०१

प्रथमोल्लासः

गिरीन्द्रशिखरे रम्ये नानारत्नोपशोभिते ।
नानावृक्षलताकीर्णे नानापक्षिरवैर्युते ॥ १ ॥


ॐ नमो ब्रह्मणे ।
ॐ अहं ब्रह्मस्मि ब्रह्मैवाहमस्मि ।

कृत्वा षडाम्नायममेयशक्तिः सदाशिवः प्रेरित आदिशक्त्या ।

जगाद सेतुं कुलवारिराशेर्निर्वाणतन्त्रं महता समस्तम् ।

स्मारं स्मारं परम्ब्रह्म नामं नामं गुरोः पदम् ।

निरपेक्षं वचः शम्भोर्विवृणोमि यथामति ॥

वेदादिबोधितसमस्तपुण्यकर्मोच्छेदकातिनिन्दितानन्तपापकर् मप्रवर्तककलियुगागमने सति परमात्मचिन्तनाद्यननुरक्तानां नानाविधपापकर्म्मप्रसक्तानां नराणां कथं निस्तारो भविष्यतीति सञ्चिन्तयन्ती पार्वती कैलासशिखरे तिष्ठन्तं कारुण्यवन्तं सदाशिवं प्रति तेषां निस्तारोपायमप्राक्षीदेतत्तदेवाह-गिरीन्द्र- ______________________________________

सर्वर्तुकुसुमामोदमोदिते सुमनोहरे ।
शैत्यसौगन्ध्यमान्द्याढ्यमरुद्भिरुपवीजिते ॥ २ ॥

अप्सरोगणसङ्गीतकलध्वनिनिनादिते ।
स्थिरच्छायद्रुमच्छायाच्छादिते स्निग्धमञ्जुले ॥ ३ ॥

मत्तकोकिलसन्दोहसङ्घुष्टविपिनान्तरे ।
सर्वदा स्वगणैः सार्द्धमृतुराजनिषेविते ॥ ४ ॥


शिखर इत्यादिभिः ।
तत्र तस्मिन् गिरीन्द्रशिखरे पर्वताधिराजस्य कैलासस्य शृङ्गे स्थितं मौनधरं मौनिनं शिवं वीक्ष्य विलोक्य लोकानां हितकाम्यया जनानां हितेच्छया पार्वती देवी विनयावनता सती शिवमब्रवीदित्येकादशश्लोकस्थितैः पदैरन्वयः ।
मौनधरमित्यनेन कथानवसरो दर्शितः ।
रम्ये इत्यादीनि सप्तम्यन्तानि त्रयोदशपदानि गिरीन्द्रशिखरे इत्यस्य विशेषणानि ।
चराचरजगद्गुरुमित्यादीनि द्वितीयान्तानि पदानि तु शिवमित्यस्येति बोद्धव्यम् ।
रम्यते क्रीड्यते सिद्धचारणादिभिर्यत्र तद्रम्यं तस्मिन् ।
पोरदुपधादित्यधिकरणे यत् ।
नानारत्नोपशोभिते अनेकैः पद्मरागमरकतादिभी रत्नैर्विराजिते ।
नानावृक्षलताकीर्णे अनेकैर्वृक्षैरनेकाभिर्लताभिश्च व्याप्ते ।
नानापक्षिरवैर्युते नानाविधानां पक्षिणां शब्दैर्युक्ते ॥ १ ॥

सर्वर्तुकुसुमामोदमोदिते सकलवसन्ताद्यृतुसम्बन्धिपुष्पसम्बन्धिभिरतिमनोहारिभिर् गन्धैः सुरभीकृते अत एव सुमनोहरे अतिमनोहारके शैत्येन सौगन्ध्येन मान्द्यैन चाढ्यैः युक्तैः मरुद्भिर्वायुभिरुपवीजिते ॥ २ ॥

अप्सरोगणेत्यादि ।
अप्सरसां गणैः समूहैः सङ्गीतो यः कलध्वनिर्गम्भीरः शब्दस्तेन निनादिते शब्दिते ।
स्थिरा अचञ्चला छाया येषां द्रुमाणां तेषां छायाभिश्छादिते छन्ने ।
स्निग्धं चिक्कणञ्च तन्मञ्जुलं सुन्दरञ्चेति स्निग्धमञ्जुलं तस्मिन् ॥

मत्तेत्यादि ।
मत्तानां कोकिलानां सन्दोहेन समूहेन सङ्घुष्टं संशब्दितं विपिनान्तरं वनमध्यं यस्मिन् तस्मिन् ।
सर्वदा सर्वस्मिन् काले स्वगणैर्भ्रमरादिभिः सार्द्धमृतुराजेन वसन्तेन निषेविते ॥ ४ ॥


