४५

अथ पञ्चचत्वारिंशं पटलम्

शिव उवाच

स्मरेदथो महादेवि ब्रह्मनालश्रियं शुभाम् ।
ब्रह्मनालानन्दवनाद्दण्डाकारतया [ब्रह्मनालोनन्दवनात् इ० प० ।] स्थितः ॥ ४५-१ ॥

मार्ग एव महेशानि निजालयनिवेशने ।
गोपुरद्वारमारम्य प्राकारदशकावधि ॥ ४५-२ ॥

विंशतिर्योजनानां च ब्रह्मनाल उदाहृतः ।
पार्श्वयोरुभयोस्तस्य षष्ट्युत्तरशतं प्रिये ।
सौधानि सन्ति देवेशि बहिः कुट्टिमवन्ति च ॥ ४५-३ ॥

तत्तत्प्राकारसंवीत तत्तदुद्यानमण्डलम् ।
तत्तद्द्वारप्रवेशेन गम्यते ब्रह्मनालतः ॥ ४५-४ ॥

प्रतिप्राकारामीशानि प्रवेशे ब्रह्मनालतः ।
सव्यापसव्ययोर्द्वारद्वयमुद्यत्प्रभारुणम् ॥ ४५-५ ॥

स्वर्णप्राकारसंवीता महाचम्पकवाटिकाः ।
अनेकपक्षीनिनदा बहुलामोदमेदुराः ॥ ४५-६ ॥

तप्तकाञ्चनवर्णाभा भान्ति चम्पककोरकाः ।
दीपा इव निवातस्था भृङ्गैर्दूरतरोज्झिताः ॥ ४५-७ ॥

पूर्णशारदराकेशानुकारिकुसुमोज्ज्वलाः ।
राजन्ते यत्र बहुशो दिव्याश्चम्पकवीरुधः ॥ ४५-८ ॥

चम्पकोद्यानकुञ्जेषु दिव्यहर्म्यकृतास्पदाः ।
चतुर्दशसहस्राणि वसन्ति परिचारिकाः ॥ ४५-९ ॥

कदाचित् क्रीडते तत्र श्रीकृष्णः स्वसखीवृतः ।
मध्ये तारागणस्येव पूर्णशारदचन्द्रमाः ॥ ४५-१० ॥

तदन्तः संस्मरेद्देवि वनं कल्पद्रुमाकुलम् ।
महावैदूर्यशालेन समन्तात् परिवेष्टितम् ॥ ४५-११ ॥

कल्पद्रुकुसुमामोदमोदमाना शिलीमुखाः ।
नान्यगन्धमपेक्षन्ते पूर्णकामा यथेतरत् ॥ ४५-१२ ॥

कल्पद्रुकुसुमास्वादुरसव्यासक्तबुद्धयः ।
स्वां वाचं मुद्रयन्तीह ज्ञाततत्वा इवालयः ॥ ४५-१३ ॥

महामरकतकॢप्तस्थलीपतितमौक्तिका ।
यथा तामसभक्तस्य बुद्धिः प्रेमाङ्कुरोज्ज्वला ॥ ४५-१४ ॥

मधुश्रीमाधवश्रीकः स्त्रीस्कन्धार्पितसद्भुजः ।
पुष्पकल्पितवासःश्रीर्भूषाशृङ्गारमण्डितः ॥ ४५-१५ ॥

वसन्तः सन्ततं यत्र चरतेऽसौ रसात्मकः ।
कल्पद्रुममहाकुञ्जवीथिषु प्रेमविह्वलः ॥ ४५-१६ ॥

कामकोदण्डकुटिलभ्रूलताचारुविभ्रमः ।
कुङ्कुमारक्तवसनः साचीक्षणविचक्षणः ॥ ४५-१७ ॥

दिव्यपुष्परजः पुञ्जधूसरः सस्मिताननः ।
कल्पकोद्यानकुञ्जेषु दिव्यहर्म्यकृतालयाः ॥ ४५-१८ ॥

