५१

अथ एकपञ्चाशत्तमं पटलम्

शिव उवाच

अथान्यत्ते प्रवक्ष्यामि प्रकारं शृणु पार्वति ।
यस्य श्रवणमात्रेण जायते भावना शुभा ॥ ५१-१ ॥

भूमयो दश ते प्रोक्ता मया च वरवर्णिनि ।
पञ्चमी शयनीयाख्या तस्यां शेते निशास्वपि ॥ ५१-२ ॥

स्फूर्जद्रत्नमयूखचित्रविलसत्स्वर्णाच्छदण्डोद्घृत-
भ्राजन्मण्डपमण्डिते परिलसद्दिव्योपधानैः सुखे ।
प्रान्तस्फूर्जदनेकमौक्तिकमणिभ्राजत्पटीप्रावृते दिव्यामोदमनःप्रमोदसुमनःसौरभ्यसम्भाविते ॥ ५१-३ ॥

तल्पे तल्पसुखास्पदे परिलसन्मुक्तावितानोत्तमे
हंसीतूलचिते स्फुरन्मणिगणप्रोच्चैः प्रदीपोज्ज्वले ।
स्वामिन्या परया विलासविविधक्रीडारसव्यग्रया
रात्रौ निर्भरमन्मथोत्सवसुखं शेते रसात्मा प्रभुः ॥ ५१-४ ॥

वीणामृदङ्गमधुरध्वनिगीतनादैः
क्रीडागृहं च परितः परिवृत्तमानाः ।
सख्यः प्रियं परिचरन्ति निशावसाने ।
प्राणप्रियेशपरिबोधनकर्मदक्षाः ॥ ५१-५ ॥

कनकाङ्गी मञ्जुमुखी कलकण्ठी स्मितानना ।
आनन्दवल्लरी वृन्दा मित्रवृन्दा विशोकिनी ॥ ५१-६ ॥

चित्रवस्त्रा विचित्राङ्गी चन्द्रघण्टा विभावरी ।
मञ्जुमोदा विधुमुखी रत्नदन्ती मदालसा ॥ ५१-७ ॥

लावण्यलहरी लीलावती लावण्यमन्थरा ।
ललिताङ्गी कामवती पुष्पिणी पुष्पदन्तिका ॥ ५१-८ ॥

हसन्तिका हंसगतिः पुष्पवेणी मरुल्लता ।
मुदिता मोदिनी श्यामा तथा मुक्तावती रतिः ॥ ५१-९ ॥

हारिणी हरिणी हंसी विहंसी हंसकुण्डला ।
अरुणाङ्गी रङ्गरङ्गा रसरङ्गा कुमुद्वती ॥ ५१-१० ॥

कुङ्कुमाङ्गी कुन्दहासा चन्द्रहासा चरित्रिणी ।
आनन्दमञ्जरी मन्द्रा पद्मवृन्दा ज्वलन्तिका ॥ ५१-११ ॥

कुन्ददन्ती रत्नकला जयिनी स्वर्णमेखला ।
पुलिन्दिनी हेमवर्णा हरिणाक्षी रतिप्रिया ॥ ५१-१२ ॥

पद्मकोशा भृङ्गरावा गायनी मदमन्थरा ।
एकषष्टिमिताः सख्यो नियुक्ता [ख्याताः इ० पा० ।] बोधकर्मणि ॥ ५१-१३ ॥

प्रातः प्रोत्थितमायतादिकमलप्रोत्तम्भितभ्रूलतं जृम्भामञ्जुमुखारविन्दविलसद्विम्बाधरोद्यस्मितम् ।
निद्रान्ताघूर्णमानं समधिगतसखीवृन्दमालोकयन्तं
दृष्ट्या वातेरिताम्भोरुहमुकुललसच्छोभया निस्तुलाङ्गम् ॥ ५१-१४ ॥

