अथ चत्वारिंशं पटलम्
स्वामिन्युवाच
कलावति महाप्राज्ञे यत्त्वयोक्तं प्रियाश्रयम् ।
विरुद्धमिव मे भाति विरुद्धैलक्षणैः किल ॥ ४०-१ ॥
एकपत्नीव्रतधरोऽनुकूल इति कीर्त्तितः ।
दक्षिणो बहुपत्नीकः सर्वास्वविषमः स्मृतः ॥ ४०-२ ॥
एकस्मिन्नायके साध्वि कथमेतद्द्वयं भवेत् ।
अश्रद्धेयमिवाभाति यदि जानासि तद्वद ॥ ४०-३ ॥
कलावत्युवाच
शृणु स्वामिनि प्रवक्ष्यामि तव प्रश्नोत्तर शुभम् ।
यस्य श्रवणमात्रेण स्वास्थ्यं तव भविष्यति ॥ ४०-४ ॥
एकदा पुष्परागाद्रौ क्रीडनाय गतः प्रियः ।
आरुह्य शिविकां दिव्यां सुवर्णकलशोज्ज्वलाम् ॥ ४०-५ ॥
उपर्युपरिविन्यस्तनानातोरणमण्डिताम् ।
हंसपारावतशुकपिकसारसनादिताम् ॥ ४०-६ ॥
नवरत्नविचित्राभां कामगां च मनोजवाम् ।
शतयोजनविस्तीर्णां नानाक्रीडारसालयाम् ॥ ४०-७ ॥
काञ्चने मध्यकलशे विन्यस्ते चोपरिस्थिते ।
कोटिचन्द्रप्रभागौररत्नेनोल्लासिताम्बराम् ॥ ४०-८ ॥
तस्मिन्विमानप्रवरे संस्थितः पुरुषोत्तमः ।
द्विषट्सखीसहस्रेषु मध्ये चन्द्र इवोडुषु । ९ ॥
मनोनुसारिगमनं विमानं कृष्णयोषिताम् ।
तीर्यगूर्ध्वमधश्चापि पुष्पाद्रिशिखरेऽपतत् ॥ ४०-१० ॥
तत्र [तत्र यश्च नदो नाम्ना नदः पीयूषपूरितः इ० पा० ।] चन्द्रप्रभो नाम्ना हृदः पीयूषपूरितः ।
रचितस्वर्णसोपानः स्वर्णपङ्कजभूषितः ॥ ४०-११ ॥
अस्ति दक्षिणतस्तस्य सरः परमसुन्दरम् ।
नाम्ना पञ्चनदं ख्यातं शतयोजनविस्तरम् ॥ ४०-१२ ॥
अधोधः कल्पितैः सप्तशतैर्मणिचितान्तरैः ।
जातरूपमयैर्दिव्यसोपानैर्बद्धमायतैः ॥ ४०-१३ ॥
वैदूर्यपद्मिनीखण्डैः पद्मरागसरोरुहैः ।
मराललीलापतनैर्मण्डितं तत्र तत्र ह ॥ ४०-१४ ॥
तत्र या याः कृताः क्रिडा जलस्थलविभेदतः ।
त्वया स्वपतिना साकं तास्ताः स्मर भामिनि ॥ ४०-१५ ॥
प्रियः सरसि सर्वाभिः सखीभिः परिवेष्टितः ।
समन्तान्निपतद्वर्षैराहतो यत्र विद्रुतः ॥ ४०-१६ ॥
आरुरोह ततस्तूर्णं सरोविश्रान्तिमण्डपम् ।
प्रतिजग्मुः प्रियाः सर्वास्तत्रोत्तीर्णसरोवराः ॥ ४०-१७ ॥
तावत्पपात सहसा पुनरेव सरोजले ।
उत्तीर्णगम्भीरजलः कुत्रचिद्विजनस्थले ॥ ४०-१८ ॥
अनेककुञ्जगहने प्रच्छन्नोऽभवदेकलः ।
मृगयन्त्यः प्रियाः सर्वा विचेरुस्तत्र तत्र च ॥ ४०-१९ ॥
अहं विचिन्वती तत्र गता गहनधामनि ।
विलीय संस्थितं कृष्णमद्राक्षमतिसुन्दरम् ॥ ४०-२० ॥
तत्र मामागतां सुभ्रु विलोक्य प्रहसन् प्रियः ।
नासाग्राहिततर्जन्या कौतुकी सन्न्यवारयत् ॥ ४०-२१ ॥
प्रिय उवाच
कलावति कलाभिज्ञे मां विचिन्वन्ति योषितः ।
न पश्यन्ति परं चात्र विभ्रमन्ते यतस्ततः ॥ ४०-२२ ॥
त्वमप्यत्रैव सन्तिष्ठ मया सह कलावति ।
त्वया सह करिष्यामि लीलाखेल रहः स्थितः ॥ ४०-२३ ॥
इत्युक्ताहं स्थिता तत्र बहुमानेन मानिता ।
तत्र नानाविधाः क्रिडाः प्रियश्चक्रे मया सह ॥ ४०-२४ ॥
