५०

अथ पञ्चाशत्तमं पटलम्

पार्वत्युवाच

देव नाथ महेशान त्रिलोचन जगत्पते ।
पूजनस्यापि परमो विधिर्मे संश्रुतो महान् ॥ ५०-१ ॥

कूटस्थपूजने तत्र ध्यानमुक्तं त्वयाऽस्य हि ।
व्यापकं नित्यमव्यक्तमखण्डमिति शङ्कर ॥ ५०-२ ॥

अखण्डं व्यापकं तच्चेत्तदानन्दगतं न किम् ।
केवलानन्दलीलायामङ्गीकारो विरुध्यते ॥ ५०-३ ॥

अनङ्गीकारे देवेश व्यापकत्वं विरुध्यते ।
ज्ञानरूपं तु कूटस्थमानन्दः पुरुषोत्तमः ॥ ५०-४ ॥

मिथौ विरुद्धौ देवेश ज्ञानानन्दौ सुरेश्वर ।
भेदशून्य यदा ज्ञानं जायते कृष्णयोषिताम् ॥ ५०-५ ॥

रसस्तदा निवर्त्तेत निर्विशेषतया प्रभो ।
रसाभासकरं ज्ञानं कथं युज्येत तत्र हि ॥ ५०-६ ॥

अखण्डव्यापकत्वादि धर्माणां तत्र का गतिः ।
एतज्जिज्ञासया देव मनो मे खिद्यतेतराम् ॥ ५०-७ ॥

शिव उवाच

साधु पृष्टं त्वया भद्रे जिज्ञासूनामभीप्सितम् ।
यच्छ्रुत्वा तत्क्षणादेव जिज्ञासा विनिवर्त्तते ॥ ५०-८ ॥

कूटस्थं व्यापकं देवि व्याप्यं कार्यमिति स्थितम् ।
न कार्यं व्यापकं क्वापि न व्याप्यं कारणं भवेत् ॥ ५०-९ ॥

अल्पवृत्ति भवेद् व्याप्यं व्यापकं तु तदन्यथा ।
व्याप्यव्यापकता चापि कूटस्थानन्दयोरपि ॥ ५०-१० ॥

विशेषं तत्र वक्ष्यामि शृणु त्वं कमलेक्षणे ।
कामांशकणिकाव्याप्तं कूटस्थं ज्ञानरूपकम् ॥ ५०-११ ॥

अत एव श्रुतिशतैरानन्दमिति कीर्त्यते ।
कूटस्थमपरिच्छिन्नं विद्यते यद्यपि प्रिये ॥ ५०-१२ ॥

तिरोहितमिवानन्दे कुह्वां बिम्बमिवैन्दवम् ।
कामांशस्त्वपरिच्छिन्नमखण्डमचलं ध्रुवम् ॥ ५०-१३ ॥

सर्वतो व्याप्य देवेशि स्वरूपेण प्रकाश्यते ।
चिदानन्दमयीलीला प्रोक्ता कामांशभावजा ॥ ५०-१४ ॥

अनुभूता पुरा देवि निगमैः प्राकृते लये ।
तस्माद्गोलोकलीलेति प्रोच्यते वरवर्णिनि ॥ ५०-१५ ॥

पार्वत्युवाच

कीदृशी सा भवेल्लीलानुभूता निगमैः कथम् ।
शब्दात्मकः कथं वेदो रसानुभवमर्हति ॥ ५०-१६ ॥

एतदाख्याहि भगवन् यदि योग्यं भवेन्मम ।

शिव उवाच

शृणु पार्वति वक्ष्यामि तव प्रश्नमनुत्तमम् ॥ ५०-१७ ॥

सम्प्राप्ते प्रतिसञ्चरे न स विभुर्ब्रह्मा प्रजानां पति-
र्नोसूर्यादिगृहर्क्षसागरसरिद्विश्वन्धराः [विश्वम्भराः इ० पा० ।] पर्वताः ।
वृक्षा औषधयस्तदा न विबुधा दैत्या मनुष्या दिशो
गन्धर्वा न च राक्षसा मुनिवरा यक्षा [साध्या इ० पा० ।] न सिद्धोरगाः ॥ ५०-१८ ॥