सिद्धचारणगन्धर्वगाणपत्यगणैर्वृते ।
तत्र मौनधरं देवं चराचरजगद्गुरुम् ॥ ५ ॥

सदाशिवं सदानन्दं करुणामृतसागरम् ।
कर्पूरकुन्दधवलं शुद्धसत्त्वमयं विभुम् ॥ ६ ॥

दिगम्बरं दीननाथं योगीन्द्रं योगिवल्लभम् ।
गङ्गाशीकरसंसिक्तजटामण्डलमण्डितम् ॥ ७ ॥

विभूतिभूषितं शान्तं व्यालमालं कपालिनम् ।
त्रिलोचनं त्रिलोकेशं त्रिशूलवरधारिणम् ॥ ८ ॥


सिद्धेत्यादि ।
देवयोनिभिः सिद्धैः चारणैर्गन्धर्वैः गाणपत्यगणैर्गणपतिस्वामिकैर्गणैश्च ।
वृते रुद्धे ।
देवं दीप्तिमन्तम् ।
चराचरजगद्गुरुं चराणां जङ्गमानामचराणां स्थावराणाञ्च जगतां पितरम् ॥ ५ ॥

सदेत्यादि ।
सदा सर्वदा शिवं कल्याणं यस्य यस्माद्वा तम् ।
सदा आनन्दः सत् सर्वदास्थायी वा आनन्दो यस्य तम् ।
सतः साधून् वा आनन्दयति यः तम् ।
करुणामृतसागरं दयारूपस्य पीयूषस्य समुद्रम् ।
कर्पूरकुन्दधवलं कर्पूरकुन्दवत् शुभ्रम् ।
शुद्धसत्त्वमयं विमलसत्त्वगुणप्रधानम् ।
विभुं व्यापकम् ॥ ६ ॥

दिगित्यादि ।
दिगेवाम्बरं वस्त्रं यस्य तं वस्त्ररहितमित्यर्थः ।
दीननाथं दरिद्राणां जनानां भर्त्तारम् ।
योगीन्द्रं योगः परमात्मचिन्तनं तद्वत्सु श्रेष्ठम् ।
योगिवल्लभं योगिनान्दयितम् ।
योगिनो वल्लभाः प्रिया यस्येति वा तम् ।
गङ्गायाः शीकरैरितस्ततो विक्षिप्तैरम्बुकणैः संसिक्तेन जटामण्डलेन जटासमूहेन मण्डितम् ॥ ७ ॥

विभूतीत्यादि ।
विभूतिभूषितं भस्मभिरलङ्कृतम् ।
शान्तं संयतान्तःकरणम् ।
व्यालाः सर्पा एव माला यस्य तम् ।
कपालिनं नृकपालशालिनम् ।
लोच्यते दृश्यते यैस्तानि लोचनानि नेत्राणि तानि त्रीणि यस्य तम् ।
त्रिलोकेशं त्रयाणां लोकानामधिष्ठातारम् ।
त्रिशूलवरधारिणं त्रिशूलेषु वरं त्रिशूलञ्च वरञ्च वा धर्त्तुं शीलं यस्येति त्रिशूलवरधारी तम् ॥ ८ ॥


आशुतोषं ज्ञानमयं कैवल्यफलदायकम् ।
निर्विकल्पं निरातङ्कं निर्विशेषं निरञ्जनम् ॥ ९ ॥

सर्वेषां हितकर्तारं देवदेवं निरामयम् ।
प्रसन्नवदनं वीक्ष्य लोकानां हितकाम्यया ।
विनयावनता देवी पार्वती शिवमब्रवीत् ॥ १० ॥

श्रीपार्वत्युवाच ।

देवदेव जगन्नाथ मन्नाथ करुणानिधे ।
त्वदधीनाऽस्मि देवेश तवाऽज्ञाकारिणी सदा ॥ ११ ॥

विनाऽज्ञया मया किञ्चिद्भाषितुं नैव शक्यते ।
कृपावलेशो मयि चेत् स्नेहोऽस्ति यदि मां प्रति ।
तदा निवेद्यते किञ्चिन्मनसा यद्विचारितम् ॥ १२ ॥


आश्वित्यादि ।
आशु शीघ्रं तोषस्तुष्टिर्यस्य तम् ।
ज्ञानमयं ज्ञानं तत्त्वतः समस्तपदार्थावबोधस्तदात्मकम् ।
कैवल्यफलदायकं निर्वाणरूपस्य फलस्य दातारम् ।
निर्विकल्पं निर्गतो विकल्पो विविधा कल्पना यस्मात् तम् ।
निरातङ्कं निर्गतः आतङ्कः तापशङ्का यस्मात् तम् ।
निर्विशेषं नानाविधभेदरहितम् ।
निरञ्जनम् अविदुषामप्रत्यक्षम् ॥ ९ ॥

