अथ चतुश्चत्वारिंशं पटलम्
शिव उवाच
स्मरेदथो महानन्दवनं सर्वर्तुसेवितम् ।
नानापुष्पलताकुञ्जपुञ्जशोभाविराजितम् ॥ ४४-१ ॥
यत्र भूः काञ्चनी दिव्या नवरत्नविचित्रिता ।
सार्द्धैकयोजनायामविस्तारा मध्यवेदिका ॥ ४४-२ ॥
चतुरस्रा दिव्यरत्ना प्रभापुञ्जारुणान्तरा ।
तन्मध्ये कुट्टिमो देवि योजनार्द्धप्रमाणतः ॥ ४४-३ ॥
रजतस्वर्णवज्रेन्दुमुक्ताविद्रुमगारुडैः ।
वैदूर्यैरिन्द्रनीलैश्च पद्मरागार्कगोमदैः ॥ ४४-४ ॥
समन्तता परिकॢप्तस्तम्भराजिविराजितः ।
दक्षिणोत्तरमध्यस्थसूत्रमाकर्ष्य पार्वति ।
पूर्वगर्भगतं कुर्यादधः पश्चिमगर्भगम् ॥ ४४-५ ॥
इन्द्रनीलप्रभालिप्तमेवं कोणचतुष्टयम् ।
कल्पद्रुमलताकोणे चतुष्कोपरिराजते ॥ ४४-६ ॥
शतयोजनसंसर्पिदिव्यसौरभमेदुरा ।
दिव्यप्रवालकुसुमामोदमोहितषट्पदा ॥ ४४-७ ॥
मन्दमारुतसंसर्गचलत्कुसुमपल्लवा ।
पद्मरागमयस्तम्भौ पूर्वद्वारे नियोजितौ ॥ ४४-८ ॥
महानीलमणिस्तम्भौ दक्षिणे तु व्यवस्थितौ ।
महावज्रमणेः स्तम्भौ प्रतीच्यां दिशि कल्पितौ ॥ ४४-९ ॥
वैदूर्यस्तम्भयुगलमुत्तरे ह्यनुकल्पितम् ।
तप्तचामीकरकॢप्तमण्डपस्तेषु कल्पितः ॥ ४४-१० ॥
अन्तर्बहिस्तत्र मुक्ता भान्ति तारागणा इव ।
अनेककोटिचन्द्रार्कप्रभाधिक्कारिवर्चसः ॥ ४४-११ ॥
वेदिमध्ये तु कलशा विभान्ति मणिमेदुराः ।
मण्डपाधो मध्यभागे रत्नसिंहासनोत्तमम् ॥ ४४-१२ ॥
परितस्तस्य देवेशि सिंहासनपरम्परा ।
कृष्णप्रियानिवेशार्हा कृष्णे मध्यासनं गते ॥ ४४-१३ ॥
वेदिकापरितो भान्ति नानामणिमया लताः ।
मालती मल्लिका यूथी जातिचन्दनपाटली [पाटला इ० पा० ।] ॥ ४४-१४ ॥
कदम्बपारिजाताम्रबकुलार्जुनकेसराः ।
केतकीचम्पकाशोकनीपाश्वत्थवटादिकाः ॥ ४४-१५ ॥
रत्नच्छदा घनीभूताः पुष्पपल्लवमण्डिताः ।
मरुल्लीलाचलशाखारूढस्यलविहङ्गमाः [चल इ० पाठः० ।] ॥ ४४-१६ ॥
रत्नकुल्याविनिर्गच्छत्सुधापूरसुतर्पिताः ।
आभान्ति पादपा दिव्या महानन्दवने प्रिये ॥ ४४-१७ ॥
चतुर्विंशतिसाह्स्रं तत्स्थानपरिचारिकाः ।
तासां गृहाणि दिव्यानि परितो भान्ति सुन्दरि ॥ ४४-१८ ॥
वज्रप्रकल्पितमहाप्रकारपरिवेष्टितम् ।
महानन्दवनं वन्दे रसानन्दैकपत्तनम् ॥ ४४-१९ ॥
यमुनाभिमुखे यस्य गोपुरं पद्मरागजम् ।
यौगपद्योदितानेकबालार्कद्युतिभासुरम् ॥ ४४-२० ॥
कुट्टिमद्वयमीशानि यद्बहिर्भातिसुन्दरम् ।
चतुर्द्वारं चतुःस्तम्भं शोभाविर्भावभूमिकम् ॥ ४४-२१ ॥
ततः सोपानमार्गेण गन्तव्या यमुना नदी ।
स्मरेदथो महेशानि हेमकूटवनं महत् ॥ ४४-२२ ॥
यत्र हेममयी भूमिर्हेमपादपसङ्कुला ।