त्रयोदश सहस्राणि वसन्ति परिचारिकाः ।
कदाचिदत्र भगवान्कृष्णः कमललोचनः ॥ ४५-१९ ॥

वसन्तलीलारसिको रसात्मोपवने चरन् ।
इन्दिरासुन्दरीमुख्यप्रियाविभ्रममोहितः ॥ ४५-२० ॥

प्रियाकटाक्षचषकैरापीत इव सर्वतः ।
आवृष्ट इव पुष्पौघैः सखीमुक्तैः समन्ततः ॥ ४५-२१ ॥

अभिवर्षन् स्वयमपि सखीः कुसुमवृष्टिभिः ।
मुखामोदसुसक्तालिझङ्कारोद्विग्ननेत्रया ॥ ४५-२२ ॥

गाढमालिङ्गितः कण्ठे स्वामिन्या पद्महस्तया ।
प्रियाभिः प्रेमयुक्ताभिर्जलयन्त्रविनिर्गतैः ।
कुङ्कुमाम्भोभिरासिक्तो जातः पीताम्बरो यथा ॥ ४५-२३ ॥

गजीभिरिव मातङ्गो रमते रतिलम्पटः ।
अनेकरसयुक्तासु क्रीडासु कृतकौतुकः ॥ ४५-२४ ॥

तदन्तः संस्मरेद्दिव्यां मन्दारद्रुमवाटिकाम् ।
दिव्यप्रवालरत्नोद्यत्प्राकारपरिवेष्टिताम् ॥ ४५-२५ ॥

महानीलमणिभ्राजद्भूमिकाभासमाश्रिताम् [भासिनीकृताम् इ० पा० ।] ।
नृत्यन्ति यत्र शिखिनो नित्यमम्भोदशङ्कया ॥ ४५-२६ ॥

मन्दारमकरन्देषु विलीनमतयोऽलयः ।
विस्मरन्त्यन्यपुष्पाणि यथा ब्रह्मरसप्लुताः ॥ ४५-२७ ॥

यत्रास्ते सततं राका पूर्णचन्द्रसमन्विता ।
कुहूः कोकिलचञ्चुस्था केवलं यत्र लभ्यते ॥ ४५-२८ ॥

मन्दारमन्दसौरभ्यलुब्धा रोलम्बराजयः ।
न क्वापि गन्तुमिच्छन्ति दानलुब्धा इवार्थिनः ॥ ४५-२९ ॥

शुक्तिश्रीति शुचिश्रीति यस्य वामे मदालसे ।
मन्दारोद्यानसञ्चारी ग्रीष्मर्त्तुर्मदविह्वलः [ग्रीष्मर्तुस्तिग्मलोचनः इ० पा०] ॥ ४५-३० ॥

मन्दारोद्यान कुञ्जेषु दिव्यहर्म्यकृतास्पदाः ।
द्वादशैव सहस्राणि वसन्ति परिचारिकाः ॥ ४५-३१ ॥

मन्दारकुञ्जक्रीडार्थं कदाचित्प्रमदागणैः ।
मूलभूमेः समुत्थाय पश्चिमद्वारमार्गतः ॥ ४५-३२ ॥

प्रविशत्यरबिन्दाक्षः क्रीडते रतिलालसः ।
महाकामकलाभिज्ञः कामात्मा पुरुषोत्तमः ॥ ४५-३३ ॥

ततस्तदन्तरुद्यानं पारिजातमयं स्मरेत् ।
महामाणिक्यशालेन समन्तात्परिवेष्टितम् ॥ ४५-३४ ॥

चन्द्रकान्तशिलाकॢप्तस्थलीकमतिसुन्दरम् ।
यत्रेन्दुरश्मयः स्पर्शात्सुधाकणमवापिताः ॥ ४५-३५ ॥

कुट्टिमा यत्र भूयांसो विस्फुरद्रत्नमण्डपाः ।
कुञ्जगुञ्जन्मधुकरव्रातझङ्कारनादिताः ॥ ४५-३६ ॥

सरस्यो [सरसीषु लसत् इ० पा० ।] विलसत्स्वर्णसहस्रदलपङ्कजैः ।
खेलन्मरालमिथुनैर्गन्धवासितपादपैः ॥ ४५-३७ ॥

