अथ द्विचत्वारिंशं पटलम्
अतः परं प्रवक्ष्यामि प्रस्तुतं शृणु सुन्दरि ।
यच्छ्रुत्वा विविधा लीला हृद्यारूढा भवेत्प्रिये ॥ ४२-१ ॥
सन्तोषानन्दभूम्योस्तु सन्धौ पुष्पाद्रिरुत्तमः ।
योजनायुतमानेन नानाश्चर्यमयो महान् ॥ ४२-२ ॥
नानाधातुमयः श्रीमान् नानामणिविभूषितः ।
त्रीण्यस्याद्रिप्रधानस्य शिखराणि द्युमन्ति च ॥ ४२-३ ॥
पावमानं महारम्यं विभ्राजमिति तद्भिदा ।
पावमाने तु शिखरे नित्यं सङ्क्रीडते हरिः ॥ ४२-४ ॥
नित्यं सङ्क्रीडतोरेव स्वामिनीकृष्णयोरपि ।
श्रमघर्मजलस्रावो महानासीच्च देहतः ॥ ४२-५ ॥
तद्वारिपूर्णं यत्रास्ते सरः परमसुन्दरम् ।
शतयोजनमानेन रत्नसोपानभास्वरम् ॥ ४२-६ ॥
भ्रमद्भ्रमरसंशोभि सरोजवनसङ्कुलम् ।
पक्षिणां स्वर्णपक्षाणां कुलैर्मण्डितसैकतम् ॥ ४२-७ ॥
तस्मात्प्रवृत्ता सरसो नाम्ना सा यमुना नदी ।
अगाधतोया गम्भीरा बहुलावर्तभीषणा ॥ ४२-८ ॥
पावमानात्पतन्ती सा नदी विरजमस्तके ।
शतैकयोजनोत्तुङ्गे धाराध्वनितगह्वरे ॥ ४२-९ ॥
सन्तोषभूमिकां प्लाव्य किञ्चिद्वैराग्यभूमिकाम् ।
चिदानन्दमयीं भूमिं किञ्चिदानन्दभूमिकाम् ॥ ४२-१० ॥
रतिभूमिं प्लावयन्ती याति भूमिं प्रकाशिकाम् ।
प्रकाशानन्दभूम्योऽस्तु ह्यन्तराले महासरः ॥ ४२-११ ॥
सपादलक्षयोजनमान्नेन परिविस्तृतम् ।
समुद्र इव गम्भीरं रत्नसोपानसुन्दरम् ॥ ४२-१२ ॥
पूरयन्ती पुनस्तस्मान्निर्याति ज्ञानभूमिकाम् ।
भुक्तिभूमिं समाप्लाव्य याति प्रेमात्मिकां भुवम् ॥ ४२-१३ ॥
प्रेमात्मिकां भुवं प्लाव्य सुधाब्धौ विलयङ्गता ।
रसस्य रममाणस्य दलाभ्यां गिरिनन्दिनि ॥ ४२-१४ ॥
तत्स्यन्दमात्रां यमुनां चिन्तयेत्तदभेदतः ।
यमुनानिलसंसर्गसमुत्थानन्दसागरः ।
कूटस्थं गणितानन्दं पूरयत्येव सन्ततम् ॥ ४२-१५ ॥
परब्रह्म रसः कृष्णः तस्यापि द्रवरूपिणीम् ।
यमुनां केन तुलयेद्रसानन्दजलात्मिकाम् ॥ ४२-१६ ॥
गोमेदखण्डे यमुनाप्रवाहो योजनात्मकः ।
तत्र पीतमिव स्वच्छं जलं पीयूषसन्निभम् ॥ ४२-१७ ॥
उभयोः कूलयोस्तस्याः कुट्टिमानि बृहन्ति च ।
नानारत्नमयस्तम्भमण्डपानि द्युमन्ति च ॥ ४२-१८ ॥
गुञ्जद्भ्रमरपुष्पालिलताकुञ्जावृतानि च ।
चतुर्लक्षाणि देवेशि [महान्त्युज्ज्वलानि च इ० पा० ।] महस्तोमोज्वलानि च ॥ ४२-१९ ॥
उपर्यधः स्थितास्तेषां पक्षिणश्चित्रपक्षकाः ।
कुञ्जसञ्चारिणः केचित् केचिन्मण्डपसंस्थिताः ॥ ४२-२० ॥
