४९

अथ एकोनपञ्चाशत्तमम् पटलम्

शिव उवाच

पृथिव्यादीनि भूतानि ब्रह्मणि प्रविलाप्य च ।
क्रमेणोत्पाद्य च पुनः पवित्राणि विभावयेत् ॥ ४९-१ ॥

भूतशुद्धिं विधायेत्थं प्राणान् संस्थापयेत्पुनः ।
पञ्चाशन्मातृका न्यस्य न्यसेत् ऋष्यादिकं ततः ॥ ४९-२ ॥

मूलमन्त्राक्षरन्यासं ततः कृत्वा समाहितः ।
ध्यायेत्स्वहृदयाम्भोजे कृष्णं कमललोचनम् ॥ ४९-३ ॥

दिव्यरत्नकिरीटं तु मूर्ध्नि सञ्चिन्तयेत् प्रिये ।
अथवोष्णीषकं ध्यायेद्दाडिमीकुसुमप्रभम् ॥ ४९-४ ॥

अनर्घ्यरत्नविलसन्मुक्ताकुण्डलमण्डितम् ।
उष्णीषबद्धरत्नेन वर्त्तुलेनातिभास्वता ॥ ४९-५ ॥

धिक्कुर्वन्तमिव प्रोद्यत्पूर्णचन्द्रस्य मण्डलम् ।
दिव्यमुक्ताफलस्रजा वेष्टितोष्णीषसुन्दरम् ॥ ४९-६ ॥

क्षीरसागरकल्लोलशोभातिशयसुन्दरम् ।
न्यस्तरत्नप्रभोद्भासि वसानममलाम्बरम् ॥ ४९-७ ॥

प्रान्तपल्लवविभ्राजल्ँलम्बिमुक्तालिभास्वरम् ।
दधानमुत्तरं वासो नवीनजलदप्रभम् ॥ ४९-८ ॥

वलयाङ्गदकेयूरभ्राजमानकरद्वयम् ।
वैडूर्यमुक्तामाणिक्यहारभारविराजितम् ॥ ४९-९ ॥

दिव्याङ्गरागसौरभ्याघ्राणमत्तमधुव्रतान् ।
लीलारविन्दभ्रमणैर्वारयन्तं मुहुर्मुहुः ॥ ४९-१० ॥

हीरालिदशनज्योत्स्नां विकिरन्तं स्मिताननात् ।
रसालभृकुटिलीला [भृकुटीभाव इ० पाठः ।] विह्वलीकृतवल्लभम् ॥ ४९-११ ॥

नीलकुञ्चितसुस्निग्धालकशोभिमुखाम्बुजम् ।
पाटीरतिलकोद्भासिभालस्थलमनोहरम् ॥ ४९-१२ ॥

ताम्बूलपूर्णवदनं चाम्पेयद्युतिविग्रहम् ।
सदाषोडशवर्षीयं ध्यायेत्कृष्णं [वार्षिक्यम् इ० पाठः ।] हृदाम्बुजे ॥ ४९-१३ ॥

वामभागगतां तस्य स्वामिनीं संस्मरेत् प्रिये ।
कुञ्चितानङ्गकोदण्डभ्रूलताबिभ्रमश्रियम् ॥ ४९-१४ ॥

रसानन्दाङ्कुरौभूतदशनावलिभासुराम् ।
मीनाब्जखञ्जरीटोग्रगर्वनिर्नाशिलोचनाम् ॥ ४९-१५ ॥

तिलसूनलसन्नासानटन्मौक्तिकभूषणाम् ।
प्रान्तमुक्तावलिभ्राजद्भालभूषणभूषित्ताम् ॥ ४९-१६ ॥

मुखेन्दुमण्डलप्रोद्यत्कस्तूरीतिलकाङ्किताम् ।
कपोलपालिविलुठन्मुक्तादाममनोहराम् [कपोलावलि इ० पाठः ।] ॥ ४९-१७ ॥

किंशुकाभांशुकद्युत्या प्रसर्पन्त्याध ऊर्ध्वतः ।
सिन्दूरपूरितमिव कुर्वाणां वियदन्तरम् ॥ ४९-१८ ॥

सुवर्णरचनाचञ्चन्मुक्तारत्नविचित्रिताम् ।
दधानां नीलजलदश्यामलां कुचपण्ट्टिकाम् ॥ ४९-१९ ॥