स्फूर्जत्काञ्चनमण्डितामलमणिप्रोद्भासिते पात्रके
श्रीमन्मङ्गलवस्तुनि प्रविलसच्छ्रीरत्नदीपैः शुभैः ।
सख्यस्ता मृदुमञ्जुकङ्कणरणत्कारान् [समातन्वती इ० पा० ।] समातन्विताः कान्ताः कान्तमनङ्गकोटिरुचिरं नीराजयन्ति प्रियम् ॥ ५१-१५ ॥

तदनु झटिति रागादागतानन्दमञ्ज-
र्य्यनघकरसरोजे व्यादधत् [व्यादधानात्मदर्श इ० पा० ।] दर्पण च ।
प्रियसुभगमुखाब्जं दर्शनीयं तवेदम्
असितकणकृतश्री [सुकृतिजनकृतश्चि इ० पा० ।] रम्यमालोकयेति ॥ ५१-१६ ॥

ह्रादिनीनिहितरत्नपादुके पादपङ्कजयुगे निधाय च ।
रत्नपीठमुपसाद्यसुन्दर दन्तधावनविधिं करोति सः ॥ ५१-१७ ॥

दन्तधावनविधानयोजिते मन्द्रिणीति सुरसेति विश्रुते ।
मन्द्रिणी धृतवती शुभं जलं हस्तवस्त्रममलं तथेतरा ॥ ५१-१८ ॥

ततो लविङ्गकर्पूरचूर्णैलापूगमिश्रितम् ।
उपतिष्ठति सत्पात्रे धृत्वा मदनमेखला ॥ ५१-१९ ॥

ताम्बूलमास्वाद्य ततः प्रसन्नः
सखीजनप्रार्थनयातिकामम् ।
आरुह्य रत्नोज्ज्वलपादुके द्वे
स्नानगृहस्याभिमुखः प्रयाति ॥ ५१-२० ॥

रत्नमौक्तिकवितानमण्डितं
धूपितं स्वगरुधूमराजिभिः ।
कल्पवृक्षकुसुमालिसौरभोद्-
भ्रान्तभृङ्गमुखरीकृताम्बरम् ॥ ५१-२१ ॥

सज्जसर्वपरिचारिकागणं नृत्यमानबहुनर्त्तकीगणम् ।
उल्लसद्विविधवाद्यगायनोज्जृम्भितप्रतिनिनादमञ्जुलम् ॥ ५१-२२ ॥

स्तम्भलग्नमणिपुत्रिकागणं स्नानमण्डपमुपेत्य भास्वरम् ।
रत्नपीठमुपनीय दर्शितं भामया समधितिष्ठति प्रभुः ॥ ५१-२३ ॥

उत्तार्य भूषणकलापमथो मनोज्ञं
तत्तत्प्रियाकरयुगान्युपलम्भयित्वा ।
नीराजितः स्वप्रमदोत्तमभूषणोद्यत्
कान्तिच्छटाभिरिव दीपशतैर्विभाति ॥ ५१-२४ ॥

यक्षकर्द्दम [कर्पूरागरुकस्तूरी कुङ्कुमं चन्दनं तथा ।
महासुगन्धिरित्युक्तो नामतो यक्षकर्दमः । इति धन्वन्तरिः ।] काश्मीररजनीचूर्णमिश्रितैः ।
उद्वर्त्तनं चकारेलागन्धद्रव्यैर्मनोहरैः ॥ ५१-२५ ॥

आनीय मणिपात्रस्थं गन्धतैलं मनोजवा ।
करोत्यभ्यङ्गमङ्गेषु स्वभावसुरभिष्वपि ॥ ५१-२६ ॥

मुक्तारत्नविचित्रहेमकलशैरापीड्यमानैः शरत् पूर्णेन्दूज्वलहस्तिकुम्भशिखरारूढैः सुधास्पर्द्धिभिः ।
कस्तूरीद्रवयक्षकर्दममहासौरभ्यसम्भावितैः
सख्यः पुष्पगणाधिवासितजलैः संस्नापयन्ति प्रियम् ॥ ५१-२७ ॥