नष्टं स्थावरजङ्गमं विधिकृतं शिष्टं न किञ्चित्तदा
यः शिष्टः स विभुर्विनाशरहितः कूटस्थ एकः पुमान् ।
वेदा विस्मितचेतसोऽप्यथ विभुं तेऽन्तरश्चरा ब्रह्मवत्
सञ्चित्याथ हृदास्तुवन् रहसि ते यं वाङ्मनोगोचरम् ॥ ५०-१९ ॥

वेदा ऊचुः- [यथा - बृहद्वामनपुराणेऽपि भृग्वादीन् प्रति ब्रह्मणो वाक्यानि

षष्टिवर्षसहस्राणि मया तप्तं तपः पुरा ।
नन्दगोपव्रजस्त्रीणां पादरेणूपलब्धये ॥ ५०-१ ॥

तथापि न मया प्राप्तास्तासां वै पादरेणवः ।
श्रुत्वैतद्ब्रह्मणो वाक्यं भृगुः प्राहाथ सादरम् ॥ ५०-२ ॥

भृगुरुवाच

वैष्णवानां पादरजो गृह्यते त्वद्विघैरपि ।
सन्ति ते बहवो लोके वैष्णवा नारदादयः ॥ ५०-३ ॥]

एकस्त्वमात्मा पुरुषः पुराणो नित्योऽव्ययोऽनन्तगुणो निरीहः ।
क्वचित्स्थितः क्वापि गतो न विद्महे तं त्वां परं संशरणं गता वयम् ॥ ५०-२० ॥

तेषां विहाय गोपीनां पादरेणुस्त्वयापि यत् ।
गृह्यते संशयो मेऽत्र को हेतुस्तद्वद प्रभो ॥ ५०-४ ॥

ततो ब्रह्मा भृगुं प्राह चिन्तयित्वा पुरातनीम् ।
कथां सर्वश्रुतीनां च रहस्यं परमाद्भुतम् ॥ ५०-५ ॥

ब्रह्मोवाच

न स्त्रियो व्रजसुन्दर्यः पुत्र ताः श्रुतयः किल ।
नाहं शिवश्च शेषश्च श्रीश्च ताभिः समा क्वचित् ॥ ५०-६ ॥

प्राकृते प्रलये प्राप्ते व्यक्तेऽव्यक्तं गते पुरा ।
शिष्टे ब्रह्मणि चिन्मात्रे कालमायातिगेऽक्षरे ॥ ५०-७ ॥

ब्रह्मानन्दमयो लोको व्यापिवैकुण्ठसञ्ज्ञकः ।
निर्गुणोऽनाद्यनन्तश्च वर्तते केवलेऽक्षर ॥ ५०-८ ॥

अक्षरं ब्रह्म परमं वेदानां स्थानमुत्तमम् ।
तल्लोकवासी तत्रस्थैः स्तुतो वेदैः परात्परः ॥ ५०-९ ॥

चिरं स्तुत्या तु सन्तुष्टः परोक्षं प्राह तान् गिरः ।
तुष्टोऽस्मि ब्रूत भो प्राज्ञा वरं यन्मनसीप्सितम् ॥ ५०-१० ॥

श्रुतय ऊचुः

नारायणादिरूपाणि ज्ञातान्यस्माभिरच्युत ।
सगुणं ब्रह्म सर्वेदं वस्तुबुद्धिर्न तेषु नः ॥ ५०-११ ॥

ब्रह्मेति पठ्यतेऽस्माभिर्यद्रूपं निर्गुणं परम् ।
वाङ्गनोगोचरातीतं ततो न ज्ञायते तु तत् ॥ ५०-१२ ॥