तन्मध्ये कुट्टिमौ हैमौ हैमस्तम्भचतुष्टयम् ॥ ४४-२३ ॥
गव्यूत्यर्द्धयुतः श्रीमान् हैममण्डपभूषितः ।
चतुर्विंशतिसाहस्रं तत्स्थानपरिचारिकाः ॥ ४४-२४ ॥
तासां गृहाणि दिव्यानि हैमोपस्करवन्ति च ।
मण्डपम्परितो भान्ति तडितामिव राशयः ॥ ४४-२५ ॥
सौधमण्डपयोर्देवि यावत्स्यादन्तरालकम् ।
तत्सर्वं परितो व्याप्तं नारङ्गीलतिकाशतैः ॥ ४४-२६ ॥
एलालविङ्गकाश्मीरसुरभ्यनिलसेवितम् ।
मृद्वीकामण्डपयुतं मातुलिङ्गलतोल्लसत् ॥ ४४-२७ ॥
बन्धूकैर्हयमारैश्च लवलीभिरलङ्कृतम् ।
कर्णिकारैश्च कुन्दैश्च चम्पकैश्चन्दनैर्वृतम् ॥ ४४-२८ ॥
नानापक्षिगणाध्वानमुखरीकृतदिङ्मुखम् ।
महानन्दमहोल्लासक्रान्तकोकिलकूजितम् ॥ ४४-२९ ॥
नृत्यत्कलापिनिकर गुञ्जन्मत्तमधुवृतम् ।
धावद्धरिणसञ्चारमुत्पतत्प्लवगद्रुमम् [उत्प्लवत्प्लवगद्रुमम् इ० पा० ।] ॥ ४४-३० ॥
हेमप्राकारसंवीतं हेमकूटमिवास्थितम् ।
हेमकूटमहोद्यानं हेमगोपुरमण्डितम् ॥ ४४-३१ ॥
हेमकुट्टिमविभ्राजद् बहिःपार्श्वद्वयोज्ज्वलम् ।
ततः सोपानमार्गेण गतब्या यमुना नदी ॥ ४४-३२ ॥
ततश्च तारकूटाख्यं स्मरेद्विपिनमद्भुतम् ।
नीलरत्नमयी भूमिर्भ्राजते यत्र निस्तुला ॥ ४४-३३ ॥
कदम्बकल्पद्रुपमपारिजातैरमन्दगन्धाहृतभृङ्गसङ्घैः ।
मरुल्लसत्पल्लवराजिपुष्पैर्यथा सदः सद्भिरिवातिशोभते ॥ ४४-३४ ॥
जम्बीरैर्निम्बुकैश्चैव कोविदारार्जुनैरपि ।
श्रीपर्णैः सरसैराम्रैः पनसैर्दकुलैरपि ॥ ४४-३५ ॥
नागपुन्नागमन्दारैस्तथैवामलकीद्रुमैः ।
अम्लानपुष्पाभरणैः समन्तात् परिशोभितम् ॥ ४४-३६ ॥
तारकूटमहं वन्दे तारप्राकारवेष्टितम् ।
चतुर्विंशतिसाहस्रं तत्स्थानपरिचारिकाः ॥ ४४-३७ ॥
तासां गृहाणि दिव्यानि तारकुट्टिममुच्चकैः ।
परितो भान्ति देवेशि दलानीव कुशेशयम् ॥ ४४-३८ ॥
यमुनाभिमुखे यस्य भाति गोपुरमुन्नतम् ।
गोपुरस्य बहिर्भागे राजितं कुट्टिमद्वयम् ॥ ४४-३९ ॥
स्तम्भैश्चतुर्भिरुद्भान्तं राजतैः स्वर्णसूत्रितैः ।
ततः सोपानमार्गेण गन्तव्या यमुनानदी ॥ ४४-४० ॥
स्मरेदथो महेशानि गारुडं वनमद्भुतम् ।
गारुडै रत्ननिचयैः परिकल्पितभूमिकम् ॥ ४४-४१ ॥
तत्र हस्तान्तरे देवि चतुष्कं मणिकल्पितम् ।
पूर्वपश्चिमभागेन चन्द्रकान्तमणिद्वयम् ॥ ४४-४२ ॥
दक्षिणोत्तरभागेन पद्मरागद्वयाङ्कितम् ।
अन्योन्यचुम्बितमुखं शुद्धस्वर्णगृहार्पितम् ॥ ४४-४३ ॥
एवं कोटिचतुष्काणि हस्तमात्रान्तरान्तरम् ।
भान्ति सर्वत्र देवेशि गरुत्ममणिभूमिषु ॥ ४४-४४ ॥
यस्याः प्रान्तचतुष्केषु स्थलपङ्केरुहाण्यपि ।
यत्परागरजः पुञ्जैररुणीक्रियतेऽम्बरम् ॥ ४४-४५ ॥