सर्वेषामित्यादि ।
निरामयं निर्गत आमयो व्याधिर्यस्मात्तम् ॥ १० ॥

पार्वती शिवं प्रति किमब्रवीदित्यपेक्षायामाह � श्रीपार्वत्युवाच ।
देवदेवेत्यादि ।
हे देवेश देवानामिन्द्रादीनामपि नियन्तः यतोऽहं त्वदधीना तव वशीभूता सदा सर्वस्मित् काले तवाऽज्ञाकारिणी चाऽस्मि ।
अतस्तवाज्ञया विना किञ्चिदपि भाषितुं कथयितुं नैव मया शक्यते ॥ ११ ॥ १२ ॥


त्वदन्यः संशयस्याऽस्य कस्त्रिलोक्यां महेश्वर ।
छेत्ता भवितुमर्हो वा सर्वज्ञः सर्वशास्त्रवित् ॥ १३ ॥

श्रीसदाशिव उवाच ।

किमुच्यते महाप्राज्ञे कथ्यतां प्राणवल्लभे ।
यदकथ्यं गणेशेऽपि स्कन्दे सेनापतावपि ॥ १४ ॥

तवाग्रे कथयिष्यामि सुगोप्यमपि यद्भवेत् ।
किमस्ति त्रिषु लोकेषु गोपनीयं तवाग्रतः ॥ १५ ॥

मम रूपाऽसि देवि त्वं न भेदोऽस्ति त्वया मम ।
सर्वज्ञा किं न जानासि त्वनभिज्ञेव पृच्छसि ॥ १६ ॥

इति देववचः शृत्वा पार्वती हृष्टमानसा ।
विनयावनता साध्वी परिपप्रच्छ शङ्करम् ॥ १७ ॥


त्वदन्य इति ।
त्वत्तोऽन्यस्त्वदन्य इति पञ्चमीतत्पुरुषः ।
त्वदिति पञ्चम्यन्तं भिन्नं वा पदम् ॥ १३ ॥

पार्वत्या प्रष्टव्यमर्थमभिजिज्ञासुः श्रीसदाशिव उवाच ।
किमुच्यते इत्यादि ।
ग,नेशेऽपि स्कन्दे कार्तिकेये सेनापतावपीति व्याहरता भगवता महादेवेन तयोर्महावीरत्वेन मदतिप्रियत्वादतिगुह्यस्याप्यर्थस्य बलात्कारेणाप्यभिधायने योग्यत्वमस्तीति सूचितम् ॥ १४ ॥

तवाग्रे इति ।
तवाग्रतस्त्वदग्रे गोपनीयं त्रिष्वपि लोकेषु किं वस्त्वस्ति अपितु न किञ्चिदित्यर्थः ।
अग्रे इत्यग्रतः आद्यादिभ्य उपसङ्ख्यानमिति सप्तम्यन्तात् स्वार्थे तसिः ॥ १५ ॥

मम रूपेत्यादि ।
रूप्यते रूपक्रिया विशिष्टा विधीयते इति रूपा ।
कर्मण्यच् ।
मम रूपा मद्रूपशालिनीत्यर्थः ।
मत्स्वरूपेति पाठे तु मया सह समानमेकं रूपं यस्याः सा ।
अनभिज्ञेव अविदुषी इव ॥ १६ ॥ १७ ॥


श्री आद्योवाच ।

भगवन् सर्वभूतेश सर्वधर्मविदां वर ।
कृपावता भगवता ब्रह्मान्तर्यामिना पुरा ॥ १८ ॥

प्रकाशिताश्चतुर्वेदाः सर्वधर्मोपवृंहिताः ।
वर्णाश्रमादिनियमा यत्र चैव प्रतिष्ठिताः ॥ १९ ॥

तदुक्तयोगयज्ञाद्यैः कर्मभिर्भुवि मानवाः ।
देवान् पितॄन् प्रीणयन्तः पुण्यशीलाः कृते युगे ॥ २० ॥

स्वाध्यायध्यानतपसा दयादानैर्जितेन्द्रियाः ।
महाबला महावीर्य्या महासत्त्वपराक्रमाः ॥ २१ ॥


पार्वती शङ्करं किं परिपप्रच्छेत्याकाङ्क्षायामाह श्री-आद्योवाच भगवन्नित्यादि ।
हे भगवन् ऐश्वर्यादिशालिन् ।
सर्वभूतेश सर्वेषां भूतानां नियन्तः ।
यथा श्रुतिस्मृतिसंहिताद्युपदेशेन सत्यत्रेतादौ भवता लोका निस्तारिता एवं दुष्टकर्मप्रवर्तके पापिनि कलावपि केनाप्युपायेन दयावता भवतैव मनुष्या उद्धर्तव्या इत्याशयेनाह � कृपावतेत्यादि ॥ १८ ॥