स्मेरानना विधुकला बल्गुनादा विहङ्गमा ।
सङ्गमाला [मङ्गलामाला इओ पा० ।] स्मरानन्दा विश्वानन्द सुकुण्डला ॥ ५१-२८ ॥

तेजोवती हेमगर्भा तरुणी तपनावती ।
एताः प्राधान्यतः प्रोक्ता द्वादश स्नानकर्मणि ॥ ५१-२९ ॥

गोफेनस्वच्छशुचिन वाससाङ्गं सुकुण्डला ।
प्रियस्याह्लादजननी प्रोच्छयत्यतिकोमलम् [प्रीत्थयति इ० पा० ।] ॥ ५१-३० ॥

स्नानवासः परित्यज्य तेजोवत्या निवेदितम् ।
काश्मीररागरुचिरं कटिवस्त्रं विभर्त्यसौ ॥ ५१-३१ ॥

पादुकायुगमारुह्य मन्दं मन्दं परः प्रभुः ।
भूषामण्डपमायाति प्रियाभिः परिवेष्टितः ॥ ५१-३२ ॥

रत्नराजितसुवर्णकुट्टिमे स्फुर्जदंशुनिवहैस्तथोर्ध्वगैः ।
शक्रचापरचनाचितान्तरे मण्डपे [चिताम्बरे ।] स्फटिकपीठमाश्रितः ॥ ५१-३३ ॥

केशावलिं कङ्कतिकामुखेन
संशोध्यमाना ललिता प्रियस्य ।
निर्दग्धकालागरुधूपधूपैः
सुवासयत्यत्र सरोजगन्धा ॥ ५१-३४ ॥

सिन्दूरपूरारुणिमानमुच्चैर्वहन् महोष्णीषमनङ्गरेखा ।
प्रान्तेषु मुक्तागुणगुम्फितं तदा व्यापारयामास तदुत्तमाङ्गे ॥ ५१-३५ ॥

सुवर्णरचितं प्रान्तं मुक्ताजालपरिस्कृतम् ।
पद्मरागं मध्यनीलमुष्णीषाग्रे बबन्ध सा ॥ ५१-३६ ॥

अनेकमुक्तामणिराजमाने निजेच्छया स्वीकृतहंसकुण्डले ।
तडित्प्रभापुञ्जविमोद्वमन्ती [उद्वहन्ती इ० पा० ।] श्रुतिद्वयस्याभरणीवकार ॥ ५१-३७ ॥

नवरत्नमयीं मालां ग्रैवेयाभरणं तथा ।
हृदम्बुजे लम्बमाननं चतुष्काभरणं तथा ॥ ५१-३८ ॥

बाह्वोः केयूरयुगलं कटकाङ्गदमुद्रिकाः ।
उन्मिषद्रत्नरचितं काञ्चीसूत्रं महद्धनम् ॥ ५१-३९ ॥

निर्यद्भूषांशुनिचयैः किर्मीरितमिवोत्तमम् ।
निःश्वासहारिवसनं श्वेतं स्निग्ध मनोहरम् ॥ ५१-४० ॥

नवीनजलदस्निङ्ग्धमुत्तरीयं सुशोभनम् ।
अनर्घ्यमौक्तिकमणिभ्राजत्प्रान्तचतुष्टयम् ॥ ५१-४१ ॥

अनेकदिव्याभरणान्यङ्गे प्रियतमस्य हि ।
रचयामास शृङ्गारचमत्कृतिमुपेयुषः ॥ ५१-४२ ॥

इति सज्जितशृङ्गारो गायद्भिः परितो वृतः ।
सखीवृन्दैः वाद्यहस्तैर्भोगभूमिं प्रयाति सः ॥ ५१-४३ ॥

पाकशालास्वधिकृता ललिताङ्गादिकाः प्रियाः ।
तिष्ठन्ति यत्र सुभगाः किशोराकृतयः शतम् ॥ ५१-४४ ॥

