०२

द्वितीयोल्लासः

इति देव्या वचः शृत्वा शङ्करो लोकशङ्करः ।
कथयामास तत्त्वेन महाकारुण्यवारिधिः ॥ १ ॥

श्रीसदाशिव उवाच ।

साधु पृष्टं महाभागे जगतां हितकारिणि ।
एतादृशः शुभः प्रश्नो न केनापि कृतः पुरा ॥ २ ॥

धन्याऽसि सुकृतज्ञाऽसि हिताऽसि कलिजन्मनाम् ।
यद्यदुक्तं त्वया भद्रे सत्यं सत्यं यथार्थतः ॥ ३ ॥

सर्वज्ञा त्वं त्रिकालज्ञा धर्मज्ञा परमेश्वरि ।
भूतं भवद्भविष्यञ्च धर्मयुक्तं त्वया प्रिये ॥ ४ ॥


ॐ नमो ब्रह्मणे ।

शङ्कर इदानीं कृतजीवनिस्तारोपायप्रश्नां पार्वतीं तत्प्रश्नञ्च स्तुवंस्तां प्रत्युत्तरं दातुमुपक्रमते ।
इतीत्यादि ।
लोकशङ्करः जनानां कल्याणस्योत्पादकः ।
महाकारुण्यवारिधिः महादयासमुद्रः ॥ १ ॥

सर्वज्ञेत्यादि ।
भवत् वर्तमानम् ॥ ४ ॥


यथातत्त्वं यथान्यायं यथायोग्यं न संशयः ।
कलिकल्मषदीनानां द्विजादीनां सुरेश्वरि ॥ ५ ॥

मेध्यामेध्याविचाराणां न शुद्धिः श्रौतकर्मणा ।
न संहिताद्यैः स्मृतिभिरिष्टसिद्धिर्नृणां भवेत् ॥ ६ ॥

सत्यं सत्यं पुनः सत्यं सत्यं सत्यं मयोच्यते ।
विना ह्यागममार्गेण कलौ नास्ति गतिः प्रिये ॥ ७ ॥

श्रुतिस्मृतिपुराणादौ मयैवोक्तं पुरा शिवे ।
आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः ॥ ८ ॥

कलावागममुल्लङ्घ्य योऽन्यमार्गे प्रवर्तते ।
न तस्य गतिरस्तीति सत्यं सत्यं न संशयः ॥ ९ ॥

सर्वैर्वेदैः पुराणैश्च स्मृतिभिः संहितादिभिः ।
प्रतिपाद्योऽस्मि नान्योऽस्ति प्रभुर्जगति मां विना ॥ १० ॥


कलीति ।
कलिकल्मषदीनानां कलियुगसम्बन्धिदुष्कृतहेतुकदुर्गतिशालिनां मेध्यामेध्याविचाराणां पवित्रापवित्रविचारशून्यानाम् अत एव द्विजादीनां ब्राह्मणप्रभृतीनां श्रौतकर्मणा वेदोक्तेन कर्मणा शुद्धिर्न भवेत् ॥ ५ � ६ ॥

सत्यमिति ।
हीत्यवधारणे ॥ ७ ॥

श्रुतीत्यादि ।
हे शिवे सुधीर्विचक्षणः आगमोक्तविधानेन देवान् यजेत् पूजयेत् इति पुरा पूर्वं श्रुतिस्मृतिपुराणादौ मयैवोक्तमित्यन्वयः ॥ ८ ॥ ९ ॥

स्वमतप्रामाण्याय प्रथमत आत्मन एव सर्वोत्तमत्वं व्याहर्तुमाह सर्वैरित्यादि ।
यत इत्यध्याहार्यम् ।
प्रतिपाद्यः बोधयितव्यः ॥ १० ॥


आमनन्ति च ते सर्वे मत्पदं लोकपावनम् ।
मन्मार्गविमुखा लोकाः पाषण्डा ब्रह्मघातिनः ॥ ११ ॥

अतो मन्मतमुत्सृज्य यो यत् कर्म समाचरेत् ।
निष्फलं तद्भवेद्देवि कर्ताऽपि नारकी भवेत् ॥ १२ ॥

