४३

अथ त्रिचत्वारिंशं पटलम्

शिव उवाच

नीलोद्यानेऽपि देवेशि कदाचित्पुरुषोत्तमः ।
सखीसहस्रैरागत्य क्रीडते स्वामिनीमुखैः ॥ ४३-१ ॥

अखण्डमाणिक्यशिलाकल्पिता नीलभूमिका ।
अन्तरान्तरितामुक्तावज्रवैदूर्यविद्रुमैः ॥ ४३-२ ॥

यत्र वाप्यः सुधापूर्णाः काञ्चनोत्पलमालिनः [मालिनी इ० पा० ।] ।
प्रवालपुष्पाभरणा लतोल्लासितमण्डपाः ॥ ४३-३ ॥

उपर्युपरिविन्यस्तभूमिस्थपरिचारिकाः ।
वीणामृदङ्गघोषेण घोषयन्त्यो वनस्थलीम् ॥ ४३-४ ॥

रुचिरांशुतडिद्दीप्तरत्नभूषणभूषिताः [चीरांशुतडिदुहीप्त इ० पा० ।] ।
नानारसकलाभिज्ञा यशो गायन्ति संहताः ॥ ४३-५ ॥

चतुर्विंशतिसाहस्रं तत्स्थानपरिचारिकाः ।
द्विपङ्क्तया परितस्तासां मन्दिराण्युज्वलन्ति च ॥ ४३-६ ॥

तन्मध्यभूमौ देवेशि क्रीडासौधमनुत्तमम् ।
कोटिचन्द्रप्रभापुञ्जधिक्कारिमणिकल्पितम् ॥ ४३-७ ॥

चतुर्दिक्षु लसत्स्वर्णस्तम्भराजिर्विराजितम् ।
प्रतिस्तम्भं प्रविन्यस्तपुत्रिकाभिरलङ्कृतम् ॥ ४३-८ ॥

मुक्ताप्रवालरचितं कपाटद्वारतोरणम् ।
हंसपारावतशुकैर्भित्तिशङ्कुकृतास्पदैः ॥ ४३-९ ॥

अन्योऽन्यं वादिभिरिव क्षिप्ता वाचो जिगीषया ।
मनः श्रोत्रहरा यत्रानन्दयन्ति सखीगणान् ॥ ४३-१० ॥

सौधाङ्गणचतुर्दिक्षु कुट्टिमानि बृहन्ति च ।
मण्डपाट्टालयुक्तानि मणिस्तम्भशतानि च ॥ ४३-११ ॥

दीर्घिकास्तेषु दिव्यन्ति सृजन्त्यः सलिलोन्नतिम् ।
कल्पद्रुकुसुमामोदसुवासितजलाः शिवाः ॥ ४३-१२ ॥

नर्त्तक्यो यत्र नृत्यन्तिं नाट्यविद्याविशारदाः ।
यन्नूपुररणत्काराः श्रूयन्ते कुञ्जभूमिषु ॥ ४३-१३ ॥

कुट्टिमनिकटारूढाश्चत्वारो जम्बुपादपाः [चतुर्दशश्लोकोऽयं कुट्टिमनिकटनिरूढाश्चत्वारो जम्बपादपप्रवराः । शाखाशतविचिन्तयन्तः कितव इवेह काननस्योच्चैः ॥ ४३-१४ ॥ ४३-इत्थमार्याछन्दसोपनिबद्ध प्राचीन पुस्तकेषूपलभ्यते । ] ।
शाखायां शतविस्ताराः काननस्येव केतवः ॥ ४३-१४ ॥

शाखाबद्धसुवर्णशृङ्खललसद्दोलाधिरूढाङ्गना ।
हस्ताहस्तमृदङ्गधीरनिनदैरानन्दयन्त्यः शिखीन् ।
विद्युत्पुञ्जनिभांशुकांशुपरिघानापादयन्त्यश्चलान्
यातायातविहारविभ्रमलसत्स्मेराननाक्षिभृतः ॥ ४३-१५ ॥