स्वर्णपीठं समास्थाय तिष्ठति पुरुषोत्तमः ।
सौवर्णविमलं पात्र साधारमति विस्पृतम् ॥ ५१-४५ ॥

परितस्तस्य सौवर्णपात्राणां च सहस्रकम् ।
स्थाप्यन्ते तेषु ते भोगाः स्निग्धा हृद्याः पृथग्विधाः ॥ ५१-४६ ॥

जातीकोरकपुञ्जविभ्रमकरं स्वन्नं च मव्यस्थितं
वामे ऽस्याढकमुद्गमोदनमथो प्राज्यं घृतं माहिषम् ।
सूपापूपहयङ्गवीनविलसत्पक्कान्नरम्भाफलै-
र्मुक्तालड्डुकपूलिकाशिखरिणीदध्यक्तमाषान्नकैः ॥ ५१-४७ ॥

वह्न्युष्णशर्करयुतं मणिपात्रसंस्थं
दुग्धं च पायसमथो घृतशर्करःक्तम् ।
पूर्णेन्दुचन्द्रकचित मधुराम्लतिक्त
नानारसाम्ररसमाक्षिकगोस्तनीकम् ॥ ५१-४८ ॥

कूष्माण्डवृन्ताकपटोलबिम्बी-
शिम्बीसुकौशातकिसूरणाद्यैः ।
मृद्वग्नितापेन सुपाचितैर्युतं
हिङ्ग्वामरीचादिसुवासितैर्भृशम् ॥ ५१-४९ ॥

चतुर्विधान्नं परिवेश्यमाण-
मानन्दमानन्दमयौऽपि भुङ्क्ते ।
प्रियाः समस्ता अपि त समन्तात्
प्रहासयन्त्यो बुभुजुः स्वपात्रैः ॥ ५१-५० ॥

भोजनान्ते ततः कृष्णं मणिपीठे तु दक्षिणे ।
शुद्धाङ्गी स्वर्णभृङ्गारजलेनाचमनं ददौ ॥ ५१-५१ ॥

स्नेहापनोदनार्थाय गन्धचूर्णं शुभं ददौ ।
दन्तकाष्ठं च कर्पूरशशाङ्कशकलास्तथा ॥ ५१-५२ ॥

गण्डूषाचमनीयान्ते केसराङ्गी तु बीटिकाम् ।
पादुकायुगमारुह्य पञ्चवाद्यपुरःसरम् ॥ ५१-५३ ॥

पीठान्तरगतं कृष्णं परमानन्दविग्रहम् ।
स्वामिनीप्रमुखाः सर्वाः मुक्ताभिः समवाकिरन् ॥ ५१-५४ ॥

मुक्ताविचित्रचतुरस्रसुवर्णपात्रे
दूर्वादधिप्रभृतिमाङ्गलिकोपचारैः ।
आरोपितैः स्थिरशिखैः शुभरत्नदीपै-
र्नीराजयन्ति निजनाथमकामकामम् ॥ ५१-५५ ॥

शृङ्गारहास्योद्भुतमोदमानः प्रियानुरोधेन ततः परेशः ।
विश्रम्य तत्रैव मुहूर्तमात्रं प्रयाति भूर्मिं शयनीयसञ्ज्ञाम् ॥ ५१-५६ ॥

मृदुवाद्यादिगीतेन गीयमानः प्रियाजनैः ।
चित्रया वीजितः शेते मृदुव्यजनहस्तया ॥ ५१-५७ ॥

सुप्तोत्थितः परिजनैः सह नृत्यभूमौ
सिंहासने विमलरत्नमयूखचित्रे ।
स्थित्वा प्रियाविलसनादिकनृत्यगीतं
पश्यंस्तुतोष यदपि स्वयमेव तोषः ॥ ५१-५८ ॥