निश्चलालिसमाक्रान्तपत्रजालैः समन्तत ।
विलोकयन्ति वात्यन्तं नेत्रैरुन्मेषवर्ज्जितैः ॥ ४५-३८ ॥

पारिजातवनीकुञ्जदिव्यसौधकृतालयाः ।
एकादशसहस्राणि वसन्ति परिचारिकाः ॥ ४५-३९ ॥

पारिजातवनक्रीडारसलुब्धेन चेतसा ।
कदाचिदत्र भगवान् समायाति सखीगणैः ॥ ४५-४० ॥

कृष्णं सरोवराभ्यासमणिकुट्टिमसंस्थितम् ।
भूषाम्बरादिभिः सख्यः [कौसुमैः इ० पा० ।] कौसुम्भैर्भूषयन्ति हि ॥ ४५-४१ ॥

हारकुण्डलकेयूरवलयोत्तुङ्गमौलिभिः ।
उष्णीषकञ्चुककटिबन्धरम्योत्तरीयकैः ॥ ४५-४२ ॥

पौष्पैः कृतश्रीः भगवान् सखीवृन्दान्तरे चरन् ।
दिव्यपुष्पमयं वेत्रमादधानः कराम्बुजे ॥ ४५-४३ ॥

वमद्भिरिव सत्प्रेम विकुञ्चद्भृकुटीतटैः ।
अभिवर्षन्निव सखीवृन्दं लोचनपङ्कजैः [अभिवर्षन्तीव सखीवृन्दलोचनषट्पदः इ० पा० ।] ॥ ४५-४४ ॥

स्वकरालूनकुसुमाभृषाभिर्भूषयन् [कुसुमाक्रीडाभिः इ० पा० ।] सखीः ।
हसितो हासयन्सर्वा लोलागतिविचक्षणः ॥ ४५-४५ ॥

गीयमानयशा गायन् रमते कुञ्जभूमिषु ।
स्मरेदतस्तदन्तःस्थां हरिचन्दनवाटिकाम् ॥ ४५-४६ ॥

गोमेदकमहारत्नरचितस्वीयगोपुराम् ।
शुद्धस्फटिकविभ्राजद्भूमिकाकिरणोज्ज्वलाम् ॥ ४५-४७ ॥

मरुल्लसत्पल्लवराजिराजितद्रुमावलीनां प्रतिबिम्बभूमिषु ।
विहङ्गमाः पक्वफलाशया मुहुश्चञ्चूपुटाघातविधिं वितेनिरे ॥ ४५-४८ ॥

क्वचिद्विहङ्गाः स्फटिकावनीतले निरीक्षमाणः प्रतिबिम्बविभ्रमम् ।
स्वजातिपक्षिव्रजशङ्किताशयाः कूजन्ति स्वं स्वं स्वरमुच्चकैर्मुहुः ॥ ४५-४९ ॥

हरिचन्दनस्फुरदमन्दसुन्दरस्फटिकावनीतला वनविहारिणः ।
पवनोल्लसद्विटपविष्टराः खगा विवदन्ति पण्डितगणा इवोद्भटाः ॥ ४५-५० ॥

मणिकुट्टिमास्फुरदमन्दरश्मयः परितो विभान्ति कृतरत्नमण्डपाः ।
शुककोकिलभ्रमरहंससारसैः समुपास्यमानरमणीयमध्यमाः ॥ ४५-५१ ॥

मुखराट्टहासपरिपूरिताम्बरः सुनभोनभस्थरमणीविराजितः ।
ऋतुराज एव किल प्रावृडित्ययं मदघूर्णमाननयनो विराजते ॥ ४५-५२ ॥

मृदुमन्दगर्ज्जितपयोदमण्डलीघटनान्धकारपरिलब्धवर्चसः ।
परितो भ्रमन्ति वनकुञ्जमण्डलेष्वतिनीलरत्ननिभकीटकोटयः ॥ ४५-५३ ॥

हरिचन्दनद्रुमनिकुञ्जमण्डलेष्वतिदिव्यरत्नपरिचारिकागृहाः ।
परितो विभान्त्ययुतसङ्ख्यया शिवे ज्वलदग्निबीजरचिताङ्गणश्रियः ॥ ४५-५४ ॥