प्रान्तलम्बितमुक्तादिच्छटाविच्छुरितावनि ।
नीलचण्डातक चारु दधानां स्वर्णसूत्रवत् ॥ ४९-२० ॥

सुवर्णमुक्तामणिहारशोभां ग्रैवेयविद्योतितकम्बुकण्ठीम् ।
माणिक्यमञ्जीररणत्पदाब्जां श्रीस्वामिनीं चेतसि चिन्तयामि ॥ ४९-२१ ॥

ततस्तौ मानसैर्दिव्यैरुपचारैः प्रपूजयेत् ॥ ४९-२२ ॥

दत्त्वा नैवेद्यमीशानिवै श्वदेवं समाचरेत् ।
मूलाधारे महाकुण्डे चतुरस्रं विचिन्त्य च ॥ ४९-२३ ॥

चतुर्भिरात्मभिः कॢप्तं संविदग्निसमुज्ज्वलम् ।
जुहुयादाहुतीस्तत्र कामक्रोधादिकाः प्रिये ॥ ४९-२४ ॥

कामः क्रोधश्च लोभश्च मोहश्च मदमत्सरौ ।
अधर्मानृतमज्ञानं जुहुयाज्ज्ञानपावके ॥ ४९-२५ ॥

दग्धकामादिकलुषमात्मानं वासनात्मकम् ।
ध्यात्वा कृतक्षणः किञ्चिद्दत्वाचमनमेतयोः ॥ ४९-२६ ॥

भुञ्जानौ मनसा ध्यात्वा दत्त्वा चैव पुनर्जलम् ।
ताम्बूलवीटिकां दत्त्वा यथाशक्ति जपेद्धिया ॥ ४९-२७ ॥

अन्तःपूजां समाप्यैवं बहिःपूजां समारभेत् ।
पूजायन्त्रं लिखेत् पट्टे सौवर्णे राजते च वा ॥ ४९-२८ ॥

ताम्रे चापि महेशानि श्रीपर्णीचन्दनोद्भवे ।
षट्कोणमादौ निर्माय शक्तिं निर्भिद्य वह्निना ॥ ४९-२९ ॥

अष्टकोणं ततः कुर्यात् तत्प्रकारं शृणुष्व मे ।
चतुरस्रं लिखेदादौ ऋजुरेखं मनोहरम् ॥ ४९-३० ॥

पूर्वरेखामूर्ध्वभागाद् रेखामाकृष्य पार्वति ।
मध्यभागान्महादेवि सन्धिभेदक्रमेण च ॥ ४९-३१ ॥

पूर्वरेखामध्यभागात् रेखामाकृष्य पार्वति ।
मध्यभागान्महादेवि सन्धिभेदक्रमेण च ।
दक्षरेखां विनिर्भिद्य बहिः किञ्चित्प्रसारयेत् ।
दक्षरेखामूर्ध्वगतामाकृष्य परमेश्वरि ॥ ४९-३२ ॥

प्रतीचिमानयेदाशां पूर्ववद् बहिरानयेत् ।
तामाकृष्योत्तरगतरेखां मूर्द्धानमानयेत् ॥ ४९-३३ ॥

प्राग्वद्बहिः प्रसृमरां तामाकृष्य सुलोचने ।
पूर्वरेखोपरि स्थाप्य अग्रदेशेन मेलयेत् ॥ ४९-३४ ॥

अष्टकोणमिदं कृत्वा वेष्टयेद् वृत्तरेखया ।
तल्लग्नमूलपत्रञ्च लिखेद् द्वादशयन्त्रकम् ॥ ४९-३५ ॥

तस्योपरि लिखेद् देवि वृत्तं पूर्णेन्दुसन्निभम् ।
चतुरस्रत्रयं कुर्याच्चतुर्द्वार मनोहरम् ॥ ४९-३६ ॥

पूजापीठं समारोप्य पूजयेच्च ततः परम् ।
सामान्यविधिना देवि सामान्यार्घं प्रकल्पयेत् ॥ ४९-३७ ॥

स्ववामभागे देवेशि जलेन चतुरस्रकम् ।
कृत्वाभ्यर्च्याक्षतैरक्तैर्गन्धचन्दनलालितैः ॥ ४९-३८ ॥

