस्यास्तीति अभुक्तः ।
अर्श आदिभ्योऽजित्यच् ।
सेतुम् जपविशेषम् ।
कुल्लुकाऽपि जपविशेष एव तां विना ।
भावयेत् चिन्तयेत् ॥ ११६ � ११९ ॥
न चेत्यादि ।
अस्य महामनोरङ्गवैगुण्यादितः प्रत्यवायो न भवेत् ।
व्यङ्गम् अङ्गहीनमपि ॥ १२० ॥ १२१ ॥
नन्वनेकेषु तन्त्रादिषु निस्तारबीजानि बहूनि साधनानि भवतैवोक्तानि तत् कथमुच्यते कलौ ब्रह्ममन्त्रस्य साधनमेव निस्तारबीजमित्यत आह साधनानित्यादि ।
अत्र यद्यपि तथापीत्यध्याहार्यम् ॥ १२२ ॥
अल्पायुषः स्वल्पवृत्ता अन्नाधीनासवः प्रिये ।
लुब्धा धनार्जने व्यग्राः सदा चञ्चलमानसाः ॥ १२३ ॥
समाधावस्थिरधियो योगक्लेशासहिष्णवः ।
तेषां हिताय मोक्षाय ब्रह्ममार्गोऽयमीरितः ॥ १२४ ॥
कलौ नास्त्येव नास्त्येव सत्यं सत्यं मयोच्यते ।
ब्रह्मदीक्षां विना देवि कैवल्याय सुखाय च ॥ १२५ ॥
प्रातःकृत्यं प्रातरेव सन्ध्यां कुर्यात् त्रिकालतः ।
मध्याह्ने पूजनं कुर्यात् सर्वतन्त्रेष्वयं विधिः ।
परब्रह्मोपासने तु साधकेच्छाविधिः शिवे ॥ १२६ ॥
विधयः किङ्करा यत्र निषेधाः प्रभवोऽपि न ।
स्वेच्छाचारेणेष्टसिद्धिस्तद्विना कोऽन्यमाश्रयेत् ॥ १२७ ॥
ब्रह्मज्ञानिगुरुं प्राप्य शान्तं निश्चलमानसम् ।
धृत्वा तच्चरणाम्भोजं प्रार्थयेद् भक्तिभावतः ॥ १२८ ॥
असाध्यत्वे हेतुं दर्शयन्नाह अल्पायुष इत्यादि ।
यत इति शेषः ।
अन्नाधीनासवः अन्नवशीभूतप्राणाः ॥ १२३ ॥
समाधावित्यादि ।
समाधिश्चित्तवृत्तिनिरोधः तत्र ।
योगक्लेशासहिष्णवः निस्तारोपायभूततत्तत्कर्मसाधनहेतुकक्लेशसहनाशीलाः ॥ १२४ ॥
कलौ युगे ब्रह्मदीक्षाया अन्या काचिदपि दीक्षा मोक्षाय सुखाय च नैवास्तीति प्रतिज्ञां कुर्वन्नाह कलावित्यादि ॥ १२५ ॥
प्रातरिति ।
साधकेच्छैव विधिः ।
यत्र परब्रह्मोपासने ॥ १२६ ॥ १२७ ॥
अथ ब्रह्ममन्त्रोपदेशविधिमभिधातुमुपक्रमते ब्रह्मज्ञानीत्यादि ।
शान्तम् रागद्वेषादिशून्यम् ।
भक्तिभावतः भक्तियोगेन ॥
किं प्रार्थयेदित्यपेक्षायामाह करुणामयेत्यादि ॥ १२८ � १३० ॥
करुणामय दीनेश तवाऽहं शरणागतः ।
त्वत्पदाम्भोरुहच्छायां देहि मूर्ध्नि यशोधन ॥ १२९ ॥
इति प्रार्थ्य गुरुं पश्चात् पूजयित्वा स्वशक्तितः ।
कृताञ्चलिपुटो भूत्वा तूष्णीं तिष्ठेत् गुरोः पुरः ॥ १३० ॥
गुरुर्विचार्य विधिवत् यथोक्तं शिष्यलक्षणम् ।
आहूय कृपया दद्यात् सच्छिष्याय महामनुम् ॥ १३१ ॥
उपविश्याऽसने ज्ञानी प्राङ्मुखो वाप्युदङ्मुखः ।
स्ववामे शिष्यमानीय कारुण्येनाऽवलोकयेत् ॥ १३२ ॥
ततः शिष्यस्य शिरसि ऋषिन्यासपुरःसरम् ।
जपेदष्टशतं मन्त्रं साधकस्येष्टसिद्धये ॥ १३३ ॥
दक्षकर्णे ब्राह्मणानामितरेषाञ्च वामतः ।