कुट्टिमान्तःस्थिताः केचिद्गायन्तो मधुरस्वराः ।
वज्रखण्डप्रवेशोऽस्यादशयोजनमानतः ॥ ४२-२१ ॥
पयः फेननिभं तत्र दृश्यते सलिलं शिवम् ।
तावानेव प्रवाहोस्यास्तटयोः कुट्टिमानि च ॥ ४२-३२ ॥
स्वर्णभक्तिविचित्राणि रत्नस्वस्तिकवन्ति च ।
चतुर्द्वाराणि सर्वाणि मुक्तातोरणवन्ति [चतुर्द्वाराणि मुक्तानां नानातोरणवन्ति व इ० पा० ।] च ॥ ४२-२३ ॥
मणिमण्डपयुक्तानि स्वर्णस्तम्भोज्वलानि च ।
वज्रमुक्ताप्रवालाढ्यविष्टरास्तरितानि च ॥ ४२-२४ ॥
रसानन्दात्मनां यत्र पक्षिणां कलकूजितैः ।
श्रवणानन्दसन्दोहं वर्षद्भिः सुखमीयते ॥ ४२-२५ ॥
पुष्परागमये खण्डे चिदानन्दात्मभूमिके ।
श्यामश्वेतजला भाति प्रविष्टा यमुना नदी ॥ ४२-२६ ॥
शतयोजनमानेन विंशालास्तत्प्रवहकाः ।
स्वर्णमाणिक्यसोपाना फुल्लस्वर्णाम्बुजाकुला ॥ ४२-२७ ॥
पतत्पद्मरजःपुञ्जपिञ्जरीकृतसज्जला ।
हंसकारण्डवानेककोलाहलतटोत्सवा ॥ ४२-२८ ॥
अन्तःस्थारत्नसिकताचाकचक्यलसज्ज्ला ।
एकेनोनं च [एकेन न्यूनं शतकम् इ० पा० ।] शतकं योजनानां प्रमाणतः ॥ ४२-२९ ॥
चिदानन्दमहीव्याप्ता पादेनानन्दभूमिका ।
आनन्दभूमिसञ्चारियमुनातटसीमनि ॥ ४२-३० ॥
तीर्थसप्तकमीशानि स्मरेल्लीलारसाश्रयम् ।
जलावतारमार्गाणां तटसीमवनानि [तटसीम्नि इ० पा० ।] तु ॥ ४२-३१ ॥
वनं चान्द्रमसं नाम द्वितीयं नीलकाननम् ।
तृतीयं पुष्पदन्ताख्यं तूर्यमानन्दकाननम् ॥ ४२-३२ ॥
पञ्चमं हेमकूटाख्यं षष्ठं तत्तारकूटकम् ।
गारुडं नाम विख्यातं सप्तमं वनमुच्यते ॥ ४२-३३ ॥
वने चान्द्रमसे देवि नाम्ना चान्द्रमसो महान् ।
न्यग्रोधराज आभाति वैदूर्यविलसच्छदः ॥ ४२-३४ ॥
चक्षुष्मत्पद्मरागोऽथ फलस्फारप्रभाचितः ।
स्वर्णाङ्कुरजटाप्रान्तलम्बिनमौक्तिकगुच्छकः ॥ ४२-३५ ॥
दिव्यपक्षिकृतावासशाखान्दोलनविभ्रमैः ।
दर्शनादन्तरात्मानं चमत्कुर्वन्नटो यथा ॥ ४२-३६ ॥
फलापह्नुतचञ्चुश्रीपत्रापह्नुतपत्रकाः ।
महाराजेति कृष्णेति वाचा च दृष्टव्यक्तिकाः ॥ ४२-३७ ॥
माध्वीकश्रवणां दिव्यां नानाकलपदाञ्चिताम् ।
गिरं च कीरनिवहाः संसृजन्ति कुतूहलम् ॥ ४२-३८ ॥
यस्याधस्तात् समाभाति शशिकान्तमणिस्थली ।
अखण्डचन्द्रकान्तोद्यत्प्रभापुञ्जसुपेशला ॥ ४२-३९ ॥
यद्दीर्घविटपालम्बमानान्दोलनविभ्रमाः ।
सख्यः परस्परं यस्यां प्रतिबिम्बभुजो भुवि ॥ ४२-४० ॥
यदालवालवद्भाति माणिक्यवरकुट्टिमः ।
चतुर्भिः काञ्चनस्तम्भैर्मुक्तावैदूर्यभूषितैः ॥ ४२-४१ ॥