प्रकाशिता इत्यादि ।
सर्वे धर्मा उपवृंहिता वर्द्धिता येषु ते ॥ १९ ॥

तदुक्तेत्यादि ।
कृते युगे सत्ययुगे ।
भुवि पृथिव्याम् ।
पुण्यशीला मानवाः तदुक्तयोगयज्ञाद्यैर्वेदभाषितैर्निस्तारोपायभूतैर्यज्ञादिभि।
ह् कर्मभिर्देवान् पितॄंश्च प्रीणयन्तस्तर्पयन्त आसन्निति पञ्चमश्लोकस्थितेन पदेनान्वयः ॥ २० ॥

स्वाध्यायेत्यादि ।
स्वाध्यायो वेदाध्ययनं ध्यानं परमात्मचिन्तनं तपः कृच्छ्रचान्द्रायणादि दया निष्कारणपरदुःखनाशेच्छा दानं न्यायार्जितस्य धनादेः पात्रेऽर्पणं तैः सर्वैर्विशिष्टा मानवा आसन् ।
जितेन्द्रिया इत्यादीनां सर्वेषां जसन्तानां पदानामासन्नित्यत्रान्वयो विधातव्यः ।
जितेन्द्रिया वशीकृतचक्षुरादयः ।


देवायतनगा मर्त्या देवकल्पा दृढव्रताः ।
सत्यधर्मपराः सर्वे साधवः सत्यवादिनः ॥ २२ ॥

राजानः सत्यसङ्कल्पाः प्रजापालनतत्पराः ।
मातृवत् परयोषित्सु पुत्रवत् परसूनुषु ॥ २३ ॥

लोष्टवत् परवित्तेषु पश्यन्तो मानवास्तदा ।
आसन् स्वधर्मनिरताः सदा सन्मार्गवर्त्तिनः ॥ २४ ॥

न मिथ्याभाषिणः केचित् न प्रमादरताः क्वचित् ।
न चौरा न परद्रोहकारका न दुराशयाः ॥ २५ ॥

न मत्सरा नातिरुष्टा नातिलुब्धा न कामुकाः ।
सदन्तःकरणाः सर्वे सर्वदाऽनन्दमानसाः ॥ २६ ॥


महाबला महासामर्थ्याः ।
स्थौल्यसामर्थ्यसैन्येषु बलमित्यमरः ।
महावीर्या महाप्रभावाः महातेजसो वा ।
वीर्य्यं प्रभावे शुक्रे च तेजःसामर्थ्ययोरपीति मेदिनी ।
महान्तौ सत्त्वपराक्रमौ व्यवसायशौर्ये येषान्ते महासत्त्वपराक्रमाः ॥ २१ ॥

देवायतनेत्यादि ।
देवायतनगा देवतामन्दिरगामिनः ।
मर्त्या मरणशीला अपि देवकल्पा ईषदूना देवाः देवतुल्या इत्यर्थः ।
दृढं व्रतं नियमो येषान्ते ।
साधवः स्वस्वधर्मवर्तिनः ।
सत्यवादिनः सत्यं यथार्थाभिधानं तस्य वक्तारः ॥ २२ ॥

राजान इत्यादि ।
सत्यः सङ्कल्पो मानसं कर्म येषान्ते ।
परयोषित्सु परस्त्रीषु परसूनुषु अन्यपुत्रेषु ॥ २३ ॥ २४ ॥

नेत्यादि ।
न प्रमादरताः सावधाना इत्यर्थः ।
न दुराशया न दुष्टाभिप्रायाः ॥ २५ ॥

नेत्यादि ।
न मत्सरा नान्यशुभद्वेषिणः ।
नातिरुष्टा न बहुक्रोधशालिनः ।
सर्वदा आनन्दो यत्र एवम्भूतं मानसं हृदयं येषान्ते ॥ २६ ॥


भूमयः सर्वशस्याढ्याः पर्ज्जन्याः कालवर्षिणः ।
गावोऽपि दुग्धसम्पन्नाः पादपाः फलशालिनः ॥ २७ ॥

नाऽकालमृत्युस्तत्रासीत् न दुर्भिक्षं न वा रुजः ।
हृष्टाः पुष्टाः सदारोग्यास्तेजोरूपगुणान्विताः ।
स्त्रियो न व्यभिचारिण्यः पतिभक्तिपरायणः ॥ २८ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्वाचारवर्तिनः ।
स्वैः स्वैर्धर्मैर्यजन्तस्ते निस्तारपदवीं गताः ॥ २९ ॥