अखण्डितशरच्चन्द्रस्मयापहारमण्डलम् [अपस्मार इ० पा० ।] ।
मिहिला छत्रमाधत्त रत्नदण्डरुचोज्ज्वलम् ॥ ५१-५९ ॥अयुतं मणिपात्रसंस्थं दुग्ध च पायसमथो घृतशर्करःक्तम् ।
अक्तमाषान्नकैः ॥ ४७ ॥

व्यजनं पादुके चारु चामरे दर्पणादिकम् ।
दधानाः परिसेवन्ते पूर्वोद्दिष्टाः परात्परम् ॥ ५१-६० ॥

ततो विमानप्रवरं नाम्ना चित्रध्वजं महत् ।
सखीसहस्रैरास्थाय गतश्चान्द्रमसं वनम् ॥ ५१-६१ ॥

कदाचिन्नीलविपिने कदाचित्पुष्पदन्तके ।
कदाचिदानन्दवने हेमकूटेऽपि कर्हिचित् ॥ ५१-६२ ॥

कदाचित्तारकूटाख्ये गारुडे नीलपर्वते ।
कदाचित्पुष्परागाद्रौ माणिक्याद्रावपि क्वचित् ॥ ५१-६३ ॥

मन्दारविपिने क्वापि पारिजातवनान्तरे ।
हरिचन्दनकोद्याने वैदूर्यविपिने [वैडूर्यमणिकानने इ० पा० ।] क्वचित् ॥ ५१-६४ ॥

महामुक्तावने क्वापि प्रवालोद्यान् एव च ।
पद्मरागवनोद्याने महापद्मवने तथा ॥ ५१-६५ ॥

कदाचिच्चम्पकवने क्वचित्कल्पद्रुकानने ।
अनेकविधलीलाभिः क्रीडते पुरुषोत्तमः ।
ततश्चान्द्रमसादेत्य विमानेन महौजसा ॥ ५१-६६ ॥

महाद्वारपुरोवर्त्तिं मण्डपेऽपि स्थितः क्षणः [कृतक्षणः इ० पा० ।] ।
चतुःषष्टिमहास्तम्भां मूलभूमिं समाश्रितः ॥ ५१-६७ ॥

रत्नसिंहासनगतं तदैवेच्छाविमोहिताः ।
स्वामिनीप्रमुखाः कृष्णं प्रार्थयामासुरुत्सुकाः ॥ ५१-६८ ॥

तत्तु सर्वं मया प्रोक्तं पुरा ते वरवर्णिनि ।
अतः परं प्रवक्ष्यामि शृणुष्वैकाग्रमानसा ॥ ५१-६९ ॥

यथानेन प्रकारेण प्रियाः परिचरन्ति तम् ।
तथैव काश्चन व्यग्राः स्वामिनीसेवनादिषु ॥ ५१-७० ॥

नीराजनस्नानवस्त्रगन्धमाल्यविभूषणैः ।
शयनासनताम्बूलैः सख्यः परिचरन्ति ताम् ॥ ५१-७१ ॥

द्विषटसहस्रसङ्ख्याताः याः परिचरन्ति ताम् ।
षट्सहस्राणि कृष्णस्य परिचर्यापराणि हि ॥ ५१-७२ ॥

स्वामिन्याः षट्सहस्राणि वर्त्तन्ते परिकर्मणि ।
तासां यूथानि देवेशि चत्वारिंशन्मितानि हि ॥ ५१-७३ ॥

तासां सोधानि दिव्यानि सहस्राणीति द्वादश ।
एकैकं योजनार्द्धेनायामविस्तारसंयुतम् ॥ ५१-७४ ॥

एकैकस्याः प्रियायास्तु मन्दिरे मन्दिरे प्रिये ।
शतं शतं प्रवर्त्तन्ते सेवार्थं परिचारिकाः ॥ ५१-७५ ॥

प्रियासौधबहिर्भागे तत्क्रमेणैव भामिनि ।
परिचारिकावर्गसमं मन्दिराणि पृथक्-पृथक् ॥ ५१-७६ ॥