तन्मध्यदेशगः श्रीमान् भाति माणिक्यमण्डपः ।
सूर्यकान्तमणिस्थम्भनीलपत्रश्रियोल्लसत् ॥ ४४-४६ ॥
तन्मध्ये दीर्घिका दीर्घा स्वर्णपङ्कजमालिनी ।
यद्गन्धाघ्राणमत्तालिझङ्कारमुखरान्तरा ॥ ४४-४७ ॥
माणिक्यभूमिपतिता अपि मौक्तिकराजयः ।
न हर्षयन्ति कादम्बान् गुञ्जाशङ्काप्रतारितान् ॥ ४४-४८ ॥
माणिक्यकन्दलाक्रान्ता वैदूर्यविलसच्छदाः ।
मण्डपं परितो दूराद्विभान्ति कदलीलताः ॥ ४४-४९ ॥
कदलीकाण्डमारूढा हंसा गोफेनसन्निभाः ।
तत्पत्रद्युतिसम्भिन्ना न लक्ष्यन्ते मनागपि ॥ ४४-५० ॥
वाय्वान्दोलितपत्रौघप्रकम्पत्कन्दलस्तनाः ।
कूजत्पक्षिगणक्रीडा मनोनयननन्दनाः ॥ ४४-५१ ॥
नृत्यमाना इवाभान्ति कदल्यो वारयोषितः ।
चतुर्विंशतिसाहस्रं तत्स्थानपरिचारिकाः ॥ ४४-५२ ॥
मध्यवीथीनि सौधानि द्विपङ्क्त्त्या भान्ति तद्बहिः ।
भ्राजन्मणिकपाटानि हसद् रत्नाजिराणि च ॥ ४४-५३ ॥
तद्बहिर्भान्तिदेवेशि महोद्यानलताद्रुमाः ।
गन्धालुभ्य भ्रमद्भृङ्गा मरुदाघातवेपिताः [गन्धलुभ्यद्भ्रमद्मृङ्गाः सप्त गायन्ति ते स्वराः इ० पा० ।] ॥ ४४-५४ ॥
मयूरमृगचक्राह्वहंसकारण्डवैः पिकैः ।
शुकपारावतक्रौञ्चसारसैर्हारिलैरपि ॥ ४४-५५ ॥
शाखामृगैः शशैः क्रोडैश्चातकैश्चटकैरपि ।
पतत्रिभिरनेकैश्च कुलङ्गैरुपसेवितम् ॥ ४४-५६ ॥
जाड्यं मम धियो भिद्यादुद्यानं गारुडाह्वयम् ।
मुक्ताप्राकारकल्पितमप्राकृतजनाश्रयम् ॥ ४४-५७ ॥
यमुनाभिमुखे यस्य महाद्वारं विराजते ।
माणिक्यदेहलीरम्यमिन्द्रनीलकपाटकम् ॥ ४४-५८ ॥
महाद्वारबहिर्भागे कुट्टिमद्वयमद्भुतम् ।
काञ्चनं विद्रुमस्तम्भं स्वर्णमण्डपमण्डितम् ॥ ४४-५९ ॥
यत्रस्थाः परिगायन्ति नृत्यन्ति च वराङ्गना ।
वीणामृदङ्गवाद्यादिविद्यानैपुण्यशालिनः [शालिनीः ।] ॥ ४४-६० ॥
ततः सोपानमार्गेण गन्तव्या यमुना नदी ।
पूर्वसङ्ख्यैव सर्वत्र सोपानानां प्रियंवदे ॥ ४४-६१ ॥
एषु स्थानेषु देवेशि लीलार्थं पुरुषोत्तमः ।
आयाति चन्द्रिकोद्गारिविमानेन सखीवृतः ॥ ४४-६२ ॥
कदाचिद्रथमारुह्य सहस्राश्वयुजं हरिः ।
सखीसमाजमध्यस्थस्तल्लीलाप्रेमगर्वितः ॥ ४४-६३ ॥
रथाः सन्ति महादिव्याः सहस्राणि तु षोडश ।
प्रधानाः षोडशैवेषु तांस्ते वक्ष्यामि नामतः [सशृणु इ० पा० ।] ॥ ४४-६४ ॥
चन्द्रको भद्रकश्चैव मनोजवमहाजवौ ।
जवमाली मणिस्कन्दो रोचिष्मान् भद्रसेनकः ॥ ४४-६५ ॥
मेघनादो महानादश्चन्द्रगौरो विसर्पणः ।
नीलचक्रः कुरङ्गाह्वः स्वर्णनेमिर्विभावसुः ॥ ४४-६६ ॥
सर्व एते सहस्राश्वयुजः काञ्चनमालिनः ।