कृते व्यतीते त्रेतायां दृष्ट्वा धर्मव्यतिक्रमम् ।
वेदोक्तकर्मभिर्मर्त्या न शक्ताः स्वेष्टसाधने ॥ ३० ॥

बहुक्लेशकरं कर्म वैदिकं भूरिसाधनम् ।
कर्तुं न योग्या मनुजाश्चिन्ताव्याकुलमानसाः ॥ ३१ ॥

त्यक्तुं कर्तुं न चार्हन्ति सदा कातरचेतसः ।
वेदार्थयुक्तशास्त्राणि स्मृतिरूपाणि भूतले ॥ ३२ ॥

तदा त्वं प्रकटीकृत्य तपः स्वाध्यायदुर्बलान् ।
लोकानतारयः पापात् दुःखशोकामयप्रदात् ॥ ३३ ॥


भूमय इति ।
पर्ज्जन्या मेघाः ॥ २७ ॥

नेत्यादि ।
तत्र कृतयुगे ।
रुजो रोगाः ।
सदा आरोग्यं येषान्ते ।
तेजोरूपगुणान्विताः तेजसा रूपेण अन्यैश्च गुणैर्युक्ताः ॥ २८ ॥

ब्राह्मणा इत्यादि ।
यजन्तः परमेश्वरमर्चयन्तः ॥ २९ ॥

कृते इत्यादि ।
कृते सत्ययुगे व्यतीते विगते सति त्रेतायां चायातायां सत्यां यदा वेदोक्तकर्मभिर्मर्त्या मनुष्याः स्वेष्ठसाधने आत्मनोऽभीष्टसम्पादने शक्ताः समर्था न बभूवुः ।
यदा च भूरीणि बहूनि साधनानि यस्य तद्भूरिसाधनम् ।


त्वां विना कोऽस्ति जीवानां घोरसंसारसागरे ।
भर्त्ता पाता समुद्धर्त्ता पितृवत् प्रियकृत् प्रभुः ॥ ३४ ॥

ततोऽपि द्वापरे प्राप्ते स्मृत्युक्तसुकृतोज्झिते ।
धमार्द्धलोपे मनुजे आधिव्याधिसमाकुले ।
संहिताद्युपदेशेन त्वयैवोद्धारिता नराः ॥ ३५ ॥

आयाते पापिनि कलौ सर्वधर्मविलोपिनि ।
दुराचारे दुष्प्रपञ्चे दुष्टकर्मप्रवर्तके ॥ ३६ ॥


अत एव बहुक्लेशकरं बहूनां क्लेशानां जनकम् ।
अथवा बहुभिः क्लेशैः क्रियते निष्पाद्यते यत्तद् बहुक्लेशकरम् ।
बाहुलकात् कर्मण्यच् ।
अत एवेदृशं वैदिकं कर्म्म कर्तुं चिन्ताव्याकुलमानसा मनुजा मनुष्या योग्या न बभूवुः ।
यदा च सदा कातरचेतसः सर्वदा अधीरस्वान्ता मनुजा वैदिककर्मत्यागे नानादोषश्रवणात् तत् कर्म्म त्यक्तुं बहुक्लेशसाध्यत्वात् कर्त्तुञ्च नार्हन्ति स्म तदा धर्मव्यतिक्रमं धर्मोल्लङ्घनं धर्मविपर्ययं वा दृष्ट्वा स्मृतिरूपाणि वेदार्थयुक्तशास्त्राणि भूतले प्रकटीकृत्य तपःस्वाध्यायदुर्बलान् लोकान् जनान् पापात् त्वमतारयः तारितवानित्यन्वयः ॥ ३० � ३३ ॥

त्वामिति ।
यतस्त्वमेवम्भूतोऽतस्त्वां विनेत्येवं योजनीयम् ।
घोरसंसारसागरे भयानकसंसारसमुद्रे ।
प्रभुर्जगत्पतिः ॥ ३४ ॥

तत इत्यादि ।
स्मृत्युक्तसुकृतोज्झिते स्मृतिभिरुक्तानि यानि सुकृतानि पुण्यानि तैरुज्झिते त्यक्ते ।
धर्मार्द्धलोपे धर्मस्यार्द्धं लुम्पतीति धर्मार्द्धलोपस्तस्मिन् ।
स्मृत्युक्तसुकृतोज्झिते इति धर्मार्द्धलोपे इति च द्वापरे इत्यस्य विशेषणं मनुजे इत्यस्य वेति बोध्यम् ।
आधिर्मानसी व्यथा ॥ ३५ ॥