आनन्दमात्रमिति यद्वदन्तीह पुराविदः ।
तद्रूपं दर्शयास्माकं यदि देयो वरो हि नः ॥ ५०-१३ ॥

श्रुत्वैतद्दर्शयामास स्वं लोकं प्रकृतेः परम् ।
केवलानुभवानन्दमात्रमक्षरमव्ययम् ॥ ५०-१४ ॥

यत्र वृन्दावनं नाम वनं कामदुघैर्द्रुमैः ।
मनोरमणीयकुञ्जाढ्यं सर्वर्तुसुखसंयुतम् ॥ ५०-१५ ॥

यत्र गोवर्द्धनो नाम सुनिर्झरदरीयुतः ।
रत्नधातुमयः श्रीमान् सुपक्षिगणसङ्कुलः ॥ ५०-१६ ॥

यत्र निर्मलपानीया कालिन्दी सरितां वरा ।
रत्नबद्धाभयतटी हंसपद्मालिसङ्कुला ॥ ५०-१७ ॥

नानारासरसोन्मत्तं यत्र गोपीकदम्बकम् ।
तत्कदम्बकमध्यस्थ किशोराकृतिरच्युतः ॥ ५०-१८ ॥

दर्शयित्वेति च प्राह व्रत किं करवाणि वः ।
दृष्टो मदीयो लोकोऽयं यतो नास्ति परं वरम् ॥ ५०-१९ ॥

श्रुतय ऊचुः

कन्दर्पकोटिलावण्ये त्वयि दृष्टे मनांसि नः ।
कामिनीभावमासाद्य स्मरक्षुब्धान्यसंशयः ॥ ५०-२० ॥

यथा त्वल्लोकवासिन्यः कामतत्वेन गोपिकाः ।
भजन्ति रमणं मत्वा चिकीर्षाऽज्जनि नस्तथा ॥ ५०-२१ ॥

श्रीभगवानुवाच

दुर्लभो दुर्घटश्चैव युष्माकं सुमनोरथः ।
मयानुमोदिताः सम्यक् सत्यो भवितुमर्हति ॥ ५०-२२ ॥

आगामिनि विरञ्चौ तु जाते सृष्ट्यर्थमुद्यमे ।
कल्पं सारस्वतं प्राप्य व्रजे गोप्यो भविष्यथ ॥ ५०-२३ ॥

पृथिव्यां भारते क्षेत्रे माथुरे मम मण्डले ।
वृन्दावने भविष्यामि प्रेयान् वो रासमण्डले ॥ ५०-२४ ॥

जारधर्मेण सुस्नेहं सुदृढं सर्वतोधिकम् ।
मयि सम्प्राप्य सर्वा हि कृतकृत्या भविष्यथ ॥ ५०-२५ ॥

श्रुत्वैतच्चिन्तयन्तस्ते रूपं भगवतश्चिरम् ।
उक्तं कालं समासाद्य गोप्यो भूत्वा हरिं गताः ॥ ५०-२६ ॥

स्त्रियो वा पुरुषो वापि भर्तृभावेन केशवम् ।
हृदि कृत्वा गतिं यान्ति श्रुतीनां नात्र संशयः ॥ ५०-२७ ॥

तासां पादरजांस्येव नित्ये वृन्दावने भुवि ।
तत्प्राप्य तत्कामनया यान्त्यहो गोपिकागतिम् ॥ ५०-२८ ॥

नन्दगोपव्रजस्त्रीणामतः पादरजो मया ।
वाञ्छितं पुत्रकाः सम्यक् यतस्ताः श्रुतयः किल ॥ ५०-२९ ॥

श्रुत्त्वैतदृषयो वाक्यं ब्रह्मणः परमेष्ठिनः ।
सर्वात्मना प्रसन्नाः स्युः श्रीगोपीजनवल्लभे ॥ ५०-३० ॥