मूढो मन्मतमुत्सृज्य योऽन्यन्मतमुपाश्रयेत् ।
ब्रह्महा पितृहा स्त्रीघ्नः स भवेन्नात्र संशयः ॥ १३ ॥

कलौ तन्त्रोदिता मन्त्राः सिद्धास्तूर्णफलप्रदाः ।
शस्ताः कर्मसु सर्वेषु जपयज्ञक्रियादिषु ॥ १४ ॥

निर्वीर्याः श्रौतजातीया विषहीनोरगा इव ।
सत्यादौ सफला आसन् कलौ ते मृतका इव ॥ १५ ॥


आमनन्तीति ।
सर्वे ते वेदादयो मत्पदं मदीयं स्थानं लोकपावनं लोकानां पूतत्वजनकमामनन्ति बोधयन्ति ।
ब्रह्मघातिनो भवेयुरिति शेषः ॥ ११ ॥

अत इत्यादि ।
उत्सृज्य परित्यज्य ।
तत् कर्म ॥ १२ -१३ ॥

अथ वेदोक्तानां मन्त्राणां कलौ निष्प्रभावत्वं तत्तत्फलानिष्पादकत्वञ्च प्रतिपादयंस्तन्त्रोदितानामेव मन्त्राणां सिद्धत्वात् झटिति तत्तत्फलप्रदातृत्वाच्चातिप्राशस्त्यमाह कलावित्यादिभिः ॥ १४ ॥

निर्वीर्या इत्यादि ।
ये श्रौतजातीया वेदोदिता मन्त्राः सत्यादौ युगे सफलास्तत्तत्फलोत्पादका आसन् ते सर्वे मन्त्राः कलौ युगे विष � हीना उरगाः सर्पा इव निर्वीर्या निष्प्रभा मृतका इव तत्तत्फलानिष्पादकाश्च बोद्धव्या इत्यन्वयः ॥ १५ ॥


पाञ्चालिका यथा भित्तौ सर्वेन्द्रियसमन्विताः ।
अमूरशक्ताः कार्येषु तथान्ये मन्त्रराशयः ॥ १६ ॥

अन्यमन्त्रैः कृतं कर्म बन्ध्यास्त्रीसङ्गमो यथा ।
न तत्र फलसिद्धिः स्यात् श्रम एव हि केवलम् ॥ १७ ॥

कलावन्योदितैर्मार्गैः सिद्धिमिच्छति यो नरः ।
तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः ॥ १८ ॥

मद्वक्त्रादुदितं धर्मं हित्वाऽन्यद्धर्ममीहते ।
अमृतं स्वगृहे त्यक्त्वा क्षीरमार्कं स वाञ्छति ॥ १९ ॥

नान्यः पन्था मुक्तिहेतुरिहामुत्र सुखाप्तये ।
यथा तन्त्रोदितो मार्गो मोक्षाय च सुखाय च ॥ २० ॥

तन्त्राणि बहुधोक्तानि नानाख्यानान्वितानि च ।
सिद्धानां साधकानाञ्च विधानानि च भूरिशः ॥ २१ ॥


पाञ्चालिका इत्यादि ।
भित्तौ स्थिताः सर्वैरिन्द्रियैः समन्विता युता अमूः पाञ्चालिका वस्त्रदन्तादिभिर्निर्मिताः पुत्रिका यथा कार्येष्वशक्ता असमर्था भवन्ति तथैवान्ये तन्त्रोक्तभिन्ना मन्त्रराशयो मन्त्रसमूहाः कलौ तत्तत्कार्यानिष्पादका ज्ञेयाः ।
पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृतेत्यमरः ॥ १६ ॥

अन्येत्यादि ।
यथा बन्ध्यास्त्रीसङ्गमोऽपत्यरूपफलसाधको न भवति एवमन्यमन्त्रैः कृतं यत् कर्म ।
तत्र तस्मिन् कर्मणि कृते सति फलसिद्धिः फलनिष्पत्तिर्न स्यात् केवलं श्रम एव स्यात् ।
हीति निश्चितमेतत् ॥ १७ ॥ १८ ॥