आयाते इत्यादि ।
दुराचारे दुष्ट आचारो यत्र तस्मिन् ॥ ३६ ॥


न वेदाः प्रभवस्तत्र स्मृतीनां स्मरणं कुतः ।
नानेतिहासयुक्तानां नानामार्गप्रदर्शिनाम् ॥ ३७ ॥

बहुलानां पुराणानां विनाशो भविता विभो ।
तदा लोका भविष्यन्ति धर्मकर्मवहिर्मुखाः ॥ ३८ ॥

उच्छृङ्खला मदोन्मत्ताः पापकर्मरताः सदा ।
कामुका लोलुपाः क्रूरा निष्ठुरा दुर्मुखाः शठाः ॥ ३९ ॥

स्वल्पायुर्मन्दमतयो रोगशोकसमाकुलाः ।
निःश्रीका निर्बला नीचा नीचाचारपरायणाः ॥ ४० ॥

नीचसंसर्गनिरताः परवित्तापहारकाः ।
परनिन्दापरद्रोहपरिवादपराः खलाः ॥ ४१ ॥

परस्त्रीहरणे पापशङ्काभयविवर्जिताः ।
निर्धना मलिना दीना दरिद्राश्चिररोगिणः ॥ ४२ ॥

विप्राः शूद्रसमाचाराः सन्ध्यावन्दनवर्जिताः ।
अयाज्ययाजका लुब्धा दुर्वृत्ताः पापकारिणः ॥ ४३ ॥


नेत्यादि ।
प्रभवः समर्थाः ॥ ३७ ॥ ३८ ॥

उच्छृङ्खला इत्यादि ।
उद्गतं शृङ्खलं वेदादिरूपनिगडो येषां ते उच्छृङ्खला बन्धनरहिता इत्यर्थः ।
लोलुपाः अतिलुब्धाः ।
क्रूराः निर्दयाः ।
निष्ठुराः परुषवादिनः ।
दुर्मुखाः अबद्धमुखाः ।
शठाः अनृजवः ॥ ३९ ॥

स्वल्पेत्यादि ।
स्वल्पायुषश्च ते मन्दमतयश्चेति कर्मधारयः ॥ ४० ॥

नीचेति ।
खला दुर्जनाः ॥ ४१ ॥

परस्त्रीत्यादि ।
परस्त्रीहरणे पापशङ्काभयविवर्जिताः परस्त्रीहरणनिमित्तकपापे उद्वेगसाध्वसरहिताः ।
मलिनाः मलदूषिताः ।
दीनाः खेदवन्तः ।
दरिद्राः दुर्गतिमन्तः ॥ ४२ ॥ ४३ ॥


असत्यभाषिणो मूर्खा दाम्भिका दुष्प्रपञ्चकाः ।
कन्याविक्रयिणो व्रात्यास्तपोव्रतपराङ्मुखाः ॥ ४४ ॥

लोकप्रतारणार्थाय जपपूजापरायणाः ।
पाषण्डाः पण्डितम्मन्याः श्रद्धाभक्तिविवर्जिताः ॥ ४५ ॥
कदाहाराः कदाचारा भृतकाः शूद्रसेवकाः ।
शूद्रान्नभोजिनः क्रूरा वृषलीरतिकामुकाः ॥ ४६ ॥

दास्यन्ति धनलोभेन स्वदारान्नीचजातिषु ।
ब्राह्मण्यचिह्नमेतावत् केवलं सूत्रधारणम् ॥ ४७ ॥

नैव पानादिनियमो भक्ष्याभक्ष्यविवेचनम् ।
धर्मशास्त्रे सदा निन्दा साधुद्रोही निरन्तरम् ॥ ४८ ॥

सत्कथालापमात्रञ्च न तेषां मनसि क्वचित् ।
त्वया कृतानि तन्त्राणि जीवोद्धारणहेतवे ॥ ४९ ॥


असत्येत्यादि ।
दाम्भिकाः दम्भो धर्मध्वजित्वं तद्वन्तः ।
व्रात्याः षोडशवर्षपर्य्यन्तमप्यसंस्कृता भ्रष्टगायत्रीका विप्रा भविष्यन्तीति पूर्वेणान्वयः ॥ ४४ ॥

लोकेत्यादि ।
पाषण्डाः वेदवाह्यरक्तपटमौञ्जादिव्रतचर्य्याशालिनः ।
श्रद्धाभक्तिविवर्जिताः श्रद्धा वेदादौ दृढप्रत्ययः भक्तिः प्रीतिजनकव्यापारः ताभ्यां हीनाः ॥ ४५ ॥