उक्तं च सनत्कुमारसंहितायाम् एकत्रिंशे पटले

श्रीमहादेव उवाच

कश्चिद्वः कुशलं विप्रा ब्रह्मणो विष्णुदेवयोः ।
ध्यानयोगौ तपो वेदाः कुशलाः सन्ति शाश्वताः ॥ ५०-१ ॥

यदर्थमागता यूयं तद्वदामि परिस्फुटम् ।
एवं तु ऋषयो गुह्यं न विख्यातं मया क्वचित् ॥ ५०-२ ॥

इदं च कथ्यते गोप्यं गुह्याद् गुह्यतरं महत् ।
श्रूयतां मुनिशार्दूलाः कृष्णधामसमुत्सुकाः ॥ ५०-३ ॥

वृन्दावनं महापुण्यं सर्वपावनपावनम् ।
सर्वलोकबहिर्भूतं निराधारं परिस्फुरत् ॥ ५०-४ ॥

शुद्धं वस्त्रैश्च सवीतं प्रियं तं सुपरिस्थितम् ।
तत्र सङ्क्रीडते युग्मं ललितादिसखीवृतम् ॥ ५०-५ ॥

पुनश्चोक्तं सनत्कुमारसंहितायां द्वाविंशत्तमे पटले

सदाशिव उवाच

वृन्दावनस्याद्वयाद्यं वृन्दानन्दनमुच्यते ।
द्वितीये करणैर्जातं मथुरामण्डलं परम् ॥ ५०-६ ॥

तत्समो नास्ति तीर्थोऽन्यो न चेद्वैकुण्ठ एव च ।
किमन्यत्तीर्थगणना अन्धकूपसमा मुने ॥ ५०-७ ॥

मथुरामण्डलं रम्यं सर्वतीर्थोत्तमोत्तमम् ।
तत्र वृन्दावनं रम्यं पञ्चयोजनविस्तृतम् ॥ ५०-८ ॥

प्राणत्यागं च मर्त्यास्तत्वज्ञास्तत्वदर्शिनः ।
कुर्वन्ति ये वने पुण्यं प्राप्नुवन्ति पदं शुभम् ॥ ५०-९ ॥

उत्तरे दक्षिणे भागे योजनद्वयमुच्यते ।
यत्र स्मरणमात्रेण सिद्धिर्नून भवेद्ध्रुवम् ॥ ५०-१० ॥

भूमौ च जीवसिद्ध्यर्थं रचितं वृन्दावनस्थलम् ।
अन्यभूमौ न सहसा यथा वृन्दावने वरे ॥ ५०-११ ॥

जायते तत्पदप्राप्तिरचिरेण सुखेन च ।
सर्वं सन्त्यज्य गार्हस्थं सर्वतीर्थगणं तथा ॥ ५०-१२ ॥

गुह्याद्गुह्यतरं [वाराहसंहिताया ।] गुह्यं परमानन्दकारणम् ।
अत्यद्भुतरहस्यानां रहस्यं परमं शिवम् ॥ ५०-१३ ॥

दुर्लभानां च परमं दुर्लभं सर्वमोहनम् ।
सर्वशक्तिमयं देवि सर्वशास्त्रेषु गोपितम् ॥ ५०-१४ ॥

सात्वतं स्थानमूर्द्धन्यं विष्णोरेकान्तवल्लभम् ।
नित्यं वृन्दावनं नाम ब्रह्माण्डोपरि संस्थितम् ॥ ५०-१५ ॥

पूर्णब्रह्मसुखैश्वर्यं नित्यमानन्दमव्ययम् ।
वैकुण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि ॥ ५०-१६ ॥

गोलोकैश्वर्यंयत्किञ्चिद्गोकुले तत्प्रतिष्ठितम् ।
वैकुण्ठवैभवं यच्च द्वारकायां प्रकाशितम् ॥ ५०-१७ ॥

यद्ब्रह्मपरमैश्वर्यं नित्यवृन्दावनाश्रयम् ।
तद्देवि माथुरं मध्ये वृन्दावनविशेषतः ॥ ५०-१८ ॥