मद्वक्त्रादिति ।
मद्वक्त्रात् मम मुखात् उदितं कथितम् ।
ईहते वाञ्छति ।
आर्कम् अर्कवृक्षोद्भवम् ॥ १९ ॥

नान्य इति ।
अमुत्र परे लोके ॥ २० ॥ २१ ॥


अधिकारिविभेदेन पशुबाहुल्यतः प्रिये ।
कुलाचारोदितं धर्मं गुप्त्यर्थं कथितं क्वचित् ॥ २२ ॥

जीवप्रवृत्तिकारीणि कानिचित् कथितान्यपि ।
देवा नानाविधाः प्रोक्ता देव्योऽपि बहुधाः प्रिये ॥ २३ ॥

भैरवाश्चैव वेताला वटुका नायिका गणाः ।
शाक्ताः शैवा वैष्णवाश्च सौरा गाणपतादयः ॥ २४ ॥

नानामन्त्राश्च यन्त्राणि सिद्धोपायान्यनेकशः ।
भूरिप्रयाससाध्यानि यथोक्तफलदानि च ॥ २५ ॥

यथा यथा कृताः प्रश्ना येन येन यदा यदा ।
तदा तस्योपकाराय तथैवोक्तं मया प्रिये ॥ २६ ॥

सर्वलोकोपकाराय सर्वप्राणिहिताय च ।
युगधर्मानुसारेण याथातथ्येन पार्वति ॥ २७ ॥

त्वया यादृक्कृताः प्रश्ना न केनापि पुरा कृताः ।
तव स्नेहेन वक्ष्यामि सारात्सारं परात्परम् ॥ २८ ॥


अधिकारीत्यादि ।
हे प्रिये अधिकारिविभेदेनाधिकारिणां विशेषेण पशूनां बाहुल्यतश्च हेतोः क्वचित् कुलाचारोदितं कुलाचारोक्तं धर्मं गुप्त्यर्थं कथितम् ॥ २२ ॥

जीवेत्यादि ।
अधिकारिविभेदेनेत्यनुषज्यते ।
कानिचित् तन्त्राणि ।
अपीत्यस्य जीवप्रवृत्तिकारीणीत्यत्रान्वयः कर्तव्यः ॥ २३ ॥ २४ ॥

नानेत्यादि ।
सिद्धोपायानि सिद्धाः सिद्धिमन्त उपाया येषु तानि ॥ २५ ॥

यथेत्यादि ।
यथा यथा यादृशा यादृशाः प्रश्नाः तथैव तादृशमेवोत्तरम् ।
सर्वलोकोपकारायेत्यस्य त्वया यादृक्कृतः प्रश्न इत्यनेनान्वयः करणीयः ॥ २६ � २८ ॥


वेदानामागमानाञ्च तन्त्राणाञ्च विशेषतः ।
सारमुद्धृत्य देवेशि तवाग्रे कथ्यते मया ॥ २९ ॥

यथा नरेषु तन्त्रज्ञाः सरितां जान्हवी यथा ।
यथाऽहं त्रिदिवेशानामागमानामिदं तथा ॥ ३० ॥

किं वेदैः किं पुराणैश्च किं शास्त्रैर्बहुभिः शिवे ।
विज्ञातेऽस्मिन् महातन्त्रे सर्वसिद्धीश्वरो भवेत् ॥ ३१ ॥

यतो जगन्मङ्गलाय त्वयाऽहं विनियोजितः ।
अतस्ते कथयिष्यामि यद्विश्वहितकृद्भवेत् ॥ ३२ ॥

कृते विश्वहिते देवि विश्वेशः परमेश्वरि ।
प्रीतो भवति विश्वात्मा यतो विश्वं तदाश्रितम् ॥ ३३ ॥


वेदानामित्यादि ।
सारं स्थिरांशम् ॥ २९ ॥

अथ सर्वतन्त्रेभ्यो महानिर्वाणतन्त्रस्य सदृष्टान्तं श्रैष्ठ्यमाह ।
यथेत्यादिना ।
तन्त्रज्ञा उत्तमा इति शेषः ।
इदं महानिर्वाणतन्त्रम् ॥ ३० ॥ ३१ ॥