अत्रापि क्रीडते कृष्णः स्वामिन्यादिसखीवृतः ।
नानाक्रीडाविनोदैश्च परिहासरसादिभिः ॥ ४५-५५ ॥

तदन्तः संस्मरेद्दिव्यमुद्यानं सुमनोहरम् ।
वैडूर्यलतिकाखण्डमण्डितं नन्दनं दृशाम् ॥ ४५-५६ ॥

यत्र वैडूर्यवृक्षेषु प्रवालप्रतिबिम्बजा ।
काप्यभिख्या दृगम्भोजमोदहेतुः प्रवर्तते ॥ ४५-५७ ॥

सूर्यकान्तमणिकॢप्तदिव्यप्राकारमण्डितम् ।
सन्धिवर्ज्जितमाणिक्यशिलाकल्पितभूमिकम् ॥ ४५-५८ ॥

सूर्यकान्तमणिच्छायाविद्धमाणिक्यभूमिकम् ।
जातारुणोदयमिव भ्रममुत्पादयत्यहो ॥ ४५-५९ ॥

वैडूर्यद्रुमकुञ्जेषु दिव्यसौधकृतालयाः ।
सहस्राणि नव प्रोक्ताः तत्स्थानपरिचारिकाः ॥ ४५-६० ॥

तदन्तः संस्मरेद्दिव्यां महामौक्तिकवाटिकाम् ।
विस्फुरत्पुष्परागीयप्राकारपरिवेष्टिताम् ॥ ४५-६१ ॥

माणिक्यपुष्पविद्योतन्महामुक्तालतावृताम् ।
लतासु विस्फुरद्दिव्यवैडूर्यवृन्तभासुराः ॥ ४५-६२ ॥

महावज्रमणिभ्राजद्भूमिकाकिरणप्लुताम् ।
कुञ्जेषु पक्षिनिनदप्रतिध्वनिमनोहराम् ॥ ४५-६३ ॥

इषोर्जलक्ष्मीलावण्यप्रवाहपतितान्तरः [बिस्फूर्जलक्ष्मी इ० पा० ।] ।
मल्लिकामालतीपुष्पभूषावासःपरिच्छदः ॥ ४५-६४ ॥

स्मितशोभिमुखाम्भोजश्चम्पकद्युतिपाण्डुरः ।
तत्र सञ्चरते साक्षाद्रसरूपी शरदृतुः ॥ ४५-६५ ॥

मुक्तानिकुञ्जभुवनक्रीडारसवशंवदाः ।
सहस्राण्यष्ट देवेशि वसन्ति परिचारिकाः ॥ ४५-६६ ॥

क्रीडतेऽत्रापि भगवान् कृष्णः कमललोचनः ।
स्वामिन्यादिसखीवृन्दसभाक्रीडाकुतूहलः ॥ ४५-६७ ॥

तदन्तः संस्मरेद्दिव्यां प्रवालद्रुमवाटिकाम् ।
गरुत्मन्मणिशालेन निगूढां परितः प्रिये ॥ ४५-६८ ॥

पुष्परागशिलाकॢप्तवसुधातलमण्डिताम् ।
मुक्तास्तबकसंशोभिप्रवालद्रुमशिभिताम् ॥ ४५-६९ ॥

सहसहस्यश्रीभ्यां [सहः इ० पा०] तु नारीभ्यामुपलालितः ।
हेमन्तस्तत्र चरते लीलाखेलकृतादरः ॥ ४५-७० ॥

प्रवालोद्यानकुञ्जस्थरत्नसौधनिकेतनाः ।
सप्त चैव सहस्राणि वसन्ति परिचारिकाः ॥ ४५-७१ ॥

सूर्यकान्तमणिभ्राजल्लताकुसुमपल्लवम् ।
तदन्तः संस्मरेद्दिव्यमुद्यान् कोटिसूर्यभम् ॥ ४५-७२ ॥

कोटीन्दुविस्फुरच्चन्द्रकान्तशालेन व्यूहितम् ।
दिव्यप्रवालरत्नौघैर्निबद्धवसुधातलम् ॥ ४५-७३ ॥