तत्राधारं प्रतिष्ठाप्य पूजयेद्वह्निमण्डलम् ।
शङ्खं वान्यतरत्पात्रं तत्र संस्थाप्य सुन्दरि ॥ ४९-३९ ॥

कलाभिः सहितं तत्र पूजयेत्सूर्यमण्डलम् ।
तत्र शुद्धोदकं पूर्य चन्द्रगन्धादिमिश्रितम् ॥ ४९-४० ॥

तत्र तीर्थान्यथावाह्य भित्वा सूर्यस्य मण्डलम् ।
अभिमन्त्र्याष्टधा मूलमन्त्रेण कुसुमादिभिः ॥ ४९-४१ ॥

सुरभ्या चामृतीकृत्य शङ्खमत्स्यौ प्रदर्शयेत् ।
अनेनैव विधानेन पाद्यमर्घं प्रकल्पयेत् ॥ ४९-४२ ॥

कांस्यजं मधुपर्कार्थं तथैवाचमनीयकम् ।
एवं पात्राणि संस्कृत्य पीठपूजां समारभेत् ॥ ४९-४३ ॥

मण्डूकाधारशक्ती च कूर्मोऽनन्तवराहकौ ।
पृथिवी च जलं तेजो वायुराकाश एव च ॥ ४९-४४ ॥

अहङ्कारो महत्तत्त्वं प्रकृतिः पुरुषस्तथा ।
रत्नद्वीपो ब्रह्मनालः कल्पद्रुमवनं ततः ॥ ४९-४५ ॥

मन्दारोद्यानमीशानि पारिजातवनं ततः ।
हरिचन्दनमुद्यानं वैडूर्यद्रुमवाटिका ॥ ४९-४६ ॥

दिव्यमुक्तावनं चैव प्रवालद्रुमवाटिका ।
सूर्यकान्तद्रुमोद्यानं पद्मरागवनं ततः ॥ ४९-४७ ॥

महापद्मवनं चैव मणिगृहमनुत्तमम् ।
चतुःषष्टिमणिस्तम्भमण्डपस्तु ततः परम् ॥ ४९-४८ ॥

रत्नसिंहासनं देवि तस्य पादचतुष्टये ।
धर्मो ज्ञानं च वैराग्यमैश्वर्यं वह्निदिक् क्रमात् ॥ ४९-४९ ॥

एवं पीठार्चनं कृत्वा बध्वावाहनमुद्रिकाम् ।
स्वामिनीसहितं कृष्णं ध्यात्वायाकुलचेतसा ॥ ४९-५० ॥

हृद्यागतमिति ध्यायन् सामरस्यमयं महः ।
नेत्रद्वारेण कुसुमं जलाक्षतसमन्वितम् ॥ ४९-५१ ॥

यन्त्रराजोपरि क्षिप्त्वा प्राणन्यासं समाचरेत् ।
आवाहनादिकां मुद्रां दर्शयेदथ पार्वति ॥ ४९-५२ ॥

पाद्यपात्रोदकेनैव पाद्यं दद्याद्विचक्षणः ।
अर्ध्यपात्रोदकेनैव दद्यादर्ध्यं च मूर्द्धनि ॥ ४९-५३ ॥

मधुपर्कं ततः कृत्वा दद्यादाचमनीयकम् ।
पुष्पतैलं ततो दत्वा दर्शयेन्मणिपादुकाम् ॥ ४९-५४ ॥

स्नानं दिव्यजलैर्देवि वासः खचितरत्नकम् ।
भूषणादि समर्प्याथ दिव्यगन्धार्पर्णं ततः ॥ ४९-५५ ॥

चम्पकैः करवीरैश्च केतकैर्बकुलैरपि ।
पङ्कजैर्जातिकुसुमैर्मालतीमोगरैरपि ॥ ४९-५६ ॥

पूजयेद्यन्त्रराजस्थं धूपं दद्याद्यथाविधि ।
निवेदयेत्ततो दीपमज्ञानध्वान्तनाशनम् ॥ ४९-५७ ॥

दक्षिणे स्थापयेद्दीपं तैलदीपस्तु वामतः ।
तयोरेकतरेणापि दीपं दद्याद् यथारुचि ॥ ४९-५८ ॥