यत इत्यादि ।
विनियोजितः प्रवर्तितः ॥ ३२ ॥

ननु विश्वहितोत्पादकोपायकथनाद्भवतः को लाभोऽत आह कृत इत्यादि ।
हे देवि विश्वहिते कृते सति विश्वेशो विश्वेषामस्मदादीनां सर्वेषां नियन्ता परमेश्वरः प्रीतो भवति ।
ननु विश्वहितोत्पादनात् परमेश्वरे कथं प्रीतिरुत्पद्यते तत्राह विश्वात्मेति ।
यतः परमेश्वरो विश्वमात्मनि यस्य तथाभूतो भवति अतो विश्वहितोत्पादनेन तत्र प्रीतिर्जायते इति भावः ।
ननु तस्य विश्वात्मत्वमेव कथं स्यात्तत्राह यतो विश्वमित्यादि ।
यतो विश्वं तदाश्रितं तं परमेश्वरमाश्रितं वर्ततेऽतो विश्वात्मा स भवति ॥ ३३ ॥


स एक एव सद्रूपः सत्योऽद्वैतः परात्परः ।
स्वप्रकाशः सदापूर्णः सच्चिदानन्दलक्षणः ॥ ३४ ॥

निर्विकारो निराधारो निर्विशेषो निराकुलः ।
गुणातीतः सर्वसाक्षी सर्वात्मा सर्वदृग्विभुः ॥ ३५ ॥

गूढः सर्वेषु भूतेषु सर्वव्यापी सनातनः ।
सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः ॥ ३६ ॥


अथ सत्यत्वात्तद्ध्यानादेः सर्वेषां प्रीतिजनकत्वान्निर्वाणहेतुत्वाच्च परमात्मैवैको ध्येयः पूज्यः सुखाराध्यश्चेत्यभिधातुं प्रथमतः परमात्मन एवैकस्य सत्यत्वं तदन्यस्याखिलपदार्थस्य मिथ्यात्वमस्तीति प्रतिपादयति स एक एवेत्यादिभिः ।
सद्रूपः सत्स्वभावः स परमेश्वर एवैकः सत्यः तदन्यस्तु सर्वः पदार्थोऽसत्यो ज्ञेयः ।
तत्सत्यत्वे हेतून् दर्शयन्नाह अद्वैत इत्यादि ।
यतोऽद्वैतः सजातीयविजातीयद्वितीयशून्यः अत एव परात् ब्रह्मादेरपि परः श्रेष्ठः ।
स्वेनैवात्मनैव प्रकाशते इति स्वप्रकाशः चन्द्रसूर्यादिप्रकाशनिरपेक्ष इत्यर्थः ।
सदापूर्णः सर्वदा अखण्डः ।
सच्चिदानन्दलक्षणः सन्तौ सर्वदा स्थायिनौ यौ चिदानन्दौ ज्ञानानन्दौ तत्स्वरूपः ॥ ३४ ॥

निर्विकारः प्रकृतेरन्यथाभावो विकारः तद्रहितः ।
निराधारः आश्रयशून्यः ।
निर्विशेषः स्वगतभेदरहितः ।
निराकुलः आकुलताशून्यः ।
गुणातीतः गुणाः शीतोष्णाः सुखदुःखादयः सत्त्वादयो वा तानतीतोऽतिक्रान्तः ।
सर्वसाक्षी सर्वेषां शुभाशुभकर्मणां साक्षात् द्रष्टा ।
सर्वात्मा सर्वस्वरूपः ।
सर्वदृक् अखिलस्य पदार्थस्यावलोकयिता ।
विभुः प्राप्तसमस्तैश्वर्यः ॥ ३५ ॥

सर्वेषु चराचरेषु भूतेषु गूढः संवृतः ।
सर्वव्यापी सकलपदार्थव्यापनशीलः ।
सनातनः आद्यन्तशून्यः ।
सर्वेन्द्रियगुणाभासः सर्वाणीन्द्रियाणि गुणांश्च तद्विषयानाभासयति यः तथाभूतः ।
सर्वेन्द्रियविवर्जितः चक्षुरादिसकलेन्द्रियशून्यः ॥ ३६ ॥