स्त्री लक्ष्मीः पुरुषो विष्णुस्तदंशांशौ बभूवतुः ।
तत्र किशोरवयसा नित्यमानन्द विग्रहः ॥ ५०-१९ ॥

अनन्तकोटिब्रह्माण्डे अनन्तत्रिगुणाश्रये ।
तत्कलाकोटिकोट्यंशाः ब्रह्मविष्णुमहेश्वराः ॥ ५०-२० ॥

उक्तं च गोतमीतन्त्रे

तत्सर्वोपरि गोलोकस्तद्गोलोकोपरि स्वयम् ।
विहरेत्परमानन्दो गोविन्दोतुलनायकः ॥ ५०-२१ ॥

उक्तं च वाराहसंहितायाम्

दिव्यवनेषु यद्रूपं नित्यं वृन्दावनेश्वरम् ॥ ५०-२२ ॥

व्रजेन्द्रं सात्वतैश्वर्यं व्रजप्राणैकवल्लभम् ॥ ५०-२३ ॥

परं धामपरं रूपं द्विभुजं गोकुलेश्वरम् ।
वृन्दावनेश्वरं ध्यायेन्निर्गुणस्यैककारणम् ॥ ५०-२४ ॥

नखेन्दुकिरणश्रेणीपूर्णब्रह्मैककारणम् ।
केचिद्वदन्ति तद्रश्मिं ब्रह्म चिद्रूपमव्ययम् ॥ ५०-२५ ॥

योगीन्द्रैरपि दुष्प्राप्यं सत्यं पुंसामगोचरम् ।
यदंशांशं महाविष्णुं प्रवदन्ति मनीषिणः ॥ ५०-२६ ॥

उक्तं च सनत्कुमारसंहितायां पञ्चत्रिंशत्तमे पटले

सदाशिव उवाच

नन्दस्य गेहे सञ्जातं कृणांशं च तुरीयकम् ।
वसुदेवेन यद्दृष्टमाराधितोऽन्यसञ्ज्ञया ॥ ५०-२७ ॥

यथा चतुर्भुजो विष्णुस्तथा कोऽप्यपरः पुमान् ।
सोऽपि चतुर्भुजध्येयः इति मोहेन मोहितः ॥ ५०-२८ ॥

द्रोणो नन्दो महाकीर्तिर्यशोदा सा यशस्विनी ।
तयोर्योगे च सञ्जातः कृष्णांशः कृष्णरूपधृक् [अत एव कृष्णः पशुपाङ्गजः गोपीसुतश्चेति कथ्यते ।] ॥ ५०-२९ ॥

चक्रतुस्तन्महारासं मुनिविस्मयकारकम् ।
ब्रह्मविष्णुमहेशाद्यैर्दुर्विज्ञं देवतागणैः ॥ ५०-३० ॥ ५०-इति ॥ ५०-]

कर्माणि तानीह गुणाश्च ते प्रभो
नष्टानि [प्रभोऽनन्तानि इ० पा० ।] सर्वाण्यधुना न सन्ति ।
क्वचिद्धतानि [क्वचिद्गतानि इ० पा० ।] क्व गता हि जन्तवो
ये यज्ञभुग्ब्रह्मपुरोगमास्ते ॥ ५०-२१ ॥

न सन्ति ते क्वापि पुरन्दरादयो
येऽस्मत्प्रदत्तानि हवींष्यदन् क्रतौ ।
कामान् मनोज्ञान् हि ददत्यनारतं
नाशं गतास्तेऽपि न विद्महे क्वचित् ॥ ५०-२२ ॥

ब्रह्मेशनारायणनामधेयः
करोषि सृष्टिं हरणं च पालनम् ।
स्वयं गुणातीतगुणैस्त्रिभिस्त्वं
मनुष्यदैत्यान् विबुधान् विधासि ॥ ५०-२३ ॥