इन्द्रनीलमणिभ्राजत्प्राकारपरिवेष्टिते ।
नीलोद्याने महारम्ये क्रीडते पुरुषोत्तमः ॥ ४३-१६ ॥

यमुनाभिमुखे यस्य महाद्वारं विराजते ।
चन्द्रकान्तशिलाकॢप्तकपाटं रत्नतोरणम् ॥ ४३-१७ ॥

द्वारस्य दक्षिणे वामे काञ्चनौ कुटिमौ समौ ।
चतुर्द्वारमणिस्तम्भवज्रीकल्पितमण्डपौ ॥ ४३-१८ ॥

ततः सोपानमार्गेण गन्तव्या यमुना नदी ।
सोपानानि सहस्रे द्वे शते च दशोत्तरे ॥ ४३-१९ ॥

अस्मिन् सोपानमार्गेऽपि वामदक्षिणयोः स्थिताः ।
रत्नमण्डपशोभाढ्याः कुट्टिमाः सन्त्यनेकशः ॥ ४३-२० ॥

कदाचिज्जलखेलान्ते तिष्ठन्त्यत्र सखीगणाः ।
चतुरस्रा विशालास्ति तत्रोचेर्मणिवेदिका ॥ ४३-२१ ॥

वेदिकायां विशालायां कुट्टिमो मणिभूषितः ।
स्वर्णस्तम्भचतुर्द्वारो मुक्तामण्डितमण्डपः ॥ ४३-२२ ॥

वेदिकायां समुद्भूते द्वे दले स्वर्णपत्रके ।
पार्श्वयोः पद्मरागीयपुष्पप्रचयभूषिते ॥ ४३-२३ ॥

मण्डपोपरि तच्छाखाः प्रसृताः कुसुमाकुलाः ।
काश्चन प्रसृतास्तस्य मध्यदेशे सुशोभने ॥ ४३-२४ ॥

तत्र सिंहासन देवि कोटिचन्द्रांशुनिर्मलम् ।
इन्दिरासुन्दरीभ्यां तु पार्श्वयोः समधिष्ठितम् ॥ ४३-२५ ॥

कदाचित्तत्र भगवान् कृष्णः कमललोचनः ।
तिष्ठते क्रीडते ताभिः सखीभिः कृतकौतुकः ॥ ४३-२६ ॥

स्मरेदथो वनं दिव्यं पुष्पदन्ताख्यमद्भुतम् ।
वैदूर्यवीरुधां यत्र राजयो भान्ति पेशलाः ॥ ४३-२७ ॥

लतापरिमलोद्गारलोभमुग्धीकृताशयाः ।
इतस्ततोनुधावन्ति भृङ्गा मायार्दिता यथा ॥ ४३-२८ ॥

पुष्पदन्ताभिधो यत्र दाडिमीतरुरुल्लसन् ।
माणिक्यकुसुमश्रीको वैदूर्य [अत्र सर्वत्र वैडूर्य शब्द एवोपलभ्यते नतु वैदूर्य इति ।] रुचिरच्छदः ॥ ४३-२९ ॥

विशुद्धस्फाटिकमयी यत्र भूमिर्विराजते ।
अरजस्कामृतस्यन्दा प्रतिबिम्बतभूरुहा ॥ ४३-३० ॥

वैदूर्यपत्रद्युतिपुञ्जपूरितं माणिक्यपुष्पप्रभयानुरञ्जितम् ।
वनं विशन्त्यो हि मयूरवल्लभा नृत्यन्ति विद्युद्धनशङ्किताशयाः ॥ ४३-३१ ॥

विदीर्णसद्दाडिमबीजसंहतीर्निरीक्षमाणाः प्रबलानुरागिणीः ।
स्वदन्तसादृश्यमुपेति वा न वाभ्युपेतुमादर्शधरा भवन्ति ॥ ४३-३२ ॥