लोकातीतो लोकहेतुरवाङ्मनसगोचरः ।
स वेत्ति विश्वं सर्वज्ञस्तं न जानाति कश्चन ॥ ३७ ॥

तदधीनं जगत् सर्वं त्रैलोक्यं सचराचरम् ।
तदालम्बनतस्तिष्ठेदवितर्क्यमिदं जगत् ॥ ३८ ॥

तत्सत्यतामुपाश्रित्य सद्वद्भाति पृथक् पृथक् ।
तेनैव हेतुभूतेन वयं जाता महेश्वरि ॥ ३९ ॥

कारणं सर्वभूतानां स एकः परमेश्वरः ।
लोकेषु सृष्टिकरणात् स्रष्टा ब्रह्मेति गीयते ॥ ४० ॥

विष्णुः पालयिता देवि संहर्ताऽहं तदिच्छया ।
इन्द्रादयो लोकपालाः सर्वे तद्वशवर्तिनः ॥ ४१ ॥

स्वे स्वेऽधिकारे निरतास्ते शासति तदाज्ञया ।
त्वं परा प्रकृतिस्तस्य पूज्याऽसि भुवनत्रये ॥ ४२ ॥


लोकातीतोऽतिक्रान्तलोकः ।
लोकहेतुः भुवनबीजम् ।
अवाङ्मनसगोचरः वाचो मनसश्चाविषयः ।
सर्वज्ञः स परमात्मा विश्वं सर्वं जगद्वेत्ति जानाति तं परमात्मानन्तु कश्चन अपि न जानाति अतः परमात्मैवैकः सत्यः तद्भिन्नस्त्वखिलः पदार्थोऽनेवम्भूतत्वादसत्य इत्यर्थः ॥ ३७ ॥

तदधीनमित्यादि ।
यत इति अध्याहार्यम् ।
यतः सर्वं जगत्तदधीनं परमात्मवशवर्ति ।
सचराचरं जङ्गमस्थावरसहितं त्रैलोक्यं तदालम्बनतः परमात्मावलम्बनतस्तिष्ठेत् ।
इदमवितर्क्यमनूहनीयं जगत् तत्सत्यतां परमात्मसत्यत्वमुपाश्रित्य इयं पृथ्वी इमा आपः अयं वायुरित्यादिरूपेण पृथक् पृथक् सद्वत् सत्यवद्भाति प्रकाशते इत्यन्वयः ।
वयं शङ्करादयः ॥ ३८ ॥ ३९ ॥

कारणमित्यादि ।
एकः केवलः ।
तदिच्छया परमेश्वरेच्छया ।
सृष्टिकरणाल्लोकेषु ब्रह्मा स्रष्टेति गीयते शब्द्यते ।
तदिच्छयैव सृष्टजगत्पालनात्


तेनान्तर्यामिरूपेण तत्तद्विषययोजिताः ।
स्वस्वकर्म प्रकुर्वन्ति न स्वतन्त्राः कदाचन ॥ ४३ ॥

यद्भयाद्वाति वातोऽपि सूर्यस्तपति यद्भयात् ।
वर्षन्ति तोयदाः काले पुष्पन्ति तरवो वने ॥ ४४ ॥

कालं कालयते काले मृत्योर्मृत्युर्भियो भयम् ।
वेदान्तवेद्यो भगवान् यत्तच्छब्दोपलक्षितः ॥ ४५ ॥

सर्वे देवाश्च देव्यश्च तन्मयाः सुरवन्दिते ।
आब्रह्मस्तम्बपर्यन्तं तन्मयं सकलं जगत् ॥ ४६ ॥

तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् ।
तदाराधनतो देवि सर्वेषां प्रीणनं भवेत् ॥ ४७ ॥