सप्तधा श्रावयेत् मन्त्रं सद्गुरुः करुणानिधिः ॥ १३४ ॥
उपदेशविधिः प्रोक्तो ब्रह्ममन्त्रस्य कालिके ।
नात्र पूजाद्यपेक्षाऽस्ति सङ्कल्पं मानसञ्चरेत् ॥ १३५ ॥
गुरुरित्यादि ।
यथोक्तं शिष्यलक्षणम् शान्तो दान्तो विनीतश्चेत्यादिकम् ॥ १३१ ॥
उपविश्येत्यादि ।
ज्ञानी ब्रह्मज्ञानवान् गुरुः ।
कारुण्येन कृपायुक्तया दृष्ट्या ॥ १३२ ॥
तत इत्यादि ।
मन्त्रम् ॐ सच्चिदेकं ब्रह्मेत्यादिकम् ॥
दक्षेत्यादि ।
वामतः वामे कर्णे ।
मन्त्रम् पूर्वोक्तमेव ॥ १३३ ॥ १३४ ॥
उपदेशेति ।
अत्र ब्रह्ममन्त्रोपदेशविधौ ।
चरेत् कुर्यात् ॥ १३५ ॥
ततः श्रीगुरुपादाब्जे दण्डवत् पतितं शिशुम् ।
उत्थापयेद् गुरुः स्नेहादिमं मन्त्रमुदीरयन् ॥ १३६ ॥
उत्तिष्ठ वत्स मुक्तोऽसि ब्रह्मज्ञानपरो भव ।
जितेन्द्रियः सत्यवादी वलारोग्यं सदाऽस्तु ते ॥ १३७ ॥
तत उत्थाय गुरवे यथाशक्त्यनुसारतः ।
दक्षिणां स्वं फलं वाऽपि दद्यात् साधकसत्तमः ।
गुरोराज्ञावशीभूत्वा विहरेद्देववद् भुवि ॥ १३८ ॥
मन्त्रग्रहणमात्रेण तदात्मा तन्मयो भवेत् ।
ब्रह्मभूतस्य देवेशि किमन्यैर्बहुसाधनैः ॥ १३९ ॥
इति सङ्क्षेपतो ब्रह्मदीक्षा ते कथिता प्रिये ।
गुरुकारुण्यमात्रेण ब्रह्मदीक्षां समाश्रयेत् ॥ १४० ॥
शाक्ताः शैवा वैष्णवाश्च सौरा गाणपतास्तथा ।
विप्रा विप्रेतराश्चैव सर्वेऽप्यत्राधिकारिणः ॥ १४१ ॥
तत इत्यादि ।
ततः मन्त्रश्रवणात् परतः ।
शिशुम् शिष्यम् ॥
तं मन्त्रमेवाह उत्तिष्ठ वत्सेत्यादि ॥ १३६ ॥ १३७ ॥
तत इति ।
स्वं धनम् आत्मानं वा ॥ १३८ ॥
मन्त्रेत्यादि ।
तदात्मा ब्रह्मनिष्ठान्तःकरणः ।
तन्मयः ब्रह्मस्वरूपः ॥ १३९ ॥
ब्रह्ममन्त्रग्रहणे कालादिनियमो नास्तीति प्रतिपादयन्नाह गुर्वित्यादि ॥ १४० ॥
उपदिष्टानामनुपदिष्टानाञ्च ब्राह्मणादीनां सर्वेषामप्यस्मिन् ब्रह्ममन्त्रेऽधिकारोऽस्तीत्याह शाक्ता इत्यादिना ।
अत्र ब्रह्ममन्त्रे ॥ १४१ ॥
अहं मृत्युञ्जयो देवि देवदेवो जगद्गुरुः ।
स्वेच्छाचारी निर्विकल्पो मन्त्रस्याऽस्य प्रसादतः ॥ १४२ ॥
अमुमेव ब्रह्ममन्त्रं मत्तः पूर्वमुपासिताः ।
ब्रह्मा ब्रह्मर्षयश्चापि देवा देवर्षयस्तथा ॥ १४३ ॥
देवर्षिवक्त्रान्मुनयस्तेभ्यो राजर्षयः प्रिये ।
उपासिता ब्रह्मभूताः परमात्मप्रसादतः ॥ १४४ ॥
ब्राह्मे मनौ महेशानि विचारो नास्ति कुत्रचित् ।
स्वीयमन्त्रं गुरुर्दद्यात् शिष्येभ्यो ह्यविचारयन् ॥ १४५ ॥
पिताऽपि दीक्षयेत् पुत्रान् भ्राता भ्रातॄन् पतिः स्त्रियम् ।
मातुलो भागिनेयांश्च नप्तॄन् मातामहोऽपि च ॥ १४६ ॥
एतन्मन्त्रप्रसादादेव मयि मृत्युञ्जयत्वादिकमासीदित्याह अहमित्यादिना ।
अहं मृत्युञ्जयोऽभवमिति शेषः ॥ १४२ ॥