योजनायुतमूर्द्धन्यः शाखाक्रान्तमहीतलः [योजनायतमूर्धन्यशाखा क्रान्तमहीतलः इ० पा० ।] ।
फलपल्लवपुष्पश्रीभारभुग्नमहाभुजः ॥ ४३-३३ ॥

अनेकपक्षिसङ्घातगीतश्रवणनन्दनः ।
यदधः कुट्टिमवरो राजते स्वर्णनिर्मितः ॥ ४३-३४ ॥

प्रवालस्तम्भशोभाढ्यरत्नमण्डपमण्डितः ।
पुष्पदन्तः सखीवृन्दावतंसीकृतपुष्पकः ॥ ४३-३५ ॥

आधिपत्ये वनस्यास्य नियुक्त इव राजते ।
स्वर्णकुट्टिममध्ये तु वैदूर्यमणिनिर्मितम् ॥ ४३-३६ ॥

महासिंहासनं देवि यच्च कृष्णोऽधितिष्ठति ।
नीलाम्बर इवाभाति शुभ्रवस्त्रधरोऽपि यत् ॥ ४३-३७ ॥

सर्वाः सख्योऽपि वैदूर्यसिंहासनपरम्पराम् ।
जुषाणाः परितो भान्ति नीलाम्बरधरा इव ॥ ४३-३८ ॥

अतीव भूषाम्बरवैपरीत्यं निरीक्ष्यमाणाः प्रहसन्ति सख्यः ।
स्वानां प्रियस्यापि परस्परं ताः प्रदत्ततालीकरपङ्कजेषु ॥ ४३-३९ ॥

चतुर्विंशतिसाहस्रं तत्स्थानपरिचारिकाः ।
परिचर्यापरास्तत्र वसन्ते कृष्णयोषिताम् ॥ ४३-४० ॥

दिव्यपुष्पाम्बराकल्पैर्दिव्यगन्धानुलेपनैः ।
दिव्यानन्दरसैस्तत्र सेवन्ते परिचारिकाः ॥ ४३-४१ ॥

नानाक्रीडारसासक्ता यदा सख्यः प्रियेण हि ।
तदा काचिन्मृदङ्गेण काचित्तन्त्रीरवेण च ॥ ४३-४२ ॥

काश्चिन्मधुरवीणाभिर्नृत्यगीतादिभिश्च काः ।
परितः स्वगृहारूढा दूरतस्तोषयन्ति ताः ॥ ४३-४३ ॥

पूर्वोक्तेन प्रकारेण तासां सौधानि पार्वति ।
द्विपङ्क्त्यापरितो भान्ति वीथीयुक्तानि मध्यतः ॥ ४३-४४ ॥

वैदूर्यरत्नविलसत्प्राकारपरिवेष्टिते ।
पुष्पदन्तमहोद्याने क्रीडते पुरुषोत्तमः ॥ ४३-४५ ॥

यमुनाभिमुखे यस्य राजते गोपुरं महत् ।
पद्मरागमणिकॢप्तकपाटद्वारतोरणम् ॥ ४३-४६ ॥

ततः सोपानमार्गेण गन्तव्या यमुना नदी ।
सोपानानि च तावन्ति सङ्ख्यावर्णविभेदतः ॥ ४३-४७ ॥

द्वारस्य दक्षिणे वामे कुट्टिमौ सुमनोहरौ ।
स्तम्भमण्डपसंयुक्तौ मुक्तामाणिक्यतोरणौ ॥ ४३-४८ ॥

जलक्रीडावसाने तु कृष्णः स्वसखीवृतः ।
मुहूर्त्तं कुट्टिमे स्थित्वा ततो याति निजालयम् ॥ ४३-४९ ॥

इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे त्रिचत्वारिंशं पटलम् ॥ ४३-४३ ॥