वामभागे तु देवेशि त्रिविधानर्चयेद् गुरून् ।
करुणानन्दनायश्च तरुणानन्द एव च ॥ ४९-५९ ॥

भुवनानन्दनाथश्च त्रीनेतानूर्ध्वतो यजेत् ।
द्वितीयायां तथा पङ्क्तौ तदधः परमेश्वरि ॥ ४९-६० ॥

मदनं मोहनं चैव मन्द्रं चैव यजेत्ततः ।
मन्दरं शङ्करं ताम्रं स्वगुरुं तद्गुरुं तथा ॥ ४९-६१ ॥

षट्गुरूश्च [तद्गुरूंश्च इ० पाठः ।] महेशानि तदधः परिपूजयेत् ।
साध्यसाधकयोर्मध्यदेशः प्राचीति गद्यते ॥ ४९-६२ ॥

कॢप्तप्राचीं समारभ्य सर्वत्र परिपूजयेत् ।
षट्कोणेष्वर्चयेद्देवि सुन्दरीमिन्दिरां तथा ॥ ४९-६३ ॥

आह्लादिनीमथानन्दामरुणां करुणावतीम् ।
श्यामानङ्गानङ्गरेखा सुरङ्गा व्यञ्जुली रतिः ॥ ४९-६४ ॥

बलाकी केसराङ्गी च वसुकोणे प्रपूजयेत् ।
ततो द्वादशपत्रेषु पूजनं प्रवदामि ते ॥ ४९-६५ ॥

चत्त्वारिंशद् यूथमुख्यास्तिस्रस्तिस्र उदाहृताः ।
प्रतिपत्रं प्रपूज्ये द्वे स्वामिनीनित्यपार्श्वगे ॥ ४९-६६ ॥

मालती माधवी नन्दा सुभद्रा रुचिरानना ।
पुष्पावती रत्नरेखा पद्मवृन्दा विलासिनी ॥ ४९-६७ ॥

मन्दारमधुरा माध्वी मञ्जनादा कलावती ।
शृङ्गारलतिका वृन्दा प्रमोदा मधुमालती ॥ ४९-६८ ॥

किशोरी कुसुमानन्दा रसकुल्या प्रभावती ।
आशावती विशाला च निस्तुला नीलकुन्तला ॥ ४९-६९ ॥

विद्युद्वर्णा निम्ननाभिः विरजस्का विहारिणी ।
रागिणी रङ्गलतिका तथा रत्नावतीति च ।
पद्मावती पद्मगर्भा पद्मिनी च पिकस्वरा ॥ ४९-७० ॥

बहिर्वृत्ते च कूटस्थ [अक्षरस्वरूपवर्णनमिदम् ।] व्यापकं नित्यमव्ययम् ।
अखण्डं सच्चिदानन्दं पूजयेत्परमेश्वरि ॥ ४९-७१ ॥

कालमेघालिरुचिरं स्फुरन्माणिक्यकुण्डलम् ।
दिव्यरत्नकिरीटेन ज्वालयेव हविर्भुजम् ॥ ४९-७२ ॥

मुक्ताहारं चतुर्बाहुमुद्यत्सूर्यारुणाम्बरम् ।
कोटिचन्द्रांशुसन्दोहप्रकाशपरमोज्ज्वलम् ॥ ४९-७३ ॥

यदुन्मेषनिमेषाभ्यां ब्रह्माण्डविलोदयौ ।
जगद्भ्रमस्याधिष्ठानं रजतस्येव शुक्तिका ॥ ४९-७४ ॥

अध्यारोपापवादाभ्यां विदुषां ज्ञानगोचरम् ।
यत्सत्तयाप्यसद्भाति नामरूपविकल्पितम् ॥ ४९-७५ ॥

उपेतं रमया पञ्चवार्षिक्या सप्तवार्षिकम् ।
नवरत्नविचित्रश्रीमालयालङ्कृतं परम् ॥ ४९-७६ ॥

तद्बहिश्चतुरस्रे च प्रतिद्वारं सुरेश्वरि ।
पुरुषं प्रकृतिं कालं यज्ञं पूर्वादिवामतः ॥ ४९-७७ ॥