कदाहारा इत्यादि ।
भृतकाः भरणायत्तजीवनाः अत एव शूद्राणामपि सेवकाः ।
क्रूराः कठिनाः ।
वृषलीरतिकामुकाः शूद्रारतिकामयितारः ॥ ४६ � ४८ ॥

सदित्यादि ।
सत्कथालापमात्रं चेत्यत्र च शब्दः तु इत्यर्थे ॥ ४९ ॥


निगमागमजातानि भुक्तिमुक्तिकराणि च ।
देवीनां यत्र देवानां मन्त्रयन्त्रादिसाधनम् ।
कथिता बहवो न्यासाः सृष्टिस्थित्यादिलक्षणाः ॥ ५० ॥

बद्धपद्मासनादीनि गदितान्यपि भूरिशः ।
पशुवीरदिव्यभावा देवता मन्त्रसिद्धिदाः ॥ ५१ ॥

शवासनं चितारोहो मुण्डसाधनमेव च ।
लतासाधनकर्माणि त्वयोक्तानि सहस्रशः ॥ ५२ ॥

पशुभावदिव्यभावौ स्वयमेव निवारितौ ।
कलौ न पशुभावोऽस्ति दिव्यभावः कुतो भवेत् ॥ ५३ ॥

पत्रं पुष्पं फलं तोयं स्वयमेवाहरेत् पशुः ।
न शूद्रदर्शनं कुर्य्यात् मनसा न स्त्रियं स्मरेत् ॥ ५४ ॥

दिव्यश्च देवताप्रायः शुद्धान्तःकरणः सदा ।
द्वन्द्वातीतो वीतरागः सर्वभूतसमः क्षमी ॥ ५५ ॥


निगमेत्यादि ।
यत्र तन्त्रादिषु ।
सृष्टिस्थित्यादिलक्षणाः सृष्टिस्थित्यादिस्वरूपाः ॥ ५० ॥

बद्धपद्मेत्यादि ।
यत्रेत्यनुषज्यते आदिना मुक्तपद्मासनादेः सङ्ग्रहः ॥ ५१ ॥

शवासनमिति ।
अत्रापि यत्रेत्यस्यानुषङ्गः ।
शवासनं मृतशरीरासनम् ॥ ५२ ॥ ५३ ॥

कलौ युगे पशुभावदिव्यभावयोरसत्त्वे हेतुं दर्शयितुं प्रथमतः पशुदिव्ययोर्विधेयानि यानि कर्माणि तानि दर्शयति द्वाभ्याम् ।
पत्रमित्यादि ।
आहरेत् आनयेत् ॥ ५४ ॥

दिव्यश्चेति ।
भवेदित्यध्याहार्यम् ।
देवताप्रायः देवतुल्यः ।
द्वन्द्वातीतः सुखदुःखशीतोष्णादियुगलानि द्वन्द्वानि तान्यतीतोऽतिक्रान्तः तत्सहनशील


कलिकल्मषयुक्तानां सर्वदाऽस्थिरचेतसाम् ।
निद्रालस्यप्रसक्तानां भावशुद्धिः कथं भवेत् ॥ ५६ ॥

वीरसाधनकर्माणि पञ्चतत्त्वोदितानि च ।
मद्यं मांसं तथा मत्स्यमुद्रामैथुनमेव च ।
एतानि पञ्चतत्त्वानि त्वया प्रोक्तानि शङ्कर ॥ ५७ ॥

कलिजा मानवा लुब्धाः शिश्नोदरपरायणाः ।
लोभात्तत्र पतिष्यन्ति न करिष्यन्ति साधनम् ॥ ५८ ॥

इन्द्रियाणां सुखार्थाय पीत्वा च बहुलं मधु ।
भविष्यन्ति मदोन्मत्ता हिताहितविवर्जिताः ॥ ५९ ॥


इत्यर्थः ।
वीतरागः वीतो विशेषेण गतो रागः प्रीतिर्मात्सर्यं वा यस्य यस्माद्वा सः ।
रागोऽनुरागे मात्सर्ये इति कोशः ।
सर्वभूतसमः सर्वेषु भूतेषु समः रागद्वेषादिशून्यः ।
क्षमी परेणापकारे कृते तस्य प्रत्यपकारानाचरणं क्षमा तद्वान् ॥ ५५ ॥

एवं पशुदिव्ययोर्विधेयानि कर्माणि प्रदर्श्येदानीं सर्वदा चञ्चलचित्तनां निद्रालस्यप्रसक्तानां नानाविधदुष्कृतशालिनां पशुदिव्यविधेयकर्मसाधनायोग्यानां कलिजन्मनां मनुष्याणां पशुभावदिव्यभावौ न सिध्यत इति प्रतिपादयितुमाह ।
कलीत्यादि ॥ ५६ ॥