क्षुद्रघण्टानिनादेन परिपूरितदिङ्मुखाः ॥ ४४-६७ ॥
केचिन्नीलवरूथेषु व्युप्तमौक्तिकराजयः ।
विभान्ति विलसत्तारागणा इव बलाहकाः ॥ ४४-६८ ॥
केचिन्नीलवरूथेषु स्वर्णरेखाविचित्रिताः ।
तडिदुन्मेषरुचिरा हेपयन्ति घनश्रियम् ॥ ४४-६९ ॥
केचिद्रक्तवरूथेषु वज्रमण्डपमण्डिताः ।
विलज्जयन्ति सन्ध्याभ्रशतभानूदयं नभः ॥ ४४-७० ॥
अन्येपि स्यन्दनवरा मेघगम्भीरनिःस्वनाः ।
मौक्तिकाख्ये वने दिव्ये राजन्ते राजिमण्डलैः ॥ ४४-७१ ॥
महासौधाङ्गणभ्राजन्मण्डपस्यापसव्यतः [मण्डपस्यास्य सव्यतः इ० पा० ।] ।
रथाः षोडश तिष्ठन्ति हयशालासु ते हयाः ॥ ४४-७२ ॥
विमानान्यपि दिव्यानि व्यायतानि निजेच्छया ।
विचित्रशयनस्थानसभावाटीवृतानि च ॥ ४४-७३ ॥
मुक्तावितानशोभानि मणिस्तम्भोज्ज्वलानि च ।
कोटिचन्द्रप्रभास्पर्द्धिरत्नचित्राङ्गणानि च ॥ ४४-७४ ॥
रत्नस्तम्भावलिभ्राजत्पुत्रिकाहस्तकल्पितैः ।
मणिभिर्भान्ति वेश्मानि प्रदीपावलिभिर्यथा ॥ ४४-७५ ॥
अष्टादशसहस्राणि विमानप्रवराणि हि ।
तेष्वप्यष्टादशैवेह वरीयांसि द्युमन्ति च ॥ ४४-७६ ॥
उन्मादनं सुधास्यन्दि चन्द्रकं शतचन्द्रकम् ।
तुङ्गभद्रं मनोयानं महानीलमुदञ्चनम् ॥ ४४-७७ ॥
वज्रकूटं कलासारं चारुचन्द्रं प्रभारुणम् ।
हेमकक्षं प्रभापूरं पुष्पगन्धमनाविलम् ॥ ४४-७८ ॥
चित्रध्वजं [चित्रकूट इ० पा० ।] वज्रकूटमेवमष्टादश स्मृताः ।
स्थाप्यन्ते शिविकाख्या या विमानश्रेष्ठभूमिषु ॥ ४४-७९ ॥
चिदानन्दानन्दभूम्योरेवमाप्लाव्य निम्नगा ।
प्रकाशानन्दसन्धिस्थसरस्यां विशते हि सा ॥ ४४-८० ॥
सरसः पुनरुद्भूय प्रकाशाभिमुखं गता ।
शतयोजनमानेन ततः पश्चिमवाहिनी ॥ ४४-८१ ॥
ज्ञानभूमिमथाप्लाव्य प्रयाता भुक्तिभूमिकाम् ।
प्रेमभूमिं ततः प्लाव्य प्रविष्टा पश्चिमार्णवम् ॥ ४४-८२ ॥
आनन्दभुक्त्योरन्तराले महामाणिक्यपर्वतः ।
बलार्ककोटिरुचिर उच्छ्राये शतयोजनः ॥ ४४-८३ ॥
यन्नितम्बभवा नद्यश्चतस्रो यमुनां गताः ।
प्रविशन्ति सुधासिन्धुं सुषुम्णा सिरसा सिता ॥ ४४-८४ ॥
निम्लोचा नामतः ख्याताः सर्वाः पीयूषवाहिनीः ।
कदाचित् क्रीडते तत्र निर्झरध्वनिनादिते ॥ ४४-८५ ॥
सखीसहस्रसङ्कीर्णविमानवरमाश्रितः ।
गिरिद्रोणीषु रम्यासु भगवान्पुरुषोत्तमः ॥ ४४-८६ ॥
एवं चानेकलीलाभी रसरूपाभिरन्वहम् ।
क्रीडते हि रसः साक्षात् कृष्णः परमपूरुषः ॥ ४४-८७ ॥
एतत्ते सर्वमाख्यातमनापृष्टमपि प्रिये ।
स्मृत्यवस्थोदये कृष्णस्त्रीणामेतद्धितं यतः ॥ ४४-८८ ॥
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे चतुश्चत्वारिंशं पटलम् ॥ ४४-४४ ॥