योजनार्द्धप्रमाणेन किञ्चिदप्यधिकेन च ।
विस्तारयामयुक्तानि त्रिभौमानि द्युमन्ति च ॥ ५१-७७ ॥

प्रियासौधानि दिव्यानि नानावर्णाकृतीनि च ।
चन्द्रामृतोद्गारवन्ति चन्द्रकान्तोद्भवानि तु ॥ ५१-७८ ॥

कानिकृष्णानि रक्तानि कृष्णरक्तानि कान्यपि ।
कानिचिद्रक्तकृष्णानि श्वेतरक्तानि काचिचित् ॥ ५१-७९ ॥

श्वेतानि चैव रक्तानि रक्तश्वेतानि कान्यपि ।
एवं धूम्राणि कृष्णानि धूम्रकृष्णानि कानिचित् ॥ ५१-८० ॥

कृष्णधूम्राणि देवेशि सर्वसौधेष्वयं क्रमः ।
एकैकमन्दिरे देवि मज्जनागारमायतम् ॥ ५१-८१ ॥

नानोपकरणैर्युक्तं दिव्यरत्नवितानकम् ।
भूषागृह कथैकत्र महाकुट्टिममण्डपम् ॥ ५१-८२ ॥

भूषागृहस्य पूर्वे तु गन्धालेपस्य मन्दिरम् ।
नानागन्धविभेदादिसमृद्धं बहुयुक्तिकम् ॥ ५१-८३ ॥

महानसं तु देवेशि वर्त्तते वह्निकोणगम् ।
ईशान्ये तु सभासद्म दिव्यासनविराजितम् ॥ ५१-८४ ॥

एवं कृष्णप्रियासौधस्थितिरुक्ता तवानघे ।
द्रवीभूतरसः कृष्णः प्रियाभावात्मकस्तु यः ॥ ५१-८५ ॥

आविर्भूय प्रियावृन्दैः क्रीडते प्रतिमन्दिरम् ।
स्वामिनीमन्दिरेपि च घनीभूतस्तु केवलम् ॥ ५१-८६ ॥

न स्वामिनीं विना कृष्णः न स्वामिनी कृष्णं विना ।
न तिष्ठति क्षण देवि ह्यन्यथा लुप्यते रसः ॥ ५१-८७ ॥

अत्र ये मणयो मुक्ताः कुसुमानि लताङ्घ्रिपाः ।
विद्रुमस्वर्णरजतनानाभेदाश्च धातवः ॥ ५१-८८ ॥

सूर्याचन्द्रमसौ देवि पशुपक्षिसमीरणाः ।
भक्ष्यभोज्यलेह्यचोष्यपेयभेदा ह्यनेकशः ॥ ५१-८९ ॥

भोक्तृभोग्यविभागश्च ज्ञातृज्ञेयादिकं तथा ।
रस एवेति विज्ञाय न मुह्यति कदाचन ॥ ५१-९० ॥

न कालगणना तत्र वर्त्तते परमेश्वरि ।
न सूर्यचन्द्रताराणामुदयास्तादिकं भवेत् ॥ ५१-९१ ॥

उदयास्तादिभावाश्च प्रतीयन्ते तथापि हि ।
लीलासमयभेदार्थमेवं जानीहि पार्वति ॥ ५१-९२ ॥

एतन्मयोदितं साध्वि त्वया सम्यक् श्रुतं किल ।
न वाच्यं कस्यचिद्देवि सर्वोपनिषदां रहः ॥ ५१-९३ ॥

एतन्माहेश्वरं तन्त्रं सर्वतन्त्रोत्तमोत्तमम् ।
रसनिर्णयसम्पन्नं समाधौ यच्छ्रुतं मया ॥ ५१-९४ ॥

मया [अनेन ज्ञायतेऽस्य तन्त्रस्यातिगोप्यत्वान्नाममात्रमपि न क्वापि ९४ तन्त्रेषु प्राकट्यं हसमाहेश्वरतन्त्रं तु भिन्नविषयकमिति मे मतम् ।] प्रकटितं तेऽद्य पुत्रयोरपि गोपितम् ।
वासना एव तुष्यन्ति श्रुत्वा साध्वीं कथामिमाम् ॥ ५१-९५ ॥