नमः कूटस्थरूपाय नमोऽनन्ताय वेधसे ।
व्याप्यव्यापकरूपाय वाच्यवाचकरूपिणे ॥ ५०-२४ ॥

नमः शिवाय शान्ताय निर्गुणाय गुणात्मने ।
सदसद्व्यतिरिक्ताय [सदसद्व्यक्तिरूपाय इ० पा० ।] सदसद्वयक्तिहेतवे ।
इच्छाप्रवर्त्तितजगद्व्यापाराय [इक्षा इ० पा० ।] रते नमः ॥ ५०-२५ ॥

त्वय्युदितं त्वयि लीनं जगदेतद्धेम्नि कुण्डलं यद्वत् ।
आदावन्ते यत्सत्तत्सन्मध्येऽप्यसत्तया सद्वत् ॥ ५०-२६ ॥

तस्मिंस्त्वयि वचनानामेषा रचना विभाति नो नाथ ।
दीपविधिर्दिवसेश्वरबिम्बालोकाय निष्फलो यद्वत् ॥ ५०-२७ ॥

तस्मात्प्रसीद भगवन् नोऽनुग्रहमुररीकुरु ।
त्वदुद्भवा वयं वेदास्त्वन्निष्ठास्त्वां कथं स्तुमः ॥ ५०-२८ ॥

स्तुवन्त एवं भगवन्तमव्ययं
स्थिता हि वेदाः [वेदश्चकितार्द्रमानसाः इ० पा० ।] स्थगितार्द्रमानसाः ।
महालये प्राकृतसञ्ज्ञके हि ते
बभूव गोर्व्योम्नि तदा मनोहरा ॥ ५०-२९ ॥

शृणुध्वं विभोर्वाक्यमेतन्मनोज्ञं
वृणुध्वं वरं मत्तु वेदाः प्रसन्नात् ।
प्रसन्ने परे मय्यलभ्यं किमस्ति
न चापीह लोके परत्रापि शश्वत् ॥ ५०-३० ॥

वेदा ऊचुः

वरः कः [कोऽपरो इ० पा० ।] परो योऽस्माभिरीड्यो
न चैतत्परं किञ्चिदस्तीह लोके ।
यदस्तीह किञ्चित्परं तत्त्वमेव
प्रसन्नोऽसि चेद्दर्शनं नो विधेहि ॥ ५०-३१ ॥

अस्माभिर्वर्ण्यते नित्यं तव रूपाण्यनेकशः ।
ज्ञातान्यपि विशेषेण दृष्टानि बहुशोऽपि हि ॥ ५०-३२ ॥

आविर्भवन्ति लीयन्ते निर्गुणे त्वयि केवले ।
निर्गुणातीतमात्मानं त्वदीयं दर्शयाद्यतः ॥ ५०-३३ ॥

एवं प्रार्थयमानेषु वेदेषु बहुधा तदा ।
आविर्बभूव सहसा लीला गोलोकविश्रुता ॥ ५०-३४ ॥

प्रादुर्बभूवातिमनोहरा सरित्
स्फुरन्महारत्नतटाच्छवालुका [अम्बुबालुका इ० पा० ।] ।
सुवर्णपङ्केरुहशोभमाना
गभीरपीयूषजलोर्मिमालिनी [जवोमिम् इ० पा० ।] ॥ ५०-३५ ॥

वृन्दावनं तद्वरवृक्षवृन्दै-
र्युत सचिन्तामणिकल्पपादपैः ।
शालैस्तमालैस्तरलैः कदम्बै-
र्जम्ब्वाम्रप्लक्षैर्वटपिप्लाद्यैः ॥ ५०-३६ ॥

कपित्थबिल्वामलनालिकेरैरश्वत्थपूगैः कदलैर्वनैश्च ।
युतं मनोहारिभिरन्यवृक्षैरशोकपाटीरसुपारिजातैः ॥ ५०-३७ ॥