तपस्तपस्यश्रीभ्यां च तरुणीभ्यामलङ्कृतम् ।
तद्भावानुभवानन्दमोदमानमहर्निशम् ॥ ४५-७४ ॥

शिशिरर्तुं भजेत्तत्र चरन्तं मदविह्वलम् ।
सूर्यकान्तनिकुञ्जेषु खेलन्त्यो मदविह्वलाः ॥ ४५-७५ ॥

षट्सहस्राणि देवेशि वसन्ति परिचारिकाः ।
कदाचिदत्र क्रीडार्थं सखीभिः पुरुषोत्तमः ॥ ४५-७६ ॥

स्वामिन्या च समासाद्य क्रीडन् विक्रीडयत्यपि ।
तदन्त संस्मरेद्दिव्यमुद्यानं तु मनोहरम् ।
पद्मरागलतापुञ्जकुञ्जगुञ्जन्मधुव्रतम् ॥ ४५-७७ ॥

चिन्तारत्नविचित्रान्तर्भूमिविद्योतितान्तरम् ।
अनेककुट्टिमैर्भ्राजन्मण्डपैः कुञ्जमध्यगैः ॥ ४५-७८ ॥

भ्राजत्कपाटरत्नालिप्रभोद्यैर्वियदन्तरम् ।
उदितेन्द्रधनुःकोटिकुर्वाणमिव सर्वतः ॥ ४५-७९ ॥

क्वचिदिन्दीवरवनप्रोच्छलन्तः प्रभाङ्कराः ।
सान्द्रमेघान्धकारेण लिम्पन्त इव दिक्तटान् ॥ ४५-८० ॥

कलापिनो हृष्टचित्तास्तत्र नृत्यन्ति सन्ततम् ।
उद्धाट्य स्वकलापांश्च जलदाटोपशङ्कया ॥ ४५-८१ ॥

शुकपारापतक्रौञ्चपिककोलाहलाकुलम् ।
कोटीन्दुकौमुदीगवन्निर्वासनलताशतम् ॥ ४५-८२ ॥

उत्पतद्भिमृगीवृन्दैर्वराहैर्गवयैः शशैः ।
रुरुभिर्मृगनाभैश्च चमरीभिरलङ्कृतम् ॥ ४५-८३ ॥

अनेकसूर्यसङ्काशचिन्तारत्नावृतिव्रतम् ।
यत्र पञ्चसहस्राणि मणिहर्म्यकृतास्पदाः ॥ ४५-८४ ॥

दिव्यशृङ्गारवेषाढ्या रसभावविभावुकाः ।
सेवोपचारचतुरा वसन्ति परिचारिकाः ॥ ४५-८५ ॥

तदन्तः संस्मरेद्दिव्यं महापद्मवनं महत् ।
लक्षयोजनविस्तीर्णं गुञ्जन्मत्तमधुव्रतम् ॥ ४५-८६ ॥

वियद्वितानितमिव परागैः पवनेरितैः ।
कुर्वन् तद्गन्धसञ्चारिषट्पदव्याजचित्रितम् ॥ ४५-८७ ॥

महापद्माटवीमध्ये स्मरेदेकमणिगृहम् ।
चतुःषष्टिमहास्तम्भशोभाडम्बरमण्डितम् ॥ ४५-८८ ॥

मूलभूमिस्तु प्रथमा द्वितीया मतिविभ्रमा ।
तृतीया भोगभूमिश्च नृत्यभूमिश्चतुर्थिका ॥ ४५-८९ ॥

पञ्चमी शयनीयाख्या षष्ठी वैमानिकीति च ।
सप्तमी अष्टमी चोभे दोलाभूमी निरूपिते ॥ ४५-९० ॥

नवमी दूरलक्षा च दशमी चन्द्रभूमिका ।
इत्येता दश आख्याता भूमयो निजवेश्मनः ॥ ४५-
प्रियाभिः सह वसेदस्मिन् घनीभूतो रसः पुमान् ॥ ४५-९१ ॥

इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे पञ्चचत्वारिंशं पटलम् ॥ ४५-४५ ॥