वीरेत्यादि ।
हे शङ्कर लोककल्याणकर्तः पञ्च मद्यादीनि तत्त्वानि उदितान्युक्तानि येषु ।
एवम्भूतानि वीरसाधनकर्माणि मद्यमांसादीनि पञ्चतत्त्वानि च त्वया प्रोक्तानीत्यन्वयः ॥ ५७ ॥

कलिजा इति ।
तत्र मद्यादिपञ्चतत्त्वेषु ॥ ५८ ॥

इन्द्रियाणामिति ।
मधु मद्यम् ॥ ५९ ॥


परस्त्रीधर्षकाः केचिद्दस्यवो - बहवो भुवि ।
न करिष्यन्ति ते मत्ताः पापायोनिविचारणम् ॥ ६० ॥

अतिपानादिदोषेण रोगिणो बहवः क्षितौ ।
शक्तिहीना बुद्धिहीना भूत्वा च विकलेन्द्रियाः ॥ ६१ ॥

ह्रदे गर्त्ते प्रान्तरे च प्रासादात् पर्वतादपि ।
पतिष्यन्ति मरिष्यन्ति मनुजा मदविह्वलाः ॥ ६२ ॥

केचिद्विवादयिष्यन्ति गुरुभिः स्वजनैरपि ।
केचिन्मौना मृतप्राया अपरे बहुजल्पकाः ॥ ६३ ॥

अकार्यकारिणः क्रूरा धर्ममार्गविलोपकाः ।
हिताय यानि कर्माणि कथितानि त्वया प्रभो ॥ ६४ ॥

मन्ये तानि महादेव विपरीतानि मानवे ।
के वा योगं करिष्यन्ति न्यासजातानि केऽपि वा ॥ ६५ ॥

स्तोत्रपाठं यन्त्रलिपिं पुरश्चर्यां जगत्पते ।
युगधर्मप्रभावेण स्वभावेन कलौ नराः ।
भविष्यन्त्यतिदुर्वृत्ताः सर्वथा पापकारिणः ॥ ६६ ॥


परस्त्रीत्यादि ।
परस्त्रीधर्षकाः परस्त्र्यभिभवकर्तारः ।
दस्यवश्चौराः ।
ह्रदे अगाधजलाधारे ।
प्रान्तरे ग्रामस्य दूरे वृक्षलतादिशून्येऽध्वनि ॥ ६० � ६२ ॥

केचिदिति ।
गुरुभिः पित्रादिभिः ।
मौनाः न किञ्चिदपि व्याहरन्तः ।
योगं तन्त्रादिप्रयुक्ततत्तत्पुण्यकर्मरूपमुद्धारोपायम् ।
पुरश्चर्यां पुरश्चरणम् ॥ ६३ � ६६ ॥


तेषामुपायं दीनेश कृपया कथय प्रभो ।
आयुरारोग्यवर्चस्यं बलवीर्यविबर्द्धनम् ॥ ६७ ॥

विद्याबुद्धिप्रदं नॄणामप्रयत्नशुभङ्करम् ।
येन लोका भविष्यन्ति महाबलपराक्रमाः ॥ ६८ ॥

शुद्धचित्ताः परहिता मातापित्रोः प्रियङ्कराः ।
स्वदारनिष्ठाः पुरुषाः परस्त्रीषु पराङ्मुखाः ॥ ६९ ॥

देवतागुरुभक्ताश्च पुत्रस्वजनपोषकाः ॥ ७० ॥

ब्रह्मज्ञा ब्रह्मविद्याश्च ब्रह्मचिन्तनमानसाः ।
सिद्ध्यर्थं लोकयात्रायाः कथयस्व हिताय यत् ॥ ७१ ॥

कर्तव्यं यदकर्तव्यं वर्णाश्रमविभेदतः ।
विना त्वां सर्वलोकानां कस्त्राता भुवनत्रये ॥ ७२ ॥


इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे जीवनिस्तारोपायप्रश्नो नाम प्रथमोल्लासः ॥ १ ॥

तेषामित्यादि ।
तेषां नराणाम् ।
आयुरारोग्यवर्चस्यम् आयुषे आरोग्याय वर्चसे तेजसे च हितम् ॥ ६७ ॥

विद्येत्यादि ।
येन उपायेन ॥ ६८ � ७० ॥

ब्रह्मज्ञा इति ।
ब्रह्मविद्याः सर्वं ब्रह्मैवेति प्रज्ञावन्तः ।
लोकयात्रायाः लोकनिर्वाहस्य ॥ ७१ ॥ ७२ ॥

इति श्रीमहानिर्वाणतन्त्रटीकायां प्रथमोल्लासः ।