मनोज्ञकुञ्जैर्बहुभिः परीतं गोगोपगोपीनिलयैरुपेतम् ।
आनन्दसन्दोहमिवोद्गिरद्भिर्मरुद्भिरानर्त्तितपल्लवद्रुमम् ॥ ५०-३८ ॥

प्रादुर्भूतं वनं तत्र नानापक्षिगणाकुलम् ।
नातिदूरे वर्तमानो गोवर्धननगोत्तमः ॥ ५०-३९ ॥

सर्वर्तुगुणसम्पन्नो नानाधातुविचित्रितः ।
स्फुरत्सुवर्णशिखरः सुधानिर्झरशीतलः ।
वीक्ष्य तं विस्मयं प्राप्ताः स्वप्नोऽयं वा मनोभ्रमः ॥ ५०-४० ॥

पारावताः कलरवाः कलराजहंसाः
कारण्डवा रथवदाह्वयकोकिलाद्याः ।
सारङ्गबर्हणमनोहरपक्षिपूगास्-
तस्थर्वने हरिगणा इव तं स्तुवन्तः ॥ ५०-४१ ॥

घनश्यामरूपं प्रफुल्लाब्जनेत्रं किरीटाङ्गदैरुल्लसद्भ्रूकपोलम् [किरीटाङ्गदाढ्यं लस० इति पाठः । ] ।
सुनासं सुवक्त्रं रणद्वेणुहस्तं सुवर्हावतंसं तमापीतवस्त्रम् ॥ ५०-४२ ॥

तमानन्दरूपे वने नन्दसूनुं तदानन्दरूपं प्रभुं तेऽभ्यपश्यन् ।
महावल्लवीयूथमध्ये चरन्तं त्रिभङ्गाकृतिर्भ्राजमानस्वरूपम् ॥ ५०-४३ ॥

कोट्यर्कप्रभया विराजिततनुं कोटीन्दुदर्पापहं कोटिस्फूर्जदनङ्गरङ्गवपुषं कोट्यब्धिगाम्भीर्यकम् ।
तं लावण्यनिधिं विलोक्य सहसा पार्श्वस्थया राधया
जुष्टं गोपिकया निरन्तरमतिप्रेम्णाथ ते विस्मितः ॥ ५०-४४ ॥

काचिद्गोपी सचमरकरा बीजयन्ती स्वकान्तं
काचिच्चाग्रे करयुगपुटं कृत्य तस्थौ निरीह ।
काचित् स्थाल्यां मणिगणमयीं कृत्य दीपावलिं त्तां राधाकृष्णप्रतिमुखगता कुर्वती दीपकृत्यम् ॥ ५०-४५ ॥

काचित्कृष्णमुखं निरीक्ष्य सुतरां चित्रार्पितेवाभवत्
काचित्कृष्णकरं निगृह्य हृदये संस्थाप्य तस्थौ मुदा ।
काच्चिच्चाङ्घ्रियुगं निगृह्य सदयं स्वेमूर्ध्न्यधास्यन्मुदा
काचिन्नृत्यति कृष्णकीर्तनपरा धृत्वा करे तालिकाम् ॥ ५०-४६ ॥

एवं रासरसोन्मत्तं गोपिकायूथमध्यगम् ।
वीक्ष्य वृन्दावने कृष्णं प्रणेमुः श्रुतयः समम् ॥ ५०-४७ ॥

ततः प्रसन्नस्ता आह ब्रूत मत्तो वरं शुभम् ।
भवद्भिर्दृष्टमित्येव धाम गोलोकशब्दितम् ॥ ५०-४८ ॥

श्रुतय ऊचुः

न वृणीमो वरं किञ्चित्कालग्रस्तं विनश्वरम् ।
यदि दास्यति चेन्नाथ तदा नोऽनुग्रहं कुरु ॥ ५०-४९ ॥

विलसन्ति यथा गोप्यस्त्वत्प्रिया भवता सह ।
जायते च तथास्माकं रिरंसाकुलितं मनः ॥ ५०-५० ॥

