४६

अथ षट्चत्वारिंशं पटलम्

शिव उवाच

इत्थं स्मरन्ती सततं निजधाममहोदयम् ।
क्रमेण वासना देवि गमयत्येव वासरान् ॥ ४६-१ ॥

यद्येषा विरहावस्था स्मरणाख्या प्रवर्त्तते ।
तदा स्मृतिपथारूढं निजं धाम भवेत्प्रिये ॥ ४६-२ ॥

अन्यथा ध्यायमानस्य रसलीलामहोदधिम् ।
मध्ये विच्छिद्य विच्छिद्य मनस्तस्मान्निवर्त्तते ॥ ४६-३ ॥

यावन्न जायते ह्येषा दशा विरहसम्भवा ।
तावन्न शक्नुयात्कर्तुं विद्धि सेवां मनोमयीम् ॥ ४६-४ ॥

स्मृत्यवस्थोदयो यावत्तावत्सेवाद्वयं भवेत् ।
आन्तरीया तथा बाह्या तयोर्नैकतरा क्वचित् ॥ ४६-५ ॥

सेवया तद्गतं चेतः शनैर्लीलागतं भवेत् ।
स्मृत्यवस्थामवाप्नोति क्रमेण परमेश्वरि ॥ ४६-६ ॥

स्मृत्यवस्थोदये देवि मनस्तत्तन्मनोरथैः ।
प्रलापाख्यामवाप्नोति दशां च व्याकुलीकृतम् ॥ ४६-७ ॥

अबुद्धिपूर्वकालापः प्रलापः कथितः प्रिये ।
प्रियलीलाविलासादिविषयस्थिरचेतसः ॥ ४६-८ ॥

रमयस्वाद्य रुचिरं प्रियप्रेम्णा वनान्तरे ।
प्रियं त्वं चिरकालेन मया प्राप्तोऽसि साम्प्रतम् ॥ ४६-९ ॥

इत्यादिविविधालापाः प्रवर्त्तन्ते महेश्वरि ।
यदा देहानुसन्धानं मध्ये मध्ये प्रजायते ॥ ४६-१० ॥

अत्युग्रतरसन्तापनिर्वापणपटीयसी ।
सुधाधारेव सततं वाक् त्वदीया रसस्रवा ॥ ४६-११ ॥

अनङ्गकोटिसौन्दर्यमहाब्धिमथनोद्धृतः ।
सारांश इव ते रूपमानन्दोद्वेलनक्षमम् ॥ ४६-१२ ॥

महादुःखतमस्तोमविपाटनपटीयसी ।
चन्द्रज्योत्स्नेव रुचिरा हास्यशोभा तव प्रिय ॥ ४६-१३ ॥

मय्येतत्तु कथं नाथ विपरीतं प्रवर्त्तते ।
एवमादीनि वाक्यानि प्रवर्त्तन्ते गुणस्तवे ॥ ४६-१४ ॥

ततः क्रमेण देवेशि मनोवैवश्यकारिणी ।
आध्यवस्था प्रवर्तेत विप्रलम्भदशात्मिका [विप्रलम्भरसात्मिका इ० पा० ।] ॥ ४६-१५ ॥

दीर्घतापाग्निसन्तप्तमाधिग्रस्तं मनोन्तरम् ।
बहिः सृजत्यश्रुधारां श्वासकम्पादिकं तथा ॥ ४६-१६ ॥

विरहे प्राणनाथस्य अप्राप्तौ सङ्गमस्य च ।
जायते देवदेवेशि दशा चोन्मादसञ्ज्ञिका ॥ ४६-१७ ॥

श्वासाश्रुपातसन्तापकम्पभूलेखनादिभिः ।
अवस्था ज्ञायते देवि ह्युन्माद इति सञ्ज्ञया ॥ ४६-१८ ॥

जायमाने ततो देवि तापे विरहसम्भवे ।
हुङ्कारमात्रवचना तन्द्रामोहसमाकुला ॥ ४६-१९ ॥

अनुसन्धानरहिता श्वाससंशोषिताधरा ।
विवर्णवदनाकारा कृशीभूतकलेवरा ॥ ४६-२० ॥

नकट्यजातमरणा जडावस्था भवेप्रिये ।
कदाचिद्देवदेवेशि धैर्यस्याप्यनवस्थितौ ॥ ४६-२१ ॥

निजनाथवियोगाग्निज्वालाज्वलितविग्रहा ।
जायते देवदेवेशि दशा मरणरूपिणी ॥ ४६-२२ ॥

इत्येता विरहावस्था दश प्रोक्ता तवानघे ।
विप्रलम्भाख्यशृङ्गाररसे प्रादुर्भवन्ति ताः ॥ ४६-२३ ॥

यद्यप्येका प्रजायते दशा विरहसम्भवा ।
तथापि च वरारोहे रसस्यानुभवो भवेत् ॥ ४६-२४ ॥

यावन्न जायतेऽप्येका दशा विरहसम्भवा ।
तावन्न जायते देवि रसस्यानुभवः क्वचित् ॥ ४६-२५ ॥

ज्ञात्वापि प्रियविश्लेषं यद्यवस्थोदयो नहि ।
तदा चूडामणिजपः कर्त्तव्यः शुद्धिहेतवे ॥ ४६-२६ ॥

मनोविकारे भावाख्ये जायमाने सुरेश्वरि ।
अप्राप्तौ विरहावस्थां धत्ते भावः स एव हि ॥ ४६-२७ ॥

परानन्दे प्रिये ज्ञाते तदप्राप्तिवशादिह ।
मनो विकृतिमभ्येति भावसञ्ज्ञामलौकिकीम् ॥ ४६-२८ ॥

अनेकजन्मकलुषेर्यदा वीतं मनो भवेत् ।
नैवाप्नोति तदाभावं येन स्याद्विरहोदयः ॥ ४६-२९ ॥

तन्मालिन्यनिरासार्थं जपसेवार्चनादिकम् ।
अवश्यमेव कर्त्तव्य श्रीकृष्णप्रीतये चिरम् ॥ ४६-३० ॥

अनुग्रहदृशा पश्येत् यदैव पुरुषोत्तमः ।
प्रसादसुमुखो भूत्त्वा तदा स्याद्विरहोदयः ॥ ४६-३१ ॥

इति ते सर्वमाख्यातं दशावस्थानिरूपणम् ।
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ॥ ४६-३२ ॥

इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे षट्चत्वारिंशं पटलम् ॥ ४६-४६ ॥