अथ एकचत्वारिंशं पटलम्
पार्वत्त्युवाच
कलावती यदा कान्तदूती प्राप्ता प्रियान्तिकम् ।
ततः किमभवत्तत्र तन्मे ब्रूहि महेश्वर ॥ ४१-१ ॥
शिव उवाच
शृणु देवेशि वक्ष्यामि कथां दिव्यां रसाश्रयाम् ।
यस्याः श्रवणजानन्दो न मुक्तावपि विद्यते ॥ ४१-२ ॥
प्रहृष्टवदनाम्भोजां दृष्ट्वा दूतीं कलावतीम् ।
स्मयन्निव प्रियः प्राह शृण्वतीनां च योषिताम् ॥ ४१-३ ॥
कलावति कलाभिज्ञे किमुक्तं प्रियया तया ।
पिपासोरिव पीयूषं तद्वचस्तृप्तये मम ॥ ४१-४ ॥
तत्सुधानिधिपीयूषप्रणाली त्वं कलावति ।
सखीलतासमाश्लिष्टकल्पद्रुमं निषिञ्च माम् ॥ ४१-५ ॥
कलावत्युवाच
प्राणनाथ प्रिया तेऽद्य मानमास्थाय संस्थिता ।
गत्वा मया बहुविधैर्वाक्यैरुद्बोधिता मुहुः ॥ ४१-६ ॥
मानाद्रिशिखरारूढा मां कथञ्चिदुवाच ह ।
कलावति प्रिये मानो न कदापि मया कृतः ॥ ४१-७ ॥
सुन्दरीगुणमाहात्म्यश्रवणं मे विषादकृत् ।
मनुते चेत्प्रियस्त्वेकां सुन्दरीं गुणगह्वराम् ॥ ४१-८ ॥
अस्माभिर्गुणहीनाभिः कार्यं तस्य न विद्यते ।
इत्यादिविविधैर्वाक्यैर्वदन्ती सा मनस्विनी ॥ ४१-९ ॥
युक्तियुक्तैश्च वचनैस्तोषिता सा मयापि हि ।
त्यक्तरोषा प्रियं च त्वां हस्तग्राहमपेक्षते ॥ ४१-१० ॥
स्त्रीणां जातिस्वभावोऽयं तस्मात्कुरु तथा प्रभो ।
कलावतीवचस्तथ्यं मन्यमानः परात्परः ।
आत्मारामोऽपि तत्प्रीत्यै आजगाम तदन्तिकम् ॥ ४१-११ ॥
श्रीकृष्ण उवाच
नोचितस्ते प्रिये साध्वि मानो मयि निरागसि ।
त्वदात्मकत्वात्सख्यो मे सर्वाः प्रियतमा अपि ॥ ४१-१२ ॥
लहर्य्यः सलिलस्येव यथाग्नेर्विस्फुलिङ्गकाः ।
पृथक् न सन्ति ते तद्वत्सख्यो भिन्ना न ते क्वचित् ॥ ४१-१३ ॥
तासु सर्वासु यत्प्रेम मदीयं परिवर्त्तते ।
अनेकधापि विलसत् त्वय्येव पर्यवस्यति ॥ ४१-१४ ॥
इति सत्येन वचसा प्रार्थयामि मुहुर्मुहुः ।
स्वसङ्केतं समायाहीत्युक्त्त्वा जग्राह तत्करम् ॥ ४१-१५ ॥
गृहीते स्वकरे पत्या मावपूरितमानसा ।
तीर्यक्कटाक्षविशिखं सन्दधाना स्मिताधरा ॥ ४१-१६ ॥
चुम्बितालिङ्गिता प्रेम्णा प्रियेणोत्थाप्य सत्वरम् ।
प्रियांसारोपितभुजा स्वीयांसारूढतद्भुजा ॥ ४१-१७ ॥
स्वसङ्केतं समागत्य यथापूर्वं निषेदतुः ।
मुद्रमापुः परां सख्यो दृष्ट्वा तं प्रियया युतम् ॥ ४१-१८ ॥
हासक्रीडावसाने तां प्रियः प्राह हसन्निव ।
प्रिये विज्ञाप्तुमिच्छामि यदि ते श्रवणे स्पृहा ॥ ४१-१९ ॥