तद्बहिश्चतुरस्रे च वासुदेवादिकान् यजेत् ।
किरीटकुण्डलधरान् जलदश्यामलाकृतीन् ॥ ४९-७८ ॥

शङ्खचक्रगदापद्मभ्राजद् भुजचतुष्टयान् ।
तद्बहिश्चतुरस्रेऽपि पूजयेच्च ततः परम् ॥ ४९-७९ ॥

अग्नेरीशानपर्यन्तं पञ्चभूतार्चनं क्रमात् ।
ईशानाद्वायुपर्यन्तं तन्मात्राः परिपूजयेत् ॥ ४९-८० ॥

नै-ऋतेर्वायुपर्यन्तं पञ्चकर्मेन्द्रियाण्यपि ।
नै-ऋतादग्निपर्यन्तं पूजयेत् ज्ञानपञ्चकम् ॥ ४९-८१ ॥

तद्बहिर्द्वारदेशेषु पूर्वादिक्रमतोर्चयेत् ।
इन्द्रमग्निं यमं चैव नैर्-ऋति च जलेश्वरम् ॥ ४९-८२ ॥

पवनं धनदं रुद्रमूर्ध्वं ब्रह्माणमर्चयेत् ।
अधस्ताच्च तथानन्त तत्रैवास्त्राणि वाहनैः ॥ ४९-८३ ॥

पूजयित्वा ततो देवि ततो नैवेद्यमर्पयेत् ।
भक्ष्यभोज्यान्नभरितं साधारं पात्रमुत्तमम् ॥ ४९-८४ ॥

सामान्यसलिलैः प्रोक्ष्य दत्त्वा पुष्पाक्षतादिकम् ।
ततो धेन्वामृतीकृत्य मूलमन्त्रं ततोऽष्टधा ॥ ४९-८५ ॥

पञ्चप्राणाहुतीर्दद्यात् ग्रासमुद्रां च दर्शयन् ।
जलपात्रं निवेद्याथ बिभृयादन्तरे पटम् ॥ ४९-८६ ॥

पौराणैः प्राकृतैः स्तोत्रैः स्तुत्वा भुञ्जानमीश्वरम् ।
ध्यात्वा तृप्तमिति ज्ञात्वा दूरीकृत्य पटावृत्तिम् ॥ ४९-८७ ॥

दत्त्वाचमनमीशानि गन्धचूर्णैरनेकधा ।
स्नेहापनोदनं कृत्वा हस्तयोः परमेशितुः ॥ ४९-८८ ॥

गण्डूषान् कारयेत्पश्चात् कर्पूरैर्मुखशोधनम् ।
हस्तपादौ च प्रक्षाल्य हस्तवासस्ततोर्चयेत् ॥ ४९-८९ ॥

ततः प्रसन्नपूजान्ते लबिङ्गैलेन्दुमिश्रिताम् ।
पूगाश्मचूर्कनिर्भिन्नां ददेत्ताम्बूलबीटिकाम् ॥ ४९-९० ॥

सम्प्रार्थ्य पादुकायुग्मं निधाय पुरतः शिवे ।
पुनः सिंहासनगतं दीपैर्नीराजयेत्ततः ॥ ४९-९१ ॥

ईषत्पक्वसुपिष्टेन कुर्याद्वेदाङ्गुलोन्नतान् ।
चतुरस्रान् शुभाकारान् नव सप्ताथ पञ्च वा ॥ ४९-९२ ॥

ततश्छत्रं चामरं च मायूरं व्यञ्जनं तथा ।
दर्पणं च ततो दत्वा प्रदक्षिणनमस्क्रियाम् ॥ ४९-९३ ॥

गीत नृत्यादिकं कृत्वा प्रीणयेत्परमेश्वरम् ।
इति ते कथितो देवि पूजाया विधिरुत्तमः [इति ते कथिता देवि पूजाया विधिरुत्तमा इ० पा० ।] ॥ ४९-९४ ॥

मनः प्रसादकाले तु कुर्यात्पूजां समाहितः ।
न कालनियमश्चात्र विद्यते परमेश्वरि ॥ ४९-९५ ॥

इत्येतत् कथितं देवि त्वया पृष्टं सुलोचने ।
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ॥ ४९-९६ ॥

इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे एकोनपञ्चाशत्तमं पटलम् ॥ ४९-४९ ॥