अथ अष्टचत्वारिंशं पटलम्
पार्वत्त्युवाच
भगवन् देवदेवेश जगन्नाथ दयानिधे ।
कथा साध्वी महापुण्या भवता विनिरूपिता ॥ ४८-१ ॥
अनुगृहीता नाथेन त्वयाहं करुणात्मना ।
ब्रह्मगुह्यमिदं देव यदेतत्प्रकटीकृतम् ॥ ४८-२ ॥
अतः परं तु देवेश वेदितव्यं न विद्यते ।
तथापि प्रष्टुमिच्छामि कोऽमृतं पीय तृप्तिभाक् ॥ ४८-३ ॥
मन्त्रराजप्रसङ्गेन सेवा ते विनिरूपिता ।
यथा सिध्यन्ति देवेश वासनाः कृष्णयोषिताम् ॥ ४८-४ ॥
धर्मः कृष्णप्रियाणां हि न सेवातोधिकः क्वचित् ।
तथापि भवता नाथ किञ्चित् पूजापि सूचिता ॥ ४८-५ ॥
विधिना केन देवेश क्रियते सा कदा च कैः ।
एतन्मे ब्रूहि भो विद्वन् महांस्त्वं दीनवत्सलः ॥ ४८-६ ॥
शिव उवाच
प्रिये धन्यासि धन्यासि धन्यासि मम मानसम् ।
प्रीणासि प्रश्नवादने सूर्योऽब्जमिव भानुना ॥ ४८-७ ॥
अतस्त्वां कथयिष्यामि सुगोप्यमपि पूजनम् ।
सेवनं मुख्यमेवोक्तं पूजनं गौणमुच्यते ॥ ४८-८ ॥
सेवां कर्तुमशक्तश्चेत् पूजयेत्पुरुषोत्तमम् ।
तदहं ते प्रवक्ष्यामि यन्मां त्वं पृच्छसि प्रिये ॥ ४८-९ ॥
प्रातरुत्थाय देवेशि ब्रह्मरन्धे निजं गुरुम् ।
ध्यात्वा पञ्चोपचारैश्च मानसैः पूजयेत्परम् ॥ ४८-१० ॥
ततो हृदम्बुजे ध्यायेच्छ्रीकृष्णं स्वामिनीयुतम् ।
प्रसन्नवदनाम्भोजप्रियावृन्दविहारिणम् ॥ ४८-११ ॥
पूर्ववत्पूजयित्वाथ व्यवहारविधौ प्रिये ।
अनुज्ञां प्रार्थयेत्तस्य प्रबद्धकरसम्पुटा ॥ ४८-१२ ॥
जानामि धर्मं न हि मे प्रवृत्तिर्जानाम्यधर्मं न ततो निवृत्तिः ।
मायान्धकारे गहने प्रविष्टा गृहान्धकूपे पतिता प्रमादात् ॥ ४८-१३ ॥
यद्यत्करिष्यामि शुभाशुभं वा नाहं स्वतन्त्रः प्रकरोमि तत्तत् ।
तस्मात्क्षमस्व प्रियनाथ सर्वं संसारयात्रामनुवर्त्तमानम् ॥ ४८-१४ ॥
आदायाज्ञां ततो देवि भूमिं सम्प्रार्थ्य पूर्ववत् ।
मलोत्सर्गविधिं कृत्वा हस्तपादादिशोधनम् ॥ ४८-१५ ॥
पूर्ववद्देवदेवेशि दन्तशुद्धिं समाचरेत् ।
तीर्थे वा स्वगृहे वापि स्नानं कृत्वा च पूर्ववत् ॥ ४८-१६ ॥
पूजागृहसमीपं तु गत्वोक्तासनसंस्थितः ।
कुङ्कुमादिशुभैर्द्रव्यैस्तिलकं हरिमन्दिरम् ॥ ४८-१७ ॥
वामरेखास्थितो ब्रह्मा दक्षिणायामह प्रिये ।
हरिर्मध्यगतस्तस्मान्मध्यदेशं न लेपयेत् ॥ ४८-१८ ॥
न दर्पणे च जले तैले विलोक्य तिलकी भवेत् ।
कृतमप्यकृतं वीक्ष्य दर्पणादौ तु यत्कृतम् ॥ ४८-१९ ॥
मुद्रादिधारणं कुर्यात् यथा स्थानं महेश्वरि ।
आदौ ललाटदेशे तु गदां कौमोदिकीं न्यसेत् ॥ ४८-२० ॥
एकैकां विन्यसेद्वामपार्श्वे वामस्तने तथा ।
बाहुयुग्मे तथैकैका द्वे द्वे वा भक्तिभावतः ॥ ४८-२१ ॥
उदरे पञ्च चक्राणि हृदि चक्रत्रयं न्यसेत् ।
चक्रद्वयं ततो देवि दक्षपार्श्वे नियोजयेत् ॥ ४८-२२ ॥
त्रीणि दक्षस्तने युज्यात् द्वयं दक्षभुजे वहेत् ।
दक्षकर्णस्य मूले तु चक्रयुग्मं प्रविन्यसेत् ॥ ४८-२३ ॥
कण्ठदेशे तथा वामबाहौ चक्रं सकृत्सकृत् ।
एक एव भवेद्देवि शङ्खो वामकपोलगः ॥ ४८-२४ ॥
वामपार्श्वे तथा चैकः स्तने वामे द्वयं न्यसेत् ।
वामबाहौ त्रयं विद्याद्वामकर्णे द्वयं तथा ॥ ४८-२५ ॥
अधरेऽपि द्वयं न्यस्य शुभया गोपिकामृदा ।