अवाच्यं तत्तु जानीहि तथापि कथयामि ते ।
कदाचिन्मोहजलधौ यदा मग्ना भविष्यथ ॥ ४१-२० ॥
तदेयं सुन्दरी साक्षाद्भवतीरुद्धरिष्यति ।
यदा यदा महामोहजलधौ परिमज्जथ ।
तदा तदोद्धरित्रीयं भवतीर्नात्र संशयः ॥ ४१-२१ ॥
यदेनामवलम्ब्यैव सख्यः सर्वा भ्रमार्णवम् ।
तरिष्यन्तीति विज्ञातवतो मे सुन्दरी प्रिया ॥ ४१-२२ ॥
सुन्दर्य्यामधिकः [अधिकं प्रेम इ० पा० ।] प्रेम हेतुस्ते विनिरूपितः ।
इति प्रियवचः श्लक्ष्णं श्रुत्वा सर्वा विसिस्मिरे ॥ ४१-२३ ॥
तां सर्वाः पूजयामासुः स्वामिन्याद्याश्च सुन्दरी ।
मनोज्ञभाषणपरैर्वचोभिः कुसुमैरिव ॥ ४१-२४ ॥
स्वभावशीतलै रम्यैः स्वभावैश्चन्दनैरिव ।
प्रसन्नाग्निविनिर्दग्धहृत्कालर्ष्यश्च धपकः ॥ ४१-२५ ॥
मानान्धतमसध्वंसप्रसादैरिव दीपकैः ।
ततो बहुतरे काले यदा जाता सुमङ्गला ॥ ४१-२६ ॥
[अक्षरान्तःस्थिताक्षरातीतप्रतिबिम्बभूतकेवलधामविहारिणी-नामन्तरावृणोत्येषा सुमङ्गला अक्षरहृदाकाशे तत्सत्त्वात् । ब्रह्मानन्दविहारिणीदर्शनलालसमानसस्याक्षरब्रह्मणोऽपि निजधामान्तर्दुष्प्रवेशत्वात् कुत एतस्यास्तत्र प्रवृत्तिरिति ब्रह्मानन्दरसज्ञचरणाः किलाज्ञापयन्ति ।] तदाविष्टः सखीवर्गो ययाचे प्रियमीप्सितम् ।
दुःखाति दुःखमिति वः प्रार्थितं चेति बोधिताः ।
न शिक्षावचनं चक्रुरिच्छाशक्तिविमोहिताः ॥ ४१-२७ ॥
वियोगदलमाश्रित्य यदा क्रीडति वै रसः ।
तद्रसानुकूलगतिर्विमोहयति सुमङ्गला [तत्कालानुकूलगतिर्विमोहयति सुमङ्गला इ० पा० ।] ॥ ४१-२८ ॥
तदा प्रियः सखीः प्राह शृणुध्वं मम भाषितम् ।
निवार्यमाणा हि मया दुरन्ताच्च मनोरथात् ॥ ४१-२९ ॥
न निवृताश्च भो सख्यो यूयमाग्रहतत्पराः [आग्रहमेदुराः इ० पा० ।] ।
नानादुःखमयीं बाललीलां द्रक्ष्यथ मा चिरम् ॥ ४१-३० ॥
विस्मरिष्यथ मां तत्र किमन्यदधिकं ब्रुवे ।
तथापि सुन्दरी ह्येषा तारयिष्यति तत्तमः ॥ ४१-३१ ॥
मता प्रबोधिता सम्यक् कथयित्वा विनिर्णयम् ।
इति प्रियवचः श्रुत्वा सर्वाः सख्यो मुदान्विताः ॥ ४१-३२ ॥
प्रसन्नानन्दजलधौ निमग्नाः शक्तिमोहिताः ।
फले विलम्बमाज्ञाय पुनस्ताः प्रार्थनोत्सुकाः ।
[यदास्माकम्प्रियं चेच्छ तदा पूरय चेप्सितम् इत्यपि पा० ।] यदा तदा प्रियश्चक्रे तन्मनोरथपूरणम् ॥ ४१-३३ ॥
इति माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे एकचत्वारिंशं पटलम् ॥ ४१-४१ ॥