तदा मया कृतः प्रश्नः प्रियमुद्दिश्य भामिनि ।
नायकाः सन्ति चत्वारस्तेषु वा को भवानिति ॥ ४०-२५ ॥
ततः प्रश्नोत्तरं प्राह कृष्णः कमललोचनः ।
तदहं ते प्रवक्ष्यामि यथाश्रुतमनिन्दिते ॥ ४०-२६ ॥
श्रीकृष्ण उवाच
अनुकूलो दक्षिणश्च द्वैविध्यं मयि वर्त्तते ।
तदन्यत्र विरुद्धं स्यादविरुद्धं मयि स्फुटम् ॥ ४०-२७ ॥
रसोऽहं मूर्त्तिमान् साक्षात् घनीभूतः कलावति ।
तस्याद्यभागं मां विद्धि द्वितीयं स्वामिनीं प्रियाम् [पराम् इ० पा० ।] ॥ ४०-२८ ॥
नावयोर्विद्यते भेदो भोक्तृभोग्यस्वरूपयोः ।
मदात्मा स्वामिनी प्रोक्ता स्वामिन्यात्माहमेव च ॥ ४०-२९ ॥
मदन्यः पुरुषो नास्ति न च स्त्री स्वामिनीपरा ।
नैकाकी रमते यस्मात् द्विधाभूतो रसस्ततः ॥ ४०-३० ॥
पुंस्त्रीरूपविभागाभ्यां रसोऽहं विलसाम्यहम् ।
ब्रह्मानन्दमयीं साक्षान्न लक्ष्मीमपि संस्पृशेत् ॥ ४०-३१ ॥
तेनाहमनुकूलोऽस्मि नायकः कमलेक्षणे ।
यथाहं दक्षिणश्चास्मि तत्प्रकारं वदामि ते ॥ ४०-३२ ॥
यथानर्घस्य रत्नस्य परितः किरणावलिः ।
प्रसर्पति न सा भिन्ना मणितस्तु विचारतः ॥ ४०-३३ ॥
स्वामिन्या एव ताः सख्यः कलारूपाः कलावति ।
न स्नामिन्या विभेदोस्ति सखीनामणुमात्रतः ॥ ४०-३४ ॥
अत एवासु सर्वासु द्रवीभूतो वसाम्यहम् ।
बहिश्चापि घनीभूतस्ताभिः क्रीडारतोस्म्यहम् ॥ ४०-३५ ॥
क्रीडमानोऽपि सर्वाभिः स्वामिनीप्रेमविह्वलः ।
अतोऽहं दक्षिणश्चास्मि नायको हि कलावति ॥ ४०-३६ ॥
अत्रापि नैव विहतमानुकूल्यं विचारतः ।
भेदद्वयोपचारो हि कदाचिन्मयि वर्तते ॥ ४०-३७ ॥
इति मानिनि यत्पृष्टं त्वयैतत्कथितं मया ।
प्रियेण कथितं साक्षात्स्वमुखेन यथा तथा ॥ ४०-३८ ॥
प्रश्नोत्तरावसाने च विचिन्वन्त्यश्च ताः प्रियाः ।
घनकुञ्जान्तरे लीनं दृष्ट्वाजग्मुस्त्वरान्विताः ॥ ४०-३९ ॥
ततः प्रियेण सहिता आगतास्तव सन्निधिम् ।
एतत्सर्वं तु जानासि विशेषस्तु मयोदितः ॥ ४०-४० ॥
तस्मान्मानिनि मानस्ते प्रियेण सह नोचितः ।
आनन्दोऽपि निरानन्दः प्रतिभाति विना त्वया ॥ ४०-४१ ॥
तस्मादुत्तिष्ठ तत्पार्श्वमलङ्कुरु मनस्विनि ।
त्वया विरहितं चण्डि प्रियं नो वीक्षितुं क्षमाः ॥ ४०-४२ ॥
इति पाण्डित्यचातुर्यं कलावत्या प्रयोजितम् ।
निशम्य हृष्टवदना वाक्यं चेदमुवाच ह ॥ ४०-४३ ॥
स्वामिन्युवाच
कलावति महाप्राज्ञे मानस्ते वचसा गतः ।
तथापि [भामिनीनां चेत्यपि पाठः ।] मानिनीनां च समयान् वेत्सि हृद्गतान् ॥ ४०-४४ ॥
आगच्छामि यदि स्वैरं गौरवं मेऽपगच्छति ।
तस्मात्प्रियः करे धृत्वा सुखं नयतु मामिति ॥ ४०-४५ ॥
इत्थं तया निगदिता सखी प्राप्ता प्रियान्तिकम् ।
प्रहृष्टवदनां दृष्ट्वा प्रियोऽपि मुमुदे भृशम् ॥ ४०-४६ ॥
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे चत्वारिंशं पटलम् ॥ ४०-४० ॥