एतन्मन्त्रोपासनादेव विरिञ्च्यादिषु ब्रह्मभूतत्वं जातमित्याह अमुमित्यादिना ।
मत्तो गृहीत्वेति शेषः ।
उपासिताः श्रद्धया अनुष्ठितवन्तः ।
गत्यर्थाकर्मकश्लिषशीडित्यादिना कर्तरि क्तः ।
ब्रह्मर्षयो भृग्वादयः ।
देवा इन्द्रादयः ।
देवर्षयो नारदादयः ॥ १४३ ॥
देवर्षीति ।
देवर्षिवक्त्रात् नारदमुखात् ।
मुनयो व्यासादयः ।
राजर्षयो जनकादयः ॥ १४४ ॥
आत्मना ग्रहीतोऽप्ययं ब्रह्ममन्त्रो गुरुणा शिष्येभ्यो देयः पित्रादिभिरपि पुत्रादिभ्यो देय इत्याह ब्राह्मे इत्यादिभ्यां द्वाभ्याम् ।
अविचारयन् स्वीयमन्त्रदाननिमित्तकं दोषमगणयन् ॥ १४५ ॥ १४६ ॥
स्वमन्त्रदाने यो दोषस्तथा पित्रादिदीक्षया ।
सिद्धे ब्रह्ममहामन्त्रे तद्दोषो नैव विद्यते ॥ १४७ ॥
ब्रह्मज्ञानिमुखात् श्रुत्वा येन केन विधानतः ।
ब्रह्मभूतो नरः पूतः पुण्यपापैर्न लिप्यते ॥ १४८ ॥
ब्रह्ममन्त्रोपासिता ये गृहस्था ब्राह्मणादयः ।
स्वस्ववर्णोत्तमारते तु पूज्या मान्या विशेषतः ॥ १४९ ॥
ब्राह्मणा यतयः साक्षादितरे ब्राह्मणैः समाः ।
तस्मात् सर्वे पूजयेयुर्ब्रह्मज्ञान् ब्रह्मदीक्षितान् ॥ १५० ॥
ये च तानवमन्यन्ते ते नरा ब्रह्मघातिनः ।
पतन्ति घोरनरके यावद्भास्करतारकम् ॥ १५१ ॥
यत् पापं स्त्रीवधे प्रोक्तं यत्पापं भ्रूणघातने ।
तस्मात् कोटिगुणं पापं ब्रह्मोपासकनिन्दनात् ॥ १५२ ॥
ननु पितुर्मन्त्रं न गृह्णीयात्तथा मातामहस्य चेत्यादिनिषेधवाक्यमुल्लङ्घ्य पित्रादिभ्यो ब्राह्मं मन्त्रं गृह्णतां पुत्रादीनामात्मीयमन्त्रदाने तत्तन्निषेधवाक्यमनादृत्य शिष्येभ्यः स्वीयं ब्रह्ममन्त्रं ददतो गुरोश्च प्रत्यवायभागित्वं स्यात्तत्राह स्वमन्त्रदाने इत्यादि ।
यो दोषः उक्त इति शेषः ॥ १४७ ॥ १४८ ॥
ब्रह्ममन्त्रेत्यादि ।
यत इति शेषः ।
ब्रह्ममन्त्रमुपासिताः ब्रह्ममन्त्रोपासिताः ।
गम्यादीनामुपसङ्ख्यानमिति द्वितीयातत्पुरुषः ॥ १४९ ॥
ब्राह्मणा इति ।
ब्राह्मणाः साक्षात् यतयः परिव्राजका भवेयुः ।
इतरे क्षत्रियादयः ॥ १५० ॥
अथ ब्रह्मोपासकान् जनान्निन्दतां जनानामखिलपातकाश्रयत्वमित्याह ये च तानित्यादिभ्यां द्वाभ्याम् ।
तान् ब्रह्मदीक्षितान् ।
अवमन्यन्ते अनाद्रियन्ते ।
भास्करतारकं यावत्तिष्ठेत्तावत् ।
भ्रूणघातने गर्भघातने ॥ १५१ ॥ १५२ ॥
यथा ब्रह्मोपदेशेन विमुक्तः सर्वपातकैः ।
गच्छन्ति ब्रह्मसायुज्यं तथैव तव साधनात् ॥ १५३ ॥
इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे जीवनिस्तारोपायप्रश्ने परब्रह्मोपदेशकथनं नाम तृतीयोल्लासः ॥ ३ ॥
ब्रह्मसायुज्यम् ब्रह्मत्वम् ॥ १५३ ॥
इति श्रीमहानिर्वाणतन्त्रटीकायां तृतीयोल्लासः ।