विष्णुः पालयितेति गीयते ।
तत्संहरणाच्चाऽहं संहर्तेति गीयते ।
इन्द्रादय इत्यादि ।
तद्वशवर्तिनः परमेश्वराधीना ये इन्द्रादयो लोकपालास्ते सर्वे स्वे स्वेऽधिकारे निरताः सन्तस्तदाज्ञया लोकान् शासतीत्यन्वयः ॥ ४० � ४२ ॥

तेनेत्यादि ।
तेन परमात्मना तत्तद्विषययोजिताः तस्मिन् तस्मिन् विषये प्रवर्तिताः ।
न स्वतन्त्राः न स्वाधीनाः ॥ ४३ ॥ ४४ ॥

कालमित्यादि ।
काले प्रलयसमये कालमपि कालयते नाशं गमयति ।
भियो भयस्य ।
यत्तच्छब्दोपलक्षितः यत्तच्छब्दाभ्यां बोधितः ॥ ४५ ॥

सर्वे इत्यादि ।
तन्मयाः परमात्मस्वरूपाः ।
आब्रह्मस्तम्बपर्यन्तं ब्रह्माणमारभ्य तृणादिगुच्छपर्यन्तं सकलं सम्पूर्णं जगत्तन्मयं परब्रह्मस्वरूपं भवति ॥ ४६ ॥

तस्मिन्नित्यादि ।
अत इति शेषः ।
तस्मिन् परमात्मनि ॥ ४७ ॥


तरोर्मूलाभिषेकेण यथा तद्भुजपल्लवाः ।
तृप्यन्ति तदनुष्ठानात् तथा सर्वेऽमरादयः ॥ ४८ ॥

यथा तवार्चनाद्ध्यानात् पूजनाज्जपनात् प्रिये ।
भवन्ति तुष्टाः सुन्दर्यस्तथा जानीहि सुव्रते ॥ ४९ ॥

यथा गच्छन्ति सरितोऽवशेनापि सरित्पतिम् ।
तथार्चादीनि कर्माणि तदुद्देश्यानि पार्वति ॥ ५० ॥

यो यो यान् यान् यजेद्देवान् श्रद्धया यद्यदाप्तये ।
तत्तद्ददाति सोऽध्यक्षस्तैस्तैर्देवगणैः शिवे ॥ ५१ ॥

बहुनाऽत्र किमुक्तेन तवाऽग्रे कथ्यते प्रिये ।
ध्येयः पूज्यः सुखाराध्यस्तं विना नास्ति मुक्तये ॥ ५२ ॥

नाऽयासो नोपवासश्च कायक्लेशो न विद्यते ।
नैवाऽचारादिनियमो नोपचाराश्च भूरिशः ॥ ५३ ॥


परब्रह्माराधनतः सर्वेषां प्रीणने दृष्टान्तमाह तरोरित्यादि ।
तद्भुजपल्लवाः तरोः शाखाः किसलयानि च ।
तदनुष्ठानात् परमेश्वराराधनात् ॥ ४८ ॥

यथेत्यादि ।
पूजनात् मानसार्चनात् ॥ ४९ ॥

यथेत्यादि ।
तदुद्देश्यानि स परमात्मा उद्देश्यो येषामर्चादिकर्मणां तानि ॥ ५० ॥

यो य इत्यादि ।
यद्यदाप्तये यस्य यस्य फलस्य लाभाय ।
अध्यक्षः सर्वेषां प्राणिनां तत्तत्क्रियासु प्रवर्तकः ॥ ५१ ॥

बहुनेत्यादि ।
सुखेनाराध्य उपास्यः सुखाराध्यः ॥ ५२ ॥

सुखाराध्यत्वमेव दर्शयन्नाह ।
नायास इत्यादि ।
आयासः परिश्रमः ॥ ५३ ॥


न दिक्कालविचारोऽस्ति न मुद्रान्याससंहतिः ।
यत्साधने कुलेशानि तं विना कोऽन्यमाश्रयेत् ॥ ५४ ॥


इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे जीवनिस्तारोपायप्रश्नो नाम द्वितीयोल्लासः ॥ २ ॥

तं परमात्मानम् ॥ ५४ ॥

इति श्रीमहानिर्वाणतन्त्रटीकायां द्वितीयोल्लासः ।