उपर्यर्कमणिकॢप्तमण्डपच्छाययाविलः [छाययान्वितः इ० पा० ।] ।
विष्वग्विततविटपाक्रान्तप्रान्तमहीतलः ॥ ४२-४२ ॥
न्यग्रोधमूलसंसूतकल्पद्रुमलतामधः [संसृत इ० पा० ।] ।
दिव्यपल्लवपुष्पाढ्यो रत्नसिंहासनोत्तमे [पुष्पाढ्याम् इ० पा० ।] ॥ ४२-४३ ॥
क्रीडार्थमागतस्तत्र तिष्ठते पुरुषोत्तमः ।
योजनायुतमाणिक्यकुट्टिमस्थाः सखीगणाः ॥ ४२-४४ ॥
हसन्तो हासयन्तश्च दिव्यक्रीडाकुतूहलैः ।
मञ्जुस्वरेण गायन्ति प्रियस्यैव यशोऽमलम् ॥ ४२-४५ ॥
तिष्ठन्त्यत्र महोद्याने तत्स्थानपरिचारिकाः ।
चतुर्विंशतिर्देवेशि सहस्राणीति सङ्ख्यया ॥ ४२-४६ ॥
तासां सौधानि शुभ्राणि मणिद्वाराणि पार्वति ।
प्रवालदेहलीकानि विष्वक् न्यग्रोधमण्डलम् ॥ ४२-४७ ॥
द्विपङ्क्तिभाञ्जि रम्याणि साप्तभौमानि सुन्दरि ।
तावन्त्येव विराजन्ते वीथीयुक्तानि मध्यतः ॥ ४२-४८ ॥
अन्योन्यपङ्क्तिस्थितहर्म्यलम्बद्दोलासमारूढसखीसमूहः [सहसः ।] ।
अन्योन्यसङ्घट्टन [काकतालीकरः इ० पा० ।] पाणिपालीकरः पुनः श्लेषमुपैति गायन् ॥ ४२-४९ ॥
हेमप्राकारकलितमिदं चान्द्रमसं वनम् ।
यमुनाभिमुखे यस्य द्वारमाभाति काञ्चनम् ॥ ४२-५० ॥
द्वारापसव्यसव्यस्थौ कुट्टिमौ रत्नकाञ्चनौ ।
महाचतुःस्तम्भलसन्मण्डपाडम्बरस्पृशौ ॥ ४२-५१ ॥
ततः सोपानमार्गेण गन्तव्या यमुना नदी ।
सोपानानि सहस्रे द्वे द्वे शते च दशोत्तरे ॥ ४२-५२ ॥
पद्मरागार्कवैदूर्यप्रवालशशिगारुडैः ।
मुक्तेन्द्रनीलगोमेदपुष्पवज्रहिरण्मयैः ॥ ४२-५३ ॥
पुनः पुनः क्रमादेतैः सोपानैः प्रान्तमण्डपैः ।
अधोघः कल्पितैः सम्यक् गम्यते यमुना नदी ॥ ४२-५४ ॥
मणिकाञ्चनसन्नद्धा यत्र नौकाः सुपेशलाः ।
वायूद्धूतध्वजपटाः विभ्रमन्ते यतस्ततः ॥ ४२-५५ ॥
अनेकपोतसंस्थासु सखीषु पुरुषोत्तमः ।
मध्यपोतस्थितः सम्यक् राजते तिसृभिर्युतः ॥ ४२-५६ ॥
स्वामिनी वामभागस्था दाडिमीपुष्पभांशुकाः ।
इन्दिरा सुन्दरी चोभे पुरः सव्यापसव्ययोः ॥ ४२-५७ ॥
इन्दिरा कृष्णपक्षीया सुन्दरी स्वामिनी परा ।
हास्य केलिविहारेषु विवादेषु रसात्मसु ॥ ४२-५८ ॥
तेनेयमिन्दिरा साक्षात्स्वामिनीप्राणवल्लभा ।
सुन्दरी चापि कृष्णस्य प्राणाधिवल्लभा हि सा ॥ ४२-५९ ॥
एवं क्रीडारसानन्दसखीभिः पुरुषोत्तमः ।
वने चान्द्रमसे कृष्णः सेवते च यदृच्छया ॥ ४२-६० ॥
इति माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे द्विचत्वारिंशं पटलम् ॥ ४२-४२ ॥