सम्पादय तथा काममस्माकं हृदयस्थितम् ।
कोटिकन्दर्पसुभगं वीक्ष्य स्थातुं न शक्नुमः ॥ ५०-५१ ॥

निशम्य वेदगदितं किशोराकृतिरच्युतः ।
शृण्वन्तीनां च गोपीनां प्राह प्रहसिताननः ॥ ५०-५२ ॥

कामोऽयं निगमाः सत्यं खपुष्पमिव दुर्लभः ।
न प्राप्तुं शक्नुयात् कोऽपि स्वयं पुरुषबुद्धिभाक् ॥ ५०-५३ ॥

प्रियारूपं स्वमात्मानं जानन्मां प्रियमित्यथ ।
अत्युग्रविरहज्वालाज्वलिताकृतिरेति माम् ॥ ५०-५४ ॥

नाद्यावधि ममैवायं गोलोकसञ्ज्ञितः ।
प्राप्तः केनापि निगमा मदुक्तेनापि वर्त्मना ॥ ५०-५५ ॥

तथापि वरदानार्थं प्रोक्ताः स्थ वरदेन मे ।
तदपि स्यान्न मे वाक्यं व्यलीकं कर्हिचित्क्वचित् ॥ ५०-५६ ॥

यदा चतुर्मुखो ब्रह्मा पद्मकल्पे भविष्यति ।
तत्सृष्टलोकमध्ये तु माथुरं मण्डलं शुभम् ॥ ५०-५७ ॥

तत्र वृन्दावनं दिव्यं भविष्यति रसाश्रयम् ।
तत्र गोलोकलीलेयं सर्वथावतरिष्यति ॥ ५०-५८ ॥

मूलरूपं च मे तत्र स्वप्रियाभिरुदेष्यति ।
भवन्तोऽपि विशेषेण पुरुषत्वं विहाय च ॥ ५०-५९ ॥

कामिनीभावमापन्ना भविष्यथ [वराङ्गनाः इ० पा० ।] व्रजाङ्गनाः ।
तत्रापि मुरलीनादश्रवणानन्दमोहिताः ॥ ५०-६० ॥

अतिक्रम्य स्वमर्यादां रासमण्डलमागताः ।
भविष्यथ तदा यूयं पूर्णकामा न संशयः ॥ ५०-६१ ॥

इत्युक्त्वान्तर्दधे साक्षात्किशोराकृतिरच्युतः ।
ततः कतिपये काले पद्मकल्पे चतुर्मुखे ॥ ५०-६२ ॥

जाते तस्य व्यतिक्रान्ते परार्द्ध प्रथमे ततः ।
द्वितीयस्यापि तस्यैव मध्ये लीलेयेमागता ॥ ५०-६३ ॥

द्विषट्सहस्रभेदेन स्वात्मानं च विभज्य ते ।
कामियीभावमापन्ना रासमण्डलमध्यगाः ॥ ५०-६४ ॥

कृष्णप्रियाप्रसङ्गेन कृतकृत्या बभूविरे ।
इति ते सर्वमाख्यातं यत्पृष्टोहं सुलोचने ॥ ५०-६५ ॥

कूटस्थहृदयं साक्षात् गोलोक इति विश्रुतः ।
तत्र क्रीडति गोपीभिः कामांशः पुरुषोत्तमः ॥ ५०-६६ ॥

आविर्भूतः सदैवायं कूटस्थे परमात्मनि ।
तिरोहितं तु चैतन्यं वर्त्तसे पुरुषोत्तमे [पुरुषोत्तमः इ० पा० ।] ॥ ५०-६७ ॥

रसलीलारसाम्भोधेः पारं गन्तुङ्क ईश्वरः ।
दिङ्मात्रदर्शनं विद्धि यन्मया वर्णितं शिवे ॥ ५०-६८ ॥

इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे पञ्चाशत्तमं पटलम् ॥ ५०-५० ॥