दक्षबाहौ तथा चैकमेवं शङ्खान् प्रविन्यसेत् ॥ ४८-२६ ॥
पद्ममुद्राद्वयं वामे दक्षिणेऽपि तथा न्यसेत् ।
नाममुद्रा तु सर्वाङ्गे विभृयाद्भक्तितत्परः ॥ ४८-२७ ॥
अधृत्वा तुलसीमालामकृत्वायुधलाञ्छनम् ।
न सिद्धिमाप्नुयात्कोऽपि सत्यमेव वचो मम ॥ ४८-२८ ॥
पार्वत्युवाच
अधृत्वायुधलिङ्गानि यः कुर्याद्भजनादिकम् ।
न सिद्धिमाप्नुयादत्र मनो मे मुह्यतेतराम् ॥ ४८-२९ ॥
रसरूपस्य कृष्णस्य न चास्त्यायुधधारणम् ।
कस्मात्कृष्णप्रिया साक्षात् बिभृयाद्वैष्णवायुधम् ॥ ४८-३० ॥
यो यो यद्देवता भक्तः स बिभर्ति तदायुधम् ।
प्रयोजनं तु नास्त्येव तथाप्यादिश्यते त्वया ॥ ४८-३१ ॥
तस्मान्मे संशयो जातो व्यथते हृदि शल्यवत् ।
तमुद्धर दयासिन्धो येन मे निश्चयो भवेत् ॥ ४८-३२ ॥
शिव उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
यस्य श्रवणमात्रेण मनो निःसंशयं भवेत् ॥ ४८-३३ ॥
अद्वैतं भावयेन्नित्यं द्वैतभावं न भावयेत् ।
द्वैतभावनया नित्यं संसारो न निवर्त्तते ॥ ४८-३४ ॥
अद्वैतभावनिष्णातः संसारं नैव पश्यति ।
तस्मादद्वैतभावेन यः पश्यति स पश्यति ॥ ४८-३५ ॥
अयं ब्रह्मा हरिरयं रुद्रोयमिति व भिदा ।
यः पश्यति महेशानि तस्य कालकृतं भयम् ॥ ४८-३६ ॥
प्रपञ्चो ब्रह्मतन्मात्रं ब्रह्मादिस्थावरान्तकः ।
द्वे ब्रह्मणीति वेदोक्तिर्लीलाभेदकृता भवेत् ॥ ४८-३७ ॥
एकमेवाद्वितीयं चेत्यन्यथा तु विरुद्ध्यते ।
तस्माद्द्वैतं तु देवेशि भ्रममात्रं न संशयः ॥ ४८-३८ ॥
चन्द्रद्वैतं प्रतीयेत जलोपाधिप्रसङ्गतः ।
जलोपाधिनिरासेन चन्द्राद्वैतं प्रकाशते ॥ ४८-३९ ॥
ब्रह्मण्यपि तथा द्वैतमज्ञानेन विजृम्भितम् ।
अज्ञानस्य निरासे तु ब्रह्माद्वैतं यथा भवेत् ॥ ४८-४० ॥
कः शिवः को हरिर्ब्रह्मा एकत्वमनुपश्यतः ।
तस्मादायुधलिङ्गानां धारणं न विरुध्यते ॥ ४८-४१ ॥
आत्मश्रेयः प्रवृत्तानां तामससर्गमाश्रिताः ।
दोषा विनायकाश्चान्ये भ्रंशयन्ति मनःश्रिताः ॥ ४८-४२ ॥
पलायन्ते च ते सर्वे वैष्णवायुधदर्शनात् ।
जाज्वल्यमानज्वलनज्वालयेवाकुलीकृताः ॥ ४८-४३ ॥
सत्त्वोपाधिगतं ब्रह्म विष्णुस्तस्यायुधान्यपि ।
दृष्ट्वा दोषाः पलायन्ते सिंहं दृष्ट्वा यथा गजाः ॥ ४८-४४ ॥
अन्यथाविश्य चित्तं ते भजनं वारयन्ति हि ।
तस्मादायुधलिङ्गानां धारणं सर्वथा प्रिये ॥ ४८-४५ ॥
दृष्ट्वा बिभ्यति पापानि चक्राङ्कितवपुर्धरम् ।
रजस्तमोमयाभावा न स्पृशन्ति कदाचन ॥ ४८-४६ ॥
ये लोकरञ्जनार्थाय चक्राद्यायुधलाञ्छनाः ।
पाखण्डिनः पतन्त्येते निरयेषु पुनः पुनः ॥ ४८-४७ ॥
तस्माद्भजनाङ्गतया बिभृयादायुधानि तु ।
भजन्सिद्धिमवाप्नोति पापदोषाद्यसंश्रितः ॥ ४८-४८ ॥
द्वारपूजां ततः कृत्वा प्रविशेद्यागमन्दिरम् ।
त्रिर्वामपार्ष्णिघातेन भौमांस्तालत्रयेण च ॥ ४८-४९ ॥
अन्तरिक्षस्थितान् दिव्यदृष्ट्या भूतान् दिवि स्थितान् ।
उत्सार्य भूमिं सम्प्रार्थ्य सम्प्रोक्ष्य विधिनासनम् ॥ ४८-५० ॥
आचम्य च शिखां बध्वा मूलमन्त्रेण देशिकः ।
स्त्रीवेषधारी सुभगः ताम्बूलवदनोर्चयेत् ॥ ४८-५१ ॥
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे अष्टचत्वारिंशं पटलम् ॥ ४८-४८ ॥