अल्पाः कूपा विवर्द्धन्ते ज्योत्स्नया किं समुद्रवत् ।
हरिणा एव तुष्यन्ति गानं श्रुत्वा न गर्दभाः ॥ ५१-९६ ॥

तस्मात्परीक्ष्य वक्तव्यं सहसा न प्रकाशयेत् ।
श्रद्धधानाय शान्ताय कुलीनाय महेश्वरि ॥ ५१-९७ ॥

विनीताय कृतज्ञाय क्रियाशुद्धाय दीयताम् ।
श्रद्धाभक्तिविहीनाय कृतघ्नाय दुरात्मने ॥ ५१-९८ ॥

गुरुभक्तिविहीनाय हेतुवादरताय च ।
असम्भावितचित्ताय विपरीतार्थवादिने ॥ ५१-९९ ॥

वृथार्थैकप्रवृत्ताय वेदशास्त्रार्थमानिने ।
दाम्भिकायातिदुष्टाय विषयाक्रान्तचेतसे ॥ ५१-१०० ॥

न देयः सर्वथा देवि तन्त्रार्थः पराद्भुतः ।
तन्नास्ति त्रिषु लोकेषु यद्दत्त्वाप्यनृणी भवेत् ॥ ५१-१०१ ॥

प्रभोर्देवस्य सर्वस्वं मयेदं ते प्रकाशितम् ।
अतः परं तु देवेशि ज्ञातव्यं नावशिष्यते ॥ ५१-१०२ ॥

तस्मादिदं सुविज्ञाय रहस्यं कृष्णयोषिताम् ।
स्वयमेव परानन्दनिमग्ना भव सुन्दरि ॥ ५१-१०३ ॥

अतः परं तु देवेशि पष्टव्यं नैव किञ्चन ।
नित्यं ध्यायामि यच्चित्ते तदेतत्ते निवेदितम् ॥ ५१-१०४ ॥

इत्युक्त्वा च तदा शम्भुस्तूष्णीम्भूत्वा च संस्थितः ।
वर्णमानमहालीलासमुद्रे मन आदधे ॥ ५१-१०५ ॥

स्मितोर्मिरिवाम्भोधिः पुलकाङ्गः सुलोचनः ।
बभूव देवदेवेशः कृपासिन्धुरुमापतिः ॥ ५१-१०६ ॥

एवमानन्दसन्दोहनिमग्नं वीक्ष्य शङ्करम् ।
सर्वोपचारविधिना पूजयामास पार्वती ॥ ५१-१०७ ॥

दण्डवत्प्रणनामैषा [दण्डवत्प्रणतामैषा० इति पा० ।] कृतार्थास्मीति वादिनी ।
तुष्टाव शङ्कर भूयः कृपानिधिमनुत्तमम् ॥ ५१-१०८ ॥

त्व देव सर्वविद्यानामुपदेष्टा गुरुः स्वयम् ।
त्वयि भक्तिवतामेव मन्त्रयन्त्रादि सिध्यतु ॥ ५१-१०९ ॥

इत्युक्त्वा पार्वती चित्ते लीलामाधाय वर्णिताम् ।
अवाप परमानन्दं हर्षाश्रुपुलकाङ्किता ॥ ५१-११० ॥

इति श्रीमन्माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे एकपञ्चाशतमं पटलम् ॥ ५१-५१ ॥

आदितः श्लोकानां समष्ट्यङ्काः ॥ ३०६० ॥

॥ समाप्तमिदं श्रीमाहेश्वरं तन्त्रम् ॥

ए-तेxत्स् मय् बे विएwएद् ओन्ल्य् ओन्लिने ओर् दोwन्लोअदेद् फ़ोर् प्रिवते स्तुद्य्।